Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* श्रीः *
सिद्धान्तकौमुदी - बालमनोरमा
रूपलेखन - पङ्किलेखनप्रकार प्रयोगसूचीइत्यादि-परीक्षोपयोगि-विविधपरिशिष्टविभूषिता । (पूर्वार्द्धम्) |
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE
KĀSHI SANSKRIT SERIES
136.
(Vyakarana Section, No. 17
Vaiyakarana
Siddhanta Kaumudi
WITH THE COMMENTARY
SRĪ BALAMANORAMA
OF
S'RĪ VĀSUDEVA DIKS'ITA
AND
Rupa-Lekhanaprakara & Pankti-Lekhanaprakara
BY
Vyakaraṇacharya
PANDIT GOPAL S'ASTRI NENE
Professor, Govt, Sanskrit College, Benares.
Edited with Prayoga Suchi etc.,
BY
Vyakaranacharya
PANDIT SADĀS'IVA S'ĀSTRI JOSHI Professor, S. D. Maha Vidyalaya, Benares.. (Part I)
1941
[All Rights Reserved by the Publishers ]
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Registered According to Act XXV of 1867.
PUBLISHED BY
JAYA KRISHNA DAS HARIDĀS GUPTA The Chowkhamba Sanskrit Series Office, Benares City. 1941.
Printed at the Vidya Vilas Press, Benares.
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥ काशी-संस्कृत-सीरिजपुस्तकमालायाः
व्याकरणविभागे (१७) सप्तदशं पुष्पम् । श्रीवासुदेवदीक्षितकृत-'बालमनोरमा'सहिता
वैयाकरणसिद्धान्तकौमुदी बनारसगवर्नमेण्टसंस्कृतकालेजाध्यापकव्याकरणाचार्य
नेने-गोपालशास्त्रिकृतरूपलेखन-पडिलेखनप्रकाराख्यपरिशिष्टद्वयविभूषिता
वाराणसेयस्याद्वादसंस्कृतमहाविद्यालयव्याकरणप्रधानाध्यापक-व्याकरणाचार्य
पं० जोशी-सदाशवशास्त्रभिः प्रयोगसूच्यादिना परिष्कृत्य सम्पादिता ।
(पूर्वाद्धम् )
प्रकाशक:
जयकृष्णदास-हरिदास गुप्तःचौखम्बा संस्कृत सीरिज़ आफिस,
बनारस सिटी। वि० संवत् १९९७]
[ई० सन् १९४१ अस्य ग्रन्थस्य सर्वाधिकाराः प्रकाशकाधीनाः।
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्तिस्थानम्चौखम्बा संस्कृत पुस्तकालय,
___ बनारस सिटी।
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका
प्रथितमेव सकलजगतीतले निखिलजगन्मण्डलमण्डनायमानगीर्वाणवाणीमहाहमणिशाणायमानस्य पाणिनीयतीव्रतरतपस्यासन्तोषितश्रीमहेश्वरवरप्रसादसमवाप्ताक्षरच्छन्दोमूलत्वेन सकलेतरव्याकरणातिशायिनो वेदाङ्गधुरीणतामवलम्बमानस्य पाणिन्युपशव्याकरणस्य अतिसारवत्तरं सकलप्रयोजनमौलिभूतं सहस्त्रवदमसंवर्णितं 'रक्षोहागमलध्वसन्देहा इत्यादिकं प्रयोजनम् ।
तत्र तत्रभवता भगवता पाणिनीयमुनिना विरचिताङ्कररोपणे महर्षिणा पूज्यपादेन कात्यायनेन विरचितपल्लवे तत्रभवता भगवता महाभाष्यकृता पतञ्जलिमुनिना बाढीकृतस्कन्धेऽत्र शाखिनि समारुरुक्षणां तत्फलस्वादरसिकानां सुखसमारोहणाय विरचिताः सोपानपरम्परा इव नानाविधाः प्रबन्धाः पण्डितप्रकाण्डर्मान्यमनीषिभिः।
तेष्वद्यत्वे श्रीमहामहोपाध्यायभट्टोजीदीक्षितविदुषा विरचितो निखिलाचलाप्रथितो वैयाकरणसिद्धान्तानां कौमुदीव 'वैयाकरणसिद्धान्तकौमुदी' नामा ग्रन्थः श्रीमद्वासुदेवदीक्षितविरचितया बालमनोरमाख्यटीकया सनाथीकृतः तत्रभवताम्भवतां पुरतः प्रस्थाप्यते ।
इयं किल बालमनोरमाख्या टीका सरलतया सर्वातिशायिनी व्यापकविषयतया च सकलानामुपलभ्यमानटीकानां स्वस्मिन्नन्तर्भावं सम्पादयन्ती सारवत्तरतया च व्याकरणमहाभाष्यसर्वस्वं ख्यापयन्ती सर्वाङ्गपरिपूर्णतयाचावर्णनीयं किमपि कुतूहलं जयनन्ती विजयतेतराम्। उक्तञ्च कविरहस्येन हि शब्दरत्नकौस्तुभशेखरसुभगीकृताऽपि सा प्रौढा ॥ कुरुते कौमुद्यामिह कुतुकं बालमनोरमा यद्वत् ॥ १ ॥ इति ।
अस्याश्च निर्माता श्रीवासुदेवदीक्षितः श्रीमहादेववाजपेयितनुजन्माऽन्नपूर्णाग जो विद्वन्मूर्धन्योऽध्वरमीमांसाकुतूहलवृत्तिनिर्माता पदवाक्यप्रमाणपारावारपारीणगुरुवर्यश्रीविश्वेश्वरवाजपेययाजिगुरु
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२
भूमिका |
चरणतो लब्धनिखिलानवद्यविद्याविभूषितनुः श्रष्टादशशताब्द्यां स्वजनुषा दक्षिणदेशं सम्भूषयन् व्यराजतेति प्रतीयते ।
यद्यपि बालमनोरमा बालमनोरमासहितानेकाष्टीकाच इतस्ततोऽन्यत्र प्रकाशिता वर्तन्ते, तथापि गोलोकवासि-श्रेष्ठिवर हरिदासगुप्तात्मज - श्रीजयकृष्णदास श्रेष्ठिमहोदय वंशवदैरस्माभिः विद्यार्थिनां सौकर्याय तेषामर्थाश्यं स्मारं स्मारं बालमनोरमाटीकयैव सर्वव्याख्यानस्य गतार्थत्वात् ग्रन्थविस्तरभयादु मूल्यबाहुल्याच्च अन्यट्टीकाबाहुल्यं विहाय छात्राणां व्युत्पत्तिवैचित्रः याय लेखनप्रति पादनादिकलाकौशल्याय अनायास परीक्षामहार्णवनरणाय ग्रन्थान्ते काशिकराजकीय संस्कृत पाठशालाध्यापकव्याकरणाचार्यपण्डितनेने गोपालशास्त्रिकृत रूप लेखन - पङ्किलेखन प्रकाराख्य परिशिष्टद्वयेन संयोज्य अद्ययावन्मुद्रितासु सिद्धान्तकौमुदीषु बालमनोरमासु च बह्नयोऽशुद्धयः पाठभ्रंशादिभ्युदयश्चावलोकृताः, तावानेकग्रन्थावलोकनेन स्वव्युत्पत्या ग्रन्थलापनेन च परमपरिश्रमेण दूरीकृत्य प्रयोगसूच्यादिपरिशिष्टेन प्रकरण - सूत्र - वार्तिकाद्यनुक्रमणिकया च सुसज्जितं मनोहराक्षराङ्कितं गुटकारूपमल्पमूल्यं शुद्धतमं संस्करणं यथामति सुसम्पादितम् ।
भत्र संशोधने पणशीकरोपाव्हपण्डितरामचन्द्रशास्त्रिभिः पं० श्रीरामचन्द्रभाव्याकरणाचार्येण च बहुतरं सहाय्यं प्रदत्तमतस्तेभ्योsah धन्यवादाः ।
reter दृष्टिदोषात्सीसकाक्षरयोजनादुभ्रमाद्वा काश्चन अशुद्वयः स्युः, ता गुणैकपक्षपातिनो विद्वांसः परिमार्जयन्तोन चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः ।
दोषो विद्यमानोऽपि तच्चित्तानां प्रकाशते ॥ १ ॥ इत्युक्तिमनुसन्धाय मामनुगृह्णन्त्विति सम्प्रार्थयते ।
महा शिवरात्रिः संवत् १९९७
विदुषामनुचरःसदाशिवशास्त्री जोशी व्याकरणाचार्यः साहित्योपाध्यायश्च ।
For Private and Personal Use Only
च
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पूर्वार्द्धगत-विषयानुक्रमणिका
पृष्ठम्
१ संज्ञाप्रकरणम्
२ परिभाषाप्रकरणम्
३ अच्सन्धिप्रकरणम्
४ प्रकृतिभावप्रकरणम्
५ हल्सन्धिप्रकरणम्
६ विसर्गसन्धिप्रकरणम्
७ स्वादिसन्धिप्रकरणम्
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४ अव्ययप्रकरणम्
-१५ स्त्रीप्रत्ययप्रकरणम्
३ २६ तद्धिताधिकारप्रकरणम्
२४ अलुक्समासप्रकरणम् २५ समासाश्रयविधिप्रकरणम्
९९
१०६
८ अजन्तपुँल्लिङ्गप्रकरणम्
१६
१९२
९ अजन्तस्त्रीलिङ्गप्रकरणम् १० अजन्तनपुंसकलिङ्गप्रकरणम् २१४
११ हलन्तपुँल्लिङ्गप्रकरणम्
२२७
३०९
१२ हलन्तस्त्रीलिङ्गप्रकरणम् १३ हलन्तनपुंसकलिङ्गप्रकरणम् ३१४
२९ २७ अपत्याधिकारप्रकरणम् ६७५ २८ तद्धिते चातुरर्थिकप्रकरणम् ७१६
३८
७१
२९ तद्धिते शैषिकप्रकरणम्
८२
७४६
३० तद्धिते प्राग्दीव्यतीयप्रकरणम् ७७४
३१ तद्धिते प्रवहतीयप्रकरणम् ७९० ३२ तद्धिते प्राग्घितीयप्रकरणम् ८०३ ३३ तद्धिते छयद्विधिप्रकरणम् ३४ तद्धितार्हीयप्रकरणम्
८०८
८१४
३५ तद्धिते कालाधिकारप्रकरणम् ८२९ ३६ तद्धिते ठञ्विधिप्रकरणम् ८३५ ३७ तद्धिते भावकर्मार्थप्रकरणम् ८३८ ३८ तद्धिते पाश्चमिकप्रकरणम् ८४६ ३३० ३९ तद्धिते मत्वर्थीयप्रकरणम् ८५७ ३८ ४० तद्धिते प्राग्दिशीयप्रकरणम् ८७९ ४०५ ४१ तद्धिते प्रागिवीय प्रकरणम् ४२ तद्धिते स्वार्थिकप्रकरणम्
૮૮૪
९०४
९२९
. ९४५
९४७
१३ कारकप्रकरणम् १७ अव्ययीभावसमासप्रकरणम् ४७९ १८ तत्पुरुषसमासप्रकरणम् ४९९ १९ बहुव्रीहिसमासप्रकरणम् २० द्वन्द्वसमासप्रकरणम् २१ एकशेषप्रकरणम् २२ सर्वसमासशेषप्रकरणम् २३ सर्वसमासान्तप्रकरणम्
पृष्ठम्
६७१
४३ द्विरुक्तप्रकरणम्
५६४ ४४ रूपलेखनप्रकारः ६०३
४५ पङ्किलेखनप्रकारः
६२०
४६ प्रयोगसूची
६२६
४७ सूत्रसूची
६२८
४८ वार्तिकसूची
६३७
४९ परिभाषासूची
६४४ ५० प्रश्नपत्रम्
For Private and Personal Use Only
९७३
१०१९
१०४१
१०४७
१०४८
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारतवर्ष के सभी प्रान्तों की संस्कृत परीक्षा पाठय निर्धारित पुस्तकों का एकमात्र प्राचीन प्राप्तिस्थान
जयकृष्णदास - हरिदास गुप्तः,
चौखम्बा संस्कृत पुस्तकालय, विद्याविलास प्रेस, गोपालमन्दिर लेन बनारस सिटी |
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमाव्याख्योपेता वैयाकरणसिद्धान्तकौमुदी।
मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ १ ॥ स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् । पाणिन्याया मुनयो यस्य च दयया मनोरथानभजन ॥१॥ अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये। किंचास्तु पतञ्जलये भ्रात्रे विश्वेश्वराय गुरवे च ॥ २ ॥ व्याख्याता बहुभिः प्रौढै रेषा सिद्धान्तकौमुदी ।
वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ॥ ३ ॥ ॐ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः' इति वृद्धिसूत्रस्थमाध्यादिस्मृतिसिद्धकर्तव्यतार्क ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतां विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकिर्षितं प्रतिजानीते-मुनित्रयमिति श्लोकेन। इयं वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वयः। इयमिति ग्रन्थरूपा वाक्यावलिविवक्षिता। भाविन्या अपि तस्याः बुद्धया विषयी. करणादियमिति प्रत्यक्षवनिदेशः। व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसाव्यात्ताप्यव्यपदेशः । चन्द्रिका हि तमो निरस्यति । भावान् सुखं प्रकाशयति ।
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सञ्ज्ञा
दिनकर किरण संपर्कजनितं संतापमपगमयति । एवमियमपि ग्रन्थरूपवाक्यावलिः अज्ञानात्मकं तमो निरस्यति । मुनित्रयग्रन्थभावाननायासं प्रकाशयति । अतिविस्तृतदुखभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसन्तापं च शमयतीति अत्यन्तसादृश्यायुज्यते चन्द्रिकातादात्म्याध्यवसायः । विरच्यते – क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेशः । किं कृत्वेत्यत आह-मुनित्रयं नमस्कृत्येति । त्रयः अवयवा अस्यासमुदायस्य त्रयं त्र्यवयवकसमुदायः । “सङ्ख्याया अवयवे तयप्” इति तयप् तद्धितः । “द्वित्रिभ्यां तयस्यायज्वा " इति तयस्यायजादेशः । मुनीनां त्रयमिति षष्ठीसमासः । त्रयाणां मुनीनां समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वात् असामर्थ्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयम् इति प्रथमं व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति तस्य प्रत्ययार्थतया प्रधानत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूत त्रिशब्देनाभेदान्वयः, 'पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन ' इति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्समयायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां सन्निहितपदान्तरोपस्थितत्वान्मुनय एव परिच्छेद्यतया सम्बध्यन्ते --त्रयाणां मुनीनां समुदाय इति । सोऽयं पाष्टिकान्वयः अरुणाधिकरण (पू.मी. ३-१-४) न्यायविदां सुगम इत्यलं विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । " नमःस्वस्ति" इति चतुर्थी तु न, कारकविभतेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य - अञ्जलिशिरः संयोगादिव्यापारेण तोषयित्वेत्यर्थः । नमस्करोतेरञ्जलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वे अकर्मकत्वापत्त्या द्वितीयानुपपत्तेः । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां संग्रहात्तैरेव ग्रन्थैः चरितार्थत्वात् किमनेन ग्रन्थेनेत्यत आह-तदुक्तीः परिभाग्य चेति । तस्य मुनित्रयस्य उक्तयः तदुक्तयः सूत्रवार्तिकभाष्यात्मक ग्रन्थरूपवाक्यावलयः ताः परिभाव्य च सम्यगालोच्य चेत्यर्थः । भूधातोः स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि 'भुवोऽवकल्कने' इत्यत्र ण्यन्तभूधातोश्चिन्तनार्थकत्वमपि वक्ष्यते मूलकृतव । न च 'अनादरः परिभवः परीभावस्तिरक्रिया' इति कोशविरोधः शङ्खयः, कोशस्य अण्यन्तभूधातुविषयत्वात् 'परौ भुवोऽवज्ञाने' इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वक भूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात् । एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां ( १ ) प्रक्रिया कौमुदी प्रसादादिकृतां
( १ ) प्रक्रियाकौमुदीनाम ग्रन्थो रामचन्द्रसूरिकृतः । विट्ठलसूरिणा तदुपरि प्रसादनाम्नी टीका कृता ।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
संज्ञाप्रकरणम्
१ अइउण् । २ ऋलृक् । ३ एओ । ४ ऐच् । ५. हयवरट् । ६ लणू । ७ ञमङणनम् । ८ भञ् । ६ घढधषू । १० जबगडदशू । ११ खफळठथचटतव् । १२ कपयू । १३ शषसर् । १४ हलू ॥
इति ( १ ) माहेश्वराणि सूत्राण्यणादिसञ्ज्ञार्थानि । एषामन्त्या इतः ।
|
उक्तीस्तिरकृत्येत्यर्थम् इति व्याख्यानं क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं प्राचीनप्रक्रिया कौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम् । तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसज्ञया वैयाकरणसिद्धान्ताः प्रतिपाद्यत्वेन विषयाः । अनायासेन तदवगमः प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावः सम्बन्धः । वैयाकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तान्निरूपयिष्यन् व्याकरणशास्त्रस्य मूलभूतानि चतुर्दशसूत्राणि पठति - उणित्यादिना । नन्विमानि सूत्राणि मुनित्रयग्रन्थबहिभूतत्वादप्रमाणमित्यत आह-इति माहेश्वराणि सूत्राणीति । महेश्वरादागतानि माहेवराणि । "तत आगतः" इत्यण् । महेश्वरादधिगतानीति यावत् । तदुक्तं पाणिनिशिष्यप्रणीत शिक्षायाम्
,
'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । एतच्चतुर्दशसूत्रव्याख्यायां नन्दिकेश्वरकृतायां काशिकायामप्युक्तम्'वृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमशें शिवसूत्रजालम् ॥' इति
अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः । ढक्कां नादयामासेत्यर्थः । नवपञ्चवारं चतुर्दशकृत्वः । एतच्छिवढक्कोत्थितं वर्णजालं शिवसूत्रजालतया विमर्शे जानामीत्यर्थः । आर्षस्तङ् । एवं च महेश्वरेण प्रोक्तानि माहेश्वराणीति निरस्तम् । एतेन माहेश्वरत्वादेतेषां सूत्राणां नाप्रामाण्यमित्युक्तं भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाभावादिह तदुप -- न्यासो व्यर्थ इत्यत आह- प्रणादिसन्ज्ञार्थानीति । अण् आदिः यासां ताः अणादयः,
1
( १ ) माहेश्वराणीति । महेश्वरेण उपज्ञाता माहेश्वरा अनुबन्धाः, ते सन्ति येषु तानि माहेवराणि । महेश्वरोपज्ञातानुबन्धयुतानि सूत्राणीति सूत्रेष्वनुबन्धयोगो महेश्वरकृतः । सूत्राणि तु. वेदवदनादिसिद्धानीति तात्पर्यार्थः ।
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
me
लणसूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थः ।।
१ । हलन्त्यम् । १।३।३। 'हल्' (म. सू. १४) इति सूत्रेऽन्त्य
अणादयश्च ताः सज्ञाश्च अणादिसज्ञाः, ताः अर्थः प्रयोजनं येषां तानि अणादिसज्ञा
नि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणांव्याकरणशास्त्रगतव्यवहारोपयोग्यणादिसज्ञासु उपयोगान्नानर्थक्यमिति भावः। कथमेषां सूत्राणामणादिसज्ञार्थत्वमित्यत आह-एषामन्त्या इत इति । एषामुदाहृतसूत्राणां अन्त्याः अन्ते भवाः णकारादिवर्णाः इत्सज्ञकाः प्रत्येतव्या इत्यर्थः ॥ लणसूत्रे अकारश्चेति । इत इत्यनुषज्यते। तच्च एकवचनान्ततया विपरिणम्यते । लणसूत्रेलकारात्परः अकारश्च इत्सज्ञक: प्रत्ये. तव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा। ननु लणसूत्र एव अकारस्य इत्सज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह-हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थे पुनः पुनरकारपाठ इत्यर्थः। अन्यथा
ह्यवर इत्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाभावात् पुनः पुनरकारपाठो हकाराद्युचारणार्थ इत्येव व्याख्येयम् । अत एव "उच्चैरुदात्तः" इति सूत्रे भाष्यम्-'नान्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च "वर्णात्कारः" इति कारप्रत्यये सति ककार इत्यादि (सिध्यति) । वाक् इत्याचवसानेषु वृक्ष इत्यादौ संयुक्तवर्णेषु च, पदान्ते "चोः कुः" इत्यादिविधिबलात् "हलोऽनन्तराःसंयोगः" इत्यादिशास्त्रबलाच्च, नायं नियम ( इत्यपि बोध्यम् ) इत्यलम् । ___ ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानाम् इत्सज्ञा प्रतिज्ञाता-एषामन्त्या इत इति । तदनुपपन्नम् । तेषां हि "हलन्त्यम्" इति सूत्रेण इत्सञ्ज्ञा वक्तव्या। तच्च सूत्रं हलपदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्सज्ञा च हलिति सूत्रे लकारस्य इत्सम्झायां सत्याम् "आदिरन्त्येन सहेता" इति सूत्रेण वाच्या। हलिति सूत्रे लकारस्य इत्सज्ञा च"हलन्त्यम्" इति सूत्रेण वाच्या । एवं च हलिति सूत्रे लकारस्य इत्सज्ञायां सत्याम् 'आदिरन्त्येन' इति हल्सज्ञासिद्धौ ‘हलन्त्यम्' इति सूत्रप्रवृत्तिः, 'हलन्त्यम्' इति सूत्रेण हलसूत्रे लकारस्य इत्सज्ञायाम् 'आदिरन्त्येन सहेता' इति हल्सज्ञासिद्धिः इत्येवं 'हलन्त्यम् , 'आदिरन्त्येन' इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित् सूत्रेण इत्सज्ञामबोधयित्वा 'हलन्त्यम्' इति हलामित्सञ्जाबोधनं पाणिनेरयुक्तमित्याशङ्कय हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्सज्ज्ञां विधातुं 'हलन्त्यम्' इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति-हलन्त्यम् । एकपदं सूत्रम् । हलि अन्त्य हलन्त्यमिति वि
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
मित्स्यात् ।
२। आदिरन्त्येन सहेता। १।१।७१ अन्त्येनेता सहित आदिमध्यगानां स्वग्रहः। शौण्डादेराकृतिगणत्वात् “सप्तमी शौण्डैः" इति सप्तमीसमासः। सुप्सुपेति समासो वा । हल्पदमिह सूत्रपरम् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रात् इदित्यनुवर्तते । तदाह-हलिति सूत्र इत्यादिना । इत्स्यादिति । इत्संज्ञकः स्यादित्यर्थः, सज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्सज्ञामनुपजीव्यव इत्सज्ञा सिद्धति नान्योन्याश्रय इति भावः ।।
नन्वस्तु हल्सूत्रे लकारस्य इत्सज्ञा । ततः किमित्यत आह-आदिरन्त्येन सहेता। अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण अच् इत्यादिरूपः सज्ञेत्यर्थः, सज्ञाप्रस्तावात्। तत्र 'यस्मात्पूर्व नास्ति परमस्ति स आदिः । यस्मात्पर नास्ति पूर्वमस्ति सोऽन्तः । इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यांमध्यगा आक्षिप्यन्ते । अतस्तेषां सम्शेति लभ्यते । “स्वंरूपम्" इति पूर्वसूत्रात्स्व. मित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह-अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन सज्ञाकोटिप्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया “सहयुक्त प्रधाने” इति विहितया तस्य अप्राधान्यावगमात् , सर्वनाम्नां चोत्सर्गतः प्रधानपरामशित्वात् । न च इक् उक् इच् यय् मय इत्यादिप्रत्याहाराः कथं स्युः इकारादीनामादित्वाभावादिति वाच्यम्, न हि सर्वापेक्षमिहा. दित्वम् । किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च अइउणिति इकारमारभ्यः ऋलक् इति ककारपर्यन्तं वर्णसमुदायं बुद्धया परिकल्प्य तदादित्वम् इकारस्य सम्भा. वनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्वमपि बुद्धिकल्पितसमुदायापेक्षमेव । न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लसूत्रे अकारस्यान्त्यत्वाभावात् स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराभावे मध्यगानामिति न लभ्येत । आदि. रित्यभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णः अन्त्यात्प्राग्भाविनां वर्णानां सम्ञत्येक लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात् , अन्त्यलकारात्पूर्वभा. वित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहोच्चार्यमाण आदेः ऊर्ध्वभाविनां वर्णानां सज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेर. कारादूर्ध्वभावित्वाविशेषात् । उभयोपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परिस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः । पूर्वस्मिन् सति यस्मात्परों नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दो सम्भवतः, उक्तनिर्वचनाविरोधात् । यापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सज्ञा
स्य च सञ्ज्ञा स्यात् । इति हल्सझायाम् । 'हलन्त्यम्' (सू.१)। उपदेशेऽन्त्यं हल् इत्स्यात् । उपदेश आयोच्चारणम् । ततः 'अण्' 'अच्' इत्यादिसज्ञासिद्धौ । ३। उपदेशेऽजनुनासिक इत् । १।३।२ उपदेशेऽनुनासिकोआदिः स्वस्य आदेः सज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शासम्भवात् । ततश्च उण इत्युकारस्य सझेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधानं व्यर्थमापधेत, गौरवात् , प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवात्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते। इतेति किम् ? अम्प्रत्याहारः अमडणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारःटा इति टकारेण किं न स्यात् , टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन सुटप्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उक्तं च जैमनिना-'प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।। ( पू. मी. .११ । ४३ ) । इति । विस्तरभयाद्विरम्यते । इति हत्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्त. प्रथमसूत्रेण इत्सज्ञायां सत्याम् , आदिरन्त्येनेति हल्सज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः।
ततः किमित्यत आह-हलन्त्यम् । आवृत्तयोद्वितीयं सूत्रमेतत्। हल् अन्त्यमि. ति छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते। तदाहउपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम ? तत्राह-उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घनिति भावः । एतच्च "आदेच उपदेशे” इत्यादिसूत्रे भाष्ये स्पष्टम् ।
धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् ।
आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः । . इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-'इदम. स्थमुः' इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्याम् अन्त्यणकारादिवर्णानाम् इत्सज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततः अण् अच इत्यादिसन्जासिद्धाविति । ततः णकारादीनामित्सज्ञासिद्धयनन्तरं आदिरन्त्ये. नेत्यणादिसज्ञा सिद्धेत्यर्थः। लणसूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य. अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सज्ञायामप्राप्तायां तत्प्रापर्क सूत्रमाह-उपदेशे । सज्ञाप्रस्तावात्सझेति लभ्यते। तदाह-उपदेशे अनुनासिक इत्यादिना। सूत्रे
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
ऽजित्सज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । 'लण' ( म. सू. ६) सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सज्ञा। प्रत्याहारेष्वितां न ग्रहणम् । 'अनुनासिक' इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्यं दृश्यते ।
अजिति कुत्वाभावः आर्षः । अजित्सज्ञः स्यादिति विवरणे कुत्वाभावः असन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णः अनुनासिकः इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः । इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीतनैरवगन्तव्यमित्यत आह-प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा। नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्यधिकारे "आतश्चोपसर्गे” इति कर्मण्यङ् । अनुनासिकस्य भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या (१)इत्यर्थः। शिष्यपरम्परया शास्त्रकृतां तथाविधमुश्चारणं इदनीन्तनानां सुगममिति यावत् । तदेवं लणसूत्रे अकारस्य अनुनासिकत्वादिसञ्ज्ञा सिद्धा। ततः किमित्यत आह-लणसूत्ररथेति । लणसूत्रे तिष्ठतीति लणसूत्रस्थः स चासाववर्णश्च लणसूत्रस्थावर्णः तेन सहोच्चार्यमाणो रेफर इत्येवंरूपः रेफलकारयोः सम्झेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्ती. ति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च सज्ञेति स्थितम् । एवञ्च अजादिप्रत्याहारेषु सज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाभावेऽपि णकारादीनामपि मध्यगत्वाविशेषात् ग्रहणं स्यात् । ततश्च रलयोः सझेति पूर्वग्रन्थे रलयोरिति न्यून टकारस्यापि मध्यगत्वेन ग्राह्यत्वादित्यत आह-प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु अजादिसञ्ज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह-अनुनासिक इत्यादिनिर्देशादिति । आदिना "तृषिमृषिकृषः काश्यपस्य" इत्यादिसंग्रहः । कथमयं निर्देशः उक्तार्थे हेतुरित्यत आह-न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम् "इको यणचि"इति यणादेशः न दृश्यते हीति योजना। यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात् तर्हि अच्प्रत्याहारे कलक् इति ककारस्यापि प्रविष्टत्वेन अच्त्वात्तस्मिन् परे इकारस्य "इको यणचि” इति यणादेशे "लोपो व्योर्वलि" इति लोपे अनुनास्क इति स्यात् । इकारो न श्रूयेत । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ऋटक् इति ककारस्य अच्प्रत्याहारप्रविष्टत्वेऽपि "प्रत्ययस्थात्" इत्यादिना इत्वविधिसामर्थ्यादेव यण लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमि११) अत्र पाणीनिसम्बन्धिनो वर्णाः इत्येव व्याख्यानमुचितमिति प्रामाणिकाः, मूलन्तु मृग्यम्।
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सज्ञा
'आदिरन्त्येन-' (सू. २) इत्येतत्सूत्रेण कृताः सज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते (४) ऊकालो ऽञ्झस्वदीर्घप्लुतः।१।२।२७ ॥ उश्च ऊश्च ऊ ३श्व वः । वां काल इव कालो यस्य सोऽच् क्रमाद्धस्वदीर्घप्लुतसज्ञः स्यात् । स प्रत्येकमुदा
त्याहुः । तन्न, 'प्रत्ययस्थात्कारपूर्वस्यातो लोप आप्यसुपः' इति लोपविधौ वर्णाधिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याप्रसिद्धार्थत्वादाह-आदिरन्त्येनेत्यादिना। प्रत्याहियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः। नच अणुदित्सूत्रसिद्धासु अ इ उ इत्यादिसज्ञास्वतिप्रसङ्गः शङ्कयः, योगरूड्याश्रयणात् वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहार:अण् । ककारेण त्रयः-अक् इक् उक् । उकारेण एकः-एङ् । चकारेण चत्वारः-अच् इच् एच ऐच । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण इण यण् । मकारेण चत्वार:-अम् यम् जम् डम् । अकारेण एकः-यज । षकारेण द्वौ-झष भए। शकारेण षट्अश् हश् वश झश जश बश् । वकारेण एकः-छन् । यकारेण पञ्च-यय् मय झय खय् चय । रेफेण पञ्च-यर् झर् खर चर् शर् । लकारेण षट्-अल् हल वल रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहारश्चतुश्चत्वारिंशत् , एतेषामेव शास्त्रे उपयोगात्। इङ् इत्यादिप्रत्याहारास्तु प्रयोजनाभावान्न भवन्ति, शास्त्रे तद्वयवहाराभावात् । अत्रास्मदीया संग्रहकारिका
___ 'स्यादेको ङजणवटैः षेण द्वौत्रय इह कणाभ्याम् ।
चत्वारश्च चमाभ्यां पञ्च यराभ्यां शलाभ्यां षट् ॥' तदेवमणादिसज्ञासु सिद्धासु अचो हस्वादिसञ्ज्ञां विधत्ते-ऊकालो। हस्वदीर्घ प्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा। तथा सत्येकवच. नमार्षम् । उ ऊ ऊ ३इति त्रयाणां एकमात्रद्विमात्रिमात्राणां द्वन्द्वसमासे सति सव.
दीघेण ऊ इति प्रश्लिष्टनिर्देशः। तेषां काल: ऊकालः। कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः इति द्विपदो बहुव्रीहिः। ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह-वां काल इवेत्यादिना। वः इति उशब्दस्य प्रथमाबहुवचनम् । वामिति षष्ठीबहुवचनम्। वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमेतत् , इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं हस्वदीर्घप्लुतसज्ञाः, तेषां उकालसदृशकालत्वाभावात सादृश्यस्य भेदनिबन्ध. नत्वादिति वाच्यम् । ऊशब्दस्यात्र एकमात्रद्विमात्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । स हस्वः दीर्घः प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेनउदात्तत्वेनानुदात्तत्वेन
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता ।
ताल्वादिषु
।
त्तादिभेदेन त्रिधा। (५) उच्चैरुदात्तः । १ । २ । २६ ॥ सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये । ( ६ ) नीचैरनुदात्तः । १ । २ । ३० ॥ स्पष्टम् । अर्वाङ् । (७) समाहारः स्वरितः । १ । २ । ३१ ॥ उदात्तत्वानुदात्तत्वे वर्णधर्मौ समाहियेते यस्मिन्सोऽच् स्वरितसञ्ज्ञः स्यात् । ( ८ ) तस्यादितः उदात्तमर्धहस्वम् | १ | २ । ३२ ।। हस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् ।
1
ततश्व
स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः । उदात्तसज्ञामाहउच्चैरुदात्तः। नादधर्मविशेषः उच्चैस्त्वं नेह विवक्षितम्, उपांशुच्चार्यमाणे अव्याप्तेः । किन्तु उच्चैश्शब्दः अधिकरणशक्तिप्रधानः ऊर्ध्वभागे इत्यर्थे वर्तते । ऊर्ध्वावयवस्य चावयवव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । ऊकालोऽजिति सूत्रादजित्यनुवर्तते तदेतदाह - तात्वादिष्वित्यादिना । सभागेष्विति । तावादीनां सावयवत्वकथनम् ऊर्ध्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे 'भागे इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आ ये मित्रावरुणा' इत्यचि आकार एकारश्च उदात्त इत्यर्थः । अनुदात्तसज्ञामाह - नीचैरनुदात्तः । स्पष्टमिति । उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसञ्ज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति । 'अर्वाङ्ग यज्ञस्संक्राम' इत्यृचि आद्यः अकारः अनुदात्त इत्यर्थः । अथ स्वरितसञ्ज्ञामाह-- समाहारः स्वरितः । पूर्वसूत्राभ्याम् उदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । उदात्त: अनुदात्तश्च अच् समाहियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसञ्ज्ञा स्यात्, न त्वेकस्य । अतो नैवमर्थः । किन्तु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्ट्यन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरतसञ्ज्ञक इत्यर्थः । फलितमाह - उदात्तत्वानुदात्तत्वे इत्यादिना । ननु उदात्तत्वानुदातत्वयोरकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः, कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः । तस्य स्वरितस्य आदितः पूर्वभागे अर्धस्वमुदात्तम् इत्यर्थः प्रतीयते । एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात् । अत आह— हस्वग्रहणमतन्त्रमिति । तन्त्रं प्रधानम् । 'तन्त्रं प्रधाने सिद्धान्ते' इति कोशः । न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं अविवक्षितार्थकमित्यर्थः । ह्रस्वग्रहणं न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः । ततश्च फलितमाह-स्वरितस्यादितोऽर्धमुदात्त
1
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । 'क्व १ वोऽश्वाः' 'रथानां न येऽराः' 'शतचक्रं यो ३ ह्यः' इत्यादिष्वनुदात्तः। 'अग्निमीळे' इत्यादावुदात्तश्रुतिः। स नव
म्बोध्यमिति । ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह-उत्तरार्धं विति । ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह-तस्य चेति । चकारो वाक्यालङ्कारे। तस्य अनुदात्तभागस्य उदात्त. स्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः तस्य भावः उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः । अन्यत्रेति । उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः । तत्र त्वेवमुक्तम्
'अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । ___उदात्तं वोच्यते किञ्चित्स्वरितं वाक्षरं परम् ॥ ऋ० प्र० (३ । ५) इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः । सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति । कि सर्वत्र एवं ? नेत्याह-न चेदि. त्यादिना। उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना । तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाहृत्य दर्शयति-श्वेत्यादिना । इत्यादिष्वनुदात्त इत्यन्तेन । तत्र व इति ह्रस्वस्वरितः । स तावत् वो इत्योकारात्मकोदात्तपरकः । येऽरा इत्येकारो दीर्घस्वरितः। स च रा इत्याकारात्मकोदात्तपरः । शतचक्रं यो इत्योकारः कम्पस्वरितः । स तु ह्य इत्यकारात्मकस्वरितपरकः । इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः। अन्यत्र तूदात्तश्रुतिरित्येतददाहृत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् । ईळ इति अनुदात्तम् । तत्र 'उदात्तादनुदात्तस्य स्वरितः' इति संहितायाम् ईकारः स्वरितः। 'स्वरितात्सं. हितायामनुदात्तानाम्' इत्येकारः प्रचयः ततश्च ईकारः स्वरितः उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रु. तिरेव भवतीत्यर्थः । तदेवमुदात्तहस्वः अनुदात्तहस्वः स्वरितहस्व इति हस्वस्त्रिविधः । एवं दीर्घोऽपि त्रिविधः । तथा प्लुतोऽपि । ततश्च एकैक: अच् नवविध इति स्थितम्। स नवविधोऽपीति। उक्तरीत्या नवविधोऽपि सः अच् अनुनासिकत्वेन अननुना. सिकत्वेन च द्विधा, द्वाभ्यां प्रकाराभ्यां वर्तत इत्यर्थः । तदेवमनुनासिकाः नव अव:, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याच इति स्थितम् । अथानुनासि
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
विधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा । ( 8 ) मुखनासिकावचनोऽनुनासिकः | १|१|८ ॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसञ्ज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । लवर्णस्य द्वादश । तस्य दीर्घाभावात् । एचामपि द्वादश । तेषां ह्रस्वाभावात् । (१०) तुल्यास्यप्रयत्नं सवर्णम् | १|१| ६ || ( १ ) ताल्वादिस्थानमाभ्यन्तरप्रयत्न
११
कसञ्ज्ञामाह – मुखनासिका । मुखसहिता नासिका मुखनासिका । शाकपार्थिवादित्वात् सहितपदस्य लोपः । उच्यते उच्चार्यते इति वचनः कर्मणि ल्युट् । मुखनासिकया वचन इति "कर्तृकरणे कृता बहुलम्” इति तृतीयासमासः । तदेतदाह-मुखसहितेत्यादिना । मुखं च नासिका चेति द्वन्द्वस्तु न । तथा सति " द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति समाहारद्वन्द्वानियमात् "स नपुंसकम्" इति नपुंसकत्वे "ह्रस्वो नपुंसके प्रातिपदिकस्य" इति हस्वत्वे मुखनासिकावचन इत्यापत्तेः । ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः ! नेत्याह - तदित्थमिति । . इयता प्रबन्धेन यत् अच भेदप्रपञ्चनं तत् इत्थं वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः । अष्टादश भेदा इति । अष्टादश प्रकारा इत्यर्थः । दीर्घाभावादिति । तथा च उदात्तलकारदीर्घः अनुदात्तलकारदीर्घः स्वरितऌकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रयः इति षड्भेदानामभावे सति स्वप्रपञ्चः प्रपञ्चश्च षड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः लकारेस्य दीर्घाभावे होतृ लकार इत्यत्र सवर्णदीर्घे कृते होतृकार इति ऋकारस्यैव तुल्यास्यसूत्रे "अकः सवर्णे" इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । हस्वाभावादिति । यद्येचो ह्रस्वः स्युस्तर्हि वर्णसमाम्नाये त एव लाघवात् । अ इ उ इत्यादिवत् पठयेरन् । नतु दीर्घाः, गौरवात् । अतः एचः हस्वाः न सन्तीति विज्ञायते । एवं च हस्वप्रपञ्च षड्भेदाभावात् द्वादशविधत्वमेवैचामिति भावः ।
अथ "अणुदित् सवर्णस्य चाप्रत्ययः" इति अ इ उ इत्यादिसञ्ज्ञां वक्ष्यन् सवर्णसञ्ज्ञामाह- तुल्यास्य | आस्यं मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादायशब्दोऽत्र न मुखमात्रपरः । किन्तु आस्ये मुखे भवमास्यं ताल्वादिस्थानम् । " शरीरावयवाद्यत्" इति भवार्थे यत्प्रत्ययः । “यस्येति च" इति प्रकृत्यन्त्यस्य
( १ ) तालवादीति । तालुनः आदिस्तात्वादिः - कण्ठ इति यावत् । तालु आदियेषां तानि -तात्वादीनि ताल्वादिश्च तात्वादीनि च ताल्वादि च "नपुंसकमनपुंसकेन ०" इत्येकशेषः । तेन कण्ठस्थानस्याप्यत्र सङ्हो बोध्यः ।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
श्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसङ्गं स्यात् । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा । लतलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य। इति स्थानानि । यत्नो द्विधा । आभ्यन्तरो बाह्यश्च ।
अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ आल्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसञ्जकं स्यादिति भावः । तदाह-ताल्वादिस्थानमित्यादिना। मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाक्षायां तद्वयवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णा. ति-अकुहेत्यादिना । अ इत्यष्टादशभेदा गृह्यन्ते । कु इति कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र अ इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तः । एवमग्रेऽपि कथञ्चित्समाधान बोध्यम् । अश्व कुश्च हश्च विसर्जनीयश्चेतिविग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः। इचुयशेति । इ इत्यष्टादश भेदाः। चु इति चवर्गः । इश्व चुश्च यश्च शश्चेति विग्रहः । तालु काकुदम् । ऋटुरषेति । ऋ इत्यष्टादशभेदाः । टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः । ऋशब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लतुलसेति । ल इत्यस्य द्वादश भेदाः। तु इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः । लशब्दस्यापि आ इत्येव प्रथमेकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणानुपपत्तेः । उपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः। उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । अमङणनैति । अश्च मश्च डच णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदेतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसन्देहार्थम् । नतु "तपरस्तत्कालस्य" इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्याङ्गत्वात. समाहारद्वन्द्वः एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसन्देहार्थमेव । कण्ठश्च ओष्ठौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः एकववद्भावो नपुंसकत्वं च। वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एक. वत्त्वं नपुंसकत्वं च । जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमने व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति एवं प्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः।
NORTHHTHHATHI
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
आद्यतु । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र 'स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । विवृतमूष्मणां स्वराणां च' । ह्रस्वस्यावर्णस्य प्रयोगे
१३
ननु किमिह तुल्यास्यसूत्रे यत्किञ्चित्स्थानसाम्यं विवक्षितम्, उत यावत्स्थानसाम्यम् । न तावदाद्यः, तथा सति इकारस्य एकारस्य च चालुस्थानकतया सावर्ण्याप तौ भवत्येवेत्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावर्ण्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात् । किञ्च वकारलकारयोर्दन्तस्थानसाम्येन सावर्ण्यपत्तौ 'तोर्लि' इत्यत्र लकारेण वकारस्यापि ग्रहणात् तद्वानित्यत्र दकारस्य परसवर्णापत्तिः । "यवलपरे यवला वा" इत्यत्र लकारग्रहणं तु यथासङ्ख्यार्थं भविष्यति । न द्वितीयः, तथा सति कल्योः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावर्ण्यभावापत्तौ "चोः कुः" "क्किन्प्रत्ययस्य" इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङ् इत्यादौ नुमो नकारस्य " क्विन्प्रत्ययस्य" इति कुत्वेन ङकारानापत्तेः । तस्मात्स्थानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्रूमः - यावत्स्थानसाम्यमेव सावर्ण्यप्रयोजकम् । एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावर्ण्यम् । वलयोश्च न सावर्ण्यम् । वकारस्य ओष्टस्थानाधिक्यात् । एवं च ' तद्वानासाम्' 'यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः । ङकारस्य नासिकास्थानाधिक्येऽपि ककारेण सावर्ण्यमस्त्येव, आस्यभवस्थानसाम्यस्यैव सावर्ण्यप्रयोजकत्वात् नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तं च भाष्ये- 'किं पुनरास्यं लौकिकं ओष्ठात्प्रभृति प्राक्काकलकात् ' इति । 'कालको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः' इति कैयटः । तस्मादास्यभवयावत्स्थानसाम्यं सावर्ण्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः ।
ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्व विशेषणं किमर्थम्, व्यावर्त्याभावादित्यत आह-यत्नो द्विति । यत्नानामाभ्यन्तरत्वं बाह्यत्वं च वणोत्पत्तेः प्रागूर्ध्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । श्राद्य इति । आभ्यन्तरयत्न इत्यर्थः । कथं चातुर्विध्यमित्यत आह-स्पृष्टेति । कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्वयवस्थापक शिक्षावचनानि पठति तत्रेति । तेषु मध्य इत्यर्थः । प्रयतनमिति । प्रयत्न इत्यर्थः । स्पर्शादिशदान व्याख्यास्यति । ह्रस्वस्यावर्णस्य संवृतमित्यन्वयः । एतावदेव शिक्षावचनम् । नन्वेवं दण्ड आढकमित्यत्र अकारस्य आकारस्य च विवृतसंवृतप्रयत्नभेदेन सावर्ण्यभावात् सवर्णदीर्घो न स्यादित्यत आह- प्रयोग इति । शास्त्रीय प्रक्रियाभिः परिनिष्ठितानां रामः कृष्णः इत्यादिशब्दानां प्रयोगे क्रियमाण एव स्वस्यावर्णस्य
1
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सिद्धान्तकौमुदी
[सज्ञा
संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि(११) अ अ | ६८ (इति) विवृतमनूद्य संवृतोऽनेन विधीयते । अस्थ चाष्टाध्यायी सम्पूर्णा प्रत्यसिद्धत्वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथा च सूत्रम् । (१२) पूर्वत्रासिद्धम् । १२।१५ अधिकारोऽयम् । तेन
संवृतत्वमित्यर्थः। प्रक्रियेति । शास्त्रीयकार्यप्रवृत्तिसमये तु हस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः । शिक्षावचनसिद्धं स्वाभाविकं ह्रस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये हस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाढकमित्यादौ सवर्णदीर्घादिकार्य निर्बाधमिति अइउणिति सूत्रभाष्ये स्पष्टम् । एवञ्च हस्वस्यावर्णस्य संवृतमिति शिक्षावचनं परिशे. षात् परिनिष्ठितदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः । अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि सम्मत इत्याह-एतच्चेति । तदेवोपपादयितुं प्रतिजानीते-तथा हीति । यथा एतत् ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः । अ अ। व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम्। तत्र अ इति प्रथमं पदं विवृत. परं लुप्तषष्ठीकम् । द्वितीयं तु संवृतपरं लुप्तप्रथमाकम् । ततश्च शिक्षावचनसिद्धं स्वाभाविकं संवृतत्वं प्रच्याव्यं वर्णसमाम्नाये विवृतत्वेनोपदिष्टस्य अवर्णस्य संवृतः अवर्णो भवतीत्यर्थः। तदाह-विवृतमनूचेति । विधीयत इति । प्रतिप्रसूयत इत्यर्थः । ननु प्रक्रियादशायामप्येतत्सूत्रं कुतो न प्रवर्तत इत्यत आह-अस्य चेति । अस्य अ अ इति सूत्रस्य, स्वप्राक्तनी कृत्स्ना अष्टाध्यायी प्रति असिद्धत्वात् अविधमानत्वात् प्रक्रियादशायां विवृतत्वमस्त्येवेत्यन्वयः। ननु प्रक्रियादशायां हस्वाव. र्णस्य कथं स्वाभाविकात्संवृतत्वात् प्रच्यवः, कथं वा विवृतत्वम् , तस्य आकारादिधर्मत्वादित्यत आह-शास्त्रदृष्टथेति । असिद्धत्वमिह न वास्तवात्यन्तासत्त्वं विवक्षितम् । कि तहि अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविक्रस्य संवृतत्वस्यावर्णात् प्रच्यवः, नापि विवृतत्वं तस्य वास्तवम्, प्रक्रियार्थ विवृतत्वस्यारोपादिति भावः । ननु 'अ आ इति सूत्रस्य कृत्स्नामष्टाध्यायी प्रत्यसिद्धत्वे किं प्रमाण. मित्यत आह-तथा च सूत्रमिति। चो ह्यर्थे । तथा तेन प्रकारेण बोधर्क सूत्रमस्ति हीत्यर्थः । तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी। तत्र अष्टमाध्याये द्वितीयपादस्येदमादिम सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालं सपादसता. ध्यायीति व्यवहियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवहियत इति स्थितिः । तत्र यदीदं सूत्र स्वतन्त्रविधिः स्यात् , तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्त. माने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसताध्यायी प्रति
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
-
-
सपादसप्ताध्यायों प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा। विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ।
. खयां यमाः खयः क पौ विसर्गः शर एव च । त्रिपाद्यसिद्धेतिं पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्व शास्त्रं प्रति परं शास्त्रमसिद्ध . मित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र "मोऽनुस्वारः" इति शास्त्रं पादिकं प्रति "मय उजो वो वा" इति वस्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधिकारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पय्यत इत्य. धिकारः । कर्मणि घञ् । 'घमजबन्ताः पुंसि' इति पुंस्त्वम् । अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमूपरितनसूत्रेष्वनुवृत्त्यर्थमेव । न तु स्वतन्त्रविधिरिति यावत् । मय उजो वो वा, इति सूत्रे पूर्वश्रासिद्धमित्यनुवर्तते । ततश्च मयः परस्य उजो वो वा स्यात् । इदं शास्त्रं पूर्वत्रासिद्धमिति तदेकवाक्यं सम्पद्यते । तत्र च अनुवृत्तपूर्वशब्देन इतः प्राक्तन त्रिपादीस्थं सपादसहाध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति "मोऽनुस्वारः" इति त्रैपादिकं शास्त्रं प्रति 'मय उजो वो वा' इति शास्त्रस्यासिद्धत्वं निर्बाधमित्याह-तेनैति । अधिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चात्र नात्यन्तासत्वम् । किन्तु पूर्वशास्त्रदृष्टयेत्यनुपदमेवोक्तम् । परं शास्त्रमित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्त कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्यासिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे 'असिद्धवदत्रामात्' इति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रासिद्धत्वकार्यासिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ मनोरथ इत्यत्र मूलव्याख्यावसरे हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् 'अ अ' इति संवृतविधेः स्वप्राक्तनी कृत्स्नाम् अष्टाध्यायी प्रत्यसिद्धत्वात् प्रक्रियादशायामवर्णस्य हस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठितदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम् । विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना। __ अत्र बाह्यप्रयत्नान् प्रपञ्चयति-बाह्यप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यतायाः तुल्यास्यसूत्रे उक्तत्वात् , यत्नो द्विधेत्युपक्रमाच्च । तत्र विवक्षितार्थो वा अत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दाः धर्मपराः। कस्य को बाह्ययत्न इत्याकालायां तद्वयवस्थां श्लोकद्वयेन संगृहाति-खयामिति । यमशब्दो व्याख्यास्यते । श्वासः अनुप्रदानः येषां ते वासानुप्र
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
सिद्धान्तकौमुदी
एते श्वासानुप्रदाना अघोषाश्च विरृण्वते ॥
कण्ठम्, अन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम ( १ ) पूर्वसदृशो वर्ण: प्रातिशाख्ये प्रसिद्धः । पलिक्कनी, चख्ख्नतुः, अग्निः, घूघ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः खयः, तथा तेषामेव यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः, श्वासोऽघोषश्च ।
[ सञ्ज्ञा
-
भावः ।
श्वासाख्यबाह्ययत्नवन्तः । विवृण्वते कण्ठमिति । विवारः एषां यत्न इति संता:-संवाराख्ययत्नवन्तः । नादभागिनः - नादाख्ययत्रभाजः । अयुमा वर्गयमगा इति । कादिपञ्चकं चादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्चवर्गाः । वर्गगता यमगताश्च अयुग्माः प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवःअल्पप्राणाः । अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टेवर्गेध्वित्यादिना । आद्यानां चतुर्णामिति निर्धारणे षष्ठी । एकैकस्मादित्यध्याहार्यम् । तेन “अन्यारादितरतें" इति परशब्दयोगे पञ्चमीप्रसङ्गात् आधानां चतुर्णामिति षष्ठ्यनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थ:कादिवादिटादितादिपादिपञ्चकात्मकेषु वर्गेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात् पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाहृत्य दर्शयति-पलिक्कनीत्यादिना तत्सदृशा एव यमा इत्यन्तेन ।
एवं वर्गान्तरयमानामप्युदाहरणं याच्वनेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे - तत्रेत्यादिना । तत्र खय इत्यस्य व्याख्या-वर्गाणां प्रथमद्वितीयाः खय इति । स्वयां यमा इत्यस्य विवरणम्-तथा तेषामेव यमा इति । —क पौ इत्यस्य विवरणम् - जिहामूलीयोपध्मानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स एवोपात्तः । शर इत्यस्य विवरणम् - शषसा इति । एते श्वासानुप्रदानाः अघोषाश्च विवृण्वते कण्ठमित्येतद्वयाचष्टे - एतेषां विवारः श्वासः अघोषश्चेति । अन्ये तु घोषाः स्युः संवृता नादभागिन इत्येतद्वया
For Private and Personal Use Only
( १ ) सादृश्यं नाम तद्भिन्नत्वे सति तद्गतभूयो धर्मवस्वम् । तच्च स्थानकृतं यत्त्रकृतं च तेन “तम्पत्क्नीभिरनु” ‘सूर्यं आत्मा जगतस्तस्थुषश्च' इत्यादौ ककाररूप एव यमः । ' अयोगवाहा विज्ञेया आश्रयस्थानभागिन, इति शिक्षावचनात्तस्य दन्तस्थानकत्वम् । पलिक्क्नीः चखख्नतुरित्यादौ तु यमस्य कण्ठस्थानकत्वम् " चत्वारश्च यमाः स्मृता' इति तु क् ख् ग् घ् इति चतुर्विधरूपाभिप्रायेण' परं स्थानानि तेषां पञ्चैवेति यावत् ।
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
१७
अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसज्ञायामनुपयुक्ताः, तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः। यरलवा अन्तःस्थाः । शषसहा ऊष्माणः । अचः स्वराः । कप इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः। 'ऋलवर्णयोमिथः सावर्ण्य वाच्यम्' (वा १५०)।
-
-
-
चष्टे-अन्येषां तु संवारो नादो घोषश्चेति । अयुग्मा वर्गयमगा इत्येतद्वयाचष्टेवर्गाणां प्रथमतृतीयपश्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाभावादिति भावः । यणश्चाल्पासवः स्मृता इत्येतद्वयाचष्टे-यरलवाश्वाल्पप्राणा इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशक्य तदपि परिशेषादुक्तप्रायमित्याह-अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः द्वितीयचतुर्थयमाः शषसहाश्च अन्यशब्देन विवक्षिताः । यमानां यत्नविशेषकथनं वस्तुस्थि. तिकथनमात्रम् । अत्र शास्त्रे तदुपयोगाभावात् । तदयमत्र मध्यसिद्धान्तकौमुद्यां वर. दराजीयः संग्रह:-'खरो विवाराः श्वासाः अघोषाश्च । हशः संवारा नादाः घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमाः यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणा: इति । नन्विह बाह्ययत्नप्रपञ्चन व्यर्थम् , तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमानपरत्वादित्याशङ्कते-बाह्यप्रयत्नाश्चेति । यद्यपीति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसज्ञाप्रस्तावे बाह्ययत्नानामुपयोगाभावे. ऽपि "स्थानेऽन्तरतमः इति वक्ष्यमाणान्तरतम्यविचारे तेषामुपयोगसत्त्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावय॑त्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादियत्नस्य तु अधर्मत्वस्य प्रसिद्धत्वादिह न तद्वयवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसन्दमें उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादय इत्यादिना । कः आदिः येषां ते कादयः। मः अवसाने येषां ते मावसानाः। इदं च लोकप्रसिद्धपाठापेक्षम्। इति स्थानयत्नविवेक इति । स्थानयत्नविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वा प्रशब्दः । __ ऋलवर्णयोमर्धदन्तात्मकभिन्नस्थानकत्वात् सवर्णसञ्ज्ञायामप्राप्तायाम् 'ऋकारलकारयोः सवर्णविधिः' इति तद्विधायकं वार्तिकम् अर्थतः संगृह्य पठति-लवर्णयोमिथः । आ च आ च रलौ शब्दस्य शब्दस्य च आ इति प्रथमैकवचनम् ।
ल औ इति स्थितेः लकारस्य 'ऋतो कि सर्वनामस्थानयोः' इति गुणः, अकारः, 'उरण रपरः' इति लपरत्वम्, ऋकारस्य यणादेशो रेफः। रलौ च तौ वर्णी च ऋलवर्णी।
२ बा०
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सञ्ज्ञा
अकारहकारयोरिकारशकारयोर्ककारषकारयोर्लकारसकारयोश्च मिथः सावण्ये प्राप्ते(१३)नाऽऽज्झलौ१।१।१०॥अकारसहितोऽच्आच् , सच हल चेत्येतौ मिथः सवर्णी नस्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा
तयोमिथः परस्परं सावायें सवर्णत्वं वक्तव्यम् । तुल्यास्यसूत्रेण तदलाभादिति सूत्र. कारः शिक्ष्यते । उक्तानुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावये प्राप्तम् । अकारस्य कवर्गेण तु न सावर्ण्यप्रसक्तिः । कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात्। विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णस.
ज्ञा, प्रयोजनाभावात् । ततश्च अकारस्य हकारेण सावर्ण्य परिशिष्यत इति भावः। इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यात् उभयोः सावये प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावर्ण्यप्रसक्तिः, इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात् , यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावये परिशिष्यत इति भावः । ऋकारषकारयोरिति । मुर्धस्थानविवृतयत्नसाम्यात् उभयोः सावये प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावर्ण्यप्रसक्तिः, ऋकारस्य विवृतत्वात् , टव. गस्य स्पृष्टत्वात् , रेफस्य ईषत्स्पृष्टत्वाच्च । अतः ऋकारषकारयोः सावये परिशिष्यत इति भावः । लकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावर्ण्यम् प्राप्तम् । लकारस्य तवर्गेण लकारेण च न सावर्ण्यप्रसक्तिः, लकारस्य विवृतत्वात् , तवर्गस्य स्पृष्टत्वात् लकारस्य ईषत्स्पृष्टत्वाच्च । अतः लकारस्य सका. रेण सावये परिशिष्यते। एवं प्राप्ते प्रतिषेधति--नाज्झली। आसहितः अच् आच् । शाकपार्थिवादित्वात्सहितशब्दस्य(१) लोपः। स च हल्च आज्झलौ। तुल्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गद्विवचनान्ततया विपरिणम्यते । तदाहअकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह-तेनेत्यादियणादिकं नेत्यन्तम् । तेन-प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः। दधीति । इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः। नन्वस्तु अकारहकारयोः इकारशकारयोः ऋकार. षकारयोः लकारसकारयोश्च सावर्ण्यम् । तथापि दधि षष्ठमित्यादौ यणादिकं न प्रसक्तम् , अच्परकत्वाभावादित्यत आह-अन्यथेत्यादिना । अन्यथा तेषां साव.
(१) अत्रेदं चिन्त्यम् । शाकपार्थिवादिगणे सहितशब्दविशिष्टस्य पाठकल्पने तेनोत्तरपदस्य नित्यं लोपविधानात् वृत्युको मुखसहितनासिकयेति सहितशब्दघटितः समासोऽसङ्गतः स्यात् । अतोऽत्र मुखद्वितीया मुखोपसंहिता वा नासिकेत्येवं विग्रहो बोध्यः ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
___ बालमनोरमासहिता।
दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि(१४) अणुदित्सवर्णस्य चाप्रत्ययः १३१६६। प्रतीयते विधीयते इतिप्रत्ययः; अविधीयमानोऽणुदिच्च सवर्णस्य सञ्ज्ञा स्यात् । अत्राण परेण णकारेण । कु चु टु तु पु एते उदितः। तदेवम् । अ इत्यष्टादशानां सज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः।
-
याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यत्वं स्यादित्यन्वयः। ननु वर्णसमाम्नाये हकारादीनां अकारचकारमध्यगत्वाभावात् कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृहन्त्यकारादयः स्वसवर्णान् येन तत् ग्रहणम् । करणे ल्युट , स्वार्थे कः। अणुदित्सूत्रादित्यर्थः। यद्यप्यच्छब्दवाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानाम् , तथापि "इको यणचि" इत्यादौ अच्छब्देन अकारादिषूपस्थितेषुतैः अणुदि
सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चात्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च "इको यणचि" इत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासम्भवः । अणुदित्सत्रं तु "अस्य च्चो" इत्यादो सावकाशमिति वाच्यम् । “ल्वादिभ्य' इत्यादि. निर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणावश्यम्भावात् । तथा च अच्त्वं स्यादित्यस्य अच्पदबोध्यत्वं स्यादित्यर्थः।
किं तद्ग्रहणकशास्त्रमित्याकालायां तदुपपादनं प्रतिजानीते-तथा हीति । अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनाम:' 'इदम इश्' इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे-प्रतीयत इति । उत् इत् यस्य सः उदित् कु चु टु तु पु इत्यादिः। चकारात् "स्वं रूपम्" इत्यतः स्वमित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । तदाह-प्रविधीयमान इत्यादिना। अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति । अस्मिन्नेव सूत्रे अण परेण(१) णकारेण । इतरत्र तु "अणोऽप्रगृह्यस्य" इत्यादौ पूर्वेणैवेत्यर्थः । अत्र च आचार्यपारम्पर्योपदेशरूपं व्याख्यानमेव शरणम् । एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिर्दीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वात्तेषु परेषु इका. रस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह-तदेवमिति । तत् अणुदित्सूत्रं, एवं वक्ष्यमाणप्रकारेण फलती. त्यर्थः । त्रिंशत इति । अलवर्णयोमिथः सवर्णतया प्रकारेण स्वाष्टादशभेदानां
(१) उक्तञ्च--परेणैवेण ग्रहाः सर्वे पूर्वेणैवाणग्रहा मताः।
ऋतेऽणुदित्सवर्णस्येत्येतदेकं परेण तु ॥ इति ।
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
एवं कारोsपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्य म् । 'ऐ औच' इति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः सज्ञाः स्युरिति नापादनीयम् ।
[ सञ्ज्ञा
कायद्वादशभेदानां च ग्रहणादिति भावः । एवं दकारोऽपीति । ऋकारस्यापि कारसवर्णत्वादिति भावः । ननु एकारेण ऐकारप्रपञ्चोऽपि गृहयेत ऐकारेण एकार प्रपञ्चश्च । तथा ओकारेण औकारप्रपञ्चो गृह्येत । औकारेण ओकारप्रपञ्चश्च । ततश्च 'एचश्चतुर्विंशतेः सज्ञाः स्युरित्येवं वक्तव्यम् । नतु द्वादशानामित्यत आह- एदैतोरिति । कुतो न सावर्ण्यमित्यत आह- ऐ श्रजिति । यदि ह्येदैतोः ओदौतोश्च परस्परं सावर्ण्य स्यात्, तर्हि एकारेण ऐकारप्रपञ्चस्य ओकारेण औकारप्रपञ्चस्य च अकारादिभिर्दीर्घप्लुतानामिव ग्रहणसम्भवात् 'ऐ औच्' इति सूत्रं नारभ्येत । आरभ्यते च । अतः एदैतोरोदौतोश्च न परस्परं सावर्ण्यमिति विज्ञायत इत्यर्थः । अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाद्याः । च 'एचोऽयवायाव' इत्यत्र यथासंख्यार्थमै औजिति सूत्रमस्त्विति वाच्यम् । तत्र "स्थानेऽन्तरतमः" इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः । वस्तुतस्तु, 'ऐऔच' इति सूत्राभावे "वृद्धिरा‘दैच्” “न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्” प्लुताचैच इदुतौ' इत्यादौ एड्प्रहात्तौ दोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमै - औजित्यारम्भणीयमेव । अतः ऐ औजिति सूत्रारम्भस्य चरितार्थत्वात् एदैतोरोदौतोश्च मिथः सावयभावसाधकत्वकथनमनुपपन्नमेव । एदैतोरोदौतोश्च मिथः साव
भावस्तु वृद्धिरादैजित्यादौ क्वचिदैज्ग्रहणात् 'अदेङ् गुणः' इत्यादौ क्वचिदे ग्रहणाच्च सुनिर्वाहः । अन्यथा सर्वत्र एङ्ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात् । तावतैव चतुर्णा ग्रहणसम्भवात् । अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामर्थ्यादेदैतोरोदौतोश्च न मिथः सावर्ण्यम् | 'प्लुतावैच इदुतौ' 'एचोऽप्रगृह्यस्य' इति प्रत्याहारद्वयग्रहणवैयर्थ्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । तेनेति । एदैतोरोदौतोश्च मिथस्सावर्ण्यभावेनेत्यर्थः । नापादनीयमिति । नाशङ्कनीयमित्यर्थः । एवं च एकारेण सह वर्तत इति सैः हे सैरित्यत्र 'एड् हस्वात्' इति सम्बुद्धिलोपो न । ग्लावं ग्लाव इत्यत्र 'औतोऽम्शसोः' इत्यात्वं च न ।
स्यादेतत् । हकारस्य आकारस्य च सवर्णसज्ञा स्यात्, स्थानप्रयत्नसाम्यात्, अज्झलामेव सावर्ण्यनिषेधात् वार्णसमाम्नायिकानामेव वर्णानां अज्झलशब्दवाच्यत्वात् आकारप्रश्लेषे च प्रमाणाभावात् । न चाकारस्याच्त्वात् तेन आकारस्यापि अणुदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावर्ण्यमिति वाच्यम् । ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम् । तद्धि सवर्णपदघटितं सवर्णपदार्थावग
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
'नाज्झलौ' (सू १३) इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव, तथापि हकारस्याऽऽकारो न सवर्णः । तत्राप्याकारस्य प्रश्लिष्टत्वात् । तेन 'विश्वपाभिः'
मोत्तरमेव लब्धात्मकम् । सवर्णसज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थ बोधयदपि नाज्झलावित्यपवादविषयं परिहृत्य तदन्यत्रैव पर्यवसन्नं स्वकार्यक्षमम् । तदुक्तम्-'प्रकल्प्यापवादविषयं उत्सर्गोऽभिनिविंशते' इति । उक्तं च भाष्ये-वर्णानामुपदेशस्तावत् । उपदेशोत्तरकाला इत्सब्ज्ञा। इत्सज्ञोत्तरकाल: आदिरन्त्येनेति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति' इति । अन्यत्र 'अस्य च्वौ' इत्यादावित्यर्थः । अत्र भाष्ये प्रत्याहारोत्तरकाला सवर्णस त्यनेन नामलाविति निषेधसहितः सावर्ण्यविधिर्विवक्षितः, केवलसावर्ण्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमासम्भवात् । तथा चादित्सूत्रस्य नामलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात् तेन नाज्मलावित्यत्र अन्ग्रहणेन सवर्णानां ग्रहणाभावात् सावर्ण्यविधिनिषेधाभावात् आकारहकारयोः सावये स्यादिति शङ्कते-नाज्मलाविति सावयेत्यादिना । यद्यपीति सम्भावनायाम् । अक्षरसमाम्नायश्चतुर्दशसूत्री । तत्र भवा आक्षरसमाम्नायिकाः । "बह्वचोऽन्तोदात्तात्" इति ठञ् । न च नाझलाविति प्रवृत्तिदशायामणुदिसूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु । प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा । न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति । अणुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः । परिहरति-तथापीति । वार्णसमाम्नायिकानामेव नाज्झलविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः। कुत इत्यत आह--तत्रापीति । अपि शब्दो व्युत्क्रमः । तत्र नामला. विति सूत्रे, आ सहितः अच्आच् इत्याकारस्यापि सवर्णदीर्षण प्रश्लिष्टत्वादित्यर्थः । नन्वस्तु हकारस्य आकारस्य च सावर्ण्यम् , किं तत्प्रतिषेधार्थेन अकारप्रश्लेषेणे. त्यत आह--तेनेति । तेन हकारस्य आकारस्य च सावर्ण्यप्रतिषेधेन हकारेण आकारस्य ग्रहणाभावात् विश्वपाभिरित्यत्र "हो ढः” इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति । आकारप्रश्लेषाभावे तु, तस्य हकारस्य च सावण्यसत्त्वात् हकारेण आकारस्य च ग्रहणात् तस्य ढत्वं स्यादित्यर्थः । अत्र ढत्व. स्यासिद्धत्वात् संयोगान्तलोप एवापादनीय इति नवीनाः । “कालसमयवेलासु तुमुन्" इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशः नाझलावित्यत्र आकार
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सिद्धान्तकौमुदी
[सम्ज्ञा
इत्यत्र 'हो ढः' (सू ३२४ ) इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः सञ्ज्ञा । (१५) तपरस्तत्कालस्य १११७०। तः परो यस्मात्स च तात्परश्वोच्चार्यमाणःसमकालस्यैव सज्ञा स्यात् । तेन 'अत्' 'इत्' 'उत्' इत्यादयः षण्णां षण्णां सज्ञा । 'ऋत्' इति
प्रश्लेषे प्रमाणम् । अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वा आपत्तौ आकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रे अज्ग्रहणमेव क्रियताम् । अणुदित्सवर्णस्येति किमण्ग्रहणेन हयवरलानां सवर्णाभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह-- अनुनासिकेति । तेनेति । उक्तद्वैविध्येन सवर्णत्वात् अननुनासिकास्ते यवलाः प्रत्येक द्वयोद्वयोः सज्ञाः। अनुनासिकास्तु यवलाः अननुनासिकानामपि न सज्ज्ञाः, 'भेदका गुणा' इत्याश्रयणात् वर्णसमाम्नाये अननुनासिकानामेव तेषां पाठाच्च । एवं च यवलसङ्ग्रहार्थ ग्रहणकसूत्रे अज्ग्रहणमपहाय अण्ग्रहणमिति भावः ।
ग्रहणकसूत्रे अण् सवर्णानां ग्राहक इति स्थितम् । एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते--तपरस्तकालस्य । तपर इत्यावर्तते । प्रथमस्तावत्तपरशब्दः तः परः यस्मादिति बहु. ब्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। उकाल: उष्टमुख इत्यादिवत् समासः । एवं च 'अत्' 'इत्' इत्याद्यात्मकः अण तपरत्वेन उच्चार्य. माणः स्वीयकालसदृशकालस्य सज्ञा स्यादित्यर्थः । तत्र अत् इत् उत् ऋत् इत्ये. तेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालाः तत्तद्धस्वप्रपञ्चाः । एत् , ऐत्, ओत् औत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालाः तत्तहीर्घप्रपञ्चाः। तत्र हस्वाकारादीनां तपराणां तत्तद्धस्वप्रपञ्चवाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् 'सिद्ध सत्यारम्भो नियमार्थः इति न्यायेन सूत्रमिदं नियमार्थ सम्पद्यते। अण् तपरश्चेत् तत्कालस्यैव सवर्णस्य ग्राहकः । न त्वतत्कालस्येति । एवं च अतत्कालनिवृत्त्यात्मकपरिसङ्ख्यार्थमिदं सूत्रम् । वैयाकरणास्तु परिसंङ्ख्याविधिमेव नियमविधिरिति व्यवहरन्ति । तदिदं सर्वमभिप्रेत्य व्याचष्टे-तः परो यस्मादित्यादिना। नियमविधानस्य फलमाह-- तेनेत्यादिना । तेन नियमविधानेन । आदिना लत् इत्यादिसंग्रहः। अत् , इत् , उत् , लत् , एत् , ऐत् , ओत् । औत् , इत्येते अष्टौ तपराः अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः, न त्वत्तत्कालानामित्यर्थः । ऋदिति द्वादशानामिति । ऋलवर्णयोरिति सावर्ण्यविधानादिति भावः। नन्वेवं लदित्यपि द्वादशानां ग्रहणं
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता।
२३
द्वादशानाम्। (१६)वृद्धिरादैच १।११। आदैश्च वृद्धिसञ्ज्ञः स्यात् । (१७)अदेस्यात् । तथा च 'पुषादिद्युतालुदितः' इत्यादिविधयः ऋदित्स्वपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लप्रपञ्चस्य ग्रहणेऽपि कचित् लदिग्रहणबलेन ल इत्यनेन प्रपञ्चस्य ग्रहणाभावात् । अन्यथा "ऋतो ङि" इत्यादौ क्वचित् ऋग्रहणस्य पुषाधुताघलुदित इत्यादौ क्वचित् लादिग्रहणस्य च वैयर्थ्यांपत्तेः प्रथमातिक्रमणे कारणाभावेन सर्वत्र ऋदिग्रहणस्यैव कर्तुं शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम् , नतु लदपीति । अत्र च तः परो यस्मादिति बहुव्रीहेः अत्, इत् , उत् इत्यायुदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यकार उदाहरणम् । आत् ईत् , ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् । आकारादिषु हि तपरसूत्रमपू.. विधानार्थम् , उत नियमार्थम् ? नाथः, तपरसूत्रे ग्रहणकसूत्रादणित्यनुवृत्तेः। तत्र अणित्यस्य उक्तरीत्या वर्णसमाम्नायपठितवर्णमात्रपरत्वात् । तपरसूत्रे अणग्रहणानुवृत्त्यभायेऽपि जातिपक्षे आकारादिभिः दीर्घः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्यर्थत्वात् । न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात् । एवं च आत् , ईत् इत्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चः ग्रहणकशास्त्रप्रपञ्चश्च ।
इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह-पृद्धिरादैच । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रम् , तथापि नेदमादावुपन्यस्तम् , अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्मितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृ. त्युत्तरप्रवृत्तिकतया प्रत्याहारशास्त्रग्रहणकशास्त्रप्रपञ्चनिरूपणात् प्रागुपन्यासानहत्वात् । नच सूत्रकृता अयमेव पाठक्रमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महनियेन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः । 'द्वन्द्वाच्चुदषहा. न्तात्' इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । “चोः कु" इति पदान्ते विहितं कुत्वमपिन, 'अयस्मयादीनि छन्दसि इति भत्वात् । 'वृद्धिरादैजदे' इति संहितापाठपक्षे चकारस्य 'झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव, 'उभयसंज्ञान्यपिछन्दसि दृश्यन्ते' इति वचनात् 'छन्दोवत्सूत्राणि भवन्ति' इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तः। नचैवमपि पदत्वात् कुत्वं भत्वात् जश्त्वाभावश्च कुचो न स्यादिति वाच्यम् , 'छन्दसि दृष्टानुविधिः' इति वचनादित्यलम् । आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम् । आचार्य: पारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह-प्रादैच्चेत्यादिना। अदे.
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सिद्धान्तकौमुदी
[सम्ज्ञा
गुणः १११।२। अदेङ् च गुणसञः स्यात् । (१८) भूवादयो धातवः १।३।१। क्रियावाचिनो भ्वादयो धातुसज्ञाः स्युः। (१) प्राग्रीश्वरान्निपाताः १४१५६। इत्यधिकृत्य । (२०) चादयोऽसत्त्वे १५७। अद्रव्यार्थाश्चादयो
गुणः । संज्ञाप्रस्तावात् संज्ञेति लभ्यते, अच्च एङ् चेति समाहारद्वन्द्वः । तदाहअदेङ चेत्यादिना।
भूवादयो धातवः । भूश्च वाश्च भूवौ। आदिश्च आदिश्च आदी। प्रथमः आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासहशाश्च ये, ते धातुसंज्ञका इत्यर्थः। वाधातुसादृश्यं च क्रियावाच. कत्वेन । तदाह-क्रियावाचिन इत्यादिना। क्रियावाचिनः किम् । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि 'आतो धातोः' इत्याल्लोप: स्यात्। वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्त. यच्छब्दस्यात्र न ग्रहणप्रसक्तिः । क्रियावाचिन इति तु वाशब्दस्य विकल्पोर्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम् , धातुपाठे वा इत्यस्य पाठात् । 'वा गतिगन्धनयो, 'या प्रापणे इत्यर्थनिर्देशस्याधुनिकत्वात् । क्रियावाचिन इत्युक्तौ तु न दोषः। वार्थ. स्य विकल्पस्य, वा भविष्यति इति वा अभवदित्येवं भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावादिति शब्देन्दुशेखरे स्थितम् । भ्वादयः किम् ? वर्जनक्रियावाचिनो हिरुक् इत्यस्य धातुत्वं मा भूत्। . प्राग्रीश्वरान्निपाताः। प्रथमस्य चतुर्थपादे 'तत्प्रयोजको हेतुश्च' इत्यनन्तरमिदं सूत्रम् । रीश्वरशब्दः 'अधिरीश्वरे' इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वात् नापशब्दः । अत एव प्रत्यक्षोपजीव्यत्वादिति चिन्तामणिवाक्यस्य प्रत्यक्षमितीति प्रतीकग्रहणं तद्वयाख्याने दृश्यते। इतः "प्रभृति अधिरीश्वर"इति एतत्पादीयो. परितनसूत्रे रीश्वरशब्दात् प्राक् निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुव. तत इति यावत् । रेफविशिष्टग्रहणं किम् । 'ईश्वरे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत्। यदि तु प्रथमातिक्रमणे कारणाभावात् अधिरीश्वर इत्यस्यैवावधित्वम् , तदा सरेफग्रहणं स्पष्टार्थम्। चादयोऽसत्त्वे । च: आदिः येषां ते चादयः गणपाठसिद्धाः। 'निपाता' इत्यधिकृतम् । सत्त्वशब्देन द्रव्यमुच्यते 'द्रव्यासु व्यवसायेषु सत्त्वम्' इत्यमरः। लिङ्गसङ्ख्याकारकान्वितं द्रव्यम् । चाअर्थाः समुच्चयादयः यदा चादिभिर्गम्यन्ते, तदा लिङ्गाधन्विता न भवन्ति यदा समुच्चयादिशब्द. गम्याः, तदा लिङ्गाद्यन्विताः, शब्दस्वाभाव्यात् । न सस्वम् असत्त्वम् अद्रव्यं तत्र वाचकतया विद्यमानाश्चादयः निपातसंज्ञकाः स्युरित्यर्थः । तदाह--अद्रव्यार्था
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम
बन्ना सहिता ।
अद्रव्यार्थाः प्रादयस्तथा ।
निपातसज्ञाः स्युः । (२१) प्रादयः १|४|५८ | (२२) उपसर्गाः क्रियायोगे १ | ४|५६ | (२३) गतिश्व १२४ ६० । प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा गतिसंज्ञाश्च स्युः । परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उपएते प्रादयः । (२४) न वेति विभाषा १|१|४४ | निषेधविकल्पयोर्वि
प्र
―
२५
1
1
I
इति । असत्त्वे किम् - -छागः पशुः । चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव पुष्टं पशु मन्यते । इह पशु इति सम्यगर्थे । प्रादयः । असत्व इत्यनुवर्तते, निपाता इति च । तदाह-- श्रद्रव्येति । तथेति । निपात: संज्ञका इत्यर्थः । उपसर्गाः । गतिश्च । सूत्रद्वयमिदं व्याख्यासौकर्यात् सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति बहुत्वे एकवचनमार्षम्। तदाह - प्रादय इत्यादिना । क्रियायोग इति । क्रियया अन्वये सतीत्यर्थः । निपाता इत्यप्यत्रानुवर्तते, प्राग्रीश्वसत्त दधिकारात् । ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति । आकडारादिति च बाध्यते । गत्युपसर्गसंज्ञयोस्तु गतिश्चेत्ति चकारादेव समावेशः सिद्ध्यति । ततश्च प्रणेयमित्यादौ उपसर्गकार्यम् ' उपसर्गादसमासेऽपि' इत्यादि सिद्ध्यति । गतिकारकेत्यादि कार्य च । निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति- प्र परेत्यादि । परा इत्याकारान्तम् । अयधातौ ' उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् - निलयते दुलयते । निसो दुसकच 'ससजुषो रुः' इति रुत्वस्यासिद्धत्वात् न त्वम् । निरयते दुरयते । एतदर्थमेव निसदुसोर्निर्दुरोश्च पृथक्पाठः ।
99
न वेति विभाषा । 'मेध्यः पशुरनड्वान्विभाषितः' इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः । इह तु शास्त्रे निषेधो विकल्परचेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते । इतिशब्दाभावे, स्वं रूपं शब्दस्येति नवाशब्दयोः स्वरूपपरत्वान्नवा शब्दयोर्विभाषासंज्ञेत्यर्थः स्यात् । ततश्च "विभाषा श्वेः" इत्यादौ नवाशब्दावादेशौ स्याताम् । इतिकरणे तु नायं दोषः । इतिर्हि प्रत्येकं सम्बध्यते । ततश्च 'न' इति शब्देन योऽर्थो गम्यते निषेधः, 'वा' इति शब्देन योऽर्थो गम्यते विकल्पः, तदुभयस्य मिलितस्य विभाषा सञ्ज्ञा स्यादित्यर्थः फलति । एवं च नवाशब्दार्थयोरेव सञ्ज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः । तदाह-निषेधविकल्पयोरित्यादि । उभयत्र विभाषार्थमिदं सूत्रम् । तथाहि — प्राप्त - विभाषा अप्राप्तविभाषा उभयत्र विभाषेति त्रिविधा । प्राप्तविभाषा यथा-: — "विभाषा जसि" इति वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र 'द्वन्द्वे च' इति नित्यतया सर्वनामसम्ज्ञानिषेधे प्राप्ते विभाषेयम् । अप्राप्तविभाषा यथा-तीयस्य ङित्सु विभाषेति ।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
सिद्धान्तकौमुदी
[ सब्ज्ञा
द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाभावात् अप्राप्तायां सर्वनामसज्ञायां विभाषेयम् । उभयत्र विभाषा यथा — विभाषा श्वेरिति श्वयतेर्लिटि यङि च सम्प्रसारणविभाषेयम् । तत्र लिटि शुशाव, शिश्वाय, शुशुवतुः, शिश्वियतुः, इत्याद्युदाहरणम् । यङि तु शोशूयते इति । अत्र यशे अप्राप्तविभाषैवेयम् । लिटि तु द्विवचनबहुवचनेष्वपित्सु 'वचिस्वपियजादीनां किति' इति नित्यतया सम्प्रसारणं प्राप्तम् । पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव । " असंयोगाल्लिट् कित्” इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः । एवं च प्राप्तेऽप्राप्ते च आरम्भात् 'विभाषा श्वेः' इत्युभयत्र विभाषेति स्थितिः । तत्र यदि "नवेति विभाषा" इति सूत्रं नारभ्येत, तर्हि अनवान्विभाषितः इत्यादियाज्ञिकप्रयोग इव विभाषा श्वेरित्यत्रापि केवलविकल्पः प्रतीयेत । भावः अभावश्चेति द्वयं तावद्विकल्पः । ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयमिति लभ्यते । तंत्र यदि ' विभाषा खेः' इति विकल्पो विधिमुखः - लिटि श्वयतेः सम्प्रसारणं भवति न भवतीति, तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात् । तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भावनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम् । कित्सु तु प्रवृत्तिर्न स्यात् । तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भावनांशो न विधेयः । न भवतीत्यंश एव विधेयः । एवं च उभयांशविधेयत्वालाभात्तत्र विकल्प - विधिरयं न प्रवर्तत तत्र नित्यमेव सम्प्रसारणं स्यात् । यदि तु विकल्पो निषेधमुखःलिटि यतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात् । तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम् । अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम् । पित्सु तु प्रवृत्तिर्न स्यात् । तत्र सम्प्रसारणस्य अप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनत्वात् । न च पित्सु विधिमुखः कित्सु निषेधमुखः इत्युभयथापि प्रवृत्तिरिति वाच्यम् । सकृच्छ्रतस्य विभाषाशब्दस्य क्वचिद्विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात् । आवृत्या तद्बोधने तु स एव दोषः । “नवेति विभाषा" इत्यारम्भे तु श्रुतक्रमानुरोधेन बोधात् नेत्यंशेन कित्सु पूर्व निषेधः प्रवर्तते । ततः किकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते । तदेवमुभयत्र विभाषार्थमिदं सूत्रम् ।
प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात् । अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात् । नचैवमपि "उणादयो बहुलम्" "हृक्रोरन्यतरस्याम्" "छन्दस्युभयथा” “अनुपसर्गाद्वा" इत्यादिविधिषु विभाषा शब्दाभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारमिति वाच्यम्, विभाषाशब्दस्यान सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात् । एवं च लोके ये विकल्प
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
२७
-
-
भाषा सञ्ज्ञा स्यात् । (२५) स्वं रूपं शब्दस्याशब्दसञ्ज्ञा ११११६८। सब्दस्य स्वं रूपं सज्ञि शब्दशास्त्रे या सज्ञा तां विना । (२६) येन विधिस्तदन्तस्य १।१।७२। विशेषणं तदन्तस्य सज्ञा स्यात् स्वस्य च रूपस्य। समासपर्यायाः शब्दाः, ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम् । भाष्ये तु विभाषादिशब्दानां लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्त्युपपत्तेः एतत्सूत्रं प्रत्याख्यातमित्यलं बहुना। __ 'अग्नेक 'वास्तुपित्रुषसो यत्' 'राज्ञो यत्' इत्यादौ लौकिकव्युत्पत्या उपस्थितानां वहिवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात् प्रातिपदिकादित्यनेनान्वयासम्भवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तो तन्नियमार्थमिदं सूत्रमारभ्यते-त्वं रूपम् । अग्ने गित्यादौ अग्न्यादिशब्दस्य यत् स्वरूपं श्रुतं तदेव अग्न्यादिशब्दैः प्रत्येतव्यम् , नतु तदन्यः तत्तत्पर्यायोऽपि । शब्दशास्त्रे सङ्केतिता वृद्धिगु. णादिसज्ञा शब्दसञ्ज्ञा, तत्र नायं नियम इत्यर्थः । तदाह-शब्दस्य स्वं रूपं सशीति । बोध्यमित्यर्थः । न च वृद्धिः गुणः इत्यादिसज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसञत्यनेनेति वाच्यम् । “उपसर्गे धोः किः" इत्यत्र 'घुशब्दे' इति धुधातुनिवृत्यर्थत्वात् 'दाधाध्वदाप' इति सज्ञाकरणस्य 'घुमास्थागा. पाजहातिसां हलि" इत्यादी आवश्यकतया सज्ञाकरणस्य सामथ्योपक्षयादित्यन्यत्र विस्तरः । इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
यत् शब्दस्वरूपम् उपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः, 'उपसर्गे घोः किः' इति दधातेः भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्रकृत् विधाने कर्ता । धातोरित्यधिकृत्य एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्टयन्ततया च विपरिणम्यते । एवं च विशेषणसमर्पकः शब्दः तदन्तस्य स्वस्य च प्रत्यायक इति फलति। तदाह-विशेषणं तदन्तस्य संज्ञा स्यात्स्वस्य चेति । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य विशेषणसमर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्यय: स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः। तत्तु शब्देन्दुशेखरे दूषितम् । समातेति । वार्तिकमेतत् । समासविधौ
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
प्रत्ययविधौ प्रतिषेधः । उगिद्वर्णग्रहणवर्जम्। (२७) विरामोऽवसानम् १|४|११० । वर्णानामभावोऽवसानसञ्ज्ञः स्यात् । (२८) परः सन्निकर्षः संहिता १|४|१०६ वर्णानामतिशयितः सन्निधिः संहितासज्ञः स्यात् । ( २ ) सुप्तिङन्तं पदम्
[ सञ्ज्ञा
प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्र "द्वितीया श्रित" इति समासो न भवति । सूत्रनडल्य गोत्रापत्यं सौत्रनाडि: । "अत इञ्” “अनुशतिकादीनां च" इत्युभयपदवृद्धिः । अत्र "नडादिभ्यः फक्” इति न भवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र "उगितश्च" इति उगिदन्तात्प्रातिपदिकात् विहितो ङीप् न स्यात् प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र "अत इज्” इति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ् स्यादित्यत आहउगिदिति । इदमपि वार्तिकम् । द्वितीयायां चेति वर्जयतेर्णमुल् । उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवति । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तात् उगितश्चेति ङीप् । दाक्षिरित्यत्र अवर्णान्तादिज् च सिध्यति ।
विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः सामीपिकेऽधिकरणे घञ् । विरमणं क्रियाया अभाव, स च शब्दशास्त्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तथा च यस्मिन् वर्णे उच्चारिते सति अव्यवहितोत्तरकाले वर्णान्तराणामुच्चारणाभावः सः अन्त्यवर्णः अवसानसञ्ज्ञक इत्यर्थः फलति, तदभिप्रेत्य व्याचष्टे – वर्णनामित्यादिना । यस्मिन्नुच्चारिते सति वर्णान्तराणाम् उच्चारणाभावः सः अन्त्यवर्णः अवसानसञ्शक इत्यध्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाभावः विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एक गृह्यते, व्याख्यानात् । अस्मिन् पक्षे किञ्चिद्वर्णोच्चारणोचरं वर्णान्तराणामुच्चारणाभावः अवसानमिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतः रेफस्य विसर्गः, अवसाने तु रेफे स्थानिनीति योज्यम् । खरवसानयोरित्येकापि सप्तमी 'विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् । परः सन्निकर्षः। परः । अतिशयितः 'दूरानात्मोत्तमाः पराः, इत्यमरः । सन्निकर्षः सामीयम्, अर्धमात्राधिककालव्यवधानाभावः, अर्धमात्राकालव्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रेत्याह-प्रतिशयित इत्यादिना । सुप्तिङन्तं पदम् । सुप् इति स्वौजसमौडिति सूत्रे सु इत्यारभ्य सुपः पकारेण प्रत्याहारः । न तु सप्तमीबहुवचनस्यैवात्र ग्रहणम्, व्याख्यानात् । सुप्च तिङ् च सुप्तिङौ तौ अन्ते यस्य तत् सुप्तिङन्तं शब्दरूपमिति शब्दशास्त्र प्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्ब
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता।
२8
-
१।४।१४। सुबन्तं तिङन्तं च पदसझं स्यात्। (३०) हलोऽनन्तराः संयोगः श१७। अज्भिरव्यवहिता हलः संयोगसञ्ज्ञाः स्युः । (३१) ह्रस्वं लघु १।४।१०। (३२) संयोगे गुरु १।४।११। संयोगे परे ह्रस्वं गुरुसङ्गं स्यात् । (३३) दीर्घ च १।४।१२। दीर्घ च गुरुसझं स्यात् ।
इति सज्ञाप्रकरणम् ।
-
अथ परिभाषाप्रकरणम् (३४) इको गुणवृद्धी १।१।३। गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयते ध्यते । तदाह-सुबन्तमित्यादिना । हलोऽनन्तराः संयोगः। अन्तरशब्दोऽत्र व्यव'धाने वर्तते । 'अन्तरमनकाशावधिपरिधानान्तधिभेदतादयें। इत्यमरः। व्यवधानं च विजातीयेनैव । अविद्यमानम् अन्तरं व्यवधानं येषामिति विग्रहः । “नमोऽस्त्यर्थानाम्" इति विद्यमानपदस्य लोपः । तदाह-प्रज्भिरित्यादिना। तत्र हलो च हलश्व हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र 'गुरोश्च हलः' इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञा. करणात्, व्याख्यानाच्च । नतु प्रत्येकम् । तथा सति सुदृषत्प्रासाद इत्यत्र पका. रसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तः। यत्र तु बहवो हल: लिष्टा तत्रापि द्वयोद्वयोः संयोगसंज्ञा, नतु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् । इस्वं लघु । हस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वात् न व्याख्यातम् । अत एव निर्देशात् हस्वशब्दो नपुंसकलिङ्गोऽपि । संयोगे गुरुः । हस्वमित्यनुवर्तते। तदाह-संयोगे पर इत्यादिना । दीर्घ च । संयोग इति नानुवर्तते। दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संशाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां संज्ञाप्रकरणं समाप्तम् ॥
इको गुणवृद्धी । इक इति षष्ठ्यन्तशब्दः स्वरूपपरः नपुंसकलिङ्गः प्रथमैकव. चनान्तः । सो का लुप्तत्वात् "अत्वसन्तस्य" इति दीर्घो न। इकस्शब्द इत्यर्थः । उपतिष्ठत इति शेषः । 'वृद्धिरादैच् 'अदेणुग्णः' इत्यतो वृद्धिरिति गुण इति चानुवतते । इतिशब्दोऽध्याहार्यः। यत्र विधीयते तत्रेत्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यन्त्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठयन्तं पदमुपतिष्टत इति
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ परिभाषा
तत्र 'इकः' इति षष्ठ्यन्तं पदमुपतिष्ठते । (३५) अचश्च ।। ह्रस्वदीर्घप्लुतशब्दैयंत्राज्विधीयते तत्र 'अचः' इति षष्ठयन्तं पदमुपतिष्ठते । (३६) आधन्तो टकितौ १११।४। टित्कितौ यस्योक्तौ तस्य क्रमादायन्तावयवौ स्तः । (३७) मिदचोऽन्त्यात्परः । ॥१॥४७। 'अचः' इति षष्ट्यन्तम् ।
योजना । तदाह-गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः । उपाद्देवपूजासङ्गतिकरणेत्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भा. ज्यादौ सिद्धान्तितः। 'सार्वधातुकार्धधातुकयोः', 'मिदेर्गुणः' इत्यायुदाहरणम् । हक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभविष्यति । यत्र विधीयते इत्युक्त्वा वृद्धि यस्याचामित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषाणामनुपस्थितेः। 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् । अचश्च । अच इत्यपि षष्ठ्यन्तशब्दः स्वरूपपरः पूर्वसूत्रे इक इतिवत् । उकालोऽजित्यतः अच् हस्वदीर्घप्लुत इत्यनुवर्तते । इति. यत्र विधीयत इत्यध्याहार्यम् । फलितमाह-हस्वेत्यादिना । "दिव उत्" इत्यादौ तु नेदं प्रवर्तते, हस्वादिशब्दानां अश्र. वणात्। 'हस्वो नपुंसके प्रातिपदिकस्या इत्यायुदाहरणम् । श्रीपम् । नेह--सुपात्। ब्राह्मणकुलम् । श्राद्यन्तौ टकितौ । आदिश्च अन्तश्च आद्यन्तौ टश्च कुच टको, टकारादकार उच्चारणार्थः । टको इतौ ययोस्तौ दकितौ । द्वन्द्वान्त इच्छब्दः प्रत्येक सम्बध्यते । टित्कितौ आद्यन्तावयवौ स्तः। कस्येत्याकाङ्क्षायां यस्य तौ विहितो तयोरित्यल्लभ्यते । तदाह-टिरिकतावित्यादिना । क्रमादिति यथासमयसूत्रलभ्यम् । टित् आद्यवयवः, कित् अन्तावयव इत्यर्थः । नचैवं सति मिलितयोरेकप्रान्वयाभावात् कथमिह द्वन्द्व इति वाच्यम् , प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासङ्ख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः । 'एचोऽयवायावः' इत्यादावप्येषैव गतिः । लोके त्वेवक्षातीयकप्रयोगः असाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोपन्यासो युक्तः "आर्धधातुकल्ये. ड्वलादेः' भविता । 'जोः कुक् टुक् शरि, प्राकषष्ठः इत्याद्युदाहरणम् । 'पुरस्तादपवादाः अनन्तरान् विधीन बाधन्ते नोत्तरान्' इति षष्ठी स्थानेयोगा' इत्यस्यानन्त-- रस्यैवायमपवादः । 'प्रत्ययः परश्च' इत्यनेन तु परत्वादिदं बाध्यते । तेन चरेष्टः गापोष्टक इत्यादयः परा एव भवन्ति ।।
मिदचोऽन्त्यात्परः। मकारः इत् यस्य सः मित् अन्त्यादचः परो भवतीत्यर्थे "शे मुचादीनाम्" इत्यादाविदं न प्रवर्तेत, तत्रान्त्वस्याचोऽभावात् अत आहअच इति षष्ठयन्तमिति । 'यतश्च : निर्धारणम्' इत्यनेनेति शेषः । अच
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता ।
अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् । (३८) षष्ठी स्थानेयोगा १|१|४६) अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः । इत्येकत्वमविवक्षितम् । तदाह - अचां मध्य इत्यादिना । अन्तावयव इति । एतच्च आद्यन्तावित्यतः अन्तग्रहणानुवृत्या लभ्यते, आद्यन्तशब्देकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनानुवृत्तिसम्भवात् । आदिग्रहणमनुवर्त्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने “सर्वनामस्थाने चासम्बुद्धौ” इति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत् । अभक्तत्वे तु वहलिहः इत्यत्र " वहाभ्रे लिहः" इति खशि, 'अरुद्विपत्' इति मुमि तस्य 'मोऽनुस्वारः' इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु-यस्य समुदायस्य मिद्विहितः तस्याचां मध्ये योऽन्त्यस्तस्मात्परः तस्य समु• दायस्य अन्तावयव इति व्याख्येयम् । अत एव 'समुदायभक्तो मित्' इति भाष्यं सङ्गच्छते । समासाश्रयविधौ मूलकारश्च वक्ष्यति 'अङ्गस्य नुम्विधानात् तद्भक्तो हि नुम्' इति
I
।
1
षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा, निपातनात् सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् । इको यणचीत्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्ठयर्थाः आर्या यौना मौखाः स्त्रौवाश्च । शब्दस्य शब्देन त्रय एव सम्बन्धाः--आनन्तर्य सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च "इको यणचि” इत्यादौ इक इति षष्ठया स्थानमुच्यते । तस्मिन् प्रकृत्यर्थः इक् निरूपकतयाऽन्वेति । अचि परतः इकः प्रसङ्गे यण् स्यादिति । विवरणarra त्वस्मिन् इक इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्कया । यथा-देवदत्तस्यावयवः पाणिरिति । "उदुपधाया गोहः" इत्यत्र तु गोह इति षष्ठी न स्थानार्थिका उपधापदसमभिव्याहारेण अवयवषष्ठीत्वनिर्धारणात् परिभाषाणां च अनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह - श्रनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या "इको यणचि” इत्यादौ षष्ठी स्थानरूपसम्बन्धविशेषार्थिकेति स्थितम् । मतुप्सूत्रभाष्ये तु अनन्तरादयो न षष्ठयर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ स्थाने इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविप्रहे तु अध्याहृतस्थानपदार्थनिरूपित सम्बन्धार्थिकेत्यर्थः । 'अस्तेर्भर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे - इत्यध्याहृतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठ्यर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां "हलअन्त्यम्” इति सूत्रे स्थितम् । तद्वयाख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपचि
1
For Private and Personal Use Only
३१
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सिद्धान्तकौमुदी
(३४) स्थानेऽन्तरतमः १।१।५० ॥ प्रसङ्गे सति सदृशतम आदेशः स्यात् ।
तम् | अनिर्धारितेति किम् । उदुपधाया इत्यत्र गोह इति षष्ठयाः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च उत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठ इत्यादौ । एवं च "इको यणचि" इत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेन अभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यात् इति इगधिकरणको यण् स्यादिति वा अर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह-स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौ दर्भाणां स्थाने शरैः प्रस्तरितव्यमित्यत्र स्थानशब्दस्य प्रसङ्ग इति दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवर्त्यन्ते, तद्वद् “इको चि” इत्यादावपि यणादिभिरिगादयो निवर्त्यन्ते । तत्र च यः प्रसरको निवर्तते स स्थानीति व्यवहियते, यो निवर्तयति स आदेश इति ।
परिभाषा
:
स्थानेऽन्तरतमः । स्थानं प्रसङ्ग इत्युक्तम् । अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरः अन्तरतमः तदाह - प्रसङ्गे सतीत्यादिना । एकस्य स्थानिन अनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः । अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम् । गुणशब्देन प्रयत्नः । प्रमाणशब्देन एकद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा— दध्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकारः । अर्थतो यथा - "सृज्वत्क्रोष्टुः” इति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्, अर्थसाम्यात् क्रोष्टृशब्द एव सृजन्त आदेशो भवति । गुणतो यथा - वाग्धरिः । अत्र हकार : स्थानी घोषनादसम्वारमहाप्राणप्रयत्नवान् । ककारस्तु न भवति, तस्य श्वासाघोषविवाराल्पप्राणप्रयत्नकत्वात् । तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि श्वासाघोषविवारप्रयत्नभेदात् । तथा तृतीयोऽपि गकारो न भवति, तस्य घोषनादसम्वारप्रयत्नसाम्येऽपि अल्पप्राणप्रयत्नभेदात् । अत एव ङकारो न भवति । नन्वत्र हकारस्य खकारो द्वितीयः कुतो न स्यात्, तस्य स्थानिना हकारेण श्वासाघोषविवारप्रयत्नभेदे सत्यपि महाप्राणप्रयत्नसाम्यत्वात् । तथा तृतीयो वा गकारः कुतो न स्यात् । तस्य स्थानिना हकारेण . अल्पप्राणप्रयत्नभेदेऽपि घोषनादसम्वार प्रयत्नसाम्यसत्वात् । अतएव डकारो वा कुतो न स्यादिति चेन्न, तमग्रहणेन उक्तातिप्रसङ्ग निरासात् । अतिशयितो ह्यन्तरः, अन्तरतमः । अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनाद. सम्वार महाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्वात् । खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसम्वारप्रयत्नविरहात् । गड्योः घोषनादसम्वारप्रयत्न
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता ।
‘यत्रानेकविधमान्तर्थं तत्र स्थानत आन्तर्यं बलीय:' ( प १४) । (४०) तस्मि
साम्येऽपि महाप्राणप्रयत्नविरहात् । प्रमाणतो यथा - " अदसो सेर्दा दुदोमः" इति ह्रस्वस्य उकारः दीर्घस्य उकारः ।
1
नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च "सार्वधातुकार्धधातुकयोः" इति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह-यत्रेति । तेन इकारस्य एकारः उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात् । न त्वकारः स्थानभेदात् । नच इकारेण एकारस्य उकारेण ओकारस्य च कथं स्थानसाम्यम् एकारस्य ओ. कारस्य च कण्ठस्थानाधिक्यादिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्य प्रयोजकत्वेsपि आन्तरतम्यपरीक्षायां कथञ्चित् स्थानसाम्यस्यैव प्रयोजकत्वात् । अन सूत्रे पूर्वसूत्रात् स्थाने ग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तं च विपरिणम्यते । अनुवर्त्यमानश्चायं स्थानशब्दः पूर्वसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वायन्यतमस्थानपरः, शब्दाधिकाराश्रयणात् । अन्तरतम इत्यपि तेन सम्बध्यते । ततश्च स्थानेनान्तरतम इति वाक्यान्तरं सम्पद्यते । सति सम्भवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः । ततश्च यत्रानेकविधमान्तर्य तत्र स्थानत एवान्तर्य बलीय इति भवति । तस्मिन्निति निर्दिष्ट “इको यणचि" इत्यन्त्र अचि इकः यण् स्यादित्यवगतम् । तत्र अचो वर्णान्तराधिकरणत्वं न सम्भवतीति सतिसप्तम्याश्रयणीया । अचि सति इको यण् स्यादिति, तत्र व्यवहिते अव्यवहिते च इको यण् प्राप्तः । ततश्च समिधमित्यत्र धकारव्यवहिते अकारे सत्यपि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको य प्रातः । ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको य स्यात् । तत्र अव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छन्दः स्वरूपपरः । तथा सति " तस्मिन्नणि च युष्माका माकौ" इत्यादावेव प्रवर्तत । न त्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्रगतस्य अचीत्यादिसप्तम्यन्तपदस्य तस्मिन्नित्यनुकरणम् । इतीत्यनन्तरं गम्येऽर्थं इति शेषः । निरिति नैरन्तयें । दिशिरुच्चारणे । एवं च "इको यणचि” “रायो हलि" इत्यादिसूत्रेषु अचि हलि इत्येवं सप्तम्यन्तपद्गम्येऽर्थे अकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टे अव्यवहितोच्चारिते सति पूर्वस्य कार्य भवति । न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः । व्यवधानं च वर्णान्तरकृतमेव निषिध्यते । नतु कालकृतम् | "इको यणचि" इत्यादा कालकृतव्यवधानस्य संहिताधिका-रादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधि-कारस्य वैयर्थ्यापातात् । एवं च ये संहिताधिकार बहिर्भूताः "आनदृतो द्वन्द्वे" "देवता 'द्वन्द्वे च" इत्यादयः उत्तरपदे परतः आनडादिविधयः ते सर्वे आग्नाविष्णू इत्यग्नावि३ बा०
I
C
For Private and Personal Use Only
३३
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ परिभाषा
निति निर्दिष्टे पूर्वस्य २६६। सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । (४१) तस्मादित्युत्तरस्य १११६७। पञ्चमोनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् । (४२) अलोऽन्त्यस्य ११११५२। षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् । (४३) ङिच्च ११११५३। अयमप्यन्त्यस्यैव स्यात् । '-सर्वस्य' (सू ४५) इत्यस्यापवादः । (४४) ष्णू इत्याधवग्रहे कालव्यवधानेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाहसप्तमीनिर्देशेनेत्यादिना। इति सूत्राक्षरानुयायी पन्थाः। 'अतिशायने तमप' इत्यत्र तु नेयं परिभाषा प्रवर्तते सप्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाव्यवहितोच्चारितत्वरूपनिदिष्टत्वासम्भवात् । नचैवमपि "कर्तृकर्मणोः कृति" इत्यत्रापि अस्याः परिभाषायाः प्रवृत्तौ कर्तृषष्ठी कर्मणि षष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यात्, नतु कृति कृष्णस्य कर्ता जगत इत्यत्र इति वाच्यम् । लक्ष्यानुरोधेन कचिदेवञ्जातीयकेषु अस्याः परिभाषाया अप्रवृत्तिरिति "श्नान्नलोप" इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्यानुसारेण अत्र सूत्रे निर्दिष्टग्रहणं संहिता. धिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते । तस्मादित्युत्तरस्य । "द्वयन्त. रुपसर्गेभ्योऽप ईत्" "उदःस्थास्तम्भोः पूर्वस्य” इत्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणं तस्मादिति। इतिशब्दानन्तरं गम्येऽर्थे इति शेषः । निर्दिष्टे इत्यनुवर्तते । निरिति नैरन्तये । दिशिरुच्चारणे । द्वयन्तरित्यादिसूत्रेषु पञ्चम्यन्तगम्ये अथें द्वयन्तरादिशब्दे निर्दिष्टे अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति । न तु व्यवहितोच्चारिते द्वयादिशब्दे । नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाहपञ्चमीनिर्देशेनेत्यादिना। उत्तरस्य किम् । “तिङतिङ" इति निघात उत्तरस्यैव भव. ति-अग्निमीळे । नेह ईळे अग्निम् । अव्यवहिते किम् ? उत् प्रस्थानम् । “उदस्थास्तम्भोः " इति पूर्वसवर्णो न भवति । ___ अलोऽन्त्यस्य । अलिति प्रत्याहारो वर्णपर्यायः । अल् इति षष्ठयन्तम् । 'षष्ठी स्थानेयागा' इत्यतः षष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्तं तृती. यान्ततया विपरिणम्यते । निर्दिष्टस्येति शेषः। स्थाने इत्यनन्तरं विधीयमान इति शेषः। स्थाने विधीयमान आदेश षष्ठीनिर्दिष्टस्य यः अन्त्यः अल् तस्य स्यादित्यर्थः । तदाह-षष्ठीत्यादिना। त्यदादीनामः-यः सः । आदेश इति किम् ? आर्ध. धातुकस्येट् तृचः ऋकारात् पूर्वो मा भूत् । अल इति किम् । पदस्येत्यधिकृल्य वि. धीयमानं वसुतस्विति दत्वं परमानडुयामित्यत्र अन्त्यस्य कृत्स्नस्य पदस्य मा भूत्। ङिच्च । डकारः इत् यस्य स ङित् । अलोऽन्त्यस्येत्यनुवर्तते । तदाहअयमपीति । डिदपीत्यर्थः । अवङ् तातङ् अनब् इत्यादिरादेश उदाहरणम् ।
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ 1
बालमनोरमासहिता।
-
आदेः परस्य ॥१॥५४॥ परस्य यद्विहितं तत्तस्यादेोध्यम् । 'अलोऽन्त्यस्य' (सू ४२) इत्यस्यापवादः । (४५) अनेकाल्शित्सर्वस्य ॥१॥५५॥ स्पष्टम् । 'अलोन्त्य' सूत्रापवादः । 'अष्टाभ्य औश्' (सू ३७२) इत्यादौ 'आदेः परस्य नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्ध किमर्थमिदमित्यत आह-सर्वस्येति । “अने. काल शित् सर्वस्य” इति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः। अपोद्यते बाध्यते अनेनेति अपवादः। बाहुलकः करणे घज । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्तेति भावे क्तः । येनेति कर्तरि तृतीया । द्वौ नावावश्यकत्वं बोधयतः। यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिः, तस्य अवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः। अयं च न्यायसिद्धः। अवडादयो हि ङित आदेशः सर्वे अनेकाल एव। तेषु चानेकाल्विशेषेषु विधीयमानेन डिंतामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तम् अनेकालसामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वान्निरवकाशत्वाच्च विशेषशास्त्रं हि विशेषेषु. झटिति प्रवर्तते, विशेषाणां स्वशब्देनोपात्तत्वात्। सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः। अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवातिके. 'अवश्यमेव सामान्य विशेष प्रति गच्छति।
गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम् ॥” इति । किं च यदि ङिच्चेति शास्त्रं अनेकाल्विशेषेषु डित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् । अनेकालिशत्सर्वस्येत्यस्य तु कित्सु अप्रवृत्तावपि नानर्थक्यम् , "तस्थस्थ. मिपां तान्तन्तामः" अस्तेभः इत्यादिष्वनेकाल्षु अङित्सुतस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति । आदेः परस्य । परस्येति । “द्वयन्तरुपसर्गेभ्योऽप ईदइत्यादौ तस्मादित्युत्तरस्येति परिभाषया परस्य नियमित कार्य यत्, तत् तस्यादेरेव भवति । नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह-अलोऽन्त्यस्येत्यस्यापवाद इति । तत्र अल इत्यप्यनुवर्तनीयम् । तेन द्वीपमित्यत्र ईत्वं पान्तसमुदायस्य न भवतीति ।।
अनेकाल्शित् सर्वस्य । न एकः अनेकः, अनेकः अल् यस्य सः अनेकाल, शकारः इत् यस्य सः शित्, अनेकाल्च शित् चेति समाहारद्वन्द्वः । स्पष्टमिति । अनुवर्तनीयपदान्तराभावादिति भावः । अस्तेभूरित्याधुदाहरणम् । ननु अस्धातोभूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह–अलो. ऽन्त्यसूत्रापवाद इति । अलोऽन्त्येति सूत्रैकदेशानुकरणम् । अनुकरणत्वादेव नापशब्दः, "अधिरीश्वरे" इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणलिङ्गात् । स्यादेतत् । अष्टनशब्दाजसि शसि च "अष्टन आ विमक्ता" इति आत्वे अष्टा अस
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[परिभाषा
(सू ४४) इत्येतदपि परत्वादनेन बाध्यते। (४६)स्वरितेनाधिकारः१॥३॥११॥ स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् । परनित्यान्तरमापवादानामुत्तरोत्तरं
इति-स्थिते अष्टाभ्य औशिति कृताकारात् अष्टनः परयोजशसोविधीयमान औशादेशः अलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः। अनेकाल्त्वाच्च सर्वादेशः प्राप्तः। एवम् 'अतो भिस ऐस्' इत्यादावपि । तत्र कतरच्छास्त्रं बोध्यम् , कतरच्च प्रवर्तत इत्यत्र कि विनिगमकमित्यत आह-अष्टाभ्य औशित्यादाविति । आदिना अतो भिस ऐसित्यादिसंग्रहः । अष्टाभ्य औशित्यादौ आदेः परस्येत्येदपि परत्वादनेन बाध्यत इत्यन्वयः। अस्ते रित्यादा अनेकाल्शिदित्यनेन यथा अलोsन्त्यस्येति बाध्यते तथा अष्टाभ्य औशित्यादौ आदेः परस्येत्येतदपि बाध्यत इत्यर्थः । ननु अस्ते रित्यादौ अलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शिदित्यारम्भात् येन नाप्राप्तिन्यायेनापवादत्वात्तेन तत्रालोऽन्त्यस्येत्यस्य बाधो युज्यते । आदेः परस्येत्यस्य तु अनेकाल्शित्सर्वस्येति नापवादः। अस्ते रित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तरित्यत आह-परत्वादिति । विप्रतिषेधे परं कार्यमिति तुल्यबलविरोधे पर. प्राबल्यस्य वक्ष्यमाणत्वादिति भावः । आदेः परस्येत्यस्यावकाशः द्वयन्तरुपसर्गेभ्यो. ऽप ईदित्यादिः। अनेकाल्शित्सर्वस्येत्यस्यावकाशः अस्तेर्भूः, इदम इश् इत्यादिः । अतस्तुल्यबलत्वमुभयोः । स्वरितेनाधिकारः । अधिकारः व्यापृतिः। यथा लोके अधिकृतो ग्रामेऽसाविति व्यापूत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापतिः, स्वरितेन स्वरविशेषेण अधिकारः उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीय. मिति यावत् । फलितमाह-स्वरितत्वयुक्तमित्यादिना। आनुनासिक्यवत् स्वरितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेवं भविष्यतीति कि सूत्रेण । तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।
परनित्येति। परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तरमित्यर्थः । उत्तरोत्तरमित्यत्र 'आनुपये द्वे वाच्ये' इति द्वित्वम् । 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात् सुपो लुक् । बलवच्छब्दात् "द्विवचनविभज्योपपदे तरबीप. सुनौ” इति ईयसुन् । “विन्मतो क्इति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयापि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवादः, इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः। परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा-तुदति । अत्र "तुदादिभ्यः शः" इति शप्रत्ययं बाधित्वा परत्वात्
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २]
बालमनोरमासहिता ।
बलीय:' ( प ३९ ) । 'असिद्धं बहिरङ्गमन्तरङ्गे' ( प ५१) 'अकृतव्यूहाः पाणिनीयाः " ( प ५७) । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः । इति परिभाषाप्रकरणम् ॥
लघूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृतिमर्हति । शप्रत्ययस्तु कृते अकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः । कृताकृतप्रसङ्गी यो विधिः स नित्य इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययः लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः "सार्वधातुकमपित” इति शस्य ङित्त्वात् "ङिति च" इति निषेधान्न गुणः । अक्लृप्ताभावकस्य नित्यशास्त्रस्याभावकल्पनापेक्षया क्लृप्ताभावकस्यानित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्वे बीजम् । परादन्तरङ्गं यथा - उभये देवमनुष्याः । अत्र "प्रथमचरम" इति परमपि विकल्पं बाधित्वा सर्वादीनीति नित्यैव सर्वनामसञ्ज्ञा भवति, तस्याः विभक्तिनिरपेक्षत्वेन अन्तरङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्वे बीजमाह - असिद्धं बहिरङ्गमन्तरने । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषा "वाह ऊठ्” सूत्रे भाष्ये स्थिता | परादपवादो यथा - दध्ना | 'अस्थिदधि' इत्यनङ् इह परमप्यनेकालिति सर्वादेशं बाधित्वा ङिच्चेत्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्वे बीजं तु अनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथाग्रामणिनि कुले । इह नित्यमपि इकोऽचीति नुमं बाधित्वा "ह्रस्वो नपुंसक" इति ह्रस्वः । प्रथमतः कृते नुमि अनजन्तत्वात् ह्रस्वो न स्यात् । अन्तरङ्गादपवादो यथादैत्यारिः । श्रीशः । परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वात् आद्गुणे यणि च प्राप्ते अपवादत्वात् सवर्णदीर्घः । प्रकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः व्यूहः प्रकृतिप्रत्ययविवेचनं यैः ते अकृतव्यूहाः पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयर्थ्यमित्यतोऽध्याहृत्य व्याचष्टे - निमित्तमित्यादिना । सेदुष इत्याद्यदाहरणम् । तच्च शब्दाधिकारे सेदिवस शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् ।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाँ परिभाषाप्रकरणं समाप्तम् ॥
३७
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८
सिद्धान्तकौमुदी
अथाच्सन्धिप्रकरणम् ।
(४७) इको यणचि ६ |१| ७७ ॥ इकः स्थाने यण् स्यादचि संहितायां विषये । 'सुधी उपास्यः' इति स्थिते । ( 1 ) स्थानत आन्तर्यादीकारस्य यकारः ।
[ अच्सन्धि
इको यचि । इक इति षष्ठी । अतः 'षष्ठी स्थानेयोगे'ति परिभाषया स्थान इति लभ्यते । स्थान- प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वासम्भवात् अचीति सतिसप्तमी । 'तस्मिन्निति निर्दिष्टे पूर्वस्येति परिभाषया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं च अचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमा श्राधिककालव्यवधानाभावो लभ्यते । एवं च फलितमाहइकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानुसारेण । संहितायामिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तम तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् - 'अयं योगः शाक्योsaक्तुम् । कथम् ? अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । ' तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति' इति । उप समीपे श्लेषः सम्बन्धः उपश्लेषः, तत्कृतमधिकरणमौपश्लेषिकं सामीपिकमिति यावत् । एवं च अच्समीपवर्तिनः इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाभावः । एवं च असंहितायामुक्तसामीप्याभावादेव यणभावसिद्धेः संहिताधिकारी न कर्तव्य इति भाष्यार्थः । एवं च तुल्यन्यायात् तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकारे सप्तमी । ततश्च अचीत्यादिसप्तम्यन्तार्थे अकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः फलति । नत्वव्यवहितोच्चारित इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निर्ग्रहणं न कर्तव्यम् । इदं च "स्नुक्रमोः" इति सूत्रे, "तत्र च दीयते" इति सूत्रे च कैयटे स्पष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारे आधारोऽधिकरणमित्यत्र स्पष्टीकरिष्यते ।
सुधी इति । ध्यै चिन्तायामिति धातोः 'ध्यायतेः सम्प्रसारणं चे 'ति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सुशोभना धीर्येषामिति वा सुधियः । सुधीभिरुपास्य इति विग्रहः । "कर्तृकरणे कृता बहुलम्” इति समासः । “सुपो धातुप्रातिपदिकयोः " भिसो लुक् ।
( १ ) ' व्यक्त्युपदेश पक्षेऽपि' इत्यादिः ।
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
38
'सुध्य उपास्यः' इति जाते। (४८) अनचि च ॥४॥४७॥ अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् । (88) स्थानिवदादेशोऽनल्विसुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याहारेषु तद्वाच्यवाच्येषु लक्षणा "नाज्झलाविति सूत्रे प्रपज्ञिता। तत्स्फोरणाय ईकार उदाहृतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाविशेषादित्यत आह-स्थानत प्रान्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने "स्थानेऽन्तरम्" इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकवादित्यथः। अत एव 'यथासंख्यमनुदेशः समानाम्' इति सूत्रे भाष्यम्-"किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत् सिद्धम्" इति। स्थानेऽन्तरतम इति सूत्र भाष्ये तु-'किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । संख्यातानुदेशेनाप्येतत् सिद्धम्' इत्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यणशब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाभावात् । गुणा. नाम् अभेदकत्वेऽपि यवलाः षट् रेफरचेति सप्त गृह्यन्ते । इक्शब्देन तु षट्पष्टिात इति विषमसंख्याकत्वात् कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयात्वादिना अनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं त्रिंशदुपस्थितौ लवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत् , श्रेणु-ऋत्वावच्छिन्नस्य रेफो भवति,लत्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न लवणेषु । लत्वजातिश्च न अवणेषु । अलवर्णयोः सावर्ण्यविधिबलात्तु ऋत्वम् लकारे, तृत्वम् ऋकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवम् ऋत्वं लत्वं च आदायात्र यथासंख्यप्रवृत्तिनिर्बाधेत्यास्तां तावत्।। . सुध् य् इति स्थिते इति । धकारस्य द्वित्वमिति वक्ष्यमाणेनान्वयः। केन सूत्रेणेत्यत आह-अनचि च । “यरोऽनुनासिकेऽनुनासिको वा" इत्यतः 'यर' इति षष्टयन्तं वेति चानुवर्तते । "अचो रहाभ्यां " इत्यतः अच इति पञ्चम्यन्तं वे इति चानुवर्तते, न अच् अनच तस्मिन् अनचोति नपर्युदासः। तथा सति'नजिवयुक्तमन्यसदृशे तथाह्यर्थगतिः' इति न्यायेन अन्भिन्ने हलीत्यर्थः स्यात् । तथा सति लाघवाढलीत्येव वदेत् । रामात् इत्याद्यवसानेषु च द्वित्वं न स्यात् । अतः अचि न भवतीत्यसमर्थ समासमाश्रित्य प्रतिषेधपरं वाक्यान्तरम् । तदाह-अचः परस्येत्यादिना। इति धकारस्येति । अनेन सूत्रेण धकारस्य द्विरुञ्चारणमित्यर्थः । धकारस्य उकारादचः परत्वादच्परकत्वाभावाञ्चेति भावः। ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वात् कथम् अच्परकत्वात् धकारस्य द्वित्वमिति शङ्कां हृदि निधाय तस्य स्थानि. वनावप्रापर्क सूत्रमाह-स्थानिवदादेशः । गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्ध
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०
सिद्धान्तकौमुदी
अच्सन्धि
धौ १११५ ॥ आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यका
र्मलाभो लोकतः सिद्धः । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः । इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात् स्थानं प्रसङ्ग इत्युक्तम् । यस्य स्थाने अन्यद्विधीयते तत् स्थानि । येन विधीयमानेन अन्यत् प्रसक्तं निवर्तते स आदेशः । स्थानिना तुल्यः स्थानिवत् । 'तेन तुल्य' मिति वतिप्रत्ययः । आदेशः स्थानिना तुल्यो भवति, स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्यायः । विधीयत इति विधिः कार्यम् । अलाश्रयो विधिः अल्विधिः । न अस्विधिः अनविधिः । अलाश्रभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः । अलाश्रयकायें कर्तव्ये स्थानिवन्न भवतीति फलितम् ।
अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः, अलि विधिश्चेति सर्वसंग्रहः । अला विधौ यथा - व्यूढोरस्केन । अत्र विसर्जनीयस्य सः इति विसर्गस्थानिकस्य सकारस्य विसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति । अलः परस्य विधौ यथा - द्यौः । “दिव औत्" इति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात् ततः परस्य सोर्हल्डया दिलोपः प्राप्तो न भवति । अलो विधौ यथा - कामः । दिव उदिति वकारस्थानिकस्य उकारस्य स्थानिव -
1:1
वेन वकारत्वात् 'लोपो व्योर्वलि' इति लोपः प्राप्तो न भवति । अलि विधौ यथाक इष्टः । ' यजेः क्तः । अत्र यकारस्थानिकसंप्रसारणस्य इकारस्य स्थानिवद्भावेन हश्त्वात् 'हशि च' इत्युत्वं प्राप्तं न भवति । अल् चेह स्थानिभूतः, स्थान्यवयवश्व गृह्यते । ततश्च आदेशस्य स्थानिभूतो योऽल, स्थान्यवयवश्च योऽल, तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूतात्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा- विवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे 'धिन्विकृण्व्योर च इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः तदादेशं वकारं आर्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यथा - प्रतिदीव्य । इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन वलाद्यार्धधातुकत्वात् इडागमः प्राप्तो न भवति । इडागमस्य वलादित्व - विषये स्थान्यवयवभूतालाश्रयत्वात् । तदेतदाह - श्रादेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति । स्थान्यलाश्रयेत्यत्र स्थानीति किम् । रामाय । इह 'सुपि च' इति दीर्घस्य यत्रादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । न च नीग्धातोर्बुलि अकादेशे वृद्धौ नै अक इति स्थिते ऐका.
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
रस्य स्थानिवद्भावेनाच्वमाश्रित्य 'अनचि' (सू ४८) इति द्वित्वनिषेधो न शङ्कयः, 'अनल्विधौ ' इति तन्निषेधात् । (५०) अचः परस्मिम्पूर्वविधौ १।१।५७ ॥ अविध्य 'मिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन रस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात् ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते । ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत् । श्रनेनेति । उदाहृतेन स्थानिवत्सूत्रेण इह सुध्य् इत्यत्र ईकारस्थान - कस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः । कुत इत्यत आह-अनविधाविति तन्निषेधादिति । स्थानिवत्व निषेधादित्यर्थः । यकारादेशस्थानीभूतो योऽल् ईकारः तद्वतमत्वं यकारे आश्रित्य प्रवर्तमानस्य यकार द्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः ।
I
ननु सुधू य् इत्यत्र मास्तु 'स्थानिवद्' इति सूत्रेण स्थानिवद्भावः । तदुत्तरसूत्रेण तु स्थानिवत्वं स्यादेवेति शङ्कामुद्भावयिष्यन् तथाविधमुत्तरसूत्रमाह- - अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह- श्रविध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वत्रश्चेति सिध्यति । ओ वश्चू च्छेदने । लिटि तिपि द्वित्वम् । लिट्यभ्यासस्येति अभ्यासे रेफस्य सम्प्रसारणम् ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न ; ऋकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतया 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । पूर्वसूत्रेण त्वन्त्र स्थानिवद्भावो न सम्भवति, सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति अच आदेश इति । परस्मिन्निति सतिसप्तमी । ततश्च परनिमित्तिक इति लभ्यते । तच्चादेशविशेषणम् । तदाह - परनिमित्तोऽजादेशः स्थानिवत्स्यादिति । विधीयत इति विधिः कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम् । त्रयं चात्र संनिहितम् -स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात् तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयादेशे कर्तव्ये यणादेशस्य स्थानिवद्वावेनाच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवात्र पूर्वत्वं विवक्षितम्, स्थानिन आदेशेनापहृतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह – स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्य इति । अत्र स्थानिनि सति यद्भवति तदादेशेऽपि भवति,
I
For Private and Personal Use Only
४१
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अच्सन्धि
-
दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिवद्भावे(१) प्राप्ते । (५१) न पदान्तद्विव. चनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्वविधिषु ११५८॥ पदस्य चर. यन्न भवति तदादेशेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याभावस्य अतिदेशोभवति। तत्राद्ये वनश्चेत्युदाहृतमेव, तत्र 'न सम्प्रसारणे सम्प्रसारणामिति निषेधकार्यस्य शास्त्रीयत्वात् द्वितीये तु गणयतीत्युदाहरणम् । गणसंख्यान इति चुरादौ अदन्तधातुः । तस्माणिच् । अतो लोपः। तिप शपणेर्गुणः अयादेशः गणयतीति रूपम् । अत्र णिचि परतः उपधाभूतस्य गकारादकारस्य "अत उपधायाः" इति न भवति प्रकृतसूत्रेणाल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्धयभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम् । णकारेण व्यवधानादिति वाच्यम् , पूर्वत्वम् ह्यत्र व्यवहिताव्यवहितसाधारणम् उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात्। तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् ।। ____ इति यण इति । अनेन सूत्रेण सुध् य इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिवद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः । न पदान्त. द्विर्वचन । स्थानिवदादेश इति अचः परस्मिन्निति चानुवर्तते । परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः । पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनु. स्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः । तेषां विधयः-विधानानि । कर्मणि षष्ट्या समासः । ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशः स विवक्षितः । आर्षो द्वन्द्वः । सप्तम्या अलुक्च । विधिशब्दः प्रत्येकमन्वेति-पदान्त. विधौ द्विर्वचनविधावित्यादि । पदस्यान्तः चरमावयवः । पदान्तस्य विधाने पदान्त. कर्मके विधाने पदस्य चरमावयवे कार्य द्विवचनादौ च का इति यावत् । तदाहपदस्य चरमेत्यादिना । पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः । तथाहि-एषः यन् इति छेदः । इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात् इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्रावे. नाचत्वात्। न च न पदान्तेति निषेधः शड्यः, यो विधीयमानः पदस्य चरमावयवः सम्पद्यते तत्रैव तन्निषेधात् इह च विधेयस्य सुलोपस्य पदानवयवत्वात् । पदान्तस्य स्थाने विधाविति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत् लोपस्य पदान्तसकारस्य स्थाने विधानात् । अत्र "हशि च" इत्युत्वे तु कर्तव्ये यकारो न स्थानिव.
(१) स्थानिवद्भावे द्वित्वनिषेधप्रयोजके इत्यादौ शेषः ।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् ३ ]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
४३
ति, उकारस्य विधीयमानस्य पदचरमावयवत्वात् । एवं च पदान्तविधावित्यस्य एषो यन् इत्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम् । भाष्यप्रदीपोद्द्योते स्पष्टतरमेतत् ।
पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विवंचने सुध्य् इत्युदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्यानैमित्तिकतया तद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयर्थ्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः । वरे यथा - यायावरः । 'यश्च यs' इति याधातोर्यङन्ताद्वरच् । सन्यडोरिति द्वित्वम् । यायाय वरः इति स्थिते अतो लोप इति योऽकारस्य लोपः । लोपो व्योरिति यकारलोपः । अत्र अजाद्यार्धधातुकमाश्रित्य "आतो लोप इटि च' इत्यकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यथा- यातिः । याधातोर्यङि द्वित्वं क्तिच् यायाय ति इति स्थिते, अतो लोपः, लोपो व्योरिति यलोपः, अल्लोपस्य स्थानिवत्त्वादातो लोपः, लोपो व्योरिति यलोपः, यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यम्, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात् इह च वकारस्य लोपरूपत्वाभावात् । स्वरविधौ यथा- - चिकीर्षकः । चिकीर्ष इति सन्नन्तात् ण्वुल् । अकादेशः । सनोऽकारस्य 'अतो लोपः' । अत्र ईकारस्य लितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत् । यद्यपि ईकारः अल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति । तथाप्यस्मादेव ज्ञापकात् पूर्वत्वं व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम् ।
1
सवर्णविधौ यथा - शिड्ढ । शिष् इति धातोः रौधादिकाल्लोण्मध्यमपुरुषैकवचनम् । सिप श्नम् । शिनष् सि । हित्वम् । धित्वम् । ष्टुत्वम् । षस्य जश्त्वं डकारः । शिनढि | इनसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णः णकारः शिण्डूढि इति रूपम् । अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्नमकारस्य लोपोऽत्र अजादेशः । तत्स्थानीभूतः श्नमकारः एव । तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति । तथा चानुस्वारस्य स्थानीभूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यल्लोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन । यत्तु तत्वबोधिन्याम् अनुस्वारस्य स्थानिभूतो नकारः इनमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्यु -
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
सिद्धान्तकौमुदी
[अच्सन्धि
मावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिव
कम् । एवं सति तितउमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात् । 'तत्करोति तदाचष्टे' इति णिच् । इष्टवदावादुकारस्य टेरिति लोपः । अचो गिणतीति तकारादकारस्य वृद्धिः आकारः पुगागमः। तितापीत्यस्मात् लट् तिप् शप् गुणः अयादेशः तितापयतीति रूपम् । अत्र अचो णितीति वृद्धया लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधानेन णिपरकत्वाभावात् पुगागमो न स्यात् । आकारस्य लोपस्थानिभृतादुकारातु पूर्वत्वस्य स्वतः अभावेऽपि स्था. निद्वारासत्त्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति ततः क्विप् पात् हसतीत्यादौ "झयो हः" इति पूर्वसवणे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थ मिह सूत्रे सवर्णनहणमिति प्रपञ्चितम् ।
अनुस्वारविधौ यथा-शिंषन्ति। शिषधातोर्लटि शिः। झोऽन्तः । श्नसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । शिंषन्ति । इह तु न परसवर्णः । षकारस्य ययत्वाभावात् । अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत् । तत्र दीर्घविधौ यथा-प्रतिदीना। हलि चेति दकारादिकारस्य दीर्धे कर्तव्ये अल्लोपो न स्थानिवत् । जश्विधौ यथासग्धिश्च मे। अद भक्षणे तिन् । बहलं छन्दसीति घसल आदेशः । "घसिभसोहलि च" इत्युपधालोपः। झलो झलीति सलोपः। झषस्तथोरिति तकारस्या धत्वम् । 'झलाजश् अशि' इति जश्त्वेन धकारस्य गकारः । समाना ग्धिः अदनं सन्धिः । समानस्य छन्दसीति सभावः । अत्र जश्त्वे कर्तव्ये उपधालोपोन स्थानिवत् । चविधौ यथा-जक्षतुः। घसेलिटि अतुस् । द्वित्वम् । "हलादिश्शेष:" "अभ्यासे चर्च" इति जश्त्वम् । 'कुहोश्चुः' इति जकारः । 'गमहन' इत्युपधालोपः । 'खरि च' इति चवम्। ककारः । 'शासिवसि' इति षः । अत्र चत्वे कायें उपधालोपो न स्थानिवत् । भाष्ये तु पूर्वत्रासिद्धे न स्थानिवदित्यवष्टभ्य द्विवचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः । किञ्च 'दीर्घादाचार्याणाम्' इत्युत्तरम् 'अनुस्वारस्य ययि परसवर्णः वा पदान्तस्या 'तोलि' 'उदस्थास्तम्भोः पूर्वस्या 'झयो होऽन्यतरस्याम्। 'शश्छोटि' इति षट्सूत्रीपाठोत्तरं 'झलाञ्जश् झशि' 'अभ्यासे चर्च' 'खरि च 'वावसाने 'अणोऽप्रगृह्यस्यानुना. सिकः' इति पञ्चसूत्रीपाठ इति 'हलो यमा यमि' इति सूत्रस्थभाष्यसम्मतः सूत्रक्र. मः। एवं च शिण्ड्ढीत्यत्र न परसवर्णप्रसक्तिः । परसवणे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाह. रणमित्यास्तां तावत्।
इति स्थानीति । अनेन सूत्रेण सुध् य इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्था
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
द्भावनिषेधः । (५२) झलां जश् झशि ८|४|५३ ॥ स्पष्टम् । इति धकारस्य दकारः । (५३) अदर्शनं लोपः १|१|६०॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । (५४) संयोगान्तस्य लोपः ८|२|२३|| संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते । 'यणः प्रतिषेधो वाच्यः' (वा ४८०६) । ' यणो मयो
૪૫
I
निवत्त्वनिषेध इत्यर्थः । एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावात् धकारस्य द्वित्वं निर्बाधमिति भावः । तथाच सुध् ध् य् इति स्थितम् । झलाब्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति स्पष्टार्थकम् । तत्र न किञ्चिद्वयाख्यातध्यमस्ति पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः । सुद् घ् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसज्ञासूत्रमाह-प्रदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छन्दविषयक श्रवणमिह दर्शनं विवक्षितम् । दर्शनस्याभावः अदर्शनम् । अर्थाभावेऽव्ययीभावः । 'स्थानेऽन्तरतमः' इत्यतः स्थान इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणम्, तत् लोपस भवतीत्यर्थः । तदाह - प्रसक्तस्येति । तत्र श्रवणाभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् ? दधि इत्यादौ विपः अश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य 'ह्रस्वस्य पिति कृति तुक् मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगः अन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । नच कृत्स्नपदस्य लोपः । किन्तु अलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह-संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रह - लाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वतकारस्य लोपः स्यादिति । तन्न, संयोगसन्ज्ञाया व्यासज्यवृत्तित्वात् प्रत्येकवृत्तित्वमभ्युपगम्य अन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।
1
इति लोप इति । सुध य् इति यकारस्य अनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेधः आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः । अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवतीति शेषः । इदं वार्तिकम् आकरे प्रत्याख्यातम् । अथात्र यकारस्य अचः परत्वाभावादच्परकत्वाच्च अनचि चेति द्वित्वाप्रासौ द्वित्वविधिमाह - यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो -द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परः, नापि मय् । अतः कथमनेन
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૬
सिद्धान्तकौमुदी
[ अच्सन्धि
द्वे वाच्ये' (वा ५०१८ ) । 'मय इति पञ्चमी यण इति षष्ठो' इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयो द्वित्वविकल्प। चत्वारि रूपाणि । एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुदुद्ध्युपास्यः । मध्वरिः । धात्त्रंशः । लाकृतिः । (५५) नादिन्याक्रोशे पुत्रस्य ८|४|४|१८|| पुत्रशब्दस्य न द्वे स्त
वार्तिकेन तस्य द्वित्वमित्यत आह-मय इतीति । पक्षे इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचितम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके यरोऽनुनासिक इत्यतो वाग्रहणमनुवर्तते । ततश्च फलितमाह - तदिति । तदित्यव्ययम् । इयता सन्दर्भेण यत् प्रपञ्चितं तेन इह सुध्य् इत्यत्र यकारधकारयोः द्वित्वविकल्पाच्वत्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एकः धकारः यस्य तत् एकधम्, एवं एकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाभावे एकधकार मेकयकार च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वौ धकारौ यस्य द्विधम् । एवं द्वियमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाभावे द्विधमेकयं च तृतीयं रूपमि - त्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थ रूपमित्यर्थः । सुद्ध्युपास्य इति । इह 'न भूसुधियोः' इति निषेधस्तु न भवति तस्य अजादौ सुपि विधानात् । इकोऽसवर्ण इत्यपि न । 'न समासे' इति तन्निषेधात् ।
मध्वरिरिति । मधुर्नाम असुरविशेषः । तस्यारिशत्रुः मध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्यात् यथासङ्ख्यपरिभाषया वा वकारः । न चात्र वकारस्य दन्तस्थानाधिक्यात् न स्थानसाम्यमिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेः एकाराद्यनापत्तेः । धात्त्रंश इति । अत्र तकारस्यैव द्वित्वम् । न तु रेफस्येत्यनुपदमेव वक्ष्यते अचोरहाभ्यामित्यत्र । लाकृतिरिति । लवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे लवर्णस्य दन्तस्थानसाम्यात् लकारः । न च दन्तस्थानसाम्यात् प्रथमातिक्रमे कारणाभावाच्च तस्य चकार एवास्तु । आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्य प्रयोजकतायाः मद्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, अत्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकार - विधिकारे ओष्टस्थानसाम्यात् निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र लवणें तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वात् अपवादत्वाच्च वकारविधि बाधते । यदि हि प्रथमातिक्रमे कारणाभावादत्रापि वकार एव स्यात्, afe लकार विधिर्निरव
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासाहता।
-
आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । 'आक्रोशे' किम् । तत्त्वकथने द्विवचनं भवत्येव । पुत्त्रादिनी सर्पिणी । 'तत्परे च' (वा ५०२१)। पुत्रपुत्रादिनी त्वमसि पापे । 'वा हतजग्धयोः' (वा ५०२२)। पुत्त्रहती-पुत्रहती। पुत्त्रजग्धी-पुत्रजग्धी । (५६) त्रिप्रभृतिषु शाकटायनस्य ८४|४५॥ त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः-इन्द्रः। राष्ट्रम्-राष्ट्रम् । (५७) सर्वत्र काश एव स्यात् । अतोऽत्र लवर्णस्य लकार एवेत्यास्तां तावत्। ___नादिन्याक्रोशे। वे इत्यनुवर्तते। यर इति च । आक्रोशो निन्दा। आदिनीति ड्यन्तं लुप्तसप्तमीकम् । आदिनीशब्दे परे पुत्रशब्दस्यावयवो यः यर तकारः तस्य न द्वित्वम् । आक्रोशे गम्ये इत्यर्थः। तदाह-पुत्रशब्दस्येत्यादिना। पुत्रशब्दस्यावय. वस्येत्यर्थः । पुत्रादिनी त्वमसि पापे इति । पुत्रानत्तुं शीलमस्याः पुत्रादिनी । 'सुप्य. जातौ इति णिनिः। ऋन्नेभ्य इति डीप। हे पापे ! त्वं पुत्रादिनीत्यन्वयः । पुत्रघातिनीत्यर्थः। ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ड्यन्तमेव विवक्षितमिति हरदत्तः।माधवोऽप्येवम् । अत्र उकारात् परस्य तकारस्य "अनचि च" इति प्राप्तं द्वित्वं निषिध्यते । रेफस्य तु न कापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति । आक्रोश इत्यस्य किं प्रयोजनमित्यर्थः । किं पृच्छायां जुगुप्सने इत्यव्ययवग अमरः । एवमुत्तरत्राप्येवजातीयकेषु द्रष्टव्यम् । तत्त्वकथन इति । यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्त्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दायाः अप्रतीतेरित्यर्थः । तत्परे च। वार्तिकमेतत् । सः आदिनीशब्दः परो यस्मात् सः तत्परः आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरों न द्वित्वमित्यर्थः। पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रहः । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात्। अतः पूर्वसूत्रेण अप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयोः। हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयत्रस्य यरो द्वित्वं वा स्यादित्यर्थः । पुत्त्रहतीति । तकारद्वित्वे रूपम् । पुत्रो हतो ययेति विग्रहः। 'अस्वाङ्गापूर्वपदात्' इति ङीष इति केचित् । वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तः गौरादित्वात् डीषिति युक्तम् । पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात् स्त्रीलिङ्गमेवोदाहृतम् । पुत्रहतीति । द्वित्वाभावे रूपम् । एवं पुत्त्र. जग्धी पुत्रजग्धीति । अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेत् हतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः । त्रिप्रभृतिषु शाकटायनस्य । त्रिचतुरादिषु हल्षु संयुक्तेषु आद्यस्य अचः परस्य यरः द्वित्वं शाकटायनमते । मता. न्तरे तु नेत्यर्थः । इन्द्र इति नकारस्य द्वित्वविकल्पः। राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः। सर्वत्र शाकल्यस्य । नेत्यनुवर्तते । यत्र यत्र द्वित्वं विहितं तत्र तत्र शाक
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
सिद्धान्तकौमुदी
[अच्सन्धि
-
शाकल्यस्य ४५१॥ द्वित्वं न । अर्कः । ब्रह्मा । (५८) दीर्घादाचार्या. णाम् मा५२॥ द्वित्वं न । दात्रम् । पात्रम् । (५४) अचो रहाभ्यां द्वे मा४॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हय॑नुभवः । नह्ययस्ति । (६०) हलो समां यमि लापः ८४६४॥ हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भ. ल्यस्य ऋषेमते द्वित्वं न भवतीत्यर्थः । दीर्घादाचार्याणाम् । नेत्यनुवर्तते । दीर्घात् परस्य यरी द्वित्वं केषाञ्चिदाचार्याणां मते न भवति । मतान्तरे तु भवति । अनचि चेत्यत्र वाग्रहणमनुवर्तते इति नाशलाविति सूत्रे कैयटः। एवं च अनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम् । एतत्सूत्रत्रयविरोधादनचि चेत्य वाग्रहणं नानुवर्त्यमिति युक्तं प्रतिभाति ॥
अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्टयन्तं वेति चानुवर्तते । अच इति दिग्योगे पञ्चमी । पराभ्यामिति शेषः। रहाभ्यामित्यपि पञ्चमी । परस्येति शेषः । तदाह-अचः पराभ्यामित्यादिना। हर्यानुभव इति । हरेरनुभव इति विग्रहः । हरि अनुभव इति स्थिते रेफादिकारस्य यण । तस्य द्वित्वम् । अथ हकारात परस्योदाहरति-न यस्तीति । नहि अस्तीति स्थिते हकारादिकारस्य यण तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्र अनचि चेति रेफहकारयोद्वित्वं न भवति। द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छूतेन निमित्तभावेन तयोः यर शब्दबोधितकार्यभाक्त्ववाधात् , श्रुतानुमितयोः श्रुतं बलीय इति न्यायात्। हर य् य अनुभवः । नङ् य् य् अस्ति इति स्थिते। उभयत्रापि प्रथमयकारस्य लोपविधिमाह-हलो यमा यमि लोपः । झयो होऽन्यतरस्यामित्यतोऽन्यन्तरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । हलः इति दिग्योगे पञ्चमी। परस्येति शेषः । तदाह-हलः परस्य यम इत्यादिना। अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपं सम्पद्यते । लोपाभावपक्षे तु द्वियकाररूपं सम्पद्यते । ननु हलो यमामिति सूत्रमेतदर्थे नारम्भणीयम् । अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाभावे एकयकाररूपस्य च सिद्धरित्याशय नास्य सूत्रस्यात्र प्रयोजनमित्याहइति लोपेति। तर्हि किमस्य सूत्रस्य फलमित्यत आह-लोपारम्भेति । 'दित्यदित्या. दित्यपत्त्युत्तरपदाण्ण्यः' इत्यादित्यशब्दात् शेषार्थण्यान्तात् देवतार्थे ण्यः। आदित्य य इति स्थिते । 'यस्येति च' इति यकारादकारस्य लोपे तकाराद्यकारस्य अनेन सूत्रेण लोपः। तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा ।
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
फलं तु 'आदित्यो देवता अस्यैत्यादित्यं हविः' इत्यादी । 'यमां यमि' इति यथासख्यविज्ञानान्नेह । माहात्म्यम् । (६१) एचोऽयवायावः ६ |१|७८ ॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि । (६२) तस्य लोपः १|३|६|| तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः पावकः । [' यस्मिन् विधिस्तदादावत्प्रहणे' | सप्तम्यन्ते अल्प्रहृणे विशेषणीभूते यो विधिरारभ्यते स तदादौ ज्ञेयः । येन विधिरित्यस्यापवादः । (६३) वान्ता यि प्रत्यये ६ १२७६॥ यकारादौ प्रत्यये परे
४६
I
अतः सूत्रारम्भो न विफल इति भावः । अत्र 'आपत्यस्य च तद्धितेऽनाति' इति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाभावात् । अत्र त्वेतत् सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थे 'गुणवचनब्राह्मणादिभ्यः' इति प्याज टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात् यकाररूपम्परकत्वाच्चेत्यत आह - यमामिति । यथा सङख्य विज्ञानादिति । विज्ञायते अनेनेति विज्ञानं सूत्रम् । 'विज्ञानं शिल्पशास्त्रयोः' इत्यमरः । यथासङ्ख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभात् यकारे परे न लोप इत्यर्थः । एचोऽयवायावः । अयूच अबूच आय्च आवचेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासङ्ख्यपरिभाषया एकारस्य अय्, ओकारस्य अबू, ऐकारस्य आयू, औकारस्य आव्, इति लभ्यते । तदाह-एचः क्रमादिति । यथासङ्ख्यसूत्रभाष्यरीत्या तु अन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह इचोऽचि यणयवायाव इत्येव सूत्रयितुमुचितम् । एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमिति इत्संज्ञायां लोपमाशङ्कितुमाह-तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितम् इतं परामृशति । तदाह-तस्येत इति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह-- उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्, तर्हि तयोः सूत्रे अनुच्चारणमेव स्यात्, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह- एवन्चेति । उक्तप्रकारेण लोपाभावे सति इत्संज्ञापि इह यकारे वकारे च न भवति, फलाभावादित्यर्थः । क्रमेणोदाहरति - हरय इत्यादिना । हरे ए, विष्णो ए, नै अकः, पौ अक इति स्थितेषु एंकारादीनां क्रमादयादयः ।
वान्तो यि प्रत्यये । यि इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते, 'यस्मिन्विधिस्तदादावग्रहण' इति वार्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः सः तद्वर्णादौ ज्ञेय इति तदर्थः ।
४ बा०
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
सिद्धान्तकौमुदी
[ अच्सन्धि
ओदौतोरव् भाव एतौ स्तः। गोविकारो गव्यम् । 'गोपयसोर्यत्' (सू १५३८)। नावा तार्य नाव्यम् । 'नौवयोधर्म' (सू १६४३) इत्यादिना यत् । 'गोयूतौ छन्द. स्युपसङ्ख्यानम्' (सू ३५४३) 'अध्वपरिमाणे च' (वा ३५४४) गव्यूतिः। 'ऊतियूति-' (सू ३२७४) इत्यादिना यूतिशब्दो निपातितः । 'वान्तः' इत्यत्र वकारात् येन विधिरित्यस्यायमपवादः । वकारः अन्ते यस्य सः वान्तः। पूर्वसूत्रोपात्तः अवा. देशः आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायां ओदौतोरित्याल्ल. भ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लप्तत्वात्। तदाह-यकारादावित्यादिना। गव्यमिति । गो य इति स्थिते ओकारस्य अच्परकत्वाभावात् एचोऽयवायाव इत्य. प्राप्ते अवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह-गोपयसोर्यदिति । अनेन सूत्रेण गोशब्दात् विकारार्थे यत्प्रत्यय इति शेषः। नाव्यमिति । नों य इति स्थिते औकारस्य अच्परकत्वाऽभावात् एचोऽयवायाव इति अप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह-नौ वय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात् इह च भत्वेन पदत्वबाधात्। गोर्यंतो छन्दस्युपसङ्ख्यानम् । छन्दसि वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अव् इति वान्तादेशो भवतीति उपसङ्ख्यानम् अधिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते । 'आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्' इत्युदाहरणम् । गम्यूतिः । गोप्रचारभूमिः। गावो यूयन्ते मिश्रयन्तेऽस्यामित्यधिकरणे युधातोः क्तिनिति वेदभाष्ये भट्टभास्करः। अत्र यूतिशब्दस्य प्रत्ययत्वाभावात्तस्मिन् परतः 'वान्तो यि प्रत्यये इत्यप्राप्तौ वचनमिदम् । श्रध्वपरिमाणे च। मार्गपरिमाणविशेष गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अव इति वान्तादेशस्य उपसख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयम् , तथाप्यत्र अनुवृ. त्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दः यूयते मिश्रयते श्रूयते तावानध्वा गव्यूतिः, क्रोशयुगम् । 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । युधा. तोरधिकरणे क्तिन् । कथमिह युधातोर्दीर्घ इत्यत आह-ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । __ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधात् 'लोपः शाकल्यस्य' इति 'हलि सर्वेषाम्' इति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोप: स्यात् । अन्तर्वर्तिनीं विभ. क्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादिस्वादिप्रत्ययत्वाभावेन तस्मिन् परतो भत्वाभावाच्चेत्यत आह-वान्त इत्यत्रेत्यादि । “वान्तो यि प्रत्यय" इत्यत्र वकारात् गोयंतावित्यत्र छकाराद्वा .पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व वान्त
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३]
बालमनोरमासहिता।
५१
-
-
'गोगुंती' इत्यत्र छकाराद्वा पूर्वभागे लोपो व्योः (सू० ८७३) इति लोपेन वकारः प्रश्लिप्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न (१)लुप्यत इति यावत् । (६४) धातोस्तन्निमित्तस्यैव ६१०॥ यादौ प्रत्यये परे इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपा व्योरिति लोपेनेति । अन्तर्हित इति शेषः। ननु प्रश्लेषे सति किमायातमित्यत आह--तेनेति । वान्तो योति सूत्रे वकारात् प्राक् व इति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते। गोर्यतावित्यत्र च इदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रयमाणवकारवान् वान्तादेश इति लभ्यते । गोएँतावित्यत्र छकारात् प्राक् व इति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त इत्यस्य विशेषणमिति । तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्तत्ववचनसाम
र्थ्यात् श्रूयमाणवकारवान् इति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्र अवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिहतेत्यत आह-वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव लोपशब्दार्थत्वादिति भावः । यद्यपि वान्तो यीति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेन उक्तलोपस्याप्राप्तः । लव्यमित्यादौ स्वत एव पदत्वाभावाल्लोपस्याप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, 'नः क्ये' इति नियमेन तत्र पदत्वाभावात् । तथापि गोर्यताविति वातिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वातिक एव तत्प्रश्लेष उचितः । एतस्मादेवास्वरसात् छकाराद्वेत्युतम् । वस्तुतस्तु वकारप्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात्। नच लोपो व्योरिति लोपात्तदश्रवणमिति वाच्यम् , वकारलोपस्य उदाहरणाभावाद्वकारग्रहणं न कर्तव्यमिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तु संज्ञापूर्वको विधिरनित्य इति वचनात् गव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्ये तु 'इको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्यत्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचि. दस्ति वकारलोप इत्याहुः ।
ननु ओयते औयत इत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्कय वान्तो यीति सूत्रं नियमयति-धातोस्तन्निमित्तस्यैव । एच इति, वान्तो
(१) वार्तिकेन लोपाभावोऽपि निपात्यते । “बाधकान्येव निपातनानि' इति सर्वनामसंशा. 'सूत्रे भाष्ये स्पष्टम् ।
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર
सिद्धान्तकौमुदी
धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लभ्यम् । अवश्यलाल्यम् । ' तन्निमित्तस्यैव' इति किम् । ओयते । औयत । (६५) क्षय्यजय्यौ शक्यार्थे ६।१।६१ ॥ यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् ।
1
यि प्रत्यय, इति चानुवर्तते । सः यादिप्रत्ययः निमित्तं यस्य सः तन्निमित्तः । यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशः यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः । तदाह - यादौ प्रत्यय इत्यादिना । लव्यमिति । लूं छेदने । अचो यत् । सार्वधातुकार्धधातुकयोरित्युकारस्य गुणः ओकारः । तस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । श्रवश्यलाव्यमिति । 'ओरावश्यके' इति लूजी यत् । अचो णितीत्यूकारस्य वृद्धिः कारः । अवश्यमित्यव्ययम् । मयूरव्यंसकादित्वात्समासः । 'लुम्पेदवश्यमः कृत्ये ' इति मलोपः । अत्र औकारस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः । अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः । तन्नियमविधेः किं प्रयोजनमिति पृच्छति तन्निमित्तस्यैवेति किमिति । नियमस्य किंप्रयोजनमित्यर्थः । श्रयते इति । वेञ् तन्तुसन्ताने । कर्मणि लट् । भावकर्मणोरित्यात्मनेपदम् | यक् । वचिस्वपियजादीनामिति वकारस्य सम्प्रसारणम् उकारः । पूर्वरूपम् । अकृत्सार्वधातुकयोरित्युकारस्य दीर्घः । आडा सह उकारस्य 'आद्गुण' इति गुणः ओकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभावात् न वान्तादेशः । नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराभावान्न वान्तादेशप्रसक्तिरित्यस्वरसादाह - श्रथतेति । वेञः केवलात् कर्मणि तङ् । आत्मनेपदादि पूर्ववत् । आडजादीनामित्याट् । आटश्चेति वृद्धिः औकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभावान्न वान्तादेशः । नात्र वृद्धेर्बहिरङ्गत्वम्, पदद्वयापेक्षत्वाभावात्। 'सिद्धे सत्यारम्भो नियमार्थ:' इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीत नियमव्यावृत्त्यर्थः । एवकाराभावे हि यादिप्रत्ययनिमित्तकस्य चेदेवो वान्तादेशः तर्हि धातोरेवैच इत्यपि नियमः प्रतीयते । तथा चबाभ्रव्य इत्यत्र वान्तादेशो न स्यात् । बनोरपत्यं बाभ्रव्यः मधुबभ्रुवोर्ब्राह्मणकौशिकयोरिति यञ् । ओर्गुण इत्युकारस्य गुणः ओकारः । तस्य या दिप्रत्ययनिमित्तकस्य धात्ववयवत्वाभावात् वान्तादेशो न स्यात् । अतः इष्टनियमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः ।
क्षय्यजय्यौ शक्यार्थे । शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तते इत्यर्थः । ननु किमपि कार्य विधेयमत्र न दृश्यते इत्यत आह-यान्तेति । प्रातिविकविधि विना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम् । ततश्च शक्यार्थके यादौ प्रत्यये
-
[ अच्सन्धि
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
}
जेतुं शक्यं जय्यम् । 'शक्यार्थे' किम् । क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः । (६६) क्रय्यस्तदर्थे ६ ||८२॥ तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रोणीयुरिति बुद्ध्या आपणे प्रसारितं कध्यम् । क्रेयमन्यत् । क्रयणाई मित्यर्थः । (६७) लोपः शाकल्यस्य = | ३|१६|| अवर्णपूर्वयोः पदन्तयोर्यवयोर्वा लोपोऽशि परे क्षिक्षये जिजये इति धातोरेचः अय् इति यान्तादेशः स्यादिति विधानमत्र फलति । शक्यार्थे भिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः । क्षय्यमिति । कृत्या इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः । स च 'शकि लिङ् च' इति शक्यार्थः । शक्यार्थे लिङ् स्यात् चात् कृत्या इति तदर्थः । सार्वधातुकार्धधातुकयोरिति इकारस्य गुणः एकारः । तस्याच्परकत्वाभावादप्राप्तः अयादेशः अत्र निपात्यते । जम्बमित्यपि पूर्ववत् । शक्यार्थे किमिति । शक्यार्थे इत्यस्य किं प्रयोजनमिति प्रश्नः । क्षेतुमित्यादि । क्षेतुं योग्यं श्रेयं पापम् । जेतुं योग्यं जेयं मन इत्यन्वयः । अहे कृत्यतृचश्चेति यत् । स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः । क्रय्य - स्तदर्थे | इदमपि यान्तादेशनिपातनार्थम् । तदथंशब्दं व्याचष्टे- - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुः यत्प्रत्ययप्रकृतिभूतः तस्य योऽर्थः अभिधेयः द्रव्यविनिमयरूपः क्रयः सः प्रकृत्यर्थः तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं क्रयार्थं वस्तु | तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति । यान्तः क्रीमस्तदर्थ इति विधौ गौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि कथ्यमित्यन्तम् | योग्यतामात्रग्रहणे तु तदर्थे इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि 'अचो यत्' इति यत् । सार्वधातुकेति गुणः एकारः । अत्र एकारस्य अच्परकत्वाभावादनेन अयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं सङ्गृहीतं धान्यादीत्यर्थः । 'अहें कृत्यतृचश्च' इति यत्, अत्र अयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राभावादित्यर्थः ।
हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्कः इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्नैकल्पिकं लोपं विधत्ते - लोपः शाकल्यस्य । 'भो भगो' इत्यतः अपूर्वस्येति अशीति चानुवर्तते । व्योर्लघुप्रयत्नेत्यतः व्योरित्यनुवर्तते । वकारयकारयोरित्यर्थः । अपूर्वस्येति च व्योरित्यस्य विशेषणम् । अवर्ण: पूर्वः यस्मात् सः अपूर्वः । अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम् । पदस्येत्यधिकृतम् अवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते । विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते । ततश्च अवर्णपूर्वो यः वकारो यकारश्च तदन्तपदस्य लोपः स्यात् अशि परत इत्यर्थः । अलोऽन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते । शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते । ततश्च फलितमाह - श्रवर्णपूर्वयोरित्यादिना ।
For Private and Personal Use Only
५३
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
सिद्धान्तकौमुदी
[मच्सन्धि
-
परे । 'पूर्वत्रासिद्धम्', (सू० १२) इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि-हरयेहि। विष्ण इह-विष्णविह। श्रिया उद्यतः-श्रियायुयतः। गुरा उत्क:-गुरावुत्कः । 'कानि सन्ति' 'को स्तः' इत्यत्रास्तेरल्लोपस्य स्थानिवद्भावेन यणावादेशी प्राप्तौ 'न पदान्त' (सू ५१) इति सूत्रेण पदान्तविधौ तनिषेधान्नस्तः । (६८)
व्योरित्यनुवृत्तावपि वर्णसमाम्नाये यकारस्य प्राथम्यात् यवयोरित्युक्तम् । नच शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम् , 'नवेति विभाषा' इति सूत्रभाष्ये आचायदेशशीलने च तद्विषयतेति प्रस्तुत्य 'इको हस्वो ख्यो गालवस्या 'प्राचामवृद्धा! इत्यादौ गालवाद्याचार्यग्रहणं प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वेश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात् । ननु हरे एहीत्यन्न अयादेशे यकारस्य लोपे सति 'ओमाडोश्च' इति पररूपं स्यात् । विष्णो इह, श्रिय उद्यतः, गुरौ उत्कः इत्यत्र अवायावादेशेषु वकारयकारलोपे आद्गुण इति गुणः स्यादित्यत आह-पूर्ववेति । वकारयकारयोर्लोपस्यासिद्धत्वेन ताभ्यां व्यवहिततया अच्परकत्वाभावादाशतिः अच्सन्धिर्न भवतीत्यर्थः ।।
तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः। तदुभयत्रातिप्रसङ्गमाशय समाधत्तेकानीत्यादिना । यद्यपि तथापीत्यध्याहार्यम् । कानि सन्ति, कौस्त इत्यत्र यद्यपियणावादेशी प्राप्तौ । तथापि न भवत इत्यन्वयः। नन्वन इकारौकारयोः सकारपरकत्वादच्परकत्वाभावात् कथं यणावोः प्राप्तिरित्यत आह-अस्तेरल्लोपस्य स्थानिवद्भावेनेति । असूधातोरादादिकाल्लटि प्रथमपुरुषबहुवचने सन्तीति रूपम् । प्रथमपुरुषद्विवचने तु स्तः इति रूपम् । उभयत्रापि इनसोरल्लोपः इति धात्वादेरकारस्य लोप इति स्थितिः। तत्र अल्लोपस्य स्थानिवत्त्वेनात्वादिकारौकारयोरच्परकत्वायणावादेशौ प्राप्नुत इत्यर्थः। न च स्थानिवदादेशोऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति। अल्लोपस्य स्थानिभूतो यः अकारः तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम् , 'अचः परस्मिन् पूर्वविधौ इति स्थानिवदावोपपत्त: अल्लोपस्य विकति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात् पूर्वत्वेन दृष्टयोरिकारौकारयोर्यणावादेशविधौ अचः परस्मिन्निति प्रवृत्तरिति भावः। तर्हि कुतोऽत्र यणावादेशौ न भवत इत्यत आहन पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतो. येणावादेशयोः पदचरमावयवतया तयोः कर्तव्ययोः परनिमित्तकस्याजादेशस्यालोपस्य स्थानिवत्त्वनिषेधादित्यर्थः।
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
एक: पूर्वपरयोः ६ १८४॥ इत्यधिकृत्य । (६६) श्राद्गुणः ६ |२| 9 || वर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् । (७०) उरणूरपरः १|१|५१ ॥ ऋ इति त्रिंशतः संज्ञा' इत्युक्तम्, तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् 'कृष्णर्द्धिः' इत्यत्र
૫૫
अथ एकादेशसन्धि निरूपयितुमाह - एकः पूर्वपरयोः । इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रम् उत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपय सन्धयः विधास्यन्त इत्यर्थः । आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाहअवर्णादचीत्यादिना । उपेन्द्र इति । उप इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोः तथाविध एको गुणः एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाहरमेश इति । रमा ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुणः एका-रः । गङ्गोदकमिति । गङ्गा उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्ठस्थानकयोस्तथाविधएको गुणः ओकारः । कृष्णद्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकारः ऋकारश्चेति द्वौ स्थानिनौ । तयोः अकार एकार ओकाsafaast गुणाः प्रसक्ताः, अकारेण स्थानिना त्रयाणामपि कण्ठस्थानसाम्याविशेषात् । ऋकारेण स्थानिना तु न कस्यापि स्थानसाम्यम्, तस्य मूर्धस्थानकत्वात् एतेषां च तदभावात् । एवं तव लृकार इति स्थिते श्रयो गुणाः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याविशेषात् । लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यम्, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते - उरणपरः । इत्युक्तमिति । अणुदित्सूत्रम् इति शेषः । उः इति ऋ इत्यस्य षष्ठयेकवचनम् । ' षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तते । तदाह - तत्स्थाने योऽणिति । स्थानेऽन्तरतम इत्यतोऽपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह- रपरः सन्नेव प्रवर्तत इति । अत्र र इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकार शिरस्कश्च प्रवर्तत इति लभ्यते । तयोर्व्यवस्थां दर्शयति - तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णद्धिरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह- श्रान्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्य अणो रेफलकारशिरस्कतया तस्य अर् अल् इत्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारण, रेफांशे ऋकारेण, लकारांशे लृकारेण च स्थानसाम्यादकारक कारयोः स्थाने अरेव भवति । अकारऌकारयोः स्थाने अलेव भवति । एकारौकारौ तु गुणौ न भवत एव, तयोः ऋकारेण लकारेण च स्थानसाम्याभावादित्यर्थः । नच एकार ओकारश्च कथं
1
I
For Private and Personal Use Only
·
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃદ્
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अच्सन्धि
अर् । 'तवल्कारः' इत्यत्र अल् । अचो रहाभ्याम् (सू ५९) इति पक्षे द्वित्वम् । (७१) भरो भरि सवर्णे = |४| ६५ ॥ हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे, द्वित्वलोपयोर्वा, द्विधम् । सति द्विस्वे लोपे चासति त्रिधम् । कृष्णर्धिः – कृष्णद्धिः ——- कृष्णदर्द्धिः । 'यण इति पञ्चमी मय इति षष्ठी' इति पक्षे ककारस्य द्वित्वम् । लस्य तु 'अनचि च' (सू ४८) इति । तेन 'तवल्कारः' इत्यत्र रूपचतुष्टयम् ।
द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥
I
रपरौ न स्यातामिति वाच्यम्, पूर्वेणैव णकारेण ह्यत्राण् गृद्यते प्रशास्तृणामित्यादिनिर्देशादित्यलम् | पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात् परस्य धकारस्य अचो रहाभ्यामिति कदाचिद्वित्वमित्यर्थः । झरो भरि सवर्णे । झयो होऽन्यतरस्यामित्यतः अन्यतरस्यामित्यनुवर्तते । हलो यमामित्यतः हल इति, लोप इति चानुवर्तते । तदाह―हलः परस्येत्यादिना । तदिह रूपत्रयं सम्पन्नमित्याह - द्वित्वाभाव इत्यादिना । रेफात् परस्य ऋधू इति धात्वन्तस्य धकारस्य अचो रहाभ्यामिति द्वित्वाभावे सति झरो झरीति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । द्वित्वाभावे इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाभावे लोपे च असति द्विधकारं रूपम् । तथा तस्यैव ऋधे
कारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्ष प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य च 'झलाञ्जश् झशि' इति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं विधत्वं चेति न दोषः । अथ तवल्कार इत्यन्नाह—यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य तु अनचि चेति द्वित्वमित्यर्थः । तेनेति । लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । कस्यैवेति । ककारस्य द्वित्वे लकारस्य द्वित्वाभावे द्विककार मेकलकारं च द्वितीयं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लकारककारयोरुभ योरपि द्वित्वे द्विकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवक्कारादिष्विति । आदिना मस्कारादिसङग्रहः ।
1
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
(७२) वृद्धरेचि ६१८ || आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठथम् । (७३) एत्येधत्यू. ड्सु ६।११८६॥ अवर्णादेजाद्योरेत्येधत्यो रूठि च परे वृद्धिरेकादेशः स्यात् । पररू. पगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । ' एजायोः ' किम् । उपेतः । मा भवा
૫૭
1
वृद्धिरेचि । आद्गण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । तदाह - श्रादेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदारम्भादिति भावः । कृष्णैकत्वमिति । कृष्णस्य एकत्वमिति षष्ठीसमासः । ' पूरणगुण' इति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः । गङ्गा ओव इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः, एवं देवैश्वर्यम् । कृष्णौत्कण्ठ्यमित्यत्रापि । वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति तत्रैव वक्ष्यामः । एत्येधस्यूट्सु । एतिश्च एवतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति च 'इश्तिपो धातुनिर्देशे' इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते । 'यस्मिन्विधिः' इति तदादिग्रहणम् । एजादाविति लभ्यते तच्च एत्येधत्योरेव विशेषणम् । न तु ऊठः, असम्भवात् । एकः पूर्वपरयोरित्यधिकृतम् । आद्गुण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । तदाह-श्रवर्णादित्यादिना । उपैतीति । इणधातोर्लट् तिप् शप् लुक् 'सार्वधातुक' इति इकारस्य गुणः एकारः । उप एतीति स्थिते अनेन वृद्धिः । उपधत इति । एधधातोर्लट् आत्मनेपदं तादेशः शप् । 'टित आत्मनेपदानाम्' इत्येत्वम् । उप एधते इति स्थिते अनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् । 'वहश्च' इति ण्विः । 'वेरपृक्तस्य' इति वलोपः । अत उपधाया इति वृद्धिः । ततः शसि वसोः सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवृत्तौ 'वाह ऊठ्' इति सम्प्रसारणसज्ञकस्य ऊठः सम्प्रसारणाच्चेति पूर्वरूपम् । प्रष्ठ कह इति स्थिते अनेन वृद्धिः औकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरेचीत्यनेनैव वृद्धिसम्भवात् । ऊठ्ग्रहणमपि व्यर्थम्, वृद्धिरेचीत्येव सिद्धेः । वाह ऊट्सूत्रे, 'ऊठ्ग्रहणानर्थक्यं सम्प्रसारणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः" इति वार्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् । वाहः इत्येव सूत्रमस्तु । भस्य वाहः सम्प्रसारणं स्यादिति सम्प्रसारणमेव विधीयताम् । ततश्च वकारस्य उकारे सम्प्रसारणे पूर्वरूपे सति उह, इति स्थिते प्रत्ययलक्षणमाश्रित्य विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ट ओह इति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूट्सु इति सूत्रं व्यर्थमित्यत आहपररूपगुणापवाद इति । एत्येधत्योरेडि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमप
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
न्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः 'एलि पररूपम्' (सू ७८) इत्यस्यैव बा.
वाद इत्यर्थः । यदि हि वाहः सम्प्रसारणमेव विधीयेत न तु ऊठ , तर्हि वस्य सम्प्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति, तस्मिन् कर्तव्ये बहिभूतशस्प्रत्ययापेक्षभसज्ञापेक्षसम्प्रसारणाश्रितपूर्वरूपस्य बहिरङ्गतया अत्र असिद्धत्वात् । तथा च गुणाभावे प्रष्ट उ आह इति स्थिते पूर्वरूपे प्रष्ठ उह. इति स्थिते आद्गुण इति गुणे ओकारे प्रष्ठोह इति स्यात् । सम्प्रसारणसम्झकस्य ऊठो विधी तु प्रष्ट ऊ आह, इति स्थिते पूर्वरूपे लघूपधगुणस्याप्रसक्ततया ओकारस्याभावादू. कारस्यैव सत्त्वात् वृद्धिरेचीत्यख्याप्रसक्तराद्गुण इति प्राप्ते एत्येधत्यूस्त्विति वृद्धौ प्रष्टौह इति सिध्यतीत्यूग्रहणमावश्यकमिति वाहऊठसूत्रे समुदाहृतवार्तिकं भाष्ये दूषितमित्यास्तां तावत्।
उपेत इति । इण्धातोर्लट् तस् शप लुक् । सार्वधातुकमपिदिति तसो छित्त्वात् तस्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरजादित्वाभावात्तस्मिन् परतो न वृद्धिः। मा भवान्प्रेदिधदिति । एधधातोणिच् । लुङ् तिप । 'नित्यं डितः' इति इकारलोपः । 'णिश्रिद्रुस्नुभ्या इति च । 'णौ चब्युपधाया हस्वः । 'चडि इत्यजादेवितीयस्य धिशब्दस्य द्वित्वम् । अभ्यासे चर्चेति जश्त्वम् । न माड्योग इत्याडभावः । भवच्छब्दयोगात् प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्रइदिधदिति स्थिते एत्येधतीति न वृद्धिः । एधधातोरेजादित्वाभावात्। तत्र एजादित्वविशेषणा. भावे तु इहापि वृद्धिः स्यात् । न च गौ चकीत्येकारस्य हस्वेन इकारे सति नायमेध. धातुरिति वाच्यम् , एकदेशविकृतस्यानन्यत्वात् । अत्र माऊं विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वावृद्धिरिष्टैव । भवच्छन्दस्तु चिन्त्यप्रयोजनः। ननु आ इहि आद्गुणः एहि अव एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिव. च्चेति परादिवद्भावेन, आयन्तवदेकस्मिन्निति व्यपदेशिवदावेन च, इण्धातोरेजादित्वात्तस्मिन् परे एति पररूपमिति पररूपं बाधित्वा एत्येधत्यूस्विति वृद्धौ अवैहीति स्यात् । अवेहीति इष्टं न स्यात् । न च ओमाडोश्चेति पररूपेण तन्निर्वाहः शयः। एत्येधतीति वृद्धिहि यथा एडि पररूपमित्यस्यापवादः तथा ओमाडित्यस्याप्यप. वादः । येन नाप्राप्तिन्यायसाम्यात् इत्यत आह-पस्स्तादिति । पुरस्तादपवादा अन्तरान्विधीन् बाधन्ते नोत्तरानिति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तरान् विधीन बाधन्ते न तु व्यवहितानित्यर्थः। प्रकृते च एत्येधत्यूठसु इत्युत्तरं कानिचित् सूत्राणि पठित्वा एडि पररूपमिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा ओमाडो
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
५६
-
विका । न तु 'ओमागेश्च' (सू ८०) इत्यस्य । तेन 'अवैहि' इति वृद्धिरसाधुरेव । 'अक्षादूहिन्यामुपसङ्ख्यानम् । (वा ३६०४)। अक्षौहिणी सेना। 'स्वादोरेरिणोः' (वा ३६०६) । स्वैरः। स्वेनेरितुं शीलमस्येति स्वैरी । स्वैरिणी । 'प्रादूहोढोढयेषे. ध्येषु' (वा ३६०५)। प्रौहः । प्रौढः । 'अर्थवग्रहणे नानर्थकस्य ग्रहणम्। (५ १५) श्चेति पठितम् । ततश्च उक्तन्यायेन एत्येधतीति वृद्धया एङि पररूपमित्येव बाध्यते। न त्वोमाडोश्चेति पररूपमपिति भावः। वस्तुतस्तु एत्येधतीति वृद्धिः ओमाडोश्चेत्यस्यापवाद एव न भवति । उपैति इत्यादौ अप्राप्तेऽपि तस्मिन् एत्येधतीति वृद्धरारम्भात् । अतः पुरस्तादपवादा इति न्यायस्य नायं विषयः । ततश्च अव एहीत्यत्रएत्येधतोति बाधित्वा परत्वादोमाडोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये-नाप्राप्ते एलि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः आडि पररूपे तु प्राप्ते चाप्राप्ते च आरभ्यमाणा वृद्धिर्न तदपवादः इति स्पष्टमेवोक्तम्। यत्तु भाष्ये पक्षान्तरमुक्तम्-अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेकि पररूपमेव बाधते। न त्वोमाछोश्चेति पररूपमपिइति । तत्तु एत्येधतीति वृद्धरडि पररूपमोमाकोश्चेति सूत्रद्वयापवादत्वाभ्युपगमवादमात्रमाश्रित्य बाध्यसामान्यचिन्तामाश्रित्य वेत्यलं बहना।
भक्षाहिन्यामुपसङ्ख्यानम्। आदिति, अचीति, वृद्धिरिति चानुवर्तते । एकः पूर्वपस्योरिति च । उह वितकें । उहनमूहः सोऽस्या अस्तीत्यूहिनी । अक्षशछदादूहिनीशब्दे परे पूर्वपरयोरचोः वृद्धिरेकादेशः स्यादित्यर्थः। अक्षौहिणीति मत्व. र्थीय इनिः । नान्तत्वान्छीप। अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षौहिणी । 'पूर्वपदात् संज्ञायाम्' इति णत्वम् । अक्ष अहिनीति स्थिते गुणे प्राप्ते अनेन वार्तिकेन वृद्धिः । स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोवृद्धिरेकादेशः स्यादित्यर्थः। स्वैर इति । ईर गतौ । भावे घञ् । स्वेन छन्देन ईर इति विग्रहः । 'कर्तृकरणे कृता बहुलम्' इति समासः । स्व ईर इति स्थिते गुणे प्राप्ते अनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेन छन्देन ईरितुं सञ्चरितुं शीलमस्येत्यर्थे सुप्यजाताविति णिनिः । स्वच्छन्दचारीत्यर्थः। उपपदसमासः । स्व ईरिन् इति स्थिते गुणे प्राप्ते अनेन वृद्धिः । प्रादहोढोढयेषैष्येषु । प्र हत्युपसर्गात् ऊह, ऊढ, ऊढि, एष, एष्य, एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । उह वितर्के । भावे घञ् । गतिसमासः । प्र उह इति स्थिते अनेन वार्तिकेन वृद्धिः । प्रौढ इति । वह प्रापणे क्तः। वचिस्वपीति सम्प्रसारणम् । पूर्वरूपम् । हो ढ इति ढत्वम् । अषस्तथोरिति धत्वम् । ष्ठुत्वम् । ढोढे लोपः। दलोप इति दीर्घः । प्र उड इति स्थिते गुणे प्राप्ते अनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतु
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
'व्रश्च-' (सू २९४) इति सूत्रे राजेः पृथग्भ्राजिमहणाज्ज्ञापकात् । तेनोढग्रहणेन तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः। प्रोढवान् । प्रौढिः । 'इष इच्छायां तुदादिः' 'इष गतौ दिवादिः' 'इष आभीक्ष्ण्ये क्रयादिः' तेषां घमि ण्यति च एष' 'एष्यः' इति रूपे । तत्र पररूपे प्राप्ते अनेन वृद्धिः। श्रेषः । श्रेष्यः। यस्तु 'ईष उन्छे' यश्च 'ईष गतिहिंसादर्शनेषु' तयोर्दीर्घोपधत्वात् ईषः, ईष्यः। तत्राद्गुणेन प्रेषः प्रेष्यः। 'ऋते च तृतीयासमासे' (वा ३६०५) सुखेन ऋतः सुखार्तः। 'तृतीया' इति किम् । परमर्तः । 'प्रवत्सतरकम्बलवसनाणदशानामृणे' (वा ३६०८-९)। प्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्धेषु प्र उढवदिति स्थिते प्रादूहोटेति वृद्धिः स्यात् । तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह-अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवे अनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा स्वं रूप. मित्यन्त्र रूपमहणात् सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहण. नियमेनेत्यर्थः । तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान् , भावकर्मणोस्तद्विधानात्। क्तवतुप्रत्ययस्तु कर्तरि विहितः। अतस्तदेकदेशस्य तस्यानर्थकत्वात् प्रादहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति । अतस्तस्मिन् परे वृद्धिर्न भवति, किन्तु गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् ढत्वधत्वष्टुत्वढलोपदीर्घाः। प्र अढि इति स्थिते गुणं बाधित्वा अनेन वृद्धिः । इष इच्छायामित्यादि । गणत्रयेऽपि हस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी। तेषां मध्ये अन्यतमात् घनि प्रयति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एडि पर. रूपं बाधित्वा अनेन वृद्धिः। एतेन वृद्धिरेचीत्यनेन एषैष्यग्रहणयोर्गतार्थत्वं निर. स्तम् । नन्वेषं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह-यस्त्विति । तयोNोपधत्वेन लघूपधगुणाभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाभावात् तयोः परतो वृध्यभावे आद्गुण इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यात् एष्यशब्दोऽपि कृदन्त एवं गृह्यते । तेन तिङन्ते ल्य. बन्ते च न वृद्धिः-अग्नये प्रेष्य दूतम् , प्रेष्य गतः।
ऋते च तृतीयासमासे । तृतीयासमासे अकारात् ऋतशब्दे परे पूर्वपरयोरचोवृद्धिः स्यादित्यर्थः । सुखेन त इति विग्रहप्रदर्शनम् । ऋ गतौ। गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात् तृतीया । सुप्सुपेति समासः । सुख ऋत इति स्थिते गुणे प्राप्ते अनेन वृद्धिः आकारः । रपरत्वे सुखात इति रूपम् । समासग्रहणस्य उदाहृतविग्रह. वाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशल्य प्रयोजनं पृच्छति-तृतीयेति किमिति । परमते इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः । प्रवत्सतर।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
प्रार्णम् । वत्सतरार्णमित्यादि । ' ऋणस्यापनयनाय यदन्यहणं कियते तद्दणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च । (७४) उपसगद्वति धातौ ६ । १ ६१॥ अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपाच्र्च्छति । प्राच्छेति । (७) अन्तादिवच्च ६।१८५॥ योऽयमेका
६१
पञ्चम्यर्थे षष्ठी । प्र, वत्सतर, कम्बल, वसन, ऋण दश, एतेषां ऋणशब्दे परे पूर्वपरयोरचो वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णमिति । प्रगतमृणमिति विग्रहे, प्रादयो गताद्यर्थे प्रथमयेति गतिसमासः । प्र ऋणम् इति स्थिते गुणं बाधित्वा अनेन वार्तिकेन वृद्धि: : आकारः । रपरत्वम् । वत्सतरः शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यहणं गृह्यते तत् वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्ण वसनार्णे दशार्णम् ऋणार्णमिति च गृह्यते । सर्वत्र पष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृतिरित्यत आह - ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयः यस्मिन् देशे स दशार्णः देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः । उपसर्गादृति । आद्गुण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गविशेषणम्, अतस्तदन्तविधिः - अकारान्तादिति भ् । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेवत्यतो वृद्धिरिति चानुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । तदाह - श्रवर्णान्तादित्यादिना । एकादेश इति । पूर्वपरयोरचोरिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्च्छति - प्राच्छंतीति । उप ऋच्छति प्र ऋच्छति इति स्थिते गुणे प्राप्ते अनेन वृद्धिः रपरत्वम् ।
- अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाहअन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासङ्ख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन् एकः आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णो स्थानिनौ - पूर्वः परश्व, तयोश्च वर्णयोः प्रत्येकमेकत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम् । तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य यः अन्तः प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिः द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यथा -क्षीरपेण । क्षीरप इन इति स्थिते आद्गुणइत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुतरपदे ण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेण प्रवर्तमानस्य णत्वस्य
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[भसन्धि
देशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात् , इति रेफस्य पदान्तत्वे । (७६) खरव. सानयोर्विसर्जनीयः ८।३।१५॥ खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्ग प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । 'उभयथर्ड्स' (सू० ३६३०), 'कर्तरि चर्षिदेवतयोः' (सू ३१६५) इत्यादिनिर्दे.
स्थान्यलाश्रयत्वात्। यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन गत्वविधिराश्रयति । पकारादकार स्थान्यलं तु तद्विशेषणीभूताच्त्वेनाश्रयति । तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव यथाकथचित् स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यथा प्रतिदीव्येत्यत्र क्त्वादेश ल्यपं स्थानिगतवलाघार्धधातुकत्वेनाश्रित्य इडागमे कर्तव्ये अनल्पिधाविति निषेधानुपपत्तेः, तत्र वलः प्राधान्येनाश्रयणाभावात् । एतेन स्थानि. वत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजायतष्टाप । सवर्णदीर्घ आकारः। तस्य परादिवत्वेन टाप्त्वात्ततः परस्य सोहल्ड्यादिलोपः । इदमपि स्थानिवद्भावेन अनिर्वाह्यम् । हल्ड्यादिलोपस्यात्र स्था. न्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । न चैवं सति यजेर्लडि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्र इकारे परे सवर्णदीर्घः स्यादिति वाच्यम् , इह हि अल्समुदायधर्मा एवं प्रातिपदिकत्वसुबन्तत्वप्रत्ययत्वादयः अतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्व. हस्वत्वादयः। उक्तं च भाष्ये-न वा अताप्यातिदेशादिति। अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण । इति रेफस्येति । उपाछेतीत्यत्र आर् इत्येकादेशस्य पूर्वान्तवत्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह-खरवसानयोः । रो रीत्यतः र इति षष्ट्यन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतः रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावनसानस्य बुद्धिकृतं परत्वम् । फलितमाह-खरि अवसाने चेति । पदान्त इति । विद्यमानस्येति शेषः। यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसान इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाछेतीत्यादौ अनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः। कुत इत्यत आह-उभयविति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति शेषः।।
नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धः, क्रियायोगे
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
-
-
शात् । उपसर्गेणैव धातोराक्षेपे सिद्ध 'धातौ इति योगविभागेन पुनर्वृद्धिविधाना. र्थम् । तेन 'ऋत्यकः' (सू ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति । (७७) वा सुप्यापिशलेः ६१॥२॥ अवर्णान्तादुपसर्गादकारादौ सुन्धातौ परे वृद्धिरेकादेशो वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभी. यति । सावात् लुवर्णस्य ग्रहणम् । उपाकारीयति-उपलकारीयति । तपरत्वादी? सत्येव उपसर्गसंज्ञाविधानात् । न च उपगत कारः उपर्कारः इत्यत्र क्रियायोगस्य सत्वादुपसगत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यम् , यक्रिया. युक्ताः प्रादयः तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात् प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशझ्याहउपसर्गेणैवेत्यादिना । 'उपसर्गग्रहणेनैव धातोः आक्षेपे अन्यथानुपपत्तिरूपार्थापत्तितो लाभे सति पुनः धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाम इत्यत आह-योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गातीति धाताविति च, सूत्रं विभज्यते । तत्र उपसर्गाहतीति पूर्वसूत्रे धातावित्याल्लभ्यमादाय उक्तार्थलाभः। धातावित्युत्तरसत्रेऽपि उपसांतीति पूर्वसूत्रमनुवर्तते। तथा च पूर्वसूत्रसमानार्थकमेतत्सूत्रं सम्पद्यत इति पुनर्विधानलाभ इत्यर्थः। किमर्थमिदं पुनविधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः । न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्यात् बाध्यत इत्यर्थः । वा सुपि। उपसर्गाति धाताविति पूर्वसूत्रम. नुवर्तते । आद्गुण इत्यतः वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदि. त्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह-अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतिकधातो परत इत्यर्थः, सुबन्तस्य धातोरसम्भवात् । एकादेश इति । पूर्वपरयोरचोरिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च सम्भवति । तथापि तुल्यास्यसूत्रभाष्ये उपाारीयती. त्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात् सुबन्तप्रततिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह-मापिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः सम्मत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थे 'सुप आत्मनः क्यच्' 'सनाद्यन्ताः' इति धातुत्वम् । 'सुपा धातुप्रातिपदिकयोः' इति सुपो लुक् 'क्यचि च' इति ईत्वम् । लट् , तिप् , शप् , पररूपम् । प्र ऋषभीयति इति स्थिते अनेन वृद्धिः आकारः रपरत्वम् । प्रर्षभीयतीति । वृदयभावपक्षे आद्गुणः रपरत्वम् । सावादिति । ऋलवर्णयोरिति सावयाहतीत्यनेन लतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । लकारमात्मान इच्छतीत्यर्थे क्यजादि
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
सिद्धान्तकौमुदी
[बच्चन्धि
न । उप ऋकारीयति-उपकोरीयति । (७) पति पररूपम् ६।१।६४॥ अवर्णान्तादुपसर्गादेगदी धातौ परे पररूपमेकादेशः स्यात् । प्रेजते। उपोषति । इह 'वा सुपि' इत्यनुवयं वाक्यभेदेन व्याख्येयम् । तेनैगदी सुधातौ वा। उपेडकीयति, उपैडकीयति । प्रोपीयति-प्रौघीयति । 'एवे चानियोगे' (वा ३६३१) नियोगोऽव. धारणम् । क्वेव भोक्ष्यसे । अनवक्लप्तावेवशब्दः । 'अनियोगे किम् । तवैव । पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्यभावपक्षे गुणः लपरत्वम् । तपरत्वा. दिति । प्रतीति तपरकरणेन तत्कालस्यैव ग्रहणात् दीर्घप्रकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृधभावादन गुण इति । * एङि पररूपम् । उपसर्गादिति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः । यस्मिन् विधिरिति परिभाषया तदादिग्रहणम् । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह-अवर्णान्तादिस्यादिना । एकादेश इति । पूर्वपरयोरिति शेषः । प्रेजत इति । एजृ दीप्तौ । प्र एजते इति स्थिते वृद्धिरेचीति वृद्धि बाधित्वा अनेन पररूपम् । एकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे, लट् तिप्शप लघूपधगुणः उप ओषतोति स्थिते वृद्धि बाधित्वा अनेन ओकारः । ननु एडको मेषः, तमात्मन इच्छति एडकीयति, उप एडकीयतीति स्थिते अनेन नित्यमेव पररूपं स्यात् । इष्यते तु वृद्धिरपि उपैडकीयति उपेडकीयतीति । तत्राह-इहेति । एहि पररूपमित्यत्र वा सुपीत्यनुवर्तते । तब नैकवाक्यतया सम्ब. ध्यते । तथा सति, अवर्णान्तादुपसर्गादेशादौ सुब्धातौ परे पररूपमेकादेशो वा स्या. दित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वास्यभेदेन व्याख्येयम् । एकिपररूपमिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः । वा।सुपीति द्वितीयं वाक्यम् । तत्र एकि परस्पमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातो परे पररूपं वा स्यादिति लभ्यते । तदाह-तेनेति। उक्तरीत्या वाक्यभेदाश्रयणेन एकादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्द व्याचष्टे-नियोगोऽवधारणमिति। अवधारणम् अन्ययोगव्यवच्छेदः । तदन्यस्मिन्नथें यः एवशब्दः तस्मिन्नकारात् परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क एव इति स्थिते वृद्धिं बाधित्वा अनेन वार्तिकेन पररूपमेकारः । अनवक्लप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्र एक्शब्दस्य अवधारणार्थत्वात् न तस्मिन् परे पररूपम्।
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३]
बालमनोरमासहिता।
६५
(98) मचोऽन्त्यादि टि १॥२६॥ अचर्चा मध्ये योऽन्त्यः सः आदिर्यस्य तहिसंज्ञं स्यात् । 'शकन्वादिषु पररूपं वाच्यम्' (वा ३६३२)। तच्च टेः । शकन्धुः । ककन्धुः । कुलटा । 'सीमन्तः केशवेशे (वा ३६३३) सीमान्तोऽन्यः। मनीषा । हनीषा । लागलीषा। पतञ्जलिः । 'सारङ्गः पशुपक्षिणोः (ग १३६)। साराशो
अथ कचित् टेः पररूपं विधातुं टिसंज्ञामाह-प्रचोऽन्त्यादि टि। अच इति निर्धारणे षष्ठी । जातावेकवचनम् । अन्ते भवः अन्त्यः, अन्त्यः आदिः यस्य तत् अन्त्यादीति विग्रहः । फलितमाह-प्रचां मध्य इत्यादिना । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिध्यर्थे पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेवच परस्यावश्च स्थाने पररूपमेकादेश इत्याल्लभ्यते । आदित्यनुवृत्तौ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धः । तदाह-तच्च टेरिति । शकन्ध्यादिगणं पठति-शकन्धुरित्यादिना । शकानां देशविशेषाणाम् अन्धुः कृप इति विग्रहः । शक अन्धु इति स्थिते सवर्णदीले प्राप्ते अनेन पररूपम् । अत्र शकशब्दे द्वावची । तत्र अन्त्यः अच् ककारादकारः, तदादिः अकार एव, 'आद्यन्तवदेकस्मिन् ' इति वचनात् । एवमग्रेऽपि द्रष्टव्यम् । कर्कन्धुरिति । कर्काणां राज्ञाम् अन्धुरिति विग्रहः । कर्क अन्धुः इति स्थिते पररूपम् । कुलटेति । अट गतौ । पचायच् । टाप् कुलानां अटेति विग्रहः । भिक्षार्थ व्यभिचा. रार्थ वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणमिति डीप स्यात् । कुल अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः सन्निवेशविशेषः । तस्मिन् गम्ये सीमनशब्दस्य टेरन इत्यस्य अन्तशब्दस्यावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् । सीमान्तोऽन्य इति । ग्रामान्तप्रदेशः इत्यर्थः। मनीघेति । मनस ईषेति विग्रहः । अत्र अस् इति टेः ईकारस्य च स्थाने पररूपमीकारः । इष गतौ । 'गुरोश्च हल' इत्यप्रत्ययः । टाप् । 'बुद्धिर्मनीषा इत्यमरः । हलीषेति । 'ईषा लागलदण्डः स्यात्' इत्यमरः । हलस्य ईषेति विग्रहः। करिकलभ इतिवत् पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लागलीषेत्यत्रापि । पतन्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्र अत् इति टे अकारस्य च स्थाने पररूपमकारः। केचित्त, गोनदाख्यदेशे कस्यचिदृषेः सन्ध्योपासनसमये अञ्जलेनिर्गत इत्यैतिह्यात् अञ्जलेः पतन्निति विगृह्णन्ति । मयूरव्यंसकादित्वात् समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते। मारशब्द उत्कृष्टे । 'सारो बले स्थिरांशे च न्याय्ये क्लीवेऽम्बरे त्रिषु इत्यमरः।
५ बा०
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
ऽन्यः। आकृतिगणोऽयम् । मार्तण्डः । 'ओत्वोष्ठयोः समासे वा' ( वा ३६३४)। स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः बिम्बौष्ठः । 'समासे' किम् । तवौष्ठः । (८०) श्रो. माङोश्च ६१॥५॥ ओमि भाङि च आत्परे पररूपमेकादेशः स्यात् । शिवा. यो नमः। शिव एहि-शिवेहि । (१) अव्यक्तानुकरणस्यात इतौ । ६।।४॥ ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् ।
साराणि अङ्गानि यस्येति विग्रहः । सार अङ्ग इति स्थिते सवर्णदीधे प्राप्ते अनेन पर. रूपम् । 'चातके हरिणे पुंलि सारङ्गः शबले त्रिषु' इत्यमरः । प्राकृतिगणोऽयमिति । आकृत्या एवं जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेण एवंजातीयकाः शब्दाः अस्मिन् गणे निवेशनीया इति यावत् । तत्फलमाह-मार्तण्ड इति । मृतम् अण्डं यस्य सः मृतण्डः कश्चिदृषिः । मृत अण्ड इति स्थिते सवर्णदीर्घ बाधित्वा अनेन पररूपम् । ततः अपत्ये अणि मार्तण्डः । 'परामार्ताण्डमास्थत्' इति सव. र्णदीर्घस्तु च्छान्दसः। ओत्वोष्ठयोः। अवर्णात् ओतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो. रचोः पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति । 'ओतुर्बिडालो मार्जारः' इत्यमरः । स्थूल ओतुः इति स्थिते वृद्धि बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवत् रक्तवर्णो ओष्ठौ यस्येति विग्रहः । , ओमाडोश्च । ओं च आचेति विग्रहः । आदिति पररूपमिति चानुवर्तते, एकः पूर्वपरयोरिति च । तदाह-ओमित्यादिना । शिवायों नम इति । अत्र वृद्धिं बाधित्वा पर. रूपम् । शिवेहीति। आ इहोति स्थिते गुणे एहीति रूपम् । ततः शिव एहि इति स्थिते वृद्धिं बाधित्वा पररूपमेकारः। नच शिव आ इहीति स्थिते सवर्णदीघे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धराङ्ग्रहणं व्यर्थमिति वाच्यम् , 'धातूपसर्गयोः कार्य. मन्तरङ्गम्' इति न्यायेन प्रथमम् आद्गुण इति गुणे कृते शिव एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु, आ ऋश्यात् , गुणः, अर्थात् , अद्य अश्यात् अधादित्यत्र सवर्णदोनिवृत्त्यर्थम् आग्रहणमिति स्थितम् । अव्यक्तानुकरणस्य । पररूपमित्यनुवर्तते । अव्यक्तः अस्फुटवर्णविभागः वृक्षपतनादिजनितध्वनिः । तस्यानुकरणं तत्प्रतिपादकस्तत्सहशः अपरिस्फुटवर्णविभागः शब्दः तस्यावयवः यः अक्शब्दः तस्मात् इतिशब्दे परे अत्शब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः । अत्र इतिशब्दे यः प्रथम इकारः तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात् । तदाह-वनेरित्यादिना। अत्र अलोऽन्त्यस्येति न भवति, 'नानकेऽलोऽन्त्यविधिः' इति निषेधात् । पटत् इतीति प्रक्रियावाक्यप्रदर्शनम् । न तु पररूपाभावपक्षे रूपमिति भ्रमितव्यम् , अत्र पररूपस्य नित्यत्वात् । असंहितायां
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
६७
पटत् इति पटिति । “एकाचो न' (वा ३६३७.) । अदिति। (८२) नाडित. स्यान्त्यस्य तु वा ६१॥ आमेडितस्य प्रागुक्तं न स्यात् । अन्त्यस्य तु तकारमात्रस्य वा स्यात् । 'डाचि बहुलं द्वे भवतः' (वा ४६९७ ) । इति बहुल. प्रहणात् द्वित्वम् । (३) तस्य परमानेडितम् ॥१२॥ द्विरुक्तस्य परं रूपमामेडितसंझं स्यात् । पटत्पटेति । (४) झलां जशोऽन्ते ॥२॥३६॥ पदान्ते झलां जशः स्युः। पटत्पटदिति । (५) अकः सवर्ण दीघः ६।१।१०१॥ निर्देशो वा। पटितीति । उदाहरणमेतत्। वृक्षः पतित इत्याद्यध्याहार्यम् । अत्र अनेकान्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सगृहाति-एकाचो नेति । एकः अच् यस्य सः एकाच् तथाभूतस्यानुकरणस्य उक्तं पररूपं नेत्यर्थः। अदितीति । अत्र एकाच्त्वात् न पररूपम् ।
ननु पटत्पटत् इति इत्यत्र पटत्पटेति रूपमिष्यते। तत्राव्यक्तानुकरणस्येति पर. रूपे पटत्पटिति इत्येव स्यात् । तत्राह-नानेडितस्य । अव्यक्तानुकरणस्यात इताविति पररूपमिति एकः पूर्वपरयोरिति चानुवर्तते । आम्रेडितस्य अव्यक्तानुकरणस्य अवयवः यः अत्शब्दः तस्य इतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा। तुरवधारणे । अत्शब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यात् । नत्वकारस्यापी. त्यर्थः । तदाह-आग्रेडितस्य प्रागुक्तमित्यादिना । ननु पटत् पटत् इत्यत्र कथं द्वित्वमित्यत आह-डाचीति । 'डाचि बहुलं द्वे भवतः' इति द्वित्वमित्यन्वयः । ननु 'अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्' इति डाचः कथमिह सम्भवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह-बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमधिकविधानार्थम् , बहूनान् लाति गृह्णातीति तद्व्युत्पत्तरिति भावः । अभियुक्ताश्चाहुः"कचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्या लोके विज्ञेयमेतत् बहुलग्रहे तु” इति । ननु किमानेडितं नाम ? तत्राह-तस्य परमा. श्रेडितम् । सर्वस्य द्वे इत्यनन्तरमिदं सूत्रं पठ्यते । ततश्च तस्येत्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात् षष्ठी। तदाह-द्विरुक्तस्येत्या. दिना । पटत्पटेतीति । पटत् पटत् इति इति स्थिते तकारस्य इकारस्य च पररूपम् इकारः। ततश्च आद्गुणः । अथ पररूपाभावपक्षे पटत्पटत् इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोऽन्ते। पदस्येत्यधिकृतम् । तदाह-पदान्त इति । पटत्पटदितीति । स्थानसाम्यात् तकारस्य दकारो जशिति भावः । अत्र अतशब्दस्य पररूपनिषेधाभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षे अत्शब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।। . अकः सवर्णे । अक इति पञ्चमी । इको यणचीत्यतः अचीत्यनुवर्तते। एकः पूर्वफ.
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८
सिद्धान्तकौमुदी
[ अच्सन्धि
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णुदयः । 'अचि' किम् । कुमारी शेते । 'नाज्झलौ' ( सू १३ ) इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । ‘अकः’ किम् । हरये । 'अकोऽकि दीर्घः' इत्येव सुवचम् । 'ऋति सवर्णे ऋ वा' ( वा रयोरित्यधिकृतम् । तदाह - अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य अरि इति स्थिते द्वयोरकारयोरेको दीर्घः आकारः, स्थानसाम्यात् । श्री ईश इति स्थिते ईकारयोरेकः ईकारः । विष्णु उदय इति स्थिते उकारयोरूकारः । अत्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति - प्रचि किमिति । कुमारी शेत इति । अचीत्यननुवृत्तौ ईकारस्य शकारस्य व तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोदीर्घः ईकार एकादेशः - स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयनसाम्येऽपि न सावर्ण्यम्, नाज्झलाविति निषेधात् । अतः कुमारी शेत इत्यत्र अकस्वर्ण इत्यस्याप्रसक्तेः अचीत्यनुवृत्तिर्व्यर्यैवेत्यत आह- नाज्झलावितीति । नाज्झलाविति सावर्ण्यनिषेधो वर्णसमाम्नायिकानामेव नतु दीर्घप्लुतानामपि, आदिरअन्त्येन सहेतेत्यनेन वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वावगमात् । अत ईकार'शकारयोः सावर्ण्यसत्त्वात् कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वर्णसमाम्नायिकानामेव अचशब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैः अकारादिभिः ह्रस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकार'शकारयोर्न सावर्ण्यप्रसक्तिरित्यजनुवृत्तिर्व्यर्थं वेत्यत आह- ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकम् । तद्धि सवर्णपदघटितत्वात् सवर्णपदार्थावगमोत्तमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थ बोधयदपि नाज्झलाविति अपवादविषयं परिहृत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च- 'प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते' इति । एवं च अणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रालब्धात्मकतया नाज्झला वित्यत्र अज्ग्रहणेन दीर्घप्लुतानां ग्रहणाभावेन ईकारशकारयोः सावर्ण्यनिषेधाभावेन सावर्ण्यसत्त्वात् कुमारी शेत इत्यत्र अकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतत् नाज्झलाविति सावर्ण्यनिvat reपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । कोऽकिदीर्घ इत्येव सुवचमिति । एवं च सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।
ऋति ऋवा इति वार्तिकम् अकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे
--
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
-
३६४० ) होतृकारः-होतृकारः । 'लति सवर्णे ल वा' (वा ३६४१ ) । होल. कारः । पक्षे ऋकारः सावात् । होतृकारः। 'ऋति ऋ वा' 'लुति लु वा' इत्यु. भयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आयस्य मध्ये द्वौ रेफो तयोरेका मात्रा, अमितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारी शेषं प्राग्वत् । इहोभयत्राफि 'ऋत्यकः' ( स ९२ ) इति पाक्षिकः प्रकृतिभावो वक्ष्यते । (६) एङः पदा. न्तादति ६॥१०॥ पदान्तादेकोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव । (७) सर्वत्र विभाषा गोः ६१।१२२॥ लोके वेदे चैङन्तस्य ऋति परे पूर्वपरयोः इत्येकादेशः स्यादित्यर्थः । होतृकार इति । होत ऋकार इति स्थिते अनेन द्वयोः ऋकारयोः स्थाने अकारविलक्षणो नृसिंहवत् द्वयन्तरात्मा कारः रेफद्वयवान् कश्चिद्वों भवति । एतदभावपक्षे रूपं दर्शयति-होतृकार इति । अकः स. वर्ण इति दीर्घः । लति सवर्णेल वा । अकः सवर्णे लति परे पूर्वपरयोः ल इत्येकादेशो वा स्यादित्यर्थः । होलकार इति । होत लकार इति स्थिते ऋकारस्य लकारस्य च स्थाने नृसिंहवत् द्वयन्तरात्मा लकारः द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्वयन्तरात्मकवर्णाभावपक्षे ऋकारस्य लकारस्य च स्थाने अकः सवर्ण इति दी? भवन् ऋलवर्णयोरिति सावादकार एव भवति, लकारस्य दीर्घाभावादिति भावः । अत एव होतृ लकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ ऋति
वा, लति ल वेत्यत्र विधेयवर्णस्वरूपं विविनक्ति-ऋति वा लति ल वेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति-आधस्य मध्य इति। एका मांत्रेति । व्यञ्चनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः। अभितोऽभक्तेरिति । अमित इत्यनन्तरं रेफाविति शेषः। अज्भक्तेरिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्ठाच्च विद्यमानयोः हस्वकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति । विधेयस्येति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावमितो विद्यमानयोः लकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीधै प्राप्ते हस्वः ऋकारः लकारचात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।। - एङः पदान्तादति । अमि पूर्व इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृ-- तम् । तदाह-पदान्तादित्यादिना। हरे अव इति स्थिते अयादेशं बाधित्वा पूर्वरूप. मेकारः । विष्णो अवेत्यत्र अवादेशं बाधित्वा पूर्वरूपमोकारः। सर्वत्र विभाषा । पदा. तादित्यनुवर्तते । प्रकृत्यान्तःपादमित्यतः प्रकृत्येत्यनुवर्तते । प्रकृत्या स्वभावेन नि.
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
सिद्धान्तकौमुदी
[ अच्सन्धि
गोरति वा प्रकृतिभावः स्यात्पदान्ते। गो अप्रम्-गोऽप्रम् । 'एउन्तस्य' किम् । चित्रग्वप्रम् । ‘पदान्ते' किम् । गोः । (:) अवङ् स्फोटायनस्य ६।१।१२३॥ 'अति' इति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाप्रम् । ‘पदान्ते' किम् । गवि । व्यवस्थितविभाषया गवाक्षः। (D) इन्द्रे च ६१।१२४॥ गोरवङ् स्यादिन्द्रे । गवेन्द्रः । विकारस्वरूपेण अवतिष्ठत इत्यर्थः । यजुष्युर इत्यतो यजुषीति निवृत्तम् । तत्सूचनाय सर्वत्रेत्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह-लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः। एवं च पूर्वरूपमवादेशश्च न । गो अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽयमिति । अत्र एक इत्यप्यनुवर्तते । ततश्च एकदेशवि. कृतमनन्यवद्भवतीति न्यायेन चित्रग्वामित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैव एडो ग्रहणात् , प्रकृते च हस्वस्य गुण इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो अस् इति स्थिते गो इत्योकारस्य पदान्तत्वाभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम् , अत एव ङसिङसोश्चेति तत्र पूर्वरूपारम्भात् । अवङ् स्फोटायनस्य, अतीति निवृत्तमिति। एङः पदान्तादित्यत इति शेषः, व्याख्यानादिति भावः । पदान्तादिति, गोरिति, अचीति चानुवर्तते । स्फोटायनस्य ऋषेः मते अवङ् । अन्यस्य तु न । ततश्च विकल्पः सिद्धः । तदाह-अचि पर इत्यादिना। डिच्चेत्यन्तादेशः । गवाग्रमिति । गो अग्रमिति स्थिते गकारादोकारस्यावङ् । गव अग्र इति स्थिते सवर्णदीर्घः । न च अग्रशब्दे अकारमचं परत्वेनाश्रित्य प्रवृत्तः अवङ् कथं तद्विघातकं सवर्णदीर्घ प्रवर्तयति सन्निपातपरिभाषाविरोधादिति वाच्यम् , सन्निपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात् । गवीति । गो इ इति स्थिते ओकारस्य पदान्तत्वविरहाना. चङ् । नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे। किन्तु अवादेशः। अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत् । व्यवस्थितेति । क्वचित् भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते। ततश्च गवाक्ष इत्यत्र नित्यमवङ् इत्यर्थः । इदं च ।
"देवत्रातो गलो, ग्राह, इतियोगे च सद्विधिः ।
मिथस्ते न विभाष्यन्ते गवाक्षः, संशितव्रतः ॥" इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवां किरणानामक्षीवेति विग्रहः । अक्षणोऽदर्शनादित्यच् । पुंस्त्वं लोकात् । 'वातायनं गवाक्षः स्यात्' इत्यम
। इन्द्रे च । गोः, अवङ्, अचीत्यनुवर्तते । तदाह-गोरिति । विकल्पनिवृत्त्यर्थः पुनरारम्भः । गवेन्द्र इति । गो इन्द्र इति स्थिते अवङ् आदूगुणः ।
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
अथ प्रकृतिभावः ॥४॥ (१०) प्लुतप्रगृह्या अचि नित्यम् ६१।१२५॥ प्लुताः प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण ३ अत्र गौश्वरति । हरी एतौ । 'नित्यम्' इति किम् । 'हरी एती' इत्यादावयमेव प्रकृतिभावो यथा स्यात् , 'इकोऽसवर्णे'-(सू ९१ ) इति ह्रस्वसमुच्चितो मा भूत् । (8) इकोऽसवणे शा. कल्यस्य ह्रस्वश्च ६११२७॥ पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्यहेस्वश्च चा। अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्ध तदनुकर्षणार्थश्वकारो न कर्तव्यः'
___ अथ प्रकृतिमाव इति । निरूप्यत इति शेषः । प्लुतप्रगृयाः। वक्ष्यन्त इति । दूराद्धृते चेत्यादिना ईदूदेदित्यादिना चेत्यर्थः। प्रकृत्येति । प्रकृत्यान्तः पादमित्यतस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनावस्थिताः स्युरित्यर्थः । संधयो न भवन्तीति यावत् । एहि कृष्ण ३ अत्रेति । दूरादूधूते चेति णकाराइकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति । ईदूदेदिति रेफादीकारः प्रगृह्यः तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्य अस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्य मितिकिमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौ प्लुतप्रगृह्या अचीत्ययमेव केक्लः प्रकृतिभावः स्यादित्यर्थः । यथाशब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमप्रेऽप्येवंजातीयकेषु । एक्शब्दव्यवच्छेद्यं दर्शयति-इक इति । 'इकोऽसवणे शाकल्यस्य हस्वश्च' इति वक्ष्यमाणः ह्रस्वसमुच्चितः प्रकृतिभावः माभूत् न भवेत् । माडि लुङ् सर्वलकारापवादः। अकृते सति नित्यग्रहणे परत्वात् शाकलहस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकलं हस्वसमुचितप्रकृतिभावं प्लुतप्रगृह्या इति केवलः प्रकृतिभावो बाधत इत्यर्थः । इकोऽसवर्ण । इक इति षष्ठी। एङः पदान्तादित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । अचीति चानुवर्तते । ततश्च पदान्तस्येकः असवणेऽचि परे ह्रस्वः स्यादित्येकं वाक्यम् । चकारात् प्रकृत्यान्तःपादम् इत्यतः प्रकृत्येत्यनुकृष्यते । हस्व इति तत्रापि सम्बध्यते । ततश्च उक्तो हस्वः प्रकृत्या स्वभावेन अवतिष्ठत इति वाक्यान्तरं सम्पद्यते । फलितमाह-पदान्ता इक इत्यादिना। यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकः असवणेऽचि हस्वः स्यादित्येव लस्येत । तस्य हस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री अत्रेति स्थिते ईकारस्य हस्वे सति तस्य यणादेशे चक्रयत्रे. त्येव स्यात् । चक्रि अत्रेति हस्वसमुचितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य हृदयम् ।
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
सिद्धान्तकौमुदी
प्रकृतिभाव
इति भाष्ये स्थितम् । चक्रि अत्र-चक्रयत्र । ‘पदान्ताः' इति किम् । गौर्यो । 'न समासे' (वा ३६८४ ) । वाप्यश्वः । 'सिति च' (वा ३६८४ )। पार्वम् ॥ (१२) ऋत्यकः ६।१।१२८॥ ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः-ब्रह्मर्षिः ।
. भाष्यकारमतमाह- अत्र हस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य हस्वस्य यनिवृत्त्यर्थः स इति वाच्यम् , हस्वविधिसाम•देव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थचकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः। चक्रि अत्रेति हस्वसमुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्रयत्रेति रूपम्। नचात्र ककारस्य 'रुको संयोगाद्योरिति लोपः शङ्कयः, अचः परस्मिन्निति यणः स्थानिवत्त्वेन अच्त्वेन पदान्तसंयोगाभावात् । नच पूर्वत्रासिद्धे न स्थानिवदिति तनिषेधः शङ्कयः, तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशा. कलविधिन भवतीत्यर्थः । वाप्यश्व इति । वाप्यामश्च इति विग्रहः । शौण्डादेराकृतिगणत्वात् सुप्सुपेति वा समासः । सिति च। सकारः इत् यस्य सः सित् , तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पामिति । पशुपास्थि । पर्शनां समूहः पार्व. म् । 'पर्वा णस् वक्तव्यः इतिणस् । आदिवृद्धिः। यणादेशः। अत्र पाशु अ इति स्थिते उक्त: शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात् । 'सिति चेति पदत्वेन भत्वबाधात् । अचो णितीति वृद्धिरपि न भवति । आदिवृद्धया तद्वा. धात् । तथाच मूलकारो वक्ष्यति। 'आदिवृद्धिरन्त्योपधावृद्धी बाधते' इति । अत्र 'सिन्नित्यसमासयोः शाकलप्रतिषेधः' इति वार्तिकम् । तदिह द्विधा विभज्य व्याख्यातम् । नचैवं सति वाप्यश्व इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिक. त्वादिति वाच्यम् , भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्। - ऋत्यकः । अकः इति षष्ठी। शाकल्यस्य हस्वश्चेत्यनुवर्तते । असवर्ण इति निवृत्तम् । एङः पदान्तादित्यतः पदान्तादित्यनुवर्तते । तच्च प्रष्ट्यन्ततया विपरिणम्यते । ततः पदान्तस्य अकः ऋति हस्वो वा स्यादित्येकं वाक्यं सम्पद्यते । चकारात् प्रकृ. त्येत्यनुकृष्यते । उक्तो हस्वः प्रकृत्या अवतिष्ठत इति द्वितीयं वाक्यं सम्पद्यते तदाहऋति परे अकः प्राग्वदिति । ब्रह्मऋषिरिति । ब्रह्मा ऋषिरिति स्थिते आकारस्य हस्वः प्रकृतिभावश्च । ततश्च आद्गुण इति रपरःअकारो न भवति । अत्र आकारस्य इक्त्वाभावादिकोऽसवणे इत्यप्राप्ते इदं वचनम् । ब्रह्मर्षिरिति । उक्तहस्वसमुच्चितप्रकृतिभावाभावपक्षे आद्गुण इति अकारः। रपरत्वम् । 'ऋत्यस्या हत्येव तु न सूत्रितम् ।
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता।
'पदान्ताः' इत्येव । आच्छेत् । समासेऽप्ययं प्रकृतिभावः। सप्तऋषीणाम्-सप्तर्षीणाम् ॥ (8३) वाक्यस्य टेः प्लुत उदात्तः ॥२२॥ इत्यधिकृत्य ॥ (8) प्रत्यभिवादेऽशूद्रे माश३॥ अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः
होतृ कार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । पदान्ता इत्येवेति । पदा. न्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । पार्च्छदिति। - गतौ। लङ् तिप् शप् । पाघ्रा. ध्मेति ऋच्छादेशः। इतश्चेति इकारलोपः, आडजादीनामित्याडागमः, आटरचेति वृद्धिः, आ अच्छदिति स्थिते आकारस्य अकः पदान्तत्वाभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न सम्बध्यत इत्याह-समासेऽपीति । सप्तऋषीणामिति । 'दिक्सख्ये संज्ञायामिति समासः। सप्तऋषीणामिति प्रकृतिभावपने रूपम् । तदभावपमे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।
अथ प्लुतप्रगृह्या इति सूत्राकाजितप्लुतप्रगृह्मयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते-वाक्यस्य टेः। पदस्येत्यधिकृतम् । वाक्यस्य टेः पदावयवस्य प्लुतो भवति, स च उदात्तो भवतीत्यर्थः । अत्र पदस्येत्यनुवृत्तिनश्छव्यप्रशानित्यादयुत्तरार्था, इहानुवृ. त्तिविच्छेदे उत्तरत्रानुवृत्तेरसम्भवात् । वाक्यस्येत्यभावे पदस्य टेरित्युक्त यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत । वाक्यस्येत्युक्त तु वाक्यस्य टिरन्त्यस्यैव पदस्य सम्भवतीति न दोषः। टिग्रहणाभावे प्लुतश्रुत्या अचश्चेति परिभाषया अच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात् तदन्तविधौ अजन्तस्य वाक्यस्येत्यर्थे सति अलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानात् ग्राम गच्छाग्निचित् इत्यादिहलन्तवाक्येषु प्लुतो न स्यात्। टिग्रहणे तु तत्सामदेिव टिना अचो विशेषणात् टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम् । इत्यधि. कृत्येति। प्लुतविधय आरभ्यन्त इति शेषः । प्रत्यभिवादेऽशुद्रे। वाक्यस्य टेः प्लुत उदात्त इत्यधिकृतम् । अशुद्ध इति च्छेदः। न शुद्धः अशुद्धः द्विजातिः तद्विषयः प्रत्यभिवादः विधिवत् अभिवादयमानं प्रति विधिवदाशीर्वचनम्। भावे घन्। अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात् । स चोदात्त इत्यर्थः । ___ अभिवादविधिमाह आपस्तम्बः- 'दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवा. दयीत, उरसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शुद्धः। 'प्राञ्जलिः' इति । 'तिष्ठन् प्रातरभिवादमभिवादयीतासावहं भोः' इति च । असाविति स्वनामनिर्देशोऽभिमतः । देवदत्तोऽहं भोः इति ब्रुवन् अभिवादं आशीर्वचनं अभिवादयीत वक्तव्यत्वेन विज्ञाप. येत् । ततश्च यथावर्ण बाहुं प्रसार्य अभिवादये देवदत्तोऽहं भोः इति ब्रूयादित्यर्थः । अयमभिवादनप्रकारः।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
प्रकृतिभाव
-
-
स्यात् , स चोदात्तः।अभिवादये देवदत्तोऽहम् भोः । आयुष्मान् भव देवदत्त ३ । 'स्त्रियां न' (वा ४८६४)। अभिवादये गार्यहम् । भो आयुष्मती भव गार्गि। नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इज्यते । नेह आयुज्यमानेधि । भो राजन्य विशां वेति वाच्यम् । (वा०४८६५) आयुष्मानेधि भोः ३ । आयुष्माने. प्रत्यभिवादनप्रकारस्तु मनुना दर्शित:
.. आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । ... अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ इति । . अत्र नाम्नोऽन्ते इति वचनात् आयुष्मान् भव सौम्येत्यनन्तरमभिवादयमानस्य नाम सम्बुद्धयन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति । अस्य नाम्नः अन्ते अकारश्च वाच्यः प्रयोज्यः। तस्मादकारात् पूर्वाक्षरः पूर्वः अच् प्लुतः प्रयोक्तव्य इत्यर्थः। एवं च आयुष्मान् भव सौम्य देवदत्त३ अ इति प्रत्यभिवादवाक्यं सम्पन्नमिति स्थितिः। अभिवादये देवदत्तोऽहमिति अभिवादवाक्यप्रदर्शनम् । भोः इत्यस्याप्युपलक्षणम् । आयुष्मान् भव देवदत्त३ इति प्रत्यभिवादवाक्यप्रदर्शनम् । अभिवादये इत्यस्य अभिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः। भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तका. रादकारस्य प्लुतः । आयुष्मत्त्वस्य विधेयत्वात् सम्बोधनविभक्त्यभावः। अत्र प्रत्यसिवादवाक्ये शर्मान्तं ब्राह्मणस्येत्यादि न भवति, एचोऽप्रगृह्यस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात् उक्तमन्वादिस्मृतिविरोधाच्च । अशुद्ध इति किम् ? 'कुशल्यसि तुषजक' इति भाष्यम् । एवञ्च शूदविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते । 'अशूद्रस्त्र्यसूयकेष्विति वक्तव्यम्' इति वार्तिकम्। शूद्रविषय एव, प्लुतप्रतिषेधो न भवति, किंतु शुद्रवत् स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः । तत्र शूद्रविषये उदाहृतम् । स्त्रीवि. षये वार्तिकं विभज्यार्थतः सङ्गृह्णाति-स्त्रियां नैति। स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिन भवतीत्यर्थः। अभिवादये गार्यहमिति अभिवादनवाक्यप्रदर्शनम् । आयुष्मती भव गार्गीति प्रत्यभिवादवाक्यम् , अत्र न प्लुतः। असूयके तु उदाहरणं भाष्ये स्फुटम् । यद्यपि गार्गीति नाम न भवति कि तु गोत्रमेव, तथापि भाष्ये गार्गीशब्दोदाहरणादेव अभिवादप्रत्यभिवादवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः । तदाह-नाम गोत्रं वेति । अत्र नामशब्देन द्वादशेऽहनि पिता नाम कुर्यादिति विहितं नामैव गृह्यते । अत एव आयुष्मान् भव दण्डिन्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् । नाम गोत्रं वेति परिगणनस्य प्रयोजनमाह-नेहेति । आयुष्मानेधीति । मस्तेस्सिप् हिः, ध्वसोरित्यत्वं, हेधिः । श्नसोरल्लोपः। अत्र धकारादिकारस्य न प्लुतः, अना
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता।
७५
VAN
धोन्द्रवर्मइन् । आयुष्मानेधीन्द्रपालित ३ ॥ (8५) दुराधूते च ८२४॥ दूरा. सम्बोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त३ ॥ (82) हैहे. प्रयोगे हैहयोः ॥२५॥ एतयोः प्रयोगे दूराद्धृते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे३ राम । राम है३ ॥ (8) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्रा. चाम् ॥२॥८६॥ दूराद्धृते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः मत्वादगोत्रत्वाच । भोराजन्यविशाम् । भोस्शब्दस्य राजन्यवैश्यवाचकनाम्नोश्च टेः प्लुतो वा स्यादिति वक्तव्यमित्यर्थः । भोस्शब्दस्य अप्राप्ते इतरयोस्तु नामत्वात् प्राप्ते विभाषेयम् । तत्र भोस्शब्दे यथा-आयुष्मानेधि भोः। आयुष्मानेधि देवदत्त भोः इति भाष्यम् । अत एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य .भवशब्देन एधिशब्दस्य च प्रयोगविकल्पो गम्यते । राजन्ये यथा-आयुष्मानेधि इन्द्रवर्मन् , इन्द्रवर्मन् । वैश्ये यथा-आयुष्मनेधि इन्द्रपालित३, इन्द्रपालित इति भाष्यम् । अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते । उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः। अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भो
शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भोः इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम्।
दूराद्धृते च। यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं शब्दं बोध्यमानो न शृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्रम् , हुतमाह्वान भावे क्तः। तच्च सम्बोधनमिह विवक्षितम् । वाक्यस्य टेः प्लुत उदात्त इत्यधिकृतम् । तदाह-दूरात्सम्बोधन इत्यादिना । यदि तु आह्वानमेवात्र विवक्षितं स्यात् तर्हि एहि देवदत्तेत्यादौ आह्वानवाचकपदे सत्येव स्यात्। सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभिप्रेत्योदाहरतिसक्तूनीति । है हेप्रयोगे। है हे इत्यव्यये सम्बोधनद्योतके । तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्कय नियमार्थमिति व्याचष्टे-हैहयोरेवेति । हैहयोरेवेति नियमार्थमिति भावः। पाहि है। राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतः, न तु गुरोरनृत इत्यन्त्यस्यापीत्येतत् हैहयोरिस्यनेन लभ्यत इति यावत् । प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकारात् राम है। राम हे३ इत्यत्रैव स्यात् । अतः प्रयोगग्रहणम् । ततश्च अनन्त्ययोरपि तयोः प्लुतो भवति । गुरोरनृतोऽनन्त्यस्य । दूराद्धूते चेत्यनुवर्तते । वाक्यस्य टे: प्लुत उदात्त इत्यधिकृतम् । दूरात् सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत् पदं तदवयवस्य ऋकारभिन्नस्य अनन्त्यस्य गुरोः प्लुतः स्यात्। अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः, ो अपिना समुच्चयात् । तदाह-दूरादित्यादिना। देवदत्तेत्यादिषु सर्वत्र एहीति शब्दः
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[प्रकृतिभाव
स्यात् । देवदत्त । देवदत्त । देवदत्त३ । 'गुरोः किम् । वकारात्परस्याकारस्य माभूत् । 'अनृतः किम् । कृष्ण३ । एकैकग्रहणं पर्यायार्थम् । इह 'प्राचाम्' इति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते ॥ (EE) अप्लुतवदुपस्थिते ६।१२६॥ उपस्थितोऽनार्ष इति शब्दः, तस्मिन्परे प्लुतोऽप्लुतवद्भवति (अप्लुतकार्य यणादिकं करोतीत्यर्थः ) सुश्लोक३ इति-सुश्लोकेति । 'वत्' किम् । अप्लुत इत्युकेऽप्लुत एव विधीयत प्लुतश्च निषिध्येत । तथाच प्रगृह्याश्रयै प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्नी३ इति ॥ (88) ईचाक्रवर्मणस्य । ६।११३०॥
प्रागध्याहर्तव्यः। अन्यथा एकतिङ् वाक्यमिति वाक्यत्वानुपपत्तेः। पर्यायार्थमिति । अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः । इह प्राचामिति । गुरोरनृतो. ऽनन्त्यस्याप्येकैकस्येत्येक, प्राचामित्यन्यत् । तत्र प्लुत इत्येव अनुवर्तते । प्राचां मते प्लुतः स्यात्, नान्यमते इति फलति । ततः किमित्यत आह-तेनेति । एवं च 'सर्व: प्लुतः साहसमनिच्छता विभाषा वक्तव्यः इति वार्तिकं न कर्तव्यमिति भावः । प्लुत. शास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः । प्लुतशास्त्रेषु श्रद्धाजाड्यं विहायेति यावत्।
अप्लुतवत् । किमिदमुपस्थितं नाम ? अनार्षमितिकरणमिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थः। प्लुत इत्यध्याहार्यम् । अवैदिके इतिशब्दे परे प्लुतः अप्लुतवत् स्यादिति फलति। तदाह-उपस्थितोऽनार्ष इत्यादिना । अप्लुतवद्रावस्य प्रयोजनमाहप्लुतकार्य प्रकृतिभावं न करोतीति । अप्लुतकार्य यणादिकं करोतीति पाठान्तरम् । सुश्लोक३ इतीति । तैत्तिरीये सुश्लोक३ इति प्लुतान्तो मन्त्रः पठितः । पदकाले अवग्रहे तस्मात् परतः इतिशब्दं पदकाराः पठन्ति । तत्र सुश्लोक३ इति इति स्थिते अप्लुतक्दावेन प्रकृतिभावाभावे सति आद्गुणे सुश्लोकेतीति भवति । अत्र इतिशब्दः पद. कारप्रक्षिप्तत्वादवैदिकः । तदेव सुरलोकेति इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तु सुश्लोक३ इति सुश्लोक३ इति इत्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्यम् । संहितायामेव यणादिसन्धिविधानात् । वकिमिति । अप्लुतवदित्यत्र वग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह-अप्लुत इत्युक्त इत्यादिना । वग्रहणं विहाय अप्लुत उपस्थित इत्युक्त प्लुतस्य स्थाने अप्लुत एव विधीयेत । अतः प्लुत एव निवतेत । ततश्च अग्नी ३ इत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्य ईकारः त्रिमात्रो न श्रूयेत। वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः। ईश्चाक्रवर्मणस्य । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित इत्यस्वरितत्वानिवृत्तम्। अप्लुतवदित्यनुवर्तते।
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता ।
ईश्कारः प्लुतोऽचि परे ऽप्लुतवद्वा स्यात् । चिनु हि ३ इति - चिनु हीति । चिनु हि३ इदम् - चिनु हीदम् । उभयत्र विभाषेयम् ॥ (१००) ईदूदेद्विवचनं प्रगृ. ह्यम् १|१|११॥ ईदूदेदन्तं द्विवचनं प्रगृह्यसब्ज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । 'मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्यत्र स्विवार्थे वशब्दो वाशब्दो वा बोध्यः । (१०१) मदसो मात् १|१|१२|| अस्मा
૭૭
इको यणचीत्यतः अचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारः अचि परे अप्लुतवद्धवति, नत्वन्यमत इत्यर्थः । तदाह - प्लुतोऽचि परेऽप्लुतवद्वेति । चिनु हि इदमिति । किं मया कर्तव्यमिति पृष्टस्येदं प्रतिवचनम् । चिनु इति लोडन्तम् । उत्तवच प्रत्ययादिति हेर्लुक् । हि इति त्वव्ययम् । 'विभाषा पृष्टप्रतिवचने हे:' इति प्लुतः । चिनु -इत्यतः प्राक् देवदत्तेत्यध्याहार्यम् । इदमिति तु वाक्यान्तरस्थम्, नतु चिनु इत्येतेन एकवाक्यतामापन्नम् । अन्यथा वाक्यस्य टेरित्यधिकारात् हिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्र अप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्तु अव्ययमिति न भ्रमितव्यम्, नवेति विभाषायामिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । गुरोश्च हल इत्यप्रत्ययः । टाप् ।
ईदूदेद्विवचनम् । ईश्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः । द्विवचनमित्यनेन तु प्रत्ययत्वेऽपि न तदन्तं गृह्यते, संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति तन्निषेधात् । तदाह - ईदूदेदन्तमित्यादिना । ह पताविति । अत्र ईकारस्य परादिवस्वाश्रयणात् द्विवचनत्वम् । प्रगृह्यत्वे सति प्लुतप्रगृह्या इति प्रकृतिभावान्न यण् । विष्णु इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र तु अयादेशो न भवति । ईदूदेदन्तमिति तदन्तविधेः प्रयोजनं दर्शयितुमाह - पचेते इमाविति । तदन्तविध्यभावे ईदूदेदात्मकं द्विवचनं प्रगृह्यमिति लभ्येत । एवं सति पचेते इत्यत्र इते इति द्विवचनस्य एद्रूपत्वाभावात् प्रगृह्यत्वं न स्यादिति भावः । ईदूदेदन्तं यद्विवचनान्तमिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् । ईदूदेदन्तं द्विवचनमिति व्याख्याने तु नातिप्रसङ्गः । ओसो द्विवचनस्य ईदूदेदन्तत्वाभावात् । 'ननु 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इति भारतश्लोके मणी इवेति ईकारस्य प्रगृह्यत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह- मणीवोष्टस्येत्यादिना । 'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ।' इति मेदिनी । 'व वा यथा तथैवैवं साम्य' इत्यमरः ।
अदसो मात् । अदस इत्यवयवषष्ठी । अदशब्दावयवान्मकारादित्यर्थः । ईदूदिति प्रगृह्ममिति चानुवर्तते । मादिति दिग्योगे पञ्चमी । परशब्दोऽध्याहार्यः । तदाह
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[प्रकृतिभाव
-
त्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः। रामकृष्णावमू आसाते । 'मातृ' किम् । अमुकेऽत्र । असति मागहणे एकारोऽप्यनुवर्तेत ॥ (१०२) शे ॥२॥१३॥ अयं अस्मात् पराविति । अदश्शब्दावयवमकारात् परावित्यर्थः। एदिति नानुवर्तते, अद. श्शब्दे मकारात् परस्य एकारस्यासम्भवात् । द्विवचनमित्यपि नानुवर्तते, अदरशब्दे मकारात् परस्य ईकारस्य अमी इति बहुवचनत्वात् ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावाभावात् । अमी ईशा इति । अदरशब्दाजसि त्यदा. द्यत्वं पररूपत्वं जसरशी आद्गुणः । अदे इति स्थिते एकारस्य एत ईदिति ईत्त्वं दस्य च मत्वम् । अमी इति रूपम् । अत्र ईकारस्य द्विवचनत्वाभावात् पूर्वसूत्रेण प्रगृ. घसंज्ञान प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति । पुलिङ्गाददश्शब्दात् प्रथमाद्विवचने औङि त्यदायत्वं, पररूपत्वं वृद्धिरेचि, अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वम् , दस्य मत्वम् । अमू इति रूपम् । यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्यत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्टया सत्त्वात् पूर्वसूत्रेण तस्य प्रगृह्यत्वं न प्राप्तमित्यनेन विधीयते । अदसोमादिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यम् । हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात् । स्त्रियो फले वा अमू आसाते इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि स्त्रीलिङ्गाददश्शब्दात्
औडि, त्यदाद्यत्वे, पररूपत्वे, टापि, औङ आप इति शीभावे, आद्गुणे, अदे इति स्थिते उत्वमत्वयोरमू इति रूपम् । तथा नपुंसकलिङ्गात्तस्मादौडि, त्यदाद्यत्वे, पररू. पत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम् । अत्र पूर्वसूत्रे. णैव प्रगृह्यत्वं सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात् । अतः पुंलिङ्ग इव अदशब्दः अत्रोदाहरणमिति प्रदर्शयितुं रामकृष्णावित्युक्तम् । मात्किमि. ति । अदस इत्येव सूत्रमस्तु । मादूग्रहणस्य कि प्रयोजनमिति प्रश्नः । अमुकेऽत्रेति । अव्ययसर्वनामम्नाकच् प्राक्टेः' इत्यकचि अदकश्शब्दाजसि, त्यदायत्वं, पररूपत्वम्, जसरशी, आद्गुणः, उत्वमत्वे, अमुके इति रूपम् । अत्र एकारस्य प्रगृह्यत्वनिवृत्त्यर्थ मादग्रहणम् । कृते च तस्मिन् एकारस्य मात्परत्वाभावान्न प्रगृह्यत्वमिति भावः । नन्वेवमपि मादग्रहणं व्यर्थम् , एग्रहणमनुवर्त्य ईदूतोरेवान प्रगृह्यत्वविधानाभ्युपगमेन अमुके इत्यत्र प्रगृह्यत्वप्रसक्तेरेवाभावादित्यत आह-असतीति । अदसो मादित्यत्र ईदूदेताम् एकसमासपदोपात्तानां मध्ये ईदूतोर्द्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्र. हणादेतोऽनुवृत्तिः प्रतिबद्धा । माद्ग्रहणाभावे तु बाधकामावादेतोऽप्यनुवृत्तिः स्यात्। ततश्च अमुक इत्यत्रापि एकारस्य प्रगृह्यत्वप्रसक्तो तन्निवृत्यर्थे माद्ग्रहणम् । कृते तु तस्मिन् एतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्यत्वम् । तथा च एकाराननुवृत्ति
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती। (१०३) निपात एकाजनाङ् ॥१॥१४॥ एकोऽज्निपात आवर्जः प्रगृह्यः स्यात् । इविस्मये । उ वितकें । इ इन्द्रः । उ उमेशः। 'अना' इत्युक्तेरखिदाकारःप्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । वित्त न प्रगृह्यः। ईषदुष्णं ओष्णम् । 'वाक्यस्मरणयोरङित् । अन्यत्र रित्' इति विवेकः ॥ (२०४) ओत् १११।१५॥ ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥ (१०५) सम्बुद्धौ शाकल्यस्येतावनार्षे ११॥१६॥
फलकं माद्ग्रहणमिति भावः । शे। एकपदं सूत्रम् । प्रगृह्यमित्यनुवर्तते । छन्दसीत्यनुवृत्तौ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः' इति विहितः शे इत्येकारान्त आदेशः प्रगृह्यः स्यादित्यर्थः । तदाह-अयमिति । शे आदेश इत्यर्थः । अस्मे इति । अस्मभ्यमित्यर्थः । भ्यसः शे आदेशः, लशक्वतद्धित इति, शकार इत् , शेषे लोपः, अस्मे इति रूपम् । अद्विवचनत्वादप्राप्तौ वचनम् । यद्यपि छान्दसमिदं वैदिकप्रक्रियायामेव निवन्ध्यम् , तथापि अस्मे इति त्वे इति इत्यायवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात् ।
निपात एकाच । प्रगृह्यमित्यनुवर्तते । पुंलिङ्गतया च विपरिणम्यते । एकश्वासावच्चेति कर्मधारयः । तदाह-एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वानिपातः । स च आश्चर्य वर्तत इत्यर्थः । । इन्द्रः । उ उमेशः । इ इति उ इति निपातः सम्बोधने । उभयोरपि एकाचत्वान्निपातत्वाच प्रगृह्यत्वान्न सन्धिः । अनाडित्यत्र डकारानुबन्धस्य प्रयोजनमाह-अनाङित्युक्तेरिति । आ एव मिति । पूर्वप्रक्रान्तवाक्या. थस्य अन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्थाः, इदानीं त्वेवं मन्यसे इत्य. र्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाभावान्न पर्युदासः। ङित्त्विति । किन्तु आकारः प्रगृह्यो न भवति अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ उष्णमित्यत्र आकारस्य ङित्त्वात् प्रगृह्यत्वाभावे सति आद्गुणः । ननु प्रयोगदशायां डकारस्याश्रवणाविशेषात् डिदडिद्विवेकः कथमित्यत आह-वाक्ये. ति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अडित् । अन्यत्र । ईषदाद्यर्थे गम्ये डिदिति विवेकः-भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्. 'ईषदथें क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं डितं विद्यात् वाक्यस्मरणयोरङित्' इति ॥ एकः अच् यस्येति बहुव्रीहिस्तु नाश्रितः । तथा सति प्रेदमित्यादावतिप्रसङ्गात्। प्रोत् । निपात इत्यनुवर्तते । ओदिति तस्य विशेषणम् । अतस्तदन्तविधिः। प्रगृह्यमित्यनुवर्तते । पुंलिङ्गतया च विपरिणम्यते । तदाह-ओदन्त इत्यादिना। अहो ईशा
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E0
सिद्धान्तकौमुदी
{प्रकृतिभाव
-
सम्बुद्धिनिमित्तक भोकारो वा प्रयोऽवैदिक इतौ परे। विष्णो इति-विष्ण इति विष्णविति । अनार्षे इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ (१०६) उमः १११। १७॥ उम इतौ वा प्रागुक्तम् । उ इति-विति ॥ (१०७) ॐ १२॥१॥ उष इतौ दीर्घोऽनुनासिक प्रगृह्यश्च ॐ इत्ययमादेशो वा स्यात् । ॐ इति-विति ॥ (१०८) मय उमो वो वा ८॥३॥३३॥ मयः परस्य उजो वो वा स्यादचि । किमु उक्तम् , किम्वुक्तम् । वस्यासिद्धत्वान्नानुस्वारः॥ (१०६) ईदूतौ च सप्तम्यर्थ १२११॥ इति । अनेकाच्त्वात् पूर्वसूत्रेण अप्राप्तौ वचनम् । सम्बुद्धौ शाकल्यस्य । सम्बुद्धाविति निमित्तससमी ओदित्यनुवृत्तेन अन्वेति । प्रगृह्यमित्यनुवर्तते, पुलिङ्गतया च विपरिणम्यते । ऋषिवेदः, तदुक्तऋषिणेत्यादौ तथा दर्शनात् । ऋषौ भवः आर्षः, न आर्षः अनार्षः, अवैदिके इंति शब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पः । तदाहसम्बुद्धिनिमित्तक इत्यादिना। विष्णो इतीति । अत्र ओकारः हस्वस्य गुण इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाभावादप्राप्ते विभाषेयम् । विष्णवितीति प्रगृह्यत्वाभावे रूपम् ।
"उनः । एकपदं सूत्रम् । शाकल्यस्य इतौ प्रगृह्यमिति चानुवर्तते । उ इति भित् उकारः निपातः । तस्य इति शब्दे परे शाकल्यमते प्रगृह्यसंज्ञा स्यादित्यर्थः । तदाहउन इतौ वा प्रागुक्तमिति। पूर्वोक्तं प्रगृह्यत्वमित्यर्थः। उ इति वितीति । निपात एकाजिति नित्यं प्राप्ते विकल्पोऽयम् । प्रगृह्यत्वपक्षे प्रकृतिभावे प्रथमं रूपम् । तदभावपक्षे यणादेशे द्वितीयं रूपम् । ॐ । इदमप्येकपदं सूत्रम् । ऊँ इति दीर्घस्य अनुनासिकस्य उका. रस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः । उन इत्यनुवर्तते इतौ शाकल्यस्य प्रगामिति च। तदाह-उञ इतावित्यादिना। ॐ इतीति । उक्तविधे ॐकारादेशे रूपम् । प्रगृह्यत्वात् प्रकृतिभावः । एतदादेशाभावपक्षे पूर्वसूत्रेण प्रगृह्यत्वे सति उ इतीति रूपम् । प्रगृह्यत्वस्याप्यभावे सति यणादेशे वितीति रूपमिति त्रीणि रूपाणि फलितानि । तदेवम् उन ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम् । एकसूत्रत्वे तु उनः इतौ परे ॐ इत्ययं दीर्घोऽनुनासिकः प्रगृह्यश्चादेशः शाकल्यमते स्यात् । तदभावपक्षे तु निपात एकाजिति नित्यं प्रगृह्यत्वमित्येतावल्लभ्येत । ततश्च ॐ इति उ इतीति रूपद्वयमेव स्यात्, वितीति रूप न लभ्येत । अतो विभज्य व्याख्यातम् । मय उञो वो वा । मय इति पञ्चमी उन इति षष्ठी 'डमो हस्वादचि' इत्यतः अचीत्यनुवर्तते । तदाह-मयः परस्येत्यादिना । किम्बुक्तमिति । किमु उक्तमिति स्थिते मकारादुकारस्य उओ 'निपात एकाच्' इति नित्यं प्रगृह्यत्वात् प्रकृतिभावात् यणभावे प्राप्ते वत्ववचनमिदम् । ननु तहि डको यणचीत्यनन्तरमेव मय उमो वेति पठितव्यम् । वग्रहणाभावेन लाघवात् । त्रिपायां पाठे वग्रहणस्यापि कर्तव्यत्वेन गौरवादित्यत आह-वत्वस्येति । यदि षष्ठस्य
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
-
-
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । 'सुपां सुलुक-- (सू ३५६१) इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावान्तरोपसक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वः ॥ (११०) अणोऽप्रग. प्रथमे पादे इको यणचीत्यत्रैव मय उनो यणादेशविकल्पो विधीयेत, तहि किम्बुतमित्यत्र मोऽनुस्वार इति मकारस्य वकारे परे अनुस्वारः स्यात् । त्रिपाद्यां वत्व. विधौ तु तस्यासिद्धत्वानानुस्वारः । त्रिपाषामनुस्वारविध्यपेक्षया वत्वविधैः परत्वा. दिति भावः। .
दूतौ च । प्रगृह्यमित्यनुवर्तते। तच द्विवचनान्ततया विपरिणम्यते । भन्दस्व. रूपस्य विशेष्यत्वात्तदन्तविधिः । ईदूतौ च सप्तम्यावित्येव सिद्धे अर्थग्रहणाचन सम. म्या बुकि 'यः शिष्यते स लुप्यमानार्थाभिधायी' इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसान तथाविधत्वमीदूदन्तयोर्गम्यते। तथा च सप्तम्यर्थे पर्यवसनावीदूदन्तौ शब्दो प्रगृहौस्त इत्यक्षरार्थः । फलितमाह-सप्तम्यर्थ इत्यादिना । सोमो गौरी अधिश्रित इति । गौर्यामित्यर्थः । 'सुपां सुलुगिति सतम्या लुक् । प्रगृह्यत्वे प्रकृतिभावान्न यण् । घातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम् , तत्र सप्तम्या लुप्तत्वाभावेन प्रकृतेः सक्षम्यर्थे अप्रवृत्तेः । मामकी तन इति । मामक्यां तन्वामित्यर्थः । सुपां सुलुगिति सप्तम्या लुक् । प्रगृहयेभ्यः परत इति शब्दप्रयोगस्य पदकानियमितत्वात् पदपाठे मामकी इति तनू इतीत्यत्र प्रगृह्यत्वफलं बोध्यम् । ननु दूतौ च सतम्या: इत्येव सूत्र्य. ताम् । षष्टया च अर्थद्वारा सम्बन्धो विवक्ष्यताम् । ततश्च सप्तम्यर्थे विद्यमानमो. दूदन्तमित्यर्थस्य अर्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति-अर्थग्रहणं किमिति । कस्मै प्रयोजनायेत्यर्थः। किमित्यव्ययम्। वृत्ताविति । अर्थग्रहणसामर्थ्यात् लुससप्तम्यर्थमाने पर्यवसन्नमित्यर्थो विवक्षितः। ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलघय उत्तरपदार्थे प्रवृत्ते सति प्रगृह्यसञ्ज्ञा न भवति । मा भूदिति । माडि लुङ् । सर्वलकारापवादः । वाप्यामश्वो वाण्यश्व इति । वाप्याम् अश्व इति विग्रहे सुप्सुपेति समासे वाप्यश्व इति रूपमित्यर्थः । अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतम् । तच्चाधिकरणकारक क्रियापेक्षम् । तत्र वाप्यामश्वो वर्तत. इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या अधिकरणत्वेन अश्वस्य कर्तृत्वेनान्वयात्तयोः परस्परमन्वयाभावादसामर्थ्यात् समासो नोपपद्यते । वायां विद्यमानोऽश्व इति विद्यमानपदल्याध्याहारेऽपि अश्वपदेनासामर्थ्यात् समासो न सम्भवति । अतः वाप्यामित्यस्य वाप्यां विद्यमाने अश्वे लक्षणया प्रवृत्तिं पुरस्कृत्य समासो वक्तव्यः । एवं च समासे लुप्लससमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलष्य तत्संसृष्टे आधेयभूते अश्वेऽपि प्रवृत्तेः सप्तम्यर्थमात्र विश्रान्त्यभावान प्रगृह्यत्वमिति भावः। अणोऽप्रगृह्यस्य ।
६ बा०
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ हल्सन्धि
ह्यस्यानुनासिकः ८|४|५७॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दि दधि । 'अप्रगृत्स्य' किम् | अग्नी ॥
॥ इत्यच्सन्धिप्रकरणम् ॥
अथ हल्सन्धिप्रकरणम् ॥ ५ ॥
(१११) स्तोः चुना श्चुः ८|४|४० ॥ सकारतवर्गयोः शकारचवर्गाभ्या योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्विनोति । सच्चित् । शार्ङ्गिब्जय ॥
वा अवसाने इत्यनुवर्तते । तदाह- अप्रगृह्येत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततश्च कर्तृ इत्यत्र नानुनासिकः । इत्यच्सन्धीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति कथमनचत्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असन्देहार्थं सन्ध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम् अच्सन्धिप्रकरणं समाप्तम् ।
_स्तोः शचुनाश्चुः । सूच तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । एवं चुना इचुरित्यत्रापि । शचुनेति सहार्थे तृतीया । योगे इत्यध्याहार्यम् । ततश्च सहशब्दयोगाभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह - सकारतवर्गयोरित्यादिना । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततश्च सकारस्य शकारः, तवर्गस्य चवर्गः । तत्रापि तथ दध नानां क्रमेण च छ ज झ ञाः इति फलितम् । त थ द ध नेत्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् । चुना योगे इत्यत्र न यथासङ्ख्यमित्युत्तरसूत्रे वक्ष्यते । ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेणं च यथासम्भवं योगे श्चुत्वं भवति । हरिश्शेते इति । हरि शेत इति स्थिते, शकारेण योगात् सकारस्य शकारः । 'चुना योग इत्यत्र न यथासङ्ख्य'मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरतिरामश्चिनोतीति । रामस् चिनोतीति स्थिते, चवर्गयोगात् सकारस्य शकारः । शचुना योगे इत्यत्रापि यथासंख्याश्रयणे तु इह सकारस्य शकारयोगाभावात् शकारो न स्यादिति भावः । सच्चिदिति । सत् चित् इति स्थिते, श्चुत्वस्यासिद्धत्वात् जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, खरि चेति चर्चेन तस्य चकारे च रूपम् । शार्ङ्गिन् जयेति
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
८३
(११२) शात् मा४४॥ शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः, प्रश्नः ॥ (११३) ष्टुना ष्टुः ४॥४१॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते। पेष्टा । तीका । चक्रिण्डौकसे ॥ (११४) न पदान्ताहोरनाम्
४॥४२॥ 'अनाम्' इति लुप्तषष्ठोकं पदम् । पदान्ताहवर्गात्परस्यानामः स्तोः. ष्टुर्न स्यात् । षट् सन्तः । षट् ते। 'पदान्तात् किम् । ईट्टे । 'टोः किम् । सर्पि.
-
स्थिते, चवर्गयोगात् नकारस्य श्चुत्वं अकारः । शात् । न पदान्तादिति पूर्वसूत्रात् नेत्यनुवर्तते । स्तोःश्चुना श्चुरित्यतः तोरिति, चुरिति चानुवर्तते । नतु सकारः शकारश्च । शादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । तदाह-शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ । 'यज याच यत विच्छ प्रच्छ रक्षो नङ्' इति नङ् । छवो
शूदः इति छस्य शः । जिस्वान्न गुणः । अत्र शकारयोगात् तवर्गीयनकारस्य श्चुत्वेन जकारे प्राप्ते निषेधः । पूर्वसूत्रे चुना योगे इत्यत्रापि यथासङ्ख्याश्रयणे तु इह तवर्गीयस्य नस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तनिषेधो व्यर्थः स्यात् । एवञ्च अस्मादेव निषेधात् पूर्वसूत्रे चुना योगे इत्यत्र न यथासङ्ख्याश्रयणमिति विज्ञायते । प्रश्न इति । प्रच्छ जीप्लायाम् । पूर्ववत् नादि । अत्र 'अहिज्या' इति सम्प्रसारणं न । 'प्रश्ने चासनकाले' इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थामाधिक्येऽपि तत्तद्वर्गीयैरस्ति सावर्ण्यमिति तुल्याल्यसूत्रे अवोचाम। ष्टुना ष्टुः । स्तोरित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यथासख्यम् । नतु ष्टुयोगे इत्यत्र । रामषष्ठ इति । रामस् षष्ठ इति स्थिते षकारयोगात्। सस्य ष्टुत्वेन षः। अत्रापि ष्टुना योग इत्यत्र न यथासङ्ख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति-रामष्टीकत इति । टीकृ गतौ । तट्टीकेति । तस्य टीकेति विन. हः । तद् टीका इति स्थिते टुत्वेन दस्य डत्वे चर्वम् । चक्रिण्डौकस इति । ढोकृ गतौ । चक्रिन् ढौकसे इति स्थिते टवर्गयोगात् नस्य टुत्वेन णत्वम् ।
न पदान्तात् । अनामिति तोरित्यस्य विशेषणम् । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह-अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । स्तोः ष्टुरित्यनुवर्तते । तदाह-पदान्तादित्यादिना । ईट्ट इति । 'ईड स्तुतौ' आत्मनेपदी। ई ते इति स्थिते, खरि चेति डस्य चर्वम् , ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात् परत्वेऽपि पदान्तात् परत्वाभावात् न टुत्वनिषेधः। सर्पिष्टममिति । सर्पिष्तमम् इति स्थिते स्वादिष्वसर्वनामस्थान इति अन्तर्वतिनी विभक्तिमाश्रित्य वा पदत्वात् , पकारस्य पदान्तत्वात्ततः परस्य तकारस्य टुत्वनिषेधो न भवति, पदान्तावर्गात्प. स्त्वाभावात् । न च षकारस्य 'शलाअशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हल्सन्धि
'ष्टमम् | 'अनाम्नवतिनगरीणामिति वाच्यम्' ( वा ५०१६ ) | षण्णाम् । षण्णबतिः । षण्णगर्यः । (११५) तोः षि ८|४|४३ ॥ तवर्गस्य षकारे परे न ष्टुस्वम् । सन्षष्ठः । झलां जशोऽन्ते ( सू ८४ ) । वागीशः । चिद्रूपम् ॥ (११६) यरोऽनुनासिकेऽनुनासिको वा ८|४|४५ ॥ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः --- एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः । ' प्रत्यये भाषायां नित्यम्' ( वा
टोः परत्वात् टुत्वनिषेधः स्यादेवेति वाच्यम् । 'हस्वात्तादौ तद्धिते' इति षत्वस्यासिद्धत्वेन जश्त्वाभावात् । इह आदेशप्रत्यययोरिति षत्वं तु न भवति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरी शब्दावयवनकारस्यापि पर्युदासो वक्तव्य इत्यर्थः । षण्णामिति । षष् नामिति स्थिते 'स्वादिष्वसर्वनामस्थाने' इति पदान्तत्वात् षस्य जश्त्वेन डकारे 'प्रत्यये भाषायां नित्यम्' इति तस्य णकारः । अत्र टवर्गयोगात् नकारस्य टुत्वम् । न पदान्तादिति निषेधस्तु न, अनामिति पर्युदासात् । षण्णवतिरिति । षडधिका नवतिरिति विग्रहः । अत्रापि नकारस्य टुत्वनिषेधः, नवतिशब्दस्यापि पर्युदासात् । इति । पृथक्पदे । न तु कर्मधारयः, 'दिकसंख्ये सज्ञायाम्' इति नियमात् । अत्रापि न पदान्तादिति नगरीशब्दे नकारस्य दुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् । तोषि । टुरिति नेति चानुवर्तते । तदाह - वर्गस्येति । सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते । 'झलाब्जशोऽन्ते' इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम् । हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः ।
1
यरोऽनुनासिके । न पदान्ताट्टोरित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह - यरः पदान्तस्येति । एतन्मुरारिरिति कर्मधारयः । एतद् मुरारिरिति स्थिते दस्य अनुनासिको नकारः दन्तस्थानसाम्यात् स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफणकारयोः स्पृष्टेषपृष्टप्रयत्नभेदेऽपि मूर्धस्थानान्तर्यादित्यत आह-स्थानेति । एतन्मुरारिरित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्परों चरितार्थः लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः । 'यूनिलब्धे तु युवतिर्जखे रमते कथम्' इति न्यायादिति भावः । प्रत्ययें भाषायां नित्यम् । वार्तिकमेतत् । भाषा लौकिकप्रयोगः । तत्र प्रत्यये विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
E५.
-
-
५०१७ ) तन्मात्रम् । चिन्मयम् । कथं तर्हि 'मदोदप्राः ककुमन्तः' इति ? यवादि (ग २५०) गणे दकारनिपातनात् । (१९७) तोलि ४६०॥ तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँ लिखति । नकारस्यानुनासिको लकारः। (११८) उदः स्थास्तम्भोः पूर्वस्य ४१॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । 'आदेः परस्य' (सू ४४)। उत्थानम्। उत्तम्भनम् । भवतीत्यर्थः । तन्मात्रमिति । तत् प्रमाणं यस्य तत्तन्मात्रं 'प्रमाणे द्वयसज्दघ्नमात्रच इति मात्रच्प्रत्ययः । चिन्मयमिति । 'नित्यं वृद्धशरादिभ्यः' इत्यत्र नित्यमिति योग. विभागात्ताप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात् तदा मदोदप्राः ककुयन्त इति कालिदासप्रयोगः कथमित्याभेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति-यवादीति । यवादिगणे ककुमच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारख्य नकार एव इष्टः स्यात् तहि नकारमेव लाघवान्निर्दिशेदिति भावः । तोलि । अनुस्वा. रस्य ययीत्यतः परसवर्ण इत्यनुवर्तते । तदाह-तवर्गस्येत्यादिना । तल्लय इति । तस्य लय इति विग्रहः । तद् लय इति स्थिते दस्य परसवर्णः परनिमित्तभूतलकारसवर्णो भवति । स च लकार एव, अन्यस्य तत्सावाभावात्। नकारस्येति । विद्वान् लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनः अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनुनासिक एव लकारो भवतीत्यर्थः ।। ___ उदः स्थास्तम्भोः । अनुस्वारस्य ययि परसवर्णः" इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । उद इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया उदः परयोरिति लभ्यते। तदाह-उदः परयो. रिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह-श्रादेः पर. स्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति । ष्ठा गतिनिवृत्तौ । भावे ल्युट् । उत्तम्भनमिति । 'टभि प्रतिष्टम्भे' भावे ल्युट्। स्तम्भु रोधन इति अनुविधौ निर्दिष्टः सौत्रो वा धातुः। स्थास्तम्भोरिति पवर्गीयो. पधनिर्देशस्य उभयसाधारणत्वात् । ननु उद् स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः तत्सवर्णाश्च त थ द ध नाः पञ्चैव । दन्तस्थानसाम्यात् स्पृष्टप्रयत्नसाम्याच्च । नतु लकारः सकारश्च । तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णाः भिन्नस्थानकत्वान्न दका. रसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णाः त थ द ध नाः पञ्चापि सकारस्य प्रासाः । स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्य.
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हल्सन्धि
अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः। तस्य 'झरो झरि- (सू ७१) इति पाक्षिको लोपः। लोपाभावपक्षे तु थकारस्यैव श्रवणम् । नतु 'खरिच' (सू १२१) इति चत्वम् । चत्वं प्रति थकारस्यासिद्धत्वात् । (११) झयो होऽन्य.
-
न्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृतप्रयत्नत्वात् एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्यप्रयत्नत एवान्तर्यमादाय पञ्चस्व. न्यतमव्यवस्थामाह-वाघोषस्य महाप्राणस्य सस्य तादृश एव थकार इति । अघोषस्ये. त्यनेन श्वासवतो विवारवतश्चेत्युक्तप्रायम् , समनियतत्वात् । स्थानीभूतस्तावत् सकारः अघोषश्वासविवारमहाप्राणात्मकयत्नचतुष्टयवान् । तस्य त थ द ध नेषु प्रथ. मतृतीयपञ्चमा न भवन्ति । तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारः अघोषश्वासविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद् स्थानमिति स्थिते दकारस्य 'खरिच' इति चत्वेन तकारे सकारस्य पूर्वसवणे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवम् उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति । सकारादेशस्य थकारस्ये. त्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य लोपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथका. रस्य खरि चेति चत्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह-लोपाभावेति, असिद्धत्वादिति । खरि चेति सूत्रापेक्षया उदस्स्थादित्यस्य परत्वादिति भावः । उत्त्. तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्त 'नमुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य च प्रत्यसिद्धत्वाभावाच्चत्वे उत्तृतम्भनमिति त्रितकाररूपं कथञ्चित् साधयामासुः। तत्तु मूलकृतो न सम्मतम् , मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तु 'दीर्घादाचार्याणाम् इत्युत्तरं अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोलि, उद. स्स्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम् , शश्छोष्टीति षट्सूत्रीपाठोत्तरं झलाजश् शशि, अभ्यासे चर्च, खरि च, वाऽवसाने, अणोऽप्रगृह्यस्यानुनासिकः, इति पञ्चसूत्रीपाठ इति हलो यमामिति सूत्रस्थभाष्यसम्मतःसूत्रक्रमः । एवं च खरि चेति चत्वे कर्तव्ये उदस्स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाभावाच्चत्वे उत्त. थानमिति द्वितकारमेकथकारं च रूपम् , उत्त्तम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।।
झयो हः । झय इति पञ्चमी । परस्येत्यध्याहार्यम् । ह इति षष्ठी। उदस्स्थास्तम्भोरित्यतः पूर्वस्येति अनुस्वारस्य ययीत्यतः सवर्ण इति चानुवर्तते तदाह
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
तरस्याम् ८|४|६२|| झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्धरिः - वाहरिः । (२२०) शछोटि मा४६३॥ पदान्ताज्झयः परस्य शस्य छो वा स्यादटि । दस्य चुत्वेन जकारे कृते । (१२१) खरि च ८|४|५५ ॥ खरि झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः, तच् शिवः । 'छत्वममीति वाच्यम्' ( वा ५०२५) । तच्छ्लोकेन - तच्श्लोकेन । अमि किम् । वाक् इच्योतति । (१२२)
मय: परस्येत्यादिना । वाग्धरिरित्युदाहरणम् । वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम् । वाग् हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वोनिमित्तम्, तत्सवर्णाः क बाः पञ्च । तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आभ्यन्तरप्रयनसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नभेदात् । अतः बाह्ययत्नतः आन्वर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — घोषवत इत्यादिना । स्थानीभूतो हकारः घोषनादसंवार महाप्राणाख्ययत्नचतुष्टयवान् । तस्य क ख ग घ डेषु प्रथमतृतीयपञ्चमा न भवन्ति तेषामल्पप्राणत्वात् । द्वितीयः खकारो न भवति, तस्याघोषश्वासविवारयत्नकत्वात् । चतुर्थस्तु घकारः घोषनादसंवार महाप्राणवान् । अतः स एव घकारो हकारस्य भवतीत्यर्थः । ततश्च वाग्धरिरिति भवति । पूर्वसव
---
भावे तु वाग् हरिरिति । शश्छोटि । झय इति पञ्चम्यन्तमनुवर्तते । स इति षष्ठयेकवचनम् । तदाह - झयः परस्य शस्येति । तद् शिव इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः । केनेत्यत आह- खरि च । झलाअसशीत्यतो झलामिति, अभ्यासे चर्चेत्यतश्चरिति चानुवर्तते । तदाह-- खरि पर इत्यादिना । इति जकारस्य चकार इति । स्थानत आन्तर्यादिति भावः । ततः छत्वम् । नतु प्राणित्यपि बोध्यम् । छत्वस्य चुत्वचत्वें प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वे ततो जकारस्य चर्वम् । नतु छत्वात् प्राक् चर्त्वम्, चर्व्वं प्रति छत्वस्यासिद्धत्वात् । तच् छिव इति । स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः । चोः कुरिति कुत्वं तु न, श्चुत्वस्यासिद्धत्वात् । छत्खममीति वाच्यम् । शश्छोsटीति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थः । शरछोऽमीति सूत्रं पठनीयमिति यावत् । तच् श्लोकेनेति । स चासौ श्लोकच, तस्य श्लाक इति वा विग्रहः । लकारस्य अड्बहिर्भूतत्वात् तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम् । वाक्च्योततीति । अत्र तु कुत्वं भवत्येव । चकारस्य स्वाभावि कतया श्चुत्वनिष्पन्नत्वाभावेन असिद्धत्वाभावात् । अत्र चकारस्य अम्बहिर्भूतत्वात् तत्परकशकारस्यान न छत्वम् ।
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ED
सिद्धान्तकौमुदी
[ हल्सन्धि
मोऽनुस्वारः ॥२३॥ मान्तस्य पदस्यानुस्वारः स्यादलि । 'अलोऽन्त्यस्य' (सू ४२) । हरिं वन्दे । 'पदस्य' इति किम् । गम्यते । (१२३) नश्वापदान्तस्य झलि ३।२४॥ नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यासि । माक्र. स्यते । 'झलि' किम् । मन्यते। (१२४) अनुस्वारस्य ययि परसवर्णः दा ॥ स्पष्टम् । अङ्कितः । अश्चितः । कुण्ठितः । शान्तः । गुम्फितः । 'कुर्व
मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठ्यन्तं पदस्य विशेषणं तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना। अलोऽन्त्यस्येति । उप. तिष्ठत इति शेषः । ततश्च मान्तस्य पदस्य यः अन्त्यः अल तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम् वन्द इति स्थिते मस्यानुस्वारः। गम्यत इति । गम्लु गतौ । कर्मणि लट् । 'भावकर्मणोः इत्यात्मनेपदे यक् । अत्र मस्य पदा. न्तत्वाभावान्नानुस्वारः। नश्वापदान्तस्य झलि। चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह-नस्येत्यादिना। यशांसीति । यशशब्दात् जस्, जश्शसोविशः । 'नपुंसकस्य झलचः' इति नुम् । सान्तमहत इति दीर्घः। यशान् सि इति स्थिते नकारस्य अनुस्वारः । आक्रस्यत इति । क्रमु पाद विक्षेपे। आपूर्वात् कर्तरि लुट् । 'आङ् उद्गमने' इति तङ्, स्यतासी ललुटोरिति स्यः। स्नुक्रमोरिति नियमान्नेट् । आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात् पूर्वेणाप्राप्ते वचनम् । मन्यत इति । कर्मणि लट् । तङ्यक् । अत्र मस्य झल्परकत्वाभावामानेनानुस्वारः । अपदान्त. त्वाचन पूर्वेण । अनुस्वारस्य ययि । स्पष्टमिति । अनुवयंपदान्तराभावादिति भावः । अकृित इति। अन्क पदे लक्षणे चेति चुरादौ नोपधः। नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वा. रस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवणः कवर्गः । सः अनुस्वारस्य भवन नासिकास्थानसाम्यात् डकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः। नोपधः । तस्मात् क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधात् अनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो कारः। कुण्ठित इति । कुठि प्रतिघाते इदित्त्वान्नुम् । क्तः इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट । अनुनासिकस्य क्वीति दीर्घः। नश्चेति मस्यानुस्वारः। तस्य परसवर्णः नकारः। गुम्फित इति । गुन्फ ग्रन्थे द्वितीयान्तः, नोपधः । क्तः इट् । 'नोपधात्थफान्ताद्वा' इत्यकित्त्वपक्षे नलोपोन । अत्र नश्चेत्यनुस्वारस्य परसवर्णः मकारः। ननु कृषधातोर्लट् , मिः, झोऽन्तः, तनादिकृष्भ्य उः, गुणः, रपरत्वम् । 'अत उत् सार्वधातुके प्रत्ययोकारस्य यण् । न भकुर्छरामिति निषेधात् र्वोरुपधाया इति दी? न। कुवं.
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
न्ति' इत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् । (१२५) वा पदान्तस्य ८|४|५६ ॥ पदान्तस्यानुखारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि - त्वं करोषि । सय्यन्ता - संयन्ता । सम्वत्सरःसंवत्सरः । यँल्लोकम्-यं लोकम् । अत्रानुस्वारस्य पक्षेऽनुनासिका यवलाः । (१२६) मो राजि समः कौ ८|३|२५|| क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् । (१२७) हे मपरे वा न३|२६|| मपरे हकारे परे मस्य म एव स्याद्वा । 'हल, हाल, चलने' । किम् ालयति-कि हालयति । 'यवलपरे या वेति वक्तव्यम' (वा ४९०२) । ( १२८) यथासंख्यमनुदेशः समा
न्तीति रूपम् । अत्र नकारस्य मश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वात् रषाभ्यामिति णत्वं स्यात् । नच त्रिपाद्यां नम्रापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्य सिद्धत्वात् अनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वा - रत्वादित्यत आह- कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्यासिद्धत्वान्न णत्वमिति भावः ।
वा पदान्तस्य | अनुस्वारस्य ययि परसवर्ण इत्यनुवर्तते । तदाह - पदान्तस्येत्यादिना । स्व करोषीति । त्वम् करोषीति स्थिते मोऽनुस्वारे परसवर्णो डकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्यन्तेति स्थिते मोडनुस्वारः । तस्य परनिमित्तभूतयकार सवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यन्तेति रूपम् । एवं संवत्सर इति स्थिते अनुस्वारस्य परसवर्णः अनुनासिको वकारः । सँवस्सर इति रूपम् । यं लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यँल्लाकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः । मो राजि । म इति प्रथमान्तम् । मोsनुस्वार इत्यतः म इति स्थानषष्ठ्यन्तमनुवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह - विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वार निवृत्त्यर्थमिति भावः । सम्राडिति । राज़ दीप्तौ । सम्पूर्वात् सत्सूद्विषहेत्यादिना क्विप् । वश्चेति षत्वम् । जश्त्वेन डत्वम् । चम् । अत्र मोऽनुस्वारो न भवति । हे मपरे वा । मोsनुस्वार इत्यतः म इति षष्टयन्तमनुवर्तते । मो राजीत्यतः म इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति विग्रहः । तदाह - मपरे इत्यादिना । ह्यलयतीति ण्यन्ताल्लट् । 'ज्वलहलह्मलनमामनुपसर्गाद्वा' इति मित्त्वाण्णौ मितां ह्रस्वः । यवलपरे । यवलाः पराः यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः । यथासंख्यम् ।
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०
सिद्धान्तकौमुदी
[ हल्सन्धि
नाम् १|३|१०|| समसम्बन्धी विधिर्यथासंख्यं स्यात् । कियँ त्यः- किं यः । किवँ ्म हृलयति-किं ह्वलयति । किलें ह्रादयति किं ह्रादयति । (१२६) नपरे नः ८|३|२७|| नपरे हकारे परे मस्य नः स्याद्वा । किन् हुते - किं हुते । (१३०) णोः कुकटुकारि ||३|२८|| ङकारणकारयोः कुटुकावागमो वा स्तः शरि । कुक्टुकोर सिद्धत्वाज्जश्त्वं न । 'चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्' ( वा ५०२३ ) । पौष्करसादिराचार्यः । प्राषष्ठः - प्राङ्खष्ठः - प्राड् षष्ठः । सुग
ܢ
साम्यमिह संख्यातो विवक्षितम् । अनुदेशः विधानम् । समानामिति यदि कर्मणि षष्ठी तर्हि स्थान्यादिभिः समसंख्यानां यत्र विधानम्, यथा एचोऽयवायाव इत्यादौ, तत्रैव यथासंख्यप्रवृत्तिः स्यात् । 'समूलाकृतजीवेषु हन् कृन् ग्रहः" इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतः समानामिति सम्बन्धसामान्ये षष्ठी । एवं च समूलाद्युपपदानां हनादिधातूनां च समसंख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसंख्याकसम्बन्धी विधिरेवेति तत्रापि यथासंख्यप्रवृत्तिर्निर्बाधा । तदाहसमसम्बन्धी विधिरिति । यथासंख्यमिति । संख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः संख्याघटितधर्माः विवक्षिताः, तान् अनतिक्रम्य यथासंख्यम् । ततश्च एचोऽयवायाव इत्यादिषु प्रथमस्य स्थानिनः प्रथमः आदेशः, द्वितीयस्य द्वितीय इत्येवं क्रमेण स्थान्यादेशतन्निमित्तादीनां समसंख्याकानां क्रमेण अन्वयः प्रतिपत्तव्य इति फलि - तम् । प्रकृते च यपरके हकारे परे मकारस्य यकारः, वपरके वः, लपरके लः, इति सिध्यति । कियूँ ह्य इति । मस्य यत्वे रूपम् । ह्य इत्यव्ययम्, पूर्वेधूरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव् जयतीति । मस्यवत्वम् । हल चलने, णिच् । किल ह्रादयतीति । मस्य लत्वम् । ह्लादी सुखे च णिच् । नपरे नः । हे इति वेति म इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह - नपरे इकार इत्यादिना । किन् हृत इति । हुड् अपनयने । मस्य नत्वे रूपम् । तदभावे मोsनुस्वारः ।
1
जो: कुटुकारि । 'हे मपरे वा' इत्यतः वेत्यनुवर्तते । कुकू च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्च आद्यन्तौ टकिताविति लभ्यम् । यथासंख्यपरिभाषया डकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्, उकार उच्चारणार्थः । प्राङ् षष्ठः, सगुण षष्टः, इति स्थिते, यथाक्रमं कुकि टुकि च तयोः पूर्वावयवत्वेन पदान्तत्वात् जश्त्वमाशङ्कयाह — कुटुको रिति । चयो द्वितीयाः । पौष्करसादिशब्दस्य चयो द्वितीया इत्यर्थभ्रमं वारयति - पौष्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राक् षष्ठ इति कुकि रूपम् । चयो द्वितीया इति पक्षे प्राङ्ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरिचेति चर्त्यम्, खकारारम्भविधिसामर्थ्यात् । चयो
I
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिताः ।
णूषष्ठः-सुगण्ट्षष्ठः-सुगण्षष्ठः । (१३१) डः सि घुट् ८|३|२६|| डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः - षट्सन्तः । (१३२) नश्च ८|३|३०|| नकारान्तात्परस्य सस्य धुड्वा स्यात् । सन्त्सः - सन्सः । (१३३) शि तुक् ८|३| ३१ ॥ पदान्तस्य नस्य शे परे तुग्वा स्यात् । ' शरछोsटि' ( सू १२० ) इति छत्वविकल्पः । पक्षे 'झरो झरि-' ( सू ७१ ) इति चलोपः । सम्छम्भुः - शब्दछ. द्वितीया इति, नादिन्याक्रोश इति सूत्रभाष्यपठितमिदम् । प्राङ् षष्ठ इति कुगभावे रूपम् । एवं टुक्यपि सुगणट्षष्ठ इत्यादि । डः सि धुट् । ड इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषया सीति सप्तमी षष्ठी सम्पद्यते - डात्परस्य सस्येति । "हे मपरे बेत्यतो वेत्यनुवर्तते । सदाह - डात्परस्येत्यादिना । तस्मिन्निति निर्दिष्ट इति नेह भवति, उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वादिति न्यायात् । धुटू चतुर्थधकार निर्देशः । टंकार इत् । उकार उच्चारणार्थः । थुट् इति द्वितीयविधौ तत्सामर्थ्याच्च न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षष् इति षकारस्य जश्त्वेन डः, षड् सन्त इति स्थिते चर्त्वस्यासिद्धत्वात् डात् परत्वात् सस्य छुट् आद्यवयवः । तस्य चर्चेन तकारः । चयो द्वितीया इति तु न । चर्च - स्यासिद्धत्वात् । ततो लक्ष्यभेदात् डस्य चत्वेंन टः । नश्च । सि छुट् इति, वेति चानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते । तदाह - नकारान्तात् परस्येति । सन्त्स इति । धुटि धस्य चत्वंम् ।
1
शि तुक् । पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ्यन्तमाश्रीयते, शब्दाधिकाराश्रयणात् । पदस्येत्यधिकृतम् अवयवषष्ठ्यन्तमाश्रीयते । हे मपरे वेत्यतो वेत्यनुवृत्तम् । तदाह - पदान्तस्य नस्येत्यादिना । नान्तस्य पदस्येत्युचितम् । उकारः उच्चार'णार्थः । सन् शम्भुरिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहणं व्यर्थम् । डः सिडित्यतः धुडेवानुवर्त्य नकारात् परस्य शस्य विधीयताम् । खरि चेति चत्वें सन्शम्भुरित्यस्य सिद्धेरित्यत आह- शरछोsटीति । छत्वविकल्प इति । शकारस्येति शेषः । घुटो विधौ तु तस्य परादित्वात्पदान्तत्वाभावात् छत्वं न स्यात्, छत्वविधेः पदाधिकारस्थत्वेन पदान्तात् झयः परस्यैव शस्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात्, अन्यथा विसृपो विर शिन्नित्यादावपि शस्य छत्वापत्तेः । पक्ष इति । कदाचित् झरो झरीति कस्तकारस्य चत्वमापन्नस्य लोप इत्यर्थः । सन् छम्भुरिति । तकारस्य त्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन प्रकारे रूपम् । सञ्च् छम्भुरिति । चुत्वमापन्नस्य तकारस्य लोपाभावे नकारस्य च श्चुत्वे नकारे रूपम् । तुको जश्त्वं तु न जइत्येतस्यासिद्धत्वात् अत एव श्चुत्वोत्तरमपि जश्त्वं न । सञ्च् शम्भुरिति ।
For Private and Personal Use Only
६१
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
सिद्धान्तकौमुदी
[हल्सन्धि
=
म्भुः-सन्चशम्भुः-सम्शम्भुः ॥
अछी अचछा अचशा अशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥ . (१३४) उमो हस्वादचि उमुनित्यम् ॥३२॥ ह्रस्वात्परो यो उम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यछात्मा । सुगण्णी. शः। सन्नच्युतः। (१३५) समः सुटि ३५॥ समो रुः स्यात्सुटि । 'अलोन्त्यस्य' (सू ४२)। (१३६) अत्रानुनासिकः पूर्वस्य तु वा ८३॥२॥ शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । स शम्भुरिति । तुकः अभावे नकारस्य चुत्वे रूपम् । तदिदं रूपचतुष्टयमुक्तक्रमं श्लोकेन संगृह्णाति-अछाविति । तुक्छत्वचलोपानां विकल्पनात् अछौ अचछा अचशा अशाविति रूपाणां चतुष्टयमित्यन्वयः । उमो हस्वात् । डम् प्रत्याहारः। डम इति पञ्चम्यन्तम् । तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते । म इति च हस्वादिति विशेषणसम्बन्धमनु. भूय पदविशेषणत्वं भजत् तदन्तपरम् । डम इति पञ्चमीबलात् अचीति सप्तमी षष्ट्यथें । तदाह-हस्वात्पर इत्यादिना । ङमुडागम इति । टकार इत् , उकार उच्चारणार्थः । संज्ञायां कृतं टिवमानर्थक्यात्तदङ्गन्यायात् संज्ञिभिः सम्बध्यते । ततश्च कुट् गुट नुट् इति त्रय आगमाः फलिताः। टित्त्वादच आद्यवयवाः यथासंख्य प्रवर्तन्ते हे मपरे वेति वाग्रहणानुवृत्तिशङ्काव्युदासार्थ नित्यग्रहणम् । प्रत्यास्मेति । प्रत्यङ् आत्मा इति स्थिते अकारात् प्राक् छुट । सुगण्णीश इति । गणसंख्याने, चुरादिः । ण्यन्ताद्विचि णिलोपः । नतु क्विप् । अनुनासिकस्य क्वीति दीर्घप्रसङ्गात् । डमुटि कर्तव्ये णिलो. पस्तु न स्थानिवत् , पूर्वत्रासिद्धे न स्थानिवदित्युक्तेः । सुगण ईश इति स्थिते ईका. रात् प्राक् णुट् । सन्नच्युत इति । सन् अच्युत इति स्थिते अकारात् प्राक् नुट् । नच परमदण्डिनावित्यत्र परमदण्डिन् औ इति स्थिते प्रत्ययलक्षणेन अन्तर्वतिविभक्त्या पदत्वान्नुट् स्यादिति वाच्यम् । उत्तपदत्वे चापदादिविधाविति प्रत्ययलक्षणप्रतिषे. धात् । वस्तुतस्तु इदं यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते । अन्यथा पदव्यवायेऽपीति निषेधो माषकुम्भवापेनेत्यत्र न स्यात् । अतः परमदण्डिनौ इत्यत्र मुड्वारणाय उनि च पदे इत्यतः पदे इत्यनुवर्त्य अजादेः पदस्य डमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
समः सुटि । सम इति षष्ठ्यन्तम् । 'मतवसो रु सम्बुद्धौ' इत्यतः रुग्रहणमनुवर्तते । तदाह-समो रुः स्यात् सुटीति । रु इत्युकार इत् । अलोऽन्त्यस्येति। उपतिष्ठत इति शेषः । सम्पूर्वात् करोतेस्तृचि 'सम्परिभ्यां करोतौ भूषणे' इति सुडागमे सम् स्कर्तेति स्थिते मस्य रुत्वम् । सर् स्कर्तेति स्थिते । अत्रानुनासिकः। 'मतुवसौ रु सम्बद्धौ
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
अत्र प्रकरणे रोः पूर्वस्यानुनासिको वा स्यात् । (१३७) अनुनासिकात्परोऽनुस्वारः = | ३ | ४ || अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । 'खरवसानयोर्विसर्जनीयः' (सू ७६) । ( १३८) विसर्जनीयस्य सः | ८|३|३४ ॥ खरि विसर्जनीयम्य सः स्यात् । एतदपवादे 'वा शरि' ( सू १५१ ) इति पाक्षिके विसर्गे प्राप्ते, 'संपुंकानां सो वक्तव्यः' (वा ४८९२ ) संस्कर्ता - संस्कर्ता । 'समो वा लोपमेके' इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेक
६३
·
इति रुत्वविध्यनन्तरमिदं पठितम् । अतः अत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं चरु इत्यपेक्षया ज्ञेयम्, प्रकृतत्वात् । तदाह- अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा स्यादिति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धे वाग्रहणं स्पष्टार्थ - म् । परस्य नित्यं रुत्वम्, पूर्वस्य तु अनुनासिकविकल्प इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पष्टार्थं एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्त. मिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण सर् इत्यत्र सकारादकारः अनुनासिक्तः । संस्कर्ता । श्रनुनासिकात् । अनुनासिकादिति ल्यब्लोपे पञ्चमी । विहायेति गम्यम् । पूर्वस्येत्यनुवर्तते । पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया । । तदाह - अनुनासिकं विहायेति । अनुनासिकाभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुना सिका भावपक्षे अकारात् परः अनुस्वारागमः । संस्कर्ता । अथ रेफस्य विसर्गविधि स्मारयति — खरवसानयोरिति । विसर्जनीयस्य सः । खरवसानयोरित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते एकदेशे स्वरितत्वप्रतिज्ञानात् 'केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम् 'अवसानस्य तु न सम्बन्धः, व्याख्यानादित्याहुः 'तदाह - खरीति । विसर्जनीयस्य स इति सिद्धे संपुंकानामिति पुनर्विधानं व्यर्थमित्यत आह—- एतदपवादेनेति । पुनर्विधानं वा शरीति पाक्षिकविसर्गबाधनार्थमिति भावः । संपुंकानामिति । सम् पुम् कान् एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः । अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्त्वमिति शेषः ।
I
I
For Private and Personal Use Only
I
सँस्कर्तेति । अनुनासिकपक्षे रूपम् । संस्स्कर्तेति । अनुस्वारपक्षे रूपम् । उभयत्रापि द्विकारत्वमेव । समो वेति । समो मस्य सुटि लोपम् एके आचार्या इच्छन्तीत्यर्थः । एकशब्दोऽन्यपर्याय: । 'एके मुख्यान्यकेवलाः' इत्यमरः । लोपपक्षेऽपि अनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह - लोपस्यापीति । अत्रानुनासिकः पूर्वस्य तु बेत्यत्र रोः पूर्वस्येत्युपलक्षणं रूप्रकरणविधेयस्य लोपस्यापि, अन्यथा रूप्रकरण इत्यर्थकस्य अत्रेत्यस्य वैयर्थ्यात् । एवमनुनासिकात् परोऽनुस्वार । इत्यत्र रोः पूर्वस्मादित्य
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४
सिद्धान्तकौमुदी
[ हल्सन्धि
सकारं रूपद्वयम् । द्विसकारं तूतमेव । तत्र 'अनचि च' (सू ४८ ) । इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वार विसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरि शर्षु च पाठस्योपसंख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवर्ता त्रयाणां 'शरः खयः' ( वा ५०१९ ) इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं पि । ततश्च समो मलोपस्यापि रूप्रकरणस्थतया लोपात्पूर्ववर्तिनः अकारस्य कदाचिदनुनासिकः । तदभावपक्षे अकारात् परः अनुस्वारागमः इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः । द्विसकारं तु उक्तमेवेति । रत्वपक्षे इति शेषः । ननु लोपपक्षे एव अनचि चेति सुट्सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात् । समः सुटीति रुत्वविधानं व्यर्थमित्यत आह-तत्रेति । तत्र द्विसकाररूपयोर्मध्ये रुत्वे सति तत्स्थानिकसकारस्य अनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपट्ट्यमित्यर्थः । एतदर्थमेव रुत्वविधानमिति भावः । स्कोरिति लोपस्तु न, रुत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुट्सकारस्य अनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्यर्थ एवेति वाच्यम् । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । ननु वर्णसमाम्नाये अनुस्वारस्य पाठाभावात् अनचत्वात् ततः परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह- अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । श्रकारोपरीति । इकाराद्युपरिपाठे पयःसु इत्यादौ इणः परस्य विहितमादेशप्रत्यययोरिति षत्वं स्यादिति भावः । कश्चित्तु इणः ष इति पत्वं स्यादिति वदन् बभ्राम, तत्र विसर्गस्यैव षत्वविधेः । एवं च अनुनासिकपक्षे एकसकारं द्विसका सिकारमिति त्रीणि रूपाणि एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणां द्वित्वे श्रीणि,. तदभावे त्रीणीति षडित्यर्थः । ननु ककारस्य अचः परत्वाभावात् कथमनचि चेति द्वित्वमित्यत आह- शरः खय इतीति । शरः परस्य खयो द्वे वा स्त इति वार्तिकार्थः । एवं च अनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि एकककाराणि त्रीणीति षड् रूपाणि स्थितानि । अनुस्वारपक्षे तु द्वादश रूपाणीत्याह - अनुस्वारवतामिति । अनुस्वारस्यापीत्यपिना ककारसंग्रहः । अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्बु पाठस्योपसंख्यातत्वेन शर्त्वात् द्वित्वविकल्पे सति द्वयनुस्वाराणि श्रीणि (३) एकानुस्वाराणि श्रीणि (३) इति षट् (६) अथ षण्णामप्येषां शरः खय इति ककारस्य द्वित्वविकल्पे सति द्विकाराणि षट् (-) एकककाराणि षट् ( ६ ) इत्यनुस्वारपक्षे द्वादश ( १२ ) इत्यर्थः । एवं च अनुनासिकपक्षे षट् (६) अनुस्वारपक्षे द्वादश (१२) इत्यष्टादश रूपाणि । एषामिति । उक्तानाम् अष्टादशानां रूपाणां तकारस्य अचो रहाभ्यामिति द्वित्व
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
8५
-
द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकरवेऽष्टोत्तरं शतम् । (१३९) पुमः खय्यम्परे ॥३६॥ अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे 'अप्र. त्ययस्य' (सू १५५) इति षत्वपर्युदासात्क-पयोः प्राप्ती, अव्युत्पत्तिपक्षे तु षत्वप्राप्ती, 'संपुकानाम्-' (.वा ४८९२) इति सः। पुस्कोकिल:-पुंस्कोकिलः । पुस्पुत्रः-पुंस्पुत्रः । 'सम्परे। किम् । पुंक्षीरम् । 'खयिः किम् । पुंदासः । विकल्प सति प्रथमस्य तकारस्य यणो मय इति पुनद्वित्वे एकेकस्य एकत द्वितं त्रित. मिति सङ्कलनया-एकतान्यष्टादश (१८) द्वितान्यष्टादश (१८) नितान्यष्टादश (१०) इति सालनया चतुरधिकपञ्चाशद्रपाणि (२४) सम्पत्रानीत्यर्थः। अणोऽनुनासिकत्व इति । भणोऽप्रगृह्यस्यानुनासिक इति तकारस्य अनुनासिकत्वविकल्पे सति आनुनासिक्ये चतुष्पनाशत् (१४) तदभावे चतुष्पञ्चाशत् (५४) इति सालनया अष्टाधिकं शतं (१०८) रूपाणि सम्पन्नानीत्यर्थः । ..
पुमः । रुग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयोति । पुमान् कोकिल इति कर्मधारये सुपो धातुप्रातिपदिकयोरिति सुब्लुकि संयोगान्तस्य लोप इति सकारलोपे पुम् कोकिल इति स्थिते मस्य रुत्वम् , अनुनासिकानुस्वारविकल्पः, विसर्गः, संपुकानामिति सः। ननु विसर्जनीयस्य स इत्येव सिद्धे संपुंकानामित्यत्र पुंग्रहणं व्यर्थमित्यत आह--व्युत्पत्तीत्यादि। कम्पयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । विसर्जनीयस्य स इति सत्त्वापवादं कुप्वो-क-पौ चेति विधि बाधितुं पुंग्रहणमित्यर्थः । ननु 'इदुदुपधस्य चाप्रत्ययस्य' इति षत्वविधिः कुप्वोरि. रित्यस्यापवादः । अतस्तं षत्वविधि बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आहअप्रत्ययस्येति षत्वपर्युदासादिति । पूनो डुम्सुनित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वात् विसर्गस्येति भावः। ननु उणादयः अव्युत्पन्नानि प्रातिपदिकानीति आयनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात् कथमिहा. प्रत्ययस्येति पर्युदास इत्यत आह-व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्तिनास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्य अप्रत्ययस्येति पयंदासेन इदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः। अतः तत्र कुप्वोरिति विधिं बाधितुं संपुकानामिति पुग्रहणमित्यर्थः। अव्युत्पत्तीति । औपादिकशब्देषु प्रकृतिप्रत्ययविभागाभावपक्षे अप्रत्ययस्येति पर्युदासस्यात्राप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुं संपुकानामिति (ग्रहणमित्यर्थः । पुँस्कोकिल इत्यनुनासिकपक्षे रूपम् । पुंस्कोकिल इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि' अस्मात् ल्युट् , अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
सिद्धान्तकौमुदी
[हल्सन्धि
'ख्यामादेशे न' (वा १५९१) पुख्यानम्। (१४०)नश्छ्न्य प्रशान्मा३।७n अम्परे छवि नकारान्तस्य पदस्यः स्यात्, न तु प्रशान्शब्दस्य। विसर्गः। सत्त्वम् । श्चुत्वम् । शानिरिकन्धि-शाहिरिछन्धि । चक्रिस्नायस्व-चक्रिस्नायस्व । पदस्य किम् । हन्ति । 'सम्परे किम्। सन्त्सरः। सरुः-खड्गमुष्टिः। 'अप्रशान् किम् । प्रशान्त. नोति । (१४१) नन्पे ॥३॥१०॥ नन्' इत्यस्य रुः स्याद्वा पकारे परे। (१४२) कुप्योक पौ च ८३।३७॥ कवर्ग पवर्गे च परे विसर्जनीयस्य क्रमा. मस्य रुत्वं स्यादित्यत आह-ख्यानादेशे नेति । भाष्ये 'चक्षिक खयानइति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरं 'शानशस्य यो वा' इति पठितमिति वक्ष्यते। एवं च यत्वस्यासिद्धतया खकारस्य अम्परकत्वाभावात् 'पुमः खयि' इति रुत्वं नेत्यर्थः । मुख्यानमिति । 'मोऽनुस्वारः' 'वा पदान्तस्य' इति परसवर्णविकल्पः । नच 'धर्जने प्रतिषेधः, असनयोश्चेति अनादेशे परे प्रतिषेधात् कथमत्र ख्यामादेश इति वाच्यम् । ख्शानादेशप्रयोजनपरवार्तिके पुख्यानमित्यादिप्रयोगात्तदुपपत्तेः। . नश्छव्यप्रशान्। न इति षष्ठयन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः। अम्परे इत्यनुवर्तते, रु इति च । तदाह-अपर इत्यादिना । अप्रशानिति षष्ठयथें प्रथमा । तदाह-न स्विति । विसर्ग इति । शाहिन् छिन्धि, चक्रिन् ब्रायस्व, इति स्थिते नकारल्यानेन रुत्वं अनुनासिकानुस्वारविकल्पः। ततो विसर्गः, सत्त्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शामिश्छिन्धीति । अनुनासिकपक्षे रूपम् । शानिश्छिन्धीति । अनुस्वारपक्षे रूपम् । चस्त्रिायस्वेत्यनुनासिकपक्षे। अनुस्वारपक्षे तु चक्रिस्वायस्वेति । त्रैल पालने । छित्त्वादात्मनेपदी। त्राहीति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरति त्राति इत्याचारक्किबन्तात् लोट् परस्मैपदमिति वा कथञ्चित् समाधेयम्। प्रशानिति । प्रपूर्वात् शाम्यतेः किम् । अनुनासिकस्य कीति दीर्घः। मो नो धातोरिति मस्य नः। तस्यासिद्धत्वानलोपोन। नन्पे । नून इति द्वितीयान्तशब्दस्वरूपपरं षष्ट्यन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । मतुवसो रु इत्यतः रु इत्यनुवर्तते। उभयवित्यतः उभयथेत्यनुवर्तते । कदाचित् भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाहननित्यस्येत्यादिना । अलोऽन्त्यस्य । नून पाहीति स्थिते नस्य रुत्वम् । अनुनासिका. नुस्वारविकल्पः। खरवसानयोरिति रेफस्य नित्यं विसर्ग प्राप्ते । कुप्वोक पौ च । कुप्वोः इति छेदः । ओसस्सस्य रुत्वे तस्य खर्परत्वात् विसर्गः, जिह्वामूलीयस्य शपसंख्यातत्वेन खात् । तस्य च विसर्गस्य खर्परे शरि वा विसर्गलोपो वक्तव्य इति लोपः। अतः सूत्रे कुप्वोरिति न विसर्गः श्रूयते। विसर्जनीयस्य स इत्यतो विसर्जनी
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता |
-
ज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्तन्यायेन 'विसर्जनीयस्य सः (सू १३८) इत्यस्यापवादोऽयम् । न तु 'शर्परे विसर्जनीयः' ( सू १५० ) इत्यस्य । तेन ‘बासः क्षौमम्' इत्यादौ विसर्ग एव । नृपाहि पाहि नृः पाहि - नूंः पाहि नृन्पाहि । (१४३) कानाम्रेडिते ८ | ३ |१२|| कान्नकारस्य रुः स्यादाडिते परे । 'सपुंकानाम्' ( वा ४८९२ ) इति सः । यद्वा, (१४४) कस्कादिषु -यस्येत्यनुवर्तते । तदाह - कवर्गे इत्यादिना । क्रमादिति । यथासंख्य सूत्रलभ्यम् । चाद्विसर्ग इति । 'शर्परे विसर्जनीयः' इत्यतो विसर्जनीय इत्यनुकृष्यत इत्यर्थः । चकारः 'पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः । एवं च प्रकृते पकारे परे विसर्गस्य सत्त्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः । तयोः उच्चारणे भेदः । इहादेशयोः कपावुच्चारणार्थी, नतु विधेयककोटिप्रविष्टौ । ननु कुप्बोरिति जिह्वामूलीयोपध्मानीयविसर्गविधिना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा शर्परे विसर्जनीय इति केवलविसर्गविधिरपि बाध्येत । तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचित जिह्वामू-लीयः कदाचिद्विसर्गश्च स्याताम् । इष्यते तु केवलविसर्ग इत्यत आह-येन नाप्रातेति । 'येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः' इति न्यायः । प्राप्तेति भावें रक्तः । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति, न लोकेति निषेधात् । द्वौ नावावश्यकत्वं द्योतयतः । यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः । अनेन न्यायेन कुप्वोरिति विधिः विसर्जनीयस्य स इत्यस्यैवापवादः । सत्वे प्राप्त एव तदारम्भात् । शर्परे विसर्जनीय इत्यस्य तु कुप्वोरिति नापवादः । कः करोतीत्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः । तेनेति । वासः क्षौममित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाभावेन शर्पदे खरीति केवलविसर्ग एव भवतीत्यर्थः । नृपाहि न पाहि, इत्युपध्मानीयपक्षे आनुनासिक्ये अनुस्वारे च सति रूपद्वयम् । नृः पाहि नृः पाहि इति विसर्गपक्षे अनुनासिकानुस्वाराभ्यां रूपद्वयम् ।
पाहीति त्वाभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे पे इत्यकारः उच्चारणार्थः । तथाच नृन्पुनातीत्यादावपि पञ्च रूपाणि भवन्ति । कानाम्रेडिते । कानिति द्वितीयान्तशब्दस्वरूपपरं षष्ठयन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । रुइत्यनुवर्तते । तदाहकान्नकारस्येत्यादिना। संपुंकानामिति । कानू इत्यस्य वीप्सायां द्विर्वचने कान् कान् . इति स्थिते प्रथमनकारस्य रुत्वे अनुनासिका नुस्वारविकल्पः । रेफस्य विसर्गः । तस्य • विसर्जनीयस्य स इति सत्त्वं बाधित्वा कुण्वोरिति प्राप्तौ संपुंकानामिति सत्त्वमित्यर्थः । वस्तुतस्तु संपुंकानामिति वार्तिके कानू इति निष्फलमित्याह - यद्वेति । कस्कादिषु
1
७ बा०
For Private and Personal Use Only
६७
-
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह
सिद्धान्तकौमुदी
[ हल्सन्धि
च ॥४८॥क पयोरपवादः। एविण उत्तरस्य विसर्गस्य षः स्यात् । अन्यस्य तु सः । काँस्कान-कास्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुः कपालम् । आकृतिगणोऽयम् । (१४५) संहितायाम् ६१।७२॥ इत्यधिकृत्य । (१४६) छेच॥७३॥ हृस्वस्य छे परे तुगागमः स्यात्संहितायाम् । चुत्व स्यासिद्धत्वाजश्त्वेन दः । ततश्चर्वस्यासिद्धत्वात्पूर्व चुत्वेन जः । तस्य चर्येन चः । चुत्वस्यासिद्धत्वात् 'चोः कुः (सू ३७८) इति कुत्वं न । स्वच्छाया। शिवच्छा. या। (१४७) आङ्माङोश्च ६।१७४॥ एतयोश्छे परे तुक्स्यात् । ‘पदान्ता. च । इण इत्यनुवर्तते । इण इति पञ्चम्यन्तम् । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी। कस्कादिगणे इणः परस्य विसर्गस्य षः स्यादित्यर्थः । सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते । कस्कादिषु अनिणः परस्य विसर्गस्य सत्त्वं स्यादित्यर्थः । तदेवं वाक्यद्वयं सम्पद्यते । कस्कादिषु तथाविधानामेव कृतषत्वसत्त्वानां निर्देशादयं विषयविभागः। क:पयोरपवाद इति । -क-पयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति । प्रकृते विसर्गस्य इणः परत्वाभावात् न षत्वम् । किन्तु सत्त्वमित्यर्थः। कांस्कानिति अनुनासिकपक्षे रूपम् । कांस्कानिति अनुस्वारपक्षे रूपम् । अथ कस्कादिगणं पठति-कस्क इत्यादिना। वीप्सायां द्वित्वे पूर्वखण्डे अकारात् परस्य विसर्गस्य सत्वम् । कः कोऽत्र भोः इति प्रयोगे तु संहिताविरहात् सत्त्वाभावः, कस्कादिषु चेत्यस्य 'तयोर्खावचि संहि. तायाम्' इति संहिताधिकारस्थत्वादित्याहुः। कौतस्कुत इति । वीप्सायां द्विवंचने कुतः कुत आगत इत्यर्थे तत आगत इत्यण् । अव्ययानां भमात्रे टिलोपः । अत एवं निपातना'दव्ययात्स्यबिति न। सर्पिष्कुण्डिकेति । अत्र इणः परत्वात् षत्वम् । एवं धनुष्कपालं, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कांस्कानित्यस्य पाठाभावात् कथं सत्त्वमित्यत आह-प्राकृतिगणोयऽमिति । एवं च कस्कादित्वादेव कांस्कानित्यत्र सत्त्वसिद्धः संपुकानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः ।
संहितायाम् । इत्यधिकृत्येति । छे चेत्यादि विधीयत इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यम् , तथापि सूत्रक्रमानुरोधादिहोक्तम् । छे च । हस्वस्य पितीत्यतः हस्वस्येति तुगिति चानुवर्तते । संहितायामित्यधिकृतम् । तदाह-हस्वस्येति । तुकः ककार इत् । उकार उच्चारणार्थः। कित्त्वात् हस्वस्थान्तावयवः । स्वस्य छायेति षष्ठीसमासे सुब्लुकि वकारादकारस्य तुकि स्वत् छायेति स्थिते वस्तुगत्या प्रक्रिया. क्रमं दर्शयति-चुत्वस्येत्यादिना चुत्वेन जः इत्यन्तेन । ननु स्वच् छायेति स्थिते तुको हस्वावयवस्य पदान्तत्वात् तत्स्थानिकचकारस्य चोः कुरिति कुत्वं स्यादित्याशक्याह-चुत्वस्येति । आइमाडोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आड्मा
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
88
"द्वार (सू १४९ ) इति विकल्पापवादः । आच्छादयति । माच्छिदत् । (१४८) दीर्घात् ६१७॥ दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक्, न तु छस्य । 'सेनासुराच्छाया' (सू ८२०) इति ज्ञापकात् । चेच्छिद्यते। (१४६) पदान्ताद्वा ६॥६॥ दीर्घात्पदान्ताच्छे परे तुम्वा स्यात् । लक्ष्मीच्छाया लक्ष्मीछाया ॥
इति हल्सन्धिप्रकरणम् ।
अथ विसर्गसन्धिप्रकरणम् ॥६॥ 'विसर्जनीयस्य सः' (सू १३८) । विष्णुस्त्राता । ( १५० ) शर्परे विसर्जगेरित्यर्थः । ननु दीर्घादित्येव सिद्ध किमर्थमिदमित्यत आह-पदान्तादेति । विकल्पपाबाद इति । आच्छादयति । माच्छिददिति । सुकि पूर्ववत् प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते। तदाह-दीर्षाद् छे परे तुक् स्यादित्यादिना। 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति छकारस्य तुक् अन्तावयकास्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचत्वे गुणो यब्लुकोरिति अभ्यासगुणे, तडि, चेछिद्यते, इति स्थिते, छकारस्यान्त्यावयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चत्वेन चकारे सति, चेचिद्यत इति एकारात् द्विचकारमेव रूपं स्यात् , छकारो न भूयेतेत्यत आह-दीर्घस्यायं तुगिति । ततश्च छकारात् प्राक् दीर्घस्योपरि तुकि जश्त्वचुत्वचत्वेषु चेच्छियत इति भवति । छकारस्य खर्परकत्वाभावाच्च न भवतीति चकारात् छकारश्रवणं निर्वाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आहसेनेति । उत्तरसूने पदान्तदीर्घात् छे तुग्विकल्पविधानादिदं सूत्रमपदान्तविषयमभि. प्रेत्य उदाहरति-चेच्छिद्यत इति । पदान्ताद्वा । तुक, छे, दीर्घात् , इत्यनुवर्तते । तदाहदीर्घात् पदान्तादित्यादिना । अयमपि तुक् दीर्घस्यैव नतु छस्य । उक्तज्ञापकात् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां हल्सन्धिप्रकरणं समाप्तम् ॥
विसर्जनीयस्य सः । हल्सन्धिनिरूपणे प्रसङ्गादिदं व्याख्यातमपि प्रकरणानुरोधात् पुनरुपन्यस्तं विसर्जनीयपदानुवृत्तिप्रदर्शनार्थम् । विष्णुस्त्रातेति । विष्णुशब्दात् सुप्रत्यये तस्य रुत्वे विसर्ग सति विष्णुः त्रातेति स्थिते सत्त्वम् । शर्परे विसर्जनीयः। 'विसर्जनीयस्येत्यनुवर्तते । खरवसानयोरित्यतः खर्ग्रहणं मण्डूकप्लुत्या अनुवर्तते। शर् परो
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१००
सिद्धान्तकौमुदी
[ विसर्गसन्धि
नीयः ८|३|३५|| शर्परे खरि विसर्जनीयस्य विसर्जनीयः, न त्वन्यत् । कः त्सरुः । ‘घनाघनः क्षोभणः' । इह यथायथं सत्त्वं जिह्वामूलीयश्च न । ( १५१ ) वा शरि = | ३|३६|| शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेतेहरिश्शेते । 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' ( वा ४९०६ ) । राम स्थातारामः स्थाता । हरि स्फुरति — हरिः स्फुरति । पक्षे विसर्गे सत्त्वे च त्रैरूप्यम् । कुप्वो> पौ च' । ( सू १४२ ) । कX करोति-कः करोति । कखनति - कः खनति । पचति - कः पचति । कफलति- - कः फलति । (१५२) सोऽपदादौ ८।३।३८॥ विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः । ' पाशकल्पककाम्येष्विति वाच्यम्' ( वा ५०३३) । पयस्पाशम् | यशस्कल्पम् | यशस्कम् | यशस्काम्यति ।
यस्मादिति बहुवीहिः । खर् विशेष्यम् । तदाह - शर्परे खरीति । विसर्गस्य विसर्गविधौ फलमाहह - न त्वन्यदिति । विसर्गस्य विसर्गविधानं तदितरपरिसंख्यानार्थमिति भावः । किं तदन्यदित्यत आह-इह यथायथमिति । 'यथास्वे यथायथम्' इति निपातितम् । यथासम्भवमित्यर्थः । कः त्सरुरित्यत्र सत्त्वम्, घनाघनः क्षोभण इत्यत्र कुप्वोरिति जिह्वामूलीयश्च न भवतीत्यर्थः । तथाच सत्वस्य कुप्वोरित्यस्य चायमपवाद इत्युक्तं भवति । वा शरि । विसर्जनीयस्येति, विसर्जनीय इति चानुवर्तते । विसर्गस्य विसर्गविधानं च तस्य सत्त्वपरिसंख्यानार्थम् । वाग्रहणाच्च सत्त्वपरिसंख्यानं पाक्षिकम् । तदाह - शरि परे इत्यादिना । हरिः शेत इति । विसर्गस्य विसर्जनीयपक्षे सत्त्वपरिसंख्याने रूपम् । हरिश्शेत इति । विसर्गस्य विसर्गविध्यभावपक्षे सत्वे सति सस्य शत्रुत्वेन शकारे रूपम् । खर्परे शरि । खर परो यस्मादिति बहुवीहिः । शर विशेष्यम् । खर्परके शरि परे विसर्गस्य लोपविकल्पो वक्तव्य इत्यर्थः । लोपाभावपक्षे वा शरीति भवति । रामः स्थातेति । रामः स्थातेति स्थिते विसर्गलोपे अविसगंमेकसकारं रूपम् । एवं हरि स्फुरतीत्यत्रापि । पक्षे इति । विसर्गस्य लोपाभावपक्षे वा शरीति विसर्गे सति सविसर्गमेकसकारं रूपम् । तदुभयाभावे तु सत्वे सति द्विसकारं रूपमिति रूपद्वयम् । ततश्च लोपपक्षसिद्धाविसर्गे कसकाररूपसङ्कलनया त्रीणि रूपाणीत्यर्थः । कुप्वोक पौ च । हल्सन्धिनिरूपणे व्याख्यातमप्येतत् प्रकरणानुरोधात् पुनरुपन्यस्तम् । ककरोतीति जिह्वामूलीयपक्षे । कः करोतीति विसर्गपक्षे । एवमग्रेऽपि । सोsपदादौ । कुप्वोरित्यनुवर्तते । अपदादाविति तद्विशेषणम्। द्वित्वे एकवचनमा प्रत्येकाभिप्रायं वा एकवचनम् । विसर्जनीयस्येत्यप्यनुवर्तते । तदाह - विसर्जनीयस्येक्ष्यादिना । कुप्वोरित्यस्यायमपवादः । पाशकल्पक । एतद्वार्तिकं ग्रन्थकृता न धृतम् ।
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता ।
१०१
1
अनव्ययस्येति वाच्यम्' (वा ४९०१ ) । प्रातः कल्पम् । 'काम्ये रोरेवेति बाच्यम्" (वा ४९०२) नेह । गीः काम्यति । (१५३) इणः षः ८ | ३ | ३६॥ इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति । (१५४) नमस्पुरसोर्गत्योः ||३|४०|| गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम्' (सू ७६८) इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः । (१५५) इदुदुपधस्य चाप्रत्ययस्य
पयस्पाशमिति । याप्ये पाशप् । कुत्सितं पय इत्यर्थः । यशस्कल्पमिति । ईषदसमाप्तौ कल्पप् । ईषदसमाप्तं यश इत्यर्थ: । यशस्कमिति । अज्ञाते कुत्सित इत्यादिना कः । यशस्काभ्यतीति । यश आत्मन इच्छतीत्यर्थे सुप आत्मन इत्यनुवृत्तौ काम्यच्चेति काम्यच् । सनाद्यन्ता इति धातुत्वाल्लडादयः अनम्ययस्य । सोऽपदादाविति विधिः अव्ययविसर्गस्य न भवतीत्यर्थः । प्रातःकल्पमिति । ईषदसमाप्तौ कल्पप् । ईषदसमाप्तः प्रातःकाल इत्यर्थः । अधिकरणशक्तिप्रधानस्यापि प्रातश्शब्दस्य वृत्तिविषये शक्तिमत्प्रधानत्वं न विरुध्यते, दोषाभूतमहः, दिवाभूता रात्रिरितिवत् । काम्ये रोः । काम्यप्रत्यये परतः स्थानिकस्यैव विसर्गस्य सोऽपदादाविति विधिर्भवतीत्यर्थः । गीःकाम्यतीति । गिरमात्मन इच्छतीत्यर्थं काम्यजादि पूर्ववत् । गृधातोः क्विपि 'ऋत इद्धातोः" इति इत्वे रपरत्वे रेफल्य विसर्गः । तस्य च रुस्थानिकत्वाभावान्न सत्त्वम् । किंतु. कुप्योरित्येव भवतीत्यर्थः । इणः षः । इण इति पञ्चमी । परस्येत्यध्याहार्यम् । विस
नीयस्येत्यनुवर्तते । तदाह - इणः परस्येति । पूर्वविषये इति । अत्र कुप्वोरिति अपदादाविति अनव्ययस्येति काम्ये रोरेवेति च सम्बध्यते इति भावः । तेन उच्चैः कल्पं, दोःपाश, गीः काम्यतीत्यादौ न षत्वमिति भावः । सर्पिष्पाशमित्यादौ पूर्ववत् पाशबादि। नमस्पुरसोः । इत उत्तरमपदादाविति न सम्बध्यते । विसर्जनीयस्य स इति कुप्वोरिति चानुवर्तते । तदाह - गतिसंज्ञयोरित्यादिना । कुप्वोरित्यस्यायमपवादः । नमस्करोतीति । नमस् इति सकारस्य रुत्वे विसर्गे तस्य कुप्वोरिति विधिं बाधित्वा अनेन सत्त्वम् । ननु प्रादिषु पाठाभावात् कथं नमश्शब्दस्य गतित्वमित्यत आह-साक्षादिति । विभाषेति । साक्षात्प्रभृतीनि चेत्यत्र विभाषा कृञीत्यतो विभाषेत्यनुवृत्तेरिति भावः । तदभाव इति । गतित्वाभावपक्षे कुप्वोरिति जिह्वामूलीये सति नमकरोतीति रूपमित्यर्थः । पुरः प्रवेष्टव्या इति । 'पृ पालनपूरणयोः” भ्राजभासेत्यादिना क्विप्, उदोष्ट्यपूर्वस्येत्युत्वं, रपरत्वं ततो जसि अनव्ययत्वेन गतित्वाभावान्न सत्त्वम् । अनम्ययत्वसूचनार्थमेव पूः पुरौ इत्युक्तम् ।
इदुदुपधस्य । विसर्जनीयस्येत्यनुवर्तते । इदुदुपधस्येति तद्विशेषणम् । इदुतौ उपधे
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
सिद्धान्तकौमुदी
[बिसर्गसन्धि
८॥३॥४१॥ इकारोकारोपधस्याऽप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । 'अप्रत्ययस्य' किम् । अग्निः करोति । वायुः करोति ।
मा
यस्येति बहुव्रीहिः। कुप्वोरिति चानुवर्तते । तदाह-कारोकारेति। अप्रत्ययस्येति । प्रत्ययावयवभिन्नस्येत्यर्थः । प्रत्ययभिन्नस्य विसर्गस्येत्यर्थे तु कविभिः कृतमित्यत्रापि पत्वं स्यात् । तत्र भिसः प्रत्ययत्वेऽपि विसर्गमात्रस्य प्रत्ययत्वाभावात् । अत्र इदुयामप्रत्ययस्येत्येतावतैव इदुद्भयामुत्तरस्य विसर्गस्येत्यर्थस्य सिद्धत्वादुपधाग्रहणं न कर्तव्यमिति हयवरटसूत्रे भाष्ये स्थितम्-"उपधाग्रहणं न करिष्यते। इदुद्भयां तु 'परं विसर्जनीयं विशेषयिष्यामः" इति । निष्प्रत्यूह मिति । प्रत्यूहो विघ्नः तस्याभावः निष्प्रत्यूहम् । अर्थाभावे अव्ययीभावः। आविष्कृतमिति । प्रकाशे प्रादुराविः स्यादि. त्यमरः । दुष्कृतमिति । दुस् दुरिति प्रादौ पठितम् । तत्र प्रथमस्य सान्तस्य षत्वं निर्विवादम् । रेफान्तस्य तु इदुदुपधस्य सकारस्य यो विसर्जनीय इति हयवरट्सूत्र स्थभाष्यसम्मतपक्षान्तरे षत्वं न भवति, तत्र विसर्जनीयस्य सकारस्थानिकत्वाभावात् । अग्निः करोतीति । विसर्गस्य व्यपदेशिवगावेन प्रत्ययावयवत्वादिति भावः ।
न मातृशब्दात् पञ्चम्येकवचन सिः । ऋत उदिति ऋकारस्य अकारस्य च उकारः एकादेशः। रपरत्वम् । मातुर् स् इति स्थिते रात्सस्येति सलोपः। मातुः कृपेत्यत्रापि षत्वं स्यात् । उर इत्येकादेशस्य पूर्वान्तत्वेन अप्रत्ययतया तदवयवरेफस्थानिकविसर्गस्य प्रत्ययावयवत्वाभावात् । नच उ इत्यस्यैव एकादेशतया पूर्वान्तत्वेऽपि रेफस्य प्रत्ययावयवत्वमस्तीति वाच्यम् । उरणपर इत्यत्र आवन्तौ टकिता. वित्यतः अन्तग्रहणानुवृत्तिमङ्गीकृत्य रेफस्य एकादेशान्तताया भाष्ये सिद्धान्तितत्वात्। अत एव च 'रदाभ्यामिति सूत्रे 'थलि च सेटि' इति सूत्रे च 'गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिवर्तते' इति भाष्यम्, 'उः स्थाने अण प्रसज्यमान एव रपरो भवति, पूर्वभक्तश्च रेफः' इति कैयटश्च सङ्गच्छते। न च उर् इत्यस्य परादित्वे प्रत्ययावयवत्वमस्तीति वाच्यम् । मातृ अस् इत्यस्यां दशायां हि सकारसन्निधौ अकारस्य प्रत्ययत्वाभावेन तत्स्थाने भवन् उर, इत्यादेशः प्रत्ययत्वं न भजते । प्रत्ययत्वस्य समुदायनिवेशित्वात्। यस्तु कृते उरादेशे अवशिष्टः सकार: प्रत्ययसंज्ञकः, स तु लुप्त एव । अस्तु वा परादित्वेन उर, इत्यस्य प्रत्ययत्वम् । तथापि तस्य पूर्वान्तत्वात् अप्रत्ययत्वात् तद्विसर्गस्य षत्वमप्रत्यूहम् । न च अन्तवत्त्वे कर्तव्ये षत्वस्यासिद्धत्वात् न तत्रान्तवत्त्वप्रवृत्तिरिति वाच्यम् । पूर्वत्रासिद्धेन स्थानिवदित्युक्त्या तदितरातिदेशानां त्रिपाद्यामपि प्रवृत्त्यभ्यनुज्ञानात् । अत एव अमी क्षीरपेणेत्यत्र ईत्वणत्वे सिध्यतः। तत्र एकारे अदरशब्दसम्बन्धित्वस्य पे इत्यत्र एकाजुत्तरपदत्वस्य च अन्तवत्वाधीनत्वात् । तस्मात् उर, इत्यस्य पूर्वान्तत्वे मातुः
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता |
एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठातू' (वा ४९१५) । तेनेह न । मातुः कृपा । 'मुहुसः प्रतिषेधः (वा ४९११) । मुहुः कामा । (१५६ ) तिरसोऽन्यतरस्याम् = | ३ | ४२ ॥ तिरसो विसर्गस्य सो वा स्थास्कुप्वोः । तिरस्कर्ता-तिरःकर्ता । ( १६७) द्विस्त्रिश्चतुरिति कृत्वाऽर्थे | ३| ४३ ॥ कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात्कुप्वोः । द्विष्करोति - द्विः करोति । इत्यादि । ‘कृत्वोऽर्थे' किम् चतुष्कपालः । (१५८) इसुसाः सामर्थ्य | ३|४४॥
१०३
कृपेत्यत्र षत्वं दुर्वारमित्यत आह – एकादेशेति । .. . एकादेशशास्त्र सम्पन्नरे फस्थानिकत्वेन विसर्गस्य एकादेशशास्त्रनिमित्तकत्वमिति भावः । भ्रातुष्पुत्रेति । एकादेशशास्त्रनिमित्तकस्यापि विसर्गस्य षत्यप्रवृत्तौ भ्रतुष्पुत्रशब्दस्य पाठो व्यर्थः स्यात् । कस्कादिषु चेति चत्वार्थो हि तत्र पाठः । पत्वस्य व अनेनैव सिद्धौ किं तेनेति भावः ।
मुहुसः । षत्वस्येति शेषः । अत्र 'पुम्मुहसोः प्रतिषेधो वक्तव्यः' इति भाष्ये पठितम् । तत्र पुंग्रहणमनुवादमात्रम् | 'सम्पुंकानां सो वक्तव्य' इत्यनेन गतार्थत्वात् । तिरसो । सोऽपदादावित्यतः स इत्यनुवर्तते, कुप्वोरिति विसर्जनीयस्येति च । इण इति निवृत्तम्, असम्भवात् । तत्सन्नियोगात् ष इति च निवृत्तम् । तदाह-तिरसो विसर्गस्येत्यादिना । तिरस्कर्तेति । कुप्वोरिति प्राप्ते सत्त्वम् । तदभावे जिह्वामूलीयविसर्गों । द्वित्रिश्चतुरिति । इति करणानन्तरं शब्दानामिति शेषः । विसर्जनीयस्येति कुप्वोरिति अन्यतरस्यामिति इणष्ष इति चानुवर्तते । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुचोऽर्थः कृत्वोऽर्थः । तत्र वर्तमानानां द्विः त्रिः चतुः इति शब्दानां विसर्गस्येत्यन्वयः । तदाह - कृत्वोऽर्थ इत्यादिना । द्विष्करोतीति । 'द्वित्रिचतु
सुच' इति कृत्वोऽर्थे सुच् । आदिना त्रिष्करोति चतुष्करोतीति गृह्यते । सर्वत्र विसर्गस्य प्रत्ययावयवत्वादिदुदुपधस्येत्यप्राप्ते विभाषेयम् । पत्वाभावे कुप्योरिति जिह्वामूलीयविसर्गौ । कृत्वोऽर्थे यो विसर्ग इति तु न व्याख्यातम्, तथा सति चतुकरोतीत्यत्र अव्याप्तेः, चतुरशब्दे च संयोगान्तलोपेन विसर्गस्य तत्र प्रातिपदिका - वयवत्वात् । चतुष्कपाल इति । चतुर्षु कपालेषु संस्कृतः पुरोडाश इत्यर्थे 'संस्कृतं भक्षाः ' इत्यणि विवक्षिते तद्धितार्थोत्तरपदेति समासः । 'द्विगोर्लुगनपत्ये' इत्यणो लुक् । अत्र चतुश्शब्दस्य कृत्वोऽथें अवृत्तेर्न तद्विसर्गस्य षत्वविकल्पः, किन्तु इदुदुपधस्येति नित्यमेव षत्वम् । ननु तत्र प्रत्ययावयवभिन्नस्येति व्याख्याने 'चतेरुरन्' इत्यौणादिकप्रत्ययावयवत्वात् विसर्गस्य कथमिह दुदुपधस्येति नित्यं षत्वम् । अतस्तत्र प्रत्ययभिन्नस्येत्येव व्याख्यानमुचितम् । एवं चात्र चतुर् शब्दविसर्गस्य प्रत्ययत्वाभा - यादिदुदुपधस्येति नित्यषत्वं निर्बाधं भविष्यतीति चेत्, नैष दोषः। कविभिः कृत
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
सिद्धान्तकौमुदी
विसर्गसन्धि
इसुसोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति - सर्पिः करोति । धनुष्करोतिधनुः करोति । सामर्थ्यमिह व्यपेक्षा | 'सामर्थ्ये' किम् । तिष्ठतु सर्पिः पिब त्वमुदकम् । (१५) नित्यं समासेऽनुत्तरपदस्थस्य = | ३ | ४५ ॥ इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात्कुप्वोः परयोः । सर्पिष्कुण्डिका । 'अनुत्तरपदस्थस्य' इति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे
मित्यादौ षत्ववारणाय प्रत्ययावयवभिन्नस्येत्येव व्याख्यातुमुचितत्वात् । चतुश्शब्दस्तु अव्युत्पन्न एव । अतः प्रत्ययावयवभिन्नस्येति पर्युदासस्तत्र न भवति, 'चतुष्पात्रयो ढञ्' इत्यादिनिर्देशबलेन चतुरशब्दे अभ्युत्पत्तिपक्षस्यैवाङ्गीकार्यत्वात् । द्विनामा त्रिनामा च कश्चित् । द्विः करोति त्रिः करोति । अत्रापि न पत्वम्, कृत्वोऽथें अवृत्तेः ।
।
इसुसो । इणष्ष इत्यतः ष इति, कुष्वोरिति, विसर्जनीयस्येति, अन्यतरस्यामिति चानुवर्तते । तदाह - सुसोर्विसर्गस्येति । सर्पिष्करोतीति । व्युत्पत्तिपक्षे अत्र विसर्गस्य प्रत्ययावयवत्वादिदुदुपधस्येत्यप्राप्तौ विभाषावचनम् । पत्वाभावपक्षे कुप्वोरिति जिह्वामूलीयविसर्गो धनुष्करोतीत्यत्राप्येवम् । ननु एकार्थीभावलक्षणं सामर्थ्यं वृत्तावेव, नतु वाक्ये, इति समर्थसूत्रे भाष्ये कैयटादिषु च स्पष्टम् । एवंच सर्पिष्करोतीति धनुष्करोतीति वाक्ये कथमयं षत्वविकल्प इत्यत आह-सामर्थ्यमिह व्यपैक्षेति । विशिष्टा अपेक्षा व्यपेक्षा पदानामाकाङ्क्षायोग्यतासन्निधिवशात् यः परस्परान्वयः सा व्यपेक्षा । इदं तु सामर्थ्य वाक्येषु विद्यते । यथा राज्ञः पुरुषोऽवश्व राशो देवदत्तस्य च पुरुष इत्यादौ । एवं च सर्पिष्करोतीत्यादौ एतादृशं व्यपेक्षालक्षणं सामर्थ्यमस्तीति भवत्युदाहरणम् । व्यपेक्षा लक्षणमेवात्र सामर्थ्यमाश्रित्य सर्पिष्करोतीति भाष्ये उदाहृतत्वादिति भावः । नच पेचुः काष्ठैः, सख्युः कामः, कविभिः कृतमित्यादौ षत्वं शक्यम्, अत्र प्रातिपदिकावयवयोरेव इसुसोर्ग्रहणात् नित्यं समास इत्युत्तरसूत्रोदाहरणे तयोरेव सम्भवेनार्थाधिकाराश्रयणात् साहचर्याच्च । तिष्ठत्विति । तिष्ठतु सर्पिरित्येकं वाक्यम् । पिबत्वमुदकमित्यन्यत् । तत्र सर्पिरित्यस्य पिब इत्यत्रान्वयाभावान्न सामर्थ्यम् । अतो नायमत्र षत्वविकल्पः । नापि इदुदुपधस्येति नित्यं षत्वम्, प्रत्ययावयवत्वात् । अतः एव प्रत्ययभिन्नस्य विसर्गस्येति व्याख्यानं नाश्रितम् । तथा सति तिष्ठतु सर्पिः, पित्र त्वमुदकमित्यत्र विसर्गस्य प्रत्ययैकदेशस्य प्रत्ययभिन्नतया इदुदुपधस्येति षत्वापतेः । नित्यं समासे । इसुसोरित्यनुवर्तते, कुबोरिति, विसर्जनीयस्येति च । तदाहइसुसोरित्यादिना । सर्पिष्कुण्डिकेति । सर्पिषः कुण्डिकेति विग्रहः । समासे व्यपेक्षा लक्षण-सामर्थ्यस्यापि सत्त्वात् 'इसुसोः सामध्ये' इति षत्वविकल्पे प्राप्ते वचनमिदम् । परमसर्पिःकुण्डिकेति । अत्र विसर्गस्य उत्तरपदस्थत्वान्न षत्वम् । इदुदुपधस्येति षत्वं तु.
1
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता |
व्यपेक्षाविरहेऽपि षत्वार्थो, व्यपेक्षायां नित्यार्थश्च । (१६०) श्रतः कृकमिकंसकुम्भपात्र कुशाकर्णीष्व तव्ययस्य = | ३ | ४६ ॥ अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु । नतूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयस्सद्दिता कुशा अयस्कुशा । अयस्कर्णी । 'अतः ' किम् । गीःकारः । ' अनव्ययस्य' किम् । स्वःकामः । ‘समासे' किम् | यशः करोति । 'अनुत्तरपदस्थस्य' किम् । परर्मयशःकारः । (१०१) अधश्शिरली पदे = | ३|४७ ॥ एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुत्तरपदस्थस्यैत्येव । परमशिरः पदम् । कस्कादिषु च । भास्करः ॥ इति विसर्गसन्धिप्रकरणम् ।
.
१०५
न, विसर्गस्यात्र प्रत्ययावयवत्वात् । प्रत्ययभिन्नस्य विसर्गस्येति व्याख्याने तु अत्रापि इदुदुपधस्येति षत्वं स्यात्, अत्र विसर्गस्य प्रत्ययकदेशतया प्रत्ययभिन्नत्वात् । नन्वनैव सिद्धे कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठो व्यर्थ इत्यत आह- कस्कादिष्विति । व्यपैक्षाविरहेऽपीति । तिष्ठतुः सर्पिः, कुण्डिकां पश्येत्यादावित्यर्थः । अत्र चासमासस्वान्नित्यं समास इति न भवति । सामर्थ्याभावाच हसुसोः सामर्थ्य इति चन भवति । प्रत्ययावयवत्वादिदुपधस्येत्यपि न भवति । अतस्तत्र षत्वप्राप्त्यर्थं कस्कादिषु पाठ इति भावः । व्यपेक्षायामिति । इदं सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थः । तत्र इसोस्सामर्थ्य इति विकल्पप्राप्तो नित्यषत्वार्थः कस्कादौ पाठ इति भावः । अतः कृमि । अत इति पञ्चमी । 'विसर्जनीयस्य' इति नित्यं समासेऽनुत्तरपदस्थस्य' इति चानुवर्तते । तदाह-- अकारादित्यादिना । अयस्कार इति । कुप्वोरिति बाधित्वा सत्वम् । एवमग्रेऽपि । श्रयस्सहितेति । अयसो विकार इति तु नोक्तम् जानपदेल्या. दिना ङीष्प्रसङ्गात् । अयस्कर्णीति । अय इव कर्णौ यस्या इति विग्रह: । 'नासिकोदरेति ङीष् । अधशिरसी । अधश्शिरसी इति षष्ठयर्थे प्रथमा। विसर्जनीयस्येति, स इति चानुवर्तते । तदाह – एतयोरिति । कुप्वोरित्यस्यापवादः । अधस्पदमिति । पदस्याधः इति विग्रहः । मयूरव्यंसकादित्वात् समासः । शिरस्पदमिति । शिरसः पदमिति विग्रहः । सौत्रक्रममनुरुध्य पुनराह - कस्कांदिषु चेति । भास्कर इति । अत इति तपरकरणादतः कृकमीत्यस्य न प्राप्तिरिति सत्वप्राप्त्यर्थं कल्कावौ भास्करशब्दस्य पाठ इति भावः ।
"
इति विसर्गसन्धिः ।
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
सिद्धान्तकौमुदी
स्वादिसन्धि
. अथ स्वादिसन्धिप्रकरणम् ॥७॥ 'स्वौजसमौट' (सू१८३) इति सुप्रत्यये 'शिवस्अर्ध्यः' इति स्थिते । (१६२) ससजुषो रुः १२॥६६॥ पदान्तस्य सस्य 'सजुष्' शब्दस्य च रुः स्यात् । जश्त्वापवादः । (१६३) अतो रोरप्लुतादप्लुते ६।१।११३॥ अप्लुतादतः परस्य रोः ठः स्यादप्लुतेऽति । 'भोभगोअघो-' (सू १६७) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्योत्वविधेः सामर्थ्यात्। (१६४) प्रथमयोः पूर्वसवर्णः ६।१।१०२ ॥ अकः प्रथमाद्वितीययोरचि परे
ससजुषो रुः । ससजुषोः रुः इति छेदः । 'रो रि' इति रेफलोपः । सश्च सजूश्च ससजुषो तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । स इति सकारो विवक्षितः । अकार उच्चारणार्थः। पदस्येत्यधिकृतं सकारेण सजुष्. शब्देन च विशेष्यते । अतस्तदन्तविधिः । सकारान्तं सजुषशब्दान्तं च यत् पदं तस्य रु: स्यादिति । सच अलोऽन्त्यस्येत्यन्त्यस्य भवति । ततश्च फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषो सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् । सजुषशब्दान्तं यत्पदमिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । नच सजूरित्यत्राव्याप्तिः शंक्या, व्यपदेशिवद्भावेन तदन्तत्वात् । 'व्यपदेशिवदावोऽप्रातिपदिकेनः इति 'ग्रहणवता प्रातिपदिकेन तदन्तविधिनः इति च परिभाषाद्वयं प्रत्ययग्रहणे यस्मादितिविषयम् , नतु येन विधिरितिविषयमिति 'असमासे निष्कादिभ्यः' इति सूत्रे भाष्ये स्पष्टम् । ननु शिवस् इति सकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन दकारः स्यात् , जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह-जश्त्वापवाद इति। तथा च रुत्वस्य निरवकाशत्वान्नासिद्धत्वमिति भावः। तदुक्तं भाष्ये 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति, 'अपवादो वचनप्रामाण्यात्' इति च । शिवर अर्ध्य इति स्थिते । अतो रोः । 'ऋत उदित्यतः उदित्यनुवर्तते । अत इति पञ्चमी । एकः पदान्तादतीत्यतः अतीत्यनुवर्तते । तदाह-अप्लुतादित्यादिना । नन्वत्र उत्वं बाधित्वा 'भोभगोअघोअपूर्वस्य योऽशि' इति यत्वं परत्वात् स्यात् । नच यत्वस्यासिद्धत्वात् उत्वं निर्बाधमिति वाच्यम्, कृतेऽपि उत्वे तस्य स्थानिवत्त्वेन रुत्वायत्वस्य दुनिवारत्वात् अत आह-यत्वस्यापवाद इति । यद्यपि भो भगो अघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यशे उत्वमपवादः, प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यख्यारम्भा. दिति भावः । ननु उत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह-उत्वं प्रतीति ।
शिव उ अर्घ्य इति स्थिते । प्रथमयोः । अकः सवणे इत्यतः अक इति, इको यण
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनारमासहिता ।
पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते । ( १६५) नादिचि ६|१|१०४ ॥ अवर्णादिचि परे न पूर्वसवर्णदीर्घः । 'आद्गुणः' ( सू ६९ ) 'एकः पदान्तादिति' ( सू ८६) शिवोऽर्च्यः । 'अतः' इति तपरः किम् । देवा अत्र । 'अति' इति तपरः किम् । व आगन्ता । 'अप्लुतात् ' किम् । एहि सुस्रोत ३ अत्र स्नाहि । प्लुतस्यासिद्धत्वादत परोऽयम् । 'अप्लुतात्' इति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् ।
१०७
1
चीत्यतः अचीति चानुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । प्रथमयोरित्यवयवषष्ठी । प्रथमाद्वितीये सुविभक्ती विवक्षिते । तदाह - प्रकः प्रथमेत्यादिना । इति प्राप्त इति । शिव उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः । नादिचि । न आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाहश्रवर्णादिति । अनेन शिव उ इत्यत्र पूर्वसवर्णदीर्धनिषेधः । भाद्गुण इति । शिव उ इति स्थिते आद्गुण इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति । 'देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जनम्' इति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हनने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किंतु हननोद्यमसजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषिद्धे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैटे स्पष्टम् | 'अपवादे निषिद्धे उत्सर्गस्य स्थितिः' इति न्यायश्च एतन्मूलक एव । 'तौ सत्' 'भिद्योद्धयौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङ: पदान्तादतीति । शिवो अर्च्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपम् ओकारः । देवा अत्रेति । देवास् अत्रेति स्थिते सस्य रुः । तस्य दीर्घादाकारात् परत्वादतः परत्वाभावादुत्वं न । किन्तु भोभगो इति यत्वे लोपश्शाकल्यस्येति लोपः । श्व आगन्तेति । श्वस, आगन्तेति स्थिते, सस्य रुः, तस्य ह्रस्वाकारपरकत्वाभावादुत्वं न । किन्तु यत्वं लोपश्च । एहीति । सुस्रोतस्शब्दः कस्यचित् संज्ञा । सम्बुद्धईल्ब्यादिलोपः, दूराद्र्धूते चेति टेः प्लुतः सस्य रुः । सुस्रोत३र् अत्रेति स्थिते प्लुतात् परस्य रोः उत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोः अतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह- प्लुतस्यासिद्धत्वादतः परोऽयमिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादिस्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्तेऽपि रोरुत्वमत्र दुर्वारम् उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात् परत्वस्यापि सत्त्वादित्यत आह- अप्लुतादिति विशेषणे तु चस्सामर्थ्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वम्, तर्हि अप्लुतादिवि
"
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ स्वादिसन्धि
-
तपरकरणस्य तु न सामर्थ्यम् । दीर्घनिवृत्त्या चरितार्थत्वात् । 'अप्लुते' इति किम्। तिष्ठतु पय अग्निदत्त । 'गुरोरनृत-' (सू ९७) इति प्लुतः । (१६६) हशि च ६१।११४॥ अप्लुतादतः परस्य रोः उः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । 'देवास्' इह इति स्थिते । रुत्वम् । (१६७ ) भोभगोअघोअपूर्वस्य योऽशि ८३.१७॥ एतत्पूर्वकस्य रोर्यादेशः विशेषणं व्यर्थमेव स्यात्, दत्तेऽपि विशेषणे प्लुतस्यासिद्धतया अप्लुतात् परत्व. स्यापि सत्वेन उत्वप्राप्तिदोषतादवस्थ्यात् । अतः अप्लुतादिति विशेषणसामर्थ्यात् प्लुतस्य नासिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थम् । प्लुतात् परस्य रोः अत इति तपरकरणादेव उत्वनिवृत्तिसिद्धः। मच उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परत्वस्यापि सस्वादुत्वं स्यादिति वाच्यम्, तपरकरणसामथ्यो। देव प्लुतस्यासिद्धत्वाभावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तः सम्भवादित्यत आह-तपरकरणस्य तु न सामर्थ्यमिति । प्लुतस्यासिद्धत्वाभावसाधने इति शेषः । कुत इत्यत आह-दीर्घनिवृत्येति । देवा अत्रेत्यादौ दीर्घव्यावृत्या लब्धप्रयोजनकत्वादि. त्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुजानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि अत इति तपरकरणं देवा अत्रेत्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं कथं प्लुतस्यासिद्धत्वाभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय अवनिदत्तेति । अत्र पयस इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धृते. चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह-गुरोरिति।
हशि च । अतो रोरप्लुतादिति पदत्रयमनुवर्तते । रत उदित्यतः उदिति च तदाहअप्लुतादित्यादिना । शिवो वन्द्य इति । शिवस् वन्य इति स्थिते, सस्य रुः। तस्य अत्परकत्वाभावात् पूर्वसूत्रेण उत्वं न प्रासमिति वचन मिदम् । ननु प्रातरत्र भ्रातर्गच्छेत्यत्र रेफस्य अतो सेरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह-रोरित्युकारेति । उकारः अनुबन्धः इत् यस्य सः उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र भ्रातर्गच्छेत्यत्र रेफस्य उत्वं न भवति । प्रातर् इति हि रेफान्तमव्ययम् । न तत्र रेफः उकारानुबन्धवान् । भ्रातृशब्दात् सम्बुद्धिः, सुः, 'ऋतो कि सर्वनामस्थानयोः' इति ऋकारस्य गुणः अकारो रपरः, हल्ड्यादिना सुलोपः । अत्रापि न रेफ: उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह-देवास् इह इति स्थिते रुत्वमिति । भोभगो। रोस्सुपीत्यतो रोरित्यनु. वर्तते । भो भगो अघो अ इत्येषां द्वन्द्वः । एते पूर्वे यस्मादिति बहुव्रीहिः । पूर्वश
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनोरमासहिता।
१०६
स्यादशि परे । असन्धिः सौत्रः। 'लोपश्शाकल्यस्य' (सू ६७) देवा इह-देवायिह । 'अशि' किम् । देवास्सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । त ह्ययमविधिः। रोरिति समुदायरूपाश्रयणात् । भोस् , भगोस् , अघोस् इति सकारान्ता निपाताः । तेषां रोयत्वे कृते । (१६८) व्योलघुप्रयत्नतरः शाकटायनस्य३।१॥ पदान्तयोर्वकारयका
-
ब्दश्च प्रत्येकं सम्बध्यते - भोपूर्वकस्य भगोपूर्वकस्य अवोपूर्वकस्य अकारपूर्वकस्य च रोरिति । सदाह-पतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र अवो अपूर्वस्येत्यत्र च एक पदान्तादतीति पूर्वरूपमाशयाह-प्रसन्धिरिति । सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः। 'कृतलब्धः इत्यण । देवाय इह इति स्थिते यलोपं स्मारयति-लोपरशा. कल्यस्येति । देवा इहेति यलोपपो रूपम् । तदभावे देवायिहेति। देवास्सन्तीति । देवास सन्तीति स्थिते सस्य रुः । तस्य अश्परकत्वाभावाचत्वं न। किन्तु विसर्गः। विसर्जनीयस्य सः । नन्विह अश्ग्रहणं व्यर्थम् । नच देवार सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यम् , यत्वस्यासिद्धतया विसर्गे सति सत्त्वे देवास्सन्तीति सिद्धेरिति शङ्कते-यधपीति । परिहरति-तथापीति । अस्तु यत्वस्यासिद्धत्वात् रेफस्य विसर्गः । तथापि तस्य स्थानिवद्भावेन रुत्वायत्वं दुर्वारम् । अश्ग्रहणमावश्यकमिति भावः । मनु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम् । अनल्विधाविति निषे. धात् । विसर्गस्थानिभूत रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह-न ह्ययमल्विधिरिति । कुत इत्यत आह-रोरिति समुदायरूपाश्रयणादिति । यद्यपि यत्वविधिः विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाल्विधिः। हस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधिः रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः। रुत्वं च रेफोकारसमुदायधर्मः । न तु रेफमात्रवृत्ति । अतो यत्वविधिः विसर्गस्थानिभूतं न रेफ वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः। अतः यत्वे कर्तव्ये विसर्गस्य स्थानिवद्रावेन रुत्वाद्यत्वं स्यात् । अतः अशीति परनिमित्तमाश्रितमिति भावः । निपाता इति । चादेराकृतिगणत्वादिति भावः । रोयत्वे कृत इति । भोभगोअघो इत्यनेनेति शेषः । भोय अच्युत इति स्थिते लोपश्शाकल्यस्येति न भवति, यकारस्य अपूर्वकत्वाभावात्। - न्योलघु । व च य च व्यौ तयोरिति विग्रहः । पदस्येत्यधिकृतम् । तच्च वकारयकाराभ्यां विशेष्यते तदन्तविधिः । वान्तस्य यान्तस्य च पदस्येति लभ्यते । अकोऽन्त्यस्येत्यन्त्यस्य भवति । तथाच पदान्तयोर्यवयोरिति फलितम् । लघुः प्रयतो
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
. सिद्धान्तकौमुदी [स्वादिसन्धि
- रयोर्मधूचारणौ वयौ वा स्तोऽशि परे। यस्योच्चारणे जिह्वाग्रोपाप्रमध्यमूलानां शैथिल्यं जायते स लधूच्चारणः (१६६) ओतो गाग्यस्य ॥३॥२०॥ ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे, भोयच्युत । ‘पदान्तस्य'. किम् । तोयम् । (१७०) उत्रि च पदे ॥३॥२१॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उभि परे । स उ एकामिः । 'पदे किम् । तन्त्रयुतम् । वेजः सम्प्रसारणे रूपम् । यदि तु प्रतिपदोक्तो
वस्योच्चारणे सः लघुप्रयतः । अतिशयितः लघुप्रयतः लघुप्रयत्नतरः। अन्यपदार्थस्य व वर्तिपदार्थप्रकर्षापेक्षः प्रकर्षः । लघुतरप्रयत्नक इत्यर्थः । प्रत्येकामिप्रायमेकवचनम् । आन्तर्यात् यस्य यः, वस्य वः। अशीत्यनुवर्तते । शाकटायनमुनिग्रहणाद्विकल्पः। तदाह-पदान्तयोरित्यादिना । उच्चारणप्रयत्ने लघुतरत्वं विशदयति-यस्येति । ततश्च भोय अच्युतेत्यत्र यकारस्य पाक्षिको लघुप्रयत्नो यकारः। वकारोदाहरणं तु 'असा. वादित्य इति वृत्तिः' इति शब्देन्दुशेखरे। श्रोतो गाय॑स्य । ओत इति पञ्चमी। व्योरित्यतो यग्रहणमनुर्वते नतु वकारोऽपि, ओतः परस्य तस्यासम्भवात्। पदस्येत्यधिकृतं यकारेण विशेष्यते । तदन्तविधिः। ओकारात् परो यः यकारस्तदन्तस्य पदस्येति लभ्यते । अलोऽन्त्यपरिभाषया पदान्तस्य यकारस्येति फलितम् । भोभगो इत्यतः अशीत्यनुवर्तते । लोपश्शाकल्यस्येत्यतो लोप इत्यनुवर्तते। सच पूर्वविहित लघुप्रयत्नस्य न भवति, विधानसामर्थ्यात् । तदाह-ओकारादित्यादिना । ननु लोपल्य कथं नित्यत्वम् । गार्यग्रहणादित्यत आह-गाग्र्यग्रहणं पूजार्थमिति । व्याख्यानादिति भावः । भो अच्युतेति । अलघुप्रयत्नपक्षे यकारस्य निर्त्य लोपः। लघुप्रयत्नपक्षे भोय. च्युतेति । अत्र लघुप्रयत्नस्य विधिसामर्थ्यान्न लोपः । तोयमिति। अत्र यकारस्य पदान्तत्वाभावादोतो गार्यस्येति न भवति । अनेन अत्र भोभगो इति नानुवर्तते इति सूचितम् । उनि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति, लोप इति चानुवर्तते । तदाह-अवर्णेति । स उ एकाग्निरिति । उ इति निपातः। सस उ इति स्थिते, सस्य रुः, भोभगो इत्यपूर्वत्वात् यत्वम् । लोपशाकल्यस्येति विकल्पनिवृत्यर्थमिदम् । वकारोदाहरणं तु 'असा उ एकाग्निरिति वृत्तिः । पदे किमिति । उनः पदत्वाव्यभि. चारात् पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः। तन्त्रयुतमिति । तन्त्रे उत. मिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्यर्थे पदग्रहणमिति भावः । नन्वत्र उपरकत्वाभावादेव लोपनिवृत्तिसम्भवात् पदग्रहणं व्यर्थमेपेत्यत आह-वेष इति । धेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, 'वचिस्वपियजादीनाम्' इति वकारस्य सम्प्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उम्परकत्वेऽपि तस्य उमः पदत्वाभावा
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ]
बालमनोरमासहिता ।
१११
निपात उअिति ग्रहीप्यते, तद्युत्तरार्थं पदग्रहणम् । (१७१) हलि सर्वेषाम् । ३।२२ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वान्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । 'हलि' किम् । देवायिह-देवा इह। (१७२) रोऽसुपि ।२।६६ ॥ अह्वो रेफादेशः स्यान्न तु सुपि । रोरपवादः। अहरहः ।
तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उम् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः, सम्प्रसारणादिविधिनिष्पनत्वात् । ततश्च 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति परिभाषया चादिपठितस्यैव उमोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उमोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति। उत्तरार्थमिति। मो हस्वादचीत्यर्थमित्यर्थः । एतचात्रैव भाष्ये स्पष्टम् । - हलि सर्वेषाम् । मोमगोअघोअपूर्वस्येत्यनुवर्तते । व्योर्लघुप्रयत्नेत्यतः यकारग्रहणमनुवर्तते । तदाह-भोभगो इत्यादिना । लध्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाय॑स्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लध्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याभावादिति वृत्तिः । 'अव्यपर' इति निर्देशादिति तदाशयः। वृक्षं वातीति वृक्षवाः, तमाचष्टे वृक्षव् , भयन्तात् विप् , इष्टवद्भावाडिलोपः णेरनिटीति णिलोपः, वृक्ष करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्य अशात्मके हलोति भाष्ये व्याख्यातत्वात् । वृक्ष हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः। सर्वेषां मतेनेति। सर्वाचार्यसम्मतत्वादयं लोपो नित्य इति फलितम् । अत्र यदि 'विभाषा भवद्भगवदघवतामोच्चावस्य' इति वार्तिकेन 'मतुवसो रु सम्बुद्धौ' इत्यत्र पठितेन एषामन्तस्य सम्बुद्धौ रुत्वं वा स्यात् , अव इत्यंशस्य ओकारश्चेत्यर्थंकेन निष्पन्नाः भोरादिशब्दा एव गृोरन् तर्हि पुंलिङ्गकवचनमात्रे भोहरे इत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरी, भो देवाः, भो लक्ष्मीः, भो विद्ववृन्द इत्यादौ लोपोन सिध्येत् । अतः भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति-भो देवा इत्यादि । देवा नभ्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम् , लोपो व्योरिति लोपं प्रति यत्वस्यासिद्धत्वात् । रोऽसुपि । रः असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते तच्च लुसषष्ठीकं पदम् । तदाह-अह्न इत्यादि,। नतु सुपीति । पर्युदासाश्रयणे तु नजिवयुक्तन्यायेन सुन्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततन अहर्वा नित्यादावेव स्यात् । न त्वहर्भातीत्यादावपि । अतः प्रसज्यप्रतिषेध
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२
सिद्धान्तकौमुदी
[ स्वादिसन्धि
अहर्गणः । 'असुपि' किम् । अहोभ्याम् । अत्र 'अहन्' ( सू० ४४३) इति रुत्वम् । 'रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्' (वा ४८४७) । अहोरूपम् । गतमहो रात्रिरेषा । एकदेश विकृतस्यानन्यत्वात् अहोरात्रः । अहोरथन्तरम् । 'अहरादीनां पत्यादिषु वा रेफः' ( वा ४८५१ ) । विसर्गापवादः । अहर्पतिः । गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ । (१७३) रो रि = | ३ | १४ || रेफस्य रेफे परे लोपः स्यात् । (१४) दूलेोपे पूर्वस्य दीर्घोऽणः । ६।३।१९१ ॥ ढरेफौ लोपयतीति तथा,
1
आश्रितः । ननु अहन् इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धस्वात् किमर्थमिदमित्यत आह--शेरपवाद इति । अहरहरिति । नित्यवीप्सयोरिति द्विर्वचनम् । अहन् अहम् इति स्थिते रत्वम् । 'न लुमता' इति निषेधात् सुप्परकत्वाभावः । अहन्निति रुत्वे तु 'अतो रोरप्लुता' दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः । अहन्निति रुत्ये तु हशि चेत्युत्वं स्यात् । अहोभ्यामिति । अहन् यां इति स्थिते नकारस्य सुप्परकत्वान्न रेफः | अत्रेति । अहन्निति रुत्वे हशि चेत्युत्वे आद्गुणः । रूपरात्रि । अहनुशब्दस्येति शेषः । रोऽसुपीति रत्वस्यापवादः । श्रहोरूपमिति । अह्नो रूपमिति विग्रहः । अहनू रूपमिति स्थिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति । अहनू रात्रिरिति स्थिते, रुत्वम् उत्वम्, आद्गुणः । रुत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्व, अहस्सर्वेकदेशेत्यादिना समासान्ते अचि, यस्येति चेति लोपे, अहन् रात्र इति स्थिते नकारस्य रुत्वे उत्वे, आद्गुणे, 'राम्राहाहाः पुंसि' इति पुंस्त्वे, अहोरात्र इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात् कथं रुत्वम् । ततश्च रोsसुपीति रत्वे ऊत्वं न स्यादित्यत आह – एकादेशेति । श्रहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं सामविशेषः । अहरादीनाम् । ननु अहरादीनामिति रेफविशिष्टस्य उपादानात् रेफस्य रेफविधानं व्यर्थमित्यत आह - विसर्गापवाद इति । श्रइर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'वोरुपधाया' इति दीर्घः । पक्ष इति । रत्वाभावपक्षे विसर्गस्य कुप्वोरिति उपध्मानीयविसर्गौ । इदुदुपधस्येति तु तपकरणान्न ।
-
·
रोरि । रः इति षष्ठी । 'ढो ढे लोप' इस्थतो लोप इत्यनुवर्तते तदाह-रे फस्येति । पुनर, रमते इति स्थिते प्रथमरेफस्य लोपः । ठूलोपे । दूच रेफश्च ढौ, तौ लोपयतीति ठूलोपः । ण्यन्तात्कर्मण्युपपदे अणू, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तं च विवक्षितम् । तच्च ढकाररेफात्मकमेव । ढो ढे लोपः, रो रीति तयोरेव ठूलोपनिमितत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ
1
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनोरमासहिता ।
११३
तस्मिन्वर्णेऽर्थाद् ढकारे रेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुना रमते । हरी रम्यः । शम्भू राजते । 'अणः ' किम् । तृढः । वृढः । 'तृहू हिंसायाम् | बहू उद्यमने' । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्यैव दीर्घार्थम् । अजर्घाः । लीढः ।
I
इति फलति । तदाह--ढरे फावित्यादिना । ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ इति तु न व्याख्यातम् । तथा सति चयनीयमित्यनीयर् प्रत्ययान्ते तस्य लोप इति रेफलोपे यकारादकारस्य चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । पुनर, रमत इति स्थिते रो रीति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस रम्य इति स्थिते रुत्वे रेफलोपे अनेन दीर्घः । शम्भू राजत इति । शम्भुस् राजत इति स्थिते रुत्वे रेफलोपे अमेन दीर्घः । त्रयाणामुदाहरणात् पूर्वेणैव णकारेणान्राण गृह्यत इति सूचितम् । तृढः । वृढ इति । अन ऋकारस्य दीर्घ निवृत्त्यर्थमम्प्रहणम् । ऋकारश्चात्र अण्ग्रहणेन न गृह्यते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात् । अन्यथा दीर्घश्रुत्या अच इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ठूलोपस्यैवाभावात् दीर्घाप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्कय तत्र ढलोपं दर्शयितुमाह-गृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां कप्रत्यये 'हो ढः' इति ढत्वे 'झषस्तथो:' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढः वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह- पूर्वग्रहणमिति । ठूलोप इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ठूलोपनिमित्तभूतढरे फयोः परतः पूर्वपदस्याणो दीर्घ इत्यर्थः स्यात् । ततश्च 'लिह आस्वादने' 'गुहू संवरणे' आभ्यां क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु इकारस्य उकारस्य च दीर्घो न स्यात् । तत्र ढलोपनिमित्तस्य ढस्य उत्तरपदस्थत्वाभावात् इकारस्य उकारस्य च पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गूढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्लामर्थ्यादनुत्तरपदस्थयोरपि ढरेफयोः परतः अपूर्वपदस्थस्यापि पूर्वस्याणो दीर्घः सिध्यतीत्यर्थः ।
तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घाः इत्यत्रापि दीर्घो न स्यात् । गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अभ्यासस्य रुक्, कुहोरचुः, लड्, सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ड्यादिना सुलोपः, जर गर, धू इति स्थिते, 'एकाचो बश' इति गकारस्य भष्भावः घकारः,
त्वं दकारः, दश्चेति रु, अडागमः, अजर्घर र इति स्थिते रो रीति रेफलोपः, लोप इति दीर्घः, विसर्गः, अजर्घाः इति रूपम् । अत्रापि रेफलोपनिमित्तरेफल्य उत्तबा० ८
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
सिद्धान्तकौमुदी
[ स्वादिसन्धि
‘मनस् रथः' इत्यत्र रुत्वे कृते 'हशि च' ( सू १६६) इत्युत्वे 'रो रि' ( सू १७३ ) इति रेफलोपे च प्राप्ते । (१७५) विप्रतिषेधे परं कार्यम् १/४/२ ॥ तुल्यबलविरोधे सति परं कार्यं स्यात् । इति रेफलोपे प्राप्ते । 'पूर्वत्रासिद्धम्' ( सू
रपदस्थत्वाभावात् तस्मिन् परतः अकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ठूलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिः असम्भवादेव न सम्भवति, तथापि अजर्धा इत्यत्र रेफलोपनिमित्तरे फविये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरकम्, दूरतमिस्वादावेव स्यात् । अजर्घा इत्यत्र न स्यात् । पुना रमत इत्यादौ असमा सेऽपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । नमु मनोरथ इस्पत्र मनस् रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्य हरि चेत्युत्वम् रो रीति लोपश्रत्युभयं प्रसक्तम् । तत्र कतरद् बाध्यमित्यत्र निर्धारयति - मनस् रथः इत्यत्रेत्यादिना । मनस् रथ इत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते, उत्वमेवेत्यवयः । ननु परत्वात् रेफलोप एव स्यादिति शङ्कितुमाह - विप्रतिषेधे । विप्रति पूर्वात् सेधतेर्वत्र उपसर्गवशात् परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह - तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वं परशास्त्रविहितत्वम् । इति रेफलोपे प्राप्त इति । हशि वेत्यस्यावकाशः शिवो वन्य इति । रेफलोपस्यावकाशः पुना रमत इति । तत्र हि रोरित्युकारानुबन्धग्रहणात् हशि चेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोः मनोरथ इत्यत्र युगपत् सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः ।
1
तामिमां रेफकोपशङ्कां परिहरति-— पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्रुवन् पूर्वत्रासिद्धमित्यत्र शास्त्रासिद्धत्वमेवाभ्युपैति । नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वात् असिद्धत्वारोपाधिरधिष्ठानारोपासम्भवेन सूत्रोदाहरणसम्पत्स्यै' परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात् त्रैपादिके कायें जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीभूतरोरभावात् हशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्रासिद्धत्वे तु यद्यत् त्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवासिद्धत्वारोपात् पूर्व शास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां 'विप्रतिषेधे परं कार्यम्' इति न प्रवर्तते । तदुक्तम्- 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति । ततश्च स्थानिनो निवृत्यभावात् पूर्वंशास्त्रप्रवृत्तिर्निर्वाधा । एतच्च पूर्वत्रासिद्धमित्यन्न, अचः परस्मिन्नित्यत्र, 'षत्वतुकोरसिद्ध' इत्यत्र च भाष्ये स्पष्टम् । न च 'तौ
'सत्' इत्या
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ..]
बालमनोरमासहिता।
१२) इति ‘रो रि' (सू १५३ ) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः (१७६) एतत्तदोः सुलोपोऽकोरनसमासे हलि ६२१३२ ॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्यादलि न तु नसमासे । एष विष्णुः । स शम्भुः । 'अकोः' किम् । एषको रुद्रः । 'अनसमासे' किम् । असशिवः । 'हलि' किम् । एषोऽत्र । दिनिर्देशात् देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यम् । हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्त्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवेति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोचमसजातीयं प्रसङ्गमात्रम् । न तु हनन· स्थानीया लक्ष्ये प्रवृत्तिः । अतस्तावित्यादौ नास्य न्यायस्य प्रवृत्तिरिति तौ सदि. त्यादिनिर्देशः कथमेतस्यान्यायल्यानित्यतां बोधयितुमीष्टे । स्पष्टं चैतत् स्वादिविति सूत्रे कैयटे । प्रकृते तु निरधिष्ठानारोपासम्मवात् हनमसजातीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी। ततश्च प्रवृत्तस्य रेफलोपल्यासिद्धत्वेऽपि देवदत्तहन्तृहतम्यायेन रोरुन्मेषामावादुत्वं न भवतीति शब्दरत्ने प्रपशितम् । न च उत्वकार्यासिद्ध. त्वपक्षेऽपि मनोरथसिद्धिरस्त्येव, दर्शनाभावरूपरेफलोपस्याभावरूपासिद्धत्वे सति रोरुन्मेषावश्यकत्वात् अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यम्, एवमपि कार्यासिद्धत्वे अमू अभी इत्यायसिद्धः। यथा चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते ।
एतत्तोः । एतत्तदोरित्यत्र 'स्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' इत्येकशेषस्य त्यदायत्वस्य चाभाव आषः । सु इति लुतषष्ठीकम् पदम् एतत्तदोरित्यनेनान्वेति-एतत्तदोः सकारस्येति । अत एव सोर्लोपः सुलोप इति न षष्ठीसमासः, असामर्थ्यात् । अविद्यमानः ककारः ययोस्तौ अको तयोः अकोरिति बहुवाहिः । तदाह-प्रककारयोरित्यादिना । अनसमासे इति न पर्युदासः। तथा सति नजिवयु. क्तन्यायात् नसमाससदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्य. भिप्रेत्याह-न तु नसमास इति । एष विष्णुः, स शम्भुरिति । एषस् विष्णुः, सस् शम्भुरिति स्थिते सकारस्य लोपः । एषको रुद्र इति । 'अव्ययसर्वनाम्नामकच्याक्टे: इति अकच् । अत्र एतच्छब्दस्य सककारत्वान सुलोपः। तच्छब्दे अकचि सको रुद्र इत्यपि प्रत्युदाहरणम् । न च अकचि सति शब्दान्तरत्वात् प्राप्तिरेव नेति वाच्यम् 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति परिभाषया साकच्कस्य अशब्दान्तरत्वात् । परिभाषायां तु इदमेव ज्ञापकम् । असशिशव इति । न सः अस इति विग्रहः । 'विसर्जनीनीयस्य सः इति सत्वे श्चुत्वेन शकारः। नसमासत्वान्न सुलोपः। अनेषविशव इत्यपि प्रत्युदाहरणम् । एषोऽत्रेति । एषस् अत्रेति स्थिते, सख्य रुत्वम् , उत्वम् ,
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[भजन्तपुंलिङ्ग
-
(१७७) सोऽचि लोपे चेत्पादपूरणम् ६।१।१३४॥ 'सस्' इत्येतस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्यत । 'सेमामविड्ढि प्रभृतिम्' 'य ईशिषेः । 'इह ऋत्पाद एव गृह्यते' इति वामनः। 'अविशेषाच्छ्लोकपादोऽपि' इत्यपरे । सैष दाशरथी रामः' । 'लोपे चेत्' इति किम् । 'स इरक्षेतिः। स एवमुक्त्वा ' । 'सत्येव' इत्यवधारणं तु 'स्यश्छन्दसि बहुलम्' (सू ३५२६ ) इति पूर्वसूत्राद्बहुल. प्रहणानुवृत्त्या लभ्यते । तेनेह न । 'सोऽहमाजन्मशुद्धानाम् ॥
इति स्वादिसन्धिप्रकरणम्
-
अथाजन्तपुंल्लिङ्गप्रकरणम् ॥८॥ (१७८) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १।२।४५॥ धातुं प्रत्ययं आद्गुणः, हल्परकत्वाभावान्न लोपः । अन्न एतत्तदारेवयवस्य सोरिति न व्याख्या. तम् , असम्भवात् , सोः परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात् । एतत्तगयां 'परस्य सोरित्यपि न भवति, एतत्तदोरिति षष्ठीविरोधात् । एतत्तभ्यां विहितस्येति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्तिः । तत्र सोः समासाद्विहितत्वेन एतत्तयां विहितत्वाभावात् । अनसमास इति प्रतिषेधवैयर्थ्याच्च । अत एतत्तदर्थगतसङ्ख्याभिधायिनः सोरिति व्याख्येयम् । सोऽचि लोपे। स इति प्रथमैकवचनान्तस्वरूपपरम् । ततः षष्ठया लुक् । ससशब्दस्येति लभ्यते । सुलोप इत्यनुवतते । तदाह-सस् इत्यादिना।
इति स्वादिसन्धिः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
___ बालमनोरमायां सन्धित्रयं समाप्तम् ।
अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति। तत्र ड्याप्प्रातिपदिकादित्यधिकृतम् । किं तत् प्रातिपदिकमिति जिज्ञासायामाह-अर्थवदधातुः । अर्थोऽस्यास्तीत्यर्थवत् । नपुंसकलिङ्गानुसारात शब्दस्वरूपमिति विशेष्यमध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ्तत्पुरुषः । परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः' इति पुंस्त्वम् । अप्रत्यय इत्यावर्तते । प्रत्ययभिन्न प्रत्ययान्तभिन्न च विवक्षितम् । पूर्ववत्पुंस्त्वम् । संज्ञाविधाविति निषेधस्तु प्रत्ययस्य यत्र संज्ञा तद्वि
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ८ ]
प्रत्ययान्तं च वर्जयित्वाऽर्थव च्छन्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् । ( १७६) कृत्तद्वितसमासाश्च ११२४६ ॥ कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः ।
११७
षय इति भावः । तदाह - धातुं प्रत्ययमित्यादिना । अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि | अर्थवदिति किम् । धनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत् । सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्ण सुबुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोदुर्वारत्वात् प्रथमा विभक्तेः कारकानपेक्षत्वात् तदेकवचनस्य सख्यानवगमेऽपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्ड्यादिना सुलोपात् प्रतिवर्ण सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वात् अकारात् सोः रुत्वविसर्गापरोश्चेत्यलम् । अधातुरिति किम् । हनुधातोर्लङि, तिप्, शब्, लुक्, इतश्चेतीकारलोपः, अडागमः, हल्ड्यादिलोपः, अहन्निति रूपम् । अत्र धातोः प्रातिपदिकसंज्ञायां सुबपवादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमात् नलोपः स्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्ययलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकत्वाभावे सति नलोपस्याप्रeat 'न डिसम्बुद्धयोः' इति तन्निषेधवैयर्थ्यप्रसङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृतद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ ' न बिसम्बुद्वयोः' इति निषेधोऽर्थवानिति वाच्यम् । उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याप्रवृत्तेः । एवं चास्मादेव निषेधात् प्रत्ययलक्षणमाश्रित्या प्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवं च अहन्नित्यत्राप्यप्रत्ययान्तत्वात् प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम् । अप्रत्यय इति किम् । हरिषु करोषि इत्यत्र सुप्पिोरर्थवत्त्वात् अप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोर्व्यपदेशिवद्भावेन प्रत्ययान्तत्वात् प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्व निवृत्तिसम्भवात् किं प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासालाभात् । अप्रत्ययान्त इति किम् । हरिषु करोषि । अत्र प्रकृतिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्त्वादर्थवत्त्वाच प्रातिपदिकत्वं मा भूत् ।
कृत्तद्धित । कृच्च तद्वितश्च समासश्चेति विग्रहः । पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते, बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तप्र
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
पूर्वसूत्रेण सिद्ध समासप्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भ. वति तर्हि समासस्यैव । तेन वाश्यस्य न । (१०) प्रत्ययः।३।११॥ बा हणम् । तदाह-कृत्तद्धितान्तावित्यादिना ॥ कृत्तद्धितान्तयोः प्रत्ययान्तत्वात् पूर्वसूत्रे. णाप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाभावात् संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात् प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्य तत्सामर्थ्यात् तदन्तविधिमाहुः । कृदन्ते यथा-कर्ता भर्ता इत्यादि । तद्धिते यथा-औपगव इत्यादि । समासे यथा-राजपुरुष इत्यादि । . ननु समासग्रहणं व्यर्थम् , समासे राजपुरुष इत्यादिशब्दानां पूर्वसूत्रेणव प्रातिपदिकत्वस्य सिद्धत्त्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्त. पयुदासः शङ्कयः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याप्रत्ययान्तत्वात् , प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् प्रत्ययलक्षणमाधिस्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति न सिम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चि. तत्वाच्चेत्यत आह-पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-पत्रेति । पूर्वो भागः पदमित्युपलक्षणम् । उत्तरभागस्तु प्रत्ययो नेत्यपि दृष्टव्यम् । अन्यथा जन्मवानित्या. दौ प्रातिपदिकत्वं न स्यात् , स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धिते तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं सम्भवतीति वाच्यम् , दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम् , भत्वेन तद्वाधात् । पूर्वी भागः पदमित्यनुक्तो बहुपटव इत्यत्र पादिपदिकसंज्ञा न स्यात् । ईषदसमासावित्यनुवृसौ 'विभाषा सुपो बहुच्पुरस्तात्तु' इति सूत्रेण पटव इति प्रथ. माबहुवचनान्तात् पूर्वतः बहुच्प्रत्यये कृते अर्थवदिति प्रातिपदिकत्वात् तस्वयवजसो लुकि 'चितः सप्रकृतेर्बहकजर्थम्' इति टकारादुकारस्य उदासत्वे चित्स्वरे कृते पुनजेसि बहुपटव इति रूपम् । अत्र टकारादकार उदात्त इतिस्थितिः । जसन्तात् पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वाभावे तु ततो जसन्तरं नोत्प. येत । नचेष्टापत्तिः, तथा सति बहुप्रकृतिभूतजसन्ते जसःप्रातिपदिकावयवत्वाभाचेन 'सुपो धातुप्रातिपदिकयोः' इति लुगभावाद्वहुपटव इति जसन्तस्यैव बहुप्रकृति. तया वितस्सप्रकृतेविधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादु. त्तरस्य । बहुपटव इतिसमुदायस्य प्रातिपदिकत्वे तु प्रातिपदिकावयवत्वात् जसोलुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह-तेनेति । उक्तनियमेनेत्यर्थः । अन्यथा 'देवदत्त गामभ्याज शुक्लां दण्डेन' इत्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तो सुकलुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम् ,
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बाल
बालमनोरमासहिता।
-
पञ्चमपरिसमाप्रधिकारोऽयम् । (११) परध।१॥२॥ अयमपि तथा। (१२) ड्याप्रातिपदिकात् ४११॥ उपन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः। 'प्रातिपदिकाहणे लिविशिष्टस्यापि प्रहणम्। (प ७२) इत्येव सिद्ध व्यान्प्रहणं छ्याबन्तात्तद्धितोत्पत्तियथा स्यान्व्याम्भ्यो प्राङ् माभूदित्येवम. प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारः अनुक्तसमुच्चयार्थः । तेन 'निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या' इति वार्तिकंगतार्थम् । - प्रत्ययः ॥ तृतीयाध्यायस्यादिम सूत्रमिदम् । इत ऊर्ध्वमापञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः । हनश्च वधः, ई व खना, नडादीनां कुक्च, इत्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात् ॥ परश्च । तृतीयाध्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति ॥ अयमपि योगः आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः । अवधिनियमे तु व्याख्यानमेव शरणम् ॥ ड्या प्रातिपदिकात् ॥ चतुर्थाध्यायस्यादिम सूत्रमिदम् । की च, आप च, प्रातिपदिकं घेति समाहारद्वन्धः। डी इति, डीपीडीनां सामान्येन ग्रहणम् । आबिति टापडापचापां ग्रहणम्। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह-यन्सादित्यादिना ॥ आ पञ्चमेत्यवधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूश्यताम् । ख्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया अप्रत्ययान्तात् श्वभूशब्दादिव दण्डिनी अजा खट्वा इत्यादिभ्योऽपि च्यावन्तेभ्यः सुवादिप्रत्ययसम्भवा. दित्यत आह-प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति ।। स्त्रीलिङ्गयोधकडीवादिप्रत्ययवि. शिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम्। व्यावन्तादेव तद्धितः प्राप्तुं योग्यः । स च ड्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेचं दर्शयति-झ्याब्भ्यां प्राङ मा. भूदिति । ततश्च लोहिनिका आर्यका च सिध्यति । तथाहि-लोहितशब्दस्तावत् 'वर्णानां तणतिनितान्तानाम्' इति फिटसूत्रेणादात्तः । ततश्च ओकारः उदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति परिशिष्टौ इकाराकारावनुदात्तौ । तथाच 'वर्णादनुदा. तात्तोपधात्तो नः' इति मणौ विद्यमानाललोहितशब्दात् स्त्रीत्वविवक्षायां डीप, तत्स. नियोगेन तकारस्य नकारादेशश्च प्राप्तः । 'लोहितान्मणौ' इति स्वार्थिकः कन्नपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्गः परश्च कन् नत्वसन्नियोगशिष्ट डीपं बाधित्वा प्रव. तेत । ततश्च डीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दात् 'अजायतः' इति टापि प्रत्ययस्थादित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लेहिनिकेति । इष्यते तु रूपद्वयमपि । ड्याप्प्रातिपदिकादित्यत्र ङीब्ग्रहणे तु तत्सामात् अन्तरङ्ग परमपि कनं बाधित्वा नत्वसनियोगशिष्टे डोपि कृते, लोहिनीशब्दात
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
सिद्धान्तकौमुदी
र्थम् । (१८३) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्य स्ङसोसाम्ङ्योस्सुप् ४|१|२|| यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटरपाश्चेतः । (१८४) विभक्तिश्च १४
[ अजन्तपुंलिङ्ग
कनि, 'के' इति हस्बे, लोहिनिकेति रूपम्। वर्णादनुदात्तादित्यस्य वैकल्पिकतया नवसन्नियोगशिष्टडीबभावे तु लोहिताशब्दात् कनि, हस्वे, पुनः कान्तात् टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात् स्वार्थिके कनि, समुदायोत्तरापैव स्त्रीत्वबोधनसम्भवादे का जिद्वर्वचनन्यायेन कन्नन्तादेव टापि, कनः पूर्व टाभावात्, आत्स्थानिकस्य अतोऽभावात् उदीचामातस्थाने इति इत्वविकल्प. स्याप्रवृत्तौ प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्यात् । इष्यते तूभयमपि । ख्याप्रातिपदिकादित्यत्र आब्ग्रहणे तु तत्सामर्थ्यात् स्वार्थिकं कर्न बाधित्वा टापि, ततः कनि, केऽण इति ह्रस्वे, पुनः कन्नन्ताट्टापि, उदीचामातस्स्थाने sarrafoकल्पे रूपgi सिध्यति ।
वस्तुतस्तु यापोर्ग्रहणं मास्तु सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ज्यापौ प्रवर्तते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि । स्वार्थः प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्। ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वात् लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिकुमेतत् ।
>
स्वौजसमौट् । सु-औ- जस्, अम्-औ-शस्, टाभ्यां भिस्' के भ्यां भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस् आम्, डि-ओस् सुप् इत्येकविंशतिः स्वादयः । समाहारद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा, तथा सति सौत्रमेकवचनम् । व्याप्प्रातिपदिकादित्यधिकृत, प्रत्ययः, परश्चेति च । यथायथं च विपरिणम्यते । तदाह - ङयन्तादित्यादिना । सुङस्योरिति । सु-इसि इत्यनयोरुकारेकारौ, जस्-शम्-इत्यनयोर्जकारशकारौ औ-टा इत्यनयोष्टकारः, डे - ङसि - डस् -डि- इत्येतेषां ङकारः, सुप् इत्यस्य पकारः, इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः । 'उपदेशेऽजनुनासिक इत्, 'चुटू' 'लश'क्तद्धिते, हलन्त्यम्' इति सूत्रैरिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते । अथ 'न विभक्तौ तुस्माः" इत्याद्युपयोगिनों विभक्तिसंज्ञामाहविभक्तिश्च । सुप इति पूर्वसूत्रात् सुब्ग्रहणम्, तिङस्त्रीणीत्यतस्तिङ्ग्रहणं चानुवर्तते,
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१२१
।१०४॥ सुप्तिगै विभक्तिसंज्ञौ स्तः। तत्र 'सु' औ' जस्' इत्यादीनां सप्तानो त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचा सज्ञाः । ताभिरिहापि व्यवहारः। (१८५) सुपः श४।१०३॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचन द्विवचनबहुवचनसंज्ञानि स्युः । (१८६) द्व्येकयोर्द्विवचनैकवचने १।४।२२॥ द्वित्वैकत्वयोरेते स्तः । (१८७) बहुषु बहुवचनम् १।४।२१॥ बहुत्वे एतत्स्यात् । रुत्वविसौं । रामः। एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह-सुप्तिकाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा रामेभ्यः भवामः इत्यादौ विभक्तिसंज्ञाविरहेण न विभक्ताविति निषेधो न स्यात्। ननु प्रातिपदिका. थैलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्र. दाने, अपादाने पञ्चमी, षष्ठी शेषे, सप्तम्यधिकरणे च इत्यादौ कथं प्रथमादिव्यवहारः, सूत्रकृता पाणिनिना प्रथमादिसंडानामनुक्तत्वादित्यत आह-तति । तेषु स्वादिप्र. त्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना अम्-औट-शस्-इत्यादीनां ग्रहणम्। प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । कि तत इत्यत आह-ताभिरिति । ताभिः प्रथमादिसंज्ञाभिः इहापि पाणिनीयशास्त्रेऽपि व्यवहारः सम्भवतीत्यर्थः । सुपः । सुप् प्रत्यहारः । षष्ठये. कवचनम् । 'तान्येकवचनद्विवचनबहुवचनान्येकशः' इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति एकैकमित्यर्थः। 'सङ्ख्येकवचनाच्च वीप्सायाम्' इति शस् । शसैव वीप्साया अभिधानात् 'नित्यवीप्सयोः' इति द्वित्वंन । तच्च सङ्ख्यैकवचनाच्चेति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते । तिइस्त्रीणि त्रीणी त्यतः त्रीणि त्रीणीत्यनुवर्तते । तदाह-सुपस्त्रीणीत्यादिना। द्वयेकयोः। द्वयेकयोरिति भावप्रधानो निर्देशः। अन्यथा दयेकेष्विति स्यादित्यभिप्रेत्य व्याचष्टे-द्वित्वैकत्वयोरिति । बहुषु । पूर्वसुत्रावैरूप्याय इहापि बहु. शब्दो बहुत्वपर इत्याह-बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वात् बहुष्विति बहुवचनं कथमिति शक्यम् , बहुत्वसङ्ख्याधारद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः। बहुत्वं च त्रित्वचतुष्ट्वादिपरार्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमे 'बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्। इति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ। एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दात् न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठवलेन सङ्ख्यानियतल्यैव तथाविधबहुत्वख्यात्र विवक्षितत्वम् । एकस्यामेव स्त्रयादिव्यक्ता दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्वहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुस्वविसर्गाविति । रामशब्दात् प्रथमाविभक्तौ एकव
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
सिद्धान्तकौमुदी
(१८) सरूपाणामेकशेष एकविभक्तौ १|२| ६४ ॥ एकविभक्तौ यानि सरूपा
1
चने सुप्रत्यये सति, उकारस्य इत्वेन लोपे, ससजुषोरिति रुत्वे, खरवसानयोरिति विसर्ग इत्यर्थः । सु इत्युकारस्तु अर्वण सावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्तत्वात् तदन्तस्य परत्वाभावात् रेफस्य पदान्तत्वाभावात् कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शक्यम्, 'इदुदुपधस्य चाप्रत्ययस्य' इति अप्रत्ययग्रहणेन स्थानिवत्वातिदेशे शेरसिद्धत्वाभावज्ञापनात् । तत्र ह्यप्रत्ययग्रहणम् अग्नि-करोति, कविभि-कृत'मित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाभावात् तद्वैयथ्यं स्पष्टमेवेत्यलम् । राम इति ।
'रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।” इति रामपदेनासौ परं ब्रह्माभिधीयते । इति श्रुतिः ।
[ अजन्तपुल्लिङ्ग
'करणाधिकरणयोश्च' इत्यधिकारे 'हलश्च' इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।
अथ प्रातिपदिकार्थतद्वित्वादिविवक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते - सरूपाणाम् | एकविभक्ताविति सरूपाणामित्यत्रान्वेति । समानं-रूपं येषां तामि सरूपाणि । ज्योतिर्जन पदेत्यादिना समानस्य सभावः । निर्धारण षष्ठी । वृद्धो यूनेत्युत्तरसूत्रादेवेत्यपकृष्यते । शिष्यत इति शेषः । कर्मणि घञ् । एकश्वासौ शेषश्चेति पूर्वकालैकेति समासः । एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यत इति फलति । तदाह - एकविभक्तावित्यादिना । एवेति किम् । मातृशब्दस्तावज्जननीवाची, परिच्छेवाची च । तत्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति । तथापि एकस्यामपि विभक्तौ परतः विरूपाणि न दृष्टानीत्यर्थो विवक्षितः । एतद्द्योतनायैव एक विभक्तावित्यत्र एकग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरम् एकग्रहणं स्पष्टार्थमेवेति केचित् । एकशेष इत्येकपदोपादानं तु द्विबहुनामपि शेषो मा भूदित्येतदर्थम् । शेषपदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात् । ततश्च अम्बश्च अश्वश्चेति द्वयुदात्तवतः स्थाने द्वयुदात्तवानादेशः स्यात् । तन्निवृत्त्यर्थं शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु विभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम् जननीपरिच्छेत्तवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम् । अत्र 'तिष्यपुनर्वस्वोर्नक्षत्र हुन्द्रे' इति पूर्वसूत्रात् इन्द्र इत्यनुवृत्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च देवदेवः राजराज
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता |
ण्येव दृष्टानि तेषामेक एव शिष्यते । 'प्रथमयोः पूर्वसवर्णः' (सू० १६४)। 'नादिजि’ ( सू १६५) 'वृद्धिरेचि' ( सू० ७२) । रामौ । (१८६) चु १।३।७ प्रत्यया चुद्ध इतौ स्तः । इति जस्येत्संज्ञायाम् । (१६०) न विभक्तौ तुस्माः १|३|४|| विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्रत्वम् । (१४१) मतो गुणे ६।१।९७॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । 'भतो गुणे' इति हि 'पुरस्ताद
I
1
१२३
I
1
इत्यादौ नैकशेषः । द्वन्द्वापवाद एकशेष इति फलितम् । यद्यप्यनैमित्तिकत्वादन्तरङ्गोsuमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते । तथापि द्वन्द्वापवाद एवायम् । असति ह्येकशेषे सुनुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात् । सति तु अनेक सुबन्तविरहात् द्वन्द्वस्याप्राप्तिः फलित्ता । घटश्च घटकच तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः । अनभिधानात् । द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । पन्थान इत्यादौ ऋक्पूरित्यादिसमासान्तापतेः । करावित्यादौ 'द्वन्द्वश्च प्राणितूर्य' इत्याद्यापत्तेः । पूर्वसूत्रादिह इन्द्रग्रहणानुवृत्तौ 'इदितो नुम् धातो:' इत्यत्र इदित इति निर्देशो लिङ्गम् । इत् -इकारः इत्संज्ञको यस्य सः इदित्, अत्र इच्छन्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाभावान्नैकशेषः । अन्यथा तत्राप्येकशेषः स्यादित्यलम् |
For Private and Personal Use Only
राम भौ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना । वृद्धि बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति । तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः । देवदत्तहन्तृहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रपचितम् । राम जस् इति स्थिते । चुटू । 'उपदेशेऽजनुनासिक इत्' इत्यतः इदित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिजिटुडवः' इत्यत आदिग्रहणमनुवर्त्य द्विवचनान्ततया विपरिणम्यते । षः प्रत्ययस्येत्यनुवर्तते । तदाह-प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां 'तस्य लोपः' इति लोपः । जकारस्तु जसरशीत्याat air निवृत्त्यर्थः । अथ जसः सकारस्य हलन्त्यमितोत्संज्ञायां लोपमा शङ्ख्याहन विभक्तौ तु स् म एतेषां द्वन्द्वः । इत् इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तदाह - विभक्तिस्था इत्यादिना । अथ राम अस् इति स्थिते अकस्सवर्णे दीर्घ इति सवर्णदीर्घस्यापवादं पररूपमाशङ्कितुमाह- अतो गुणे । एडि पररूपमित्यतः पररूपमि - त्यनुवर्तते । उयपदान्तादित्यतः अपदान्तादित्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । अत इति पञ्चमी । तदाह- अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादू 'अकल्सव दीर्घः' इति कुतो न स्यादिति वाच्यम्, 'अकस्सवर्ण दीर्घ' इति प्राप्त एवारम्यमाणपररूपस्य तदपवादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति ।
1
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२४
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
t
पवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' ( प ६० ) इति न्यायेन 'अकः सवर्णे दीर्घः' (सू ८५) इस्यैवापवादः । न तु 'प्रथमयोः -' ( सू १६४ ) इत्यस्यापि । रामाः । (१६२) एकवचनं सम्बुद्धिः २ ३|४६ सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् । (१४३) एडूहस्वात्सम्बुद्धेः ६ १६६ ॥ एकताद्धखान्ताच्चानाद्वल्लुप्यते सम्बुद्धेश्चेत् । सम्बुद्धयाक्षिप्तस्याङ्गस्यैच्हस्वाभ्यां विशेषणान्नेह | हे कतरत् कुलेति । हे राम । हे रामौ । हे रामाः । 'ए' ग्रहणं किम् । 'अतो गुणे' इत्यपेक्षया 'प्रथमयोः पूर्वसवर्णः' इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदम् अपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आहतो गुण इतीत्यादि । अनन्तरान् अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । अतो गुण इत्युत्तरं अव्यक्तानुकरणस्येत्यादि पठित्वा, अकस्सवर्णे दीर्घः, प्रथमयोः पूर्वसवर्णः, इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्वयवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादौ अप्राप्तेऽपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् ।
#
रुत्वविसर्गे सिद्धवत्कृत्याह- -रामा इति । हे राम स् इति स्थिते, 'एड्हस्वात्सम्बुद्धेः' इति विधास्यन् सम्बुद्धिसंज्ञामाह – एकवचनम् । प्रातिपदिकार्यलिङ्गत्यतः प्रथमेत्यनुवृत्तं षष्ट्या विपरिणम्यते । सम्बोधने चेत्यतः सम्बोधन इत्यनुवर्तते । तदाह - सम्बोधन इत्यादिना । सुः सम्बुद्धिरित्येव सुचचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शक्यम् । 'ह स्वस्य गुणः' इति सम्बुद्धौ परतोऽङ्गस्य गुणविधिबलात् संज्ञाविधौ प्रत्ययग्रहणें तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञा निवृत्यर्थमेकवचनग्रहणमित्यपास्तम् । एड्ह्रस्वात् । एड्हस्वादित्यङ्गविशेषणम् । तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते । तच्चाङ्गादित्यत्रान्वेति अङ्गात् परं हलिति । लोपो व्योरित्यतो लोप इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यत इति लोपः । कर्मणि घञ् । सम्बुद्धेरित्यवयवषष्ठी हलित्यत्रान्वेति । ततश्च एङन्तादूधस्वान्ताच्चाङ्गात् परं यत् हल् सम्बुद्धयवयवभूतं तल्लुप्यते इति फलति । तदाह - एङन्तादित्यादिना | ननु एड्हस्वादित्यस्याङ्गाधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एडो हस्वाच्च परं सम्बुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह - सम्बुद्ध्याक्षिप्तस्येत्यादि । सम्बुद्धेः प्रत्ययत्वात् तत्प्रकृतेरङ्गत्वमर्थारलब्धम् । तस्य च एडा स्वेन च विशेषितत्वात् तदन्तविधौ एडन्तादूधस्वान्ताच्चाङ्गात् परं हल्लुप्यत इत्यर्थलाभात् इह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरव । कुलेतीति । कतरशब्दस्य
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
१२५
-
हे हरे । हे विष्णो। अत्र हि परत्वानित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति । (१६४) अमि पूर्वः ६१।१०॥ अकोऽभ्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ। (१९५) लशक्कतद्धिते ॥३॥ तद्धितवर्जनपुंसकत्वस्फोरणाय कुलशब्दः कतरशब्दानपुंसकलिङ्गात् संबुद्धिः सुः । 'अदुड्डतरादिभ्यः पञ्चभ्यः' इति तस्य अद् आदेशः । डकार इत् । डित्त्वसामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः 'वाऽवसाने' इति चवंम् । कतरत् इति। यदि एकूहस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात् , तदा कतरदित्यत्र तकारस्य हलो हस्वादका. रात्परत्वात् सम्बुद्ध्यवयत्वाच्च लोपः प्रसज्येत । अस्य विशेष्यत्वे तु न दोषः । अन्न हि टिलोमनन्तरं कतर् इति रेफान्तमङ्गम् । तत्तु न हस्वान्तम् । यत्तु हस्वान्तं तनाङ्गम् । रेफादकारस्य सुस्थानिकाडादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्पहणानुवृत्तिव्या। एङन्तात् हस्वान्ताच्चाङ्गात् परस्य संबुद्धेलोपः स्यादित्येव व्याख्यायताम् । अस्तु वा हलनुवृत्तिः । तथापि एङन्ताद्ध. स्वान्ताच्चाङ्गात् परा या सम्बुद्धिः तदवयवो हल्लुप्यते इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानेति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दप्र. क्रियावसरे मूल एव स्पष्टीभविष्यति । हे हरे, हे विष्णो इति। हरिशब्दाद्विष्णुशब्दाच्च सम्बुद्धिः सुः। हस्वस्य गुण इति गुणः । हे हरे स् , हे विष्णो स्, इति स्थिते, हस्वात् परत्वाभावात् सुलोपो न स्यात् । अत एग्रहणमित्यर्थः । ननु गुणात्पूर्व हे हरि स् , हे विष्णु स् , इत्यस्यामेव दशायां हस्वात्परत्वादेव सुलोपसम्भवात् एङ्ग्रहणं व्यर्थ. मित्यत आह-अत्रेति । सम्बुद्धिलोपापेक्षया अयं गुणः परः, नित्यश्च अकृतेऽपि सम्बु. द्धिलोपे तत्प्रवृत्तः, कृतेऽपि सम्बुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तः, अतः सम्बुदिलोपात्प्रागेव हस्वस्य गुणे कृते सति हस्वात्परत्वाभावात् सोर्लोपो न स्यात् । अतः एङ्ग्रहणमित्यर्थः॥ ___ अथ द्वितीया विभक्तिः । राम अम् इति स्थिते, न विभक्तौ तुस्मा इति मकारस्य नेत्त्वम् । अकः सवर्ण इति दीर्घ बाधित्वा अतो गुण इति पररूपं प्राप्तम् तदाधित्वा प्रथमयोरिति पूर्वसवर्णदीघे प्राप्ते। अमि पूर्वः । अकः सवर्णे दीर्घ इत्यतः अक इति पञ्चम्यन्तमनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । इको यणचीत्यतः अचीत्यनुवर्तते । तदाह- अकोऽम्यचि । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः । राममिति मका. रादकारस्य अमवयवाकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौ अकः अमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्यादिति लभ्येत । तथा सति अमो मकारसहि. तस्य पूर्वरूपं स्यात्। तन्मा भूदित्यजनुवृत्तिः। रामाविति । राम औट् इति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः । औटष्टकारः सुडिति प्रत्याहारार्थः । राम
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
सिद्धान्तकौमुदी
[अनन्तपुंलिङ्ग--
प्रत्ययाया लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा । (१६६) तस्माच्छसो नः पुंसिक्षा१०३॥ कृतपूर्वसवर्णदीर्घात्परो यः शमः सकरस्तस्य न स्यात्पुंसि। (१९७) अटकुप्वाउनुम्व्यवायेऽपि ४२॥ अट् कवर्ग पवर्ग आङ् नुम् शस इति स्थिते, न विभक्तौ तुस्मा इति सकारस्य नेत्त्वम् । तत्र शकारस्य अनन्त्यत्वाखुलन्स्यमित्यप्रासावाह-लशक्वतद्धिते । ल, श, कु इति समाहारद्वन्द्वः । उपदे. शेऽजनुनासिक इत्, आदिजिटुडवः, षः प्रत्ययस्व इत्यतः इदिति, आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठयथें सप्तमी। तद्धितभिन्नस्य प्रत्ययस्य आदि. भूतं लकारशकारकवर्गम् इत्संहं भवतीत्यर्थः । तदाह-तद्धितवर्जेत्यादिना। अतद्धित इति किम् । 'कर्णललाटात्कनलकारे कणिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्वम् । सति तस्मिन् 'किति च' इत्यादिवृद्धिः स्यात् । एतेन प्रयोजनामावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शका. रस्य इत्संज्ञायां तस्य लोप इति लोपः। शकारोच्चारणं तु जसः शी, तस्माच्छसो नः, इत्यादौ विषमविभागार्थम् । राम अस् इति स्थिते, अकः सवर्णे दीर्घ इति बा. धित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीधे, रामास् इति स्थिते । __तस्माच्छसो । 'प्रथमयोः पूर्वसवर्ण' इति पूर्वसूत्रकृतः सन्निहितः पूर्वसवर्णदोघः तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा। परस्येत्यध्याहार्यम् । शस इत्यवयवषष्ठी। स चावयवः परत्वेन विशेष्यते । स चावयवः अर्थात् सकार एव, अ. न्यस्यासम्भवात् । तदाह-कृतपूर्वेत्यादिना । कृतपूर्वेति किम् । दीर्घात् परस्य शसवयवस्येत्युक्तो, एतान् गाः पश्येत्यत्र गोशब्दात् शसः सस्यापि नत्वप्रसङ्गः। अतः कृत. पूर्वसवर्णदीर्घादिति । गा इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्वसवर्ण दीर्घ इति ततः परस्य न नत्वम् । शसः किम् । रामाः। प्रकृते च नत्वे रामान इति रूपम् । अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह-अटकुप्वाङ् । रषाभ्यां नो णः समा. नपदे इति पूर्वसूत्रमनुवर्तते । तत्र न इति षष्टयन्तम् । तेन च सूत्रेण षाभ्यामव्य. वहितपरस्य गत्वं विहितम् । रामेणेत्यादी अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमार. ब्धम् । अट् प्रत्याहारः, कु: कवर्ग:, पुः पवर्गः। अट्च, कुश्व, पुश्च, आङ् च नुम्च तैर्व्यवधानम् , तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं स्यादित्यर्थः । अत्र अडा. दिमिः समस्तैर्व्यवधानं रामेणेत्यादिलक्ष्ये काप्यसम्भावितम् । एकैकव्यवायेऽपीति व्याख्याने तु रामेणेत्यादावव्याप्तिः। यथासम्भवं मिलितैय॑वायेऽपीति व्याख्याने तु, नराणामित्यादावेकमात्रव्यवधाने णत्वं न स्यात्। अतः अडादिभिव्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंच शुभ्नादिषु चेति गत्वनिषेधसूत्रे क्षुम्नशब्दपाठोऽर्थवान् । सरूपाणामित्यादिनिर्देशाब उपपन्ना भवन्ति । तदाह-पटकव
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
AAAAAA
एतैयस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे। 'पदव्यवायेऽपि' (सू १०५५) इति निषेधं बाधितुमाप्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाकर्तुं शक्यम् । अयोगवाहानामसूपदेशस्योकत्वात् । इति णत्वे प्राप्ते । (१४८) पदान्तस्य मा४॥३७॥ पदान्तस्य नस्य गत्वं न स्यात् । रामान् । (१६) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १२४ ॥१३॥ यः प्रत्ययो यस्मारिक्रयते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परे संज्ञ गेंत्यादिना । विवरणावसरे अट् कवर्ग इत्यायविभक्तिकनिटेंशाश्च च दृष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् ॥ समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । मातृभोगीण इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । आला व्यवाये पर्याणद्धमित्युदाहरणम् । इह आग्रहणाभावे तु उपसर्गादसमासेऽपीत्वन तदननुवृत्या णत्वं न स्यात् । नन्वव्यवाय इत्येवात्र णत्वं भविष्यति । किमामहणेनेत्यत आह-पदव्यवायेऽपीति । ननु 'इवि प्रीणने ल्युट् , अनादेशः, हदित्वान्नुम् । प्रेन्धनम् । अत्र कुमति चेति नुमा व्यवधानेऽपि णत्वं स्यात् । किंच 'हि वृद्धौ ल्युट, इदित्वान्नुम् , नश्चापदान्तस्येत्यनुस्वारः। हणम् । 'हू हिंसायाम्' ल्युट् । स्वाभाविकोऽयमनुस्वारः, तहणम् । इहोभयत्रापि णत्वं न स्यात् । अनुस्वारस्य अडायनन्तर्भावात् । अत आह-तुम्ग्रहणमिति । नुम्प्रह. णेन अनुस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुम्ग्रहणं प्रत्याख्येयमि. त्याह-तच्चेति । नन नुम्ग्रहणामावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आहअयोगवाहानामिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः, अनुपदिष्टाः उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः अनुस्वारविसर्गादयः । भट्सु उपदेशस्य पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतत् हयवरदसत्रभाष्यवर्तिकयो। उक्तंचात्रैव सूत्रे भाष्ये-'नार्थो नुम्ग्रहणेन । अनुस्वारे कृते अवयवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्व इति । शसवयवस्य नकारस्य णकारे प्राप्त इत्यर्थः । पदान्तस्य । रषाभ्यां नो ण इत्यनुवर्तते । न माभूपू हत्यतो नेति च। तदाह-पदान्तस्य नस्येत्यादिना ।
अथ तृतीयाविभक्तिः । तत्र टा हति टकारस्य चुटू इतीत्संज्ञायां लोपः । टकारोच्चा. रणं तु दाङसिङसां द्वितीयाटौस्त्वित्यादौ विशेषणार्थम् । राम आ इति स्थिते अङ्ग कार्य विधास्यन्नङ्गसंज्ञामाह-यस्मात्प्रत्ययविधिः । यस्मादिति प्रकृतिभूतादित्यर्थः । या प्रत्यय इति । यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः। स च यस्माद्यस्य प्रत्ययल्य विधिः तस्मिन्प्रत्यये तदादेरणसंज्ञेत्यर्थलाभाय । तत् प्रकृतिरूपम् आदिर्यस्य तत् तदादि। नपुंसकवशाच्छन्दरूपमित्यध्याहार्यम् । तदाह-तदादि शब्दस्वरूप
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
स्यात् । 'भवामि 'भविष्यामि' इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थ तदादिग्रहणम् । विधिः' इति किम् । स्त्री इयती। 'प्रत्यये किम् । प्रत्यय विशिष्टस्य ततोऽप्यधिमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यपदेशिवद्भावात् बोध्यम् । ननु यस्मात् प्रत्ययविधिस्तदङ्गमित्येवास्तु । किमादिग्रहणेनेत्यत आह- भवामीति । भूधातोर्लट मिप् कर्तरि शबिति विकरणसंज्ञः शप । गुणावादेशौ। अतो दीपों यजीति 'भव' इत्यङ्गस्य दीर्घः । भवामीति रूपम्। तथा भूधातोर्लट् मिप् । 'स्यतासो ललुटो' इति विकरणसंज्ञः स्यः । इट् । गुणावादेशौ । षत्वम् । अतो दी? यनीति भविष्य इत्यङ्गस्य दीर्घः । भविष्यामीति रूपम् । अत्र आदिग्रहणाभावे मिष्प्रत्यये परतो भू इति प्रकृतिमानस्य अङ्गसंज्ञा स्यात् भूशब्दादेव मिप्प्रत्ययविधेः, नतु भव इत्यस्य भविष्य इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्च अतो दीर्घो यजीति मिप्प्रत्यये परतो दी| न स्यात् । अतः आदिग्रहणमित्यर्थः । • विधिरिति किमिति-यस्माद्यः प्रत्ययः परत्वेन श्रूयते तदादि शब्दरूप तस्मिन् प्रत्यये असंज्ञमित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदम्भ्यां वो घ: इति वतुप, वस्य घश्च । तस्य इयादेशः । इदंकिमोः इति इदम ईश् । शिस्वात् सर्वादेशः । ई इयत् इति स्थिते 'यस्येति च इतीकारलोपः । इयत् इति प्रत्ययमात्रमवशिष्यते। उगितश्चेति डीपि इयतीति रूपम् । अत्र विधिग्रहणाभावे स्त्री इयतीत्यत्र रेफादीकारस्य स्त्रियाः इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य भूयमाणत्वात्। नच यस्येति लोपस्याभीयत्वेनासिद्धत्वादजादिप्रत्ययपरकत्वाभावानात्र इयङः प्रासिरिति वाच्यम् , अन्यूनानतिरिक्तसमानाश्रये कार्य कर्तव्य एव आभीयासिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया स्त्रिया इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङन्न न भवति, वतुप इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाभावात् । नच यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्कयः, पदान्तविधौ तनिषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तः । प्रत्यये किमिति । यस्मात् प्रत्ययविधिस्तदाद्यङ्गमित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात् प्रत्ययविशिष्ट वा ततोऽप्यधिक वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात् प्रत्ययावध्येवाइत्वं भविष्यतीति वाच्यम्, यस्मात् प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात्। ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वधश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वालाभादचः परस्मिन्निति स्थानिवत्वा.
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ८ ]
१२६
कस्य वा मा भूत् । ( २०० ) अङ्गस्य ६|४|१ ॥ इत्यधिकृत्य (२०१) टाङसिङसामिनात्स्याः ७|१|१२ अकारान्तादशाहादीनां क्रमादिनादय आदेश : । णत्वम् । रामेण । ( २०२ ) सुपि च ७/३ | १०२ ॥ यजादी सुपि परे अतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् । ( २०३) अतो मिल ऐस् ७|१|| || अकारान्तादाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामः । (२०४ ) ङर्यः, ७|१|१३॥ अतोऽङ्गारपरस्य 'के' इत्यस्य यादेशः स्यात् । रामाय । इह स्था
प्रवृत्या 'न सम्प्रसारणे' इति सम्प्रसारणनिषेधो न स्यात् । अधिकल्याङ्गत्वे च देवदत्त ओदनमपाक्षीदित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाभावेन लुडादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् । प्रत्यये इत्युक्तौ तु न कोऽपि दोष इत्यलम् ।
:--यञादा
टाङसिङसाम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् । 'अतो भिस' इत्यस्मात् अत इति पञ्चम्यन्तमनुवृत्तम् अङ्गस्य विशेषणम् । तदन्तविधिः । तदाह - प्रकारान्तादङ्गादिति । परेषामिति शेषः । क्रमादिति यथासङ्ख्य सूत्रलब्धम् । टादीनामिति । टाबसि - सामित्यर्थः । इनादय इति । इन-आव-स्य एते इत्यर्थः राम- इन इति स्थिते आद्गुणः । णत्वमिति । अकुप्वाङिति नकारस्य णकार इत्यर्थः । राम-भ्याम् इति स्थिते न विभक्ताविति मस्य नेत्वम् । सुपि च । अतो दीर्घो यमीत्यनुवर्तते । यमीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिरित्याहविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । राम- भिस् इति स्थिते, न विभक्ताविति सख्य नेत्त्वम् । अतो भिस ऐस् । अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिम्यते । अत इति तस्य विशेषणम् । विशेषणत्वात्तदन्तविधिः । तदाह - अकारान्ता • दिति । रुत्वविसर्गौ सिद्धवत्कृत्याह - रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्खयम्, एकारोच्चारणसामर्थ्यादेव तदसम्भवात् अन्यथा इदमेव विदध्यात्। तथापि एदैतोद्विमात्रत्वाविशेषात् प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्कयाह - भनेकाल्त्वादिति ।
श्रथ चतुर्थीविभक्तिः । तत्र के इति ङकारस्य लशक्वेतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्डितीत्याद्यर्थम् । राम-ए इति स्थिते । ङेयः । डेरित्येकारान्तात् षष्ठ्येकवचनम्, नतु ङि इति सप्तम्येकवचनात्, व्याख्यानात् । अतो भिस इत्यतः अत इति पञ्चम्यन्तमनुवर्तते । तेन च अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । सदाह -- अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । सुपि चेति दीर्घं मत्वा आह-रामायेति । मनु यादेशस्य सुप्त्वाभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह-- इहेति । ६ बा०
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिश
निवद्भावेन यादेशस्य सुप्त्वात् 'सुपि च (सू २०२) इति दीघः । 'सन्निपातल. क्षणो विधिरनिमित्तं तद्विघातस्य' (प ८६) इति परिभाषा तु नेह प्रवर्तते । 'कष्टा. यक्रमणे ( सु २६७० ) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् । (२०५) बहुवचने झल्येत् ७।३।१०३॥ झलादौ बहुवचने सुपि परे अतोऽग. स्यैकारः स्यात् । रामेभ्यः । 'बहुवचने किम् । रामः । रामस्य । 'झलि' किम् ।
नन्वत्र दी? यज्ञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते। सच यजेशे अलाश्रयः तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः ? अनल्विधाविति तन्निषेधादिति चेत्, सत्यम्-इह दीर्घस्य यज्ञादिसुबाश्रयतया आदेशगतयकाररूपाला. श्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्रावे सुप्त्वं भवत्येव, दीर्घस्य आदेश. गतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । 'अकृत्सार्वधातुकयोदीर्घ इति तु परमप्यत्र नोपन्यस्तम्, अकृत्सार्वधातुकयोरिति पर्युदासबलेन तस्य असुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्यस्ति परिभाषा । सन्निपातः संश्लेषः लक्षणं निमित्तं यस्य सः सन्निपातलक्षणः । विधिः कार्यम् । तद्विघातस्य तं सन्निपातं विहन्तीति तद्विघातः। 'कर्मण्यण' इति कर्मण्युपपदे कर्तर्यण । 'हनस्तोऽचिण्णलो-रिति तकारः । 'हो हन्ते रिति कुत्वम् । सन्निपा. तविघातकस्य न निमित्तमित्यर्थः। उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते च अदन्तसम्बन्धमाश्रित्य प्रवृत्तो यादेशः अदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्कय परिहरति-सन्निपातलक्षण इत्यादिना। तृतीया. द्विवचनात् दीर्घ सिद्धवत्कृत्याह-रामाभ्यामिति । भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दोघे प्राप्ते । बहुवचने झल्येत् । अतो दो? यजीत्यतः सुपि चेत्य. तश्च अत इति सुपीति चानुवर्तते । अलीत्यनेन सुपोति विशेष्यते । यस्मिन् विधिरिति तदादिविधिः तदाह-झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः। एत्वे सति रुत्वविस! सिद्धवत्कृत्याह-रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्छ चोपसङ्ख्यातत्वेन विसर्गस्य झल्त्वात् स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तम् , रुत्वविसर्गयोरसिद्धत्वेऽपि राम म इति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ट्येकवचनस्य डसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात् स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुनचनग्रहणमित्यर्थः । सन्निपातपरिभाषा तु सर्वेषामिति निर्दे. शादेत्वविधौ न प्रवर्तत इत्याहुः। झलि किमिति । 'उतो वृद्धिलुकि हलि' इत्यतो हलीत्यनुवयं हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातुं शक्यते । तावतैव रामा
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१३१
रामाणाम् । 'सुपि? किम् । पचवम् । जश्त्वम् । (२०६)वाऽवसाने मा४५६॥ अवसाने झलो चरो वा स्युः। रामात्-रामाद् । द्विस्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे 'खरि च' (सू १२१ ) इति चत्वेऽप्यान्तरतम्यात्स एव, न तु तकारः। अल्पप्राणतया प्रयत्नभेदात् । अत एव 'सः सि-' इत्याधजानिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति । हलादौ बहुवचने सुपि एत्वमित्युक्तौ रामाणामित्यत्रा येत्वं स्यात् । तन्निवृत्त्यर्थे झल्ग्रहणमित्यर्थः। यद्यप्यत्र सन्निपातपरिभाषया हस्वान्ताङ्गसन्निपातमुपजोव्य प्रवृत्तस्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वासम्भवादेव एत्वं न भविष्यति । तथापि झल्ग्रहणमेत्वे सन्निपातपरि. भाषाया अप्रवृत्तिज्ञापनार्थम् । तेन 'हलि सर्वेषाम्' इति निटेंशात् सर्वशब्दे एत्वसिद्धावपि विश्वेषामित्यादावयेत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाभावान्न तस्मिन् परत एत्वमित्यर्थः । नच 'बहुवचने अलीक्' इत्येवास्तु । कित्त्वादन्तावयवे आइगुणे व रामेभ्य इत्यादिसिद्धरिति वाच्यम् , एवं सति ओसि चेत्युत्तरसूत्रेऽपि इगागमविधा ज्ञानयोरित्यत्र इकोऽचि विभक्ताविति नुमापत्तेः।। ___ अथ पञ्चमीविभक्तिः । तत्र 'उपदेशेऽजनुनासिक इत्' इति डसेः इकार इत् । तस्य लोपः। डकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु 'सिड्योः' 'डिति' इत्याद्यर्थम् । 'टाङसिङसाम्' इति आत् सवर्णदीर्घः। जश्त्वमिति । 'झला जशोऽन्ते' इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चर्वविकल्प आरभ्यत इत्यर्थः । वाऽवसाने । 'झलां जश्शशि' इत्यतो झलामिति 'अभ्यासे चर्च इत्यतश्चरिति चानुवतते । तदाह-अवसान इत्यादिना । द्विस्वे रूमेति । तकारदकारयोरनचि चेति द्वित्वे तद्भावे च रूपचतुष्टयमित्यर्थः । तत्र चर्वपक्षे द्वितकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्यः इति । चतुर्थीवत् प्रक्रिया सुगमेति भावः । __ अथ षष्ठीविभक्तिः । उसो डकारस्य लशक्वतद्धित इति इत्त्वं, लोपः । डकारोच्चा. रणं तु डिति हस्वश्चेत्याद्यर्थम् । टाङसिङसामिति स्यादेशं सिद्धवत्कृत्याह-रामस्ये. ति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्य खरि चेति चत्वेन दन्तस्थानतोऽन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह-सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः । एवकारव्यावर्त्यमाह-नतु तकार इति । ननु दन्तस्थानतः श्वासाघोषविवारात्मकबाह्यप्रयत्नतश्चान्तये तकारेऽप्यविशिष्टमित्यत आह-अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्यप्रयत्नभेदात् तकारो न भवति । इदमुपलक्षणम् । आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो न भवतीति द्रष्ट. व्यम् । अत एवेति । 'वस निवासे इत्यादिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते । यदि तु तत्र खरि चेति सकारस्य तकारः स्यातहि तद्विधानमन.
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
सिद्धान्तकौमुदी
[अजन्तपुंलि:
(सू २३४२ ) इति तादेश आरभ्यते । (२०७) ओसि च ३३१०४॥ ओसि परे अतोऽङ्गस्यैकारः स्यात् । रामयोः । (२०८) हस्वनद्यापो नुट ११५४॥ हस्वान्तानद्यन्तादाबन्ताश्चाङ्गात्परस्यामो नुडागमः स्यात् । (२०४) नामि ६४॥३॥ नामि परेऽजन्तस्यास्य दीर्घः स्यात् । रामाणाम्। 'सुपि च' (सू २०२)
र्थक स्यादित्यर्थः । 'राम ओस' इति स्थिते वृद्धौ प्राप्तायाम् । ओसि च । अतो दी? यमोत्यतोऽत इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । बहुवचने झल्येदित्यत एदित्यनुव. तते । तदाह-ओसि पर इति । अतोऽङ्गस्येति । ।अदन्ताङ्गस्येत्यर्थः । 'राम ओस् इति स्थिते अयादेशं रुत्वविसर्गौ च सिद्धवत्कृत्याह-रामयोरिति । 'राम आम्' इति स्थिते सवर्णदीचे प्राप्ते । ह्रस्वनद्या । हस्वश्च नदो व आप्चेति समाहारद्वन्द्वादिग्योगे पञ्चमी । 'परस्य' इत्यध्याहार्यम् । 'अङ्गस्य इत्यधिकृतं पञ्चम्या विपरिणम्य हृस्वादिभिर्विशेष्यते, अतस्तदन्तविधिः। 'आमि सर्वनाम्नः' इत्यतः 'आमिः इत्यनुवतते । तच्च उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति न्यायात् 'तस्मादित्युत्तरस्या इति षष्ठ्यन्तं सम्पद्यते तदाह--हस्वान्तादित्यादिना । आम् अत्र षष्ठीबहुवचनमेव नतु डेरामित्यादिविहितम् इति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । 'राम-नाम्' इति स्थिते। ____ नामि । 'ठूलोप' इत्यतो दीर्घ इत्यनुवर्तते । दोर्घश्रुत्या च 'अच' इत्युपस्थितम् । तेन चाङ्ग विशेष्यते । अतस्तदन्तविधिः । तदाह-अजन्तस्येति । 'नुटि' इति न सूत्रि. तम् । 'भृन किन्नुट् च' इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे ऋकारस्य दीर्घापत्तेः । अङ्गनां पामनामित्यादौ तु न दीर्घः, अर्थवद्ग्रहणपरिभाषया अर्थवत एव नामो ग्रहणात् पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात् । ननु नामीति सनकारग्रहणं मास्तु 'आमि' इत्येव सून्यताम् । नच राम आम् इत्यस्यां दशायां दीघे सति हस्वान्तत्वाभावात् 'हस्वनद्यापः' इति नुट् न स्यादिति वाच्यम् । 'हस्वान्तान्नुट्' इति वचनसामर्थ्यात् कृतेऽपि दीर्धे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न, सनकारनिर्देशस्य नोपधाया इत्युत्तरार्थत्वात् । यदि हि आमीत्येवोच्येत तर्हि 'नोपधायाः' इत्युत्तरसूत्रेऽपि आमीत्येवानुवर्तेत । ततश्च नान्तस्योपधाया दीर्घः स्यादामीत्येव लभ्येत । एवं सति चर्मणां वर्मणामित्यादावपि दीर्घः स्यात् । अतो नामीति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम् । 'अट्कुप्वाङ्' इति णत्वं सिद्धवत्कृत्याह--रामाणामिति । नन्वत्र परत्वात् 'सुपि च' इति दीर्घ एवोपन्यसनीयः, न तु 'नामि' इति दीर्घः, फलविशेषाभावेऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्तेः 'इको झल्' इति सूत्रे भाष्ये प्रपत्रित
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ 1
बालमनोरमासहिता ।
१३३
1
इति दीर्घे यद्यपि परस्तथापीह न प्रवर्तते, सन्निपातपरिभाषाविरोधात् । 'नामि' इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुप्येत्वे कृते । (२१०) अपदान्तस्य मूर्धन्यः = | ३|५५ ॥ आ पादपरिसमाप्तेरधिकारोऽयम् । (२११) इणको ८ | ३ |५७ ॥ इत्यधिकृत्य । (२१२ ) आदेश प्रत्यययोः ८ | ३३५६॥ तत्त्वात् इति शङ्कते - सुपि चेति दीर्घे यद्यपि पर इति । परिहरति तथापीति । सन्निपातेति । हस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुटः हस्वविघातकं 'सुपि च' इति दीर्घ प्रति निमित्तत्वासम्भवादिति भावः । नन्विह 'नामि' इति दीर्घप्रवृत्तावपि सन्नि पातपरिभाषाविरोधस्तुल्य इत्यत आह-नामीत्यनेन खिति । यद्यत्र नामीति दीर्घा न स्यात्तर्हि तदारम्भो व्यर्थः स्यात् । ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा प्रवर्तते । सुपि चेति दीर्घस्तु रामाभ्यामिस्यादौ सावकाशत्वाद्रामाणमित्यादौ नामि परे सन्निपातपरिभाषां न बाधितुमइति । तस्माद्रामाणामित्यादौ नामि परे दीर्घप्रवृत्तौ सन्निपातपरिभाषां बाधितुं नामोति दीर्घारम्भः । ननु नामीति दीर्घो निरवकाशत्वात्सन्निपातपरिभाषां बाधत इत्युक्तम्, यत्र हस्वान्तसन्निपातमनुपजीव्यैव नुटः प्रवृत्तिस्तत्र सन्निपातपरिभापानुपमर्देनैव नामीति दीर्घप्रवृत्तेः सावकाशत्वात् । यथा - कतीनामित्यत्र । तत्र हि 'चतुर्भ्यः' इति नुट् । षट्संज्ञकेभ्यश्चतुरश्च परस्याऽऽमो नुट् स्यादिति हि तदर्थ इति चेत् एवं हि सति कतेर्नामीत्येव सूत्रयेत । अजन्तस्याङ्गस्य नामि दीर्घ इत्येवंपरं नामीति सामान्यसूत्रं नारभ्येत । उक्तं हि भाष्ये- 'न ह्येकमुदाहरणं योगारम्भ प्रयोजयति' इति । एकस्य शब्दस्य साधनाय सामान्यसूत्रं नारम्भणीयमित्यर्थः । अन्यथा मुद्रादणित्यनुपपत्तेरिति कैयटः । न चैवं सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यम्, 'न तिसृचतसृ' इति नामि दीर्घनिषेधाकरणेन लाघवात् । एवं चकतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामर्थ्याद्रामाणामित्यादावपि नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा निविशत इति युक्तम् । एवं च आरम्भसामर्थ्यादिति मूलमपि कर्तर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामर्थ्यादिति व्याख्येयमित्यलं विस्तरेण ।
अथ सप्तमीविभक्तिः । डेईकार इत् । राम-इ इति स्थिते आद्गुण इति मत्वाहराम इति । रामयोरिति । षष्ठीद्विवचनवत् । सुप्येत्वे कृत इति । पकारस्येत्वे लोपे, 'बहुवचने झल्येत्' इत्येत्वे कृत इत्यर्थः । रामे सु' इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह—अपदान्तस्य । मूर्धन्यः - मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयपादे मध्यत इदं सूत्रं पठितम् । इत आरम्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः । इण्कोः । इत्यधिकृत्येति । उत्तरत्र विधिष्वनुवर्तत इति भावः । इण् च कुरुचेति समाहा
For Private and Personal Use Only
OVE
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अनन्तपुंल्लिा
'सहेः साडः सः' (सू ३३५) इति सूत्रात् 'सः' इति षष्ठयन्तं पदमनुवर्तते। इएकव. गर्गाभ्या परस्यापदान्तस्यादेशः प्रत्ययावयवश्व यः सकारस्तस्य मूर्धन्यादेशःस्यात् । विवृताघोषस्य सस्य तादृश एव षः। रामेषु । इण्कोः किम् । रामस्य । 'आदेशप्रत्य. ययोः किम् । सुपीः । सुपिसौ। सुपिसः। अपदान्तस्य किम् । हरिस्तत्र। एवं कृष्ण. मुकुन्दादयः । (२१३) सर्वादीनि सर्वनामानि शश२७॥ सर्वादीनि शब्दस्व.
रद्वन्द्वः। पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वे त्वेकवचनमार्षम् । इणिति परणकारेण प्रत्याहारः । कुः कवर्गः । अथ षत्व विधायक सूत्रमाह-आदेश । षष्ठयन्तमिति । 'सहे. साडः सः' इति सूत्रे स् इत्यस्मात् षष्ठयेकवचने सति सः इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्य आदेशप्रत्यययोरित्यत्र सम्बध्यते। ततश्च इण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोमधन्यः स्यादि. त्यर्थः । फलितमाह-इएकवर्गाभ्यामित्यादिना। प्रौढमनोरमायां तु आदेशप्रत्यययोरि. त्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका आदेशविषये चाभेदार्थिका । तथा च आदे. शस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्-आदेशावयवस्य सत्य ष इति, तर्हि तिस्रः तिसृणामित्यादौ दोषः । नच त्रिचतुरोः स्त्रियामित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यम् , तिन्त्र इत्यत्र 'नरपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्' इति षत्वनिषेधेन चरितार्थत्वात् । बिसंबिसमित्यादौ सकारस्य आदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् । प्रत्ययो यः सकारस्तस्येति व्याख्याने तु जिगीषुरित्यादादेव स्यात् । रामेषु इत्यादौ न स्यात् । अतः आदेशः प्रत्ययावयवश्च यः सकारस्तस्येति व्याख्यातम् । प्रत्ययावयवलक्षणायां च हलि सर्वेषामिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् । ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाभ्यन्तर• प्रयत्नवतः अघोषरूपबाह्यप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाधं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेशिवदावेन सुबन्तत्वेन पदत्वात् सात्पदायोरिति षत्वनिषेधः स्यादिति चेन्न, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादित्यलम् । सुबिसाविति । पिस् गतौ, क्विप् , धातुसकारोऽयम् , नत्वादेशः, नापि प्रत्ययावयव इति भावः । अथ सर्वादिशब्देषु सर्वनामकार्य विधास्यन् सर्वनामसञ्ज्ञामाह-सर्वादीनि। सर्वः मादिः प्रथमावयवः येषां तानि सर्वादीनि । सर्वशब्दः स्वरूपपरः । नपुंसकवशात् शब्दरूपाणीति विशेष्यमध्याहार्यम् । तदाह--सर्वादोनि शब्देत्यादीना। ननु बहुवी
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
रूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । 'द्वन्द्वे च' ( सू २२४ ) इति ज्ञापकात् । तेन 'परमसर्वत्र' इति त्रल् 'परमभवकान्' इत्यत्राकच्च सिध्यति । हेरन्यपदार्थप्रधानत्वात् सर्वशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाभावाद्विवादिशब्दानामेव सर्वादिशब्देन बहुबीहिणावगमात् सर्वनामसञ्ज्ञा स्यात्, न तु सर्वशब्दस्यापीति चेत्, उच्यते--सर्वः आदिर्यस्य समुदायस्येति विग्रहः । सर्वशब्दघटितः समुदायः समासार्थः । समुदाये च प्रवर्तमाना सर्वनामसञ्ज्ञा क्वचिदपि अप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात् सर्वशब्देऽपि भवति । एवं चात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थ प्रवेशः । नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्कया, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात् । उद्भुतावयवभेदः समुदायः समासार्थ इति कैयटोकेरप्ययमेवार्थः । अतो न बहुवचनस्यानुपपत्तिः । तदेवं व्याख्याने हलि सर्वेषामित्यादिनिर्देशः प्रमाणम् । सर्वशब्दस्य सर्वनामत्वाभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः । तथाच सर्वादोनीति तद्गुणसं विज्ञानो बहुव्रीहिः । तस्यान्यपदार्थस्य गुणाः विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया विज्ञानं यत्र सः तद्गुणसंविज्ञान इति व्युत्पत्तिः । यत्र संयोगसमवायान्यतरसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वयः तत्र प्रायेण तद्गुणसंविज्ञानो बहुवीहिः । यथा-- द्विवासा देवदत्तो भुङ्क्ते, लम्बकर्ण भोजयेत्यादौ । तत्र हि वासलोः कर्णयोश्च भुजिक्रियान्वयाभावेऽपि सन्निहित्वमात्रेण तद्गुणसंविज्ञानत्वम् । प्रकृते च समुदाये अन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसम्बन्धसत्वात्तद्गुणसं विज्ञानत्वम् । स्वस्वामिभावादिसम्बन्धेनान्यपदार्थं वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः । यथा - चित्रगुमानयेत्यादाविलम् । ननु सर्व विश्व इत्येवं सर्वादिशब्दानां केवलानामेव सर्वादिगणे पाठात् परमसर्वादिशब्दानां कथं सर्वनामतेत्यत आह - तदन्तस्यापीति । द्वन्द्वे चेतीति । द्वन्द्वे चेत्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वनामसंज्ञा प्रतिषिध्यते वर्णाश्रमेतराणामित्यादौ । यदि केवलानामेव सर्वादिगणपठितानां सर्वनामता, नतु तदन्तानामपि, तर्हि तत्प्रतिषेधो व्यर्थः स्यात् । अतस्तदन्तस्यापीयं संज्ञेति विज्ञायत इत्यर्थः । ननु परमसर्वादिशब्देषु गणपठितानां केवलानामेव सर्वादिशब्दानामस्तु सर्वनामता, मास्तु तदन्तानामपि । 'सर्वनाम्नः स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन पदाङ्गाधिकारे तस्य च तदन्तत्य चेति परिभाषया परमसर्वस्मै इत्यादिषु सिद्धेरित्यत आह| तदन्तस्यापि संज्ञाबलेनेत्यर्थः । सिद्धयतीति । सप्तम्यास्वलिति सप्तम्यवात् सर्वनाम्नो विधीयमानखल् 'अव्यय सर्वनाम्नाकच् प्राक्टेः' इत्यज्ञाताद्यर्थेषु
1
For Private and Personal Use Only
१३५
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
(२१४) जसः शी (७१।१७) अदन्तात्सर्वनाम्नः परस्य असः शी स्यात् । अनेकाल्वात्सर्वादेशः । न च 'अर्वणस्तृ-' (सू ३६४ ) इत्यादाविव 'नानुबन्धकृतमनेकालस्वम्। (प.६) इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे । ( २१५) सर्वनाम्नः स्मै ७।१।१४॥ अतस्सर्वनानो के इत्यस्य स्मै स्यात् । सर्वस्मै । ( २१६ ) ङसिङयोः स्मास्मिनौ ७।१।१५॥ अतस्सर्वविधीयमानोऽकच्च सिध्यतीत्यर्थः । चकारात् पञ्चम्यास्तसिलिति तसिल् च । नचा. वयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यम् , 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या सङ्ख्याकारकाभ्यां पूर्णार्थस्य इतरान्वयेन सुबन्तादेव तद्धितोत्पत्त्यवगमेन सर्वनाम प्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षायां सर्वनामावयवटेः प्रागकजित्यर्थपर्यवसानाचदन्तसंज्ञाभावे तदसिद्धेरिति भावः ।
सर्वशब्दात् जसि पूर्वसवर्णदीर्घ प्राप्ते । जसः शी। अतो भिस इत्यस्मादत इत्यनुवर्तते । 'सर्वनाम्नः स्मै' इत्यतः सर्वनाम्न इत्यनुवर्तते । तदाह-अदन्तादित्यादिना । शी इति दीर्घोच्चारणं नपुंसकाच्चेत्युत्तरार्थम् । तेन वारिणी इति सिध्यति। अनेका. रुत्वादिति । नतु शित्त्वप्रयुक्तं सर्वादेशत्वमत्रेति भावः। ननु 'नानुबन्धकृतमनेकास्त्वम्' इत्यस्ति परिभाषा । अनुबन्धः इत् , तत्प्रयुक्तमनेकालत्वं सर्वादेशनिमित्तं न भवतीत्यर्थः । ततश्च शी इत्यत्र शकारस्य लशक्वतद्धित इति इत्संज्ञकत्वात् कथं तत्प्रयुक्तमनेकाल्त्वम् । अत एव 'अणस्त्रसावनमः' इत्यत्र स्कारमितमादाय तृ इत्यादेशस्य नानेकालत्वम् । अन्यथा तस्यापि सर्वादेशत्वापत्तेः । अतः शित्त्वप्रयुक्त. मेवात्र सर्वादेशत्वमाश्रयितुं युक्तमित्याशङ्कय निराकरोति-नचेत्यादिना। अर्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति नेत्यन्वयः । शी इति शकारस्य 'लशक्वतद्धिते' इति इत्संज्ञा वक्तव्या। तेन च सूत्रेण प्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञा विहिता । प्रकृते च शी इत्यस्य प्रत्ययाधिकारस्थत्वाभावान्न स्वतः प्रत्यय त्वम् , किन्तु जसादेशत्वेन स्थानिवद्भावात् प्रत्ययत्वं वक्तव्यम् । स्थानिवद्रावश्च आदेशभावमापनस्य शी इत्यस्य भवति । एवञ्चादेशत्वसिद्धः प्रागादेशविधिदशायां शी इति शकारस्य इत्संज्ञाया असिद्धरनेकालत्वमप्रतिहतम् । अत एव शिस्वात् सर्वादेश इत्यपि निरस्तम् । तृ इत्यत्र तु आदेशाभावात् प्रागेव ऋकारस्य इत्संज्ञकत्वान्न तत्प्रयुक्तमनेकाल्त्वमिति वैषम्यमित्यभिप्रेत्य परिहरति-सर्वादेशत्वात्प्रा. गिति । शीभावे सति सर्व ई इति स्थिते आद्गुणं सिद्धवत्कृत्याह-सर्वे इति । सर्वशब्दात् चतुथ्येकवचने 'डर्यः' इति प्राप्ते । सर्वनाम्नः स्मै । अतो मिस इत्यस्मादत. इत्यनुवर्तते । र्य इत्यतो डेरिति च । तदाह-प्रतः सर्वेत्यादिना। सर्वशब्दात् पञ्च. म्येकवचने टाङसिङसामिति प्राप्ते । ङसिङयोः । सिच जिवचेति द्वन्द्वः । अता
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
- www
नाम्न एतयोरेती स्तः। सर्वस्मात् । (२१७) मामि सर्वनाम्नः सुर १ ५२॥ अवर्णान्तात्परस्य सर्वनानो विहितस्यामः मुडागम: स्यात् । एवषत्वे । सर्वेषाम् । सर्वस्मिन् । शेष रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च मिस इत्यस्मादत इति, सर्वनाम्नः स्मै इत्यतः सर्वनाम्न इति चानुवर्तते । तदाहअतः सर्वेति । एतयोरिति । सिक्योरित्यर्थः । एताविति । स्मास्मिनावित्यर्थः । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेस्वमिति मत्वाहसर्वस्मादिति । सर्व आम् इति स्थिते 'हस्वनद्याप:' इति नुटि प्राप्ते । ___ आमि सर्वनाम्नः । 'आज्जसेरसुक्' इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेन अङ्गस्ये. त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः, परस्येत्ययध्याहार्यम् । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति न्यायेन तस्मादित्युत्तरस्यः इति परिभाषया आमीति सप्तमी आम इति षष्ट्यन्तमापद्यते । सर्वनाम्न इति तु विहितविशेषणम् । ततश्च अवर्णान्तादात् परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यादित्यर्थः सम्पद्यते । तदाह-अवर्णान्तादित्यादिना । अवर्णान्तादित्यनन्तरम् अङ्गादिति शेषः । अवर्णान्तात्सर्वनाम्नो विहितस्याम इति व्याख्याने तु येषां तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् । सर्वनाम्नः परस्येति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणामित्यसिद्धरित्यग्रे मूल एवं स्पष्टीभविष्यति । एत्वपवे इति । बहुवचने झल्येदित्येत्वम् । सन्निपातपरिभाषा त्वत्र न प्रवर्तते इति बहुवचने झल्येदित्यत्रोक्तम् । 'आदेशप्रत्यययोः' इति षत्वं सुटोऽपि यदागमास्तद्ग्रहणेन गृह्यन्ते' इति प्रत्ययावयवत्वादिति भावः । सर्वेषामिति । नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न, सप्तमीनिर्देशस्य 'श्रेस्त्रयः' इत्युत्तरार्थमावश्यकत्वादिति भावः। सप्तम्येकवचनस्य उसिड्योरिति स्मिन्नादेशं सिद्धवत्कृत्याह-सर्वस्मिन्नति । शेषमिति । शिष्यत इति शेष कर्मणि घम् । 'घमजबन्ताः पुंसि' इति तु प्रायिकमिति भावः। एवमिति । सर्वशब्दवदित्यर्थः । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्तिनिमित्तकत्वात् बहुवचनमेव न्याय्यमिति वाच्यम् , सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदा अनुभूतावयवः समुदायो विवक्षितः तदा भवत्येकवचनम् । यथासर्वो लोक इति । अनुभूतत्वम् अविवक्षितसङ्ख्याकत्वम् । यदा तु अनुभूतावयचको समुदायौ तदा द्विवचनम् । यथा सर्वो व्यूहाविति । यदा तु उभूतावयवसमु. दायः तदा बहुवचनम् । यथा सवें जना इति । ... अथ के ते सर्वादयः शब्दाः ? कति च ते ? इत्यत्राह-सर्वादयश्च पञ्चत्रिंशदिति । मच त्रिंशच्चेति द्वन्द्वः, पञ्चाधिकास्त्रिंशदिति शाकपार्थिवादित्वात् तत्पुरुषो वा।
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
अजन्तपुंलिङ्ग
पञ्चत्रिंशत् । सर्व विश्व उभ उभय इतर इतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । 'पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ( ग सू १)। 'स्वमज्ञातिधनाख्यायाम्। (ग सू २) 'अन्तरं बहिर्योगोपसंव्यानयोः' (ग सू ३)। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः। तस्येह पाठस्तु 'उभको' इत्य कजर्थः। न च कात्ययेनेष्टसिद्धिः। द्विवचनपरत्वाभावेन 'उभयतः'
सङ्ख्यायास्तत्पुरुषस्योपसख्यानमिति डच्तु समासान्तो न भवति । अन्यत्राधिक. लोपादित्युक्तः । पूर्वपरावरेति । गणान्तर्गतं सूत्रम् । व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानीत्यर्थः । सर्वनामसंज्ञा तु 'सर्वादीनि सर्वना. मानि' इत्येव सिध्यति । 'स्वमज्ञाती'ति, 'अन्तरं बहिरिति च गणसूत्रद्वयमेवमेव योज्यम् । व्यवस्थादिशब्दाः अग्रे मूल एव व्याख्यास्यन्ते। इतिशब्दः सर्वादिगण. समाप्तियोतनार्थः । तत्र विश्वशब्दोऽपि सर्वशब्दवदेव । उभशब्दे तु विशेषमाहतत्रेति । सर्वादिषु मध्य इत्यर्थः । अत एवेति । द्वित्वविशिष्टवाचकत्वादेवेत्यर्थः । नित्यमिति । सर्वदा द्विवचनान्त इत्यर्थः । द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेवं सति 'जसः शीः 'सर्वनाम्नः स्मै सि. ड्योः स्मास्मिनो 'आमि सर्वनाम्नः सुः इत्युक्तानां सर्वनामकार्याणां द्विवचने अमावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह-तस्येहेति । तस्य उभशब्दस्य इह सर्वादिगणे पाठस्तु उभकावित्यत्र 'अव्ययसर्वनाम्नामकच्प्राक्टेः, इत्यकच्प्रत्ययार्थ इत्यर्थः । ननु मास्तु उभशब्दस्य सर्वादिगणे पाठः । मास्तु च सर्वनामता। मास्तु च तत्प्रयुक्तः अकच् । उभशब्दात् स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः । न च काकचोः स्वरभेदः शयः । तद्धितस्य' इति प्रत्ययस्वरेण वा, 'चितः सप्रकृतेः' इति ।चित्स्वरेण वा अन्तोदात्तत्वे विशेषाभावात् । उक्तं च भाष्ये 'काकचोः को विशेषः ?' इति । तत्राह-नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिनचेत्यन्वयः। कुत इत्यत आह - द्विवचनेति । द्विवचनपरत्वाभावे उभशब्दादयच् विहितः । अकचि तु सति तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेन उभशब्देन उभकशब्दोऽपि गृह्यते । तस्य च उभक औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात् परतो विहितत्वेन तन्मध्यपतितन्यायाप्रवृत्या उभकशब्दस्य उभशब्देन ग्रहणाभावात् उभशब्दस्य कप्रत्ययव्यव. धानेन द्विवचनपरकत्वाभावात् अयचि उभयको इति स्यात् । यथा उभयतः उभयत्रे. त्यत्र द्विवचनपरकत्वाभावादयच्प्रत्ययोऽस्ति तद्वदित्यर्थः। द्विवचने सति अयच्प्र
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् 6]
बालमनोरमासहिता ।
१३६
'उभयत्र' इत्यादाविवायप्रसङ्गात् । तदुक्तम् । 'उभयोऽन्यत्र' (वा २३२)। मन्यत्र द्विवचनपरत्वाभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः। अस्तोति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया 'प्रथमचरम' त्ययो नेत्यत्र किं प्रमाणमित्यत आह-तदुक्तमिति । वार्तिककृतेति शेषः। द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत् 'उभयोऽन्यत्र' इति वदता वार्तिककृता उक्तमित्यर्थः । अन्यत्रेत्येतद्वयाचष्ठे-अन्यत्र द्विवचनपरत्वाभावे इति। उदाहृतवार्तिके अ. न्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः, 'अन्याभावो द्विवचनटाब्धि. षयत्वात्' इति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः । टाब्ग्रहणं तु तत्रा. विवक्षितमिति कैयटादिषु स्पष्टम् । ततश्च सर्वनामतानिमित्तकाकजथं उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम् 'उभानुदात्तो नित्यम्। इत्यत्र वक्ष्यते । ___अथोभयशब्दे विशेषमाह-उभयशब्दस्येति । उभौ अवयवौ यस्यावयविनः स उभयः मणिः । 'उभाइदात्तः' इत्ययच् । अवयववृत्तः सख्यावाचिन: उभशब्दादवय. विन्यर्थे अयच्प्रत्ययः स्यादिति तदर्थः । द्वयवयवारब्धो मणिरित्यर्थः। मणेरवयविन एकत्वादुभयः इत्येकवचनम् । उभयश्च उभयश्च उभयश्चेत्येवं व्यवयवारब्धयादिमणि. विवक्षायां तु बहुवचनं उभये मणय इति। उभयश्च उभयश्चेति व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति, उभयोऽन्यत्रेत्युदाहृतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवयमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं स्वार्थिकायजन्तोभयशब्दोपक्रमेणैव तद्वार्तिकप्रवृ. तेरिति वाच्यम् , एतद्वातिकव्याख्यावसरे उभयो मणिः, उभये देवमनुष्याः, इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्य 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनासर्वविभक्तित्वेऽपि न भवति, तसिलादयः प्राक्पाशपः, शस्प्रभृतयः प्राक् समासान्तेभ्यः, अम् , आम् , कृत्वोऽर्थाः, तसिवती, नानाजो, इति परिगणितत्वादिति कैयटेनोक्तम् । तदाह-कैयट इति । एवं च उभयः उभये, । उभयम् , उभयान्। उभयेन, उभयः । उभयस्मै, उभयेभ्यः। उभयस्मात्, उभयेभ्यः । उभयस्य, उभयेषाम् । उभयस्मिन् , उभयेषु । इत्येव रूपाणि । नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति। हरदत्त इत्यस्वरसोदावनम् । तद्वीजं तु उभयोऽ न्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः । उभयशब्दात् जसि सर्वादीनीति नित्यां सर्वनामसंज्ञा बाधित्वा परत्वात् 'प्रथमचरमतयाल्पार्धकतिपयनेमाश्' इति सर्वनामसंज्ञाविकल्पप्रासिमशाक्य परिहरति-तस्मादित्यादिना ।
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
सिद्धान्तकौमुदी
[अनन्तपुंल्लिङ्ग
(सु २२६) इति विकल्पे प्राप्ते विभक्तिनिरपेक्षवेनान्तरणत्वान्नित्यैव संज्ञा भवति । उभये । इतरडतमौ प्रत्ययौ । 'प्रत्ययग्रहणे तदन्ता प्राह्याः' (प २४ ) यद्यपि 'संज्ञाविधौ प्रत्ययमहणे तदन्तग्रहणं नास्ति' ( प २८ ) 'सुप्तिङन्तम्' ( सू २९) इति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाभावात् । तस्मात् उभयशब्दात् जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः। सर्वादीनीत्यनेनेति शेषः। ननु प्रथमचरमादिष्वनन्तर्भावात् कथमुभयशब्दस्य प्रथमचरमेति विकल्पप्राप्तिरित्यत आह-तयप्प्रत्ययान्ततयेति । ननु सयपः अश्रवणात् कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह-अयजादेशस्य स्थानिवद्भावेनैति। उभादुदात्त इति सूत्रे 'सङ्ख्याया अवयवे तयप्' इति उमशब्दाद्विहितस्य तयपोऽयजादेशः, तयग्रहणमननुव] अयच् स्वतन्त्रः प्रत्ययो वा, इति पक्षद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसज्ञाविकल्पशा बोध्या । ननु प्रथमचरमेति विकल्पस्य परत्वात् कथमिह सर्वादीनीति नित्यैव सम्झे. त्यत आह-अन्तरङ्गस्वादिति । तदेवोपपादयति-विभक्तिनिरपेक्षत्वेनेति। प्रथमवरमेति जसि विकल्पविधिः जसपेक्षत्वेन विभक्त्यपेक्षत्वात् बहिरङ्गः। सर्वादीनीति नित्यसज्ञाविधिस्तु तदनपेक्षत्वात् अन्तरङ्गः, अल्पापेक्षमन्तरङ्गमिति न्यायात् । अतोऽत्र परमपि प्रथमचरमेति विकल्पं बाधित्वा सर्वादीनीति नित्यैव सम्ज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः । तथा च शीभावो नित्य इत्याह-उभये इति । __ ननु डतरडतमशब्दयोः कापि प्रयोगादर्शनात् किमर्थस्तयोः पाठ इत्यत आहडतरडतमौ प्रत्ययाविति । 'किंयत्तदोनिर्धारणे द्वयोरकस्य डतरच्' 'वा बहूनां जातिपरिप्रश्ने डतमच् । 'एकाच प्राचाम्' इति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, 'प्रत्ययः' इत्यधिकृत्य तद्विधेः। अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादि. शब्दानाम् डतमग्रहणेन कतमादिशब्दानां च ग्रहणमिति भावः । शङ्कते-यद्यपीति । सुप्तिङन्तमिति । यदि सज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवतेत, तर्हि सुप्ति पदमित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात् । अतः सज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवञ्च प्रकृते सर्वनामसज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात् कथं तदन्तग्रहणमित्याक्षेपः । परिहरति-तथापीति । अन्यत्र सज्ञाविधौ प्रत्ययग्रहणेन तदन्तग्रहणाभावेऽपि इह सर्वनामसज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणमस्त्येवेत्यर्थः । कुत इत्यत आहकेवलयोरिति । 'न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः' इति म्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानहत्वेन तयोः सर्वनामसञ्ज्ञायां फलाभावादित्यर्थः । तस्मात् उतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम् ।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
अन्यतरान्यतमशब्दावल्युत्पन्नौ स्वभावाद्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान संज्ञा । 'स्व' 'स्व' इति द्वावप्यदन्तावन्यपर्यायौ, एक उदात्तोऽपरोऽनुदात्त इत्येके । “एकस्तान्तः' इत्यपरे। नेमः इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते, 'यथासङ्ख्यमनुदेशः समानाम् (सू० १२०) इति ज्ञापकात् । 'अन्तरं बहिर्योगोप' ( ग सू ३) इति गणसूत्रे 'अपुरीति वक्त.
ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे अन्यतरशब्दपाठो व्यर्थः । अन्यतम. शब्दस्यापि डतमप्रत्ययान्तत्वात् सर्वनामत्वापत्तिश्चेत्यत आह-अन्यतरान्यतम. शब्दावव्युत्पन्नाविति। डित्थादिशब्दवत् प्रकृतिप्रत्ययविभागविहीनावित्यर्थः। किंयत्तदेकेभ्य एव उतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह-स्वभावादिति । एवञ्चान्यतमशब्दस्य न सर्वनामत्वमित्याह-तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरप्रत्य. यान्तत्वाभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अथ त्व त्वेत्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्वयाचष्टे-त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमानार्थकावित्यर्थः । द्वयोरप्यदन्तत्वे अन्यतरपाठवैयर्थ्य परिहरति-एक इति । इत्येके इति । इति कतिपये वृत्तिकृदादयः मन्यन्त इत्यर्थः । 'एतं त्वं मन्ये' इत्युदात्तत्वस्य 'उत त्वः पश्यन्' इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः । एकस्तान्त इति । संहितापाठे त्वत् इति छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयः अदन्त इत्यपरे मन्यन्त इत्यर्थः । अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्तं वा सकृदेव पठेत् , तावतव द्वयोरपि लाभात् 'त्वत्त्वसमसिमेत्यनुच्चानि' इति फिटसूत्राच्च । स्तरीरुत्वद्भवति, सूत उ त्वत् इति व्याख्यावसरे वेदभाष्ये 'त्वदिति सर्वादिपठितः अनुदात्तोऽयं अन्यपर्यायः' इत्युक्तत्वाच्च । 'त्वदधरमधुरमधूनि पिबन्तम्' इति जयदेवप्रयोगाच्च । तत्र हि त्वच्छब्दोऽन्यपर्यायः । त्वतः अधर इति विग्रहः । अन्यस्या अधर इत्यर्थः। नतु तवाधर इति विवक्षितम्, 'पश्यति दिशि दिशि रहसि भवन्तम्' इति पूर्ववाक्येनान्धयानुपपत्तेः। नेम इत्यर्धे इति । वर्तते इति शेषः । 'प्र नेमस्मिन् ददृशे सोमो अन्तः' इत्युचि तथा दर्शनादिति भावः । सम इति । सर्वशब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः । । ननु अष्टाध्यायीपठिते 'अन्तरं बहिर्योगोपसंव्यानयोः' इति जसि सर्वनामसन्ज्ञाविकल्पविधायके सूत्रे 'अपुरीति वक्तव्यम्' इति वार्तिकपाठो भाष्ये दृश्यते । एवञ्चान्तराः पुर्यः इत्यत्र जसि सर्वनामसज्ञानिषेधेऽपि, अन्तरायां पुरीत्यत्र तन्निषेधा. भावात् अन्तरस्यामिति स्यादित्यत आह-गणसूत्र इति । यद्यपीदं वार्तिकं जसि
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग
v
ave
व्यम्' ( वा २४० ) अन्तरायां पुरि । (२१८) पूर्वपरावरदक्षिणोत्तराप. राधराणि व्यवस्थायामसंज्ञायाम् ॥१॥३४॥ एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्व-पूर्वाः । स्वाभि. धेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इ. त्यर्थः । अंसज्ञायां किम् । उत्तराः कुरवः। (२१) स्वमशातिधनाख्यायाम्
विधायकस्य शेषः, जसरशी इत्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्रातिविरहात् । ततश्च पुर्या विशेष्यभूतायां अन्तरशब्दः सर्वादिगणे पाठ न लभते इत्येतद्वातिकार्थः पर्यवस्यति । एवञ्च जसोऽन्यत्रापि अन्तरशब्दस्य पुर्यो विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते। अतः अन्तरायां पुरीत्यादौ सर्वनामकार्य स्याडादि न भवतीत्यमिप्रेत्योदाहरति-अन्तरायां पुरीति । यद्यप्यन्तरशब्द एव सर्वादिगणे पठितः, ननु टाब. न्तः । तथापि लिङ्गविशिष्टपरिभाषया वा एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वना. मत्वप्रातिर्बोध्या। सिमशब्दस्तु 'सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः' इति कोशे प्रसिद्धः। अथ सर्वादिगणान्तर्गतत्रिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्री पुनरुक्तिशङ्का व्युदस्यन् व्याचष्टे-पूर्वपर। सर्वनामानीति विभाषा जसीति चानुवर्तते । तदाह-एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वा. दिगण इत्यर्थः । या प्राप्तेति । सर्वादीनीत्यनेन नित्या सज्ञा या प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसम्ज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । । - स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः कर्मणि घञ् । स्वस्य पूर्वादिशब्दस्याभिधेयं वाच्यं तेन अपेक्षस्याऽपेक्ष्यमाणस्य अवधेनियमः व्यवस्थाशब्देन विवक्षित इत्यर्थः। ततश्च नियमेनावधिसापेक्षा] वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अन्न दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपाववतिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह-कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापि उत्तरे प्रत्युत्तरे च शक्त इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः। असंज्ञायां किमिति । 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कृरुशब्दो देशविशेषे नित्यं बहुवचनान्तः। सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सन्केत इति न ते संज्ञाशब्दाः । कुरुषु तूचरशब्दस्याधुनिकस्सङ्केत इति
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१|१|३५|| ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे - स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वाः, ज्ञा तयोऽर्था वा । ( २२० ) मन्तरं बहिर्योगोपसंव्यानयोः १|१|३६|| बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे - अन्त रा वा गृहाः । बाह्या इत्यर्थः । अन्तरे - अन्तरा वा शाटकाः । परिधानीया इत्यर्थः । (२२१) पूर्वादिभ्यो नवभ्यो वा || १ | १६ || एभ्यो नवभ्यो ङसिङथोः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् पूर्वात् पूर्वस्मिन् पूर्वे । एवं परादीनामपि । शेषं भवत्ययं संज्ञाशब्द इति मन्यते । केचित्वसंज्ञायामित्यभावे संज्ञायामेव पूर्वादिशब्दा नामप्राप्तविभाषा स्यादित्याहुः । स्वमज्ञातीति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनं च ज्ञातिधने तयोराख्या ज्ञातिधनाख्या न ज्ञातिधनाख्या अज्ञातिधनाख्या तस्याम् अज्ञातिधनाख्यायाम् । स्वमिति शब्दस्वरूपापेक्षया नपुंसकत्वम् । तदाह - ज्ञातिधनान्येति । स्वे स्वाः इति । सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः । आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । अत्र स्वो ज्ञातावात्मनीत्येकं वाक्यम् । ज्ञातावात्मनि च स्वशब्दः पुंलिङ्ग इत्यर्थः । स्वं त्रिष्वात्मीये इति द्वितीयं वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः । स्वोऽस्त्रियां धन इति तृतीयं वाक्यम् । धने स्वशब्दः पुंनपुंसक इत्यर्थः । 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीयेsस्त्रियां धने' इति मेदनीकोशः । तत्र ज्ञातिधनयोः पर्युदासात् आत्मनि आत्मीये च सर्वनामत्वं जसि विकल्प्यत इत्यभिप्रेत्य व्याचष्टे - आत्मीया इत्यर्थः । श्रामान इति वेति । ज्ञातिधनपर्युदासस्य प्रयोजनमाह - ज्ञातिधनवाचिनस्त्विति । ज्ञातिवाचिनः धनवाचिनश्च सर्वनामत्वपर्युदासात् जसि स्वाः इत्येव रूपमित्यर्थः । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्या ग्रहणबलेन ज्ञातित्वधनत्व पुरस्कार एव पर्युदासप्रवृत्तेः । श्रन्तरम् । अत्रापि सर्वनामानीति वि. भाषा जसीति चानुवर्तते । बहिः अनावृतप्रदेशः, तेन योगः सम्बन्धः यस्य स बहिafr: बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते परिधीयत इति उपसंव्यानम् अन्तरीयं वस्त्रम् । तदाह - बाह्य इत्यादिना । पूर्वादिभ्यो । ङसिड्योः स्मात्स्मिनाविस्यनुवर्तते इत्याह-एभ्य इति । पूर्वपरेत्यादित्रिसूत्री निर्दिष्टाः पूर्वादय इह विवक्षिताः । त्यादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दः सङ्ख्यायामिति । अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः ।
1
'एकोsन्यार्थे प्रधाने च प्रथमे केवले तथा ।
साधारणे समानेऽल्पे सहख्यायां च प्रयुज्यते ॥ इति कोशः ।
For Private and Personal Use Only
१४३
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४४
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग -
सर्वषत् । एकशब्दः संख्यायां नित्यैकवचनान्तः । (२२२) न बहुव्रीहो १। १२६॥ बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् । स्वकं पिता यस्य स स्वत्कपितृकः । अहकं पिता यस्य सः मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिकविप्रहवाक्य इव तत्राप्यकच्प्रवर्तेत ।
1
स्यादेतत् । त्वत्कपितृकः मत्कपितृक इति बहुब्रीहिः । त्वकं पिता यस्य, अहक पिता यस्येति लौकिक विग्रहवाक्यम् । लौकिकत्वं प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थे 'अव्ययसर्वनाम्ना' मित्यकचि युष्मक स्, अस्मक स इति स्थिते, 'के प्रथमयो:' इत्यमि 'स्वाहौ सौ' इति त्वादेशे अहादेशे च सति 'शेषे लोपः' इति लोपे, अतो गुणे, अमि पूर्वे च त्वकम् अहकम् इति रूपम् । युष्मद् सू, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिकं विग्रहवाक्यम् । प्रयोगानईत्वम् अलौकिकत्वम् इति स्थितिः । तत्र त्वत्कपितृको मत्कपितृक इति बहुवीहिदशायां कप्रत्ययो न सम्भवति । युष्मदस्मदोः सर्वनामत्वेनाकच्प्रसङ्गात् । तत्रेदमारभ्यते न बहुव्रीहौ । सर्वादीनि सर्वनामानीत्यनुवर्तते । बहुवीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते । एवं सति सूत्रमिदं व्यर्थम्, प्रियसर्वायेत्यादीनां बहुवीहिवर्तिनां सर्वादीनां स्वार्थीपसङ्क्रान्तार्थान्तरप्रधानकतया उपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः, 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणत्वात् । अतो व्याचष्टे - बहुव्रीहौ चिकीति इति । बहुवीहाविति विषयसप्तम्याश्रयणात् अयमर्थो लभ्यते । तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोऽर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याभावादिति भावः । अथ लौकिकविग्रहवाक्यं दर्शयन्, लक्ष्यभूतं बहुव्रीहिं दर्शयति-त्वकं पितेत्यादिना । सर्वनामत्वाभावात् कप्रत्यये 'प्रत्ययोत्तरपदयोरच' इति त्वमादेशे त्वत्कः मत्कः इति च रूपम् । ननु बहुव्रीहिप्रवृत्तेः प्राक् अलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात् त्वकं पितेति कथं लौकिकविग्रहवाक्यप्रदर्शनमित्यत आह- इहेति । न बहुव्रीहावित्यस्मिन् सूत्र इत्यर्थः । प्रक्रियावाक्य इति । युष्मद् स् पितृ स्, अस्मद् स पितृस, इत्यलौकिक विग्रहवाक्य एवेत्यर्थः । लौकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वायें परिनिष्ठितत्वेन स्वतन्त्रप्रयोगार्हतया बहुवीहेस्तत्र चिकीर्षितत्वाभावात्, अलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथा चैतत्तथा समासनिरूपणे वक्ष्यते । ननु अलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः । तत्राह - अन्यथेति । न बहुवीहावित्यलौकिकविग्रहवाक्ये निषेधाभावे सतीत्यर्थः । तत्रापीति । अलौकिकविग्रहवाक्येऽपीत्यर्थः । नन्वलौकिक विग्रहवाक्ये भव
।
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१४५
स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तम् अतिभवकान् इतिवत् । भाष्य
त्वकच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाभावादित्यत आह-स चेति । अलौकिविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः । उभयत्रापि तन्नियमं दृष्टान्तद्वयमाह - प्रतिक्रान्तो भवन्तम् श्रतिभवकानितिवदिति ।
1
भवच्छब्दस्य सर्वादिगणे पाठात् सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवत् अम् अति इत्यलौकिकविग्रहवाक्यं सम्पद्यते । तत्र “ अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासे सति 'सुपो धातुप्रातिपदिकयोः' इति सुब्लुकि अतिभवक
दात् प्रथमैकवचने अतिभवकानिति रूपम् । समासाभावपक्षे तु भवन्तमतिक्राम्स इति लौकिकविग्रहवास्यं भवति । तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्क्रान्तार्थान्तरप्रधानतया उपसर्जनत्वेऽपि अलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात् सर्वनामध्ये सति प्रवृत्तः अकच् अतिक्रान्तो भवन्तमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे चानुवर्तते, लौकिकविग्रहदशायां भच्छब्दस्य उक्त
या अनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनिभूतालौकिकविग्रहदशायां प्रवृत्तस्याकचो निवर्तकाभावात् । नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वात् अकृत#यूह परिभाषया अलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावात् अकज्दुर्लभः । ततश्च aaorat भवन्तमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे च कथमकsues इति दृष्टान्तासिद्धिरिति वाच्यम् । एवञ्जातीयकालौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तौ अकृतव्यूह परिभाषाया अनित्यत्वेनाऽप्रवृत्तेः । तदनित्यत्वे च न बहुश्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि-यथकृतव्यूह परिभाषा सार्वत्रिकी स्यात्, तहिं बहुव्रीहिविषयेऽपि युष्मद् स् पितृ स् इत्याद्यलौकिकविग्रहवाक्ये अनुपसर्जनस्वस्य बहुवीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याप्रसक्कत्वात् 'न बहुवीहौ' इति नारम्येत । अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेः भविष्यद्बहुवीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिक विग्रहवाक्ये सर्वनामत्वस्याप्रसक्तत्वात् न तन्निषेधाय न बहुवीहावित्यर्थवत् । नच उदाहृतबहुबीहिविषयालौकिक विग्रहवाक्ये अकृतव्यूह परिभाषामाश्रित्यैव सर्वनामत्वाभाव आश्रीयताम् । किं न बहुवीहाविति सूत्रेणेति वाच्यम् । एवं सत्यतिक्रान्तो भवन्तमतिभवका नित्यादि न सिध्येत् । अकृतव्यूहपरिभाषया तदलौकिक विग्रहवाक्येऽपि सर्वनामत्वाभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवन्तमित्यादिलौकिलविग्रहवाक्ये अतिभवकानिति समासेऽपि च श्रवणं न स्यात् । एवं च बहुबीहिविषये अलौकिकविग्रहवाक्ये अकृतव्यू परिभाषाया अप्रवृत्ति सिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिक विग्रहवाक्ये
बा० १०
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुँल्लिङ्ग
कारस्तु त्वकल्पितृकः, मकल्पितृकः इति रूपे इष्टापति कृत्वेतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् । 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' (वा २२५ ) महासंज्ञाकरणेन तदनुगुणानामेव गणे सन्निवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्वित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मा अतिसर्वा देहि । अतिकतरं कुलम् । अतितत् । (२२३) तृतीयासमासे १|१|३०|| इह सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासार्थ
अकृतव्यूह परिभाषाया अप्रवृत्या सर्वनामत्वं विज्ञायते । एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः । प्रत्याचख्याविति । निराकृतवानित्यर्थः । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाविशेषाद्विकल्पमाशड्याह-यथोत्तरमिति । सूत्रकाराद्वार्तिककारस्य उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं पूर्व पूर्णस्याप्रामाण्यमिति वैयाकरणसमय इति भावः । न चाकृतव्यूह परिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम् । अकृतव्यूह परिभाषाया निर्मूलत्वस्य निष्फलत्वस्य च हलन्ताधिकारे सेदिवस शब्दनिरूपणे 'समर्थानां प्रथमाद्वा' इत्यत्र च वक्ष्यमाणत्वात् ।
1
1
संज्ञोपसर्जनीभूता इति । आधुनिकसङ्केतः संज्ञा । अन्यविशेषणत्वेन स्वार्थोपस्थापकमुपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थः । महासंज्ञेति । टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीय सर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः । प्राधान्येनोपस्थितेत्यनेन उपसर्जन व्यावृत्तिः । प्राधान्येनोपस्थित सर्वार्थवाचकत्वमित्युक्ते पूर्वादिशब्देष्वव्याप्तिः, अतः स्वीयेति । सर्वार्थत्यनेन संज्ञाशब्दव्यावृत्तिः संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संशाकार्यमिति । सर्वनामसंज्ञाकार्य शीस्मायादिकमित्यर्थः । अन्तर्गयेति । सर्वादिगणे अन्तर्गतो गणः अन्तर्गणः तदीयं कार्यम् 'अद्भुतरादिभ्यः' 'त्यदादीनामः' इत्यादिकमित्यर्थः । सर्वाय देहीति । संज्ञा शब्दत्वात् स्मायादेशो न । श्रतिकतरमिति । कतरमतिक्रान्तं कुलम् अतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाद्डादेशः । श्रतितदिति । तमतिक्रान्तो ब्राह्मणः अतितदित्यत्र त्यदाद्यत्वं, 'तदोः सस्सौ' इति च न भवति । तृतीयासमासे । सर्वादीनीत्यतः सर्वनामग्रहणम्, न बहुवीहावित्यतो नेति चानुवर्तत इत्यभिप्रेत्याह- इहेति । मासपूर्वायेति । मासेन पूर्वः इति विग्रहः । हेतौ तृतीया । पूर्वसदृशेति तृतीया तत्पुरुषसमासः । मासात् पूर्वभावीत्यर्थः । 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौ
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१४७
वाक्येऽपि न । मासेन पूर्वाय ॥ (२२४) द्वन्द्व च शश३१॥ द्वन्द्वे उक्तसंज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यैवायं निषेधः, न त्ववयवानाम् । नचैवं तद. न्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः मुडिति व्याख्यातत्वात् ॥
-
किकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम् । ततश्च फलितमाह-तृतीयासमासार्थेति ।
द्वन्द्वे च । सर्वादीनीत्यतः सर्वनामग्रहणं न बहुव्रीहौ' इत्यतो नेति चानुवर्तते । तदाह-द्वन्दे उक्तसंशा नैति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति । 'वर्णाश्रमेत. राणां नो ब्रूहि धर्मानशेषतः' इति याज्ञवल्क्यस्मृतिः। वर्णाश्च आश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्व विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नार्थः। विद्यतिक्रिया. ध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यभव. नक्रिययैव द्वन्द्वस्याधारतयान्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता । नतु तदवयवानाम् । एवंच वर्णाश्रमतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधः, नतु तदवयवानामिति वस्तुस्थितिकथनम् । ननु द्वन्द्वावयवानां सर्वनामत्वनिषेधाभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात् सर्वनाम्नोऽङ्गात् परस्यामः सुविधानादिह चामि परे इतरशब्दस्य सर्वनामत्वेऽप्यङ्गत्वाभावान्न ततः परस्यामः सुदप्रसक्तिरिति वाच्यम् । सुविधियमङ्गाधिकारस्थः। ततश्च ‘पदाङ्गाधिकारे तस्य च तदन्तस्य च इति परिभाषया सर्वनामान्ताददन्तादङ्गात् परस्यामः सुद् विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समु. दायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात् परत्वादामः सुट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधो व्यर्थः स्यादित्या. शङ्कयम् , पदाङ्गाधिकारादन्यत्र तसिल्बलादिविधौ तन्निषेधस्यार्थवत्त्वादित्याशय परिहरति-न चैवमित्यादिना । एवमित्यनन्तरं सतीति शेषः । एवं समुदायस्यैव निषेधे सति तदन्तविधिना सुदप्रसङ्गो नेत्यन्वयः । कुत इत्यत आह-सर्वनाम्नो विहितस्येति । अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामः सुडिति व्याख्यानादि. त्यर्थः। प्रकृते च वर्णाश्रमेतरशब्दात् समुदायादाम् विहितः, न च स समुदायः सर्वनामसंज्ञकः, द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः, न ततो विहितः आम् । आमः समुदायादेव विधानात् । अतो न सुडिति भावः । अवर्णान्तादङ्गात् सर्वनाम्नो विहितस्यामः सुडिति व्याख्याने तु येषां तेषामित्यत्राव्याप्तिः । अतः
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
-
-
-
(२२५) विभाषा जसि १११॥३२॥ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे-वर्णाश्रमेतराः। शीभावं प्रत्येव विभाषेत्युक्तम् , भतो नाकच् , किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥ (२२६) प्र. थमचरमतयाल्पाकतिपयनेमाश्च ११॥३३॥ एते जसः कार्य प्रत्युत्तसंज्ञा वा स्युः । प्रथमे, प्रथमाः। शेष रामवत् । तयप् प्रत्ययस्ततस्तदन्ता ग्राह्याः ।
-
-
अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् । विभाषा जसि । सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च । जसि इत्यविभक्तिको निर्देशः । जसः इ. जसिः । आर्षः सप्तम्या लुक् । इशब्द इवर्णपरः सन् शी इतीकारमाचष्टे । ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम् । तदाह-जसाधारमिति । जस आधारो यस्येति बहुवीहिः । जस्स्थानिकमित्यर्थः । ननु जसि परतो द्वन्द्वे सर्वनामसंज्ञा वा स्यादित्येव कुतो न व्याख्यायत इत्यत आह-शीभावं प्रत्येवेत्यादिना। यदि तु अकच् स्यात्, तहि तस्याव्यवधायकत्वाच्छीभावः प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानानोक्तदोष इत्याह-वर्णाश्रमेतरका इति । नचाचि कर्तव्ये विकल्पाभावेऽपि सर्वादीनीति नित्या सर्वनामसंज्ञा कुतोऽत्र न स्यादिति वाच्यम् , 'द्वन्द्वे च इति तस्याः नित्यनिषेधात् । नच द्वन्द्वे चेति निषेधस्य उक्तरीत्या अवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्यावयवस्य सर्वनामत्वानपायादकज्दुर इति वाच्यम् , द्वन्द्वावयवमाने सुन्दरादिविशेषणान्वयाभाववत् कुत्सादिविवक्षाया अभा. वात् । समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेन अवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः । अन्यथा अवयवेभ्यः प्रत्येक कप्रत्ययापत्तेः । एतदेवाभिप्रेत्योक्तं भाष्ये-'वर्णाश्रमेतरशब्दे अकच् न भवति' इति । एवंच यदा इतर. शब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति वर्णाश्रमेतरका इत्येव रूपम् । यदा तु कुत्सितः इतरः इतरक इति अकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव ।
प्रथमचरमतया। विभाषा जसीत्यनुवर्तते, सर्वनामानीति च। तदाह-एत इति । प्रथमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यातरि. कानां प्रथमादशब्दानां तु गणे पाठाभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतः नेमशब्दव्यतिरिकानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामका
यमित्याह-शेष रामवदिति । तयशब्दो न प्रातिपदिकमित्याह-तयप्प्रत्यय इति । 'संख्याया अवयवे तयफ्' इति विहित इति शेषः । तत इति । तस्मात् प्रत्ययत्वा
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१४६
द्वितये, द्वितयाः । शेषं रामवत् ।
·
नेमे नेमाः । शेषं सर्ववत् । 'विभाषा प्रकरणे तीयस्य ङित्सूपसङ्ख्यानम्' ( वा २४२) । द्वितीयस्मै, द्वितीयाय इत्यादि । एवं तृ. तीयः । अर्थवद्ग्रहणान्नेह | पटुआतीयाय । निर्जरः ॥ ( २२७ ) जराया जर सन्यतरस्याम् ७|२| १०१ ॥ जराशब्दस्य जर स् वा स्यादजादो विभक्तौ । 'पदाङ्गाधिकारे तस्य च तदन्तस्य च ' ( प. ३० ) । अनेकात्वात्सर्वादेशे प्राप्ते
देतोः प्रत्ययग्रहणपरिभाषया तदन्ताः तयबन्ता ग्राह्या इत्यर्थः । द्वितये द्वितया इति । द्वाववयवावस्येत्यर्थं तयप् । यद्यप्यवयवसमुदायः अवयवी तयबर्थः, तस्य च एकत्वादेकवचनमेव युक्तम् । तथापि यदा उद्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसाकत्वम्, तदा अवयवबहुत्वाभिप्रायम्, अवयविनः अवयवाभेदाभिप्रायं वा बहुवचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाभावात् किं तेन । चरमे चरमाः, अल्पे अल्पाः, अर्धे, अर्धाः, कतिपये कतिपयाः, इत्यपि प्रथम शब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्ग: । 'वा पुंस्यर्धोऽधं सर्वेऽशके' इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति । विभाषा जसीत्यधिकारे तीयान्तस्य - ङसि - ङस् -डि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । द्वेस्तीय इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात् द्वितीयात्, द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । ङित्सुदाहार्य इति शेषः । 'त्रेः सम्प्रसारणं च' इति पूरणे तीयप्रत्ययः । रेफस्य सम्प्रसारणम् ऋकारः । 'सम्प्रसारणाच्च' इति पूर्वरूपम् । ननु 'प्रकारवचने जातीयर' इति पटुशब्दात् जातीयरि पटुजातीयशब्दः । तस्यापि तीयान्तत्वात् डिल्स सर्वनामत्वविकल्पः स्यादित्यत आह- अर्थवदिति । 'अर्थवद्ग्रहणे नानर्थकस्य' इति परिभाषया अर्थवानेव तीयोऽत्र गृह्यते । जातीयरि तु समुदायस्यैवार्थवत्वं न तु तदेकदेशस्येति भावः ।
9
निष्क्रान्तो जराया निर्जरः । 'निरादयः क्रान्ताद्यर्थे' इति समासः । 'गोस्त्रियोः ' इति स्वत्वम् । निर्गता जरा यस्मादिति बहुव्रीहिर्वा । अस्य निर्जरशब्दस्य विशेषं दर्शयितुमाह-- जराया: । 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तम् 'अचि र ऋत:' इत्यतोऽनुवृत्तेन अधीत्यनेन विशेष्यते । 'यस्मिन् विधिः' इति तदादिविधिः । तदाह - जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह-पदेति । पदाधिकारे अङ्गाधिकारे च यस्य द्विहितं तत् तस्य तदन्तस्य च भवतीत्यर्थः । जरसादेशश्चायमङ्गाधिकार
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग -
'निर्दिश्यमानस्यादेशा भवन्ति' ( प १३) । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निजरखे । निर्जरसः । पक्षे इलादौ च रामवत् । वृत्तिकृता तु 'पूर्वविप्रतिषेधेनेनातोः
1
1
स्थत्वात् जराशब्दस्य तदन्तस्य च भवति । जरसावित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वं बोध्यम् । यद्यपि जराया इत्यस्य अङ्गविशेषणत्वादेव तदन्तविधिः सिद्धः, तथापि येन विधिरित्यस्य प्रपञ्चभूतेयं परिभाषेत्यदोषः । अत एव 'पदमङ्गं च विशेष्यं विशेषणेन च तदन्तविधिः' इति प्रौढमनोरमायामुक्तम् । ननु जराशब्दान्तस्य विधीयमानो जरसादेशः निर्जरशब्दस्य कृत्स्नस्य स्यात्, अनेकाल्त्वादित्याक्षिप्य समाधत्ते - अनेकाल्त्वादिति । निर्दिश्यमानस्यादेशा भवन्तीति । प्रत्यक्षनिर्दिश्यमानस्यवेत्यर्थः । अनया परिभाषया जराशब्दस्यैव जरस् । जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्टः । जराशब्दान्तस्य तु निर्देशस्तदन्तविधिलभ्यत्वात् आनुमानिक इति भावः । इयञ्च परिभाषा ' षष्ठी स्थानेयोगा' इति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जरशब्दस्य जराशब्दान्तत्वाभावात् कथमिह जरसादेश इत्यत आह - एकदेशेति । 'छिन्नेऽपि पुच्छे वा श्वैव, न चाश्वो न च गर्दभ' इति न्यायादिति भावः । निर्जरसौ । निर्जरस इति । प्रथमाद्वितीययोः द्विवचने बहुवचने च रूपम् । अमि निर्जरसमित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्येकवचने च, निर्जर आ, निर्जर अस् इति स्थिते नातोः कृतयोः जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तम् । तथा चतुथ्येकवचने षष्ठयेकवचने च, निर्जर ए, निर्जर अस्, इति स्थिते, यादेशे, स्यादेशे च सति अजादिविभक्त्यभावात् जरसादेशाभावे, निर्जराय निर्जरस्येति प्राप्तम् । तदाह - इनादीनिति | इन - य - आत्-स्य इत्यादेशान् नुटं च परत्वात् बाधित्वा जर-सादेशः । ततश्च अदन्तत्वाभावात् इनादयो न भवन्तीत्यर्थः । निर्जरसेति । तृतीयैकचचनम् । निर्जरसे इति । चतुथ्येंकवचनम् । निर्जरस इति । पञ्चम्येकवचने षष्ठयेकवचने च रूपम् । निर्जरसोः निर्जरसां निर्जरसीत्यप्युदाहार्यम् । पक्ष इति । जरसादेशाभावपक्ष इत्यर्थः ॥ इलादौ चेति । भिस ऐसादेशे निर्जरैरित्येव रूपम् । न तु जरसादेशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्य ऐसः सन्निपातपरिभाषया तद्विघातक - जरसादेश निमित्तत्वायोगात् ।
I
अथ वृत्तिकृदुत्प्रेक्षितं मतान्तरं दूषयितुम् अनुवदति - वृत्तिकृता स्वित्यादिना । पूर्वविप्रतिषेधेनेत्यादि केचिदित्यन्तो वृत्तिग्रन्थः । वृत्तिकृता तु इनातोः कृतयोः जरसिकृते निर्जरसिन निर्जरसादिति रूपम्, नतु निर्जरसा निर्जरस इति केचिदित्युक्तमित्यन्वयः । ननु इनादेशमादादेशं च परत्वात् बाधित्वा जरसि कृते, अदन्तत्वाभावात् कथमिनातौ स्यातामित्यत आह- पूर्वविप्रतिषेधेनेति । विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५१
कृतयोः सन्निपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसात् इति रूपे, न तु निर्जरसा निर्जरसः इति केचित्' इत्युक्तम् । तथा मिसि निर्जरसैः । इति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने 'निर्जरस्य' इत्येव रूपमिति स्वीकृतम् । एतच्च भाष्यविरुद्धम्। (२२८) पहनोमारहन्निशमन्यूषन्दोष.
बोध्यते तत् पूर्वविप्रतिषेधम् , 'विप्रतिषेधे परं कार्यम्' इति सूत्रं तेनेत्यर्थः । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित् पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्। ननु इनातोः कृतयोः कथं जरसादेशः, सन्निपातपरिभाषाविरोधादित्यत आह-सन्निपातपरिभाषाया अनित्यत्वमाश्रित्येति । तथेति। मिस ऐसादेशे जरसादेशाभावपक्षे निर्जरैरिति रूपम् । सन्निपातपरिभाषाया अनित्यत्वात् जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः । तदनुसारीति । निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारि. मिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृते अजादिविभक्त्यभावान जरस् । इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात् स्यादेशविषयेऽपि पूर्वविप्रतिषेधः आश्रयितुमुचितः। अत: निर्जरस्येत्येकमेव रूपं, नतु निर्जरस इत्य. पीति भावः। एतच्चेति । वृत्तिकृदुत्प्रेक्षितं केषाञ्चिन्मतं तदनुसारिमतं चेत्यर्थः । भाष्यविरुद्धमिति । 'टाङसिडसामिनात्स्याः ' इत्यत्र नादेश एव विधेयः । इकारोच्चारणं मास्तु । तथा अदादेश एव विधेयः, नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागात् भवति । तथाहि 'बहुवचने झल्येत्' 'ओसि च' 'माछि चाप:' 'सम्बुद्धौ च' इति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकार: स्यात् आङि। रामेण । आपः सम्बुद्धौ चेत्यन्यो योगः। भाप एका: स्यात् सम्बुद्धौ आङि ओसि च । हे रमे रमया रमयोः । डसेरदादेशे अकारोबारणसामर्थ्यात् 'अतो गुणे' इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्यासङ्गतिः स्पष्टैव । अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात्। किंच गोनीयस्त्वाह-अतिजरैरित्येव भवितव्यं सन्निपातपरिभाषया इति 'जराया जरसन्यतरस्याम् इति सूत्रे भाष्ये स्थितम् । निर्ज. रसैरिति रूपाभ्युपगमे एतदसङ्गतिः स्पष्टैव । अतः पूर्वविप्रतिषेधेनेत्यादिमतान्तरमशुद्धमित्यर्थः। - अथ पादशब्दस्य शसादौ विशेष दर्शयितुमाह-पदन्नो। पद-दत्-नस-मास्हद-निश-असन्- यूषन-दोषन्–यकन्-शकन्-उदन्-आसन् इत्येषां समाहारवन्द्वः । शस् द्वितीयाबहुवचनं प्रभृतिः-आदिः येषामिति तद्गुणसंविज्ञानो बहुबीहिः। 'अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवर्तते ।
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
सिद्धान्तकौमुदी
[ अजन्तपुल्लिङ्ग
न्यकञ्छकन्नुदन्नासच्छुस्प्रभृतिषु ६ |१| ६३ ॥ पाद दन्त नाखिका मास हृदय निशा असृज् यूष दोष् यकृत् शकृत् उदक आस्य एष पदादय आदेशाः स्युः शसादौ वा । यतु आसनशब्दस्यासन्नादेशः " इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः - पादान् । पदा - पादेनेस्यादि । (२२) सुडनपुंसकस्य १|१|४३|| सुङिति प्रत्याहारः । स्वादिपश्चवचनानि सर्वनामस्थान सब्ज्ञानि स्युरलीबस्य । ( २३०) स्वादिष्वसर्वनामस्थाने १|४|१७|| कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदस स्यात् । (२३१) यचि भम् २|४|१८ ॥ यकारादिष्वणादिषु च कप्प्रत्ययावधिषु
शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः । पदाथादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते । तदाह - पाददन्तेत्यादिना । यथासङ्ख्यपरिभाषया पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः । तत् प्रामादिकमिति । भ्रममूलकमित्यर्थः । ' हव्या जुह्वान आसनि' इति मन्त्रे 'आसन्यं प्राणमूचुः' इत्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः । दन्तशब्दस्य सुटि रामवत् । शसि पद्दन्निति दत् आदेशः । दत् अस् इति स्थिते तकारस्य 'झलां जशोऽन्ते' इति पदान्ते विधीयमानजश्त्वमाशङ्कितं पदसंज्ञाविधायक सूत्रं वक्ष्यति - स्वादिष्वसर्वनामस्थान इति । तत्र किं सर्वनामस्थानमि त्यत आह-मुडनपुंसकस्य । 'शि सर्वनामस्थानम्' इत्यतः सर्वनामस्थानमित्यनुवर्तते । अक्लीबं नपुंसकभिन्नप्रातिपदिकं तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्रसुशब्दमप्रसिद्धार्थत्वाद्वयाचष्टे - सुडिति प्रत्याहार इति । सु इत्यारभ्य औटष्टकारेणेति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाभावात् । तदेतदाह - स्वादिपञ्चवचनानीति । स्वादिष्वसर्वनामस्थाने । असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् । कप्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमान कप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत् अस् इत्यत्र दत्शब्दस्य सुबन्तत्वाभावेन पदत्वाभावेऽपि अनेन सूत्रेण पदत्वात् 'झलां जशोऽन्ते' इति तकारस्य जश्वं स्त्रीदिव्याक्षेपः सूचितः । भसंज्ञया पदसंज्ञाबाधात् न जश्त्वमिति समाधातुं भसं सूत्रमाह-यचि भम् । य्च अच्चेति समाहारद्वन्द्वः | 'स्वादिष्वसर्वनामस्थाने' इत्यनुवृतं यचीत्यनेन विशेष्यते । यस्मिन् विधिरिति तदादिविधिः । तदाह – यदारादिष्वित्यादिना । एवं च दत् अस् इत्यत्र दत् इत्यस्य भांज्ञया पदसंज्ञाबाधान जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच विप्रतिषेधे पर कार्यमिति परैव भसंज्ञा भवतीति वाच्यम्, विरोधो हि विप्रतिषेधः । नात्र द्वयोरपि संज्ञयोः समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञा समावेश
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसञ्ज्ञं स्यात् । (२३२ ) आ कडारादेका सञ्ज्ञा १|४|१॥ इत ऊर्ध्व 'कडाराः कर्मधारये ' ( सू ७५१ ) इस्यत: प्रागेकस्यैकैव सब्ज्ञा ज्ञेया । या परा अनवकाशां च । तेन शसादावचि भसब्जैव । न पदत्वम् । अतो जश्वं न । दतः । दता । जश्त्वम् । दद्भथामित्यादि । मासः । मासा | भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि । (२३३) भस्य
१५३
।
दर्शनादित्यत आह-श्रा कडारा । आङ्मर्यादायामित्याहइ-कडारा: कर्मधारय इत्यतः प्रागिति । आडिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाभावात् । प्राक्कडारादिति कडारशब्दस्तु नोत्तरावधिः । 'कडाराः कर्मधारये ' इति कडारशब्दस्य उत्तरावधि अधिकलाभात् । प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च । संज्ञाद्वयसमावेशार्थो हि चकारः । तत्रैकसंज्ञाया नियमाप्रवृत्तौ किं तेन । नन्वस्त्विह एकैव संज्ञा । तथापि विनिगमनाविरहात् भज्ञैवैति कुतो लाभः । तत्राह - या परा श्रनवकाशा चेति । विरोधाभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाप्रवृतावपि परत्वनिरवकाशत्वयोः अन्यत्र बलवत्वेन दृष्टत्वादिहापि ताभ्यां व्यवस्था युज्यत इति भावः । द्वयोः सावकाशयोः परा हांज्ञा बलवती । अन्यतरस्याः faraarad तु नैवेति बोध्यम् । तत्र परा यथा-धनुषा शरैर्विध्यतीत्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषो व्यधमं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञव भवति । अनवकाशा यथा - अततक्षदिति । अत्र तकारादकारस्य 'संयोगे गुरु इति गुरुसांशैव अनवकाशत्वात् भवति, ननु लघुसंज्ञा । तस्याः असंयोगे परे चरितार्थत्वात् । अतः सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशवेत्यर्थः । श्रत इति । पदत्वाभावात् जश्त्वं नेत्यर्थः । जश्त्वमिति । दत् भ्यामिति स्थिते 'स्वादिष्वसर्वनामस्थाने' इति पदान्तत्वात् 'झलां जशोऽन्ते' इति जश्त्वमि - त्यर्थः । इत्यादीति । दद्भिः दते इत्यादिरादिशब्दार्थः । 'खरि च' इति चवें दत्सु । पक्षे | रामवत् । मास इति । मासशब्दस्य शसि पन्न इति मास् इत्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास् स्याम् इति स्थिते स्वादिष्विति पदत्वात् 'ससजुषोः' इति रुः । 'भोभगो' इति तस्य यकारे 'हलि सर्वेषाम्' इति तस्य लोपे माभ्यां माभिरिति रूपमित्यर्थः । इत्यादीति । माभ्यः इत्यादिरादिशब्दार्थः । मास् सुइति स्थिते रुत्वे 'खरवसानयोः' इति विसमें 'वा शरि' इति सत्वविकल्पः मास्सु-माःसु ।
भस्य इति । इत्यधिकृतं स्पष्टमेव । यूषशब्दो मण्डवाची । 'मुट्ठामलकयूषस्तु भेदीदी पनपाचकः' इत्यादि वैद्यशास्त्रे प्रसिद्धम् । तस्य शसि 'पदन्नः' इति यूषन्ना
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
सिद्धान्तकौमुदी
[अजन्तपुंलिश
-
६४१२६॥ इत्यधिकृत्य । (२३४) अल्लोपोऽनः ६४।१३४॥ अहावयवोऽस. वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः स्यात् । (२३५) रषा. भ्यां नो णः समानपदे ४॥२॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः। यूष्णा । 'पूर्वस्मादपि विधौ स्थानिवदभावः' इति पक्षे तु देशे यूषन् अस् इति स्थिते । अल्लोपोऽनः । अत् इति लुसषष्ठीकं भिन्न पदम् । अन इत्यवयवषष्ठयन्तम् अतो विशेषणम्-अनोऽवयवो योऽकारः तस्य लोप इति । अङ्ग स्येत्यधिकृतम् इहावयवषष्ठयन्तमाश्रीयते। तवान हत्यत्रान्वेति-अङ्गावयवो या अन् तदवयवस्य अकारस्य लोप इति । भस्येत्यधिकृतम् । अन इत्यनेनान्वेति । ततश्चान: असर्वनामस्थानयजादिस्वादिपरत्वं लभ्यते । तदाह-अङ्गावयव इत्यादिना । अनन्तस्य भस्याङ्गस्याकारस्य लोपः स्यादिति प्राचां व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्गः । भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनसा मनसेत्यत्राति. व्याप्तिः । अन इत्यावर्त्य अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुक्कैव व्याख्येत्यन्यत्र विस्तरः। यूषन् अस् इत्यत्र षकारादकारस्य लोपे यूष - अस् इति स्थिते । रषाभ्याम् । षाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यमू । समानशब्द एकपर्यायः। यथा-समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । नः इति षष्ठी। तदाह-एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्व विवक्षितम् , पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेस्यादौ 'अट्कुम्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तः । मातृभोगीणः इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति। तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्वं नेति शड्यम् , 'रषाभ्याम् इति षात्परस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावो नापेक्षितः । किन्तु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्य भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रे अवोचाम।
यद्यपि 'अचः परस्मिन्' इत्यत्र अशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरस्ति । स्थानीभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तः । इह चाल्लोपस्थानीभूतादकारात् परस्यैव णत्वविधानादिति भावः । ननु 'अचः परस्मिन्' इति सूत्रे स्थानिभूतादचः पूर्वस्मात् परस्य विधावजा. देशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः। एवंचात्र लोपादेशस्थानीभूतादकारात्
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५५
'भड्व्यवाये' इत्येवात्र णत्वम् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति विह नास्ति । 'तस्य दोषः संयोगादिलोपलवणत्वेषु' (वा ४४०) इति निषे. धात् । (२३६) न लोपा प्रातिपदिकान्तस्य २७॥ नेति प्रातिपदिकेति पूर्वो यः षकारः तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सति अकारेण व्यवधानात् षात्परत्वाभावात् कथं गत्वमित्यत आह-पूर्णस्मादिति । पक्षे त्वित्यादिना अस्य पक्षस्यानित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ 'गण सङ्ख्याने इत्यदन्तो धातुः । णिच् । अतो लोपः। अल्लो. पस्य स्थानिवद्भावात् 'अत उपधायाः' इति वृद्धिर्ने । ण्यन्तात् क्त्वो ल्यपि णिलोपं बाधित्वा 'ल्यपि लघुपूर्वात्' इति रयादेशः । पूर्वस्मात् परस्य विधौ स्थानिवद्रावस्य नित्यत्वे इह 'ल्यपि लघुपूर्वात' इति रयादेशो न स्यात् । लोपस्थानीभूतादतः पूर्वस्मात् परस्य णेरयादेशविधावल्लोपस्य स्थानिवदावे सति अता व्यवहितत्वेन गेलघुपूर्वात् णकारात् परत्वाभावात् । तस्मात् 'अचः परस्मिन्' इत्यत्र पूर्वस्मात् परस्य विधौ स्थानिवद्रावस्यानित्यत्वं विज्ञायते । एवं च गोशब्दात् सम्बुद्धौ ओतो णित्त्वे वृद्धौ हे गौरिति सिध्यति । अन्यथा औकारस्य स्थानीभूतादोकारात् पूर्वो यो गकारः तस्मात् परस्याः सम्बुद्धेर्लोपविधौ स्थानिवद्भाधे ओकारादेडः परत्वात् सम्बुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति । 'अकुप्वाङ्' इति सूत्रेणैवेत्यर्थः । षादव्यवहितपरस्य नस्य णत्वविधाबुदाहरणं तु पुष्णातीत्यादि बोध्यम् । वस्तुतस्तु 'तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणम् उत्तरार्थम् इति स्पष्टमाकरे । ___ नन्वल्लोपस्य गत्ये कर्तव्ये कथं स्थानिवद्भावः । पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह-पूर्वत्रेति। संयोगादिलोपे लत्वे गत्वे च कर्तव्ये, तस्य पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोषः बाधः, अप्रवृत्तिरिति यावत् । संयोगादिलोपे यथा-चक्रयत्र । इह 'अचः परस्मिन्' इति यणादेशस्य स्थानिवद्भावात् 'स्कोस्संयोगाद्योः' इति ककारलोपो न । लत्वे यथा-निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात् 'अचि विभाषा' इति लत्वम् । णत्वे यथा-माषपनी। वपतेयुट , अनादेशः, उगित्वात् डीप , 'यस्येति च इति नकारात् अकारस्य लोपः। इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वं न। यूषन् भ्यामिति स्थिते । न लोपः । न इति स्थानषष्ठयन्तं पृथक्पदम् । आर्षः षष्ठयाः लुक् । नकारस्य लोप: स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वात् लोपशब्देन समासो न भवति, असामर्थ्यात् । कस्यान्त इत्यपेक्षायां पदस्येत्यधिकृतम् अवयवषष्ठ्यन्तमन्वेति । पदस्य योऽयमन्तावयवः तस्य नकारस्य लोप इति। कीदृशं पद
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
च लृप्तषष्ठी के पदे । प्रातिपदिकसञ्ज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नळोपस्यासिद्धत्वाद्दीर्घ ऐस्त्वमेवं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि । ( २३७) विभाषा ङिश्योः ६ |४| १३६ अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् खिश्योः परयोः । यूष्णि - यूषणि । पक्षे रामवत् । ' पद्दन्नो ( सू २२८ ) इति सूत्रे प्रभृतिप्रहणं प्रकारार्थम् । तथा च औ: श्यामपि दोषन्नादेशः । अत एव भाष्ये ' ककुद्दोषणी' इत्युदाहृतः । तेन पदङ्घ्रिश्चरणोऽस्त्रियाम्' 'स्वान्तं हृन्मानसं मनः' इत्यादि च सङ्गच्छते । आसय प्रणमूचुः' इति च । आस्ये भवः आसन्यः । दोषूशब्दस्य नपुंसकत्वमत एव मित्यपेक्षायां प्रातिपदिके लुप्तषष्ठ्यन्तमन्वेति । प्रातिपदिकसंज्ञकं यत् पदं तस्य योऽमन्तावयवो नकारः तस्य लोपः स्यादिति । अत एव प्रातिपदिकान्तस्येति न समतमेकं पदम् । तस्य पदशब्देनान्वितेनान्तशब्देनासामर्थ्यात् । तदाह - नेति प्रातिपदिकेति च लुप्तषष्ठी पदे इति । तदन्तस्येति । तस्य पदस्य अन्तावयवो यो नकारः तस्येत्यर्थः । प्रातिपदिकग्रहणं किम् ' अहम् इति' तिङन्तस्य न भवति । पदग्रहणं किम्, राजानौ । ननु नलोपे सति यूषभ्यामित्यत्र 'सुपि च' इति दीर्घः स्यात् । यूषभिरित्यत्र 'अतो भिस ऐस्' इति ऐसादेशः स्यात् । यूषभ्य इत्यत्र 'बहुवचने शल्येत्' इति एत्त्वं स्यादित्यत आह- नलोपस्यासिद्धत्वादिति । इत्यादीति ॥ यूष्णे - यूष्णः - यूष्णो:यृष्णाम् इति आदिशब्दार्थः । यूषन् ङि इति स्थिते अल्लोपोऽनः इति नित्ये अल्लोपे प्राप्ते । विभाषाङियोः । अल्लोपोऽन इत्यनुवर्तते । अङ्गस्येति भस्येति चाधिकृतम् । भस्येत्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वं पूर्ववदनो लभ्यते । तदाह-अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः । 'नपुंसकाच्च' इति विहित एवात्र शी गृह्यते । नतु जक्शसोश्शिः, तस्मिन् परे भत्वासम्भवात् । पक्षे इति । यूषन्नादेशाभावपक्षे इत्यर्थः ।
अथ क्वचित् शसादिभ्योऽन्यत्रापि पदाथादेशं साधयितुमाह - पद्दन्नो इति सूत्र इति । प्रकारेति । प्रकारः सादृइयम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति- - अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः । 'ककुदोषणी याचते महादेवः' इत्येवं भाष्ये औङादेशभूतशीभावे परतः उदाहृतो दोषनादेशः अत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः । पदनिरित्यत्र पदिति प्रथमैकवचनम्, स्वान्तं हृदित्यत्र हृदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । श्रासन्यं प्राणमिति । आसन्यं प्राणमुचुरिति च अत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति - श्रास्ये भवः
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१५७
भाष्यात् । तेन 'दक्षिणं दोर्निशाचरः' इति साच्छते । 'भुजबाहू प्रवेष्टो दोः' इति साहचर्यात्पुंस्त्वमपि । 'दोषं तस्य तथाविधस्य भजतः' इति । द्वयोरहोर्भवो द्वयह्नः। (२३८) सङ्खयाविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ६।३। ११०॥ संख्यादिपूवस्याह्नस्याहनादेशो वा स्यात् । व्यहि-यहनि-द्वयहे । विगतमहय॑ह्नः । व्यह्नि-व्यहनि-व्य है। अतः सायः सायाह्नः । सायाह्नि-साया. इनि-सायाहे ॥ इत्यदन्ताः ॥
इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः । 'शरीरावयवाच्च इत्यास्यशब्दात् भवाथें यत्प्रत्यये आसन्नादेशः। 'ये चामावकर्मणो' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थस्वाभावे तु इह आसन्नादेशो न स्यात् , यत्प्रत्ययस्य शसादिषु सुप्सु अनन्तर्भावादिति भावः । ननु दोषणी इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः । 'दोषं तस्य तथाविधस्य' इत्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह-दोषशब्दस्यति । अत एवेति । ककुद्दोषणी इति भाष्यादेव ज्ञेयमित्यर्थः । तेन दक्षिणमिति । 'तमुपाद्रवदुधम्य दक्षिणं दोनिशाचरः' इति रघुवंशे। दक्षिणं दोरुद्यम्य तमुपाद्रवदित्यन्वयः । दोशब्दस्य द्वितीयैकवचनं दोः इति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसारात् दोषशब्दस्य नपुंसकत्वमेव स्यादित्यत आह-भुजेति । 'भुजबाह प्रवेष्टो दोः' इति कोशात् पुंस्त्वमपीत्यर्थः । नन्वयं कोशः दोषशब्दस्य नपुंसकत्वेऽप्युपपन्नः इत्यत आह-साहचर्यादिति । पुल्लिङ्गभुजादिशब्दसाहचर्यादित्यर्थः । 'साहचर्याच्च कुत्रचित्' इति कोशे परिभाषितत्वादिति भावः । दोषशब्दस्य पुंस्त्वसाधने फलं दर्शयति-दोषं तस्येति । 'दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुणम्' इति श्रीहर्षः । दोष हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम् अतिशयं च गृह्णन्नित्यन्वयः। अत्र दोषमिति दोषशब्दस्य पुंल्लिङ्गाद्वितीयैकवचनम् । अत्र सुप्रभृतिष्विति वाच्ये शस्प्रभृति. विति वचनात् सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरहोरिति। तद्धितार्थेति समासः । 'काला' इति ठञ् । 'द्विगोलंगनपत्ये' इति लुक । 'राजाहस्सखिभ्यष्टचा इति टच् । 'अहोऽह एतेभ्यः' इत्यह्लादेशः । रामशब्दवद्रूपाणि । डौ विशेषमाहसङ्ख्याविसाय । संख्या च विश्च सायश्च सङ्ख्याविसायाः ते पूर्वे यस्मादिति विग्रहः इत्यभिप्रेत्य आह-सङ्ख्येत्यादिना । सङ्ख्यापूर्वमुदाहरति-व्यहि द्यहनीति । अल्लोपे तदभावे च रूपम् । व्यढे इति । अहन्नादेशाभावे रूपम् । एवं विपूर्वमुदाहरति"विगतमिति । 'प्रादयो गताद्यर्थे प्रथमया' इति समासः । पूर्ववदह्लादेशः । सायपूर्वमुदादरति-अह्नः सायः इत्यादिना । अत एव ज्ञापकादेकदेशिसमासः ॥ इत्यदन्तप्रकरणम् ॥
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
[अनन्तपुंलिङ्ग
विश्वपाः । (२३६) दीर्घाज्जसि च ६।१।१०५॥ दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्थो न स्यात् । वृद्धिः विश्वपौ। सवर्णदीर्घः विश्वपाः । यद्यपीह भौति 'नादिचि' (सू १६५) इत्येव सिद्धम् । बसि तु सत्यपि पूर्वसवर्णदीधैं क्षतिनास्ति। तथापि 'गौ?' 'गौर्यः' इत्याद्यर्थ सूत्रमिहापि न्याययत्वादुपन्यस्तम् । (२४०) आतो धातोः ६४।१४०॥ आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य
अथ श्राकारान्ता निरूप्यन्ते । विश्वपा इति । आबन्तत्वाभावात् न सुलोपः । एतदर्थमेव हल्ख्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः । विश्व पाति रक्षतीत्यर्थे 'आतोऽनुपसर्गे कः' इति प्राप्ते वासरूपन्यायेन 'आतो मनिनक्वनिब्वनिपश्च' इति चकाराद्विच् । यद्यपि तत्र 'विजुपे छन्दसि' इत्यतः छन्दसीत्यनुवर्तते । तथापि वेदे अनेन विच । लोके तु । अन्येभ्योऽपि दृश्यन्ते' इति विच । अन्ये तु 'क्विप्च' इति सूत्रेण क्विपमाहुः । 'धुमास्था' इतीत्त्वं तु न, 'वकारे ईत्त्वप्रतिषेधः' इति वातिकात् , क्वनिपि पावान इत्येतदर्थं तस्यावश्यकत्वात् । 'क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्वि. ब्भ्योऽनभिधानमेव' इति शब्देन्दुशेखरे स्पष्टम् । अत एव भाष्ये पावानः इत्यत्र वनिपा रूपसिद्धिमाश्रित्य 'ईत्त्वमवकारादाविति वक्तव्यम्' इति वार्तिकं प्रत्याख्यातम् । ततश्च विश्वपाः इत्यत्र विजेव । विश्वपा औ इति स्थते 'प्रथमयोः पूर्वसवर्ण इति प्राप्ते । दीर्घाज्जसि च । 'प्रथमयोः' इत्यतः पूर्वसवर्णः इति 'नादिचिः इत्यतः नेति इति इचीति च अनुवर्तते । तदाह-दीर्घादित्यादिना । नन्विदं सूत्रं व्यर्थम् , 'ना. दिचि' इत्येव सिद्धेरिति शङ्कते-यद्यपीह औङि नादिचीत्येव सिद्धमिति । ननु जसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकम् । तत्र 'नादिचि' इत्यस्याप्रवृत्तरित्यत आह--जसि विति। मास्तु पूर्वसवर्णदीर्घनिषेधः। पूर्वसवर्णदीर्धे सत्यपि जसि विश्वपाः इति सिध्यति । तन्निषेधे सत्यपि 'अकस्सवणे दीर्घः' इति कृतेऽपि विश्वपाः इत्येव रूपं सिध्यति । अतः किं तन्निषेधेनेत्यर्थः । परिहरति-तथापीति । इत्यादीति । आदिना लक्ष्म्यावित्यादिसङ्ग्रहः । तत्र 'नादिचि' इत्यस्याप्रसक्त्या तन्निषेध आवश्यक इति भावः । ननु दीर्घाज्जसि च' इति सूत्रं यदि गौयों इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह--इहापि न्याय्यत्वादिति । विश्वपावित्यत्र 'नादिचि' इत्यस्य दीर्घाज्जसि च' इत्यस्य च प्राप्तौ परत्वेन 'दीर्घाज्जसि च' इत्यस्यैव उपन्यासौचित्यादित्यर्थः । 'अमि पूर्वः विश्वपाम् । औटि विश्वपौ। __ शसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीधै प्राप्ते । आतो धातोः। अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठयन्ते न विशेष्यते । तदन्तविधिः । 'अ
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५६
लोपः स्यात् । 'अलोऽन्त्यस्य (सू ४२) । विश्वपः । विश्वपा । विश्वपाभ्यामि. त्यादि । एवं शङ्खमादयः। 'धातोः किम् । हाहान् । टा सवर्णदीर्घः हाहा। ले वृद्धिः हाहै । उसिसोदीर्घः हाहाः । भोसि वृद्धिः हाहौः। छौ आद्गुणः हाहे । शेषं विश्वपावत् । 'आतः' इति योगविभागादधातोरप्याकारलोपः कचित् । क्त्वः। श्नः ॥ इत्यादन्ताः ॥ लोपोऽनः' इत्यतो लोप इत्यनुवर्तते । तदाह-आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याकारस्य लोप इति शेषः । विश्वपाभ्यामिति । अमत्वादाल्लोपो नेति भावः। इत्यादीति । विश्वपामिः । विश्वपे। विश्वपः । विश्वपोः। विश्वपाम् । विश्वपि । विश्वपोः। विश्वपासु । एवं शङ्खध्मादय इति । शङखेन शङ्ख वा धमतीति शाध्माः। 'मा शब्दाग्निसंयोगयोः पूर्ववत् विच् किव्वा ।आदिना सोमपादिसङ्ग्रहः। सोमं पिब. तीति सोमपाः। कीलाल पिवतीति कीलालपाः । वारिपर्यायेषु पयः कीलालममृतम्' इ. त्यमरः। मधु पिबतीति मधुपाः इत्यादि। धातोः किमिति । 'आतोऽनापः' इत्येव सून्यताम् । तावतैव रमा इत्याचाबन्तेषु लोपव्यावृत्तेरिति प्रश्नः । हाहानिति। पूर्वसवर्णदीधै 'तस्माच्छसः' इति नत्वम् । हाहा इति गन्धर्वविशेषवाचकमव्युत्पन्न प्रातिपदिकमेतत् । 'हाहाहूहूश्चैवमाया गन्धर्वास्त्रिदिवौकसाम्' इत्यमरः । सुटि विश्वपावत् । शसि हाहा अस इत्यत्रापि 'आतोऽनापः इत्याल्लोपः स्यात् । अतो धातुग्रहणमित्यर्थः । टा सवर्णदीर्घ इति । टा इत्यविभक्तिकनिर्देशः प्रक्रियादशायां न दुष्यति । तृतीयैकवचने सव. गंदीर्घ इत्यर्थः । एवमग्रेऽपि योज्यम् । ङे पृद्धिरिति । हाहा ए इति स्थिते 'वृद्धिरेचि इति वृद्धिरित्यर्थः । ङसिङसोरिति । हाहा अस इत्यत्र सवर्णदीर्घ इत्यर्थः । ओसि वृद्धिरिति । हाहा ओस् इत्यत्र 'वृद्धिरेचि' इति वृद्धिरित्यर्थः। डौ आद्गुण इति । हाहा इ इत्यत्र 'आद्गुण' इति गुण एकार इत्यर्थः । क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ विश्वपावत्। नन्वधातुत्वात् कथमिह आल्लोप इत्यत्र आह-आत इति योगेति । 'आतो धातो' इत्यत्र आत इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोप: स्यादित्यर्थः। तेन क्त्वः श्नः इति शसि रूपं सिध्यति। धातोरिति योगा. न्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः। आबन्त. व्यावृत्त्यर्थ हाहादिव्यावृत्त्यर्थ चेदम् । आत इति योगविभागस्तु क्त्वः श्नः इ. त्यादौ क्वचिदाल्लोपार्थः। ननु मालेवाचरति मालाः। आचारविबन्तात् कर्तरि क्विप् । सुबुत्पत्तिः । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः, 'सनाद्यन्ताः' इति धातुत्वात् आदन्तत्वाच्च । नच 'अनाप इति वक्तव्यम्' इति 'वार्तिकादाबमते नाल्लोप इति शवयम् , उक्तरीत्या योगविभागमभ्युपगम्य 'अनाप इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम् , एतद्वार्तिकभाष्यप्रामाण्यादेव
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
हरिः । 'प्रथमयोः पूर्वसवर्णः' ( सू १६४ ) हरी। (२४१) जसि च ॥३॥ १०६॥ ह्रस्वान्तस्यास्य गुणः स्याज्जसि परे। हरयः । (२४२) हस्वस्य गुणः ७॥३॥१०॥ हस्वस्य गुणः स्यात्सम्बुद्धौ । 'एव्हस्वात्- (सू १९३) इति सम्बुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् । (२४३) शेषो ध्यसखि । १४७॥ अनदीसम्ज्ञौ ह्रस्वी याविवर्णोवर्णौ तदन्तं सखिवर्ज घिसम्झं स्यात् । 'शेषः किम् । मत्यै । एकसज्ञाधिकारासिद्ध शेषप्रहणं स्पष्टार्थम् । 'हखो' किम् ।
आबन्तेभ्यः आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् । इत्यादन्तप्रकरणम् ॥ ___ अथ इकारान्ता निरूप्यन्ते । हरिरिति । हरिशब्दाव सुः रुत्वविसगौं। नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात् तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्कयः, यणादेशे कर्तव्ये विसर्जनोयस्यासिद्धत्वात् । प्रथमयोः पूर्वसवर्ण इति । हरि औ इति स्थिते अनेन पूर्वसवर्णदीधे सति हरी इति रूपमित्यर्थः। जसि हरि अस् इति स्थिते पूर्वसवर्णदीधे प्राप्ते । जमि च। 'हस्वस्य गुणः' इत्यनुवर्तते । अङ्गस्येत्यधिकृतं हस्वेन विशेष्यते । तदन्तविधिः । तदाह-हस्वान्तस्येत्यादिना। हरय इति । अलोऽन्त्यपरिभाषया अन्त्यस्य गुणः। इकास्य तालुस्थानसाम्यादेकारः । अया. देशः । रुत्वविसर्गाविति भावः । हे हरि स् इति स्थिते । हस्वस्य गुणः । 'सम्बुद्धौ च' इत्यतः सम्बुद्धावित्यनुवर्तते । तदाह-हस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः । सम्बुद्धिलोप इति । एङः परत्वादिति भावः । नत्वत्र हस्वात् परत्वमस्ति, परत्वान्नित्यत्वाञ्च सम्बुद्धिगुणे कृते ह्रस्वात् परत्वाभावात् । हरिमिति । अमि पूर्वरूपे रूपम् । हरीनिति । पूर्वसवर्णदीर्घ 'तस्माच्छसः' इति नत्वम् ।
तृतीयैकवचने हरि आ इति स्थिते धिकार्य वक्ष्यन् घिसंज्ञामाह-शेषो । 'यू स्त्रयाख्यौ' इत्यतो यू इत्यनुवर्तते । इश्च उश्च यू इवर्णश्च उवर्णश्च । 'किति ह. स्वश्च' इत्यतो हस्व इत्यनुवर्तते । तच्च यूभ्यां प्रत्येकमन्वेति । उक्तात् नदीसंज्ञकात् अन्यः शेषः । स च यूभ्यां प्रत्येकमन्वेति । शब्दस्वरूपमित्यध्याहार्य यूभ्यां विशेप्यते । तदन्तविधिः । तदाह-प्रनदीसंज्ञावित्यादिना । शेषः किमिति । अनदीसंज्ञकत्व. विशेषणं किमर्थमिति प्रश्नः । मत्य इति । शेषग्रहणाभावे 'लिति हस्वश्च' इति नदीत्वपमेऽपि घिसंज्ञा स्यात् । ततश्च 'आपनद्याः' इत्याडागमे वृद्धौ ‘घेडिति' इति गुणे अयादेशे मतय इति स्यादिति भावः । शेषग्रहणाभावेऽपि मत्यै इत्यत्र घिसंज्ञा न भवति 'आकडारादेका संज्ञा' इत्यनवकाशया नदीसंज्ञया बाधादित्यत आह-एक
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१६१
बातप्रम्ये । 'यू' किम् । मात्रे। (२४४) प्राङो नाऽस्त्रियाम् ७।३।१२०॥ घेः परस्यालो ना स्यादस्त्रियाम्। आलिति टासज्ञा प्राचाम् । हरिणा। 'अस्त्रियाम्। किम् । मस्या । (२४५) घेङिति ७।३।१११॥ घिसज्ञकस्य छिति सुपि गुणः स्यात् । हरये । 'घेः किम् । सख्ये । 'छिति' किम् । हरिभ्याम् । 'सुपि'
संज्ञेति । वातप्रभ्य इति। हस्वग्रहणाभावे वातप्रमी ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात् । ततश्च 'डिति' इति गुणे अयादेशे च वातप्रमये इति स्यात् । अतो हस्वग्रहणमिति भावः । मात्र इति । यू इत्यभावे मातृ ए इति स्थिते कारा. न्तस्यापि घिसंज्ञायां डिति' इति गुणे अकारे रपरत्वे मातरे इति स्यात् । अतः इदुताविति भावः । वस्तुतस्तु इदुताविति व्यर्थमेव । माने इत्यत्र अकारान्तस्य वित्वेऽपि 'धेर्डिति' इति गुणो न भवति 'ऋतो डिसर्वनामस्थानयोः' इत्यत्र डिग्रह. णात् ज्ञापकात् । तद्धि मातरि इत्यादौ सप्तम्येकवचने गुणार्थम् । ऋकारान्तस्यापि घित्वे तु घेडिति इत्येव गुणसिद्धौ किं तेन । प्राडो नाऽस्त्रियाम् । घेः परस्येति । 'अञ्च धे इत्यतो धिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशे 'अट्कुप्वाङ् इति णत्वम् । ननु आडो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह-आङितीति। प्रा. चामाचार्याणां शास्त्रे संज्ञितेत्यर्थः । मत्येति । 'स्त्रियां क्तिन्' इति क्तिन्नन्तमतिश . ब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि ए इति स्थिते। घेडिति । 'सुपि च' इत्यतः सुपीति 'हस्वस्या इत्यतो गुण इति चानुवर्तते । तदाहघिसंशकस्येत्यादिना । यणोऽपवादः। हरय इति । गुणे अयादेशे। सुपि किं पट्वीति। 'वोतो गुणवचनात्' इति ङीष् । तस्य डिन्त्वेऽपि सुप्त्वाभावात् तस्मिन् परतो न गुण इत्यर्थः । नच 'धेङि इत्येव सूश्यताम् , इद्ग्रहणं न कर्तव्यम् । 'यस्मिन् विधिः इति परिभाषया डकारादौ सुपीत्यर्थलाभादिति वाच्यम् । एवं सति 'आपनद्याः' इत्यत्रापि डीत्येवानुवृत्तौ डकारादेराम आविधीयते । ततश्च मत्यामित्यत्र आण्न स्यात् । आमो लादित्वाभावात् । नच स्थानिवद्भावेन डादित्वं शङ्कयम् , अल्विधित्वात् स्थानिनो ईकारस्यादित्वेनाश्रयणात् । इद्ग्रहणे तु स्थानिवद्भावः सम्भवति । अनुबन्धकार्ये कर्तव्ये अनल्विधाविति निषेधाभावात् आमादेशदशायां उडकारस्य इत्संज्ञालोपाभ्यामपहृतत्वेन आम्स्थान्यस्त्वाभावात् अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षेऽपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति, 'अनेकालिशत्सर्वस्य' इत्यत्र शिद्ग्रहणात् ज्ञापकात् । अन्यथा इदम् इशित्यादिशितां शकारेणानुबन्धेन सहानेकालत्वादेव सिद्धे किं तेन । अत एव तिवाद्यादेशेषु पित्त्वादि सिध्यति । अत एव से पिच्च' इत्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याल्विधित्वात्तन्त्र स्था
११ बा०
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुंल्लिा
किम् । पदवी । 'िित' इति गुणे कृते । (२४६) सिङसोश्च ६।१।११०॥ एगे सिम्सोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हरेः । हर्योः । हरीणाम् । (२४७) मच्च घे. ७।३।११६॥ हदुभ्यामुत्तरस्य रौत्स्याघेरन्तादेशश्चा. कारः। द्धिः, हरौ । होः । हरिषु । एवं श्रीपत्यग्निरविकण्यादयः। (२४) अनङ सौ ७१३॥ सख्युरजस्यानडादेशः स्यादसम्बुद्धौ सौ परे । 'ङिच्च' (सू ४३) इत्यन्तादेशः। (२४१) अलोऽन्त्यात्पूर्व उपधा शश६५॥ अन्त्यादलः पूर्वो वर्ण उपधासम्ज्ञः स्यात् । (२५०) सर्वनामस्थाने चासनिवद्भावस्टौवाप्रसक्त्या हे पित्त्वस्यौवाप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् ।
गुणे कृत इति । इसिङसोरिति शेषः । हरे अस् इति स्थिते अपदान्तत्वात् 'एङः पदान्तात्' इति पूर्वरूपे अप्राप्ते अयादेशे प्राप्ते । सिङसोश्च । 'एडः पदान्तात्। इत्यतः एक इति, अतीति चानुवर्तते । 'अमि पूर्वः' इत्यतः पूर्व इत्यनुवर्तते । 'एक: पूर्वपरयोः' इत्यधिकृतम् । तदाह-एङो ङसिङसोरित्यादिना । हरेः इति । पूर्वपक्षे रुत्व. विसर्गो । पञ्चम्येकवचनस्य षष्ठ्येकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एडौ च द्वौ। तथापि न यथासङ्ख्यमिष्यते । 'यथासङ्ख्यमनुदेशस्समानां, स्वरितेन' इति सुत्रच्छेदमभ्युपगम्य यत्र स्वरितत्वं प्रतिज्ञातं तत्रैव यथासयविज्ञानादिति यथासड्डयसूत्रभाष्ये स्पष्टम् । 'अच्च घेः' 'उपसर्ग घोः कि इत्यादिनिर्देशाच्च । होरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । 'हस्वनद्यापः' इति नुट् । 'नामि' इति दीर्घः । 'अटकुप्वाङ्' इति णत्वम् । हरि इ इति स्थिते 'धेर्डिति' इति गुणे प्राप्ते । अच्च घेः । 'राम्' इत्यतो रित्यनुवर्तते । 'इदुद्भयाम्' इति 'औत्' इति च सूत्रमनुवर्तते । तदाह-इदुद्भयामित्यादिना। अन्तादेश इति । अलोऽन्त्यपरिभाषा. लभ्यमेतत् । वृद्धिरिति । हर औ इति स्थिते 'वृद्धिरेचि' इति वृद्धो, हरौ इति रूपमि. त्यर्थः । हरिग्विति । 'आदेशप्रत्यययोः' इति षत्वम् । अथ सखिशब्दात् सुः । सखि स् इति स्थिते । अनङ् सौ । 'सख्युरसम्बुद्धौ' इत्यनुवर्तते । 'अङ्गस्य' इत्यधिकृतम् । तदाह-सख्युरङ्गस्येत्यादिना । सौ इति प्रथमैकवचनम् , नतु सप्तमीबहुवचनम् , असम्बुद्धाविति पर्युदासात् । अनङि डकार इत् नकारादकार उच्चारणार्थः । अनेकालत्वात् सर्वादेशत्वमाशङ्कय आह-ङिच्चेति । सखन् स् इति स्थिते उपधाकार्य वक्ष्यन् उपधासंज्ञामाह-अलोऽन्त्यात् । अल इति पञ्चमो । अन्त्यादिति सामानाधिकरण्यात् । अल्प्रत्याहारः वर्णपर्यायः । पूर्वोऽप्यलेव गृह्यते, साजात्यादित्याह-अन्त्यादल इत्यादिना। अलः किम् । शिष्ट इत्यत्र शास्धातौ आस् इति सघातात् पूर्वशकारस्य उप
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
म्बुद्धौ ६४८॥ नान्तस्योपधायाः दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे। (२५१) अपृक्त एकाल्प्रत्ययः ।।४१॥ एकात्प्रत्ययो यः सोऽपृक्तसम्ज्ञः स्यात् । (२५२) हल्ल्यान्भ्यो दीर्घात्सुतिस्यपृक्तं हल ६१॥६॥ हलन्तात्पर दीधौं यो झ्यापौ तदन्ताच्च परं सु ति सि इत्येतदपृक्तं हल लुप्यते । 'हल्ल्याभ्यः किम् ? प्रामणोः। 'दीर्घात्' किम् ? निष्कौशाम्बिः । अतिखट्वः ।
धात्वं न भवति । अन्यथा 'शास इदहलोः' इति शकारस्य इकारप्रसङ्गः। वर्णनहणं किम् । शास्धातौ शा इति समुदायस्य उपधात्वं न भवति । अन्यथा शा इति समुदायस्य इकारः स्यात् । न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यम् , 'नानर्थकेऽलोन्त्यविधिः' इति तन्निषेधात् । सर्वनामस्थाने । 'नोपधायाः इति सूत्रमनुवर्तते। न इति लुप्तषष्ठीकं पदम्। तेनाङ्गस्येत्यवयवषष्ठयन्तं विशेप्यते । तदन्तविधिः । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह-नान्तस्येत्यादिना । सखान् स् इति स्थिते अपृक्तकार्य वक्ष्यन् अपृक्तसंज्ञामाह-प्रपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दोऽसहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः। स् इत्यस्यापृक्तसंज्ञायाम्।
इल्ङयाब्भ्यो। हल् च डी च आप च इति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ड्यापोरेव दीर्घादिति विशेषणम्, नतु हलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । हल्ड्याउभ्य इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया प्रत्ययग्रहणपरिभाषया च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घड्याबन्ताच्च परमिति लब्धम् । सुतिसि इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । 'लोपो व्यो' इत्यतो लोप इत्यनुवर्तते । तच इह कर्मसाधनमाश्रीयते । लुप्यत इति लोपः। कर्मणि घन् । तदाह-हलन्तात्परमित्यादिना। हल्ङ्याब्भ्यः किमिति । राम इत्यादावदीर्घान्त. त्वान्न दोष इति प्रश्नः । ग्रामणीरिति । ग्राम नयतीति विग्रहः । णी प्रापणे 'सत्सू. द्विषः इत्यादिना क्विप् । 'अग्रग्रामाभ्यां नयतेो वाच्यः' इति णत्वम् । हल्ड्याबन्तत्वाभावान्न सुलोपः । दीर्घात् किमिति । ड्यापोर्दीर्घत्वाव्यभिचारात् किमर्थ दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः । अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहे 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः । 'गोस्त्रियोः' इति हृस्वत्वम् । अन ड्यापोर्हस्वत्वान
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिश
-
-
-
'सुतिसि' इति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणा. सिचो ग्रहणं नास्ति । 'अमुक्तम्' इति किम् । बिभर्ति । 'हल्' किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपादिर्न स्यात् । संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे। (२५३) सख्युरसम्बुद्धौ ७१४२॥ सुलोपः । सुतिसि इति किम् अमेत्सीदिति । भिदेलुङि सिच् । अत्र तकारात् सकारस्य लोपो न, सुतिस्यन्यतमत्वाभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह-तिपति। तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात् सिचो ग्रहणं नेत्यर्थः । अपृक्तमिति कि बिमतीति । अत्र ति इति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवः हल । तथापि तस्य नापृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्से परिशिष्टः सकारस्तका. रश्च सुतिसि इत्यनेन गृह्यते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव बिभर्तीत्यत्र लोपाभावसिद्धेः अपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति -हल किमिति । बिभेदेति । भिदेलिट तिप् गल् । गलः अकारस्य हलत्वाभावान लोपः। प्रथमहल किमिति । राजन् स् इति स्थिते उपधादीधे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरितिप्रश्नः। नन्विदं राजेति कथं प्रत्युदाहरणम् । संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह-नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः । अभिनोऽत्रेत्यत्र उत्वमा. 'दिशब्दार्थः । भिदेलछि सिप । 'इतश्च' इति इकारलोपः। 'सिपि धातो रुर्वा' इति रुत्वम् । संलोपः । अत्र 'अतो रोरप्लुतात्' इत्युत्वं न स्यात् । कुत इत्यत आहसंयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित् पुस्तकेषु दीर्घात् किमित्यारभ्य संयोगान्तलोपस्यासिद्धत्वात्। इत्यन्तः सन्दर्भो न दृश्यते । युक्तं चैतत् , मूलकृतैव प्रौढमनोरमायामस्य सन्दर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । ___ सखेति । सुलोपे सति 'न लोपः' इति नकारलोपः । नचेह 'सु'माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपोन सम्भवति, सन्निपातपरिभाषाविरोधादिति वाच्यम्। 'स्वतन्त्रः कर्ता' इत्यादिनिर्देशेन अनडो नकारमाश्रित्य सुलोपे कर्तव्ये सन्निपातपरिमापाया अप्रवृत्तेरित्याहुः । हे सखे इति । 'अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनकभावे द्वस्वस्य गुणे 'एङ्हस्वात्' इति सुलोपे रूपम् । सखि औ इति स्थिते णित्कार्य वृद्धिं वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धौ। सख्युरिति दिग्योगे पञ्चमी । 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणम्यते । परमित्यध्याहार्यम्। 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवर्तते । असम्बुद्धावित्यभेदेनान्वेति । 'गोतो णित्! इत्यतो णिदिति प्रथमान्तमनुवृत्तम् । तत्समानाधिकरण्यात् असम्बुद्धाविति सर्व
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१६५
सख्युरङ्गात्परं सम्बुद्धिवर्ज सर्वनामस्थानं णिद्वत्स्यात् । (२५४) अचा णिति ७।२।११५॥ मिति णिति च परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायो । सखायः। सखायम् । सखायो । घिसंज्ञाभावान तत्कार्यम् । सख्या। सख्ये । (२५५) ख्यत्यात्परस्य ६१११२॥ खितिशब्दाभ्यो खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य असिसोरत उत्स्यात् । सख्युः। (२५६) औत् ७।३।११८॥ इदुद्भया परस्य डेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेष हरिवत् । शोभनः सखा
-
नामस्थाने इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना। णिदिति । णित्कार्यकृत् स्यादित्यर्थः। णिच्छब्दस्तकार्यातिदेशार्थ इति भावः । अचो णिति । न च ण च ौ तौ इतौ यस्य तत् णित् । 'मृजेः' इत्यतो वृद्धिरित्यनुवर्तते । अङ्गस्येत्यधिकृतमचा विशेष्यते । तदन्तविधिः। तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः। तस्य आयादेशः इत्यभिप्रेत्य आह-सखायाविति । एवं सखायः, सखायम्, सखायौ । सखीन् इति शसि हरिवद्रपम् , असर्वनामस्थानत्वाणिस्वाभावात् न वृद्धिः । घिसंज्ञाभावादिति । 'शेषो ध्यसखि' इत्यत्र असखीति पर्युदासा. दिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्य नेत्यर्थः। सख्येति । सखि आ इति स्थिते वित्वाभावात् 'आडो नास्त्रियाम्' इति नाभावाभावे यणि रूपम् । सख्ये इति । सखि ए इति स्थिते धित्वाभावात् 'ङिति' इति गुणाभावे यणि रूपम् ।
सिसोः सखि अस् इति स्थिते धित्वाभावात् 'घेडिति' इति गुणाभावे यणि सख्यस् इति स्थिते । ख्यत्यात् परस्य । खिखी इत्यनयोः तिती इत्यनयोश्च कृतयणा. देशयोः ख्यत्य इति निर्देशः। यकारादकार उच्चारणार्थः । 'एङः पदान्तात्' इत्यतः अतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात् षष्ठयन्तं विपरिणम्यते । 'उसि. सोश्व' इत्यतो सिङसोरित्यनुवर्तते । अवयवषष्ठ्येषा। ततश्च कसिङसोरवयवस्य अत इति लभ्यते । 'ऋत उत्' इत्यतः उदित्यनुवर्तते । 'एकः पूर्वपरयोः' इति तु निवृत्तम् । परग्रहणसामर्थ्यात्। अन्यथा ख्यत्यादिति पञ्चमोनिर्देशादेव सिद्धे किं तेन । तदाह-खितिशब्दाभ्यामेत्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ । डौ सखि इ इति स्थिते घित्वाभावात् 'अञ्च घेः' इत्यस्थाप्रवृत्त्या सवर्णदीचे प्राप्ते । औत् । 'इदुद्भ्याम्' इति सूत्रमनुवर्तते । 'डेराम्' इत्यतो छेरिति च तदाह-दुद्भ्यामित्यादिना। ननु घिसंज्ञकेषु हरिकव्यादिषु 'अञ्च घेः इति प्रवर्तते । नदीसंज्ञकेषु तु 'इदुद्भ्याम्' इति पूर्वसूत्रं प्रवर्तते । अतः सूत्रद्वयविपयादन्यो सखिपतिशब्दो एवास्य सूत्रस्य विषयौ इति व्यक्तम् । एवं च उकारानु. वृत्तिय॑थेंत्यत आह-उकारेति । उकारानुवृत्तिः 'अच्च घेः' इत्युत्तरसूत्रेऽनुवृत्त्यथेत्यर्थः।
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुंलिश
सुसखा । सुसखायौ। सुसखायः । अनजिद्भावयोराजत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपवाभावात् 'असखि' (सू २४३ ) इति निषेधाप्रत्तेघिसंज्ञा । सुसखिना । सुसखये। उसिकसोर्गुणे कृते कृतयणादेशस्वाभावात् ‘ख्यत्यात्-' (सू २५५) इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । 'परमः सखा यस्य' इति विग्रहे परमसखा परमसखायौ इत्यादि । गौणत्वे. सख्यौ इति । डेरौत्त्वे यणि रूपमिति भावः ।
सुसखेति । प्रादिसमासः । 'राजाहस्सखिभ्यष्टच्' इति टच तु न भवति, 'न पूजा नात्' इति निषेधात् । अनङ् सौ, उपधादीर्घः हल्ल्यादिलोपः, 'न लोपः' इति नकारलोपः इति भावः। सुसखायौ सुसखाय इति । णिद्वद्भावो वृद्धिः आयादेश इति भावः । नन्वनक्षणिद्वत्त्वे सखिशब्दस्य विधीयमाने कथं सुसखिशब्दे स्यातामिल्यत आहअनङ इत्यादि । अङ्गाधिकारस्थतया 'पदाङ्गाधिकारे' इति परिभाषया सखिशब्दा. न्तेऽपि प्रवृत्तिरित्यर्थः । नन्वेवं सति सुसखिशब्दे असखि इति पर्युदासात् घित्वाभावे नात्वादि न स्यादित्यत आह-समुदायस्येति । नच सुसखिशब्दस्य सखिशब्दरूपत्वा. भावेऽपि सखिशब्दान्तत्वादसखीति पर्युदासोऽपि दुर्निवार इति वाच्यम् । 'शेषो ध्यसखि' इत्यस्य पदाङ्गाधिकारस्थत्वाभावादिति भावः । सुसखिनेति । घित्वानात्वे रूपम् । सुसखये इति । 'धेडिति' इति गुणे अयादेशः । इसीति । ङसिङसोः 'धेडिति' इति गुणे कृते 'ख्यत्यात्' इत्युत्त्वं नेत्यन्वयः । कुत इत्यत आह-कृतयणादेशत्वाभादिति । 'ख्यत्यात्' इत्यत्र कृतयणादेशनिदेशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोत्त्वप्रवृत्तेरिति भावः। सुसखेरिति । ङसिङसोरेतद्रपम् । सुसखाविति। 'अच्च घे." इत्यौत्वम् । एवमिति । सुसखिशब्दवदित्यर्थः । अतिसखेति । प्रादिसमासः 'न पूजनात्! इति न टच् । . वस्तुतस्तु उदाहृते सुसखिशब्दे अतिसखिशब्दे च घिसंज्ञा न भवत्येव । 'शेषो ध्यसखि' इत्यत्र हि असखीति शेषविशेषणम् । तदन्तविधिः । सखिशब्दान्तभिन्नः शेषो घिसंज्ञक इति लभ्यते । अत एव 'यस्येति च' इति सूत्रे ईकारे परतः इकारलोपे किमुदाहरणम् । सखीत्यत्र 'सख्यशिश्वीति भाषायाम्' इति डीषि इकारलोपः। न च सवर्णदीघेण निर्वाहः शङ्कयः । सखोमतिक्रान्तः अतिसखिः । प्रादिसमासः । 'गोस्त्रियोः' इति हस्वः । अतिसखेरागच्छति इत्यत्र इकारलोपाभावात् सवर्णदी तस्य एकादेशस्य पूर्वान्ततया सखिग्रहणेन ग्रहणात् असखीति पर्युदासे घिसंज्ञाप्रति. षेधापत्तेः । इकारलोपे तु सति डोषो हस्वत्वे कृते नायं सखिशब्दः । डीपस्तदवयवत्वाभावात् इति भाष्य सङ्गच्छते इति शब्देन्दुशेखरे प्रपञ्चितम् । परमसखेति । बहुवीहित्वात्तत्पुरुषत्वाभावान्न टच । ननु बहुवीहौ सखिशब्दस्य गौणत्वात् कथम
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
ऽप्यनणित्त्वे प्रवर्तेते । सखीमतिकान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच । हरिवत् । इहानजित्त्वे न भवतः । 'गोत्रियोः- (सू ६५६) इति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । 'लक्षणप्रतिपदोक्योः प्रतिपदोक्तस्यैव प्रहणात्' ( प ११४) (२५७ ) पतिः समास एव शा॥ पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या। पत्ये । पत्युः । पत्युः । पतीनाम् । पत्यो। शेष हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्तः। (२५८) नर्णित्वे, गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः इति न्यायात् । इत्यत आह-गौणत्वेs पीति । 'मिदचोऽन्त्यात्' इति सूत्रे 'तृज्वत् क्रोष्टु' 'स्त्रियांच' इति (अत्र च) भाष्यकैयटयोः तथा दृष्टत्वादिति भावः । प्रतिसखिरिति । 'अत्यादयःक्रान्ताय) द्वितीयया' इति समासः। 'गोस्त्रियोः' इति हस्थः । 'राजाहस्सखिभ्यष्टच्' इति टच् तु न भवति । तस्मिन् कर्तव्ये हस्वस्य बहपेक्षतया बहिरङ्गतया असिद्धत्वेन ईकारान्तत्वात्। नन्वेवमपि 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषया सखीशब्दान्तादपि टच् स्यादित्याशक्य आह-लिङ्गविशिष्टेति । 'शक्तिलाङ्गलाश' इति वार्तिके घटघटीग्रहणात्तस्याः अनित्यत्वमिवि भावः। ननु हरिवदिति कथम् , अनङ्गिद्वदा. वयोः प्रवृत्तौ रूपभेदादित्यत आह-रहेति । कुतो न भवत इत्यत आह-गोस्त्रियो। रिति । लाक्षणिकस्वादिति । लक्षणं शास्त्रं तत्र भवः इत्यर्थे 'बह्वचोऽन्तोदात्तात्' इति वा अध्यात्मादित्वाहा उन् । अतिसखिशब्दस्वरूपस्य सामान्यतश्शास्त्रादुन्नेयत्वा. दिति यावत् । सखिशब्दस्तु नैवम् । समानं ख्यायते जनैरित्यर्थे इणिति डिच्चेति यलोप इति चानुवर्तमाने 'समाने ख्यः स चोदात्त:' इति ख्याधातोरिणश्च विशिष्यो. पादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भावः । ननु लाक्षणिकस्यापि ग्रहणं कुतो नेत्यत आह-लक्षणेति । लक्षणशब्देन लाक्षणिक विवक्षितम् । विशिष्य प्रत्यक्षोपदिष्टं प्रतिपदोक्तमित्युच्यते । तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणमिति परि. भाषितत्वादित्यर्थः । प्रतिपदोक्तं झटित्युपस्थितिकम् । लाक्षणिकं तु लक्षणानुसन्धानाद्विलम्बितोपस्थितिकम् । प्रतिपदोक्तमादाय शास्त्रस्य चरितार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा घेयं परिभाषा । ___ अथ पतिशब्दे विशेषं दर्शयति-पतिः समास एव । 'शेषो ध्यसखि' इत्यतो धीत्यनुवर्तते । तदाह-पतिशब्द इत्यादिना । पत्या। पत्ये इति। धित्वाभावानात्वगु. णाभावे यणि रूपम् । पत्युरिति । 'ख्यत्यात्' इत्युत्त्वम् । पत्याविति । घित्वाभावात् 'अच्च घे." इत्यभावे 'औत्' इति डेरौत्त्वे यणि रूपम् । आरम्भसामर्थ्यादेव नियमा. र्थत्वे सिद्ध एवकारस्तु पतिरेव समासे घिरिति विपरीतनियमव्यावृत्त्यर्थः । तेन सुहरिणेत्यादि सिध्यति । समासे तु भूपतये इति । भूपतिनेत्याद्युपलक्षणम् । 'सीतायाः
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
'सिद्धान्तकौमुदी
[ अजन्तपुंडिश
बहुगणवतुडति सङ्ख्या १।१।२३ ॥ एते संख्यासंज्ञाः स्युः । ( २५६ ) डति च १।१।२५ ॥ डत्यन्ता सख्या षट्संज्ञा स्यात् । ( २६० ) प्रत्ययस्य . लुक्श्लुलुपः १।२।६१ ॥ लक्श्लुलुप्राब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यापतये नमः' इत्यादि त्वार्षम् । अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दो नित्यं बहुवचनान्त इति । 'किमः सङ्ख्यापरिमाणे' इत्यनेन किंशब्दात् बहुत्वसङ्ख्यावच्छिन्नसयेयविषयप्रश्न एव डतिः, इति भाष्ये स्पष्टत्वादिति भावः । अथ षट्संज्ञा कार्य वक्ष्यन् षट्संज्ञोपयोगिनी सङ्ख्या संज्ञामाह - बहुगण । बहुश्च, गणश्च वसुश्च, डतिश्च इति समाहारद्वन्द्वः । एतत् सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह – एते इति । बह्नादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसङ्ख्याव्यापकधर्मविशेषवा चिनौ गृह्येते न तु वैपुल्यसट्धवाचिनौ सङ्ख्यायतेऽनयेति अन्वर्थसंज्ञाविज्ञानात् । वतु
I
ती प्रत्ययौ | संज्ञाविधावपि इह तदन्तग्रहणम्, केवलयोः प्रयोगानर्हत्वात् । वतुरिह 'यत्तदेतेभ्यः परिमाणे वतुप्' इति तद्धितप्रत्ययो गृह्यते । न तु 'तेन तुल्यं क्रिया चेतिः' इति वतिरपि, उकारानुबन्धात् । डतिरपि 'किमः सङ्ख्यापरिमाणे 'डति च' इति विहितः तद्धित एव गृह्यते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननु 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णा ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, 'कृत्रिमा कृत्रिमयोः कृत्रिमे कार्य सम्प्रत्ययः' इति न्यायात् । ततश्च पञ्चकृत्व इत्यादि न स्यादिति चेन्न - सङ्ख्याया अतिशदन्ताया: कनू' इत्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमा कृत्रिमन्याया प्रवृत्तिज्ञापनात् । नहि विंशतित्रिंशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयर्थ्य शङ्कयम्, तयोर्नियतविषयपरिच्छेदकत्वाभावेन लोकसिद्धसङ्ख्यात्वाभावात् । अत एव भाष्ये 'एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां सङ्घयेत्याह' इत्युक्तं सङ्गच्छत इत्यास्तां तावत् । इति च । उतीत्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तप्रहणम् । पूर्वसूत्रात् सङ्घयेत्यनुवर्तते । 'ष्णान्ता षट्' इत्यतः षडिति च । तदाह-इत्यन्तेति । सङ्ख्येति किम् ? पतिः ।
1
अथ षट्संज्ञाकार्य लुकं वक्ष्यन्नाह - प्रत्ययस्य लुक् । 'अदर्शनं लोपः' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । एवं सति एकस्यैव प्रत्ययादर्शनस्य तिस्रोऽपि संज्ञाः स्युः । ततश्च हन्तीत्यत्र शब्लुकि 'इलो' इति द्वित्वं स्यात्, जुहोतीत्यत्र श्लौ सति 'उतो वृद्धिर्बुकि हलि' इति वृद्धिः स्यात् । अतो नैवमर्थः । कि तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् कलु लुप् इत्युच्चार्य विहितं प्रत्ययस्यादर्शनं यथासङ्ख्यपरिभाषया क्रमात् लुगादिसंज्ञं स्यादिति लभ्यते । अतो नोक्तसंकर इत्यभिप्रेत्य आह - लुक्लुलुप्राब्दैरित्यादिना । फले लुक्, जुहोत्या
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१६६
त् । (२६१) षड्भ्या लुक ७१॥२२॥ षड्भ्यः परयोजेश्शसोलुंक् स्यात् । (२६२) प्रत्ययलोपे प्रत्ययलक्षणम् १२११६२॥ प्रत्यये लुप्तेऽपि तदाश्रितं कार्य स्यात् । इति 'जसि च' (सू २४१) इति गुणे प्राप्ते । (२६३) न लुमताङ्गस्य १६१।६३॥ लुक् इलु लुप् एते लुमन्तः । लुमताशब्देन लुप्ते तन्निमितमाकार्य न स्यात् । कति । कति । कतिभिः। कतिभ्यः । कतिभ्यः। कतीनाम् । कतिषु । अस्मयुष्मक्षसज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं बहुवचनान्तः ।
दिभ्यः चलुः, जनपदे लुप् इत्यादिविधिप्रदेशेषु 'अस्य सूत्रस्य शाटकं वय' इतिवद्वाविसंज्ञाविज्ञानात् नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् । षड्भ्यो लुक् । जयशसोरित्यनुवर्तते । तदाह-षड्भ्यः परयोरित्यादिना । जसि लुप्तेऽपि 'जसि च' इति गुणमाशक्तुिमाह-प्रत्ययलोपे प्रत्ययलक्षणम् । प्रत्ययः लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्त कार्य स्यादित्यर्थः। फलितमाहप्रत्यये लुप्तेऽपीत्यादिना । स्थानिवदावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्यय. स्यासाधारणं रूपं प्रयोजकं तदेव कार्य प्रत्ययलोपे सति भवतीति नियमार्थ चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्य 'जसि च'. इति गुणे प्राप्ते इत्यर्थः। न लुमताङ्गस्य । प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लु इत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्दः श्लुशब्दः लुप्शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्य न स्यादित्यर्थः । तदाह-जुक्छु इत्यादिना। अङ्गस्य इत्यनुक्तौ पञ्च सप्त इत्यादौ 'सुसिकन्तम्' इति पदसंज्ञा न स्यात् , जश्शसो का लुप्तत्वात् । ततश्व 'न लोपः प्रातिपदिकान्तस्य' इति नलोपो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवं च जसि लुका लुप्ते प्रत्ययलक्षणाभावात् 'जसि च' इति गुणो न भवति इत्यभिप्रेत्योदाहरति-कतीति । प्रसङ्गादाह-अस्मदिति । त्रिग्विति । पुंस्त्रीनपुंस्मकेष्वित्यर्थः। सरूपा इति । समानानि रूपाणि येषामिति वि. ग्रहः। लिङ्गविशेषबोधकटाबाद्यभावादिति भावः । नचैवं सति 'अलिङ्ग युष्मदस्मदी' इति 'साम आकम्' इति सूत्रस्थभाष्यविरोध इति वाच्यम् , पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयत इति हि तदर्थः । अत एव 'न षट्स्वस्रादिभ्यः' इति पञ्चन्नादिषसज्ञकेभ्यः टाकीग्निषेधः सङ्गच्छते । अन्यथा सीत्वाभावादेव तदभावे सिद्धे कि तेन । अत एव च 'डे प्रथमयोः' इति सूत्रे भाष्ये युष्मानित्यत्र 'तस्माच्छसो नः पुंसि' इत्युपन्यासः सङ्गच्छते । अत एव च 'नेतराच्छ. न्दसि' इति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं त. द्राध्यं च सङ्गच्छत इति दिक् ।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
अजन्तपुंलिस
त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः । (२६४) स्त्रयः ७१।६॥ त्रिशब्दस्य प्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः । (२६५) त्यदादीनामः ७।२।१०२॥ एषामकारोऽन्तादेशः स्याद्विभको । 'द्विपर्यन्तानामेवेष्टिः' (वा ४४६८) द्वौ। द्वौ । द्वाभ्याम् । हाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । 'द्विपर्यन्तानाम्' इति किम् । भवान् । भवन्तौ । भवन्तः। संज्ञायामुपस.
त्रिशब्दे विशेषमाह । त्रिशब्द इति । त्रि आम् इति स्थिते नुटि दी गत्वे त्रीणामिति प्राप्ते। स्त्रयः । 'आमि सर्वनाम्नः' इत्यतः आमीत्यनुवर्तते । तदाहत्रिशम्दस्येत्यादिना । अनेकालत्वात् सर्वादेशः। नुटू दीर्घश्च । तदाह-त्रयाणामिति । 'रय इति तु नोक्तम् , इयङ् अनङ् इत्यादिवत् डकारात्पूर्वस्य अकारस्य उच्चारंणार्थत्वशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् 'पदाङ्गाधिकारे' इति परिभाषया रि. ति तदन्तग्रहणमित्यभिप्रेत्योदाहरति-परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियाः त्रयो यस्य इति प्रियत्रिशब्दो बहुवीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्विबहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि । तत्र त्रयादेशमाशय आहगौणत्वे विति । त्रिशब्दस्य उपसर्जनत्वे 'स्त्रयः' इति न भवतीति केचिदाहरित्यर्थः। 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' इति न्यायात् इति भावः । वस्तुतस्विति । प्रियप्रयाणामित्येव रूप वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एवं प्रवृत्तेः । अत एव उपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव च प्रियतिस्त्रेत्यादौ तित्रादयः भाष्ये उदाहृताः सङ्गच्छन्त इत्यन्यत्र विस्तरः। __ अथ द्विशब्दे विशेषमाह-द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः । द्वि औ इति स्थिते । त्यदादीनामः । 'अष्टन आ विभक्तो' इत्यतो विभक्तावित्य. नुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यद आदिर्येषामिति विग्रहः । अन्ता. देश इत्यलोऽन्त्यपरिभाषालभ्यः। विभक्तो किम् ? तत् फलम् । 'स्वमोनपुंस. कात्' इति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठिताः तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्य इच्छेत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽ त्वे कृते रामशब्दवद्रुपाणीत्याह-द्वावित्यादि। द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयत्वलोपैबर्बाधात् किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् । भवन्ताविति । भवत् स् इति स्थिते 'उगिदचाम्' इति नुमि हल्ड्यादिलोपे संयोगान्तलोपे 'अत्वसन्तस्य च' इति दोघे भवानिति रूपम् । द्विप. त्विानिमित्ताले शासनागिरकानमा
wraangamnamasawwanmartinepata
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१७१
जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वो । द्वयः। द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि । श्रोडुलोमिः । औडुलोमी। बहुवचनेतु उडुलोमाः। 'लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः (वा २५६०) । बाह्वादीनोऽपवादः। औडलोमिम् । मोडलोमी। उडुलोमान् । इति इदन्ताः ॥ 'वातप्रमीः' (उ ४४१) इत्युणादिसूत्रेण माल ईप्रत्ययः । स च कित् । वातं प्रमिमीते इति वातप्रमीः । 'दीर्घाजसि च (सू २३९) । वातप्रन्यो । वात.
य॑न्तानामित्यभावे तु भवत् स इति स्थिते तकारस्य अत्वे कृते 'अतो गुणे' इति पररूपे 'उगिदचाम्' इति नुमि 'सर्वनामस्थाने' इति दीधे सुलोपे नलोपे भवा इति स्यात् । तथा भवत् औ इति स्थिते पूर्ववत्तकारस्य अत्वे पररूपे नुमि दीर्धे च भवानाविति स्यादिति भावः । अथ यदुक्तं 'संज्ञोपसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गण. कार्य च न भवति' इति तत् स्मारयति-संशायामित्यादिना। दिर्नामेति । नामेत्यव्ययं प्रसिद्धौ । द्विरिति प्रसिद्धः कश्चित् इत्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्विव्यादिष्वपि द्विसंज्ञकत्वसम्भवादित्यभिप्रेत्य आहद्विः द्वी द्वय इति । प्रतिद्विरिति । 'अत्यादयः' इति समासः। परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिह अत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः ।
उडूनि नक्षत्राणीव लोमानि यस्य सः उडुलोमा। तस्यापत्यमोडुलोभिः 'बा. ह्वादिभ्यश्च' इति इन् । 'नम्तद्धिते' इति टिलोपः । आदिवृद्धिः। अस्य एकवचन द्विवचनयोः सर्वत्र हरिवद्रपम् । तदाह-औडुलोमिः । औडुलोमी इति । बहुव चने तु उडु. लोमा इति । ननु तथा रूपं कथम् , बाह्वादिगणस्थत्वेन इन: प्रसङ्गादित्यत आहलोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः। लोमन्शब्दात् बहुष्वपत्येषु विवक्षितेषु अकारः प्रत्ययो वक्तव्य इत्यर्थः। बाहादीञ इति । बाह्वादिगणाद्विहितस्य इमोऽपवाद इत्यर्थः। उडुलोमन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपः। णित्वाभावात् कित्वाभावाच्च नादिवृद्धिः । उडुलोमशब्दः अकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रपमिति भावः । इदन्तप्रकरणम् । - अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा । 'माङ् माने' इति धा. तोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथम व्युत्पादयति-वातप्रमीरित्यादिना । किदित्यनन्तरं निपात्यत इति शेषः । वातमिति । वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये किस्वात् 'मातो लोप इटिच' इत्याल्लोपे 'उपपदमति' इति समासे तस्मात् सुबुत्पत्तौ वातप्रमीरिति प्रथमैकवचनम् । अड्यन्तत्वान्न सुलोपः। एतदर्थमेव हल्ङ्यादिसूत्रे
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७२
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग
प्रम्यः । हे वातप्रमीः । 'अमि पूर्व:' ( सू १९४) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् । वातप्रम्ये । वातप्रमीभ्याम् । वातप्रभ्यः । वातप्रमीभ्याम् । वातप्रम्यः । वातप्रम्योः । वातप्रम्याम् । दीर्घत्वान्न नुद् तु सवर्णदीर्घः । वातप्रमी । वातप्रम्योः । वातप्रमीषु । एवं ययोपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । 'यापोः किद्द्द्वे च' ( उ ४३९ ) इति ईप्रत्ययः । क्किबन्तवातप्रमीशब्दस्य त्वमि शसि कौ च विशेषः । वातप्रभ्यम् । वातप्रम्यः । वातप्रम्यि । 'एरने काचः -' (सू २७२ ) इति वक्ष्यमाणो यण् । प्रधी•
सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी औइति स्थिते 'दीर्घाज्जसि च' इति पूर्व सवर्णदीर्घे निषिद्धे 'इको यणचि' इति यणि वातप्रम्याविति रूपमि - त्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् 'ह्रस्वस्य गुणः' इति न । श्रमीति । वातप्रमी अम् इति स्थिते 'अमि पूर्व:' इति पूर्वरूपे वातप्रमामिति रूपमित्यर्थः । 'एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । वातप्रम्येति । अधित्वात् 'आङो नाऽस्त्रियाम्' इति भावस्याभावे यण् । वातप्रम्ये इति । अधित्वात् ङङसिङस्सु 'घेर्डिति' इति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, 'हस्वनद्या:' इति ह्रस्वग्रहणादिति भावः । ङौं त्विति । वातप्रमी इ इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घे वातप्रमी इति रूपम् । अधित्वादिदुदन्तत्वाभावाच्च 'अच्च घेः' इति, 'औत्' इति च न भवति । वस्तुतस्तु 'ईदूतौ च सप्तम्यर्थे' इति सूत्रे 'सप्तम्यन्तमी द्दन्तं लोके नास्ति । अतः 'सोमो गौरी अ. धिश्रितः' 'मामकी तनू' इति वेद एव तदुदाहरणम्' इति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति । 'यापोः किद्वे च' इति औणादिकसूत्रम् । याधातोः पाधातोश्च ईप्रत्ययः स्यात् स कित् । प्रकृतिभूतयोर्द्वित्वं चेत्यर्थः । कित्त्वात् 'आतो लोप इटि च इत्याल्लोपः । अभ्यासहस्वः । क्विबन्तवातेति । 'माङ् माने' इत्यस्मात् कर्तरि क्विपि 'घुमास्था' इति ईत्वे वातप्रमीशब्द इति केचित् । तन्न, 'ईस्वमवकारादौ' इति वार्तिकविरोधात् । मीञ् हिंसायाम् इति मीधातोः क्विपि तु वातप्रमोशब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमि पूर्वरूपं, शसि पूर्वसवर्णदीर्घ, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् 'एरनेकाचः' इति यण, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः । 'ध्यायतेः सम्प्रसारणं च' इति क्विपि यकारस्य सम्प्रसारणमिकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीर्घः । अस्य च ईकारान्तधा
।
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१७३
वत् बह्वयः श्रेयस्यो यस्य सः बहुश्रेयसी । दीर्घस्यन्तत्वात् 'हलुब्याप्-' ( सू २५२ ) इति सुलोपः । (२६६) यू स्त्र्याख्यौ नदी १ | ४ | ३ || ईदूदन्तौ नित्यस्त्रीलिङ्गी नदीसंज्ञौ स्तः । 'प्रथमलिङग्रहणं च' ( वा १०३६) । पूर्व स्त्र्याख्यस्योप
तुत्वात् अमि शसि ङौ च 'एरनेकाचः इति यणादेशः ।
1
बह्वय इति । 'बह्वादिभ्यश्च' इति ङीष् । श्रेयस्य इति । अतिप्रशस्ताः इत्यर्थः । 'द्विवचनविभज्योपपदे' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः । 'उगितश्च' इति ङीप् । बहुश्रेयसीति । 'स्त्रियाः पुंवत्' इति पुंवत्त्वम् । 'गोस्त्रियोः' इति स्वस्तु न 'यसो बहुव्रीहेनेति वाच्यम्' इति तन्निषेधात् । बहुश्रेयसी स् इति स्थिते प्रक्रियां दर्शयति — दीर्घङयन्तत्वादिति । ननु श्रयसीशब्द एव व्यन्तः । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नच 'स्त्रीप्रत्यये न तदादिनियमः' इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि 'न तदादिनियमः' इति प्रतिषेधः । इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसी शब्दस्यैव रूयन्तत्वम्, नतु बहुश्र यसीशब्दस्य । तथापि हल्ड्यादिलोपोन्र निर्बाधः । सोः ड्यन्तात् श्रेयसीशब्दात्परत्वस्य अनपायात् । नहि हल्ड्याब्भ्य इति विहितविशेषणम्, प्रमाणाभावात् । या ला का इत्यादावव्याप्तेश्च तत्र सोष्टाबन्ताद्विहितत्वाभावात् यत्तत्किमिति हलन्तेभ्यसुयुत्पत्तौ त्यदाद्यत्वे (किमः कत्वे च) सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्कयः, यः सः कः इत्यादावतिव्याप्तेः कर्ता सखा इत्यादावव्याप्तेश्चेत्यास्तां तावत् । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्य । बहुश्रेयस्यः । हे बहु यसी स् इति स्थिते नदीकार्यं वक्ष्यन् नदीसंज्ञामाह - यू ख्याख्यौ नदी | ईश्व ऊश्व यू । पूर्वसवर्णदीर्घः । 'दीर्घाज्जसि च' इति निषेधाभावरछान्दसः । व्याख्यानाद्दीर्धयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्राख्यौ । शब्दावित्यर्था लभ्यते । यू इति तद्विशेषणम् । तदन्तविधिः । स्त्रियामित्येव सिद्धे आख्याग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाहईदूदन्तावित्यादिना । यू किम् मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गा विति किम् ? वातप्रम्ये । नित्येति किम् ? ग्रामण्ये । ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गस्वात् कथं नदीसंज्ञेत्यत आह- प्रथम लिङ्गग्रहणं चेति । वार्तिक्रमेतत् । प्रथमस्य समा सादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य स्त्रीलिङ्गस्य 'यू स्त्र्याख्यौ ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङक्य अपिशब्दमध्याहृत्य व्याचष्टे - पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्व स्त्रीलिसस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्वं वक्तव्यमिति वा -
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
सिद्धान्तकौमुदी
- [अजन्तपुंलिङ्ग
सर्जमत्वेऽपि इदानी नदीत्वं वक्तव्यमित्यर्थः । (२६७) अम्बार्थनघोर्हस्वः ७।३।१०७॥ अम्बानी नद्यन्तानां च हस्वः स्यात् सम्बुद्धौ । हे बहुश्रेयसि । शधि बहुश्रेयसीन् । (२६८) आपनद्याः ७।३।११२॥ नद्यन्तात्परेषां वितामाडा. गमः स्यात् । (२६६) आटश्च ॥१॥४०॥ बाटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । बहुश्रेयस्याः। नद्यन्तात्परत्वान्नु । बहुश्रेयसीनाम् । (२७०) राम्मधाम्नीभ्यः ७।३।११६॥ नद्यन्तादावन्तान्नोशब्दाच राम्
तिकार्थ इति भावः । अम्बार्थनद्योई स्वः। अम्बार्थानामिति । अम्बापर्यायाणामित्यर्थः । नद्यन्तानामिति । अङ्गाधिकारस्थत्वात्तदन्तविधिः । तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्योध्यः । सम्बुद्धाविति । 'सम्बुद्धौ च' इत्यतस्तदनुवृत्तेरिति भावः । अम्बागौर्यादिशब्देषु हस्वत्वं तु व्यपदेशिवडावेन तदन्तत्वात् ज्ञेयम् । हे बहुश्रेयसि इति । हस्वे सति 'एहस्वात्' इति सम्बुद्धिलोपः। हस्वे गुणस्तु न । प्रक्रियालाघ. वाय 'अम्बार्थनधोहस्वः इत्यनुक्त्वा 'अम्बार्थनघोर्गुणः' इति वाच्ये हस्वविधिसाम
र्थ्यादिति स्पष्टं भाष्ये । बहुश्रेयस्यौ। बहुश्रेयस्यः । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यण । 'अमि पूर्व: बहुश्रेयसीम् । बहुश्रेयस्यौ। बहुश्रेयसीन् इति । पूर्वसवर्णदीले सति तस्माच्छसः' इति नत्वमिति भावः । बहुश्रेयस्या। अघित्वा. न्नाभावो न, किन्तु यणादेशः बहुश्रेयसीभ्याम् । बहुश्रेयसीभिः । बहुश्रेयसी ए इति स्थिते घित्वाभावान्न तत्कार्यम् । ___ यणि बहुश्रेयस्ये इति प्राप्ते । आफ्नद्याः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । नद्या इति पञ्चम्यन्तेन विशेष्यते । तदन्तविधिः । घेडिति इत्यतः स्त्तिीत्यनुवृत्तं षष्ट्या विपरिणम्यते । तदाह-नयन्तादित्यादिना । टित्त्वादाघवयवः । बहुश्रेयसी आ ए इति स्थिते। आटश्च । 'इको यणचि' इत्यतः अचीति 'वृद्धिरेचि' इत्यतः वृद्धिरिति चानुवर्तते । 'एकः पूर्वपरयोः' इति चाधि. कृतम् । तदाह-आटोऽचीत्यादिना । बहुप्रेयस्य इति । बहुश्रेयसी आ ए इति स्थिते 'आटश्च' इति वृद्धौ यणादेशे च रूपमिति भावः। यद्यपि 'वृद्धिरेचि' इत्येव सिद्धम् । तथापि ऐक्षत इत्याद्यर्थम् 'आटश्च' इति सूत्रम् , इहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । उसिङसोर्बहुश्रेयसी आ अस इति स्थिते 'आटश्व' इति वृद्धौ आकारे यणि रूपमिति भावः । अत्रापि सवर्णदीघेण सिद्धम् । न्याय्यत्वात् 'आटश्च' इति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयसीशब्दस्य नद्यन्तत्वादिति भावः। बहुश्रेयसी इ इति स्थिते 'अच्छ घे इति इदुभ्याम्' इति च न भवति अवित्वात् । सवर्णदीचे प्राक्षे । राम्नद्याम्नी
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता ।
१७५
स्यात् । इह परत्वादाटा नुट् बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमी. वत् । अन्यन्तस्वान्न सुलोपः । पतिलक्ष्मीः। शेषं बहुश्रेयसीवत् । कुमारीमि. च्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी। क्यजन्तादाचारकिरन्ताद्वा कर्तरि किए । 'हल्ल्याप्-' (सू २५२) इति सुलोपः । (२७१) अविश्नुधातुभुवा भ्यः । आङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिम् अभिप्रेत्य आह-नयन्तादित्यादिना । रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते इम्वनथापः' इति नुटि 'यदागमा' इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् 'आपनद्याः' इति आडागमः स्यादित्याशय आह-इह परत्वादिति। नच कृतेऽप्याडागमे नट कि न स्यादिति वाच्यम् , विप्रतिषेधेन यद्वाधितं तदाधितमेव' इति न्यायादिति भावः। शेषमीप्रत्यत्ययान्तेति । वातप्रमीशब्दस्यापि वर्णान्तधातुत्वाभावेन अमि शसि छौ च 'एरनेकाचः' इति यणः प्राप्त्यभावादिति भावः । 'लोर्मुट चा इति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः। लक्ष्मीमतिक्रान्त इति विग्रहे 'अत्यादयः क्रान्ताद्यर्थे। इति समासः। अस्त्रीप्रत्ययान्तत्वात्रोपसर्जनहस्वः । अड्यन्तस्वादिति । औणादिकप्रत्ययान्तत्वादिति भावः। शेषं बहुश्रेयसीवदिति । 'प्रथमलिङ्गग्रहणं च' इति नदी. त्वादिति भावः।
अथ धातुत्वमापन्ने कुमारीशब्दे पुल्लिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाहकुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मनः इच्छतीत्यर्थे 'सुप आत्मनः क्यच्' इति क्यच् । कचावितौ । 'सनाचन्ताः' इति क्यजन्तस्य धातुत्वात् तदवयव. सुपः अमः 'सुपो धातुप्रातिपदिकयो” इति लुक् । ततः 'किप च' इति कर्तरि किम् । कपावितौ । इकार उच्चारणार्थः । अतो लोपः, 'लोपो व्योः इति यलोपः । वेरप. तस्य' इति वलोपः । कुमारी इति रूपम् । आचारकिबन्तादिति । कुमारीवाचरतीत्यर्थे 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विए । कपावितौ । 'धेरपृक्तस्या इति वलोपः । 'सनाद्यन्ताः' इति धातुत्वात् कर्तरि क्विप । तस्य च पूर्ववत् कृत्स्नलोपः। कुमारीति रूपम् । न च क्विवर्थ प्रति कुमारीशब्दस्य उपसर्जनत्वात् 'गोस्त्रियो" इति हस्वः शङ्कयः, 'गोस्त्रियोः' इत्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात् कृत्रिमाकृत्रिम योः कृत्रिमस्यैव ग्रहणात् । हल्ङयाबिति सुलोप इति । न च क्यजन्ते कथं सोर्लोपः पूर्वस्माद्विधावल्लोपस्य स्थानिवद्भावादिति वाच्यम् , 'क्वौ लुप्तं न स्थानिवत्' इति निषेधादिति भावः । कुमारी औ इति स्थिते 'इको यणचि' इति यणपवादमियङमाशक्तुिमाह-अचि स्नु । इश्च उश्च यू तयोः य्वोः इव!वर्णयोरित्यर्थः । अनुश्च धातुश्च भुश्चेति द्वन्द्वः । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितम् । य्वोरि. विधातोरेव विशेषणम् । तदन्तविधिः । ग्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तविशेष.
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
सिद्धान्तकौमुदी [अनन्तपुंल्लिाmmmmmmmmmmmmmmm..
वोरियकुबडौ ६।४।७७॥ नुप्रत्ययान्तस्य इव!वर्णान्तस्य धातोः 'भ्रूः इत्यस्य चास्येयवगै स्तोऽजादौ प्रत्यये परे । 'विच्च' (सू ४३) इत्यन्तादेशः । आ. न्तरतम्यादेरियड् । मोरुवङ् । इतीयति प्राप्ते । (२७२) एरनेकाचोऽसंयोग. पूर्वस्य ६४२॥ धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्त. दन्तस्यानेकाचोऽस्य यण स्यादजादौ प्रत्यये परे । इति यण् । कुमायौँ । णम् । इवर्णान्तत्वं तु असम्भवान्न तद्विशेषणम् । 'सम्भवव्यभिचाराभ्यां स्याद्विशेषण. मर्थवत्' इति न्यायात् । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिः । तदाह-नुप्रत्ययान्तस्येत्यादिना । य्वोः किम् ? चक्रतुः । अचीति किम् ? आप्नुयात् । इयङ् उवङ् इत्यनयोरनेकालत्वात् सर्वादेशत्वमाशङ्कय आह-ङिच्चेत्यन्तादेश इति। नच 'इनुधातुभ्रवाम् इव!वर्णयोः' इत्येवं व्याख्यायतां हित्त्वं च न क्रियतामिति वाच्यम् , एवं सति क्षिपति इत्यादावतिव्याप्तेः । न च अजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्कय, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम् । आन्तरतम्यादिति । तालुस्थानकस्य इव. र्णस्य तादृश एव इयङ् । ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवडित्यर्थः। इतीयङि प्राप्ते इति । कुमारी औ इत्यादाविति शेषः।
परनेकाचः । 'इणो यण' इत्यतः यणित्यनुवर्तते । एरिति षष्ठयन्तम् । इवर्णस्येत्यर्थः । पूर्वसूत्रे श्नुधातुभ्रवाम् इति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठयन्तमनुवर्तते । नतु श्नुभ्रुवावपि । तत्र इवर्णाभावात्। धातोरित्यनुवृत्तं चावर्तते । एकमवयवषष्ठ्यन्तम् । अन्यत् स्थानषष्ठ्यन्तम् । एरिति च धातोरिति षष्ट्यन्तस्य विशेषणम् । तदन्तविधिः । इवान्तधातोरित्यर्थः। अवयवषष्ठयन्तकृतधातोरित्येतत् असंयोपूर्वस्येत्यत्र संयोगांशे अन्वेति । धात्ववयवसयोगः पूर्वो यस्मात् स धात्ववयवसंयोगपूर्वः तद्भिन्नः असंयोगपूर्वः तस्येति । इवर्णविशेषणम् । अङ्गस्येत्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते । तदन्तविधिः । अनेकः अच् यस्य तस्य अनेकाच इति अङ्गान्वयि । 'अचि अनुधातुभ्रुवाम्' इत्यतोऽचीत्यनुवर्तते । तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणम् । तदादिविधिः । तदाह-धात्ववयवेत्यादिना। हरि हरीन् इत्यादौ यनिवृत्त्यर्थ धातोरित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपा. दीन बाधित्वा यण स्यात् । धात्ववयवेति संयोगविशेषणल्य तु प्रयोजनम् उन्नीश. ब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति। अनेकाचोऽसंयोगादित्येव सुवचम् । वोरित्यनुवर्तते । धात्ववयवसंयोगात् परौ न भवतः यौ इव!वर्णी तदन्तस्येत्यर्थलाभः । 'ओः सुपि' इति तु नियमार्थः । उवर्णस्य सुप्येव यणिति । ततश्च लुलुवतु. रित्यादौ त्वतिप्रसङ्गाभाव इत्यलम् । इति यणिति । कुमार्यो, कुमार्यः इत्यत्र 'एरनेका
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
कुमार्यः । हे कुमारि । अमि शसि च कुमार्यम् , कुमार्यः । कुमार्यै । कुमार्याः । कुमारीणाम् । कुमार्याम् । कुमार्योः । प्रधीः । प्रध्यो । प्रध्यः। प्रध्यम्। प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव . यण् । उन्न्यः । हे उन्नीः । उन्न्यम् । राम् उन्न्याम् । एवं प्रामणीः । 'अनेकाचः' किम् । नीः । नियौ । नियः। अमि शसि च परत्वादिय, नियम् । नियः ।
-
चः' इति इयङपवादो यणित्यर्थः । नन्वन्तर्वतिसुपा अमा क्यजन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवणे' इति प्रकृतिभावः स्यात् । अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यव स दुर्वार इति चेन्मैवम्-'नाक्ये इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति । अमि पूर्वरूपं शसि पूर्वसवर्णदीधं च बाधित्वा इयङि प्राप्ते तदपवादे 'एरनेकाचः' इति यणि अमि कुमार्यम्, शसि कुमार्यः इति रूपम् । 'तस्माच्छसः' इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात् परत्वाभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः ।
प्रधीरिति । प्रध्यायतीति प्रधीः । 'ध्यायतेः सम्प्रसारणं च' इति विप् । यकारस्य सम्प्रसारणमिकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । अड्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र ‘एरनेकाचः इति यणेव । अस्त्रीत्वान्नदीकार्य न। हे प्रधीः-प्रध्यौ-प्रध्यः । प्रध्य-प्रध्यः। प्रध्या। प्रध्ये । प्रध्योः। प्रध्यि । प्रकृष्टा धीर्यस्य सः इति विग्रहे तु धीशब्दस्य नित्य. स्त्रीत्वात् 'प्रथमलिङ्गग्रहणं च' इति नदीत्वानदीकार्यम् । अड्यन्तत्वान्न सुलोपः । प्रधीः । शेषमुदाहृतक्किबन्तकुमारीशब्दवत् । हे प्रधि-प्रध्यौ-प्रध्यः । प्रध्यम्-प्रध्योअध्यः । प्रध्या । प्रध्यै । प्रध्याः । प्रधीनाम् । प्रध्याम् । उन्नीरिति । 'सत्सूद्विषा इत्यादिना उत्पूर्वान्नीधातोः किम् । सुबुत्पत्तिः । अन्धन्तत्वान्न सुलोपः । अजादौ तु प्रत्यये परे 'एरनेकाचः' इति यण् । नन्वत्र इवर्णस्य संयोगपूर्वकत्वात् कथमन्त्र यणित्यत आह-धातुनेति । धात्ववयवसंयोगपूर्वस्यैव यण पर्युदस्यते । नचात्र संयोगो धात्ववयव इति भावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वात् 'अम्बार्थ इत्यादिना नदीकार्य नेति भावः। उन्न्यमिति । पूर्वरूपापवादो यणिति भावः। शसादौ उन्न्यः । उन्न्या । उन्न्ये । उन्न्यः । उन्न्योः । डेरामिति । नदीत्वाभावेऽपि 'हेराम्। इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम् आङ्गत्वेन नीशब्दान्तादपि भवतीति भावः । एवं ग्रामणीरिति । ग्राम नयति नियच्छतीति ग्रामणोः । 'अग्रग्रामाभ्यां नयते! धाच्यः' इति णत्वम् । अनेकाचः किमिति। 'एरनेकाचः' इत्यत्रेति शेषः। नीरिति । नीधातोः केवलात् पूर्ववत् कि । अनेकाच्वाभावान यण । किन्तु 'अचि श्नुधातु
१२ बा०
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
सिद्धान्तकौमुदी
[अजन्तपुंल्लिा
-
राम् नियाम् । 'असंयोगपूर्वस्य' किम् । सुश्रियो । यवक्रियो। 'गतिकारकेतरपू. वंपदस्य यण् नेष्यते' (वा ५०३४) । शुद्धधियो । परमधियौ । कथं तर्हि 'दुर्धियः' 'वृश्चिकमियः' इत्यादि । उच्यते । 'दुःस्थिता धोयेषाम्' इति विप्रहे 'दुर्' इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्कियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः। वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी भीवृश्चि. इति इयङ् । एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः । सुश्रियाविति । त्रि सेवायाम्।।''क्विब्वचि' इत्यादिना क्विए प्रकृतेर्षश्च । सुश्रयतीति शोभना श्रीर. स्येति वा सुश्रीः । तत अजादिप्रत्यये यण न भवति । इवर्णस्य धात्ववयवर्सयोगपू. वकत्वादिति भावः । यवक्रियाविति । यवान् क्रीणातीति यवक्रोः । क्रीधातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः । 'एरनेकाचः' इति सूत्रे गतिकारकपूर्वस्यैवेष्यते' इति वार्तिकं पठितम् । तत्तात्पर्यतः सङ्गृह्णाति-गतिकार• केतरेति । यथाश्रुते तु उदाहृतक्किबन्तकुमारीशब्दे यण न स्यात् । शुद्धधियाविति । शुद्धा. धीर्यस्येति विग्रहः। अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यणिति भावः । शुद्धं ब्रह्म ध्यायतीति विग्रहे तु स्यादेव यण-शुद्धध्यौ इत्यादि।
कथं तहीति । यदि गतिकारकेतरपूर्वस्यैव यण पर्युदस्यते गतिकारकपूर्वस्य तु अवश्यं यण , तदा दुर्धियः वृश्चिकभियः इत्यादि कथमित्यन्वयः। आदिना दु. धियो वृश्चिकभियौ इत्यादिसङ्ग्रहः । दुस्स्थिता धीर्येषामिति विग्रहः। 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' इति बहुप्रीहिः पूर्वपदे उत्तरखण्डस्य लो. पश्च । वृश्चिकात् भीरिति विग्रहः । मत्र दुरो गतित्वात् वृश्चिकल्यापादानत्वाच गतिकारकपूर्वत्वात् पर्युदासाभावे सति इयङपवादोऽत्र यण दुर्वार इत्याक्षेपः । उच्यते इति । परिहार इति शेषः । गतित्वमेव नास्तीति । 'उपसर्गाः क्रियायोगे, गतिश्च' इति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते। धीशब्दश्च बुद्धिगुण. वाची, न तु क्रियावाची । अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाभावात् नात्र यण। किंतु इयवेत्यर्थः । ननु लुप्तस्य स्थिताशब्दस्य क्रियाप्रवृत्तिनिमित्त. कत्वात् तं प्रति दुरो गतित्वमस्त्येवेत्यत आह-यक्रियेति। यया क्रियया युक्ताः प्रादयः तं प्रत्येव तद्वाचकशब्द प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः । मचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दु(शब्दस्य गतिपूर्वकत्वमस्त्येवेति वाच्यम् । यत्क्रियायुक्ताः प्रादयः, तक्रियावाचकं प्रत्येव गत्युपसर्गत्वम् । तथावि. धक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात्। 'यत्क्रियायुक्ताः इति च प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्यापादानत्वं नेह विव. क्षितमित्यन्वयः। कुत इत्यत आह-बुद्धिकृतमिति । आरोपितमित्यर्थः । अपादा.
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१७४
कमीरित्युत्तरपदलोपो वा । (२७३ ) न भूसुधियोः ६।४।८५ ॥ एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि । सखायमिच्छति सखीयति । ततः किपू । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्वाद्यणि प्राप्ते 'क्वौ लुप्तं न स्थानि
त्वं हि विश्लेषावधित्वम् । नात्र वृक्षात् पर्ण पततीत्यत्र पर्णविश्लेषे वृक्षस्येव भयविश्लेषे वृश्चिकस्य अवधित्वमस्ति, वृक्षे पर्णवत् भयस्य वृश्चिके संश्लेषाभावात् विश्लेषस्य संश्लेषपूर्वकत्वात् । उक्तं च भाष्ये - 'विवक्षातः कारकाणि भवन्ति इति । प्रकृते च वृश्चिके अपादानत्वारोपस्य वक्त्रधीनत्वात् इह च तदनारोपात् सम्बन्धमात्रविवक्षया षष्ठीमाश्रित्य वृश्चिकस्य भीरिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतर पूर्व कत्वात् नात्र यणिति भावः । नच वृश्चिकामीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेः 'भीत्रार्थानाम्' इति व्यर्थमि-ति वाच्यम् तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम् । परिहारान्तरमाह--- वृश्चिकसम्बन्धिनीति । उत्तरपदेति । वृश्चिकसम्बन्धिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः । शाकपार्थिवादित्वादित्यर्थः ।
सुष्ठु ध्यायतीति सुशोभना धीर्यस्येति वा विग्रहे सुधीशब्दः । अत्र अजादौ परे एरनेकाचः इति प्राप्ते । न भूसुधियोः । 'इणो यण्' इत्यतः यणिति 'ओ: सुपि' इत्यतः सुपीति 'इको यणचि' इत्यतः अचीति चानुवर्तते । तदाह - एतयोरित्यादिना । एतयोरिति सूत्रोक्तभूसुधियोः परामर्शः । श्रचीति । अजादावित्यर्थः । यणि प्रतिषिद्धे इयडमभिप्रेत्य आह -- सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयडेव विशेषः । अचीति वस्तुस्थितिः । अमजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरुपास्य सुध्युपास्यः । वस्तुतस्तु सुपीति नानुवर्तनीयम् । 'एरनेकाचः इति यणो ह्यत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानात् उपास्यशब्दस्य प्रत्ययत्वाभावात् । 'इको यणचि' इति तु भवत्येव 'मनन्तरस्य' इति न्यायेन एरनेकाचः, ओ: सुपि इति च विहितयण एव प्रतिषेधात् । सुधिया उपास्यः सुष्युपास्यः इत्यत्र तु अन्तर्वर्तिनीं विभक्तिमाश्रित्य 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति प्रतिषेase उपाय इत्यचमाश्रित्य 'इको यणचि' इति यण् भवत्येव, 'अनन्तरस्य' इति न्यायेन तस्यात्र प्रतिषेधाभावादित्यलम् । सखीयतीति । 'सुप आत्मनः' इति सखि - शब्दात् क्यचि कृते 'अकृत्सार्वधातुकयोः' इति दीर्घे सखीयतीति रूपम् । ततः कि बिति । तस्मात् सखीयशब्दात् 'सनाद्यन्ताः' इति धातुसंज्ञकात् 'क्विप्च' इति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । 'अतोः लोपः' इति यकारादकारस्य लोपः, 'होपो व्योः' इति यलोप इत्यर्थः । यलोपे कर्तव्ये अल्लोपस्तु न स्थानिवत्, 'न पदान्त' इति यलोपे स्थानिवत्वनिषेधात् । स्थानिवत्वादिति । 'अचः परस्मिन्' इत्य
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
सिद्धान्तकौमुदी
[अनन्तपुंलिङ्ग
चत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानजित्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात् 'सख्युरसम्बु. द्धौ' (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छ. तीति सुतीः । सख्यो । मुख्यौ । मुत्यौ। 'ख्यत्यात्- (सू २५५) इति दीर्घ. स्यापि प्रहणादुकारः । सख्युः । मुख्युः । सुत्युः। लूनमिच्छतीति लूनीः । क्षाम
-
नेनेति शेषः । यणि प्राप्ते इति । खकारादीकारस्य 'इको यणचि इत्यनेनेति शेषः । न चान्तर्वतिसुपा पदान्तत्वात् 'न पदान्त' इति निषेधः शङ्कयः, 'नः क्ये' इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तमिति । 'न पदान्तसूत्रे क्विलुगुपधात्वचङ्परनिर्वासकुत्वेखूपसङख्यानम् इति वार्तिके क्विलुगित्यंशस्यायमनुवादः। तत्र लुगिति लोपो विव. क्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः। विप्प्रत्ययपरको लोपोन स्थानिवदित्यर्थः। ततश्च खकारादीकारस्याच्परकत्वाभावात् न यणिति भावः। यद्यपि 'न पदान्त' इति सूत्रे क्वौ लुप्तं न स्थानिवदिति निराकृत्य, क्वौ विधि प्रति न स्थानिवदित्येव स्वीकृतम् , तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात् क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततश्च सखायमि. च्छतीत्यर्थे सखी इति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः।
अनङ्गित्वे इति । 'अनङ् सौ' 'सख्युरसम्बुद्धौ' इत्युभाभ्यामिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्गित्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आ. ह-एकदेशेति । हे सखीरिति । अड्यन्तत्वान्न सुलोपः। स्त्रीत्वाभावान्नदीत्वाभावात् नदीकार्य न भवति । यणि प्राप्ते इति । 'एरनेकाचः' इत्यनेनेति शेषः। शसि यणिति। पूर्वसवर्णदीर्घा पवादो यण् । कृतपूर्वसवर्णदीर्घत्वाभावान्नत्वं नेति भावः। सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा। तेन सहे. ति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्य इति सभावः । तमिच्छतीति ॥ सखमात्मन इच्छति इत्यर्थे 'सुप आत्मनः' इति क्यच् । 'क्यचि च' इतीत्वं, 'सनाचन्ताः' इति धातुत्वात् क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अत्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ 'एरनेकाचः' इति यणिति भावः । सख्यम् । सख्यः । सख्या । सख्ये। दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः। सख्याम् । सख्यि। सुखीसुतीशब्दयोरप्येवम् । लूनीरिति । 'लून् छेदने' कः । 'ल्वादिभ्यः' इति नत्वम् । क्यचि ईत्वम् । अड्यन्तत्वान्न सु. लोपः। ॐ क्षये क्तः। 'आदेच उपदेशेऽशिति' इत्यात्त्वम् । 'क्षायो मः' इति
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१८१
मिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां सिसोयेण् । नत्वमत्वयोरसिद्धत्वात् 'ख्यत्यात्-' (सू २५५) इत्युत्वम् । लून्युः। क्षाम्युः । प्रस्ती. म्युः। शुष्कीयतेः क्वि । शुष्कीः । पक्कीः । इया। शुष्कियो। शुक्रियः । उसि.
सोः शुष्क्रियः इत्यादि । इति ईदन्ताः ॥ शम्भुईरिवत् । एवं विष्णुवायुभान्वादयः । (२७४) तृज्वत्कोष्टुः ७१५॥ क्रोष्टुस्तृजन्तेन तुल्यं वर्तते, अस. म्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टशब्दः प्रयोक्तव्य इत्यर्थः । (२७५) ऋतो डिसर्वनामस्थानयो। ७३११०॥ छौ सर्वनामस्थाने च परे मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति । 'स्त्यै ष्टय शब्दसधातयो क्तः । 'आदेचः' इत्यास्वम् । 'प्रस्त्योऽन्यतरल्याम्' इति मः। 'स्त्यः प्रपूर्वस्या इति सम्प्रसारणम् । 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हला' इति दीर्घः। क्यजादि पूर्ववत् । सखी सुतीत्यादिवद्रूपाणि । उसिसोर्यणिति । 'एरनेकाचः' इत्यनेनेति शेषः । असिद्धत्वादि. त्यनन्तरं ज्योत् परत्वादिति शेषः । शुष्कीयतेरिति । 'इश्तिपो धातुनिर्देशे' इति शितपा निर्देशोऽयम् । शुषधातोः क्तः शुष्कः । 'शुषः कः' इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्तात् शुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अड्यन्तत्वान्न सुलोपः। सखी सुतीत्यादिशब्दवत् शुष्कीशब्दः । शुष्कियावित्यादि । संयोगपूर्वत्वान्न यण । किं तु इयङिति विशेष इति भावः । उसिङसोः शुष्कियः इति । न च कत्वस्यासिद्धत्वात् ख्यत्यात् परत्वादुत्वं शङ्खयम् , इयडादेशेसति कृतयणादेशत्वामावात इति भावः । इति ईदन्तप्रकरणम् ॥
अथ उदन्ता निरूप्यन्ते। शम्मुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ उकारः, गुणस्तु ओकारः, अव् इत्यादयो विशेषास्त्वान्तरतम्यात् सङ्गता इति भावः । 'क्रुश आह्वाने, रोदने च' इति धातोः सितनिगमिमसिसच्यविधाकृशिभ्यस्तुन्' इति तुन्प्रत्यये 'नश्च' इति शस्य षकारे ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातोः कर्तरि तृचि तु क्रोष्ट्रशब्दः। द्वावपि सगालवाचिनौ । तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेष दर्शयितुमाहतृज्वकोष्टुः। प्रत्ययग्रहणपरिभाषया तृच् इति तृजन्तं गृह्यते। तेन तुल्यम्' इति तृतीयान्ताद्वतिः। 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इति 'सख्युरसम्बुद्धौ'इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह-क्रोष्टस्तृजन्तेनेत्यादिना । 'कार्यरूपनिमित्तार्थशाखतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते ।' इति अतिदेशाः सप्त । तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते । तच्च न कर्तृ भर्तृ इत्यादि सृजन्तरूपम् । किन्तु क्रोष्ट इत्येव तृजन्तरूपम् अतिदिश्यते । क्रुशधातोरुपस्थितत्वात् अर्थत आन्तर्याच्च इत्यभिप्रेत्य फलितमाह-क्रोष्टुशब्दस्य स्थाने इति । निमित्तादी. नामुदाहरणानि तु तत्र तत्र प्रदर्शयिष्यामः । क्रोष्ष्ट्र स इति स्थिते । अतो डि । 'हस्व
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
सिद्धान्तकौमुदी
[ अजन्तपुंलिश
-
ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते। (२७६) ऋदुशनस्पुरुदंसोऽनेहसां च १४॥ ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धी सौ परे । (२७७) अप्तृन्तृस्वस्नप्तनेष्टत्वादृश्नत्तृहोतृपोतृप्रशास्तृणाम् ६।४।११॥ अवादीनामुपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे। नत्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां संज्ञाशब्दानां चेद्भवति तर्हि नप्त्रादीनामेव । तेन पितृभातृप्रमृतीनान। उद्गातृशब्दस्य तु भवत्येव । 'समर्थ
स्य गुणः' इत्यतो गुण इत्यनुवर्तते। अङ्गास्येत्यधिकृतम् त इत्यनेन विशेष्यते। तदन्तविधिः । तदाह-ौ सर्वेत्यादिना । अदुशनस् । 'सख्युरसम्बुद्धो' इत्यतः असम्बुडाविति 'अनङ् सौ' इत्यतः अनलिति चानुवर्तते। अस्येत्यधिकृतम् ऋदादिभिर्विशेष्यते तदाह-कदन्तानामित्यादिना। उशनसादिष्वपि तदन्तविधि|ध्यः । अनकि डकार इत् , नकारादकार उच्चारणार्थः । "डिच्च' इत्यन्तादेशः। क्रोष्टन् स् इति स्थिते । भप्तृन् । 'नोपधायाः' इत्यतः उपधाया इत्यनुवर्तते । सर्वनामस्थाने चासम्बुदौ इति चकारवर्जमनुवर्तते । तदाह-अबादीनामिति । अत्र अष्टाध्यायां तावत् 'तृन्। इति सूत्रेण 'ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषु 'तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी 'बहुलमन्यत्रापि इति सूत्राभ्यां तृन्तृचौ विधाय 'नप्तृनेष्टुत्वष्टहोतृपोतृभ्रातृजामातृमातृपितृदुहित' इति सूत्रेण नप्त्रादयो निपाति. ताः । ततश्च संज्ञाशब्दाः तृन्तृजन्ताः औणादिका इति स्थितिः। तत्र तृजन्तादेव सिद्धे नत्रादिग्रहणं व्यर्थमित्यत आह-नप्त्रादिग्रहणमिति ।
नियमशरीरमाह-उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्त. जन्तानां दीर्घ इति नियमेन तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यम् , तस्यापि संज्ञाशब्दस्य शंसिक्ष. दादिगणप्रविष्टत्वेन औणादिकत्वात् । अत्र मूले व्युत्पत्तिपक्षे इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाभावादप्राप्तौ नत्रादिग्रहणमर्थवत् । तदितरपितृ. मात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उदातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात् तस्य च नत्रादिसप्तस्वनन्तर्भावात् कथं दीर्घ इत्यत आह-उद्गातृशब्दस्येति । 'वुल्तृचौ' इति सूत्रस्थभाष्ये तु अप्त इत्येवास्तु, तृन्तृचोहणं मास्त्विति प्रपञ्चितम् । तृन्निति भाष्ये तु तृन्विधौ ‘ऋत्विक्षु चानुपसर्गस्य' इति वक्तव्यम् । होता। पोता । अनुपसर्गस्य किम् । प्रशास्ता। प्रतिहा । औणादिकतृजन्त एवायम् । नयतेस्तृन वक्तव्यः षुक्च । नेष्टा । त्विषेदेवतायां तृन् वक्तव्यः । अकारश्चोपधायाः
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१८३
(सू ६४५) सूत्रे 'उद्गातारः' इति भाष्यप्रयोगात् । क्रोष्टा क्रोष्टारौ क्रोष्टारः । कोष्टारम् क्रोष्टारौ क्रौष्ट्न् । (२७) विभाषा तृतीयादिधचि ७।१।७॥ अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे । (२७९) ऋत उत् ६१११११॥ ऋदन्तान्डसिन्सोरति परे उकार एकादेशः स्यात् । रपरत्वम् । (२८०) रात्सस्य ।२।२४॥ रेफास्संयोगान्तस्य सस्यैव लोपो नान्यस्य । इति
अनिट्त्वं च । त्वष्टा 'क्षदेश्च युक्त तृन् वक्तव्यः । क्षत्ता। इत्येवं होतृपोतृनेष्टुत्वष्टक्षवृशब्दाः तृचन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिह ग्रहणं प्रपश्चार्थम् । नप्तृप्रशास्तृग्रहणमेव उक्तनियमार्थमित्यन्यत्र विस्तरः। .
क्रोष्टेति । क्रोष्टन् स् इति स्थिते एकदेशविकृतस्यानन्यतया सृजन्तत्वाहीः । हल्ल्यादिना सुलोपः । नलोपः । यपि 'सर्वनामस्थाने चा इत्येवान दीर्घः सिध्यति, तथापि परत्वादप्तृनित्येव दी| न्याया। क्रोष्टाराविति। क्रोष्टु औ इति स्थिते तृत्वदाये तो हि इति गुणे अकारे रपरत्वे एकदेशविकृतस्यानन्यतया तृजन्तस्वाही रूपम् । एवं क्रोष्टारः । क्रोष्टारम् क्रोष्टारौ। हे कोप्टो । असम्बुद्धावित्यनुवृत्तेने तृत्वदावः । शसि शम्भुवपम् । क्रोष्ट्रनिति । सर्वनामस्थाने इत्यनुवृत्तेः न तृज्वभावः । क्रोष्ट आ इति स्थिते । विभाषा तृतीयादिष्वचि। तृज्वरकोष्टुरित्यनुवर्तते । अचीति तृतीयादिविभक्तिविशेषणम् । सदादिविधिः । तदाह । प्रजादिष्विति । क्रोष्टेति । तृज्वनावे क्रोष्ट आ इति स्थिते ऋकारस्य य रेफः । एवं क्रोष्ट्र इति। तृज्वद्रावाभावपक्षे कोरना क्रोष्टवे शम्भुवत् । सिम्सोस्तृज्वत्त्वे क्रोष्ट्र अस् इति स्थिते। ऋत उत् । एकः पदान्तादिति सिब्सोश्च इत्यतः अतीति सिसोरिति चानुवर्तते । ङसिङसोरित्यवयवषष्ठी अतीत्यत्रान्वेति। अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधिः । तदाह-ऋदन्तादित्यादिना। रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य कारस्थानिकत्वानपायादिति भावः । उदिति तपर. करणं द्विमात्रनिवृत्यर्थम् । नच 'भाव्यमानोऽण् सवर्णान् न गृह्णाति' इत्येव तनिवृत्तिः सिध्यतीति वाच्यम् । तस्यानित्यत्वादिह द्विमानप्राप्तौ तनिवृत्त्यर्थत्वात्। तदनित्यत्वं तु अनेनैव तपरकरणेन ज्ञाप्यते । ततश्च यवलपरे यवला वा' इति मकारल्य अनुनासिका एव भवन्तीति 'च्छ्वोः ' इति सूत्रे कैयटः। यत्तु तपरत्वं 'ठूलोपे' इति दीर्घनिवृत्त्यर्थमिति, तन्न । 'उरणपरः' इति सूत्रे 'ऊ रपरः' इति भाष्यप्रयोगविरो. 'धात्। “सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः। नैऋतोरस्य भाव्यन्ते सवितू स्मयो यथा ॥” इति रामायणप्रयोगविरोधाच्चेत्यलम् । क्रोष्टुर् स् इति स्थितेरासस्य । संयोगान्तस्य लोप इत्येव सिद्धे नियमार्थमिदमित्याह-सस्यैवेति । तेन
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
रेफस्य विसर्गः । क्रोष्टुः । भामि परत्वात् तृज्वद्भावे प्राप्ते 'नुमचिरतृज्वद्भावेभ्यो नुत् पूर्वविप्रतिषेधेन' (वा ४३७४) । क्रोष्टूनाम् । कोष्टरि। क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् । इत्युदन्ता॥ हूहूः हृहौ ह्ह्वः। हूहम् ह्ह्रौ हूहून् इत्यादि । अतिचमूशब्दे तु नदीकार्य विशेषः । हे अतिचमु । अतिचम्वै। भतिचम्वाः । अतिचम्वाः । पतिचमूनाम् । अतिचम्बाम् । खलपूः । (२८१) भोः सुपि४३॥ धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽअस्य यण् स्यादजादौ सुपि । 'गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४)। खलप्वौ । ऊर्क इत्यादौ न संयोगान्तलोपः। रेफस्य विमर्ग इति । खरवसानयोः इति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटि नामि इति दोघे णत्वे कृते क्रोष्ट्रणामिति स्यादित्यर्थः । न च नुट् नित्य इति वाच्यम् , तृज्वत्त्वे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वात् । नुमचिरेति। अचिरेत्यनुकरणम् । अचि र इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्च अचिरेत्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टूनामिति । तृज्वत्त्वं बाधित्वा नुटि ।कृते नामि इति दी रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्ट्र इ इति स्थिते 'ऋतो ङि इति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण रेफः । पक्षे इति। तृतीयादि. ध्वजादिषु तृज्वत्त्वाभावपक्षे इत्यर्थः । ननु तृज्वत्क्रोष्टुः, स्त्रियां च, विभाषा तृती. यादिष्वचि इति त्रिसूत्री व्यर्था । सृगालवाचिनोः क्रोष्टक्रोष्टुशब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, शृणु-सर्वनामस्थाने स्त्रियां च दन्तस्यैव क्रोष्टशब्दस्य प्रयोगः। तृतीयादिष्वजादिषु तु उभयस्य तु उभयस्य, शसि हलादिषु च उदन्तस्यैवेति नियमार्था त्रिसूत्रीति । इति उदन्ताः।
अथ ऊदन्ता निरूप्यन्ते। हूहूरिति। गन्धर्वविशेषवाचि अव्युत्पन्न प्रातिपदिकमेतत् । हूतौ हूः इत्यादि । दीर्घाज्जसि च इति पूर्वसवर्णदीर्घनिषेधः । इको यणवि इति यणि रूपम् । हे हूहूः । हूहूम् हूढो हूहून् । हूह्वा । हूढे । हूतः । हूतोः । हूताम् । हहि । अतिचमूशब्दै त्विति । चमूमतिक्रान्तः अतिचमूः । अत्यादयः क्रान्ताद्यर्थे इति समासः । स्त्रीप्रत्ययान्तत्वाभावात् 'गोस्त्रियोः' इति ह्रस्वो न भवति । नदीकार्यमिति । 'प्रथमलिङ्गन्ग्रहणं च' इति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्लिप। खलपू
औ खल्पु अस् इति स्थिते 'अचि श्नुधातु इति उवङि प्राप्ते । ओः सुपि । 'एरनेकाचः' इति सूत्रं एरितिवर्जमनुवर्तते । 'अचि श्नुधातु' इत्यतः अचीत्यनुवृत्तम् । तेन सुपीति विशेष्यते । तदादिविधिः । 'इणो यण' इत्यतः यणित्यनुवर्तते । तदाह-धात्ववयवेत्या. दिना। गतिकारकेति । इदमपि वार्तिकम् अत्रानुवर्तत इति भावः । खलप्वौ खलप्व इति ।
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१८५
खलप्वः इत्यादि । एवं सुल्वादयः। 'अनेकाचः' किम् । लूः लुवो लुवः । 'धात्ववयव- इति किम् । उल्लूः उल्ल्यौ उल्ल्वः । 'असंयोगपूर्वस्य' किम् । कटः कटवौ कटघुवः । 'गति-' इत्यादि किम् । परमलुवौ । 'सुपि' किम् । लुलवतुः । स्वभूः । 'न भूसुधियोः (सू २७३ )। स्वभुवो स्वभुवः। एवं स्वय. म्भूः । (२८२) वर्षाभ्वश्च ६४॥४॥ अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ वर्षाभ्वः । भतीति दृम्भूः । 'अन्दूदम्भूजम्बूकफेलूकर्कन्धूदिधिषूः' (उ ९३) इत्युणादिसूत्रेण निपातितः । इम्भ्वौ दृम्भवः । दम्भूम् दृम्भ्वी दृम्भून् । शेषं हूहू.
कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः। खलप्वम् खलप्वौ खलप्यः। खलप्वा । खलबे। खलप्वः खलप्वाः । खलप्वोः। खलप्ति । इह अजादौ 'एरनेकाच' इति यणः असम्भवात् उछि प्राप्ते अनेन सूत्रेण यणिति भावः । उवकोऽपवादो यणिति फलितम् । इयवगै 'एरनेकाचा इति 'ओः सुपि इति यण च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः। एवं सुल्वादय इति। सुष्ठ लुनातीति सुलूः। गतिपूर्वकत्वादि. हापि यण् । आदिना केदारलरित्यादिसंग्रहः । कटारिति। 'प्रगतो किम्वचि इत्यादिना क्विप उकारस्य दीर्घश्च । परमलुवाविति । परमाचासौ लूश्चेति विग्रहः । गति. कारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति। अतुसि लुलू इत्यस्य 'अनेकाच्त्वेऽपि सुप्पर. कत्वामावान्न यणिति भावः । स्वभूरिति । स्वस्मात् भवतीति क्विए। कारकपूर्वक. त्वाचणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षावुत्पन्न इत्य. र्थः। वर्षाशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः । 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः । 'वर्षाभूर्दरे पुमान्' इति यादवः । 'न भूसुधियोः' इति निषेधे प्राप्ते । वर्षाम्वश्च । ओः सुपि इत्यनुवर्तते । अचि श्नुधातु इत्यतः अचीति च 'इणो यण' इत्यतः यणिति चानुवर्तते । तदाह-अस्येति । वर्षाभूशब्दस्येत्यर्थः। दृभतीति । 'हभी ग्रन्थे। तुदादिः । शविकरणस्य 'सार्वधातुकमपित्। इति लित्त्वान गुणः । निपातित इति । कृप्रत्ययो नुम् चेह निपात्यते इत्यर्थः । 'नश्चा. पदान्तस्य' इत्यनुस्वारः, 'अनुस्वारस्य ययि' इति तस्य परसवर्णो मकारः। अत्र च ऊकारो न धात्ववयवः । अतः उवङ्, 'ओः सुपि' इति यण च न। किन्तु 'इको यणचि' इत्येव यण् । स च 'अमि पूर्वः' इत्यनेन बाध्यत इत्याशयेनाह-दृम्भूमिति । शसि दीर्घाज्जसि च इति निषेधाप्रवृत्त्या पूर्वसवर्णदीघेण 'इको यणचिः इति यण बाध्यत इत्यभिप्रेत्याह-दृम्भूनिति । दृम्भ्वा । हम्भ्वे । दृम्भवः । दृम्भवः हम्भवोः इम्भ्वाम् । इह तु 'इन्कर' इति यण् न भवति । भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्य अनर्थकत्वात् । निति नान्तमव्ययं हिंसायां वर्तते। तस्मिन्नु
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८६
सिद्धान्तकौमुदी
अजन्तपुंलिङ्ग -
वत् । ‘दृन्' इति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । हन्भूः । ' हन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः' (वा ४११८) । हन्भ्वम् । हन्भ्वः इत्यादि खलपूवत् । करभूः । करभ्वम् । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वम् । कारभवः । पुनर्भूयगिकः पुंसि । पुनभ्वौ इत्यादि । दृग्भूकाराभूशब्दौ स्वयंभूवत् ॥ इत्युदन्ताः ॥ धाता । हे धातः । धातारौ । धातारः । 'ऋवर्णान्नस्य णत्वं
1
1
पपदे धातोः क्विबित्यर्थः । हन् हिंसाम् भवते प्राप्नोतीति विग्रहः । दृन्भूरिति । तरुविशेषः । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वात् 'नश्वापदान्तस्य' इति नानुस्वारः । अत एव म परसवर्णः । 'न भूसुधियोः' इति निषेधे प्राप्ते - करपुनः पूर्वस्य भुवो यण् वक्तव्यः । दृन्भ्वमिति । यणा पूर्वरूपं बाध्यत इति भावः । दृन्भव इति । शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः । करात् करे वा भवतीति करभूः । हन्भुवदित्यभिप्रेत्याह- करभ्वम् करभ्व इति । 'हन्कर' इत्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरम् । तत्राह - दीर्घेति । स्वार्थिक इति । स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्थार्थिकः । अध्यात्मादित्वाम् । प्रज्ञाद्यणिति । ‘प्रज्ञादिभ्योऽण्' इति प्रज्ञादिभ्यः स्वायें अण्विधानादिति भावः । दीर्घपाठे करपूर्वस्य उवडेव । ह्रस्वपाठे करपूर्वस्य यणेवेति विवेक: । पुनर्भवतीति पुनर्भूः । ननु ' पुनर्भूदिधिषूरूढा' इति कोशात् पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात् स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह- पुनर्भूयगिकः पुंसीति । पुनः भवतीति क्रियानिमितस्य पुनर्भूशब्दस्य पुंल्लिङ्गत्वमप्यस्तीत्यर्थः । दृग्भू इति । दृशो भवतीति हग्भूः । कारायां भवतीति काराभूः । कारा बन्धनालयः । स्वयम्भूवदिति । तत्र 'न भूसुधियोः” इति यणः प्रतिषेधात् । प्रतिप्रसवाभावाच्चेति भावः ॥ इत्युदन्ताः ॥
अथ ऋदन्ता निरूप्यन्ते । धातेति । दुधाञ् धारणपोषणयोः' तत्र तृन् तृज्वा स्यात् । क्रोष्टुशब्दवदन दीर्घसुलोपनलोपाः । हे धातरिति । 'ऋदुशनस्' इत्यत्रासम्बुद्धावित्य - नुवृत्तेर्नानड् । 'ऋतो डि' इति गुणः अकारः, रपरत्वं, हल्ड्यादिलोपः, विसर्गः | 'मतृन्' इति दीर्घस्तु न । असम्बुद्धावित्यनुवृत्तेः । धाताराविति । डिसर्वनामस्थानयोः 'ऋतो डि' इति गुणः अकारः रपरत्वम्, 'अतृन्' इति दीर्घश्च । धातारः । धातरम् धातारौ । शनि पूर्वसवर्णदीर्घः ऋकारः, नत्वम् । धातॄन् । टा यण् । धात्रा । डे यण् । धात्रे । ङसिङसोः 'ऋत उत्' रपरत्वम्, सलोपः, विसर्गः धातुः । धातुः । धात्रोः । धात्रोः । आमि 'हृस्वनद्याप:' इति नुट् । 'नामि' इति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाभावादप्राप्ते णत्वे । ऋवर्णान्नस्य णत्वं वाच्यम् । ऋवर्णात् परस्येत्यर्थः । इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम् । हो 'ऋतो ङि' इति
1
I
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
१७
-
वाच्यम्' (वा ४९६९) धातृणामित्यादि । एवं नप्त्रादयः। उद्गातारौ। पिता। व्युत्पत्तिपक्षे नत्रादिप्रहणस्य नियमार्थत्वान्न दीर्घः । पितरौ पितरः। पितरम् पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः । ना नरौ नरः । हे नः। (२८३) नृ च ६४॥६॥ 'नृ' इत्येतस्य नामि वा दीर्घः स्यात् । नणाम्-नृणाम् । गुणः अकारः, रपरत्वम् । धावरि धातृषु। नच धातृशब्दस्याहिरण्यगर्भसंज्ञाशब्दत्वाद औणादिकांसिक्षदादितृन्तृजन्तत्वादिह कथम् 'अप्तृन्' इति दीर्घः, औणादिकतन्त जन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्यम् । धान्धातोः शंसिक्षदावित्वकल्पनायां प्रमाणाभावेन धातृशब्दस्य औणादिकत्वाभावादिति भावः । एवं नप्त्रादय इति । नप्तनेष्टुत्वस्दृक्षचहोतृपोतृप्रशास्तृशब्दाः धातृशब्दवदित्यर्थः । उदातृशब्दस्य औणादिकतन्तृजन्तस्य नपत्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तं प्राक् । तदेतत् स्मारयति-उद्गाताराविति ।।
पितेति । धातृवदनकादि । सर्वनामस्थाने तु 'तो कि इति गुणः अकारः, रपरस्वम् । 'अप्तृन्' इति दीर्घस्तु नेत्याह-व्युत्पत्तीति । पातीति पिता । तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या। अव्युत्पत्तिपमे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशक्कैव नास्तीति भावः । पितरौ पितरः। पितरम् पितरौ पितृन् इत्यादि धात. वत् । एवं जामातृभ्रात्रादय इति । उणादिषु 'नप्तनेष्टुत्वष्ट्रहोतृपोतृभ्रातृजामातृमातृपितृदुहित' इति सूत्रे पितृजामातृभातृशब्दाः व्युत्पादिताः। तत्र पितृशब्दस्य व्युत्पत्ति. रुता । भाजेस्तृनि तृचि वा जलोपः। भ्राता। जायां मातीति जामाता। तृन्प्रत्ययः। तृज्वा यालोपश्च । अनयोरप्यौणादिकयोनत्रादिष्वनन्तर्भावात् न दीर्घ इत्यर्थः । आदिना मन्तृ हन्तु इत्यनयोः ग्रहणम् , तयोरुणादिषु 'तृन्तृचौ शंसिक्षदा. दिभ्यः' इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाहृतत्वात् । नैति । नृशब्दो मनुष्यचाची । तस्मात् सुः । 'ऋदुशनस्' इत्यनङ् । 'अप्तृन्' इति सूत्रे अनन्तर्भावात् 'सवं. नामस्थाने च' इति नान्तत्वप्रयुक्तो दीर्घः। हल्ड्यादिलोपः। नलोपः । ना इति रूपम् । नरौ नर इति । 'ऋतो डि' इति गुणो रपरः। अतृन्नाद्यनन्तर्भावात् नान्तत्वाभावाच न दीर्घः । हे नः इति । 'अतो डि' इति गुणो रपरः हल्ङ्यादिलोपो विसर्गश्च । नरम् नरौ । शसि पूर्वसवर्णदी? ऋकारः, नत्वम् , नन् । टादावचि यणि रेफः । ना। ने । सिङसोःऋत् उत् , रपरः सलोपः, विसर्गश्च । नुः । नुः नोः आमि नुट्, 'नामि' इति नित्यं दीर्धे प्राप्ते । नृ च । नृ इति लुप्तषष्ठीकम् । 'नामि' इति सूत्रमनुवतते । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । 'छन्दस्युभयथा' इत्यतः उभयथेत्यनुवर्तते। तदाह-नृ इत्येतस्येत्यादिना। नृणाम् नृणाम् इति । 'ऋवर्णान्नस्य' इति णत्वम् । गै 'ऋतो ङि इति गुणः रपरत्वम् । नरि नोः नृषु । इत्यदन्ताः ।
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
-
॥इत्यृदन्ताः॥ 'क' 'त' अनयोरनुकरणे 'प्रकृतिवदनुकरणम्। (प ३७) इति वैकल्पिकातिदेशादित्वे रपरत्वे कोः किरी किरः । तीः तिरो तिरः इत्यादि गीर्वत् । इत्त्वा. भावपक्षे तु 'ऋदुशनस्-' (सू २७६) इति 'ऋतो कि-' (सू २७५) इति च तपरकरणादनगुणो न । कृ: को क्रः । कुम् की कन् । का। के इत्यादि । । इत्युदन्ताः ॥ 'गम्ल' 'शक्ल' अनयोरनुकरणे अनछ । गमा। शका । गुणविषये
अथ ऋदन्ता निरूप्यन्ते-क इत्यादिना । कृ त इत्यनयोरनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे 'तृ प्लवनतरणयोः । कृतृ इत्याभ्यां शब्दाभ्यां अनुकरणे क्रियमाणे अनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृतृ इत्येतो विवक्षितौ । अत एवा. नुकरणस्य अनुकार्यमर्थः । अनुकार्य च अनुकरणात् भिन्नमिति 'मतो छ इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्ययेऽपि वाचकसादृश्यात् अर्थोपस्थापकत्वमिति अत्र कैयटे, 'प्राग्दीव्यतोऽण' इत्यत्र भाष्ये च स्पष्टमेतत् । ततश्च अनुकार्याभ्यां कृत इ. त्याभ्याम् अनुकरणभूतयोः कृत इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । ननु अनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात् क्रियावाचकत्वाभावेन धातुत्वाभावात् 'ऋत इद्धातोः' इति कथमित्वम् । न च 'प्रकृतिवदनुकरणम्' इति वचनाद् अनुकरणभूतयोः धातुत्वमिति वाच्यम् , एवं सतिअधातुरिति धातुपर्युदासात् प्रातिपदिकत्वा. नुपपत्तेरित्यत आह-प्रकृतिवदनुकरणमिति । वैकल्पिकातिदेशादिति । 'यत्तदेतेभ्यः परि. माणे वतुप्' इत्यत्र त्यदाद्यत्वनिर्देशात् 'त्यदादीनि सर्वनित्यम्' इत्येकशेषाकरणात् 'यो यडि क्षियो दीर्घात्' इत्यादौ धात्वनुकरणे विभक्तिनिर्देशाच्च प्रकृतिवदनुकरण. मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाभावमादाय धातुत्वाभावात् प्रातिपदिकत्वात् सुबुत्पत्तिश्च न विरुध्यत इति भावः । कीरिति । कृधातुरित्यर्थः । ऋकारस्य इत्त्वे रपरत्वे 'वोरुपधायाः' इति दीर्घः । सोहल्ल्यादिलोपः विसर्गश्च । किराविति । अपदान्तत्वात् 'वो' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गोर्शब्दवद्रूपाणीत्यर्थः । किरम् किरौ किरः । किरा कीाम् कीभिः । किरे । किरः । किरोः। कीर्षु । भ्यामादौ 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् दीर्घः । इत्वाभावेति । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् अनुकरणस्य धातुत्वाभावात् 'ऋत इद्धातोः' इति इत्त्वाभावे सतीत्यर्थः । अनगुणौ नेति । 'ऋत् उत्' इत्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'यो यङि इत्या. दिनिर्देशाः सङ्गच्छन्ते । कृरिति । कृधातुरित्यर्थः। क्रौ । क्रः इत्यादौ यण । इत्यादीति । क्रः। क्रः क्रोः काम् । क्रि । इत्यदन्ताः॥
अथ लदन्ता निरूप्यन्ते । गम्ल शक्ल इति । 'गम्ल गतौ' 'शक्ल शक्ती अजन्तौ धातू । अनङिति । अदुशनस् इत्यनेनेति शेषः । ऋलवर्णयोः सावादिति भावः।
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१८६
-
-
तु लपरत्वम् । गमलो गमलः । गमलम् गमलो गमृन् । गम्ला । गम्ले । उसि.
सोस्तु 'ऋत उत? (सू २७९) इत्युत्त्वे लपरत्वे 'संयोगान्तस्य लोपः' (सू ५४)। गमुल् । शकुल् इत्यादि । इति लृदन्ताः ॥ इना सह वर्तते इति सेः । सयौ सयः।
-
-
गुणविषये विति । डो सर्वनामस्थाने च ऋतो डि इति गुणः अकारः, लपर इत्यर्थः । 'उरणपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । लवर्णस्य दीर्घाभावात् स्वर्ण एव । पूर्वसवर्णदीधे नत्वमिति भावः । सिङसोस्त्विति । गम्ल अस् इति स्थिते ऋत उत् , लपरः । गमुल् स् इति स्थिते ,'संयोगान्तस्य लोपः गमुल् इति रूपम् ॥ इत्यादीति । गम्लभ्याम् । गम्लभिः। गम्लुभ्यः। गम्लभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लषु । वस्तुतस्तु 'उरणपर' इत्यत्र अजिति वक्तव्ये अण्ग्रहणसाम
उत् अण पूर्वेणैवेत्युक्तं भाष्ये । यदि लकारस्य यण् लकार: स्यात् तर्हि लपरत्वार्थे परेणाण्ग्रहणल्यावश्यकस्वात् तदसङ्गतिः स्पष्टैव । तस्मादेवजातीयकानां प्रयोगो न भाष्यसम्मत इत्याहुः । इति लदन्ताः । .. अथ एदन्ता निरूप्यन्ते । इनेति । अः विष्णुः तस्यापत्यम् इः। अत इञ् । 'यस्येति च' इत्यकारलोपः । इना सहेत्यर्थे 'तेन सहेति तुल्ययोगे' इति बहुवीहिः । 'वोपसर्जनस्य' इति सत्त्वम् । 'आद्गुणः' से इति रूपम् । ततः सुः, रुत्वविसर्गो। सेः । एवं स्मृतेः । स्मृतः इ. कामो येनेति विग्रहे 'अनेकमन्यपदार्थे' इति बहुवीहिः । नच एकादेशस्य पूर्वान्तत्वात् से इत्यस्य अव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्कया, अव्ययमिति महासंज्ञया लिङ्गाधनन्वितार्थकस्यैव अव्ययत्वात् । अजादौ अयादेश मत्वाह-सयौ सय इति । 'एहस्वात्' इति सम्वुद्धिलोपः, हे से । नन्वेवं सति हे हरे इत्यत्र सम्बुद्धिलोपो न स्यात् । सम्बुद्धिं परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य सम्बुद्धिविघातकं सुलोपं प्रति सन्निपातपरिभाषया निमित्तत्वायोगात् । नवं सत्येन. हणवैयर्थ्य शङ्कयम् , हे से इत्यत्र चरितार्थत्वादिति चेत् , शृणु-हे हरे इत्यत्र सम्बु. द्धिरूपस्य स्वोपजीव्यगुणविधात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमा. श्रित्य सम्बुद्धिसत्वात् , तेन च गुणस्य निर्बाधत्वात् । केचित्तु गुणात् सम्बुद्धः इत्यनु. क्त्वा 'एहस्वात्' इत्युक्तेः सन्निपातपरिभाषां बाधित्वापि सम्बुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सयः इति कथम् । अन्तर्वतिविभक्त्या से इत्यस्य पदत्वेनायादेश बाधित्वा 'एङः पदान्तात्' इति पूर्वरूपापत्तेरिति वाच्यम् 'उत्तरपदत्वे चापदा. दिविधौ' इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्ये अन्तर्वतिविभ. क्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुक. रणं वा अस्तु । तत्र जसि अयादेशस्य निर्बोधत्वात् । इत्येदन्ताः ॥
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६०
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
1
स्मृतेः । स्मृतयौ स्मृतयः । ॥ इत्येदन्ताः ॥ ( २८४) गोतो णित् ७|१०| गोशब्दात्परं सर्वनामस्थानं द्वित्स्यात् । गौः । गावो । गावः । (२८५) मौतो ऽम्शसाः ६|१|३|| 'आ ओतः' इति छेदः । ओकार | दम्शसोरचि परे Mकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् गावौ गाः । गवा । गवे । गोः इत्यादि । भोतो णिदिति वाच्यम् ।
1
श्रोदन्ता निरूप्यन्ते । गोस् इति स्थिते । गोतो पित् । गोत इति तपरकरणम् । 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह-योशब्दादित्यादिना । विद्वत्स्यादिति । णिति परे यत् कार्ये । तत्कार्यकारीत्यर्थः गौरिति । द्वित्वे 'अचो ष्णिति' इति वृद्धिः औकारः । रुत्वविसर्गाविति भावः । गाव गावः इति । द्वित्वे वृद्धिः आवादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाभावात् न सम्बुद्धिलोपः । अमि गो अम् इति स्थिते द्वित्वात् वृद्धौ प्राप्तायाम् । श्रौतोऽग्शसोः । छेद इति । आ ओत इति च्छेदः, व्याख्यानादिति भावः । ओत इति तपरकरणम् । ओकारादित्यर्थः । अम् च शस् च अम्शसौ, तयोरिति विग्रहः । अव
1
षष्ठयन्तमेतत् । 'इको यणचि' इत्यतः अचीत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधि. कृतम् । तदाह - श्रोकारादित्यादिना । शस् इह सुबेव गृह्यते । नतु बहुवल्पार्थादिति तद्धितः शस् अचीत्यनुवृत्तेः तद्धितस्य च शसः अजादित्वासम्भवात् 'लशक्वतद्धिते' इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लड्, अडागमः, उत्तमपुरुषो मिप् । तस्थस्थमिपाम् इति तस्य अमादेशः । श्नुर्विकरणः 'सार्वधातुकार्धधातुकयोः" इति गुणः ओकारः । अचिनो अम् इति स्थिते अवादेशे अचिनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा 'औतोऽम्शसोः' इत्यात्वे 'मचिनाम्' इति स्यादित्यत आह- सेति । गामिति । परापि 'अचो ञ्णिति' इति वृद्धिरिह न भवति आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्र आत्वस्य प्रवृत्तिरस्तीति तदाशयः । नच द्योशब्दादमि आत्वं सावकाश 'गोतो णित् इति णित्वस्य तत्राभावे वृद्धेरप्रसक्तेरिति वाच्यम् । अस्मादेव भाष्यात् 'ओतो णित् इति णित्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः । गा इति । असर्वनामस्थानत्वान्न णिद्वत्त्वम् । नापि वृद्धिः । 'औतोऽम्शसोः" इत्यात्वमिति भावः । टादावचि अवादेशं मत्वाह - गवा गवे इति । गोरिति । 'ङसिङसोच' इति पूर्वरूपमिति भावः । इत्यदीति । गवोः गवाम् । गवि इत्यादिशब्दार्थः । धोशब्दः ओकारान्तः स्त्रीलिङ्ग: । 'सुरलोको चोदिवौ द्वे स्त्रियाम्' इत्यमरः । सु शोभना चौः यस्येति बहुव्रीहौ पुंलिङ्गः। सुयो स् इत्यादिसर्वनामस्थाने गोतो णित् इत्यप्राप्ते । भोतो यिदिति
1
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता ।।
विहितविशेषणं च । तेन मुद्यौः मुद्यावौ मुद्यावः । सुधामित्यादि । 'मोकारान्ताद्विहितं सर्वनामस्थानम्' इति व्याख्यानान्नेह । हे भानो । हे भानवः । उ:-शम्भुः स्मृतो येन सः स्मृतौः स्मृतावौ स्मृतावः । स्मृताम् स्मृतावौ स्मृताः इत्यादि । इत्योदन्ताः ॥ (२८६) रायो हलि ७२५॥ शब्दस्य आकारोऽन्तादेशः स्याद्धलि विभक्तौ । राः। सच्यायादेशः। रायो रायः। रायम् रायो रायः ।
-
वाच्यम् । गोत इति गकारमपनीय 'ओतो णित्' इति वाच्यमित्यर्थः । तत्र प्रमाणमनुपदमेवोकम् । नत्विदं वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनामस्थान णिदिति लभ्यते । विहितेति । ओकाराद्विहितं सर्वनामस्थानमित्येवमोत इत्ये. तद्विहितविशेषणमाश्रयणीयमित्यर्थः । तेनेति । गोतः इति गकारमपनीय ओत इति वघनेनेत्यर्थः । सुयामित्यादोति । गोशब्दवादूपाणीति भावः। हे भानो इति। ओकारात् परं सर्वनामस्थानं णिदिति व्याख्याने तु भानुशब्दात् सम्बुद्धो 'हस्वस्य गुणः' इति गुणे ओकारे सति सोः ओकारात् परत्वात् णिवत्त्वे वृद्धौ औकारे एकः परत्वाभावात् सुलोपाभावे रुत्वविसर्गयोः हे भानौः इति स्यात् । अतो विहितविशेषणमित्यथः । ननु 'एडहस्वात् सम्बुद्धेः' इत्यत्र एङ ग्रहणसामर्थ्यादेव हे भानोः इत्यत्र णित्वं तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा 'एद्धस्वात्' इत्येव ब्रूयात् । अतो विहितविशे षणमनर्थकमित्यस्वारस्यादाह-हे भानव इति । तत्र 'जसि च' इति गुणे भानो अस् इति स्थिते । ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे भानावः इति स्यात् । अतो विहितविशेषणमिति भावः । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानवः इत्यत्र णिद्वत्वाभावोपपत्ते: विहितविशेषणत्वाश्रयणं व्यर्थमेव । उः शम्भुरिति । उः इत्यस्य विवरणं शम्भुरिति । उस्मृतो येनेति विग्रहे बहुव्रीहिः । 'निष्ठा' इति स्मृतशब्दस्य पूर्वनिपातः । आद्गुणः । स्मृतो इति रूपम् । ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तु 'गोतो णित्' इति सूत्रशेषतया 'योश्च वृद्धिर्वक्तव्या' इत्येव वार्तिकं भाष्ये दृश्यते । 'ओतोशसोः' इत्यत्र ओतो णिदिति तु न दृश्यते । अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः । इत्योदन्ताः॥
अथैदन्ता निरूप्यन्ते । रैशब्दो धनवाची । 'अर्थरैविभवा अपि' इत्यमरः । तस्य हलादिविभक्तिषु विशेष दर्शयति-रायो हलि। राय इति शब्दस्य षष्ठ्यन्तम् । मटन आ विभक्ता' इत्यतः आ इति विभक्ताविति चानुवर्तते । हलोत्यनेन विभक्ताविति विशेष्यते । तदादिविधिः । तदाह-रेशब्दस्येत्यादिना। हल्ग्रहणादचि आत्वं न, किंतु आयादेश एवेत्यत आह-अचीति । राः। आत्वे रुत्वविसगौं । अनि
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
सिद्धान्तकौमुदी
[अवन्तस्त्रीलिङ्ग
-
राया राभ्यामित्यादि । इत्यैदन्ताः ॥ ग्लौः, ग्लावी ग्लावः । ग्लावम् । ग्लावी ग्लावः इत्यादि । 'मौतोऽशसोः' (सू २८५) इतीह न प्रवर्तते । “ऐ भौच। (म सू ४) इति सूत्रेण ओदौतोः सावाभावज्ञापनात् । इत्यौदन्ताः ॥
इत्यजन्तपुंलिङ्गप्रकरणम् ।
-
अथाजन्तस्त्रीलिङ्गप्रकरणम् ॥ ९॥ रमा। (२८७) औङ आपः ७ ॥ आबन्तादात्परस्योकः शी आयादेशमुदाहरति-रायो राय इति । इत्यादीति । राभिः । राये राभ्याम् राभ्यः । रायः राभ्याम् राभ्यः । रायः रायोः रायाम् । रायि रायोः रासु । रैशब्दः छान्दस इति भाव्यम् । क्यजन्त एव छान्दस इति पक्षान्तरम् ॥ इत्यैदन्ताः ॥
अथ औदन्ता निरूप्यन्ते । ग्लौशब्दश्चन्द्रवाची । 'ग्लोर्मगाइः कलानिधिः' इत्य. मरः । तस्य हलादौ न कश्चिद्विकारः । अचि तु आवादेश इति मत्त्वाह-लौः ग्लावौ ग्लाव इति । ग्लावम् ग्लावौ ग्लावः । ग्लावा ग्लोभ्याम् ग्लौभिः ग्लावे ग्लोभ्याम् ग्लाभ्यः । ग्लावः ग्लौभ्याम् ग्लौभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । ननु 'औतोशिसोः' इत्यत्र ओद्ग्रहणेन सावादौकारस्यापि ग्रहणात् अम्शसोग्लौशब्दस्य आत्वं कुतो न स्यादित्यत आह-ौतोऽम्शसोरितीह न प्रवतत इति । ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः। एवं जनानवतीति जनौः । क्वि । ज्वरत्वरेत्यूट । एत्येधतीति वृद्धिः। जनावौ। जनावः इत्यादि। इत्यौदन्ताः॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां .
बालमनोरमायां अजन्तल्लिङ्गनिरूपणं समाप्तम् ॥
अथ अजन्तस्त्रीलिङ्गा निरूप्यन्ते । रमेति । रमत इति रमा। 'रमु क्रीडायाम्। पचाद्यचि 'अजायतष्टाप' प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि 'ड्याप्प्रातिपदिकात्' इति ड्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः। 'हल्ल्याप्' इति सुलोपः । अथ रमा औ इति स्थिते । औङः पापः। आप इति पञ्चमी। प्रत्ययपह
परिभाषया आबन्तं विवक्षितम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । औङः इति षष्ठी । 'जसः शी' इत्यतः शीत्यनुवर्तते । तदाह-पाबन्तादित्यादिना। औश
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
१६३
-
स्यात् । औङ् इत्यौकारविभक्तः सम्शा। रमे । रमाः । (२८८) सम्बुद्धौ च ७३।१०६॥ आप एकारः स्यात्सम्बुद्धौ। 'एहस्वात-(सू १९३) इति सम्बुद्धिलोपः । हे रमे, हे रमे, हे रमाः। रमाम् रमे रमाः। श्रीस्वाजत्वाभावः । (२८8) माङि चापः ७।३।१०५॥ आदि भोसि च परे भावन्तस्यास्यैकारः स्यात् । रमया रमाभ्याम् रमाभिः। (२६०) याडापः ७३३११३॥ भाप: परस्य विद्वचनस्य यागगमः स्यात् । 'वृद्धिरेचि' ( सू ७२ ) रमायै । सवर्ण. दीर्घः । रमायाः । रमायाः रमयोः रमाणाम् । रमायाम् रमयोः रमासु। एवं उदस्याप्रसिद्धार्थत्वादाह-ौडितीति । संक्षेति । प्राचां शास्त्रे स्थितेति शेषः । रमे इति । रमा औ इति स्थिते भीमावे तस्य स्थानिवत्वेन प्रत्ययत्वात् । 'लशक्वतद्धिते' इति शल्येल्संज्ञायां लोपे 'माद्गुणः' इति एकारः । 'यस्येति च इति लोप. स्तुम, ममत्वात् । जसि सवर्णदीर्थ मस्वाह-रमा इति। पूर्वसवर्णदीर्घस्तु न भवति, 'दोघांजलि चा इति निषेधात् । हे रमा स् इति स्थिते । सम्बुद्धौ च । 'बहुवचने शल्येत्' इत्यतः एदिति 'आडि चापः' इत्यतः आप इति चानुवर्तते । तदाहआप इत्यादिना । आवन्तस्येत्यर्थः । 'अलोऽन्त्यस्य । हे रमे स् इति स्थिते प्रक्रियां दर्शयति-एहस्वादिति । हरख्यादिलोपस्तु न, परत्वात् प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ल्यादिलोपस्याप्राप्तेः 'एव्हस्वात्' इति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । 'अमि पूर्व इति पूर्णरूपम् । औंङ शीमावे आद्गुणं मत्वाहरमे इति । स्त्रीत्वादिति । शसि रमा अस् इति स्थिते पूर्वसवर्णदीधे सति कृतपूर्वसव. र्णदीर्घात परत्वेऽपि तस्माच्छसः' इति मत्वे स्त्रीलिङ्गत्वान भवतीत्वर्थः। रमा आ इति स्थिते । आडि चापः । ओसिव इत्यनुवर्तते आप इति षष्ठी। अङ्गस्येत्यधिक तम् । तदन्तविधिः । 'बहुवचने शल्येत्' इत्यतः एदित्यनुवर्तते । तदाह-आङि ओसि चेत्यादिना । आलिति टासंशा प्राचामित्युतम् । अलोऽन्त्यस्य एत्वे अयादेश इत्याहरमयेति । रमाभिरिति । 'अतो मिसः' इति तपरकरणादैस् न । रमा ए इति स्थिते। याडापः । आप इति पञ्चमी । 'घेर्जिति' इत्यतः वित्तीत्यनुवृत्तं षष्ट्या विपरिणम्यते । तदाह-मापः परस्येत्यादिना। टित्त्वादाचवययः । वृद्धिरेचीति । या ए इति स्थिते आकारल्य एकारस्य च स्थाने ऐकार एकादेश इति भावः। सवर्णेति । इसिलसोः रमा अस् इति स्थिते याडागमे 'अकः सवर्णे दीर्घः' इति सवर्णदोर्ष इति भावः । यहित्येव सुवचम् । 'अतो गुणे' इति पररूपं तु न, अकारोच्चारणसामर्थ्यात् । रमयो. रिति । 'आडि चापः इत्येत्वे अयादेश इति भाव । रमाणामिति । 'हस्वनद्याप इत्य. जाग्रहणान्नुटि पर्जन्यवल्लक्षणप्रवृत्त्या 'नामि' इति दी* 'अकुप्वाङ्' इति णत्वमिति भावः । रमायामिति । रमा इ इति स्थिते 'राम्नयाम्नीभ्यः' इत्यामादेशे
१३ बा०
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
सिद्धान्तकौमुदी
[अजन्तस्त्रीलिज
-
दुर्गादयः। (२६१) सर्वनाम्नः स्मोड्दस्वश्च ७३.११४॥ आबन्तात्सर्वः नाम्नः परस्य जितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः। सर्वस्यै । सर्वस्याः । सर्वस्याः । एकादेशस्य पूर्वान्तस्वेन प्रहणात् 'आमि सर्वनाम्न:- (सू २१७ ) इति सुट् । सर्वासाम् । सर्वस्याम् सर्वयोः सर्वासु । एवं विश्वादयोऽप्याबन्ताः । (२४२) विभाषा दिक्समासे बहुव्रीहौ ११॥२८॥ अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै-उत्तरपूर्वाये । 'दिङ्नामान्यन्तराले' (सू ८४५) इति प्रति.
याडागमे सवर्णदीर्घ इति भावः । 'न विभक्तौ इति मस्य नेत्वम् । सर्वशब्दाहापि सर्वाशब्दः । सोऽपि प्रायेण रमावत् । उित्सु 'याडापः' इति प्राप्ते । सर्वनानः स्याड्द्रस्वश्च । 'याडाप.' इत्यत आपाहति पञ्चम्यन्तमनुवृत्तम् । तेन सर्वनाम्न इत्येतद्विशे. ब्यते । तदन्तविधिः । 'घेडिति' इत्यतः डितीत्यनुवृत्तं षष्ठया विपरिणम्यते। ततश्च आबन्तात्सर्वनाम्नः परस्य डितः स्याट् स्यादित्यर्थः । टित्त्वादाद्यवयवः । हस्वश्चेति वाक्यान्तरम् । आप इत्यनुवृत्तमावर्तते । षष्ठयन्ततया च विपरिणम्यते तच्च हस्व इत्यत्रान्वेति । आपः स्थाने हस्वो भवतीति तदर्थः । तदाह-प्राबन्तादिति । याटोऽपवाद इति । येन नाप्राप्तिन्यायादिति भावः । सर्वस्य इति । सर्वा ए इति स्थिते स्यात् । वकारादाकारस्य हस्वः, वृद्धिरितिभावः । सर्वस्याः इति । सिङसोः सर्वा अस् इति स्थिते स्याट् , आपो हस्वः, सवर्णदीघ इति भावः । ननु आबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाभावात् कथं सर्वनामत्वमित्यत आह-एकादेशस्येति । वकारादका. रस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः तस्येत्यर्थः। ननु एकादेशनिष्पन्नस्य आका. रस्य पूर्वान्तत्वे आप्त्वव्याघातात् आवन्तत्वं व्याहृतम् । न च परादिवत्त्वेन आब. न्तत्वमपीति वाच्यम् , उभयत आश्रयणे नान्तादिवत् इति निषेधादिति चेत् , सत्यम्लिङ्गविशिष्टपरिभाषया आबन्तस्य सर्वनामत्वम् । आबन्तत्वं तु परादिवद्धावेनेत्याहुः । सर्वस्यामिति । औ सर्वा इ इति स्थिते देशम्' इत्याम् सुटं बाधित्वा परत्वात् स्याट हस्वश्च । सकृद्गतिन्यायान्न पुनः सुट् । एवमिति । सर्वादिगणपठितविश्वादयः आव. न्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः।
उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् उत्तरपूर्वा । 'दिड्नामान्यन्तग्रले' इति बहुव्रीहिविशेषोऽयम् । तत्र विशेष दर्शयितुमाह-विभाषा दिक्समासे । 'सर्वादीनि' इत्यतः सर्वनामग्रहणमनुवर्तते । तदाह-अत्रेति । दिक्समासे इत्यर्थः । 'न बहुप्रीहौ' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते चिकल्पार्थमिति केचित् । गौण. स्वादप्राप्ते विभाषेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति-उत्तरपूर्वस्य इति । स्या. दृढ़स्वौ । उत्तरपूर्वाय इति । सर्वनामस्वाभावपक्षे याट् । उत्तरपूर्वख्याः -उत्तरपूर्वायाः।
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
.१६५
पदोक्तस्य दिक्समासस्य प्रहणान्नेह । योत्तरा सा पूर्वा यस्याः उन्मुग्धायास्तस्यै उत्तरपूर्वाये । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बायायै इत्यर्थः । 'अपुरि' इत्युक्तेनेह । अन्तरायै नगर्थे । (२६३) विभाषा द्वितीयातृतीयाभ्याम् ७।३।११५॥ आभ्यां खितः स्याट् स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य कित्सूपसङ्ख्यानात् । द्वितीयस्य-द्वितीयायै । द्वितीयस्याः-द्वि. तीमायाः । द्वितीयस्याः-द्वितीयायाः । द्वितीयस्याम्-द्वितीयायाम् । शेष रमावत् । एवं तृतीया । 'अम्बार्थनगेर्हस्वः' (सू २६७ )। हे अम्ब । हे अक्क । हे अल्ल ।
उत्तरपूर्वासाम्-उत्तरपूर्वाणाम् । उत्तरपूर्वस्याम्-उत्तरपूर्वायाम् । 'सर्वनाम्नो वृत्तिमात्रे पुंवदावः इति मात्रग्रहणात् सम्प्रति असर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम् । ननु उत्तरादिगिति गत्वा मोहवशात् पूर्वा .दिक यस्याः सा उत्तरपूर्वा 'अनेकमन्यपदायें इति बहुप्रीहिः । अत्रापि दिक्शब्दघटितसमासत्वात् सर्वनामताविकल्पे उत्तरपूर्वस्यै-उत्तरपूर्वाय इति रूपइयं स्यात् । स्याडागमस्तु नेष्यते। तत्राहदिङ्नामानीति। 'दिङनामान्यन्तराले? इति बहुव्रीहिः. प्रतिपदोक्तो दिक्समासः, दिक्शब्दसमुच्चार्य विहितत्वात् । नतु 'अनेकमन्यपदार्थे' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्य ग्रहणमित्यर्थः । योत्तरेति । उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छन्दौ । सामानाधिकरण्याभावे 'अनेकमन्यपदार्थे' इति बहुव्रीहेरसम्भवात् , 'बहुव्रीहिः समानाधिकरणानां वक्तव्यः' इति वचनात् । उन्मुग्धाया इति । तेन पूर्वोत्तरयोर्विरोधात् कथं सामानाधिकरण्यमिति शङ्का निरस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु । बहुव्रीहिग्रहणं न कर्तव्यम् । प्रतिपदोक्तत्वेन 'दिङ्नामानि' इति बहुप्रीहेरेव ग्रहणसिद्धेरित्यत आह-बहुव्रीहिनहणं स्पष्टार्थमिति । बाह्याय इत्यर्थ इति । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि ॥ इति कोशात् । अर्थान्तरपरत्वे तु सर्व नामत्वाभावात् न स्यादिति भावः । अपुरीत्युक्तेरिति । अन्तरं बहिर्योग' इति गणसूत्र इति शेषः । विभाषा । 'धेडिति' इत्यतः डितीत्यनुवृत्तं षष्ठया विपरिणम्यते । 'याडापः' इत्यतः आप इति, 'सर्वनाम्नः स्यात्' इत्यतः स्याडिति हस्व इति चानुवर्तते सदाह-प्राभ्यामित्यादिना । इदमिति । 'विभाषा द्वितीयातृतीयाभ्याम्' इति सूत्रं न कर्तव्यमित्यर्थः। कुत इत्यत आह-तीयस्येति । विभाषाप्रकरणे तीयप्रत्ययान्तस्य कित्सु सर्वनामत्वोपसयानादित्यर्थः। नच तीयस्य डिसूपसङ्ख्यानमेव त्यज्यतामिति वाच्यम् , पुनपुंसकार्थ तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिदं पुंसी. दन्ताधिकारे । तत्र नदीविषये उदाहृतम् । अम्बार्थानुदाहरति-हे अम्बेत्यादि । शेषं
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सिद्धान्तकौमुदी
[अजन्तस्त्रीलित
-
'भसंयुक्ता ये उलकास्तद्वता ह्रस्वोन ( वा ४५९२)। हे अम्बाडे । हे अम्बाले। हे अम्बिके । जर। । बरसी। शोभावात्परत्वाज्जरस्। मामि नुटः परस्यात् जरस् । बरसामित्यादि। पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शोभावं रमावत् । अत्र भाष्ये डलकवतीनां प्रतिषेधो वक्तव्यः। हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिदं वार्तिकं न कर्तव्यमित्युक्त्वा द्वयच्कस्यैवाम्बार्थस्य हस्व इति स्थितम् । यथाश्रुतवार्तिके तु हे अल्ल इत्यत्राव्यातिः स्यादिति तदाशयः । तदन्न फलितमाह-प्रसंयुक्ता इति । द्वयकानामम्बार्थानां हस्वः इत्यस्याङ्गत्वाचदन्तविधिः। अतः जगदम्ब इत्यत्र द्वयच्काम्बान्तत्वात् भवति हस्वः। ___जरेति । 'जष् वयोहानौ' । षिद्भिदादिभ्यः' इत्यङ् । 'ऋशोऽङि' इति गुणः, परत्वम् । अदन्तत्वात् टाप, सुः, हल्ङयादिना सुलोप इति भावः । जरसाविति । 'जराया जरसन्यतरस्याम्' इति अजादौ जरसादेश इति भावः। ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आवन्तत्व. विघातकजरसादेशनिमित्तत्वासम्भवेन जरसादेशाभावे आदगुणे जरे इत्येव स्यादित्यत आह-शीभावादिति । जासि कृते तु आवभावान शीभाव इति भावः । जरसः । जरसम् जरसो जरसः ।टा जरसा । न चात्र जरा आइति स्थिते जरसादेशं बाधित्वा परत्वात् 'आङि चापः' इत्येत्त्वे अयादेशे जरयेत्येव युक्तमिति वाच्यम् , एकदेशवि. कृतन्यायेन कृतेऽप्येत्त्वे प्रवृत्तस्य जरसादेशस्य नित्यतया तस्यैव प्रवृत्तः, पराबित्यस्य बलवत्त्वात् । कृते तु जरसि आबभावादेत्त्वं न। उ जरसे। नचात्र जरा एइति स्थिते जरसादेशं बाधित्वा परत्वात् याटि वृद्धो जरायै इत्येव युक्तमिति वाच्यम् , अन्तरङ्गत्वेन जरसादेशस्यैव प्रवृत्तेः परादन्तरङ्गस्य बलवत्वात्, आपः परस्य जितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । सिब्सोः -जरसः । अत्रापि पूर्ववद्याट् न। जरसोः। एत्त्वं बाधित्वा नित्यत्वात् जरस्। आमि जरसाम् । नन्वामि नाट कृते अजादिविभक्त्यभावात् कथं जरसादेश इत्यत आह-आमि नुट इति । डो जरसि । परमपि डेराम यादं च नित्यत्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस्। पक्षे हलादौ च रमावदिति । जरसादेशाभावपक्षे हलादावपि रमावदित्यर्थः ।
मतान्तरं दूषयितुमनुवदति-इह पूर्वेत्यादिना। इह जराशब्दे जरा ओ इति स्थिते शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः । आश्रित्येत्यनन्तरं जरसादेशे कृते इति शेषः । ननु शीभावं बाधित्वा परत्वात् जरसादेश एव युक्त इत्यत आह -पूर्वविप्रतिषेधेनेति। विप्रतिषेधे परमित्यत्र परशब्दस्य इष्टवाचितामाश्रित्य क्वचित् पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः । ननु आवन्तसन्निपातमुपजीव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभाषया आवन्तसन्निपातविघातकजरसादेशनिमित्तत्वं न सम्भ.
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
१६७
कृत्वा सन्निपातपरिभाषायाः अनित्यता चाश्रित्य 'जरसी' इति केचिदाहुः । तनिमुलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनावन्ततामाश्रित्य 'मोर आप:' (सू २८७ ) 'बालि चापः' (सू २८९) 'याप.' (सू २९० ) 'हस्वनद्यापः-- (सू २०८) 'डेराम्-' (सू २७०) इति च पश्चापि विषयः प्राप्ताः । एवं ननिश्पृत्सु । तथाप्यनल्विधावित्युनं भवन्ति । 'आ भाप्' इति प्रश्लिष्याकारवतीत्यत आह-सन्निपातपरिभाषाया अनित्यतां चेति। तन्निर्मलमिति । पूर्वविप्रतिषेधा. श्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तः सन्निपातपरिभाषायाः सर्वत्रानिस्यत्वाश्रयणे प्रमाणामावाच्चेति भावः। .
स्थादेतत् । जरसो, जरसामित्यत्र 'औड आफ: 'हस्वनयापो नु' इत्यपेक्षया परत्वादस्तु जरसादेशः । अस्तु च सिब्स्सु जरसे जरसः इत्यत्र याटमन्तरङ्गत्वात् वाषित्वा जरसादेशः । अस्तु जरसि हत्यत्र नित्यत्वादाम अन्तरङ्गत्वाबाट च बाधित्वा जरसादेशः । तथापि तस्य जरसादेशस्य स्थानिवस्वेन आवन्तत्वात् सदाविस्य एत्वशीमावयाउनुरागमाः कुतो न स्युः। किन भनेनैव न्यायेन नासिका. शम्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाउनुगगमान बाधित्वा 'पहजो इत्यादिना नस् निश् पृत् इत्यादेशेषु क्रमेण कृतेषु तेषां स्थानिवद्भावेन आबन्त. स्वमाश्रित्य एत्वशीभावयाउनुडागमाः प्रसज्येरनिति शब्ते-यधपीत्यादिना। परि. हरति-तथापीति । स्थानीभूताबन्ताश्रयविधयः एते. एत्त्वादिविधयः । अतस्तेषु कर्तव्येषु जरसाधादेशानां स्थानिवस्वं न सम्भवति, अनल्विधाविति तनिषेधात्। ततश्च जरसाधादेशानामावन्तत्वालामात् एत्वादिविधयो न भवन्तीत्यर्थः । ननु अलस्वव्याप्याकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरविधिः । ननु यथाकथञ्चित् अलाश्रयविधिरपि । रामायेत्यत्र 'सुपि च' इति दीर्घाभावप्रसङ्गात् । तत्र हि दी| यादिसुपि परतो विधीयते । यादेशस्य च सुप्त्वं स्थानिवत्त्वलन्यम् । यादेशस्य च एकारः अल् स्थानी। ततश्च दीर्घस्य स्वनिमित्तभूतलुप्त्वांशे तदाश्रय. त्वादनल्विधाविति निषेधात् दीधे कर्तव्ये यादेशस्य स्थानिवत्त्वाभावेन सुप्त्वाभावात् तस्मिन् परतो दीर्घो न स्यात् । अलत्वव्याप्याकारत्वादिधर्मपुरस्कारेण स्थान्यसमाश्रित्य प्रवर्तमानो विधिरलिवधिरित्याश्रयणे तु न दोषः। दी? हि यादेशस्थानिभूतम् एकारमेकारत्वेन नाश्रयति । किन्तु सुप्त्वेनैव । सुप्त्वं चाल्स्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्यानल्विधित्वात् तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसम्भवात् दीर्घो निर्वाधः । प्रकृते च एत्त्वादिविधयः जरसादेश. स्पनीभूताबन्तत्वपुरस्कारेण सम्भवत्प्रवृत्तिकाः। आप्त्वं च समुदायस्य धर्मः । नत्वाकारमात्रस्य । ततश्च एत्वादिविधीनामनस्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६८
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
रूपस्यैवापः सर्वत्र ग्रहणात् । एवं 'हल्याप्-' ( सू २५२ ) इति सूत्रेऽपि 'आ आप' 'कोई' इति प्रश्लेषात् 'अतिखट्वः' 'निष्कौशाम्बिः' इत्यादिसिद्धेर्दीर्घमद्दणं प्रत्याख्ययेम् । न चैवमपि 'अतिखट्वाय' इत्यत्र स्वाश्रयमाकारत्वं स्थानिव
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
>
स्थानिवत्वेनान्तत्वं दुर्वारमित्याशङ्कयाह - श्रा आबिस्यादिना । 'आडि चाप:' इत्या दिषु सवर्णदीर्घेण आ आप् इति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्वादयो विधीयन्ते । ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामविवधित्वात् तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न सम्भवति । ततश्च एत्वादिविधयोऽत्र न भव-: न्तीत्यर्थः । प्रसङ्गादाह - एवमिति । यथा 'आङि चापः' इत्यादिषु आ आबिति प्रश्लेचः । एवं ब्याब्भ्यः इत्यत्र डी ई, आ आविति सवर्णदीर्घेण प्रश्लेषात् दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः । ननु तत्र दीर्घग्रहणाभावे अतिखट्वः 'निष्कौशाम्बिरित्यत्रापि सुलोपः स्यात् । तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तः अतिखदः । अत्यादयः क्रान्ताथयें' इति समासः । कुशाम्बेन निर्वृत्ता नगरी कौशम्बी । 'तेन निर्वृतमू' इत्यण् । 'टिड्ढाणज्' इति ङीप् । निष्क्रान्तः कौशम्ब्याः निष्कौशाम्बिः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । उभयत्रापि 'गोस्त्रियोः' इति आपो डीप स्वः, ततः सुबुत्पत्तिरिति स्थितिः । अत्र स्थानिवत्त्वेनाकाररूपाबन्तत्वस्य ईकाररूपड्यन्तत्वस्य चानपायात् सोईल्ड्यादिलोपे प्राप्ते तन्निवृत्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह-प्रतिखट्वः, निष्कौशाम्बिरित्यादिसिद्धेरिति । अयमाशयः -- की ई, आ आमिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ब्यापावाश्रित्य सुलोपप्रवृत्तिर्वतव्या । इत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात् तत्पुरस्कारेण प्रवर्तमानलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ज्याबन्तत्वमस्तीति न सुलोप इति । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वात् हल्ड्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः । - स्यादेतत् । ' याडापः' इत्यत्र आ आबिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र या दुर्वारः । खट्वामतिक्रान्तः अतिखट्वः । 'अत्यादयः' इति समासे 'गोस्त्रियोः' इति ह्रस्वत्वे रूपम् । ततो ङर्यादेशे 'सुपि च' इति दीर्घे अतिखट्वायेति रूपम् । 'तत्र 'याडापः' इति याट् स्यात् । दीर्घे सति स्थानिवत्त्वेनाकाररूपाप्त्वस्य सत्त्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात् । तत्पुरस्कारेण प्रवर्तमानयाविधेरविधि - त्वात् न दीर्घस्य स्थानिवत्त्वे नाकारत्वावच्छिन्नाप्त्वमिति वाच्यम्, याडविधिर्हि आकाररूपावाश्रयः । तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत् स्थानववलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्स्वं च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्मः । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाभावाद्याविधौ स्थानिवत्वं दुर्वारमिति शङ्कामुद्भाव्य परिहरति-न चेति । एवमपीति । 'था
I
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
प्रकरणम् ९] बालमनोरमासहिता। %3 द्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आवन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । 'पदनो--(सू २२८ ) इति नासिकाया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा। (२४४) वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां
डापः' इत्यत्र आकारप्रश्लेषे सत्यपीत्यर्थः । स्वाश्रयमिति । स्वः आकारः आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्वतस्सिद्धमिति यावत् । एवमपीत्यारभ्य याट स्यादित्यन्तः सन्दर्भः शहापरः। इति च न वाच्यमित्यन्वयः। कुत इत्यत आहपावन्तं यदङ्गामिति । 'याडापः इत्यत्र हि आग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्यते । अङ्गस्येति तद्विशेषणं भवति । ततश्चाबन्तादङ्गात परस्य डितो याविधीयते । यस्मात् शब्दात् यः प्रत्ययो विहितः तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकल्य समुदायस्य ग्रहणमिति परिभाषार्थः। प्रत्ययग्रहणे प्रकृ. तिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः । प्रकृते चातिखटवायेत्यत्र खट्वशब्दाददन्तात् टाविधानात् बटवा. इत्येव टावन्तम् । तत्तु डितं विभक्ति प्रति नाङ्गम्, अतिखट्वशब्दादेव डितो विधानात् । यत्त्वङ्गमतिखट्वेति न तावन्तम् । अतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः । ननु व्याः सम्प्रसारणम्' इत्यत्र भाष्ये स्त्रीप्रत्यये वाचनिकस्तदादिनियमप्रतिषेधः पठितः । तत् कथमत्र तत्प्रातिरित्यत आह-उपसर्जनेति। तत्र भाष्ये "श्रीप्रत्यये चानुपसर्जने न' इति उपसर्जनादन्यत्रैव तदादिनियमनिषेधस्य उक्ततया प्रकृते स्त्रीप्रत्यये उपसर्जने तदादिनियमस्य निर्बाधत्वादिति भावः । नन्वेवमप्याब्ग्रहणेन प्रत्ययग्रहणपरिभाषया तदन्ते गृहीते तेनाङ्गस्य विशेषणात् आबन्तान्तं यहङ्गमित्यर्थात् अतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम् , अङ्गस्य विशेषणत्वाश्रयणात् । अत एव ङ्याग्रहणे अदीर्घ आदेशो न स्थानिवदिति वार्तिककारमतं ह्रस्वे फलाभावेन स्थानिवद्भावाप्रसक्त्या कथं तत्स्थानिके दीघे तल्लाम इति भाष्यकारेण दूषितम् । - अथ नासिकाशब्दे विशेषमाह-पद्दन्निति । शसि नसः। टा नसा । नोभ्यामि त्यादीति । नस् भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रुः' इति रुत्वे 'हशि च इत्युत्वे गुणे नोभ्याम् नोभिः इत्यादि रूपमित्यर्थः । नस्सु । पक्षे इति। शसादौ नसादेशाभावपक्षे इत्यर्थः। अथ निशाशब्दे विशेष दर्शयति । निशाया निशिति । शसादौ 'पदन्नो' इत्यनेनेति शेषः । निश् भ्यामिति स्थिते । व्रश्चभ्रस्ज। ब्रश्चादयः सास धातवः । छशौ वर्णी, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः । झलो झलि इस्यतो झलीत्यनुवर्तते। पदस्येत्यधिकृतम् । 'स्कोः संयोगाद्योरन्ते च' इत्यतः अन्ते
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
सिद्धान्तकौमुदी .
[ अजन्तस्त्रीलि-'
पा मारा३६॥ व्रश्वादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदा. न्ते च । षस्य अश्त्वेन डः । निड्भ्याम् । निभिः । सुपि 'ड: सि धुट' (सू १३१) इति पक्षे धुट । चत्वम् । तस्यासिद्धत्वात् 'चयो द्वितीयाः- (वा ५०२३) इति टतयोष्टयौ न । 'न पदान्ता:- (सू० ११४) इति ष्टुरवं न । निटत्सु-नि
सु । (२९५) षढोकः सि २४१॥ षस्य ढस्य च कः स्यात्प्रकारे परे । इति तु न भवति। जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्वादिसूत्रे 'दादेर्धातो:(सू ३२५) इति सूत्रात् 'धातोः' इत्यनुवर्तयन्ति । तन्मते जश्त्वेन प्रकारे निज्भ्याम् । निज्मिः । 'चोः कु: (सू ३७८ ) इति कुरवं तु न भवति । जश्त्व. स्यासिद्धत्वात् । जश्त्वम् । श्चुत्वम् । चर्वम् । निशु । निच्छु । 'मांसपृतनाइत्यनुवर्तते । तदाह-वश्चादीनामिति । अन्तादेश हत्यलोऽन्त्यसूत्रलभ्यम् । पस्य जश्वेन ड इति । प्रकृतसूत्रेण शस्य पत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वात् 'झलाअशोऽन्ते' इति जरत्न स्थानसाम्याडकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश सु इति स्थिते 'नश्च' इति षत्वे तस्य जश्त्वेन डकारे 'डस्सि धुटर इति कदाचित् धुडागमः । चलमिति । डधयोः इति शेषः । स्थानसाम्यात् डस्य टा, धस्य तः । तस्येति । चर्वस्येत्यर्थः। ठथौ नेति । धुडभावपक्षे टस्य ठो न । धुपये तस्य थो नेत्यर्थः । 'नादिन्याक्रोशे इति सूत्रस्थभाष्ये 'चयो द्वितीयाः इत्यस्य पाठदर्शनात् । तदपेक्षया चवस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्कय. आह-न पदान्तादिति । स्वादिषु इति पदत्वं बोध्यम् । निटत्सु इति । धुटपक्षे रूपम् । तदभावपक्षे तु निट्सु।
तत्र धुडभावपक्षे निश् सु इति स्थिते 'नश्च' इति षत्वे तस्य षकारस्य जत्त्वात् प्राक् ककारमाशब्तुिमाह-पढोः कः सिं । षश्च ढश्चेति द्वन्द्वः । सि इति सप्तमी तदाह-वस्येत्यादिना । इति तु न भवतीति । षकारस्य ककारो न भवतीत्यर्थः । जश्त्वं प्रत्यसिद्धत्वादिति । 'झलाञ्जशोऽन्ते' इत्यपेक्षया 'पढोः कः सि' इत्यस्य परत्वादिति भावः । शसादिषु निशादेशाभावपक्षे सुटि च रमावत् । प्रश्चादिसूत्रे मतान्तरमाह-केचित्रिवति । 'एकाचो बश्' इत्युत्तरसूत्रे धातोरित्यज्यानुवृत्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः। अनुवृत्तं च धातोरित्येतत् छशयोरव विशेषणम् , वश्वादिषु धातुत्वाव्यभिचारात् । जश्त्वेनेति । निश् भ्यामित्यादौ निश् इत्यस्य धातुत्वाभावात् षत्वाभावे 'मलाअशोऽन्ते' इति जरत्वेन शकारस्य स्थानसाम्यात् जकार इत्यर्थः । निज भ्यामित्यत्र कुत्वमाशङ्कयाह-कृत्वं तु नैति । जश्वस्यासिद्धत्वा. दिति । कुत्वं प्रतीति शेषः । निशु इति। निश् सु इति स्थिते, शस्य जवत्वेन जः
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२०१
-
मानूनों मास्पृत्स्नवो वाच्याः शसादौ वा' ( वा ३४९६)। पृतः। पृता । पृद्भयाम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । इत्यादन्ताः ॥ मतिशब्दः प्रायेण हरिवत् । स्त्रीत्वामत्वाभावः । मतीः । नात्वं न । मत्या । (२४६) डिति हस्वश्च १४६॥ इयवस्थानौ स्त्रीशब्दभिन्नो नित्यस्त्रीलिजावीदूतौ हस्वी चेव!वर्णी स्त्रियां वा नदीसंज्ञौ स्तो निति परे । 'माग्नथाः' (सू २६८ )।
सल्य रत्वेन शः, जस्य चत्वेन चः, शस्य छत्वविकल्पः । मांसपृतना। मांस, पृतना, सानु इत्येतेषां मास् , पुत्, स्नु, इत्यादेशा वाच्या इत्यर्थः । 'पहन्नो' इति सूत्रे वातिकमेतत् । अत एवाह-शसादौ वेति । पहन्निति सूत्रस्य शसादौ विकल्पेन प्रवृत्तरिति भावः । मांससानुसब्योरखीलित्वात् पतनाशब्दस्यैव शसादौ पदादेशमुदाति-पूत इति । पक्षे इति। प्रादेशाभावपक्षे इत्यर्थः। गोपा विश्वपावदिति । भावन्तत्वाभावात् मासुकोप इत्यर्थः । इत्यादन्ताः॥......
मादन्ता निरूप्यन्ते । मतिशब्दः प्रायेण हरिवदिति । प्रायशब्दो बहुलपर्यायः । 'प्रायो भूम्निा इत्यमरः । इहानत्वे वर्तते। प्रकृस्यादित्वात्सतीया । मतिशब्द ईषदूनहरिशब्दवत् प्रत्येतव्य इत्यर्थः । शसि विशेषमाह-स्त्रीत्वानत्वाभाव इति । 'तस्माच्छसो नः पुसि इति मत्वस्य. पुंस्त्वे विधानादिति मावः। तृतीयैकवचने विस्थानामावमाशयाह-जास्वं नैति । 'आडो नाऽस्त्रियाम् इति नात्वविधौ अस्त्रि. यामिति पर्युदासादिति भावः । इदन्सत्वात् यू स्याख्याविति नदीत्वे अप्रा बित्सु तद्विकल्प दर्शयितुमाह-ङिति हस्वश्च । अत्र चकाराद्वाक्यद्वयमिदम् । तथा हि-'यू स्त्र्याख्यौ नदी' इत्यनुवर्तते । ईश्व अश्व यू दीर्वाजसि च' इति पूर्वसवर्णदीर्घनिषेधा. भावश्छान्दसः । स्त्रियमेवाचक्षाते व्याख्यौ नित्यस्त्रीलिङ्गाविति यावत् । 'नेयकु. वस्थानावस्त्री' इति सूत्रं नम्वर्जमनुवर्तते । इयकुवः स्थान स्थितियोस्ताविति विग्रहः । इयडुवप्राठियोग्यावित्यर्थः । 'वामि' इत्यतो वेत्यनुवर्तते । ततश्च इया. वस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिजावीदूतौ नदीसंझौ वा स्तो डिति परे इति वाक्यमेकं सम्पद्यते । पुनरपि यू इत्यनुवर्तते । हश्च उश्च यू। हस्व इति तत्र प्रत्येकमन्वेति । स्त्रयाख्याविति चानुवर्तते । स्त्रीलिङ्गावित्येतावदेव विवक्षितम् । नतु नित्य. सोलिङ्गाविति, व्याख्यानात् 'वामि' इत्यतो वेति चानुवर्तते । ततश्च स्त्रीलिङ्गौ हस्वौ चेवर्णोवर्णी नदासंज्ञो वा स्तो लिति परे इति वाक्यान्तरं सम्पद्यते । तदाह-इयकु. वस्थानावित्यादिना। द्वितीयवाक्येऽपि स्त्रीलिङ्ग नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गाना पटुमृदुप्रभृतीनां त्रिलिङ्गानां च किति नदोत्वविकल्पो न स्यादिति बोध्यम् । तत्र हस्वयोरप्राक्षे दीर्घयोस्तु 'नेयकुवस्थानौ' इति निषेधादप्राप्त
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
मस्यै—मतये ! मस्याः-मतेः । मत्याः - मतेः । नदीत्वपक्षे 'ओ' ( सू २५६ ) इति बेरोरवे प्राप्ते । (२४७) इदुद्भ्याम् ७| ३ | ११७॥ नदीसंज्ञाकाभ्यामिदु दुद्भ्यां परस्य डेराम् स्यात् । पक्षे 'अच्च घेः' ( सू २४७ ) । मस्याम्- -मतो एवं श्रुत्यादयः । (२६= ) त्रिचतुरोः स्त्रियां तिचतसृ ७२॥ स्त्रीतिअयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः । (२९) अचिर ऋतः ७|२| १०० ॥ तिसृवत एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्त्वानामपवादः । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । आमि 'नुमचिर - ( वा ४३७४ ) इति नुट् । (३००) न विसृचतसृ. ६|४|४|| तिसृ चतसृ एतयोर्नामि दीर्घो न स्यात् । नदीत्वे विभाषेयम् | नदीत्वपक्षे आह- मानद्या इति । मति ए इति स्थिते आदि वृद्धौ यणि च सिद्धं रूपमाह-मत्ये इति । मतये इति । नदीत्वाभावपक्षे 'शेषो घ्यसखि इति वित्वात् घेर्दितीति गुणे अयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोराटि वृद्धिराकारः, यण मत्याः । नदीत्वाभावे मतेः । आनी नदीत्वाभावेऽपि ह्रस्वान्तत्वान्नुटि दीर्घः मतीनाम् । ङौ विशेषमाह - नदीत्वपक्षे इति । नदीत्वपक्षे वित्वाभावात् 'अच्च घेः' इति अस्वसन्नियोगशिष्टमौत्त्वं न भवति । किन्तु डेरामिति प्राप्तं, तत् बाधित्वा औदिति केवलमौ परत्वात् प्राप्ते सतीत्यर्थः । इदुद्भयाम् । 'डेराम्' इति सूत्रान्नदाग्रहणं डेराम् इति चानुवर्तते । तदाह नदीसंज्ञकाभ्यामित्यादिना । पक्षे इति । नदीत्वाभावपक्षे 'अच्च घेः' इत्यत्त्वसन्नियोगशिष्टमौत्त्वमित्यर्थः । मत्याम्, मताविति । नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र सन्निपातपरिभाषाया अनित्यत्वाद्यण् । एवं श्रुत्या
sa | आदिना स्मृत्यादिसङ्ग्रहः ।
I
त्रिचतुरोः । एतयोरेताविति । त्रिचतुरोः तिसृ चतसृ इत्येतावित्यर्थः । विभक्ताविति । 'अष्टन आविभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । जश्शसोः तिसृ अस् इति स्थिते । अचि र ऋतः । पूर्वसूत्रात्" तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । सदाह - तिस इत्यादिना । ननु 'इको यणचि' इत्येव सिद्धमित्यत आह-गुणदीर्घेखानामपवाद इति । 'ऋतो ङि' इति गुणस्य 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य 'ऋत उत्' इत्युत्वस्य च रत्वमपवाद इत्यर्थः । तिस्र इति । जशशसोः रूपम् । तत्र जसि 'ऋतो ङि' इति गुणस्य रत्त्रमपवादः । शसि तु 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । श्रामीति । तिसृ आम् इति स्थिते नुटं बाधित्वा 'अचि र ऋतः' इति रत्वे तित्रामिति प्राप्ते 'नुमचिरतृज्वद्भावगुणेभ्यो लुट् पूर्वविप्रतिषेधेन' इति रत्वं बाधित्वा नुडित्यर्थः । तिसृ: नामिति स्थिते 'नामि' इति दीर्घे प्राप्ते - न तिसृचतसृ । तिसृचतसृ इति लुप्तषष्ठीकं पदम् । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । 'नामि' इति सूत्रं चानुव
1
|
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
-
तिसृणाम् । तिसूघु । 'स्त्रियाम्' इति त्रिचतुरोषिशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। मतिशब्दवत् । मामि तु 'प्रियत्रयाणाम्। इति विशेषः । 'प्रियास्तिस्रो यस्य सः' इति विग्रहे तु प्रियतिसा प्रियतिम्रो प्रियतिनः। प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तरकुलं प्रियत्रि। स्वमोलुंका लुप्तत्वेन प्रत्ययलक्षणाभावान तिस्रादेशः । 'न लुमता--(सू २६३ ) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वात्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिसृणी। प्रियतिसृणि। तते । तदाह-तिस इत्यादिना । तिसगामिति । 'ऋवर्णान्नस्य' इति णत्वम् । ननु 'अचि ए.इति रत्वम् 'ऋत उत्' इति उस्वस्य कथमपवादः स्यात् उत्त्वस्य उसिङसोरेव प्राप्तेः त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन सिम्सोरभावादिति चेन्न । प्रियतिनः इत्यादिबहुव्रीहो तरसस्वात् । तच्चानुपदमेव वक्ष्यते । ननु प्रियाः त्रयः त्रीणि वा यस्याः सा प्रियत्रिः, इति बहुवीहावपि तित्रादेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि । प्रियत्रिशब्दो हि स्त्रीलिङ्गः। न तु त्रिशब्दः । स्त्रियामिति त्रिचतुरोविशेषणम् , नतु तदन्तयोः, प्रमाणाभावात् । न चाङ्गत्वात्तदन्तलाभ इति वाच्यम् , एवमपि त्रिचतुरोरेव प्रत्यक्षश्चतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादति भावः । 'छिति हस्वश्च' इति नदीत्वविकल्पं मत्वाह - मतिशब्दवदिति । आमि स्विति । षष्ठीबहुवचने 'प्रेस्त्रयः' इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तरिति भावः। एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीही अतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम्। ___ अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुवीही अव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणम् , न तु तदन्तयोरिति मत्वाह-प्रियास्तिन इत्यादि । प्रियतिसेति । समासे सति अन्तर्वतिविभक्तेलका लुप्तत्वात् तिस्त्रादेशनिवृत्तौ प्रियत्रिशब्दात् सुः । अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिस्रादेशः । 'ऋदुशनस्' इत्यनङ । 'सर्वनामस्थाने च' इति दीर्घः । नलोपः। स्त्रियामित्यस्य त्रिचतुरन्तागाविशेषणत्वे त्वत्राव्याप्तिः स्यादिति भावः । ननु त्रिचतुरन्ताङ्गाविशेषणत्वेऽपि नात्राव्याप्तिः प्रियास्तिस्रो यस्येति विग्रहवाक्ये प्रवृत्तस्य तित्रादेशस्य समासेऽ प्यनुवृत्तिसम्भवात् इति चेन्मैवम् । लौकिकवाक्यं हि परिनिष्ठितत्वात् समासस्य न प्रकृतिः किन्तु अलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रिअस् इत्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभापया तिस्रादेशं बाधित्वा विभक्तिलुकि प्रियत्रिशब्दात् समासात् सुबुत्पत्तौ त्रिचतुरो
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
.
तृतीयादिषु वक्ष्यमाण पुंवद्भावविकल्पात्पर्यायेण नुम्रभावो । प्रियतिसृणा । प्रियतिला इत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वा·
1
I
रित्यस्याङ्गत्वात् तदन्तविधावपि 'निर्दिश्यमानस्यादेशा भवन्ति' इति परिभाषया त्रिशब्दस्य तित्रादेशः । स च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे सति न स्थात्, प्रियत्रिशब्दस्याङ्गस्य पुंल्लिङ्गत्वात् । सति चात्र तिस्रादेशे 'नघृत' इति कप् तु म । स हि समासान्तत्वात् समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीं च उत्तरपदस्य त्रिशब्दस्य ऋदन्तत्वाभावान्न कप् । अन्तर्वर्तिविभक्तेलुका लुप्तत्वेन प्रत्ययलक्षणाभावच्च जसू निमित्तकतिस्रादेशस्याभावात् । नचाकृते समासान्ते कपि प्रियत्रिशब्दात् सुबुत्पत्तौ तिनादेशे सति कप् शङ्कयः । अकृते कपि समासान्ते समासत्वस्यैवानिष्पत्या ततः सुबुत्पत्तेरसम्भवादित्यास्तां तावत् । प्रियतिनाविति । गुणं बाधित्वा रत्वम् । प्रियतिस्र इति । जसि पूर्वसवर्णदीर्घ बाधित्वा रत्वम् । प्रियतिस्रमिति । अमि पूर्वरूपं गुणं च बाधित्वा रत्वम् । 'गुणदीर्घात्वानामपवादः' इति पूर्वरूपस्याप्युपलक्षणम् । इत्यादीति । प्रियतिस्त्रौ । प्रियतिस्रः । प्रियतित्रा प्रियतिखे । ङसिङसोः प्रियतिस्रः इत्येव । 'ऋत उत्' इत्युत्त्वं बाधित्वा रत्वम् । प्रियतित्रोः । आमि त्रयादेशं बाधित्वा परत्वात्तित्रादेशे सति रत्वं बाधित्वा 'नुमचिर' इति नुट् । प्रियतिसृणाम् । प्रियतिस्त्रि, 'ऋतो डि' इति गुणापवादो रत्वम् । प्रियतित्रोः । ननु प्रियास्तिस्रो यस्य तत् कुलं प्रियत्रि इति कथम् । त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्तेः इत्यत आहस्वमोर्लुकेति । 'स्वमोर्नपुंसकात्' इति स्वमोर्लुका लुप्तत्वेन 'न लुमता' इति प्रत्ययलक्षणाभावात् विभक्तिपरकत्वाभावान्न तिसृभाव इत्यर्थः । अनित्यत्वादिति । 'न लुमता' इत्यस्यानित्यत्वम् 'इकोऽचि विभक्तौ' इत्यज्ग्रहणात् इति नपुंसकाधिकारे वक्ष्यते । अजादिविभक्तौ 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वात् 'अचि र ऋतः इति रत्वमाशङ्कयाह - रत्वादिति । त्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्वं बाधित्वा नुमित्यर्थः । प्रियतिसृणी इति । रत्वं बाधित्वा नुमि णत्वम् । प्रियतिसृणीति । जदशसोविशः । रत्वं बाधित्वा नुम् । शेः सर्वनामस्थानत्वान्नान्तलक्षणदीर्घः, णत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे प्रियतिसृणी, प्रियतिसृणि इति भाष्योदाहरणात् पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्यम् । प्रियतिसृणेति । टायां वस्त्वाभावपक्षे नुमि रूपम् । प्रियतिस्त्रेति । पुंवत्वे नुमभावात् रत्वम् । इत्यादीति । आदिना प्रियतिखे, प्रियतिसृणे इत्यादि बोध्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्यां त्यदाद्यत्वे 'अजाथतः' इति टाबित्यर्थः । द्वे इत्यादि । टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भावः । इति इदन्ताः ॥
1
1
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
२०५
भ्याम् । द्वयोः। द्वयोः। ॥ इति इदन्ताः ॥ गोरी गोर्यो गौर्यः । नदीकार्यम . हे गौरि । गौर्ये इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकाहणे लिविशिष्ठस्यापि ग्रहणादनकि णिद्वद्भावे च प्राप्ते विभको लिगविशिष्टाप्रहणम् ( वा ४२३८)। सखी सख्यो सख्यः इत्यादि गौरीवत् । अत्यन्तत्वान सुलोपः। लक्ष्मीः । शेष गौरीवत् । एवं तरीतन्त्र्यादयः । बी। हे लि। (३०१) लियाः ६॥७॥ स्त्रीशब्दस्येय स्यादवादी प्रत्यये परे। त्रियो स्त्रियः । (३०२) पाऽम्शलोः
अथ दन्ता निरूप्यन्ते । गौरीति । गौरीशब्दात् गौरादिलक्षणोषि यस्येति च। इत्यकारलोपे गौरीशब्दः । तस्मात् सुः, हल्ल्यादिलोप इति भावः। गौर्याविति । 'दीर्घाज्जसि चा इति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । गौर्य इति । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । नदीकार्यमिति । 'अम्बार्थमयो स्वः' 'आपनचारस्वनचापो नुट् राम्नयाम्नीभ्यः' इति विहितमित्यर्थः । 'यू स्त्र्याख्यो' इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनयादय इति । 'वण शब्दे वण्यते शब्द्यते इति वाणी । 'इन वपादिभ्यः' इति इन् । 'कृदिकारादक्तिनः' इति डोप । 'नदट्' इति पचादौ पठितात् टित्त्वात् डीप् । आदिना की दण्डिनी इत्यादिसंग्रहः। 'सख्यशियोति भाषायाम्' इति सखिशब्दात् सीषि 'यस्येति च' इति इकारलोपे सखीशब्दः । तस्य 'अनइ सौ' इत्यनम् , 'सख्युरसम्बुद्धौ' इति णिद्वत्त्वं चाशते-प्रातिपदिकेति। 'विभक्ती लिङ्गविशिष्टाग्रहणम्' 'युवोरनाको' इत्यत्र 'ड्याप्प्रातिपदिकात्! इत्यत्र च माध्ये इयं परिभाषा पठिता। विभक्तिनिमित्तके कार्य कर्तव्ये प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्य ग्रहणं नास्तीत्यर्थः । तथा च अनङ्, णिद्वत्त्वं च न भवतीति भावः । सखी. ति । ड्यन्तत्वात् सुलोपो । सख्य इत्यादीति । गौरीवदेव रूपाणीत्यर्थः । 'लक्षेमुट् च' इति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः । तस्य विशेषमाह-प्रड्यन्तस्यादिति। 'कृदि कारादक्तिनः' इति डीपि तु सुलोपो भवत्येव । शेषं गौरीवदिति । अम्बाथेत्यादिका. यमित्यर्थः । एवं तरीतन्त्र्यादय इति । 'अवितस्तृतन्त्रिभ्यः ई.' इति ईप्रत्यये तरीः स्तरीः तन्त्रीः इत्यादि । अत्राप्यड्यन्तत्वान्न सुलोपः । कृदिकारात् इति डीपि तु सुलोपः। मेषं गौरीवत् । स्त्री इति । स्त्यै शब्दसङ्घातयोः। स्त्यायतः सङ्गत्ते भवतः अस्यां शु. ऋशोणिते इति स्त्री। स्त्यायतेः ड्रट् । उटावितो। डिस्वसामर्थ्यादभस्यापि टेलोपः। मेपो न्योरिति यलोपः । टित्त्वात् डीप । हल्ङयादिलोप इति भावः । हे स्त्रि इति । अम्बाति हस्वः । स्त्री औ इति स्थिते अधात्विकारत्वात् 'अचि श्नुधातु' इति इगत्यप्राप्ते । स्त्रियाः। अचि अनुधात्वित्यतः अचीति इयडिति चानुवर्तते । तदाहस्त्रीशब्दस्येत्यादिना । स्त्रियौ स्त्रिय इति । औजसोः रूपम् । अमि शसि च स्त्रियं स्त्रियः
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
सिद्धान्तकौमुदी
[अनन्तस्त्रीलिङ्ग
-
-
६४०॥ मि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्-स्त्रीम्। स्त्रियो । स्त्रिया-स्त्रीः । स्त्रिया स्त्रिय । त्रियाः । स्त्रियाः स्त्रियोः । परस्वान्नुट् । स्त्रीणाम् । खियोम् नियोः स्त्रीषु । त्रियमतिकान्तोऽसिस्त्रिः । अतिस्त्रियौ ।
गुणनाभावीरवनुभिः परत्वात्पुंसि बाध्यते ।
क्लीने नुमा च स्त्रीशब्दस्येयरित्यवधार्यताम् ।। 'असि च' (सू २४१) । अतिस्त्रयः । हे भतिस्त्रे हे अतिस्त्रियौ हे अतिस्त्रयः । 'बाऽम्शसी । अतिस्त्रियम्-अतित्रिम् अतित्रियौ अतिस्त्रियः-अतिस्त्रीन् । अति. इति नित्यमियङि प्राप्ते । वाऽम्शमोः । वा अम्शसोः इति च्छेदः । स्त्रिया इति इय. डिति चानुवर्तते । तदाह-अमि शसि चेत्यादिना । स्त्रियमिति । इयछि रूपम् । स्त्री. मिति । इयङभावे अमि पूर्वः । स्त्रियाविति । औटि रूपम् । स्त्रियः-स्त्रीः इति । शसि 'वाम्शसो इति इङि तदभावे च रूपम् । स्त्रियेति । इयङ्। स्त्रिय इति । आपनद्या इत्याट् , वृद्धिः, इयङ् । स्त्रियाः इति । उसिङसोराट , वृद्धिः, इयङ् । स्त्रियोरिति । ओसि इयङ् । परत्वाम्नुडिति। आमि 'स्त्रियाः' इति इयर्ड बाधित्वा परत्वान्नु । स्त्रीणामिति । कृते नुटि अजादिविभक्त्यभावान्नेयङ् । स्त्रियामिति । डेराम् । इया । ___ अथ प्रसङ्गात् पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति-नियमतिक्रान्तोऽतिस्त्रिरिति । 'अत्यादयः क्रान्ताद्यर्थे' इति समासः । गोस्त्रियोरिति हस्वत्वम् । दीर्घष्यन्सत्वाभावात् ईकाररूपड्यन्तत्वाभावाद्वा हल्ल्यादिलोपो न भवति। अतित्रियाविति । स्त्रियाः इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः । अथ जस् , टा, डे, उसि, इस , आम् , कि इत्येतेषु अतिस्त्रीशब्दस्य इयङ् नेत्येतत् लोकेन सगृह्णाति-गुणनाभावेत्यादिना । पुंसि गुणनाभावौत्त्वनुभिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते, इत्यवधार्यतामित्यन्वयः। जसि चेचि डि. तीति च गुणः, 'आङो नास्त्रियाम्' इति नात्वम् , 'अच्च ः इत्योत्त्वम् , 'हस्बनद्यापः' इति नुट् , 'इकोचि विभक्तो' इति नुम् , एतेषामियापेक्षया परत्वादित्यर्थः । जसि च इत्यनन्तरम् इति गुण इति शेषः । प्रतिस्त्रयः इति । इयडं बाधित्वा गुणे अयादेशे रूपम् । हे अतिस्त्रे इति । 'हस्वस्य गुणः' इति गुणे 'एहस्वात्' इति सम्बुद्धि. लोपः । वाम्शसोः इत्यनन्तरं हयविकल्प इति शेषः । अतिस्त्रियमिति । अमि हय. पक्षे रूपम् । अतिस्त्रिमिति । इयभावपक्षे 'अमि पूर्वः' । प्रतिस्त्रिय इति । 'वाम्सोः ' इति हयङ् । अतिस्त्रीनिति । इयडभावे पूर्वसवर्णदीघे 'तस्माच्छसः' इति नस्त्वम् । टा.अतित्रिणा । इयर्ड पाधित्वा परत्वात् 'आडो नास्त्रियाम् इति नात्वम् । भ्या. मादिष्वविकृतम् । अतिस्त्रये । इय बाधित्वात् परत्वात् 'डिति' इति गुणे अया
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२०७
त्रिणा । 'घेर्किति? (सू २४५) । अतिस्त्रये । अतिसः। अतिस्त्रेः अतिस्त्रियोः भतिबीणाम् । 'अच्च घेः। (सू २४५) अतिस्त्रौ । अतिस्त्रियोः ।
__ पोस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ ___क्लीबे तु नुम् । अतिस्त्रि अतित्रिणी अतिस्त्रीणि । अतित्रिणा। अतिस्त्रिणे । प्रमृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । भतिस्त्रये-अतिरित्रणे । अति. स्ने:-अतित्रिणः । भतिस्त्रः-अतित्रिणः । अतिनियोः-अतिरित्रणोः इत्यादि । देशः। सिब्सोः अतिस्त्रः परत्वात् 'धेर्तिति' इति गुणे 'इसिङसोश्च' इति पूर्वरूपम् । प्रतिस्त्रियो यस् । आमि इयर्क बाधित्वा परत्वान्नुटि नामीति दीधे णत्वम्-अतिस्त्रीणाम् । इयर्क बाधित्वा परत्वात् 'अच्च घे भतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु । अथ पुंसि पूर्वश्लोकसिद्धमेवार्य बालबोधाम लघुतरोपायेन संगृह्णातिओस्पोकारे चेत्यादिना । उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि यः इत्यादेशः 'स्त्रियाः' इति सूत्रविहितः सः ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात् । अम्शसोस्तु विभाषया विकल्पेन ल्यात् । उ. क्तचतुर्योऽन्यत्र तु अचि सर्वत्र इयादेशो न स्यादिति योजना। . .
क्लीवे तु नुमिति । इय बाधते इति शेषः। अतिस्त्रि इति । स्त्रियमतिक्रान्तं कुर लम् अतिस्त्रि । 'स्वमोर्नपुंसकात्' इति सुलुक् । प्रतिस्त्रिणी इति। अतिस्त्रि आ इति स्थिते 'नपुंसकाच्या इत्यौड शीभावः । इयर्क बाधित्वा परत्वात् 'इकोऽचि विभक्ती' इति नुम् । असर्वनामस्थानत्वान्न दीर्घः । गत्वम् । भतिस्त्रीणीति । जश्शलो शिः। स्त्रिया इति इय जसि च इति गुणं व बाधित्वा नुम् । 'शि सर्वनामस्थानम् इति सर्वनामस्थानत्वात् दीर्घः । णत्वम् । टा अतिस्त्रिणा । इयर्ड नुमं च बाधित्वा नाभाषः । डेप्रभृतावजादाविति । डे, सि, डस् , आम् , डि, ओस् इत्येतेषु 'तृतीयादिषु भाषित' इति पुंवद्भावस्य वक्ष्यमाणत्वात् ए॒वडावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम् । पुंव. स्वाभावपक्षे नुमि वारिवदूपमित्यर्थः । टायां तु पुंवत्वे तदभावे च नात्वे रूपे विशेषा. भावात् प्रभृतावित्युक्तम् । प्रतिस्त्रये इति । पुंवत्वे 'घेर्जिति' इति गुणः अयादेशः । अतिस्त्रिणे इति । पुंवत्त्वाभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयङ् बाध्य. ते । प्रतिस्त्रेरिति । उसिङसोः पुंवत्त्वपक्षे 'डिति' इति गुणे 'सिङसोश्च' इति पूर्वरूपम् । प्रतिस्त्रिण इति । सिसोः पुंवत्वाभावपक्षे नुमि रूपम् । इहाप्युभयत्र गुणनु. मायामियङ् बाध्यते । प्रतिस्त्रियोः-प्रतिस्त्रिणोरिति । पुंक्त्त्वाभावे नुम् । पुंवत्त्वे हवम् । इत्यादीति । आमि पुंवत्त्वे तदभावे च इयर्ड बाधित्वा नुडेव, नतु नुम् , 'नुमः
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
सिद्धान्तकौमुदी
[भजन्तस्त्रीलिङ्ग
D
मियो तु प्रायेण पुंगत् । शसि अतिनीः । अतिजिया । 'गिति हपश्च' (सू२९६) इति हस्वान्तस्वप्रयुक्तो विकल्पः । 'मन्त्री' इति तु इयवस्थानाविस्थस्यैव पर्युदासः, तत्संबद्धस्यैषानुवृत्तेः दीर्षस्यायं निषेधः, न तु हस्वस्य । अतिस्त्रिये -अतिस्त्रिये । अतिस्त्रियाः-अतिः । अतिस्त्रिया:-अतिः। अतिम्रोणाम् । अतिस्त्रि. याम-अतिस्त्री । श्रीः त्रियो त्रियः। (३०३) नेयषस्थानावत्री १४| चिर इति वचनात् । 'नामि' इति दीर्घः। अतिस्त्रीणाम् । अतिस्त्री अतिस्त्रिणि । मतिस्त्रियोः-अतिस्त्रियोः।। ___ तदेवमुपसर्जनस्त्रीशब्दस्य पुनईसकविषये स्पाणि प्रत्पर्य प्रकृतमनुसरति-स्त्रियां त्विति । स्त्रियमतिक्रान्तेति विग्रहे 'अत्यादयः' इति समासे 'गोस्त्रियोः इति हस्वत्वे सति अतिस्त्रिशब्दः । तस्य प्रायेण उदाहृतपुंलिशातिस्त्रिाब्दवद्रूपाणीत्यर्थः । शसि अतिस्त्रीरिति । 'वाम्शसोः' इति इयङभावे पूर्वसवर्णदीघे सत्यपि स्त्रीलिङ्गत्वात् 'त. स्माच्छसः' इति नत्वं नेति भावः । प्रतिस्त्रियेति । स्त्रीलिङ्गत्वान्नात्वाभावे इयत् । हस्वान्तत्वेति। डिति हस्वच' इत्यत्रायडुवकस्थानौनीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतो नदीसंगौ वा स्तः, इति प्रथम वाक्यम् । हस्वाविवर्णोवर्णी स्त्रियां नदीसंज्ञौ वा स्तः, इति द्वितीयं वाक्यम् । तत्र द्वितीयवाक्यात् अतिस्त्रिशब्दस्य डिल्स नदीत्वविकल्प इत्यर्थः । ननु 'नेयाधस्थानावस्त्री' इत्यतः अस्त्रीत्यस्याउकुत्तेः कथमिह नदीत्ववि. कल्प इत्यत आह अस्त्री इति विति । इयावस्थानाविल्यादिप्रथमवाक्यविहित. नदीत्वस्वास्त्रीति पर्युदासः, नतु हस्वावित्यादिद्वितीयवाक्यविहितनदीत्वस्यापी. त्यर्थः । कुत इत्यत आह-तत्संबद्धस्यैवानुवृत्तेरिति। नेयावड्यानावित्यतः अस्त्री. त्यस्यानुवृत्तिर्वक्तव्या । ततश्च इषडुबस्थानाविति यत्रान्वेति, तत्रैव तत्सम्बहस्य अस्त्रीत्यस्यानुवृत्तिचिता । एवंच हस्वादिवाक्ये हयघडस्थानावित्यस्य अनुसत्यभाषात् अस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रिय इति । नवीपणे आट् वृद्धिः । अतिस्त्रिये इति । नदीत्वाभावे वित्वात् 'धेडिति' इति गुणः अयादेशः । अतिस्त्रियाः-अतिस्त्रेरिति । नदीत्वे आट । तदभावे गुणः । 'सिटसोच इति पूर्वरूपम् । अतिस्त्रियामिति । नदोस्वपक्षे सम् आट । प्रतिस्त्राविति । नदीवाभावपक्षे 'अच्च । । .
ओरिति । श्रयन्त्येतामिति श्रीः । किम्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्थोऽसम्प्रसारणंचा इति किप, प्रकृतेदश्च । श्रीशब्दात् सः। अन्तत्वान्नसुलोपः ।त्रियो श्रिय इति । 'दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे 'इको यणचि' इति यणि प्राप्ते धात्व.
वे चन्तित्वात् 'अचि नुधातु' इतीयङ। एकात्वात् संयोगपूर्वकत्वाच्च व न। 'यूस्त्रयाख्यो' इति नदीत्वात् 'अम्बार्थ' इति हस्वे प्राप्ते । नेयङवङ् । 'यु स्या
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९ ]
बालमनोरमासहिता ।
1
1
४॥ इयङ्ङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तः, न तु स्त्री । हे श्रीः । श्रियम् । श्रियौ। श्रियः । श्रियै-श्रियै । श्रियाः श्रियः । (३०४) वाऽऽमि ४५॥ इयवस्थानी व्याख्यौ यू आमि वा नदीसंज्ञौ स्तः, न तु स्त्री । श्रीणाम् श्रियाम् । श्रियाम्-श्रियि । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम्', 'पदाख्यौ नही' इस्यतो यू नदीत्यनुवर्तते । स्थानशब्दो भाषे ल्युडन्तः । इमहुवङोः स्थानं स्थितिर्ययोरिति बहुवीहिः । इयडुवयोग्याविति यावत् । तदाह- इयडवडी रिस्यादिना । हे श्रीरिति । अजादाविययोग्यत्वात् नदीत्वनिषेधात् 'अम्बार्थनद्योः " इस्वी मेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । त्रियौ श्रिय इति औ सोः पूर्ववत् । टा श्रिया । श्रिये इति । 'डिंति हस्वश्चेति ङिति नदीत्वपक्षे आद वृद्धिः । श्रिये इति । नदीत्वाभावे इयङ् । श्रियाः इति । सिङसोः नदीत्वे आटू, । श्रियः इति । नदीत्यामविपते वडेव । ङित्वाभावात् आमि 'डिति हस्वयं' इति प्राप्त । वामि । यूँ स्पाची मंदीत्यनुवर्तते । 'नेयपदस्यानावस्त्री' इति नवमनुवर्तते । वा आमीति छेदः । अभि नदीकार्याभावात् । तदाह- इयडु
1
I
स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'इस्वनद्याप:' इति नुट् । श्रियामिति । नदीत्वाभावे इयङ् । श्रियाम् श्रियीति | नदीत्वे डेराम्; आटू, इयङ् । नुट् तु न, आटा जुट् बाध्यते इत्युक्तत्वात् । नदीत्वाभावे तु इयब्धि । श्रियोः । श्रीषु ।
""
• प्रधीशब्दस्य स्विति । प्रध्यायतीत्यर्थे ध्यायतेः सम्प्रसारणं 'च' इति विपि यकारस् सम्प्रसारणे इकारे 'सम्सारणाच्च' इति पूर्वरूपे 'हल:' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकार हरदत्तादिमते लक्ष्मीवपाणि । तत्र 'एरनेकाचः इति पंणा set after स्थानत्वाभावात् नेयवस्थानौ इति मदोत्वनिषेधाभावात् 'यू स्त्र्याख्यो' इति नित्यनदीत्वे सति 'अम्बार्थे' इत्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घे च वाधित्वा यणेवेति विशेषः 1 ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यांतृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वात् नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावात् कथं नदीकार्याणीत्यत आहपदान्तरं विनापीति । पदान्तरसमभिव्याहाराभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सस्त्रीलिङ्गः इति विवक्षितः । अत एव ब्राह्मण्यां आधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये । स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः इत्यभ्युपगमे तु सर्वसङ्गतिः स्पष्टैव | आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य सम्भवत्येव, प्रकण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः क्रियाश्च प्रतीतिप्रसक्तौ अन्यतरव्यवच्छेदाय ब्राह्मणः ब्राह्मणी इत्यादिपदान्तरक्षम
I
बा० १४
For Private and Personal Use Only
२०६
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१०
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
न्तरं विनापि स्त्रियt वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'लिङ्गान्तरानभिधायकत्वं तत्' इति कैयटमते तु पुंवद्रूपम् । 'प्रकृष्टा धीः' इति विप्रहे तु लक्ष्मीवत् । अभि शसि च प्रध्यम्, प्रध्यः इति विशेषः । सुष्ठु धीर्यस्याः, सुष्ठु ध्यायति वेति विप्र तु वृत्तिकारमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु भोः इति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं भिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वात् नदीकार्य निर्बाधमिति भावः । लिङ्गान्तरेति । 'श्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्य स्त्रीत्वम्' इति कैयटमतम् । 'स्त्रीविषयामेव यौ यू तयोरेव नदीसंज्ञा' इति 'यू स्त्र्याख्यो' इत्यत्र भाष्यादिति तदाशयः । पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाभावात् पुंसीव स्त्रिया'मपि अनदीत्वादिति भावः । प्रकृष्टति । प्रकृष्टा धोरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वात् लक्ष्मो वद्रूपमित्यर्थः । श्रमि शचेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दात् मेमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घ' च बाधित्वा 'एरनेकाचः' इति यण् ; इत्येतावान् विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राह्मण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्यभिप्रायेण नेयः । अत एव भाष्यात् ' नद्युतश्च' इति कप् नेत्याहुः ।
सुष्ठु धीर्यस्या इति । सुष्ठु धीर्यस्या इति सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयहुवङ्स्थानावस्त्री' इति नदीत्वनिषेधात् 'डिति हस्वश्च' इति 'वाम' इति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि । 'न भूसुधियोः' इति यग्निषेधे इङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति । लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वमिति कैयटमते तु त्रिलिङ्गतया नदीत्वाभावात् पुंवदेव रूपमित्यर्थः । ननु - सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात् 'प्रथमलिङ्गग्रहणं च इति नदीत्वं दुर्वारमिति चेत्, सत्यम् - यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्य उपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इययोग्यतया 'नेयवस्थानौ' इति नदोत्वनिषेधात् वृत्तावपि न तदविदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेऽपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति । स्त्रियामिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत् पदान्तरं विनापि स्त्रियां वर्तमानत्वात् नित्यस्त्रीलिङ्गत्वानदीकार्य सत्वात् पुंवदिति कथमित्यत आह- ग्रामनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः सामान्यतः पुंधर्मतया (पुरुषकर्तव्यतया) ब्राह्मणीत्यादिपदान्तर समभिव्या
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९ ]
बालमनोरमासहिता |
विनापि स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् ॥ इति ईदन्ताः ॥ धेनुः मतिवत् । ( ३०५) स्त्रियां च ७ । १ । ६६ ॥ स्त्रीवाची क्रोष्टुजब्दस्तृषन्तवद्रूपं लभते । (३०६) ऋनेभ्यो ङीप् |४|१|५ ॥ ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री क्रोष्ट्रयौ क्रोष्ट्रयः । इत्युदन्ताः ॥ वधूः गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि 'हापितः कासि हे सुभ्रु' इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । ' हन्कर' (वा ४११८)
२११
हार बिना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाभावान्नदीत्वं नेत्यर्थः । एवमिति । खलपवनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वम् भौत्सर्गिक सामान्यतः सिद्धम् । अतः खलपूः कटः इत्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंबदेव रूपमित्यर्थः । इति ईदन्ताः ।
अथ उदन्ता निरूप्यन्ते । धेनुर्मतिवदिति । उकारस्य भोकारो गुणः अवादेश इत्यादिविशेषस्तु सुगम इति भावः । अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह - स्त्रियां च । 'सृज्यत्कोष्टुः" इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह-स्त्रीवाचीत्यादिना । तथाच स्त्रियासुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्ट्र इति ऋदन्त एवेति फलि - तम् । ऋन्नेभ्यो ङीप् । ऋतश्च नचेति द्वन्द्वः । स्त्रियामित्यधिकृतम् । ब्याप्प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तम् ऋन्नकारैर्विशेष्यते । तदन्तविधिः । तदाहऋदन्तेभ्य इत्यादिना । पावितौ । क्रोष्टु ई इति स्थिते यणि क्रोष्ट्रीशब्दात् सुबुत्पत्तिः। गौरीवद्रूपाणीत्याह- क्रष्ट्री इत्यादि । इत्युदन्ताः ।
I
1
अथ ऊदन्ता निरूप्यन्ते । वधूगौरीवदिति । 'वहो धश्च' इत्यूप्रत्ययः हस्य धश्च । धात्ववयवोवर्णाभावात् नोवङ् । ऊकारस्य यण् वकार इत्यादिविशेषस्तु सुगम इति भावः । भ्रूः श्रीवदिति । 'अश्मेव डू:' इति प्रत्ययान्तोऽयम् । 'अचि नुधातुनुवाम्” इत्युवङ् इत्यादिविशेषस्तु सुगम इति भावः । सु शोभना सूर्यस्याः सा सुभ्रुः । अस्त्रीप्रत्ययान्तत्वात् 'गोस्त्रियो:' इति ह्रस्वो न भवति । 'नेयङुवङ्स्थानावस्त्री ' इति शब्दस्य तदन्तस्य च निषेधात् नदीत्वं न । ततश्च 'अम्बार्थ' इत्यादि नदीकार्यं नेत्यभिप्रेत्याह - हे सुभूरिति । कथं तदीति । यदि सुभ्रूशब्दे नदीकार्य न स्यात् तदा 'हापितः क्कासि हे सुभ्रु' इति कथं भट्टिराहेत्यर्थः । रावणेन सीतापहारोतर रामविलापोऽयम् । हे सुभ्रु त्वया अहं हापितोऽस्मि विधिनेत्यर्थः । हापित इत्यस्य त्याजित इत्यर्थः । प्रमाद इति । 'अम्बार्थ' इति हस्वस्य करणादिति भावः । बहव इति । कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथंचित् समादधुः । खलपूः पुंवदिति ।
1
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१२
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
इति यणा उबढो बाधनात् 'नयकुवङ्-' ( सू ३०३ ) इति निषेधो न । हे पुनर्भु । पुनवम्। पुनवौं । पुनः । (३०७) एकाजुत्तरपदे णः ८|४|१२|| एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थानिमित्तात्परस्य प्रातिपदिकान्तनुम्बि भक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यानित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । 'भेक्यां पुनर्नवायां खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाभावेन नित्यस्त्रीत्वाभावात् नदीत्वं नेति भावः ।
1
पुनर्भूरिति । 'पुनर्दिधिषूरूढा द्विः' इत्यमरः । तस्य 'नेयहुबड' इति निषेधमायाह- इन्करेतीति । 'अम्शसोः पूर्वरूपं पूर्वसवर्णदीर्घ च बाधित्वा 'हन्कर' इति यणिति मत्वाह - पुनम् पुनर्वाविति । पुन | पुनर्वाः । नद्यन्तत्वात् नुटि दीर्घे पुनर्भू नामिति स्थिते रेफान्नकारस्य भिन्नपदस्थस्वात् 'अटकुप्वा इत्यप्राप्ते | एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समासे इति लभ्यते । एकः अच् यस्मिन् तत् एकाच्, तत् उत्तरपदं यस्य सः एकाजुत्तरपदः । तस्मिन् समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'पूर्वपदात् संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवर्तते । पूर्व पदं यस्य तत् पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्याभ्यामिति लभ्यते । 'प्रातिपदिकान्तनुम्विभक्तिषु च -इत्यनुवर्तते । विद्यमानस्येति शेषः । तदाह -- एकाजुत्तरपदमित्यादिना । नन्विह
कारग्रहणं व्यर्थम् । 'रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः । नच प्रातिप दिकान्तनुम्विभक्तिषु च' इति विकल्पनिवृत्यर्थं पुनर्णग्रहणमिति वाच्यम् । आरम्भसामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह-आरम्भेति । यणमिति । 'हन्कर' इति यमित्यर्थः । पुनर्भूणामिति । रेफस्य 'हशि च' इत्युत्वं तु न, रोरेव तद्विधानात् । डेराम, पुनर्भ्याम्। वर्षाभूशब्दे विशेषमाह - भेकेति । 'बह्वादिभ्यश्च' इति ङीषो वैकल्पिकत्वात् ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।
'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः ।
दर्दुरो भेकः । एवं च 'लिङ्गान्तरानभिधायकत्वम्' इति कैयटमते नित्यस्त्रीलि· त्वाभावात् नदीत्वाभावे सति 'अम्बार्थ' इति हस्वाभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति । 'पदान्तरं विनापि स्त्रियां वर्तमानत्वम्' इति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य जातिशब्दतया पदान्तरं विनापि स्त्रियां वर्तमानतया नित्यस्त्रीत्वान्नदीत्वे 'अम्बार्थ' इति इस्वे सति हे वर्षाभु इति रूपमित्यर्थः । ननु "शिली गण्डूपदी भेकी वर्षाभ्वी कमठी दुलिः' इत्यमरकोशे वर्षाभूशब्दस्य भेकजातो
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२१३
स्त्री वर्षाभूर्द१रे पुमान्' इति यादवः । 'वर्षाभ्वश्च' (सू २८२)। वर्षाभ्वौ । वर्षाभ्वः । स्वयम्मः पुंवत् । इत्यूदन्ताः ॥ (३०) न षट्स्वनादिभ्यः४।१।१०॥ षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च डीप्टापो न स्तः॥
"स्वमा तिम्रश्चतस्रश्च ननान्दा दुहिता तथा। ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥" अप्तृन्-(सू २७७) इति दीर्घः । स्वसा। स्वसारी । स्वखारः । माता पितृबत् । शसि मातः । इत्यृदन्ताः ॥ द्यौः गोवत् ॥ इस्योदन्ताः ॥ राः पुंवत् ॥ इत्यै
स्त्रीलिङ्गमात्रावगमात् कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह भेक्यामिति । यादवकोशानुसारात अमरकोशे स्त्रीग्रहणमुपलक्षपमिति भावः। यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । मजादौ 'एरनेकाप इति यणः 'न भूसुवियोः' इति निषेधे।प्रा वर्षावाचा इति यणः प्रतिप्रसव उक्तः। तं स्मारयतिवर्षाभ्वश्चेति । स्वयम्भू मुवदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात् तस्य यौगि. कस्य पदान्तरं विना स्त्रियामवृत्तान वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वात् न नित्यस्त्रोत्वमिति भावः । इत्यूदन्ताः॥
अथ दन्ता निरुप्यन्ते । 'सावसेन्' इति सौ उपपदे अस्धातोः ऋन्प्रत्यये स्वसादा, भगिनीवाची । 'ऋन्नेभ्यः' इति कीपि प्राप्ते । न षट् । षट इत्यनेन षट्स
ज्ञका गृह्यन्त इत्याह-षट्सशकेभ्य इति । डीप्टापाविति। 'ऋन्नेभ्य' इत्यतो कीविति, 'टावृषि' इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः। स्वनादीन् पठति-स्वसा विस्र इत्यादिना। 'अथ 'तिस्चतम' इत्यनयोः पाठो न कर्तव्या 'न तिसूचतस्' इति नामि दीर्घनिषेधादेव लिसात् जीवभावसिद्धेरिति 'कृन्मेजन्तः' इति सूत्रे कैयटः । न नन्दतीति ननान्दा। 'नजि च नन्देः' इति ऋन् , वृद्धिश्च । 'ननान्दा तु स्वसा पत्युः" इत्यमरः । दोग्धीति दुहिता। 'नतृनेष्टुत्ववृहोतृपोतृभ्रातृजामातृमातृपितृ. दुहित' इति दुहेस्तृच । इट् गुणाभावश्च निपातितः। मान्यते पूज्यते इति माता । मान पूजायाम।। तृचि नलोपश्च । यतते इति याता। 'यतेवृद्धिश्च' इति ऋन् उपधा. वृद्धिश्च । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इत्यमरः। अतृन्नितीति । स्वसशब्दात् सः, 'दुशनस्' इत्यन, तृप्रत्ययान्तत्वाभावेऽपि 'अपतृन्' इति सूत्रे स्वसग्रहणात् दीर्घ इति भावः । माता पितृवदिति । 'अप्तृन्' इति सूत्रे औणादिकतस्तृजन्तेषु नत्रादीनामेव दोनियमनादिति भावः । इस्यदन्ताः।। .. अथ ओदन्ता निरूप्यन्ते । चोर्गोवदिति । 'मोतो णितु' इति णिद्वत्त्वातिदेशात् 'अचो जिति' इति वृद्धिः । 'योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः। इत्योदन्ताः ।
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
सिद्धान्तकौमुदी
[अजन्तनपुंसकलिङ्ग
दन्ताः ॥ नौः ग्लोवत् ॥ इत्यौदन्ताः ॥
इत्यजन्तस्त्रीलिङ्गप्रकरणम् ।
अथ अजन्तनपुंसकलिङ्गप्रकरणम् ॥१०॥ (३०६) अतोऽम् ॥१॥२४॥ अतोऽङ्गात्क्लीवात्स्वमोरम्स्यात् । 'अमि पूर्वः (सू १९४)। ज्ञानम् । 'एड्ह्रस्वात्-(सू १९३) इति हरुमात्रलोपः। हे.ज्ञान ।
.. अथ ऐदन्ता निरूप्यन्ते । राः पुंवदिति । 'रायो हलि ।इत्यात्वम् । 'राः स्त्रीत्येके' इति क्षीरस्वाम्युक्त स्त्रीलिङ्गोऽप्ययमिति भावः । इत्यैदन्ताः। .. अथ औदन्ता निरूप्यन्ते। नौग्लौवदिति। 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । इत्यौदन्ताः॥ , इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायामजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् ।
imo
प्रथाजन्तनपुंसकलिङ्गा निरूप्यन्ते । ज्ञानशब्दात सुः 'स्वमोनपुंसकात्' इति तस्य लुकि प्राप्ते । अतोऽम् । अत इति पञ्चमी। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते। तदन्तविधिः । 'स्वमोनपुंसकात्' इत्यनुवर्तते । तदाहअतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । ज्ञानमिति । सोरमि कृते अमि पूर्वरूपम् इति भावः । अमोऽम्विधानं तु 'स्वमोनपुंसकात्' इति लुनिवृत्त्यर्थम् । ननु अतः म् इत्येव छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धेः। अमि च 'आदेः परस्या इति अकारस्य मकारे अन्त्यस्य मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्र 'सुपि च' इति दीर्धापत्तः। न च अदन्तसन्निपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्वं न सम्भवतिः सन्निपातपरिभाषाविरोधादिति वाच्यम् , 'सुपि च' इति दीर्थे कर्तव्ये सत्रिपातपरिभाषाया अप्रवृत्तेरि. त्युक्तत्वादित्यलम् । हे ज्ञानेति । हे ज्ञान स् इति स्थिते सोरमि कृते पूर्वरूपे 'एह. स्वात्' इति मकारलोपे हे ज्ञानेति रूपम् । ननु एहस्वादित्यत्र संबुद्धयाक्षिप्तस्य संबुद्धथैवान्वय उचितः। ततश्च एडन्ताधस्वान्ताच्चाङ्गात् परा या सम्बुद्धिः तदव. यवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयेण ज्ञान इत्यदन्तमङ्गम् । ततः परा सम्बुद्धिर्नास्ति मकारमात्रस्यासम्बुद्धित्वात् , सुख्यानिकल्याम एवं सम्बुद्धित्वात् , अर्धविकारेण एकदेशविकृतन्यायानवताराच्च । न च
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता।
२१५
(३१०) नपुंसकाच ७१।१६ क्लीवात्परस्यौछः शी स्यात् । भसंज्ञायाम् । (३११) यस्येति च ६४॥१४॥ भस्येवर्णावर्णयोर्लोपः स्यादी. कारे तद्धिते च परे । इत्यकारलोपे प्राप्ते। 'और: श्या प्रतिषेधो वाच्यः' (वा४१८९) । ज्ञाने। (३१२) जश्शसोः शिः ७।१।२०॥ क्लीबादनयोः शिः स्यात् । (३१३)शि सर्वनामस्थानम् ॥१॥४२॥ 'शि' इत्येतदुक्तसं स्यात् । (३१४) नपुंसकस्य झलचः ७१।७२॥ झलन्तस्याजन्तस्य च क्लीवस्य पूर्वरूपात प्राक् एस्वात्' इत्यस्य प्रवृत्तिः किं न स्यादिति वाच्यम्, परत्वात् पूर्वरूपस्यैव पूर्व प्रवृत्तः । न च पूर्वान्तत्त्वात् पूर्वरूपस्याङ्गान्तर्भावात् ज्ञान इत्यदतमाम् । परादित्वाच्च अम् इत्यस्य सम्बुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमाअस्य एतस्वात् इति लोपो निर्वाध इति वाच्यम्। 'उभयत आश्रयणे नान्तादि. चरति निषेधादित्यत आह-पहस्वादिति । इल्मात्रलोप इति । पूर्वरूपे कृते सम्बु. द्धर्मकारमात्रं यत् परिशिष्टं तस्य 'एव्हस्वात्' इति लोप इत्यर्थः। लक्ष्यानुरोधात् सम्बुद्धयाक्षिप्तमङ्गं सम्बुद्धौ नान्वेति किंतु सम्बुद्धयवयवहल्येवान्वेति । ततश्च एडन्तात् हस्वान्ताच्चाङ्गात् परो यः सम्बुद्धयवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपेकतेऽपि हस्वान्तादात् परत्वं सम्बुद्धयवयवस्य मकारमात्रस्य अस्त्येवेति तस्य 'एहस्यात्' इति लोपो निर्वाध इत्यन्यत्र विस्तरः ।
नपुंसकाच्च । 'जसः शी' इत्यतः शीति 'औक आपः' इत्यतः औङ इति चानुवर्तते । तदाह-क्लीवादिति । औमित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञान ई इति स्थिते-यस्येति च । यस्य ईतीति छेदः । इश्च अपच तयोः समाहारः यं तस्य इवर्णस्य अवर्णस्य चेत्यर्थः । भस्येत्यधिकृतम् । 'नस्तद्धिते' इत्यतः तद्धिते इत्यनुवर्तते । तदाह-मस्येत्यादिना । इत्यकारलोपे प्राप्त इति । 'सुइनपुंसकस्य' इति पर्युदासेन शीभावस्यासर्वनामस्थानतया तस्मिन् परतो भत्वादिति भावः । औड: श्यामिति । औङ यः शी आदेशः तस्मिन् परतः 'यस्येति च' इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । औङ इति तु व्यर्थमेव । सर्वे इत्यादौ 'जसः शी' इत्यस्य भाधिकारेणैव व्यावृत्तिसिद्धः। शाने इति । ज्ञान ई इति स्थिते आ. दूगुण इति भावः । जश्शसोः शिः। स्वमोनपुंसकात्' इत्यतो नपुंसकादित्यनुवर्तते। तदाद-क्लीवादिति । ज्ञान शि इति स्थिते स्थानिवत्वेन प्रत्ययत्वात् 'लशक्वतद्धिते इति शकार इत् । शि सर्वनामस्थानम् । उक्तसंशमिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपु. कस्येति पर्युदासात् शि इत्यस्य सर्वनामस्थानत्वे अप्राप्ते वचनम् । नपुंसकस्य झलचः । झल्च अच्चेति समाहारद्वन्द्वः । तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तवि.
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तनपुंसकलि
नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः । (३१५) अड्डतरादिभ्यः पञ्चभ्यः ७|१| २५॥ एभ्यः क्लीबेभ्यः स्वमोर ढादेशः स्यात् । (३१६) टेः ६।४।१४३॥ बिति परे मस्य टेर्लोपः स्यात् । ' वाऽवसाने' ( सू २०६ ) । कतरत्- कतर कतरे कतराणि । 'भस्य' इति किम् । पञ्चमः । टेलु तत्वात् 'प्रथमयोः - (सू १६४) इति पूर्वसवर्णदीर्घः 'एड्हस्वात् (सू १९३ ) इति सम्बुद्धिलोपश्च न भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । इतरत् । अन्यत् । अन्यतरत् । ब्रम्यतमशब्दस्य तु अन्यतममित्येव । एकतरात्प्रतिषेधो वक्तव्यः ( वा ४२८७) ।
HJ
-'
धिः । ' इदितो नुम्धातो:' इत्यतः नुमित्यनुवर्तते । 'उगिदचाम्' इत्यतः सर्वनामस्थाने इत्यनुवर्तते । तदाह - फलन्तस्येत्यादिना । मित्त्वादन्त्यादचः परः । उपधादीर्घं इति । ज्ञानन् इ इति स्थिते 'सर्वनामस्थाने च' इति दीर्घ इत्यथेः । पुनस्तद्वदिति । अमौट्शस्तु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः । शेषं रामवदिति । शिष्यत इति शेषभ्रू । कर्मणि घञ् । 'घनजबन्ताः पुंसि' इति तु प्रायिकमिति भावः ।
अद्ड्डतरादिभ्यः । अड् डतरादिभ्य इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेश स्वरूपावगतये न कृत इति कैयटः । डतर, उतम, अन्य अन्यतर, इतर इति इतरादायः सर्वादिगणपठिताः । अत्र डतरडतमौ प्रत्ययौ अतस्तदन्तमहम् । 'स्वमोर्नपुंसकात्' इति सूत्रमनुवर्तते तदाह - भ्य इत्यादिना । डकार इत् । कतर अदू इति स्थिते । टे: । अल्लोपोऽन इत्यस्माल्लोप इति 'ति विंशतेडि' ति इत्यतः डितीति चानुवर्तते भस्येत्यधिकृतम् । तदाह - द्वितीत्यादिना । कतर अद् इत्यत्र रेफादकारस्य लोपः । चत्वंविकल्पं स्मारयति -- वावसाने इति । ननु पररूपेण कतर दिति सिद्धेः अद्डो डित्करणस्य किं प्रयोजनमित्यत आह-- टेलु तत्वादिति । टेर्लुतत्वात् पूर्वे सवर्णदीर्घो न भवतीत्यन्वयः । डित्वाभावे 'टे:' इति लोपस्याप्राप्तया पररूपं बाधित्वा पूर्वसवर्णदीर्घः प्रसज्येत इति भावः । ननु पूर्वसवर्णदीर्घाभावाय दकार एवादेशः क्रियतामित्यत आह-एहस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्वेन सम्बुद्वित्वात् हस्वान्तादङ्गात् परत्वाच्च लोपः प्रसज्येत । अदूढादेशे तु टिलोपे सति कतर् इत्यङ्गम् । न तद्धस्वान्तम् । यत्तु हस्वान्तं कतर इति न तदङ्गम्, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाभावेन अङ्गस्वाभावात् । अतष्टिलोपप्रवृत्तये: अडादेशविधिरिति भावः । पुनस्तद्वदिति । प्रथमावत् द्वितीयेत्यर्थः । शेषं पुंवदिति । सर्ववदित्यर्थः । श्रन्यतमशब्दस्य स्त्विति । तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्रादूडादेशी नेत्यर्थः । 'एकाच्च प्राचाम्' इति उतरजन्तादेकत र शब्दात्
I
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता ।
एकतरम् । खोरमादेशे कृते सन्निपातपरिभाषया न जरस् । अजरम् । अजरसीअजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् । (३१७) सान्त महतः संयोगस्य । ६|४|१०॥ स्रान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि - अजराणि । अमि लुकोऽपवादमम्भाव बाधित्वा पर
२१७
स्वमोरड्डादेशे प्राप्ते आह - एकतरादिति । एकतरशब्दात् परयोः स्वमोरडादेशप्रतिभो कव्य इत्यर्थः ।
1
1
समाना जस बल्ब कुलस्येति विग्रहे 'नमोऽस्त्यर्थानाम्' इति बहुबीहौ विचमानपदलोपे 'गोसियोः' इति हस्वत्वे अजरशब्दः । तस्य प्रक्रियां दर्शयति-सोरिति । सोरमादेशे कृते अगर मिल्बम्वक । जरसादेशमा ग्रह वाह-- सन्निपातेति । अदन्तसन्निपालाभ्रमस्य अमः अदन्तत्वविधातकजरवादेशं प्रति निमित्तत्वायोगादिति भावः । अजरसी इति । 'नपुंसकाच्च' इति श्रीभावे जरसादेशे रूपम् । मजरे इति । जरसादेशाभावे रूपम् । जसि रूपं दर्शयितुमाह-परत्वादिति । अजर अस् इति स्थिते 'जश्शसोः शि इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे भलन्तत्वान्नुमित्यर्थं इति केचित् । तदेतत् 'जराया जरस' इति सूत्रे अजरांसीत्यत्र 'लुम्जरसो: प्राप्तयो: विप्रतिषेधेन जरस्' इति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात् पूर्वमेव परत्वात् जरसः प्रवृत्तौ हि सदा जसः सर्वनामस्थानत्वाभावेन तुम एवाप्रसक्तेः तदसंगतिः स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते। एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात् तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वात् जरस् । ततो लन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात् प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा अजरन् इ इति स्थिते 'निर्दिश्यमानस्यादेशा भवन्ति' इति न्यायेन जर इत्यस्य जरसि कृते अजरस् न् इति स्थिते सान्तसंयोगाभावात् 'सान्त महतः’ इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे अन च प्रपञ्चितम् । उभयथापि अजरन् स् इति स्थिते नान्तत्वाभावात् 'सर्वनामस्थाने च इति दीर्घं अप्राप्ते । सान्त महतः । सर्वनामस्थाने वासम्बुद्धौ इति, नोपधायाः इति चानुवर्तते । नेति लुप्तषष्ठीकं पदम् । 'ठूलो पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । नकारस्य उपधायाः दीर्घ इति लभ्यते । संयोगस्येत्यवयवषष्ठयन्तं नकारे अन्वेति । सान्तेति षष्ठ्यन्तं पृथक्पदम् । आर्षः षष्ठया लुक् । सान्तस्येति लभ्यते । तच्च संयोगे अभेदेनान्वेति - सान्तो यः संयोग इति । अत एवासामर्थ्यान्महच्छब्देन तस्य न समासः । महत इत्यप्यवयवषष्ठ्यन्तम् । तच्च नकारे अन्वेति । तदाहसात संयोगस्येत्यादिना । श्रजर/सीति । दीर्घे सति 'नश्चापदान्तस्य' इत्यनुस्वारः । अत्र
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
त्वाज्जरस् । ततः सन्निपातपरिभाषया न लुक् । अजरसम् - अजरम् | अजरसीअजरे । अजरासि - अजराणि । शेषं पुंवत् | 'पद्दन् -' ( सू २२८) इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा उदभ्यामित्यादि । आसानि । आस्ना आसभ्यामित्यादि । मसि । मांसा | मान्भ्या
अजन्तनपुंसकलिङ्ग
उपधाया इति पूर्वत्वमात्रोपलक्षणम्, पारिभाषिकोपधात्वस्यासम्भवात् । अथ द्वितीयैकवचने रूपं दर्शयितुमाह - श्रमि लुक इति । अजर अम् इति स्थिते 'स्वमोर्नपुंसका' इति लुक् प्राप्तः तं बाधित्वा तदपवादः 'अतोऽम्' इत्यम्भावः प्राप्तः, तं बाधित्वा 'विप्रतिषेधे परम्' इति परत्वाज्जरस् । श्रजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याम्भावस्य जरसादेशेन बाधितत्वात् ' अपवादे निषिद्धे पुनरुत्सर्गस्य स्थितिः' इति न्यायेन अमो लुक् कुतो न स्यादित्यत आह- तत इति । ततो न लुगित्यन्वयः । जरसादेशानन्तरं अमो लुङ् न भवतीत्यर्थः । कुत इत्यत आहसन्निपातेति । अम्सन्निपातमाश्रित्य प्रवृत्तस्य जरसः तल्लुकि निमित्तत्वाभावादिति भावः । शेषं पुंवत् । अजरसा - अजरेण । अजरसे - अजराय । अजरसः - अजरात्। भजरमः - अजरस्य । अजरसोः - अजरयोः । अजरसि - अजरे
1
हृदयोदकास्यशब्दाः सुटि ज्ञानवत् । शसादौ विशेषमाह - पददन्निति । हृन्दीति । हृदयशब्दात् शसः शिभावे हृदादेशे 'नपुंसकस्य झलचः' इति ऋकारात् परतो नुमि 'नश्चापदान्तस्य' इत्यनुस्वारे तस्य परसवर्णे नकारे रूपम् । इत्यादीति । हृदे । हृदः । हृदः । हृदोः । हृदाम् । हृदि । हृदोः । हृत्सु । हृदभावपक्षे ज्ञानवत् । उदकशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह - उदानीति । शसः शिभावे उदन्नादेशे 'सर्वनामस्थाने च' इति दीर्घः । 'अल्लोपोऽनः' इति तु न । शेः सर्वनामस्थानत्वात् । उद्नेति । उदक आ इति स्थिते उदन्नादेशे अल्लोपः । उदभ्यामिति । उदन्नादेशे 'न लोपः प्रातिपदिकान्तस्य' इति नलोपः, 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् । इत्यादीति । उदूने । उद्नः । उदूनः । उदूनोः । उदनि उनि । उदूनोः । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह - श्रासानीत्यादि । उदन्नादेशवदूपाणि । इत्यादीति | आस्ने । आस्नः । आस्नः । आस्नोः । आस्नि- आसनि । आस्नोः । आससु आसन्नभावपक्षे ज्ञानवत् । मांसशब्दोऽपि सुटि ज्ञानवत् । 'मांसपृतनासानूनाम्' इति शसादौ मांस् आदेशः । अत्र नकारस्य 'श्चापदान्तस्य' इति कृतानुस्वारस्य निर्देशः । अत एवाह - मान्भ्यामिति । मांस् आदेशे सकारस्य संयोगान्तलोपे सति निमित्तापायात् अनुस्वारनिवृत्तौ रूपम् । संयोगान्तलोपस्यासिद्धत्वान्नलोपा न ।
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता ।
मित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये 'मोस्पचन्या उखायाः' इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । 'पद्दन्-' ( सू २२८) इत्यत्र हि 'छन्दसि' इत्यनुवर्तितं वृत्तौ । तथापि 'अपो भि (सू ४४२) इत्यत्र 'मासश्छन्दसि' (वा ४६३४ ) इति वार्तिके छन्दोप्रहणसामर्थ्या. लोकेऽपि क्वचित् इति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्य इति बो
२१६
अथ सुय्यपि हृदायादेशं साधयितुमाह-वस्तुतस्त्विति । इत्युक्तमिति । 'ककुदोचणी' इति भाष्यप्रयोगात् प्रभृतिग्रहणस्य प्रकारार्थत्वम् अजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः । ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने हृत् इति प्रयोगोऽनुपपन्नः, सोलुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात् वदनित्यत्त्वाश्रयणे च मानाभावादित्यत आह- श्रत एवेति । मांस्पचन्या इति । पच्यते अस्यासुखायामिति पचनी । अधिकरणे ल्युद्, अनादेशः । दित्त्वात् ङीप् मांसस्य पचनीति षष्ठीसमासः । अन्न सो लुका लुप्तत्वात् प्रत्ययलक्षणाभावे प्रत्ययपरत्वाभावात् मांस् आदेशो न स्यात् । अतो हृदाद्यादेशविधौ 'न लुमता' इति निषेधस्यानित्यत्वमाश्रीयत इत्यर्थः । ननु मांसूपचन्या इत्यत्र अन्तर्वर्तिनं डसं लुप्तमाश्रित्य मांस् इत्यस्यास्ति पदत्वम्, 'सुप्तिङन्तम्' इति पदसज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाभावेन अत्र 'न लुमता' इति निषेधस्याप्रवृत्तेः । अन्यथा राजपुरुष इत्यत्र कथं नलोपः । ततश्चात्र संकारस्य संयोगान्तलोपो दुर्वार इत्यत्र आहभत्वात् संयोगान्तलोपो नैति । ननु यजादिस्वादिप्रत्यये परे विधीयमानायाः भसज्ञायाः केवलाङ्गधर्मत्वात् तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात् कथमिह भसंज्ञेत्यत आहअयस्मयादित्वेनेति । मांस आदेशस्य अयस्मयादिगणपठितत्वात् 'अयस्मयादीनि छन्दसि' इति भत्वमित्यर्थः । शङ्कते - पद्मनित्यत्रेति । पदन् इति सूत्रे 'शीर्षन् छन्दसि' इत्यतः छन्दसीत्यनुवृत्तिः वृत्तिग्रन्थे प्रदर्शितेत्यर्थः । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः । परिहरति- तथापीति । 'पदन्नो' इति सूत्रे छन्दोप्रह'णानुवृत्तावपि लोकेsपि क्वचिदित्यन्वयः । कुतो लोकेऽपि प्रयोग इत्यत आह-अपोभीत्यादीति । 'अपो भि' इति सूत्रम् । अपस्तकारः स्यात् भादौ प्रत्यये परे इत्यर्थः । तत्रास्ति वार्तिकम् — 'मासकछन्दसि' इति । मास् इत्यस्य तकारः स्यात् भादिप्रत्यये परे छन्दसि इति तदर्थः । ऋग्वेदे 'माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम् । यदि 'पद्दन्' इति छन्दोमात्रविषयं स्यात् तदा मास् इत्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वात् मासश्छन्दसीति सस्य तकारविधौ छन्दोग्रहणं व्यर्थं स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या 'पद्दन्' इत्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः । इत्यदन्ताः ॥
I
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
सिद्धान्तकौमुदी
[भजन्तनपुंसकलिङ्ग
-
ध्यम् । इत्यदन्ताः ॥ (३१८) इस्वो नपुंसके प्रातिपदिकस्य शस४॥ क्लीवे प्रातिपदिकस्थाजन्तस्य इस्वः स्यात् । श्रीपं ज्ञानवत् । श्रीपाय । पत्र पतिपातपरिभाषया 'मातो धातोः' (सू २४०) इत्याकारलोपो न । इत्यादन्ताः । (३१६) स्वमोनपुंसकात् ७२२३n क्लीबादशात्परयोः स्वमोल्क् स्यात् ।
अथ मादन्ता निरूप्यन्ते । श्रियं पातीति श्रीपाशब्दो विश्वपाशब्दवत् विजन्तः जिवन्तो वा । तस्य नपुंसकत्वे हस्वविधानमाह-इस्वो नपुंसके । इस्वश्रुत्या उपस्थितेन अच इत्यनेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह-क्लीव इत्यादिना । नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणात् अजन्तप्रातिपदिकत्वाद्धस्वः स्यादिति वाच्यम्, अर्थवदधातुः इत्यतः प्रातिपदिकग्रहणनुवृत्तौ पुनः प्रातिपदिकग्रहणेन अन्तवद्रावतः प्रातिपदिकत्वे हस्वाभावबोधनात्। ज्ञानवदिति । हस्वविधानात् दीर्धान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः । जाशसोः शिः श्रीपाणिति रूपम् , भिचपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वप्रवृत्तः । श्रीपेण, इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम् । श्रीपायेति । श्रीपाशब्दस्य 'इस्वो नपुं. सके' इति स्वत्वे डेयर्यादेशे 'सुपि च' इति दीधै रूपम् । सन्निपातपरिभाषा तु कष्टायेति निर्देशात् न प्रवर्तत इति प्रागुतम् । नन्वत्र हस्वत्वेकृतेऽपिप इत्यस्य एकदेशविकृतन्यायेन धातुत्वानपायात् दीर्धे कृते आकारान्तत्वाच्च 'आतो धातोः' इत्याल्लोपः स्यात् , यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्व. स्यापि सत्त्वादित्यत आह-अत्र सन्निपातेति। ननु उपजीव्यविघातकं प्रति उपजीवर्क निमित्तं न भवतीति सन्निपातपरिभाषया लभ्यते । प्रकृते च अदन्तमुपजीव्य प्रकृ तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम् । यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाभावेन आकारलोपं प्रति निमित्तत्वे बाधकामावादिति चेत्, मैवम्-यादेशस्तावत् हस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावतः इत्यनुवृत्तः। ततश्च हस्वत्वमवर्णत्वं च समुदितं यादेशस्य उपजीव्यम् । तत्र कष्टायेति निर्देशात् सन्निपातपरिभाषां बाधित्वा कृतेऽपि दीघे हस्वत्वांश एव निवृत्तः। अवर्णत्वांशस्त्वनुवृत्त एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविधातः स्यादेवेति भवेदेव सन्निपातपरिभाषाविरोधः। अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्तु आतो धातोरित्यत्र लक्षणप्रतिपदोकपरिभाषया प्रतिपदोक्त एवाकारान्तधातुर्गसते । इह तु पाधातोहस्वत्वे तु पुनदीचे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तल्यात्र ग्रहणमित्यास्तां तावत् । इत्यादन्ताः॥
अथ इदन्ता निरूप्यन्ते। अथ वारिशब्दप्रक्रियां दर्शयितुमाह-स्वमोनपुंसकात् ।
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० }
बालमनोरमासहिता ।
I
M
वारि । (३२०) इकोऽचि विभक्तौ ७|१|७३ ॥ इगन्तस्य क्लीवस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि 'न लुमता' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुणः । हे वारे - हे वारि । 'आगे ना - ' (सु २४४) वारिणा । 'घेर्हिति' ( सू २४५) इति गुणे प्राप्ते 'वृद्धयौत्वतृज्वद्भाब गुणेभ्यो 'षड्भ्यो लुक्' इत्यतो लुमित्यनुवर्तत इत्याह- क्लीवादित्यादिना । वारीति । खोरमाच लुकि रूपम् । नच 'आदेः परस्य' इति अम: अकारस्यैव लुक् स्यात् । न तु मकारस्यापीति शक्यम्, प्रत्ययस्य लोप एव हि लुमित्युच्यते । अम् इति समुदाय एवेह प्रत्ययःः नतु तदेकदेशभूत्तमकारमात्रम् । अतो लुगमः सर्वादेश एव भवति । इकोऽचि । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । 'नपुंसकस्य झल' इत्यतो नपुंसकस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् इका विशेष्यते । तदन्तविधिः । तदाह-- इगन्तस्येत्यादिना । श्रचि विभक्ताविति । अजादौ विभक्तावि स्यर्थः । 'इकोऽचि सुपि' इस्येव सुवचम् । विभक्तौ किम् । मधु मद्यं तस्येदं माधवम् । अणि परे बुमि टिलोपे माधमिति स्यात् । वारिणी इति । वारि औ इति स्थिते शीभावे नुमि 'अट्कुवा' इति णत्वे रूपम् । वारिणि इति । जशसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्घे णत्वे रूपम् । हे वारि सुं इत्यत्र सोलुकि प्रक्रियां दर्शयति - पत्र इति । इस्वस्य गुण इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः । नम्बर सम्बुद्धे का लुप्तत्वात् 'न लुमता' इति प्रत्ययलक्षणनिषेधात् कथं गुण इत्यत आह-न लुमतेति निषेधस्यानित्यत्वादिति । अत्र च 'इकोऽचि विभक्तौ' इत्यत्राज्यहर्ण ज्ञापकम् । हलादिषु भ्यामादिषु सत्यपि तुमि 'न लोपः प्रातिपदिकान्तस्य' इति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्यर्थं अज्ग्रहणम् । तत्र नुमि सति 'न डिसम्बुद्धयो:' इति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यम्, सम्बुद्धेलुंका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः प्राप्तेरवाभावात् । 'न लुमता' इति निषेधस्यानित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणम् अर्थवदिति भवत्यज्ग्रहणं 'न लुमता' इत्यस्यानित्यत्वे लिङ्गमित्याहुः । अत एव 'इकोऽचि ' इति सूत्रे हे त्रपो इति 'एहस्वात्' इति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते । भाडो नैति । रूपे विशेषाभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः । ङसिङसोर्विशेषमाह - घेरिति । नुमं बाधित्वा परत्वात् गुणे प्राप्त इत्यर्थः । वृद्ध्यौत्वेति । वार्तिकम् । वृद्ध्यादीनां क्रमेण गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः । मोऽवकाशः वारीणि इति । अतिसखीनि इत्यत्र जभ्शसोः 'सख्युरसम्ह दौ' इति पित्वादवृद्धिः परत्वात् नुमं बाधित्वा प्राप्ता । वारिणि इत्यत्र डौ तु "अच्च घे" seated प्राप्तम् । प्रियक्रोष्टुनि इत्यत्र जशसोः तृज्वत्वं प्राप्तम् । वारिशब्दात्
1
For Private and Personal Use Only
२२१
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
सिद्धान्तकौमुदी
[अजन्तनपुंसकलिङ्ग
--
नुम् पूर्वविप्रतिषेधेन' (वा ४३७३) । वारिणे । वारिणः । वारिणोः । 'नुमचिर(वा ४३७४) इति नुट् । 'नामि' (सू २०९) इति दीर्घः। वारीणाम् । वारिणि । वारिणोः ।, हलादो हरिवत् । (३२२) तृतीयादिषु भाषितपुंसक पुंवदुगाल. वस्य ७१७४॥ प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याधदावचि । अनादये-अमदिने इत्यादि । शेषं वारिवत् । पीलुर्वृक्षः, तत्फलं पील ज्यादौ गुणः प्राप्तः । अत्र पूर्व विप्रतिषेधान्नुमेवेत्यर्थः । वारिणे इति । यि गुणं बाधि. स्वा नुमि णत्वे रूपम् । वारिण इति । कसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारियोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारि आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह-नुमचिरेति नुडिति । नुम्नुटोः को विशेष इत्यत आहनामीति । दोर्षइति । नुमि तु सति तस्याङ्गभक्तत्वात् 'नामि' इति दी? न स्यादिति भावः । वारिणीति । ङौ 'अच्च धे' इत्यौत्त्वं परमपि बाधित्वा 'वृद्धयौत्त्व' इति पूर्वविप्रतिषेधान्नुम् । . न विद्यते आदिः उत्पत्तिः यस्य सः अनादिः ईश्वरः । अनादिः अविद्या । अना. दिब्रह्म । त्रिलियोऽयं विशेष्यनित्रः। तस्य नपुंसकत्वे प्रथमाद्वितीययोारिवद्रपाणि । टादिषु अचि विशेषमाह-तृतीयादिषु । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुंस्कं प्रवृत्तिनिमित्तं तदस्यास्तीति अर्शआयच् । शब्दस्वरूपम् , विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'इकोऽचि विभक्तौ इत्यतः इकोऽचीति नपुंसकस्य झलचा' इत्यतो नपुंसकस्येति चानुवर्तते । षष्ठीच प्रथमया विपरिणम्यते । तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना । पुंवद्वेति । गालवग्रहणादिति भावः । 'अचीति । अजादावित्यर्थः । पुंवत्त्वे हस्वनुमोरभावः फलति । घटपटादिशब्दा. स्तावत् । घटत्वपटत्वादिरूपेणैव तत्तदूव्यक्ति प्रत्याययन्ति, नतु द्रव्यत्वपृथिवीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दाः तसव्य.तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तत् शब्दस्व. रूपं भाषित्युंस्कशब्देन विवक्षितम् । अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्सद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भा. षितपुस्कता । अतस्तस्य दादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति-अना. दये अनादिने इति । पुंवत्त्वे नुमः अप्रवृत्तेः 'डिति' इति गुणः । पुंवत्त्वाभावे तु नुमिति भावः । इत्यादीति । अनादेः-अनादिनः । अनायो:-अनादिनोः। आमि तु अनादीनामित्येव । शेषं वारिवदिति । प्रथमाद्वितीययोः म्यामादौ हलि च वारिवदि. त्ययः। प्रकृत्तिनिमित्तैक्ये इत्यस्य प्रयोजनं दर्शयितुमाह-पीलक्ष इत्यादि । यदा
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १.]
बालमनोरमासहिता ।
२२३
-
तस्मै पोलने । अत्र न पुंवत् । प्रवृत्तिनिमित्तमेदात् । (३२२) अस्थिवधिसक्थ्य णामनदातः ७।१।७५॥ एषामन स्याहादावचि, स चोदातः । 'अलोपोऽनः' (सू २३४) । दग्ना। दध्ने । दनः। दनः दनोः दग्नाम् । दग्नि-दधनि । दध्नोः । शेषं वारिवत् । एवमस्थिसक्स्थ्य क्षीणि । तदन्तस्याप्य. नन् । अतिदना ॥ इति इदन्ताः ॥ सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । मुधिया-सुधिना। सुषियाम्-सुधीनाम् । प्रध्या-प्रषिना । ॥ इति ईदन्ताः ॥ मधु । मधुनी। मधूनि । हे मघो-हे मधु। एवमम्वादयः। सानुशन्दस्य नावा।
वृक्षविशेषः पीलुशब्दवाच्यः तदा पुंलिङ्गः पीलुशब्दः । यदा पीलुजन्यफलं पोलुशन्दवाच्यं तदा नपुंसकमिः । 'फळे लुक इत्यणो लुक् । अत्र 'फळे वाच्ये पुंवत्त्वं नेत्यर्थः
व इत्यत माह-प्रवृत्तिन्निमित्तमेदादिति । क्षत्वव्याप्यन्मतिविशेषात्मक पीलुत्वं बुथविषये वाच्ये प्रतिनिमितम् । फरूविशेषे तु बाच्ये फलत्वव्याप्यजातिविशेषा. मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः । तदुक्तम्-'पील क्षः फळ पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः । इति । ___ अस्थि, दधि, सक्थि, अक्षि एतेषां प्रथमाहितीपयोबारिवद्रपाणि । दादावचि विशेषमाह-अस्थिदपि । तृतीयादिष्विति । अचीति चानुवर्तते । तदाह-पषामिस्यादिना । नमोऽपवावः । अनस्किार हत, अकार उच्चारणार्थः। विस्वान्ता. देशः । दधनि दनि इति । 'विमापा लियो इत्यल्लोपविकल्प इति भावः। तदन्तस्यापीति। आस्वादिति भावः। प्रतिदध्नेति । दधि भतिकान्त कुलमतिदपि । अत्रापि नपुंसकस्येति सम्बध्यते । ततब धामा 'भागमान इति किप्रत्यये दधिश. ब्दस्य पुंस्त्वे दधिनेत्येव । नपुंसकत्येति भूयमाणमल्थ्यादिमिरेवान्वेति । तेनाति. दना ब्राह्मणेनेत्यादि सिबम् । इति इदन्ताः ।...
अथ दन्ता निरूप्यन्ते । सु ध्यायतीति सु.शोभमा धीर्यस्येति वा विप्रहे सुधीशम्दस्य 'इस्वो नपुंसक' इति इस्वत्वे वारिवद्रूपाणीत्याह । सुषि सुषिनी इत्यादि । परस्वान्नुमा इयङ् बाध्यत इति । सुधिया सुपिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात् पुंवत्त्वविकल्पः। एवं प्रधी. शब्दः । तत्र 'न भूसुधियो' इति निषेधाभावात् 'एरनेकाचः' इति यण। इति ईदन्ताः।
अथ उदन्ता निरूप्यन्ते । मध्विति । 'मधु मधे पुष्परसे' 'मधुर्वसन्ते चैत्रे च इति कोशान्मधुशब्दस्य पुनपुंसकयोः मथस्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदात् न पुंव
विकल्पः । मृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंक्त्वमिति विवेकः । सानुशम्दस्यः स्तुः वेति । परन् इति सूत्रे 'मांसपृतनासानूनां मांस्पस्यो
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तनपुंसकलिङ्ग
स्नूनि खानूनि प्रियक्रोष्टु । प्रिनक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रिमकोष्ट्रनि । ठादी पुंवत्पक्षे प्रिय कोष्ट्रा प्रियक्रोष्टुना । प्रिय क्रोष्टे - प्रियकोष्टवे । अन्यत्र ज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने। 'तुमअंरि-' (वा ४३७४) इति नुट् । प्रियक्रोष्ट्नाम् ॥ इत्युदन्ताः । सुल, सुलुनी, सुमि । पुनस्तद्वत् । सुरवा, सुलुना । इत्यूदन्ताः ॥
1
I
वायाः' इति वार्तिकादिति शेषः । स्नूनि सानूनीति । शसि रूपम् । शसादावेव स्तुविधैः । प्रभृतिग्रहणस्य प्रकारार्थत्वे सुय्यपि स्नुर्भवति । अस्य च 'स्नुः प्रस्यः सानुरस्त्रियाम्' इति पुंनपुंसकत्वात् भाषितपुंस्कत्वादस्त्येव पुंवस्वविकल्पः । प्रियक्रोष्टु प्रियंक्रोष्टुनी इति । प्रियः क्रोष्टा यस्येति विग्रहः । असर्वनामस्थानत्वान्न तृज्वत्वम् । 'अथ जसोः शिभावे सति सर्वनामस्थानत्वात् नुमं बाधित्वा परत्वात् तृज्यस्वे प्राप्ते आहे - तृज्वद्भावादिति । 'वृद्धयौस्व' इति वार्तिकादिति भावः । प्रियक्रोष्ट्रनीति । 'जसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्घे रूपम् । नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यम्, नित्यत्वान्नुमि कृतेऽपि 'यदागमाः' इति न्यायेम 'तृज्वत्क्रोष्टु' इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्वापत्तेः । पूर्वविप्रतिषेधमाश्रित्य सृज्यस्वं बाधित्वा मुमि कृते तु न पुनस्तृज्वस्वम्, 'विप्रतिषेधे बाधितं तद्वाधितमेव इति न्यायादित्यलम् । पुंवत्पक्षे इति । तत्रापि तृज्वस्वपक्ष इत्यर्थः । प्रियक्रोष्टेति । पुंवस्वे तृज्वस्वे च सति रूपम् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्टुनैति । पुचत्वे, तदभावे च तृज्वत्त्वाभावे रूपम् । पुंवत्वाभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट्र इति । पुंधस्थे तृज्वन्त्वे यण् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्ट इति । पुंस्ये तृज्वत्त्वाभावे रूपम् । अन्यत्रेति । पुंवत्त्वाभावपक्ष इत्यर्थः । प्रियक्रोष्टुनैति । पुंवत्त्वतृज्वत्त्वयोरभावे रूपम् । तथा कयि त्रीणि रूपाणि । एवं इसिसोः । प्रियक्रोष्टुः । प्रियक्रोष्टोः। प्रियक्रोष्टुनः । प्रियकोष्टोः प्रियकोष्ट्वो:प्रियक्रोष्टुनोः । आमि विशेषमाह - नुमचिरेति नुडिति । तृज्वत्त्वं नुमं च बाधित्वेति शेषः । पुचस्वे तृज्वत्त्वं बाधित्वा नुट् । पुंवत्वाभावे तु तृज्ववं बाधित्वा नुम्, तदपि बाधित्वा नुडिति विवेकः । प्रियकोष्टरि-प्रियक्रोष्टौ प्रियक्रोष्टुनि । भ्यामादौ हलि मधुवत् । इत्युदन्ताः ।
1
1
अथ ऊदन्ता निरूप्यन्ते । सुविति । सुष्ठु लुनातीति क्विप् । 'हवो नपुंसके' इति ह्रस्वः । सुलुनी इति । ओ: सुपि इति यणं बाधित्वा परत्वान्नुम् । सुल्वेति । शोभनलवकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्वविकल्पः । पुंवत्त्वे हस्वाभावेनावित्वात् "नाभावो मे । तुमभावश्च । 'ओ: सुपि' इति यण् । पुंवत्वाभावपक्षे तु यणं बाधित्वा
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रणम् १०]
बालमनोरमासहिता।
धातृ धातृणी । धातृणि । हे पातः-हे धातृ । पात्रा। धातृणा । एवं ज्ञातृकत्रोदयः । इत्युदन्ताः॥ (३२३) एच इग्घ्रस्वादेशे शश४॥ आदिश्यमानेषु 'हस्पेषु एचः इगेव स्यात् । प्रशु प्रगुनी । प्रथूनि । प्रधुनेत्यादि । इह न पुंषत् । यदिगन्तं
जुम् । संप्रभृतिषु तु पुंवत्त्वाभावे 'वृद्धयौत्व' इति पूर्वविप्रतिषेधेन नुमि सुलने, पुंवत्वे तु सुल्वे इत्यादि रूपवयम् । इत्यूदन्ताः ॥
अथ ऋदन्ता निरूप्यन्ते । धातृ इति । दधातीति धातृ । 'न लुमता' इति निषेधा. दमन। धातृणी इति । 'इकोऽचि' इति नुमि 'ऋवर्णावस्या इति णत्वम् । धातृणि इति । जाशसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दी गत्वम् । 'न लुमता' इति निषेधस्यानित्यत्वात् सम्बुद्धिनिमित्तको हस्वस्य पक्षे गुम इत्याह-हे धातः हे बात इति । धारणकर्तृत्वरूपप्रवृत्तिमिमितक्यात् टादावचि पुंवत्त्वविकल्प इत्याह-धात्राधारणा इति । धात्रे-धातृणे। धातुः-धातृणः । धानो:-धातृणोः। 'नुमचिंर' इति नुट् । धातृणाम् । धातरि-धातृणि । इत्युदन्ताः॥
अथ प्रोदन्ता निरूप्यन्ते । प्रकृष्टा यौः यस्येति बहुव्रीहौं प्रयोशब्दस्य हस्वो नमुं. सके इति स्वः प्राप्नुवन् एचा हस्वाभावात् तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, ल, येतेश हस्वानामन्तरतमत्वाभावात् अन्यतरस्थानसाम्याश्रयेण अवर्णादिषु यस्य स्थापिदनियमेन पर्यायेण वा प्रासाविदमारभ्यते । एच इक् । आदिश्यते इत्यादेशः । कर्मविषन् । तस्य हस्वपदेन सह कर्मधारयः। विशेष्यस्वार्षः पूर्वनिपातः । आदेश इति निवारणसममी। सौत्रमेकवचनम् । तदाह-आदिश्यमानेष्वित्यादिना। मध्ये इत्यपपाठः, योगे षष्ठया एवौचिस्यात् । इगेवति । तेन अकारव्यावृत्तिः फलतीति भावः । यद्यपीकश्चत्वारः एचोऽध्येवम् । तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति। न ह्ययमपूर्वविधिः किन्तु नियमविधिः । यथाप्राप्तमेव नियम्यते । एचा हि पूर्वभागः अवर्णसदृशः । उत्तरमागस्तु हव!वर्णसदृशः। तत्र पूर्वभागसादृश्यमवर्ण: स्पास्ति । तस्य च इग्ग्रहणेन निवृत्ती इवर्णसाशवमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृश्यात् ओकारस्य औकारस्य च उवर्णः इति व्यवस्था न्याय. प्राता । यथाप्रासमेव च नियम्यत इति न यथासख्यम् । ततश्च प्रयोशब्दे ओकारस्य उकारः हस्व इत्यभिप्रेत्योदाहरति-प्रधु इत्यादि । ननु पुनपुंसकयोः प्रकृष्टस्वर्ग: बस्वमेकमेव प्रवृत्तिनिमित्तमिति टादो धुंवत्त्वविकल्पः कुतो नेत्यत आह-इह न वदिति । कुत इत्यत आह-यदिगन्तमिति । प्रयोशब्दः ओदन्तः पुंसि । प्राशब्दस्तु अन्तो नपुंसके । तथाच पुसि प्रयोशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रयुशब्दस्य तक्षया मिनत्वेन भाषितपुंस्कत्वाभावान धुंवत्त्वमित्यर्थः । केचित्तु पुंसि यः प्रयो
१५ बा०
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
- सिद्धान्तकौमुदी
[ अजन्तनपुंसकलिङ्ग
भ इति, तस्य भाषितपुंस्कत्वाभावात् । एवमग्रेऽपि । ॥ इत्योदन्ताः ॥ प्ररि । प्ररिणी । प्ररीणि। प्ररिणा । एकदेश विकृतस्यानन्यत्वात् 'रायो हलि' ( सू २८६ ) इत्यात्वम् । प्रराभ्याम् । प्रराभिः । ' नुमचिर' (वा ४३७४ ) इति नुटयात्वे प्रराणाम् इति माधवः । वस्तुतस्तु सन्निपातपरिभाषया नुटयात्वं न । 'नामि' (सू २०९) इति दीर्घस्त्वारम्भसामर्थ्यात्सन्निपातपरिभाषां बाधत इत्युक्तम् । प्ररीणाम् । ॥ इत्येदन्तः ॥ सुनु । सुनुनो । सुनूनि । सुनुना । सुनुने इत्यादि । ॥ इत्यादन्ताः ॥ इस्य जन्तनपुंसकलिङ्गप्रकरणम् ।
शब्दः ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्रस्वान्तत्वेऽपि एकदेशविकृतस्यानन्यत्वात् । अतः पुंस्त्वविकल्पोऽस्त्येवेत्याहुः । एवमग्रेऽपीति । प्ररि, सूनु इत्यादावपी: त्यर्थः । इत्योदन्ताः ।
I
अथ ऐदन्ता निरूप्यन्ते । एकारान्तस्योदाहरणं तु स्मृतः इः येन सः स्मृतेः । सु शोभनः स्मृतेर्यस्य तत् सुस्मृति इत्यादि बोध्यम् । प्ररोति । प्रकृष्टः राः धनं यस्य इति बहुव्रीहौ प्रशब्दः । तस्य नपुंसक हस्वत्वेन इकारः । खुटि वारिवत् । सोलुत्वात् 'रायो हलि' इत्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रधुशब्दवत् । भ्यामादौ दलि विशेषमाह - रायो हलीत्यात्वमिति । ननु रैशब्दस्य ऐदन्तस्य विहितमात्वं कथमिदन्तस्येत्यत आह- एकदेशविकृतस्यानन्यत्वादिति । आमि विशेषमाह - नुमचिरेति । नुटि 'रायो हलि' इत्यात्वे प्रराणामित्यन्वयः । ननु प्ररि आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वात् हलादिविभक्त्यभावात् कथमात्वमित्यत आहनुमचिरेति । पूर्वविप्रतिषेधान्नुमं बाधित्वा नुव्यात्वं निर्बाधमिति भावः । सन्निपातेति । ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वासम्भवात् इति भावः । ननु तर्हि हस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटः तद्विघातक 'नामि' इति दीर्घं प्रति कथं निमित्तत्वमित्यत आह-नामीति दीर्घस्त्विति । इत्युक्तमिति । रामशब्दाधिकारे इति शेषः । इत्यैदन्ताः ।
1
अथ भदन्ता निरूप्यन्ते । सुशोभना नौर्यस्येति विग्रहे बहुव्रीहौ 'इस्वो नपुंसके इति स्वः उकार इति मत्वाह - सुनु इति । इत्यौदन्ताः ।
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां अजन्तनपुंसकलिङ्गनिरूपणं समाप्तम् ।
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
अथ हलन्तपुल्लिङ्गप्रकरणम् ॥ ११ ॥ (३२४) हो ढ८।३।३१॥ हस्य ढः स्याज्झलि पदान्ते च । 'हल्ल्याप्-' (सू २५२) इति सुलोपः । पदान्तस्वादस्य ढः । जश्त्वचत्वे । लिट्-लिड् , लिहो, लिहः । लिहम् लिही लिहः। लिहा लिड्भ्याम् इत्यादि। लिटूरसु-लिट्सु । (१२५) दादेर्धातोघः मा२।३२॥ उपदेशे दादेर्धातोहस्य पः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोक् इत्यत्र यथा स्यात् । दामलिहमात्मनः इच्छति दाम.
अब हकारान्ता निरूप्यन्ते । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूप. विद्यमाए-हो ढः । ह इति षष्यन्तम् । 'झलो मलि' इत्यतो झलीत्यनुवर्तते। पद स्येल्पधिकतम् । 'स्कोः संयोगाचोरन्ते च इत्यतोऽन्ते इत्यनुवर्तते। तदाह-हस्येति । मातीति । अलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य चेत्यर्थः । नच कार एवं कुतो न विहित इति वाच्यम्, 'या गुहा इत्यत्र वक्ष्यमाणत्वात्। पदान्तसाविति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति । लिह आस्वादने क्वि । हल्ल्यादिना सुलोपः। इस्य तत्वे 'वावसाने इति चत्वं. विकल्प इति भावः । लिडम्यामिति । 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् 'मला अशोन्ते' इति जश्त्वमिति भावः । इत्यादीति । लिभिः । लिभ्यः। लिहे । लिहः । विः। लिहो। लिहाम् । लिट्स इति । लिङ् सु इति स्थिते हस्य ढः । तस्य अस्पेन । 'खरि चा इति घवस्यासिद्धत्वात्ततः प्रागेव 'सि' इति धुत् । ततो बस्य चत्वेन ः। धुरश्चवसम्पन्नस्य तकारस्यासिद्धत्वात् 'चयो द्वितीयाः' इति नन भवति । 'न पदान्तात्' इति तकारस्य ष्टुत्वं न । लिटम इति । धुढभावे रूपम् । हस्य ढः। तस्य जश्त्वेन ः। तस्य चत्वेन 21 तस्यासिखत्वात् 'चयो द्वितीयाः' इति न। 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः।। . दुधातोः क्विवन्तात्सुलोपे दुङ् इत्यन्न इत्वे प्राप्ते ढत्वं कचिदपवदति-दादैर्धातोः । 'हो ढः' इत्यतः ह इति षष्ट्यन्तमनुवर्तते । मलि इति पदस्येति, अन्ते इति च पूर्ववदनुवर्तते । धातोरित्यावर्तते। एकं धातुग्रहणमवयवषष्ठ्यन्तं हकारेऽन्वेतिधातोरवयवस्य हस्येति । दादेरित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दः मादिर्यस्येति बहुव्रीहिः, धातोरिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह-उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुः तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति-उपदेशे किमिति । अधोगिति। 'दुह प्रपूरणे' ल, अडागमः, तिप, शप, तस्य लुक, लघूपधगुणः, हल्ल्यादिना तिपो लोपः, 'दादेः' इति हस्य घः, 'एकाचो बशः' इति भभावेन
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२%
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
लियति । ततः किपि दामलिट् । भत्र मा भूत् । (३२६) एकाचो बशो भष झषन्तस्य सध्वाः २३७॥ धातोरवयवो य एकाच झपन्तस्तदवयवस्य वशः स्थाने भष् स्यात्प्रकारे ध्वशब्दे पदान्ते च । एकाचो धातोः इति सामानाधिकरण्ये. नान्वये विह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः विप् , णिलोपः । गर्ध। दकारस्य धकारः । 'वाऽवसाने इति चर्वजश्त्वे इति भावः । यथा स्यादिति । यथेति प्रालियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यम् , तच्च उपदेशग्रहणे सत्येव स्मारित्यर्थः । चत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृते अडागमे 'तदागमास्तमहणेन गृहन्ते' इत्यकारादित्वात् । अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात् । उपदेशपहले तु नायं दोषः धत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाभावेऽपि धातूपदेशकाले दादिस्वादिति भावः । तदेवमव्याप्तिपरिहारफलमुक्त्वा अतिव्याप्तिपरिहारफलमाहदामेति । ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः । 'लिह आस्वादने दाम लेडीति दामलिट् । तमात्मन इच्छतीत्यर्थे 'सुप आत्मनः क्यच् इति क्यचि 'समा. चन्ताः' इति धातुत्वात् तिपि शपि दामलिह्यतीति रूपम् । ततः किपीति । क्यजन्तात् कर्तरि विपि अल्लोपे यलोपे च दामलिहशब्दात् सोर्लोपे हो ढः' इति ढत्वे 'पावसाने इति चवविकल्पे दामलिट्-दामलिड् इति रूपमित्यर्थः । अत्र मा भूदिति । माङि लुङ् । सर्वलकारापवादः । अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् धत्वमत्र न भवति। धातूपदेशे दामलिह इति सुब्धातोःपाठाभावादितिभावः।
तथा च प्रकृतोदाहरणे सौ दुध् इति स्थिते । एकाचो बशो। स च ध्व् च स्या तयोरिति विग्रहः । बश इति स्थानषष्ठी । एकाच इत्यवयवषष्ठी। एकः अच् यस्येति विग्रहः । झपन्तस्येत्यस्य शब्दस्येति विशेष्यम् । एकाकस्य अषन्तशब्दस्यावयवो यो बस तस्य भष् स्यादित्यन्वयः। 'दादेर्धातोः' इत्यतो धातोरित्यवयवषष्ठयन्तमनुवर्तते । तच्च झपन्तशब्देनान्वेति । पदस्येत्यधिकृतम् । 'स्कोः संयोगायोः इत्यतः अन्ते चेत्यनुवर्तते । तदाह-धातोरवयव इत्यादिना। ननु सम्भवति सामानाधिकरण्ये वैयधिकरण्याश्रयणस्यान्याय्यत्वात् एकाच प्रपन्तो यो धातुः तदवयवस्य वश इत्येवान्वय उचित इत्यत आह-एकाचो धातोरित्यादि । गर्दमयतीति । 'तत्करोति तदायो। इति णिजन्तस्य 'सनाचन्ताः' इति धातुत्वात्तिबादि । ततः क्विविति। गर्दमि इति ज्यन्तात् कर्तरि किवित्यर्थः । कपावितो। वेर्लोपः। णिलोप इति । णेरनिटि' हत्यनेनेति शेषः । गर्धप् इति । गर्दभ इत्यस्मात् सुः हल्ल्यादिलोपः । एकाचो व इति दस्य धः । 'वावसाने' इति चवंम् । एकाचो धातोः झपन्तस्येत्यन्वये गर्दभ् इत्यस्य सुन्धातोरनेकाच्त्वात् दकारस्य भष्मावो न स्यात् । धात्ववयवस्य सवन्तस्येत्यन्वये सुखम् इति एकाचो झपन्तस्य धात्ववयवत्वात् तदवयवस्य दस्य भष्मागे निधि
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
झलीति निवृत्तम् स्वोहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशि - वद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचलें | धुक् - धुग्, दुही, दुहः । षत्वचर्खे धुक्षु । ( ३२७) वा द्रुहमुहष्णुहष्णिहाम् २२३३॥ एष इस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् - ध्रुग् ध्रुट्-ध्रुड्, हो, द्रुहः । ध्रुग्भ्या
२२६
इति भावः । अत्र प्राचीनैः झलीत्यनुवर्तितम्। तदयुक्तमित्याह - झलीति मिवृत्तमिति । सामर्थ्यादिति । शलीत्यनुवृत्तौ तद्वैयर्थ्यादिति भावः । ननु झलीत्यस्यानुवृत्तिरेवास्तु रुध्योरित्येव न क्रियतामित्यत आह-तेनेतिः । झलीत्यननुवर्तनेनेत्यर्थः । दुग्धमिति । दुहेः कः कित्वात् न लघूपधगुणः । 'दादे:' इति हस्य वः । सवस्तथोर्थोऽधः' इति तकारस्य धः । 'शलां जश् प्रशि' पति घस्य गः । दुग्धमिति रूपम् । दोग्धेति । हुहेस्तृच् । कधूपधगुणः । 'दादेः' इति हस्य वः । प्रवस्तथो:' इति तकारस्य धः । 'ऋदु शक्र इत्यनड् । 'सर्वनामस्थाने च' इति दीर्घः । हल्ज्यादिकोपः । 'म लोपः' इति नकारलोपः, दोग्धा इति रूपम् । शलीत्यनुवृत्तौ इहोभयत्रापि घत्वे कृते भष्भावः स्वादिति भावः ।
1
दुहे: क्विवन्तात् सोर्लोपे 'दादेः' इति घत्वे कृते दुघ् इति झन्तमेकाकम् । तस्य धातुत्वात् धात्वममवत्वाभावात् कथमिह दकारस्य भष्भावेन धकारः स्यादित्यत आह-यपदेशिद्भावेनेति । विशिष्टः अपदेशः व्यपदेशः मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत् । धातावेव धात्ववयवत्वव्यवहारो गौणः, राहोरिशरः इत्यादिवदिति भावः । इदं च 'आद्यन्तवदेकस्मिम्' इति सूत्रे भाष्ये स्पष्टम् । धुधुगिति । क्विपः प्राक् प्रवृत्ताया । धातुसज्ञाया अन्यायात् 'दादेः' इति घत्वे कृते पतत्वात् भष्भावे चविकल्प इति भावः । दुहौ दुहः । दुहम् दुहौ दुहः । दुहा | भ्यामादौ 'दादे:' इति धत्वे कृते स्वादिष्विति पदत्वात् पदान्तस्थप्रयुक्त भाव: । 'अलां जशोऽन्ते' इति जइत्वम् । धुग्भिः । दुहे धुग्भ्याम् धुग्भवः । दुहः । दुहः दुहोः दुहाम् । दुह, सु इति स्थिते प्रक्रियां दर्शयति-पत्वेति । त्वे कृते
भावे 'झलां जशोऽन्ते' इति जश्त्वेन गकारः । तस्य 'खरि च' इति चर्त्वस्यासिद्धत्वात् 'आदेशप्रत्यययोः' इति पस्थे कृते चयें धुक्षु इति रूपमिति भावः । दुह जि. घांसायाम्, मुह वैचित्ये, ष्णुह उदगिरणे, ष्णिह प्रीतौ एभ्यः क्विवन्तेभ्यः सोर्लोपे हेर्दादित्वात् ढत्वं बाधित्वा नित्यं घत्वे प्राप्ते इतरेषामदादित्वादप्राप्ते घत्वे इदमारभ्यते । वा द्रुह | 'दादेः' इत्यतो व इत्यनुवर्तते । झलीति पदस्येति अन्ते इति । पूर्ववदनुवर्तते। तदाह-खामिति । दुहादीनां चतुर्णामित्यर्थः । धुक् - भुगिति । घत्वपक्षे भावे चविकल्प इति भावः । ध्रुट् -डिति । घत्वाभावपक्षे 'हो ढः' इति उत्
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
म्-धुड्भ्याम् । ध्रुक्षु-ध्रुट्स - ध्रुट्सु । एवं मुहष्णुहष्णिहाम् । ( ३२८) इग्यणः सम्प्रसारणम् १|१|४५ ॥ यणः स्थाने प्रयुज्यमानो य इक् स सम्प्रसारणसंज्ञः स्यात् । ( ३२६) वाह ऊठ ६ |४| १३२ ॥ भस्य वाहः सम्प्रसारणमूठ् स्यात् । (३३०) सम्प्रसारणाश्च ६।१।१०८ ॥ सम्प्रसारणादचि पूर्वरूपमेकादेशः स्यात् ।
1
roard faeपः । अत्र भष्भावार्थमेव 'हो ढः' इति सूत्रे ढ एव विहितः, नतु डः । तथा सति शपन्तत्वाभावात् भष्भावो न स्यात् । अचि सुपि हुहम् इत्यादि । भ्यामिति । घत्वपक्षे भष्भावः । त्रुभ्यामिति । घत्वाभावपक्षे उत्वे जइत्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । जुहोः गुहाम् । श्रुविति । घत्वे भष्भावे 'आदेशप्रत्यययोः' इति षत्वे 'खरि च' इति चर्त्वम् । श्रुत्स्विति । घत्वाभावपक्षे ढत्वे Horraved घुटि चल्वें डस्य चम् । चर्त्वस्यासिद्धत्वात् 'चयो द्वितीयाः' इति तकारस्य थो न भवति । 'न पदान्तात्' इति ष्टुत्वं न । ध्रुट्स्वति । धुडभावे रूपम् | हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चत्वेंन टः । एवमिति । भष्भाववर्जमिति शेषः ।
विश्वं वहतीत्यर्थे 'भजो ण्विः' इत्यतो ण्विरित्यनुवृत्तौ 'वह' इति ण्विः । कारः इत् । वेर्लोपः । 'अत उपधायाः' इति वृद्धिः । उपपदसमासः विश्ववाह इति रूपम् । ततस्सोर्हड्याबिति लोपे 'हो ढः' इति ढत्वे 'वाऽवसाने' इति चर्त्ववि - कल्पे विश्ववाट विश्ववाड, विश्ववाहौ, विश्ववाहः । विश्ववाहम् विश्ववाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणकार्ये वक्ष्यन् सम्प्रसारण संज्ञां दर्शयति- इग्यणः सम्प्रसारणम् । यणः स्थाने इति । व्याख्यानात् स्थानार्थलाभः । 'पष्ठी स्थानेयोगा' इति तु नेह भवति, अनुवादे परिभाषाणामनुपस्थितेः षष्टीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसम्भवात् ' षष्ठी स्थानेयोगा' इत्येतत् 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च वसोः सम्प्रसारणम्, वचिस्वपियजादीनाम् इत्यादौ सम्प्रसारणश्रुतौ यस्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफल्य ऋकारः, लक्ष्य ऌकार इति ज्ञेयम् । वाह ऊठ् । 'भस्य' इत्यधिकृतम् । 'वसोः सम्प्रसा रणम्' इत्यतः सम्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह - भस्येत्या• दिना । सम्प्रसारणमिति । तेन वाहो यो यवकारस्तस्य ऊठ् इति लभ्यते । सम्प्रसार'णमित्यननुवृत्तौ 'अलोऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यस्थानिकस्वलाभात् नालोऽन्त्यस्येति भवति । विश्व ऊ आह् अस् इति स्थिते । सम्प्रसारपाच । 'इको यणचि' इत्यतः अचीति 'अमि पूर्व:' इत्यतः पूर्व इति चानुवर्तते ।
1
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
'एत्येधत्यूट्सु ' ( सू ७३) । विश्वहः । विश्वहेत्यादि । छन्दस्यैव ण्विः इति पक्षे णिजन्ताद्विच् । ( ३३१) चतुरनडुहोरामुदात्तः ७|१६|| अनयोराम् स्या सर्वनामस्थाने परे, स चोदात्तः । ( ३३२) सावनडुहः ७|११८२॥ अस्य नुम्
२३१
'एकः पूर्वपरयोः' इत्यधिकृतम् । तदाह - सम्प्रसारयादित्यादिना । विश्व ऊह अस् इति स्थिते आद्गुणमाशङ्कयाह -- एत्येधत्यू स्त्रिति । अनेन गुणापवादो वृद्धिरिति शेषः । विश्वौहः । विश्वौहा । इत्यादीति । विश्ववाभ्याम् विश्ववाभिः । वि. ववादभ्यः । विश्वौ हे । विश्वौः । विश्वौहः । विश्यौहोः। विश्वौहाम्। विश्ववासु विश्ववाट्सु ।
1
1
न वहति ण्विविधौ 'छन्दसि सहः' इत्यतः छन्दसीति केचिदनुवर्तयन्ति । तन्मते विश्ववाहशब्दस्य लोके कथं प्रयोग इत्यत आह - छन्दस्येव विरिति पक्षे जिन्तादिजिति । विश्वं वाह्यतीत्यर्थे वाह ६ इति ण्यन्तात् 'अन्येभ्योऽपि दृश्यते' इति विधि 'नेवशि कृति' इति इडभावे णिलोपे अपृक्तलोपे उपपदसमासे विश्ववाह, शब्दो लोके प्रयोगाः । किन्तु तस्य ऊठ् न भवति, 'अचः परस्मिन्' इति णिलोपस्य स्थानिवत्वेन शसि तस्य भत्वाभावात् । वाहयतेः किपि विश्ववाहशब्दस्य तु ऊठ निर्बाध एव, 'कौ लुप्तम्' इति णिलोपस्य स्थानिवत्त्वाभावेन तस्य भत्वानपायात् । अत एव 'विभाषा पूर्वाद्वापराह्नाभ्याम्' इति सूत्रे प्रष्ठौहः आगतं प्रष्ठवाड्रूव्यमिति लौकिक विग्रहवाक्ये प्रष्ठौहः इति प्रयोगः संगच्छते । क्वचित् पुस्तके 'छन्दस्येव इति प्रामाणिका:' इति पठ्यते । 'कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः ।
1
अनः शकटं वहतीत्यर्थे अनसि वहेः 'अनलो डच' इति किए सस्य डश्च । 'वचिस्वपियजादीनां किति' इति यजादित्वात् वकारस्य सम्प्रसारणम् उकारः । " संप्रसारणाच' इति पूर्वरूपम् । अनडुह, इति रूपम् । ततः सुबुत्पत्तिः । अनडुह स् इति स्थिते चतुरनडुहः । अन्योरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति । 'इतोऽत्सर्गनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृतेरिति भावः । आमि मकार इत् । मित्त्वादन्त्यादचः परः । उकारस्यायण वकारः । अनडवाहू स इति स्थिते । सावनडुहः । श्रस्येति । अनुदुह शब्दस्येत्यर्थः । नुम् स्यादिति । 'आच्छीनथोर्नुस्' इत्यतो नुमित्यनुवृत्तेरिति भावः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्रत्वादन्त्यादचः परः । अनवान् स इति स्थितम् । ननु आम्दुमौ एतौ मित्रत्वादन्त्यादचः उकारात् परौ प्राप्तौ । तत्र 'चतुरनडुहोः इत्याम् सर्वनामस्याननिमित्तकः सामान्यविहितः । 'सावनदुहः' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः । सच निरवकाशत्वात् सामान्यविहितमाम बाधेत, सोरन्यत्राम्विधेश्चरितार्थत्वात् । तथाच
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
सिद्धान्तकौमुदी
[ हलन्तपुंलिग
स्यात्सौ परे । भात इत्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा वाम् न वाध्यते । ममा च नुम् न बाध्यते । सोलोपः । नुम्विधिसामर्थ्यात् 'वसु.
-
अनहुन् इति स्यात् । अनड्वान् इति न स्यात् । किंच सम्बुद्धौ हे अनदुह, स् इति ख्यिते 'लम सम्बुद्धौ' इत्यमागमः आमपवादोऽनुपदमेव वक्ष्यते। तत्र 'सावनदुहः' हति मुमपि प्रासः । सच सम्बुद्धावसम्बुद्धौ च विहितत्वात् सामान्यविहितः । 'अम् सीबुडो इस्यम् तु सम्बुद्धावेव विहितत्वात् विशेषविहितः । सब निरवकाशत्वात् सामान्य विहितं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेषचरितार्थत्वात् । ततश्चममा ध्वनिति न स्यात् । 'हो ढः' इति ढत्वे हे अनड्वट् इति स्यादित्याशयाह-मादित्यषिकारादित्यादि, नुम् न बाध्यत इत्यन्तम् । 'सावनडुह इति नुम्विधौ तावत् 'आच्छी. नयो' इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । अतः अनडुहः अवर्णात् परो नुमिति ला. भात् विशेषविहितेनापि 'सावनदुहः' इति नुमा 'चतुरनडुहोः' इति सामान्यविहितः आम् न बाध्येत, अवर्णात् परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात् उप. जीव्योपजीवकयोविरोधाभावेन बाध्यबाधकभावविरहात् प्रत्युत आमभावे नुमः प्रवृः त्यसम्भवात् । तथा 'अम् सम्बुद्धौ' इत्यमा च विशेषविहितेन 'सावनडुहः' इति नुम् न बाध्यते । नुम उपजीवकत्वेन विरोधाभावात् , प्रत्युत अमभावे नुमः प्रवृत्त्यसम्भवादित्यर्थः।
"मनु 'सावनडुहः' इति नुम्विधौ आदित्यनुवर्ततां नाम । तथापि आमुपजीवकत्वं तुमो म लभ्यते अनडुहि नुमो नकाराकारात् परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत् , मैवम्-'सावनडुहः' इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततश्चानडुहि यः अन्त्यरूपः अवर्णः तस्मात् परो नुमिति लभ्यते । नकाराकारस्तु नैवविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव । एवं सम्बुद्धी अमुपजीवकत्वमपि शेयम् । क्वचित्पुस्तक आमा च नुम् न बाध्यत इति पठ्यते । तत्रेयं योजना । ननु बहनवड्वांहि कुलानीत्यत्र 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वादाम् स्यात् । कृते त्वामि पुनर्नुम् न भवति, 'विप्रतिषेधेन यबाधितं तबा. धितमेव' इति न्यायादित्यत आह-आमा च नुम् न बाध्यत इति । 'पुनः प्रसङ्गविज्ञा. नात् सिद्धम्' इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि 'नपुंस. कस्य झलचः' इति नुम् निर्बाध इति भावः । सोलोप इति । अनड्वान् ह स इत्यत्र हल्ल्यादिनेति शेषः । ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदा. न्तत्वात् 'वसुस्त्रं पुर्वस्वनडुहां दः' इति दत्वं कुतो न स्यादित्यत आह-नुम्विधीति । यदि मात्र नुमो नस्य दत्वं स्यात् , तर्हि अनड्वाह, इत्यत्र मुममावेऽपि हस्य दत्वेमैव मनड्वाद् इति सिद्धेः नुम्बिधिरनर्थकः स्यात् । अतो नुमो नस्य दत्वं नेति वि.
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३३
संसु- (सू ३३४) इति दत्वं न । संयोगान्तकोपस्वासितवानळोपो न । अन. वान् । (३३३) अम् सम्बुद्धौ ७१॥ चतुरनहुदोरम् स्यात्सम्बुद्धौ । बामोऽपवादः । हे अनड्वन् । अनड्वाही अनड्वाहः । अनडुहः । बनडहा। (३३४) वसुलंसुध्वंस्वनडुहां दः ।२७२॥ सान्तवस्वन्तस्य स्त्रस्वादेव दः स्यात्पदान्ते । अनडुपामित्यादि। सान्त इति किम् । विद्वान् । पदान्त इति किम् । नस्तम् । वस्तम् । (७३५) सहेः साडः सः ८३.५६ साइपस्य
ज्ञायत इति भावः । ननु अनड्वान् ह. स् इत्यत्र सुलोपे संयोगान्तलोपे च कृते नकारल्य प्रातिपदिकान्तत्वात् पदान्तत्वाच 'न लोपः प्रातिपदिकान्तस्या इति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यानात्र नलोप इति वाच्यम् । मलोपा. मावस्यले सम्बुद्धौ हे अनड्वन्' इत्यत्र नुम्विधेश्चरितार्थत्वात् । तत्र 'न सिम्बु.
योः' इति नलोपप्रतिषेधादित्यत आह-संयोगान्तेति । हकारलोपल्यासिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाभावात् पदान्तत्वाभावाच्च नलोपो नेत्यर्थः। अनड्वा. निति । अनडुह स् इति स्थिते आम् , यण , नुम् , सुलोपः संयोगान्तलीपाच । अथ सम्बुद्धौ हे अनछुह, स् इति स्थिते चतुरनबुहोः इत्यामागमे प्राप्त । भम् सम्बुद्धौ । 'चतुरनदुहो" इत्यनुवर्तते । तदाह-चतुरनुडुहोरिति । भमो मकार इत्। मित्त्वादन्त्यादेवः परः । हे अनब्वन्निति । अम् , यण, नुम् , सुलोपः, संयोगान्तलोपश्च । अनड्वा. हार्विति । सर्वनामस्थानत्वादाम् । नुम् तु न । तस्य सोवव विधानात्। मनडुह इति । शसादावधि अविकृत एवानदुहशब्द इति भावः। ____म्यामादौ हलि विशेषमाह-वसुलंसु । वसुः प्रत्ययः तेन तदन्त गृह्यते । 'संसु ध्वंसु अवलंसने' इति धातू । 'ससजुपो रु' इत्यतः स इति लुप्तषष्ठीकमनुवृत्तम् । तेन च वसुर्विशेष्यते। तदन्तविधिः । सान्तत्वं मंसुध्वंस्वोर्न विशेषणम् , अव्यमि. चारात् । नाप्यनबुहः, असम्भवात् । पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्वते । 'अलोऽन्त्यस्य इति तदन्तस्य भवति । फलितमाह-सान्तस्यादिना। यथासम्भवं रुत्वढत्वयोरपवादः । अनडुद्भयामिति । 'स्वादिष्वसर्वनामस्थाने' इति पदत्वादिति भावा इत्यादीति । अनडुनिः । अनबुद्धयः । अनदुहे । अनबुहः । अनबुहः । अनडुहोः । अनदुहाम् । दत्वे 'खरि च' इति चवम् अनडुत्सु । सान्तेति किमिति । वसोरपि सान्त. स्थाव्यभिचारात् । प्रश्नः । विद्वानिति । विद्वस् स् हति स्थिते 'अत्वसन्तल्या इति दीचे 'उगिदचाम्' इति नुमि सुलोपे संयोगान्तलोपे च रूपम् । अन्न वसोः सकारासत्वाभावान्न दत्वमिति भावः। सस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्त. वाभावान दत्वम् । विद्वांसो अनड्वाहावित्यायपि प्रत्युदाहार्यम् । अथ तुरासाह,
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषाट् - तुराषाड् तुरासाही तुरासादः । तुराबाड्भ्यामित्यादि । तुरं सहत इत्यर्थे 'छन्दसि सह:' ( सू ३४०९) इति ण्विः । लोके तु बाहयतेः क्विप् । 'अन्येषामपि ' ( सू ३५३९) इति पूर्वपदस्य दीर्घः । ॥ इति हान्ताः ॥ ( ३३६) दिव श्रत् ७ १६४॥ दिविति प्रातिपदिकस्य
-
-
शब्दात सोर्हस्यादिलोपे हस्य ढत्वे कृते विशेषमाह – सह साडः सः । 'इक्विपौ धातुनिर्देशे' इति 'वह मर्षणे' इति धातोरिकप्रत्यये 'धात्वादेः षः सः' इति प सत्ये सहिशब्दः । षह धातोरित्यर्थः । साख इति कृतढत्वडत्ववृद्धेरनुकरणम् । सदाह - साड्रूपस्येति । मूर्धन्येति । 'अपदान्तस्य मूर्धन्यः' इति तदधिकारादिति भावः । मूर्धनि भवः मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषाट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । ' वाऽवसाने' इति चपक्षेऽपि मूर्धन्यो भवत्येव सूत्रे साड इति कृतजश्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाद्दाविति । अपदान्तत्वान्न मूर्धन्य । इति भावः । इत्यादीति । तुराषाभिः । तुराषाभ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुरापाट्सु — तुराषाटत्सु । अथ तुराषाट्शब्दं व्युत्पादयति - तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेण्विः स्यात् छन्दसीति तदर्थः । णकार इत्, उपधावृद्धिः. अनुक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह, शब्दस्य कथं लोके प्रयोग इत्यत आह- लोके त्विति । सहेर्ण्यन्तात् क्विपि णिलोपे अपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननु 'नहिवृतिवृधिव्यधिरुचिसहितनिषु क्वौ' इति हि सहौ क्विन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह- श्रन्येषामपीति । सहेः किम् ? डकारेण सहितः सडः मृडादिशब्दः सः यस्य नाम सोऽपि लक्षणया सडः तस्यापत्यं साडि: । अत इञ् । 'यस्येति च' इत्यकारलोपः । आदिवृद्धिः । साडि - रिति रूपम् । अत्र न मूर्धन्यः इति भाष्ये स्थितम् । इति हान्ताः ।
अथ वकारान्ता निरूप्यन्ते । दिवशब्दः स्त्रीलिङ्गः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः। सु शोभना द्यौर्यस्येति बहुवीहा पुंसि सुदिव स इति स्थिते । दिवत् । 'सावनडुहः' इत्यतः सौ इत्यनुवर्तते । दिव इति षष्ठयन्तम् । 'दिवेडिवि:' इत्यौणादिकम् अव्युत्पन्नं वा प्रातिपदिकं गृह्यते, नतु 'दिवु क्रीडा' इति धातु:, 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति न्यायात् । तदाह - दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थः नत्वादेशे तकारः श्रूयते । एवं चानेका लत्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्सञ्ज्ञा तु न फलाभावात् । तित्स्वरितस्य तु मात्र सम्भवः । तिति प्रत्ययग्रहणम्' इति वार्तिकात्। ननु सुदिव् स् इत्यत्र वकार
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३५
औत्स्यात्सौ परे । अत्विधित्वेनः स्थानिवस्वाभावात् 'हल्याप्-' (सू २५२) इति सुलोपो न । सुद्यौः सुदिवौ सुदिवः । सुदिवम् सुदियो । (३३७) दिव उत् ६।१।१३१॥ दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुयुभ्याम् । सुथुभिः इत्यादि । ॥ इति वान्ताः ॥ चत्वारः । चतुरः । चतुर्भिः । चतुभ्यः । चतुर्थ्यः। (३३८) षटचतुर्ग्यश्च ७१५५ षसंज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् , द्वित्वम् । चतुर्णाम् । (३३8) रोः सुपि ॥३॥१६॥ सप्तमीबहुवचने स्यौत्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हलत्वात् हल्ल्यादिना सुलोपः स्यादित्यत आह-अल्विधित्वेनेति । औकारादेशस्थानिभूतात् वकारात्मकहलः परत्व. माश्रित्य प्रवर्तमानस्य सुलोपस्याल्विधित्वादिति भावः । सुचौरिति । आङ्गत्वात् तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ। सदिवाविति । अजादिषु सुदिवशब्दः अविकृत एवेति भावः। भ्यामादौ हलि विशेषमाह-दिव उत् । अन्तादेश इति । अलोऽन्त्यसूत्रलभ्यम् । पदान्त इति । पदान्तादिल्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । उतस्तपरत्वं तु 'भाव्यमान उकारः सवर्णग्राहकः' इति ज्ञापनार्थमिति 'तित्स्वरितम्। इति सूत्रे भाष्ये स्पष्टम् । सुघुम्यामिति । वकारस्य उत्वे इकारस्य यम् । अत्र उका. रस्याहल इति दीर्घस्तु न, वकारस्याने उकारस्य सम्प्रसारणत्वानवसायात् सम्प्रसारगतम्देन विहितस्यैव यण स्थानिकस्य इकः सम्प्रसारणत्वात् इति 'इग्यणः' इति सूत्र शलेन्दुशेखरे स्पष्टम् । इत्यादीति । सुदिवे। सुधुभ्यः। सुदिवः सुदिवोः सुदिधाम् । सुषु । इति वान्ता व - अथ रेफान्ता निरूप्यन्ते । 'तेरन्' इत्युणादिषु चतुशब्दो व्युत्पादितः नित्यं बहवचनान्तः । चत्वार इति । जसि रूपम् । 'चतुरनदुहोः' इत्युकारात् आम् । उका. रस्य यणिति भावः । चतुर इति । शसादौ सर्वनामस्थानत्वाभावानाम् । चतुर आम् इति स्थिते हस्वाधन्तत्वाभावात् नुटयप्राप्ते । षट्चतुभ्यंश्च । षट्चतुभ्य इति पञ्चमी। 'आमि सर्वनाम्नः' इत्यतः आमीत्यनुवृत्तं षष्ट्या विपरिणम्यते । षडिति षट्संज्ञक गृह्यते । नतु षट्शब्दः, 'कृत्रिमाकृत्रिमयोः' इति न्यायात् । तदाह-षट्संज्ञकेभ्य इत्यादिना । नुटि टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । णत्वमिति । 'रषा. भ्याम्' इत्यनेनेति शेषः। द्वित्वमिति। 'अचो रहाभ्याम्' इति णकारस्येति शेषः । द्वित्वस्यासिद्धत्वात् पूर्व णत्वे कृते ततो णस्य द्वित्वम् । नच 'पूर्वत्रासिद्धमद्विर्वचने इति निषेधः शयः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः । न तु द्वित्वस्याप्यसिद्धत्व नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः । चतुर् सु इति स्थिते रेफस्य विसर्ग प्राप्ते । रोः सुपि। खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप्, “खरवसानयोग
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३६
सिद्धान्तकौमुदी
[ हलन्तपुल्लिङ्ग
रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्विश्वे प्राप्ते । ( ३४० ) श - ऽचि ८|४|४६॥ अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रिय. चस्वः । प्रियचत्वारो प्रियचत्वारः । गौणत्वे तु नुट् नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव | परमचतुर्णाम् । ॥ इति रेफान्ताः ॥ कमलं कमलां वा आचक्षाणः कमल कमलौ कमलः । षत्वम् । कमलषु । ॥ इति लान्ताः ॥ (३४१)
/
इत्येव सिद्धे नियमार्थ एवैष विधिरित्याह - रोरेवेति । विपरीतनियमस्तु न, 'हलोऽनन्तराः संयोग' इति निर्देशात् । षत्वमिति । 'आदेशप्रत्यययोः' इत्यनेनेति शेषः । रेफस्य इत्वेन ततः परत्वादिति भावः । षस्य द्वित्व इति । अचो रहाभ्यामित्यनेनेति शेषः । शरोऽचि । 'अचो रहाभ्याम्' इत्यतो द्वे इति 'नादिम्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह- अचि पर इत्यादिना । तथाच चतुर्षु इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे 'झरो झरि सव' इति लोपादेव एकषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यम् । लोपस्य वैकल्पिकत्वादिति भावः । प्रियाः चत्वारो यस्येति बहुव्रीहौ प्रियचतुरशब्दो विशेष्यनिघ्नः एकद्विबहुवचनान्तः । तस्य सौ रूपमाह - प्रियचत्वाः इति । प्रियचतुर् स् इति स्थिते 'चतुरनडहो:' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ब्यादिलोपश्चेति भावः । हे प्रियचत्वः इति । 'अम् सम्बुद्धौ' इत्य-मिति भावः । प्रियचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रिय-चत्वारम, प्रियचत्वारौ। शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुर्भ्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रियचतुभ्यं । प्रियचतुरः । प्रियचतुरः प्रियचतुरोः । आमि 'षट्चतुर्भ्यश्च' इति नुटमाशङ्कयाह – गौणत्वे खिति । 'षट्चतुर्म्यश्व' इति बहुवचननिर्देशात् तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रियचतुर्षु । परमचतुर्णा -- मिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुडिति भावः । इति रान्ताः ॥
1
अथ लकारान्ता निरूप्यन्ते । कमलमिति । कमलं पद्मम् । कमला लक्ष्मीः । कमलमाचष्टे इत्यर्थं कमलशब्दात् कमलामाचष्टे इत्यर्थे कमलाशब्दात् 'तत्करोति तदाचष्टे' इति णिचि 'सनाद्यन्ताः' इति धातुत्वात् तदवयवस्य सुपो लुकि 'णा विडवेत् प्रातिपदिकस्य' इति इष्टवत्वाट्टिलोपे कमल इति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलम् कमलौ कमलः । कमला कमलभ्याम् कमभिः । कमले । कमलभ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाहस्वं कमष्विति । लकारस्य इणत्वादिति भावः । तोयमाचष्टे तोय् इत्यादियकारान्तास्तु न सन्त्येव, विपि 'लोपो व्योः' इति यलोपस्य दुर्वारस्यात् । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तु 'न पदान्ता हलो यमः
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३७
-
मो नो धातोः श६४॥ मान्तस्य धातोनः स्यात्पदान्ते । नस्वस्यासिवानलापो न। प्रशाम्यतीति प्रशान् प्रशामो प्रशामः। प्रशाभ्यामित्यादि । (३४२) किमः कः ॥२॥१०३॥ किमः कः स्याद्विभक्तौ । बकरसहितस्याप्ययमादेशः ।
सन्तिः इति लणसूत्रस्थमाध्यादनभिधानमेवजातीयकानामिति हरदत्तः । 'भोभगो' इति सूत्रे वृक्ष करोतीति भाष्यं तु एकदेश्यक्तिरिति तदाशय इत्यलम् । इति लान्ताः । * अथ महारान्सा मिरुप्यन्ते। अथ प्रपूर्वात् शमुधातोः किपि 'अनुनासिकस्य क्रिझलोः विविदति-दो सति निष्पो प्रशाशब्दे विशेषमाह-मो नो धातोः। म इति षष्ठयन्त धातोरित्वस्य विशेषणम् । तदन्तविधिः । पदस्येत्यधिकृतम् । 'स्को संयो. गायोः' इत्यतः अन्त्य नुगतते । तदाह--मान्तस्य धातोरिल्यादिना । 'अलोऽन्स्यस्या इति मकारस्य भवति। तत्र सोल्ज्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्सत्वाचन लोपः प्रातिपदिकान्तस्क इति' नसोपमाशयाह-नत्वस्येति । प्रशा. निति । स्वरादिपाठेऽप्यस्व माव्ययस्वम् , सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरा. दिपागदव्ययस्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादौ हलि 'स्वादिष्वसर्वनाम स्थाने इति पदत्यानत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रभामा प्रशामः प्रशामोः प्रशामाम् । प्रशामि । प्रशान्त्सु-प्रशान्सु । 'नश्च' इति धुल्पिः । अथ कायतेडिमिरिति निष्पन्नः किंशब्दः प्रष्टव्ये वर्तते । तस्य विशेषमाह-किमः कः । विभक्ताविति । 'अष्टन आ विभक्तो' इत्यतस्तदनुवृत्तरिति भावः । ननुहमः' इत्येव सूश्यताम् । स्वदादीनाम इत्यनुवृत्तौ त्वदादीनाम् इमः अकारः स्यादित्यर्थलाभात् । द्विपर्यन्तानामिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोसम्मवात् । एवं च किंशब्दे इम इत्यस्य स्थाने प्रकारे सति क इत्यदन्तत्वं सिध्यति। नव 'अलोऽन्स्यस्य' इति किंशब्दे इमो मकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम् , 'नामर्थकेऽलोन्त्यविधिः' इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे।सति क इत्यस्य सिद्धे. स्पित आह-अकसहितस्येति । स्यदादेरिमः अकारविधौ ‘अव्ययसर्वनाम्नाम्' इति किवादस्य अकचि कृते ककिम् इति स्थिते इमः अकारे कृते कक इति रूपं स्यात् । नमः कः इत्युक्तौ तु साकच्कस्यापि किंशब्दस्य 'लन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेन किंशब्दत्वासस्य कादेशे सति क इत्येव रूपं सिध्यतीति भावः । अत्र
यादीनामित्यनुवर्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अत: सन्तमणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एक्च विभक्त्युत्पत्तौ कादेशे
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
-
कः को के । कम् कोः कान् इत्यादि सर्ववत् । (३४३) इदमो मः ७२१०॥ इदमो मस्य मः स्यात्सो परे । त्यदायत्वापवादः । (३४४) इदोऽय पुंसि ७।२।१११॥ इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । स्यदायत्वं पर. रूपत्वं । (३४५) दश्च ७।२।१०६॥ इदमो दस्य मः स्याद्विभक्तौ । इमो. इमे । त्यदादेः सम्बोधनं नास्ति इत्युत्सर्गः। (३४६) मनाप्यकः १२२११२॥ सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । 'मारुते वेधसि बध्ने पुंसि कः कं शिरोम गो' इत्यमरः। तत्र कशब्दस्य किशब्दत्वाभावात् न सर्वनामत्वम् । वेधसि तु कि. शब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयम् कस्येत्' इति सूत्रे भाष्ये स्थितम् । कार्य हविरित्यत्र यदि किमः कादेशः, यदि वा शब्दान्तरम् उभयथापि कस्मा अनुबहीति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः। प्रजापतिश्च कः । अपर आह-उभयथापि कायानुहीत्येव । संषा तत्रभवत इति । .. अथ इदंशब्दे विशेषमाह । इदमो मः । साविति । 'तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः । 'अलोऽन्त्यस्या इत्यन्त्यस्य मस्य मः। ननु मस्य मविधियर्थ इत्यत आह-त्यदायत्वापवाद इति । इदम् स इति स्थिते । इदोऽय पुंसि । इद इति स्थान. षष्ठी। इदम इत्यनुवर्तते।। अवयवषष्ट्येषा । 'यः सौ' इत्यतः सावित्यनुवर्तते । तदाहइदम् इति । इदमशब्दस्यावयवो यः इद् तस्येत्यर्थः । अयम् स इति स्थिते । लोप इति । हल्ड्यादिनेति शेषः । अयमिति । सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्यानुस्वा.. रस्तु न, मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्यात्। 'वर्णाश्रये नास्ति. प्रत्ययलक्षणम्। इति निषेधाच्च । अथ औजसादिषु विशेषमाह-त्यदायत्वमिति । इदम्
औ इति स्थिते 'त्यदादीनाम' इति मस्य अकार इत्यर्थः । पररूपस्वमिति । इद अ औ इति स्थिते 'अतो गुणे' इति अकारयोरकं पररूपम् अकार इत्यर्थः । इद औ इति. स्थिते । दश्च । 'इदमो मः' इत्यनुवर्तते । द इति षष्ठी। इदमो दकारस्य इति लभ्यते । 'अष्टन आ विभक्तो' इत्यतः अतिव्यवहितमपि विभक्तावित्येतत् मण्डूकप्लुल्या अनु. वर्तते । 'तदोः सः सौ' इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याभावात् 'यः सौ' इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथा. च इम औ इति स्थिते रामवद्रपाणीत्याह-इमावित्यादि । स्यदादेः सम्बोधनं नास्तीति। प्रचुरप्रयोगादर्शनादिति भावः । नन्वेवं सति 'तदोः सः सौ इति सूत्रे हे स इति भाष्यविरोध इत्यत आह-उत्सर्ग इति । प्रायिकमित्यर्थः। टादावचि विशेषमाहअनाप्यकः । अन् , आपि, अकः इति छेदः । न विद्यते क् यस्य सः अक् , तस्य अका ककाररहितस्येत्यर्थः । इदमो मः' इत्यतः इदम इति 'इदोऽय पुसि' इत्यतः इद इति
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२३६
-
मककारस्येदम इदोऽन् स्यादापि विभक्तौ । भाप इति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन । (३४७) हलि लोपः ७२।११३॥ अककारस्येदम इदो लोपः स्यादापि हलादौ । 'नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे (वा ४९०)। (३४८) माद्यन्तवदेकस्मिन् १२१२२१॥ एकस्मिन्क्रियमाण कार्यमादाविवान्त चानुवर्तते । 'अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह-प्रककारस्येत्यादिना । आपीत्यनेन टाण्डापचापां ग्रहणं नेत्याह-माबित्यादिना । टा इत्याकारमारभ्येत्यर्थः । विभक्कावित्यनुवृत्तिसामात् नटाबादिग्रहणमिति भावः। अनेनेति । इदम् आइति स्थित स्यदायत्वं पररूपत्वम् । इदः अनादेशः । अन आ इति स्थिते इनादेशे गुण इति मावः। म्यामादौ त्यदायत्वे पररूपे व कृते 'अनाप्यक' इति प्राप्ले। हलि लोपः। आप्यक इति पूर्वसूत्रानुवर्तते । 'इदमो मः' इत्यत इदम इति 'इदोऽय पुसि' इत्यत इद इति 'अष्टनः' इत्यतो विमकाविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदा. दिविधिः । तदाह-प्रककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमा. शझ्याह-नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इद् इत्यस्यानर्थकत्वात् तदन्तस्येति न लभ्यते । ततश्च इद् इत्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ बिभर्तीत्यादौ 'भृशामित्, 'अतिपिपयोश्च इती. त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । 'हलि लोपः' इत्यत्र लोपग्रहणमपनीय 'हल्यश्' इत्येव सूत्रयितुमुचितम् । शित्त्वात् इदः कृत्स्न. स्याकारे पररूपे 'सुपि च इति दीधे आभ्यामित्यादिसिद्धेः। .. · ननु हदम् भ्याम् इति स्थिते त्यदायत्वे पररूपे इदो लोपे च कृते अभ्याम् इति स्थिते अङ्गाल्याकारात्मकत्वात् अदन्तस्वाभावात् कथं 'सुपि वा इति दीर्घ इत्यत आह-आद्यन्तवदेकस्मिन् । आदित्वान्तत्वयोनित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्रासौ तत्प्रासयर्थमिदमारभ्यते । एकशब्दः असहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः । सप्तम्यन्तात् 'तत्रतस्येव इति वतिः। एकस्मिनित्युपमेये सप्तमी. दर्शनात् । वतिश्च द्वन्द्वान्ते श्रयमाणत्वात् प्रत्येक सम्बध्यते । तदाह-एकस्मिन् क्रियमाणकार्यमादाविवान्त इव च स्यादिति। तदादितदन्तयोः क्रियमाण कार्य तदादौ तदन्त इव व असहायेऽपि स्यादित्यर्थः। एकस्मिन्निति किम् । दरिद्रातेः “एरच् इति न। आदिवत्त्वफलम् । औपगव इत्यादौ अण्प्रत्ययायुदात्तत्वम् । आभ्यामित्यादौ अन्तव. स्थात् दीर्धादिर्भवति । भाष्ये तुआयन्तवदित्यपनीयव्यपदेशिवदेकस्मिन् इति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौ 'एकाचो द्वे प्रथमस्य' इति द्विर्भावः, धुक् इत्यत्र व्यपदे. शिवत्वेन धात्ववयवत्वात् भभावश्च सिध्यति । विशिष्टः अपदेशः व्यपदेशः मुख्यो म्यबहारः सोऽस्यास्तीति व्यपदेशी मुख्य हति यावत् । एकस्मिन् तदादित्वतदन्तत्व.
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंडिज
इव च स्यात् । आभ्याम् । (३४६) नेदमदसोर को ः ७|१|११॥ अककारयोरिदमदसोर्मिस ऐस् न स्यात् । एत्त्वम् एभिः । अश्वम्, निरयश्वात् के स्मै, पञ्चाद्धलि लोपः । अस्मै आभ्याम् एभ्यः । अस्मात् आभ्याम् एभ्यः । अस्य अनयोः एषाम् । अस्मिन् अनयोः एषु । ककारयोगे तु अयकम् इमको इमके । इमकम् इमको इमकान् । इमकेन इमकाभ्याम् इत्यादि । ( ३५०) इदमोऽन्वादेशातस्तृतीयादौ २ | ४ | ३२ || अन्वादेशविषयस्यैदमो ऽनुदात्तोऽशादेशः
वयवत्वादि प्रयुक्तकार्ये स्यादिति फलितम् । इदम् भिस् इति स्थिते स्वदाच पररूपे 'हलि लोपः' इति इदो लोपे अ भिस् इति स्थिते 'अतो भिस ऐस्' इति प्राप्ते । नैदमदसोरको: । 'अतो भिस ऐस्' इत्यतो भिस ऐसित्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह - प्रककारयोरित्यादिना । एवमिति । 'बहुबचने झलि' इत्यनेनेति शेषः । छयि विशेषमाह - अत्वमित्यादि । अव के स्मै इत्यन्वयः । इदम् ए इति स्थिते व्यदाद्यत्वे पररूपे इद ए इति स्थिते डेर्यादेशं बाधित्वा 'सर्वनाम्नः स्मै' इति स्मैभावः इत्यर्थः । ननु इद ए इति स्थिते स्मैभावात् परत्वादनादेशे 'विप्रतिषेधे यदूबाधितं तदुपाधितमेव' इति न्यायेन पुनः स्मैभावो न स्यादित्यत आह- नित्यत्वादिति । कृते अकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात् प्रागेव स्मैभावे कृते अनादेशस्य हलि लोपेन बाध इति भावः । श्राभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यस्त्वं, पररूपत्वं, हलि: लोपः, 'बहुवचने झल्येत्' इत्येवं चेति भावः । श्रस्मादिति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः ङसि - क्यो' इति स्मादिति भावः । श्रस्येति । त्यदाद्यत्वं पररूपत्वं स्यादेशः, हलि लोपश्वेति भावः । श्रनयोरिति । त्यदाद्यत्वं, पररूपत्वम्, अनाध्यकः, 'ओसि च' इत्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, सुदू, हलि लोप:, एस्वषत्वे । श्रस्मिन्निति । अत्यं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एष्विति । अत्वं, पररूपत्वं, हलि लोपः, एत्वषत्वे इति भावः ।
ककारयोगे स्विति । 'अव्ययसर्वनाम्नामकच् प्राक् टेः" इत्यनेन इदंशब्दस्य सचि सतीत्यर्थः । श्रयकमिति । अकच्चि सति निष्पन्नस्य इदकंशब्दस्य तम्मध्यपतितन्यायेन 'इदमो मः' इत्यादाविद ग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यक' इति, 'हलि लोपः' इति, 'नेदमदसोरको:' इति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह - इमकेन इमकाभ्यामिति । इत्यादीति । इसकैः । इमकस्मै । इमकेभ्यः । इमकस्मात् । इमकस्य इमकयोः इमकेषाम् । इमकस्मिन् इमकेषु । इदमोऽन्वादेशे । जन्वादेशे अश् इति च्छेदः । अन्वादेशे इदम: अस् स्यात् तृतीयादिविसकौ, स
1
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् । ( ३५१ ) द्वितीयाटौस्स्वेनः २ |४| ३४ ॥ द्वितीयायां टौखोच परतः इदमेतदोरेन । देशः स्यादन्वादेशे । किञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा 'अनेन व्याकरण
धीतम् एनं छन्दोऽध्यापय' इति । 'अनयोः पवित्रं कुलम् एनयोः प्रभूतं स्वम्' इति । एनम् एनौ । एनान् । एनेन । एनयोः । इति मान्ताः ॥ गणयतेर्विच् । सुगण् सुगणौ । सुगणः । सुगण्ठ्सु-सुगण्ट्सु सुगण्सु । किप् । 'अनुनासिकस्य क्विझलो:'
२४१
1
वानुदास इति स्पष्टोऽर्थः । ‘आशास्ते यं यजमानोऽसौ । आयुराशास्ते' इति प्रस्तुत्य 'तदस्मै देवा राधन्ताम्' इत्युदाहरणम् । तत् आयुरादि अस्मै यजमानाय देवाः साधयन्त्वित्यर्थः । अत्र अस्मै इत्युदाहरणम् । इद स्मै इति स्थिते प्रकृतेरशादेशे अनुदान्ते सति' 'अनुदाचौ सुम्पितो हृति स्मे इत्यैकारः अनुदात्तः । तथाच अस्मै इति सर्वानुदात्तः । एवमाभ्यामित्यादावपि हलादाबुदाहरणम् । द्वितीयादावचि टौसोरेनादेशस्य विशिष्य विधानात् । ननु अनुदात्तत्वमेवात्र विधीयताम् । न त्वशादे-शोऽपि । त्यदाद्यत्वे हलि लोपे च अस्मै आभ्याम् इत्यादिरूपस्यान्वादेशेऽपि सिद्धरत आह-प्रश्वचनं साकच्कार्थमिति । 'इमकाभ्यां रात्रिरधीता, अथो आभ्यामहरण्यधीतम् इत्यन्नान्वादेशे इमकाभ्याम् इति न भवति । अत्र अ अ इति प्रश्लिष्टनिर्देशात् अनेस्वा सर्वादेशत्वसिद्धेः शित्करणं न कर्तव्यमिति भाष्ये स्पष्टम् । द्वितीयादौस्स्वेनः । faaier a crow eria द्वितीयाटौसः, तेष्विति द्वन्द्वः । ' इदमोऽन्वादेशे' इत्यतः इदम इति, अन्वादेश इति चानुवर्तते । 'एतदवतसोः' इत्यत एतद् इति च । तदाहद्वितीयायामित्यादिना । 'अन्वादेशशब्दं व्याचष्टे - किञ्चिदिति । विधातुमिति । अपूर्व बोधयितुमित्यर्थः । अन्वादेशमुदाहृत्य दर्शयति यथेति । उदाहरणप्रदर्शने यथाशब्दः । 'द क्रियायोगे मर्यादाभिविधौ च यः । एतमार्तं दितं विद्याद्वाक्यस्मरणयोरडित् । इत्यत्र तु एनादेशो न पूर्वार्धस्य यच्छन्दयोगेन अनुवादत्वात् । किञ्चित् कार्य विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथञ्चित्तदुपादानं विवक्षितम्, न त्विदमैत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः ।
अथ णकारान्ता निरूप्यन्ते । गणयतेविंजिति । 'गण सङ्ख्याने' इति चुरादिः अदन्तः । ततः सुपूर्वात् स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वात् नोपधावृद्धिः । तस्माद्विच, 'अन्येभ्योऽपि दृश्यते' इति वचनात् । णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्डयाबिना सुलोपः । सुगणू इति रूपम् । सुगणौ, सुगणः इत्याद्यविकृतमेव । 'सुपि 'डणोः शरि इति टुग्विकल्पः । 'चयो द्वितीयाः' इति टस्य ठः इत्यभिप्रेत्याहसुग इति । द्वितीयाभावे रूपमाह - सुगण्ट्सु इति । द्वगभावे रूपमाह - सुगम्सु
1
बा० १६
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
सिद्धान्तकौमुदी
[ हलन्तपुंलित
-
(सू २६६६ ) इति दीर्घः । सुगाण सुगाणी सुगाणः । सुगाण्ठसु-सुगाण्ट्युसुगण्मु इति गान्ताः ॥ परस्वादुपधादीर्घः, हाब्यादिलोपः, ततो नलोपः । राजा। (३५२) न सिम्बुद्ध्योः २८॥ नस्य लोपो न स्यात् मै सम्बुद्धी च । हे राजन् । गे तु छन्दस्युदाहरणम् । 'सुपी सुलुक्-' (सू ३५६१) इति बेलुक । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । 'परमे व्योमन् । छावुत्तरपदे प्रतिषेधो वकन्यः ( वा ४७८५)। गै विषये उत्तरपदे परे 'न सिम्बुद्धयोः' इत्यस्य इति । सुगाणिति । गणधातोरदन्तात णिच् , अल्लोपः । तस्य स्थानिवस्थात् नोपधावृद्धिः । तस्मात् क्विम् , णिलोपा, अपृकलोपः। 'अनुनासिकस्य क्विझलोः' इति दीर्घः । सुगाण इति रूपम् । सुगाणौ सुगाणः इत्यादि । नच दीर्थे कर्तव्ये णिलोपा. ल्लोपयोः स्थानिवत्त्वं शङ्यम् , दीर्घविधौ तन्निषेधात् , क्वौ विधि प्रति तन्निषेधाच्च । इति णान्ताः।
अथ नकारान्ता निरूप्यन्ते । अथ राजन्शब्दे विशेषमाह-परत्वादिति। हल्ब्यादि. लोपापेक्षया परत्वात् पूर्वमेव सर्वनामस्थाने चासम्बुद्धौ इति दीर्घः। ततो हल्ल्या. दिलोप इत्यर्थः । नच 'विप्रतिषेधे यदूवाधितं तबाधितमेव' इति न्यायात् कथमिह हल्ङयादिलोप इति वाच्यम् , 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इति विप्रतिषेधे यद्बा. धितम्' इत्यस्य असार्वत्रिकत्वादिति भावः। नलोप इति । 'न लोपः प्रातिपदिकान्तस्य इति नकारस्य लोप इत्यर्थः । हे राजन् स इति स्थिते हल्ड्यादिना सुलोपे सति नकारस्य पदान्तत्वात् प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते-न सिम्बुद्धयोः। 'न लोपः प्रातिपदिकान्तस्या इत्यतः न लोप इत्यनुवर्तते । तत्र नेति लुसषष्ठीकम् । तदाह-नस्येत्यादिना । हे राजनिति । 'सर्वनामस्थाने च' इति दीर्घस्तु न, असम्बुद्धा. वित्युक्तः। नन्वत्र डिग्रहणं व्यर्थम् , राजनीत्यत्र भत्वात्पदत्वाभावान लोपस्याप्रस. क्तरित्यत आह-ौ तु छन्दसीति । छन्दस्येवेत्यर्थः । ननु छन्दस्यपि १ परतो भत्वात् पदत्वाभावात् कथं नकारस्य लोपप्रसङ्गः, येन तनिषेधोऽर्थवान् स्यादित्यत आह-सुपामिति । ननु 'परमे व्योमन्' इत्यादौ ब्लुका प्लुप्तत्वात् प्रत्ययलक्षणामा. वात् कथं तत्र 'न डिसम्बुद्धयोः' इत्यस्य प्रवृत्तिरित्यत आह-निषेधसामादिति। छन्दस्यपि डिलुकि प्रत्ययलक्षणाभावे सति 'न छिसम्बुद्धयोः' इस्यप्रवृत्तौ तद्वैया. दिति भावः । ननु यदि छन्दसि 'परमे व्योमन्' इत्यादी छेलुका लुसत्वेऽपि प्रत्यय. लक्षणमाश्रित्य 'न डिसम्बुद्धयोः' इत्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि वर्मणि तिला अस्य धर्मतिलः, ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्टः इत्यत्रापि समासे डिलुका प्रत्ययलक्षणमाश्रित्य 'न डिसम्बुद्धयोः' इति नकारस्य लोपनिषेधः स्यादित्यंत आहगयुत्तरपदे प्रतिषेधो वक्तव्य इति । उत्तरपदे परतो यः डिः तस्मिन् परे 'न सिम्बुद्धयोग
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२४३
निषेधो वाच्य इत्यथैः । चर्मणि तिला मस्य चर्मतिकः । ब्रह्ममिष्ठः । राजानौ । राजानः । राजानम् राजानौ। 'मलोपोऽनः' (सू २३४)। श्चुत्वम् । न चाल्लोपः स्थानिवत् । पूर्वत्रासिंद्ध तन्निषेधात् । नापि बहिरणतया असिद्धः । यथोद्देशपक्षे षाठी परिभाषां प्रति श्चुत्वस्यासिद्धतयान्ताभावे परिभाषाया अप्र. इति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च चर्मतिलः इत्यत्र उत्तरपदे परतः 'न सिम्बुद्धयोः' इति प्रतिषेधाभावात् नकारस्य लोपो निर्वाध इति भावः। .
भाष्ये तु छन्दसि 'परमे व्योमन्' इत्यत्र 'अयस्मयादीनि छन्दसि' इति भत्वात् पदयामायाकारोपल्याप्रसक्तौ प्रतिषेधो न कर्तव्य इति डिग्रहणं प्रत्याख्यातम् । म राजन्यतीत्यत्र लोके राजनीवाचरतीत्यर्थे 'अधिकरणाच्च' इति क्यचि 'सनाचन्ता इति धात्ववयवत्वात् 'सुपो धातुप्रातिपदिकयोः' इति डेलुकि राजन्य इत्यस्मात् तिपि राजन्यतीत्पत्राप्यन्ततिविमक्त्या पदत्वमाश्रित्य नकारस्य लोप. प्राती तनिषेधार्थ बिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपत्रमिति वाच्यम् , एतनाष्यप्रामाण्यादेव राजनीवाचरतीत्यर्थे 'अधिकरणाच्च" इति क्यचोऽनभिधाना-- भ्युपगमादित्यलम् । राजानमित्यादौ सुटि सर्वनामस्थाने च' इति दीर्घः। शसि विशेषमाह-अल्लोपोऽन इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः। राजन् आप इति स्थिते । श्चुरवमिति । ततश्च नकारस्य नकारे राज्ञ इति सिद्धम् । ननु 'अचः परस्मिन् हत्यल्लोपल्या पूर्वस्मादपि विधौ स्थानिवत्त्वात् कथमिह श्चुत्वमित्यत आह-नचाल्लोपः स्थानिवदिति । कुत इत्यत आह-पूर्ववेति । 'पूर्ववारिक इति
त्वे कर्तव्ये स्थानिवस्वनिषेधादित्यर्थः । ननु अल्लोपो भपन्नापेक्षो बहिर्मूतस्था. दिप्रत्ययापेक्षो बहिरङ्गः । श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम् । ततश्च 'असिद्ध बहिरङ्गमन्तरङ्ग इति परिभाषया चुत्वे कर्तव्ये बहिरङ्गाल्यालोपल्यासिद्धत्वादका. रेण व्यवधानात् कथमिह रचत्वमित्यत आह-नापीति। यथोद्देशेति । यथोद्देश सम्झापरिभाषमित्येक पक्षः। उद्देशाः उत्पत्तिप्रदेशाः ताननतिक्रम्य यथोद्देशम् । यत्र प्रदेशे सज्ञापरिभाषयोरुत्पत्तिः तत्रैव ते स्थिते प्रतिविधि व्याप्रियते इत्यर्थः । 'असिद्धं बहिरङ्गमन्तरङ्ग इति परिभाषेयं षष्टाध्याये 'वाह ऊन्' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इयं पाष्टी परिभाषा त्रैपादिकाचुत्वे कर्तव्ये अन्तर. केपि न प्रवर्तते । तां प्रति श्चुत्वस्य मन्तरणस्यासिद्धतया तदूदृष्टया चुत्वस्यैवा. भावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसम्भवात् । तथा च श्चुत्वे कर्तव्ये बहिसमस्याप्यल्लोपस्यासिद्धत्वाभावादिह श्चुत्वं निर्बाधमिति भावः । 'कार्यकाल सजापरिभाषम्' इत्यप्यस्ति पक्षान्तरम् । प्रतिविधिप्रदेशं प्राप्य सज्ञापरिभाषे व्याप्रियते इत्यर्थः । अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्ग पुरस्कृत्य 'असिद्धं बहिरग
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
सिद्धान्तकौमुदी
[हलन्तपुंलिश
-
वृत्तेः । जोर्जः । राक्षः । राज्ञा । (३५३) नलोपः सुस्वरसंशातुग्वि. धिषु कृति । ॥२॥ मुविधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नको. पोऽधियः, नान्यत्र 'राजाश्वः' इत्यादौ । इत्यसिद्धवादास्वमेत्त्वमैस्वं च न । राजमन्तरङ्ग इति परिभाषाऽत्र प्रवृत्तिमर्हति । तथापि लक्ष्यानुरोधात् कार्यकालपक्षो नेहाश्रीयत इत्यलम् । जोर्श इति । जजयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः । नत्विदं वर्णान्तरम् शिक्षादावदर्शनात् । अत एतज्ज्ञानमिति चुत्वसिद्धिरित्याहुः । राशः राशेति । शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन भकार इति भावः । - ननु राजन् भ्यामिति स्थिते 'स्वादिषुः इति पदत्वात् कृते नलोपे 'सुपि च इति दीर्घः प्राप्नोति । तथा राजन् भिस् इति स्थिते नलोपे, 'अतो भिसः' इत्यैस् प्राप्नो. ति । तथा राजन् भ्यस् इति स्थिते नलोपे, 'बहुवचने झल्येत्' इत्येत्त्वं प्राप्नोति । नच नलोपस्यासिद्धत्वादिह दीर्घः ऐस् एत्त्वं च नेति वाच्यम् , 'नलोपविषये पूर्वत्रा. सिद्धम्' इत्यस्य प्रवृत्तौ राजाश्वो दण्डयश्व इत्यादावपि नलोपस्यासिद्धृत्वात् सवर्णदीर्घयणाधनापत्तरित्यत आह-नलोपः सुप् । नस्य लोपो नलोपः । विधिशब्दो भाव. साधनः । विधानं विधिः । सुप्च स्वरश्च सज्ञा च तुक्व तेषां विधय इति सम्बन्धसामान्यषष्ठया समासः । कृतीति तु तुकैव सम्बध्यते । अन्यत्रासम्भवात् । तदाहसुविधावित्यादिना। सुपो विधिः सुविधिः। सम्बन्धसामान्य विवक्षितम् । सुवाश्रयविधाविति यावत् । स्वरस्य विधिः। कर्मणः शेषत्वविवक्षया षष्ठी। स्वरे विधेये इति यावत् । एवं सज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी। सम्मायां वि. धेयायामिति यावत् । कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः । इहापि कर्मणः शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक तस्मिन् विधेये इति यावत् । 'पूर्वत्रासिद्धम्। इत्येव सिद्धे अन्यनिवृत्तिफलकनियमार्थमेतदित्याह-नान्यत्रेति। अन्यत्रेत्येतदुदाहृत्य कायति-राजाश्व इत्यादाविति । आदिना दण्ड्यश्व इत्यादिसङ्ग्रहः । अत्र सवर्णदी. र्घयणादिविधीनां सुविध्याद्यनन्तर्भावात् तेषु कर्तव्येषु नलोपस्यासिद्धत्वामावे सति नकारलोपस्य सत्वात् सवर्णदीर्घादिकं निर्बाधमिति भावः । प्रकृते राजभ्याम् राजमिः राजभ्यः इत्यत्र दीर्घादि न भवत्येवेत्याह-इत्यसिद्धत्वादिति। सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसख्याविधिलभ्यासिद्धत्वनिषेधाभावे सति 'पूर्वत्रासिद्धम्। इति नलोपस्यासिद्धत्वान्न दीर्घादिकमित्यर्थः। वस्तुतस्तु अन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एव 'पञ्च पञ्चनखा भक्ष्याः ' इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदित. रेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशालिकभाष्ये प्रपञ्चितम्। तदाहइत्यसिदत्वादिति।
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
भ्याम् राजभिः । राज्ञे राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि - राजनि । प्रतिदी
ननु दण्डिष्वित्यत्र नलोपे कृते इणः परत्वात् सस्य षत्वमिति स्थितिः । तत्र षत्वविधेः सुबाश्रयविधित्वात् तत्र कर्तव्ये नलोपस्यासिद्धत्वात् कथं षत्वमिति चेत्, मैवम् - न हि षत्वविधिः सुब्विधिः । सुप्त्वं तद्व्याप्यधर्मे वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः । न च षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम् । अस्तु वा षत्वविधिरपि सुब्विधिः । तथापि तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वं न भवत्येव । तदसिद्धत्वं हि किं 'पूर्वत्रासिद्धम्' इत्यनेनापाचते, उत 'नलोपः सुप्स्वर' इत्यनेनैव । न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य पत्वे कर्तव्ये असिद्धत्वासम्भवात् । न द्वितीयः, 'नलोपः सुप्स्वर' इत्य. न हि राजभ्यामित्यादौ नलोपस्यासिद्धत्वमपूर्व न विधीयते । किन्तु 'पूर्वत्रासिद्धम्' इत्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते राजाश्व इत्यादौ सुप्स्वरसज्ञातुग्विधिभिसवर्णदीर्घादिविधिसिद्धये दण्डिष्वित्यत्र तु नलोपस्यासिद्धत्वं 'पूर्वत्रासिद्धम्' इत्यनेन प्राप्तं न भवतीति तस्य 'नलोपः सुप्स्वरः' इति सूत्रविषयत्वं न सम्भवति । अन्यया सुविधावित्यनेन दण्डिष्वित्यादौ पत्वे कर्तव्ये नलोपासिद्धत्वमपूर्व विधीमेव । राजभ्यामित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत । तस्माद्दण्डिष्वित्यादौ पत्वे कर्तव्ये नलोपस्यासिद्धत्वाभावात् नलोपस्य सस्थादिणः परत्वानपायात् षत्वं निर्वाधमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
.: प्रकृतमनुसरामः । स्वरविधौ यथा - पञ्चाम् । अत्र नलोपस्यासिद्धत्वादकारान्तत्वाभावात् 'अमें चावर्ण इयत्र्यच् इति पूर्वपदायुदात्तत्वं न भवति । सज्ञाविधौ यथा - दण्डदत्तौ दत्तदण्डिनौ । अत्र 'द्वन्द्वे घि' इति पूर्वनिपातनियमो न भवति, घिसन्ज्ञाविधौ नलोपस्यासिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथावृत्रहभ्याम् वृत्रहभिः । अत्र 'ब्रह्मभ्रूणवृत्रेषु किप्' इति विहितं क्विपमाश्रित्य 'इस्वस्य पिति कृति तुक्' इति न तुक्, नलोपस्यासिद्धत्वेन हस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणात् 'छे च' इति तुग्विधौ नलोपस्य नासिद्धत्वम् । ततश्च वृत्रहच्छश्रम् । इह स्यादेव 'छे च' इति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेsपि सन्निपातपरिभाषया 'हस्वस्य पिति' इति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम् | 'स्वादिषु' इति पदत्वद्वारा भ्यांसन्निपातनिमित्तको नलोपस्तद्विघातक न प्रवर्तयतीत्याशयः । ननु वृत्रहधनमित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकम्, तत्रान्तर्वर्तिनों विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य सन्निपा-निमित्तकत्वाभावादिति चेत्, न तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येन ताहअसन्निपातानिमित्तकन लोपविषयाणां वृत्रहधनमित्यादीनां अनभिधानकल्पनादित्यातां तावत् । राशि राजनीति । 'विभाषा विश्यो:' इत्यल्लोपविकल्प इति भावः ।
I
For Private and Personal Use Only
પૂ
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
सिमान्तकौमुदी
[हलन्तलिट
व्यतीति प्रतिदिवा प्रतिदिवानी प्रतिदिवानः। अस्य भविषयेऽल्लोपे कृते । (३५४)हलि च ७७॥ रेफवान्तस्य धातोरुपधाया इको दीघः स्या. द्धलि । न चारुलोपस्य स्थानिवस्वम् । दीर्घविधौ तन्निषेधात् । बहिरणपरिभाषा तूकन्यायेन न प्रवर्तते । प्रतिदीनः । प्रतिदीना इत्यादि । यज्वा यज्वानो यज्वा. नः। (३५५.)न संयोगाद्वमन्तात् ६४१३७॥ वकारमकारान्तसंयोगासरस्यानोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना यज्मभ्याम् इत्यादि । ब्रह्मणः । ब्रह्मणा ब्रह्मभ्याम् इत्यादि। (३५६) इन्हन्पूषार्यम्णां शौ। - प्रतिदिवेति । दिवु क्रीडादौ । तस्मात् 'कनिन्युषितक्षिा इत्युणादिसूत्रेण कनिम्न. त्ययः । कनावितो। इकार हच्चारणार्थः । प्रतिदिवशब्दात् सुवुत्पत्तिः। 'सर्वनाम स्थाने च' इति दीर्घः। हल्ल्यादिना सुलोपे प्रतिदिवा इति रूपम् । सुटि राजवत् । अस्येति । प्रतिदिवनशब्दस्य शसादावधि 'अल्लोपोऽन' इत्यल्लोपे सतीत्यर्थः । हलि च । “वोरुपधाया दीर्घ इका' इत्यनुवर्तते । 'सिपि धातोः' इत्यतो धातोरिति च। तच्च वोः इत्यनेन विशेष्यते । तदन्तविधिः । तदाह--रेफवान्तस्येत्यादिना । रेफान्सस्य जीर्यतीत्युदाहरणम् । अपदान्तत्वात् 'वोरुपधायाः' इत्यप्राप्ते विधिः । प्रकृते च प्रतिदिव न अस् इति स्थिते नकारे हलि परे वान्तस्य दिधातोरुपधाया इकारस्य दीर्घ इति भावः। ननु 'अचः परस्मिन्' इत्यल्लोपस्य स्थानिवस्थादकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्याशय परिहरति-न चाल्लोपस्य स्थानिवत्त्वमिति । कुत इत्यत आह-दीविधौ तनिषेधादिति । 'न पदान्त' इति सूत्रेण दीविधौ स्थानिवस्वनिषेधादित्यर्थः । नन्वेवमपि भसज्ञापेक्षस्यालखोपस्य बहिभूतप्रत्ययापेक्षस्वेन बहिरङ्गतयाऽन्तरले दीघे कर्तव्ये असिखुत्वादकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्यत आह-बहिरङ्गेति । यथोदेशपक्षे पाठी परिभाषां प्रति 'श्चुत्वस्यासिद्धतया अन्तरङ्गाभावे परिभाषाया अप्रवृत्तः इति राजन्शब्दस्योक्तन्या. येन दीर्घस्यासिद्धतया तद्विषये 'असिद्ध बहिरणम्' इति परिभाषा न प्रवर्तते इति भावः । प्रतिदीन इति । 'न भकुर्छराम्' इति निषेधस्तु वान्तस्याभत्वान्नेति भावः । इत्यादीति । प्रतिदीने । प्रतिदीनः। प्रतिदीतोः। भ्यामादौ हलि राजवदित्यर्थः । यज्वनशब्दः सुटि राजवदित्याह-यज्वेति । शसि अल्लोपे प्राप्ते-म संयोगाद्वमन्तात् । वश्व मच वमौ अन्तौ यस्येति विग्रहः । 'अल्लोपोऽनः' इत्यनुवर्तते । तदाह-वकारे- त्यादिना । अन्तग्रहणं स्पष्टार्थम् , वमयोः संयोगविशेषणत्वादेव तदन्तलामात् । इस्या. दीति । यज्वने यज्वनः यज्वनोः। भ्यामादौ हलि राजवदित्यर्थः। मान्तसंयोगल्योदाहरणमाह-ब्रह्मण इति । शसादावचि नास्लोपः। शेष राजवदिति भावः। वेदस्तर यो ब्रह्म ब्रह्मा विप्रः प्रजापतिः।इत्यमरः।
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२४७
४ १२॥ एषां शावेवोपधाया दीर्घः, नान्यत्र । इति निषेधे प्राप्ते (५७) सौ च ।।४।१३ ॥ इन्नादीनामुपधाया दीर्घः स्यादसम्युद्धौ सौ परे। वृत्रहा । हे वृत्रहन् । 'एकाजुत्तरपदे- (सू ३०७) इति णत्वम् । वृत्रहणी वृत्रहणः । वृत्रहणम् । वृत्रहणौ। ( ३५८ ) हो हन्तेणिन्नेषु ७३३५४ ॥ निति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् । (३५६) हन्ते:-उपसर्ग: स्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं स्यात् । प्रहण्यात् । (३६०)-मत्पूर्वस्य
सोनाम भारः, तं हसवानित्यय 'ब्रह्मभ्रूणवृत्रेषु किप्' इति किम् । कपाक्तिौ। अश्कलोका । उपपदसमासः। 'सुपोधात' इत्यमो लुक, वृत्रहन्शब्दः तस्मात् सुबु. त्पत्तिः । सो विशेषमाइ-इन्हन् । 'एलोपे' इत्यतो दी इत्यनुवर्तते । 'नोपधायाः' झायन स्माया ति। स्वाह-वामिति । इन हन् पूषन् अर्थमन् इत्यन्तानामित्यर्थः । अङ्गविशेषणस्वेन तदन्तविधिः । 'सर्वनामस्थाने च' इति सिद्ध नियमार्थमित्याह-शावेवेति । नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे इन् इत्यस्यापि शायेव दीर्घ इति नियमात् सौ परतः 'सर्वनामस्थाने' इति दीर्घ भवाले सतीत्यर्थः । मौ च। पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तच्च । तदाह-इवादीनामिति । असम्बुद्धाविति । 'सर्वनामल्याने च' इत्यतः तदनुवृत्तेरिति भावः । 'इन्हन्पूष' इमल्यायमपवादः । हे वृत्रहनिति । असम्बुद्धावित्यनुवृत्तेनं दीर्घः । भिन्नपदत्वादाहएकाविति । वृत्राणावित्यादि । शाति नियमान्न दीर्घः । शसादावचि अल्लोपे कृते । हो हन्तः । हः इति स्यामपटी, हन्तेरिल्यवयवषष्ठी। ञ्च ण च णौ इतौ प्रयोस्तो णितौ। इच्छब्दः प्रत्येक सम्बध्यते। णितौ च न णिमाः तेबिति विग्रहः । अङ्गाधिकारात् प्रत्ययत्वं विणतोर्लभ्यते। 'धनोः कुपिण्यतो इत्यतः कुग्रहणमनुवसते । तदाह-नितीत्यादिना। हन्तेरिति क्तिपा निर्देशः । हन्धातोरित्यर्थः। प्रकृते हकारस्य नकारपरत्वात् कुत्वम् । तत्र घोषवतो नादवतो महाप्राणल्य संघृतकण्ठस्य हस्य ताहशो वर्गचतुर्थो घकारः। वृत्रघ्नः कृत्रना इत्यादि सिद्धम् । नन्विह कथं न गत्वम् भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वस्य दुर्वारत्वात्, कृतेऽप्यल्लोपे , तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकात्वात् स्थानिवत्त्वाभावेऽपि 'प्राति. पदिकान्तनुम्विभक्तिषु च इत्यस्य 'कुमति च' इत्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वा. .रणार्थम् 'हन्तेरत्पूर्वस्या इति सूत्रं विभज्य व्याचष्टे-इन्तेः। 'रषाभ्यां नो णः' इत्य सुवर्तते । 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । तास्थ्यात्ताच्छब्धम् । मासर्गस्थादिति लभ्यते । तच्च रषयोः प्रत्येकमन्वेति । तदाह-उपसर्गस्थानिमित्तादित्यादिना । निमित्तशब्देन रेफः षकारश्च विवक्षितः । प्रहण्यादिति । अत्र भिन्नपदस्थ
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तपुंलिङ्ग
मा४॥२२॥ हन्तेर पूर्वस्येव नस्य णत्वम् , नान्यस्य । प्रघ्नन्ति । योगविभागसा. मध्योत् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' ( प ६२) इति न्यायं बाधि. त्वा 'एकाजुत्तरपदे-' (सू ३०७) इति गत्वमपि निवर्तते । नकारे परे कृत्वविधिधामादल्लोपी न स्थानिवत् । वृत्रघ्ना वृत्रना इत्यादि । यस्तु पुत्रघ्नः इत्यादी वैकल्पिकं गत्वं माधवेनोक्तं, तद्भाष्यवार्तिकविरुद्धम् । एवं शानिन् , त्वावप्राप्ते गत्वे वचनम् । प्रकृतोपयुक्तमाह-प्रत्पूर्वस्य । हन्तेरित्यनुवर्तते । स्वाभ्यां नो णः' इति च । उपसर्गादिति तु निवृत्तम् । हन्तेरत्पूर्वस्य नस्य मा स्वापिति सम्पते। सिद्धे सत्यारम्भो नियमार्थः । तदाह-इन्तरत्पूर्वस्यैवेत्यादिना । प्रघ्नन्तीति । हन्तेलेट , झिः, झोऽन्तः, शप, लुक् गमहन' इत्युपधालोपः । 'हो हन्तेः' इति कुत्वम् । प्रघ्नन्तीति रूपम् । अत्र उपसर्गस्थरेफात् परत्वात् , 'हन्तेः' इत्यनेन प्राप्त णत्वम् 'अस्पूर्वस्य इति नियमान्न भवति । वृत्रघ्न इत्यत्र 'प्रातिपदिकान्त' इत्या. दिणत्वं निवर्तते। • ननु प्रातिपदिकान्तनुम्विभक्तिषु च, एकाजुत्तरपदे णः, कुमति च, हन्तेरत्पूर्वस्य इति सूत्रपाठक्रमः । ततश्च 'अनन्तरस्य विधिः' इति न्यायेन 'अत्पूर्वस्य इति नियमेन प्रघ्नन्तीत्यत्र हन्तरित्यव्यवहितणत्वमेव निवर्तेत । नत्वन्यदित्यत आह-योगेति । यदि 'अत्पूर्वस्या इत्यनेन 'हन्तेः' इति णत्वमेव व्यावत्येत, सहि हन्तेरत्पूर्वस्य इत्ये. कमेव सूत्रं स्यात् । उपसर्गस्थानिमित्तात् परस्य हन्तेरत्पूर्वस्य नस्य णत्वम् इत्येता. वतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात्। अतो योगविभागसामर्थ्यात् णत्वमात्र. स्यायं नियम इति विज्ञायत इत्यर्थः। एकाजुत्तरेति । 'कुमति च' इत्यस्य 'प्रातिपदि. कान्त' इत्यस्य चोपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वादेकास्वमुत्तरपदस्य बोध्यम् । न च 'पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम्, 'तस्य. दोषः, संयोगादिलोपलत्वणत्वेषुइत्युक्तेः । ननु वृतघ्नः इत्यत्र 'हो हन्तेः' इति कथं कुत्वम् । पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह-नकारे पर इति । माधवमतं दूष. यितुमनुवदति-यत्त्विति । तुः पूर्ववैषम्ये । वैकल्पिकमिति । 'प्रातिपदिकान्तइति विहितमित्यर्थः । तद्भाष्येति । 'कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः। किं प्रयोजनम् । वृत्रघ्नः मुघ्नः । प्राधानि । 'हन्तेरत्पूर्वस्य' इति सूत्रे 'अत्पूर्वग्रहणं न कर्तव्यम्। इति 'अटकुप्वाङ् इति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात् 'प्रातिपदिकान्त' इति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । सविरोधात् माधवमतमुपेक्ष्यमित्यर्थः। एवमिति । वृत्रहन्शब्दवदित्यर्थः । इन्हन्पूषार्यम्णां शौ, सौ च इति दीर्घनियममात्रे दृष्टान्तः न तु कुत्वादौ, असम्भवात् । शाङ्गमस्यास्ती. त्यर्थे 'अत इनिठनौ' इति मत्वर्थीय इनिः। यशोऽस्यास्तीत्यर्थे 'अस्मायामेधास्त्रना'
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनारमासहिता।
२४६
-
-
यशस्विन् , अर्थमन् , पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि 'इन्हन्- (सू ३५६ ) इत्यत्र ग्रहणं भवत्येव । 'अनिनस्मन्प्रहणान्यथैवता चानकेन च तदन्तविधि प्रयोजयन्ति' ( प १७) इति वचनात् । अर्थम्णिअर्यमणि । पूष्णि-पूषणि । (३६०) मघवा बहुलम् ६४।१२८ ॥ मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् । (३६. ) उगिदचां सर्वनामस्थानेऽधात ७।११७०॥ अधातोरुगितो नलोपिनोऽचतेश्च नुमागमः स्या
इति विनिः । 'सौ मत्वर्थे। इति भत्वान रुत्वम् । नन्वर्थवत्परिभाषया 'इन्छन्' इत्यत्रावत एव इनो ग्रहणम् । ततश्च विन्प्रत्यये इनोऽनर्थकत्वात् तस्य कथं ग्रहण मित्याशय परिहरति-यशस्विन्नित्यादिना । भनिनस्मन्निति । एतच्च येन विधिः' इति सूत्रे भाज्ये स्थितम् । राजा इत्यत्र अन् अमेवान, दाम्नः इत्यत्र तु अनर्थकः । शाङ्गी इत्यत्र हन् अर्थवान्, यशस्वी इत्यत्र तु अनर्थकः । सुपया इत्यत्रास् अर्थवान्, सु. स्रोता इत्यत्र तु अनर्थकः । असन्तत्वादीर्घः। सुशर्मत्यत्र मन् अर्थवान् , सुप्रथिमा इत्यत्र तु अनर्थका । 'मनः इति न की। अर्थमन्शब्दे पूषन्शब्दे च अल्लोपे विशेष इत्याह-अम्णि इत्यादि । 'विभाषा विषयोः' इत्यल्लोपविकल्पः। शसादावचि तु नित्यमालोपः उक्तप्राय इति भावः । ५. महाते पूज्यत इत्यर्थे कनिप्रत्ययः । इकार उच्चारणार्थः । ककार इत् । अन् इति प्रत्यया शिष्यते । धातोयुगागमः । तत्र ककार इत् । उकार उच्चारणार्थः । कित्वादन्तावयवः । महधातोस्य पश्च इति अयं निपात्यते। वन्नुक्षन्पूषन्प्लीहन्क्ले. दनुस्नेहनमूर्धन्मजनर्यमन विश्वप्सनपरिज्मन्मातरिश्वत्मघवन्नित्युणादिसूत्रेण निष्पन्ने तस्मिन् मघवन्शब्दे विशेषमाह-मघवा बहुलम् । 'अर्वणस्नसो' इत्यतः तृ इत्यनुवर्तते। तच लुप्तप्रथमाकम् । मघवेति तु षष्ठयर्थे प्रथमा। तदाह-मघवन्शब्दस्येत्यादिना । क इदिति । उपदेशेऽजनुनासिक इत् इति प्रकार इत्संज्ञक इत्यर्थः । इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । 'अलोऽन्त्यस्य' इति नकारस्य तकारः। सर्वादेशस्तु न, नानुबन्धकृतमनेकालत्वम् इति वचनात् । मघवत् स् इति स्थिते । उगिदचाम् । अधातोरिति छेदः । उक् इत् येषां ते उगितः । अच् इति लुप्तनकारस्य 'अञ्चु गति. पूजनयोः' इति धातोहणम् । अधातोरित्युगिद्विशेषणम् । न त्वञ्चतेः, असम्भवात् । इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । तदाह-अधातोरुगितः इत्यादिना । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादयः परः । अजिति अच्प्रत्याहारो न गृह्यते, व्याख्यानात्, 'नपुंसकस्य झलचः' इत्यज्ग्रहणाच्च । अन्यथा 'उगिदचाम्। इत्येव सिद्धे तद्वयर्थ्यात् । वृद्धिः गुणः इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રપ૦
सिद्धान्तकौमुदी
हलन्तपुंलिङ्ग
सर्वनामस्थाने परे। उपधादीर्घः । मघवान् । इह दीर्धे कर्तव्ये संयोगान्तलो. पस्यासिद्धरत्वं न भवति । बहुलग्रहणात् । तथा च 'श्वन्नुशन्-' ( उ १५७) इति निपातनात्मयशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । 'हविर्जक्षिति निःशको मखेषु मघवानसौ' इति भष्टिः । मघ
गोमच्छन्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजन च तत्रैव वक्ष्यते । उपधादी इति । मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सति 'सर्वनामस्थाने च' इति दीर्घ इत्यर्थः । नन्विह दीघे कर्तव्ये संयोगान्तलोपल्यासिद्धत्वात् नान्तत्वाभावात् पचन्नित्यादाविव दोर्षो न सम्भवतीत्यत आह-दी कर्तव्य इति । बहुलग्रहणादिति ।
'कचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव ।
शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलाहे तु ॥' इति स्थितिः । अत्र दीधे कर्तव्ये संयोगान्तलोपस्य नासिद्धत्वम् । पचन्नित्यादौ तु असिद्धत्व. मेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपथे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाभावकल्पनायां प्रमाणाभावात् । वेदे तु यज्ञेन मघवानित्यादौ दोघः छान्दसो भविष्यतीत्यत आह-तथा चेति। त्रादेशपक्षे संयोगान्तकोपस्यासिद्धत्वाभावमभ्युपगम्यैवेत्यर्थः । निपातनादिति। कनिप्रत्ययस्य, अयुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः । तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः । मघशब्दादिति। धनपर्यायादित्यर्थः । मघः धनमल्यास्तीत्यर्थे मतुपि 'मादुपधा. याश्व' इति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः । भाषायामपीति । लोके छन्दसि च इत्यर्थः । शब्दद्वयेति । मघवन्शब्दो मघवच्छब्दरचेति शब्दयम् 'मघवा बहुलम्। इत्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थः। पाकर इति । केशाद्व इति सूत्रे कैयटग्रन्थ इत्यर्थः । तत्र येवमुक्तम्-'मघवा बहुलम्। इत्येतन कर्तव्यम् । 'श्वन्नुक्षन्' इति निपातनात् मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वात् इति । त्रादेशपक्षे संयोगान्तलोपस्यासिद्धत्वात् दीर्घाभावाश्रयणे मघवन्निति रूपम् । मतुपि तु अत्वसन्तस्य इति दीधै मघवानिति रूपमिति रूपभेदापत्या तदसङ्गतिः स्पष्टैवेति भावः । वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम् , मतुपि तु 'हस्वनुड्भ्यां मतप' इति मतुबुदात्तत्वस्य 'नगोश्वन्' इति प्रतिषेधे सति पित्त्वादनुदात्तत्वे धकाराहकारस्य फिटस्वरेण उदासत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव । मघवानिति दी: शिष्टसम्मतश्चेत्याह-हविरिति । मखेषु यज्ञेषु निशङ्कः असौ मघवान् हविर्ज. क्षिति मक्षयतीत्यर्थः । मघवन्तावित्यादि । सुदि त्रादेशो मुम्चेति भावः। प्रसादौ
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५१
-
वन्ती मघवन्तः। हे मघवन् । मघवन्तम् मघवन्तो.मघवतः। मघवता मघव. द्रयाम् इत्यादि । तृत्वाभावे मघवा । 'छन्दसीवनिपो च' इति वनिवन्तं मध्योदात्तं छन्दस्येव । अन्तोदा तु लोकेऽपीति विशेषः । मघवानी मघवानः । सुटि राघ. वत् । ( ३६२ ) श्वयुवमघोनामतद्धिते ६।४।१३३॥ अन्नन्तानां भसंज्ञ.
-
-
-
श्रादेशः नतु नुम् , असर्वनामस्थानत्वादित्यभिप्रेत्याह-मघवतः इति । मघवद्भयामित्यादि। अादेशे 'स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्वे चत्वे मघवत्सु। ___तृत्वाभावे मघवेति । नान्तात् सौ राजबद्रूपमिति भावः । ननु मघवा बहुलम् इति सूत्र अगस्त मघोनश्च न शिष्यं छान्दसं हि तत्' इति वार्तिकभाष्यकैयटेषु मघ. घनशमल्य छन्दोमात्रविषयत्वावगमात् कयं तस्य लोके प्रयोग इत्यत आह-छन्द. सीवनिपावित्यादि । 'सदस्यास्यस्मिन्निति मतुप्' इत्यधिकारे 'केशाद्वोन्यतरस्याम्। इति सूने 'छन्दसीवनियोग इति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यो वश्च मतुप्चा रथोरभून्मुगलानो गविष्टौ, सुमरलोरियं वधूः, ऋतवानं मघवानमीमहे' इति तत्र भाव्यम् । तत्र बनिष्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः। मघ. शब्दः फिटस्वरेणान्तोदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण मकारादकार: चकारादकारश्चानुदात्तः । 'उदात्तादनुदात्तस्य स्वरितः' इति वकारादकारः स्वरितः । तथाच मघवनिति रूपं मध्योदासं सम्पद्यते । एसादृशमघवन्शब्दविषयकं छान्दसत्वा. भिधानम् । कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः । शिष्टस्वरेण मकारादकारः धकारादकाररुच अनुदात्तौ। तथाच मघवनिति रूपमन्तोदात्तमिति स्थितिः । एतादृशामववशब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमा. णाभावात् । किं च 'वनो रच' इति सूत्रे भाष्यम्-मघवन्शब्दः अव्युत्पन्नप्रातिप. दिकमिति । अयमपि मघवन्शब्दः फिटस्वरेणान्तोदात्तः लोकवेदसाधारण एव, छन्दो. मात्रविषयत्वे प्रमाणाभावादिति भावः । शब्दरत्ने तु 'न शिष्यं छान्दसं हि तत्' इत्युदाहतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोः मध्योदासमात्रविषयसंकोचे प्रमाणं न कि. बिदस्ति । कविप्रयोगाणां तु तं तस्थिवांसं नगरोपकण्ठे' इत्यादिविषये बहुशः प्रमा. ददर्शनात् तेषामपि नावचनसकोचकता । अतो मघवन्शब्दस्य सर्वस्यापि लोके अ. साधुत्वमेवेति प्रपचितम् । सुटि राजवदिति । तृत्वाभावपक्षे नान्तत्त्वाद्दीर्घ इति भावः । . शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते। श्वयुवमघो
नामतद्विते । श्वा च, युवा च, मघवा च इति द्वन्दुः । 'वसोः सम्प्रसारणम्। इत्यतः । सम्प्रसारणमित्यनुवर्तते । 'भस्या इत्यधिकृतम् । 'अल्लोपोऽनः' इत्यतः अत इत्यपकृ. प्यते । तच्च श्वयुधमघोनां प्रत्येक विशेषणं, तदन्तविधिः। फलितमाह-अन्नन्तानामिस्वादि । 'इग्यगः सम्प्रसारणम्' इति वकारस्य सम्प्रसारणमुकारा। मघ उ अन् इति
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૫૨
www.kobatirth.org
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग -
कानामेषामतद्धिते परे सम्प्रसारणं स्यात् । 'सम्प्रसारणाच्च' ( सू ३३० ) । 'आ द्गुण:' ( सू. ६९ । मघोनः । अन्नन्तानाम् किम् । मघवतः । मघवता । त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवाभ्याम् इत्यादि । शुनः । शुना श्वभ्यामित्यादि । युवन्शब्दे वस्योत्वे कृते । ( ३६३ ) न सम्प्रसारणे सम्प्रसारणम् ६|१|३७|| सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न स्यात् । इति यकारस्य नेश्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं सम्प्रसारणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"
स्थिते पूर्वरूपमुक्तं स्मारयति - सम्प्रसारणाच्चेति । मध उ न् इति स्थिते गुणं स्मारयति - श्राद्गुण इति । अन्नरसानां किमिति । श्वयुवमघोनामन्नन्तत्वाव्यभिचारात् किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य श्रादेशपक्षेऽपि एकदेशविकृतस्यानन्य - तया अन्नन्तत्वसत्त्वादिति प्रश्नः । मघवतः इति । श्रादेशपक्षे मधनन्शब्दे सम्प्रसार- निवृत्यर्थम् अन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव तथापि विशेषणसामर्थ्यात् श्रयमाणनकारान्तस्यैव सम्प्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौ 'उगितश्च' इति ङीप । अत्राप्यन्नन्तत्वविशेषणात् न सम्प्रसारणमिति भावः । अत्र 'उगिदचाम्' इति नुम् तु न, डीपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'सास्य देवता' इति मघवन्शब्दात् अणि आदिवृद्धिः । अत्राणस्तद्धितत्वात् तस्मिन् परे न सम्प्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः मघोनोः मघोनाम् । मघोनि । धन्शब्दः प्रायेण राजवत् । . शसादावचि 'श्वयुव' इति सम्प्रसारणं वकारस्य उकारः । शु अन् इति स्थिते 'सम्प्रसारणाच्च' इति पूर्वरूपमिति मत्वाह- शुनः शुनैति । इत्यादीति । शुने । शुनः शुनोः शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह - युवन्शब्द इति । युवन् अस् इत्यादिस्थिते 'श्वयुव' इति वकारस्य सम्प्रसारणे उकारे यु उ अन् इति स्थिते 'सम्प्रसारणाच्च' इति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घं यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि सम्प्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृ तिः इत्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौ 'अनचि च' इत्यादेरसकृत्प्रवृत्त्यनुपपत्तेरिति भावः ।
1.
न सम्प्रसारणे । इति यकारस्येति । सवर्णदीर्धनिष्पन्नस्य उकारस्य 'अचः परस्मिन् इति स्थानिवत्त्वेन सम्प्रसारणतया यकारस्य सम्प्रसारणपरकत्वात् न सम्प्रसारणमिकार इत्यर्थः । ननु उकारद्वयस्थानिकस्य उकारस्य स्थानिवत्वे सति तस्य उकारद्व
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५३
-
यूनः । यूना । युवभ्यामित्यादि । भर्वा । हे अर्वन् । (३६४ ) अर्वणस्त्रसाव. नमः । ६।४।१२७॥ ना रहितस्यान्नित्यस्यास्य तृ इत्यन्तादेशः स्यात्, न तु सौ। उगिरवान्नुम् । अवन्तौ अर्वन्तः । अर्वन्तम् । अर्वन्तो अव॑तः । अर्वता अर्वद्भयाम् इत्यादि । अननः किम् ? अनर्वा यज्ववत् । (३६५) पथि. मध्यभुक्षामात् १५॥ एषामाकारोऽन्तादेशः स्यात्सौ परे। मा मात्
यात्मकतया प्रथमेन उकारेण व्यवधानात् सम्प्रसारणपरत्वाभावात् कथमिह निषेधः। 'येन नाम्पवधानम् इति न्यायस्य तुनायं विषयः, विव्यथेत्यादौ व्यथो लिटिः इति वकारस्याव्यवहितसम्प्रसारणपरत्वे निषेधल्य चरितार्थत्वात् इति चेन्मैवम् । एवं हि सति 'न सम्प्रसारणे सम्प्रसारणम् इति निषेधस्य 'व्यथो लिटिः इति सम्प्रसारणमा. अविषयकत्वमापयेत । एवं च सति 'व्यथो यो लिटि' इति यकारग्रहणेनैव सिद्ध 'न सम्प्रसारणे सम्प्रसारणम्' इति सूत्रमनर्थकमेव स्यात् । अतः 'श्वयुव' इति सम्प्रसा. रणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि सम्प्रसारणे परे यून इत्यादौ निषेधो निर्बाधः । 'यूनस्तिः' इत्यादिनिर्देशाच्चेत्यलम् । ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः सम्प्रसारणे जाते निषेधो व्यर्थः । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथमं यकारस्य सम्प्र. सारणमस्तु । तदानी सम्प्रसारणपरत्वाभावेन निषेधाप्रवृत्तेः । अनन्तरं तु वकारस्यापि सम्प्रसारणमस्तु । तत्राह-प्रत एव शापकादिति । अन्यथा एतन्निषेधारम्भवैयांपा. तादिति भावः । इत्यादीति । यूने। यूनः । यूनोः । यूनि। ___ आतो मनिन्वनिम्वनिपश्च, अन्येभ्योऽपि दृश्यते इति ऋधातोः बनिपि गुणे रपस्स्वे अर्वन्शब्दः अश्वे योगदः । तस्य सौ राजवद्रपं मत्वाह-अर्वा । हे अर्वन्निति । श्रवणस्त्रसावनञः । तृ असौ इति छेदः । न विद्यते न यस्येति बहबीहिः । अस्येत्यधिकृतम् अर्वणा विशेष्यते । तदाह-नभा रहितस्येत्यादिना। ऋकार इत् । 'अलोन्त्यस्या इति नस्य तः । उगित्वान्नुमिति । 'उगिदचाम्। इत्यनेनेति भावः। अन्ताविति । मुमो नस्य 'नश्चापदान्तस्य' इति अनुस्वारः, परसवर्ण इति भावः । शसादाववि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-पर्वत इति । अर्वद्भयामिति । 'स्वादिषु' इति पदत्वाज्जश्त्वमिति भावः । इत्यादीति । अर्वद्भिः । अवते । अर्वद्यः । अर्वतः अर्वतोः मर्वताम् । अर्वति । अर्वत्सु । अनमः किमिति । अनमः इत्यस्य किं प्रयोजनमित्यर्थः । अनर्वा यज्ववदिति । अनर्वन्शब्दो यज्ववदित्यर्थः । शसादावचि 'न संयोगाद्वमन्तात्! इत्यल्लोपो नेति भावः।
पथिन् , मथिन् , ऋभुक्षिन , एते नकारान्ताः । तेषु विशेषमाह-पथिमध्यभुक्षामात् । पन्थाश्च, मन्याश्च भुक्षाश्च, पथिमध्यभुक्षाणः तेषामिति विग्रहः । 'सावन
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५४
सिद्धान्तकौमुदी
[ इलन्त पुंलिङ्ग
1
इति प्रश्लेषेण शुद्धाया एव व्यक्तेविधानान्नानुनासिकः । ( ३६६ ) इतोऽत्सर्वनामस्थाने ७ १८६ ॥ पथ्यादेरिका र स्याकारः स्यात्सर्वनामस्थाने परे । (ago) Â TM: Gig170||| पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था पन्थानौ पन्थानः । पन्थानम् पन्थानौ । ( ३६८) भस्य टेर्लोपः दुहा' इत्यतः सावित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाहवामित्यादिना । 'अलोऽन्त्यस्य' इति नकारस्य आकारः । ननु नकारस्य आन्तरतम्वाद अनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणात् शुद्ध एव आकार इति वाच्यम् गुणानामभेदकत्वात् भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु वि. व्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकारस्येहानत्वात् विधीयमानत्वाच्च न तत्काल इति वाच्यम्, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाभा वादित्यत आह- श्राश्रदिति । सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासि करूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्कयम् । नात्र वर्णद्वयं विधीयते, विशेषणविशेष्यभावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव 'उञः, ॐ' इत्यत्रेव उच्चार्य विधानसम्भवात्तदनुच्चारणाच्छुद्ध एव आकार इह विधेय इत्युतम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तु 'भाव्यमानेन सवर्णानां ग्रहणं न इति परिभाषयैव अनुनासिकाकार निराससम्भवादाकारप्रश्लेषक्लेशो व्यर्थः । 'भाव्यमानोऽणू सवर्णान्न गृह्णाति' इति पाठस्तु प्रामादिकः, 'ज्यादादीयसः' इति सूत्रे आदिति तपर निर्देशेनेयं परिभाषा ज्ञाप्यते - 'भाव्यमानेन सवर्णानां ग्रहणं न' इत्येव भाष्ये पाठात् अणुदित्सूत्रभाष्येऽप्यण् ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्श - नात्यास्तां तावत् । नकारस्य आत्ये पथि आ स इति स्थिते । इतोऽत् । पथिम - थ्यभुक्षाम् इत्यनुवर्तते । इत इति तपरकरणं स्पष्टार्थम्, पथ्यादिषु त्रिषु दीर्घप्लुतयोरसम्भवात् । भाव्यमानत्वादेव सवर्णग्राहकत्वे सिद्धे अदिति तपरकरणमपि स्पष्टार्थमेव । तदाह – पथ्यादेरित्यादिना । पथ आ स् इति स्थिते । यो व्थः । थः न्थ इति छेदः । थः इति षष्ठी । आदेशे अकार उच्चारणार्थः । पथिमथिग्रहणमनुवर्तते । ऋभुशिग्रहणं निवृत्तम्, तत्र थकाराभावात् । 'इतोऽत्सर्वनामस्थाने' इत्यतः सर्वनाम - स्थानग्रहणमनुवर्तते । तदाह - पथिमथोरित्यादिना । पन्थाः इति । नकारस्य आवे हकारस्य अस्वे थकारस्य न्थादेशे पन्थ आस् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः । पन्धानाविति । पथिन् औ इति स्थिते सावित्युक्तेर्नात्वम् 'इतोऽत्' इति इका
I
1
•
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
७ ॥ भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा पथिभ्यामित्यादि । एवं मन्थ : ऋभुक्षाः । स्त्रियां नान्तलक्षणे बीपि भत्वापिः । सुपथी सुमथी नगरी । अनुभुक्षी सेना । आवं नपुंसके न भवति 'न लुमता-' ( सू २४३ )
૫૫
1
रख्यात्वे थकारस्य न्थादेशे 'सर्वनामस्थाने च' इति दीर्घं रूपमिति भावः । एवं प. न्थानः । पन्थानम् । पन्थानौ । शसादावचि विशेषमाह । भस्य टेर्लोपः 1 पथ्यादेरिति । पथिमथ्यभुक्षाम् इत्यनुवर्तत इति भावः । पथः पथेति । पथिन अस् पथिन् आ इति स्पिते इमो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु ।
एवं मन्थाः ऋभुक्षाः इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्वं, अत्त्वं, न्यादेशः, टिलोपश्च । मन्थाः । मन्थानौ । मन्थानः । मन्थानम् । मन्धानौ । मत्रः । मथा। मथि - भ्याम् । मथे । मथः । मयोः । मथाम् । मथि। मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची ।
'थो न्थ:' इतिवर्जमावादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मनः इच्छति पथीयति सुप आत्मनः क्यच्, 'नः क्ये' इति पदत्वात् नलोपः 'अकृत्सार्वधातुकयोः' इति दीर्घः । 'सनाद्यन्ताः' इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात् 'पथिमाथि' इत्यात्वं, "थो थः । इतोऽत् इत्यवं तु तपरकरणान्न भवति । पन्थाः । एरनेकाचः इति यणं बाface परत्वान्नित्यत्वाच्च 'थो न्थः । ततः संयोग पूर्वत्वान्न यण् । किन्त्वियमेव । पन्थियो । 'भस्य टेर्लोपः पथः इत्यादि प्रौढमनोरमातस्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायानुनासिकस्यैव उच्चारणे कायें तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयतेः क्विपि हि ईकारस्य शुद्धाकारार्थम् अनुनासिका लुच्चारणस्यावश्यकस्ये सदसंगतिः स्पष्टैवं । तस्मात् पथी. यतेः क्विपः अनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् । प्रसङ्गादाह - लियामिति । सु शोभनः पन्थाः अस्या इति बहुबीहिः । 'ऋन्नेभ्यः' इति ङीप् । 'भल्य टेर्लोपः' इति इनो लोपः । सुपथीति रूपम् । 'ऋक्पू:' इत्यप्तु न । 'न पूजनात्' इति निषेधात् । न चैवमपि 'न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्बक्ष्यमाणत्वात् 'इनः स्त्रियाम्' इति कप् दुर्धार एवेति वाच्यम्, 'युवोरनाकौ' इत्यत्र सुपथीति भाsयप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषया 'पथिमाथि' इ. त्यास्वं यो व कुतो नेति वाच्यम्, विभक्तौ लिङ्गविशिष्टा ग्रहणात् । सुमथि इति । सु शोभनः मन्थाः यस्या इति विग्रहः । ङीबादि पूर्ववत् । श्रभुक्षी सेनेति । अविद्यमा मः ऋभुक्षाः यस्या इति विग्रहः । 'नमोऽस्त्यर्थानाम्' इति समासः । ऋभुक्षाः स्वामी -अथ सु शोभनः पन्थाः अन्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् 'स्मो
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
सिद्धान्तकौमुदी
[हलन्तपुंलिश
इति प्रत्ययलक्षणनिषेषात् । सुपथि वनम् । 'सम्बुद्धौ नपुंसकाना नलोपो वा वाच्यः' (वा ४७८६) । हे सुपथिन्-हे सुपथि । 'नलोपः सुप्स्वर' (सू ३५३) इति नलोपस्यासिद्धत्वाद्धस्वस्य गुणो न । द्विवचने भत्वाहिलोपः। सुपथी। शो सर्वनामस्थानत्वात्सुपन्थानि । पुनरपि सुपथि सुपथो सुपन्थानि । सुपथा । सुपथे सुपथिभ्यामित्यादि । (३६६) ष्णान्ता षट् ॥१॥२४॥ षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । 'षड्भ्यो लुक्' (सू २६१) पछ । पर। संख्या किम् । विग्रुषः । पामानः । शतानि सहस्राणि इस्पत्र समिपातपरिभाषा
नपुंसका इति सोलुंकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात् 'पथिमथि' इत्यात्स्वमाशयाह-पारवं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितम् । तथापि हे चर्मन हे चौति भाष्ये सम्बुद्धावेव उदाहृतत्वात् तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धलुका लुसत्वात् सम्बुद्धिपरत्वाभावात् 'न डिसम्बुद्धयोः' इति निषेधाप्रवृत्तः नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपने इस्व. स्य गुणः इति सम्बुद्धौ परतः गुणे कर्तव्ये 'न लुमता' इति निषेधस्यानित्यत्वात् हे वारे हे वारि इतिवत् गुणविकल्पः स्यादित्यत आह-नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दात् और शीभावे सति असर्वनामस्थानत्वेन भत्वात् 'भस्य टेलोपः इति इनो लोपे सुपथी इति रूपमित्यर्थः । शाविति । सुपथिन्शब्दात् जयशसोः शिभावे सति तस्य सर्वनामस्थानत्वात् 'इतोऽत्' इत्यत्त्वे, 'यो न्यः इति थस्य न्यादेशे नान्तत्वात् दीघे सुपन्थानि इति रूपमित्यर्थः।
पञ्चन्शब्दो नित्यं बहुवचनान्तः । तस्य षट्सञ्ज्ञाकार्ये लुक विधास्यन् षट्सम्झामाह-ष्णान्ता षट् । षच नश्च ष्णो ष्टुत्वेन णः । ष्णौ अन्तौ यस्याः सा ष्णान्ता। 'बहुगणवतुडति सङ्ख्या' इत्यतः सङ्ख्येत्यनुवर्तते । तच्च पूर्वसूत्रे बहुगणवतुतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङख्याबोधकशब्दपरमाश्रीयते, बहगणवतुडतिषु ष्णान्तत्वासम्भवात् । तदाह-पान्तेत्यादिना। षड्भ्यो लुक् इति । अनेन जरशसोलुंगिति शेषः । पञ्च पन्चेति । जश्शसोलुकि नलोप इति भावः। समस्या किमिति । सङ्ख्याग्रहणानुवृत्तः किं फलमिति प्रश्नः । विप्रुष पामानः इति । विषुवब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाभावेन पट्सम्माविरहात् ततः परस्य जसो न लगिति भावः। ननु शतशब्दात् जाशसोः शिभावे 'नपुंसकस्य मालया' इति नुमि 'सर्वनामस्याने च' इति दीघे शतानीति रूपम् । एवं सहकाणी त्यपि रूपम् । तत्र 'अकुप्वाइ' इति णत्वं विशेषः । इह 'तदागमाः इति न्यावेन नुमः अङ्गमकत्वात् शतन्शब्दसहस्त्रन्शब्दयोः नान्तसङ्ख्याशब्दत्वात् षट्सपलायां
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्तदविघातकत्वात् । पश्चभिः । पञ्चभ्यः । पश्चभ्यः । 'षट्चतुर्भ्यश्च' ( सू ३३८ ) इति नुट् । ( ३७०) नोपधायाः ६|४|७|| नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपश्चानाम् । गौणत्वे तु न लुब्नुटौ । प्रियपञ्चा प्रियपश्वानौ प्रियपञ्चानः । प्रियपञ्च्याम् । एवं सप्तन् नवन् दशन् ( ३७१) अष्टन आविभक्तौ ७ | २८४॥ अष्टन आखं स्याद्धलादौ विभक्तौ । ( ३७२) मष्टाभ्य मौशू ७|१|२१| कृताकारादष्टनः परयोर्जश्श सोरोश् स्यात् । अष्टभ्यः” इति
२५७
I
सत्यां 'षड्भ्यो लुक' इति जयशसोलुक् स्यादत आह- शतानीत्यादि । सर्वनामेति । सर्वनामस्यानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजशलोकं प्रति निमित्तत्वाभावादित्यर्थः । पश्चभिः । पञ्चभ्य इति । नलोपे रूपम् । पञ्चन् आम् इति स्थिते 'षट्चतुर्म्यश्च' इति नुटि नलोपे तस्यासिद्धत्वात् 'नामि' इति दीर्घे अप्राप्ते आह- नोपधायाः । नेति लुप्तषष्ठीकम् अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते, 'नामि' इति सूत्रं च । तदाह - नान्तस्येत्यादिना । नलोप इति । नलोपस्यासिद्धत्वात् प्रथमं दीर्घे ततो नलोप इत्यर्थः : । परमेति । परमाश्च ते पञ्च चेति विग्रहः । ' षद्भ्यो लुक्' इत्यस्य 'षट्चतु क्ष' इत्यस्य चाङ्गत्वात् तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुवीप्रियञ्च शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह – गौणत्वे स्विति । 'षड्भ्यो लुक' इति 'षट्चतुर्भ्यश्च' इति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रियपचेति । सुटि हलादौ च राजवत् । शसादावचि तु 'अल्लोपोsनः' इत्यकारलोपे नस्य श्चुत्वेन अकारः । चकारे तु परे अनुस्वारस्य परसवर्णे कारः स्थित एव । तथाच नकारद्वयमध्ये चकारः ।
अष्टन्शब्दो नित्यं बहुवचनान्तः । तस्य विशेषमाह - अष्टन श्रा विभक्तौ । 'रायो हलि' इत्यतः हलि इत्यपकृष्यते । तच्च विभक्तेर्विशेषणम् । तदादिविधिः । तदाहअष्टन 'आत्वमित्यादिना । ग्रहणकसूत्रे अण्ग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्यानत्वात् भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः । अष्टाभ्य और । 'जनशसोः शिः' इत्यतः जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी । तस्मादित्युतरस्येत्युपतिष्ठते । अष्टा इत्याकारान्तशब्दो विवक्षितः । तदाह - कृताकारादित्यादिना । नकारस्यात्वे कृते सति यः अष्टाशब्दः तस्मादित्यर्थः । शित्त्वात् सर्वादेशः । 'आदेः परस्य' इति तु नात्र प्रवर्तते, 'अनेकाल्शित्' इति परेण तस्य बाधात् । औशादेशोऽयं 'षड्भ्यो लुक्' इत्यस्यापवादः । ननु जत्रशलोः परतः अष्टन्शब्दस्यात्वं ना
१७ बा०
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
वक्तव्ये कृतात्वनिर्देशो अरशसोर्विषये मात्वं ज्ञापयति । वैकल्पिकं चेदमष्टन भात्वम् । 'अष्टनो दीर्धात्' (सू ३७९८) इति सूत्रे दीर्घप्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाडौ । अष्टाभिः । अष्टाभ्यः• अष्टाभ्यः, अष्टानाम् । अष्टासु । भावाभावे अष्ट अष्ट इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि स्त्वेव, अष्टन आ विभक्तौ' इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जरशसोरोथिंधी कृताकारात् अष्टन इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । बसि अष्टभ्यः, अष्टाभ्यः इति रूपद्वये सत्यपि औश्विधो लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु 'अष्टन मा विभक्तौ इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानात् अष्टाभ्य इत्येव निर्दे. ष्टव्यम् , प्रामाणिकगौरवस्यादोषत्वात्। ततश्च औश्विधौ अष्टाभ्य इति निर्देशः जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह - वैकल्पिक चेदमिति । शापकादिति । 'अष्ट. नो दीर्घात्' इति सूत्रम् । दीर्घान्तादष्टन्शब्दात् परा असर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः। अष्टाभिर्विकर्षतीत्यत्र भकारादिकार उदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति शिष्टमनुदात्तम् । दीर्घादिति विशेषणात् अष्टभिरित्यत्र आत्वाभावस्थले भिस उदात्तत्वं न भवति । किन्तु मध्योदात्तत्वमेव, 'झल्युपोत्तमः' इत्यस्य प्रवृत्तेः । षट्चतुभ्यो या झलादिविभक्तिः तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात् तर्हि अष्टभिरिति हस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात् , व्यावाभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावय॑स्य सत्त्वात् दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दात् जाशसोरौश् । शित्त्वात् सर्वादेशः । अष्ठाभ्य इति निर्देशात् नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति । 'अष्टाभ्य औश्' इत्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः। अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्सज्ञकशब्दसन्निपातमुपजीव्य प्रवृत्तस्य नुटः तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यम् , नहि षट्सन्निपातेन जातस्य नुटः आत्वेऽपि तद्विघातकत्वम् कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात् 'शमामष्टानां दीर्घः श्यनि' इत्यादिनिर्देशेन अत्र सन्निपातपरिभाषायाः अनित्यत्वाश्रयणाच्चेति भावः । आत्वाभावे इति । 'अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपि 'अष्टनो दीर्घात्' इति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्प ज्ञापयितुं शक्नोति नतु जसि । तथापि ज्ञापकस्य सामान्यापेक्षत्वान्जस्यप्यात्वविकल्प इति भावः ।
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२५8
-
प्रियाष्ट्नः। इह पूर्वस्मादपि विधावरलोपस्थानिवद्भावान टुत्वम् । कार्यकापक्षे बहिरणस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्ट्ना इत्यादि । जश्शसोरनुमीयमान
प्रियाः अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्यनिघ्नः एकद्विबहुवचनान्तः । तत्र विशेषमाह-गौणत्वे विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाभावे इति । 'अष्टनो दोर्घात्' इति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति । प्रायेणेति शेषः। प्रियाष्टा। प्रियाष्टानौ। प्रियाष्टानः। प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्टनः इति । 'अल्लोपोऽनः इत्यकारलोपः। ननु कृते अल्लोपे नकारस्य
स्पेन णत्वं कुतो न स्यादित्यत आह-हेति । इहाल्लोपस्य स्थानिवद्रावान. ष्टुत्वमित्यन्वयः। अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति भावः। ननु स्थानिनि सति यत्कार्य तदेवादेशेऽतिदिश्यते । स्थानिनि सति यत्कार्ये बस्वति तदादेशे न भवति इत्येवं कार्याभावस्तु नातिविश्यते । अन्यथा नायक इत्यादी आयाघभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिनत्वात् न ष्टुत्वमित्यनुपपन्नम्। 'अचः परस्मिन्' इति सूत्रं तु यधपि स्थानिनि सति यत्कार्य न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्यातिदेशकम् । तथापि न तस्थात्र प्रवृत्तिरस्ति। स्थानिभूतादचः पूर्वस्यैव विधौ तत्प्रवृत्तेः। इह च स्थानिभूताचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह-पूर्वस्मादपि विधाविति। स्थानिभूतादचः पूर्वस्मात् परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नच 'पूर्वत्रासिद्धोये न स्थानिवत्' इति निषेधः शल्यः । 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इति तन्निषेधात् । 'अट्कुप्वाक्' इति णत्वं तु न शवयम् , टकारेण व्यवधानात् । शब्दकौस्तुभे तावत् 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वित्युक्तम् । तद्रीत्याप्याह-बहिरङ्गस्यालोपस्यासिद्धत्वाद्वति । अल्लोपः अङ्गसज्ञामसंज्ञापेक्षत्वाबहिरङ्गः। ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याल्लोपल्यासिद्धत्वादकारव्यवहितत्वात् नष्टुत्वमित्यर्थः ।।
ननु यथोदेशपक्षे 'असिद्धं बहिरङ्गम्' इति पाष्टी परिभाषां प्रति ष्टुत्वस्यासि-- द्धतया अन्तरङ्गाभावेन परिभाषाया अप्रवृत्तः कथमिहाल्लोपस्यासिद्धत्वमित्यत आह-कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोदेशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः। अथ प्रियाष्टन्शब्दस्यात्वपमे विशेषमाह-जश्शसोरिति । 'अष्टाभ्य और इति जयशसोरौशादेशविधौ कृतात्वनिर्देशात्. ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति । न तूपसर्जनत्वेऽपि, 'अष्टाभ्य इति बहुवचन निर्देशात् । अन्यथा हाहा इति पञ्चम्यन्तवत् 'अष्ट औश्' इति निदिशेत् इति 'ष्णान्ता षट्' इति सूत्रे माष्ये
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग -
मारखं प्राधान्य एव । न तु गौणतायाम् । तेन प्रियानो हलादावेव वैकल्पिकमा - त्वम् । प्रियाष्टाः । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः । प्रियाष्टाभ्यः । प्रियाष्टासु । “प्रियाष्ट्नो राजवत्सर्वं हाहावच्चापरं हलि । " ॥ इति नान्ताः ॥ भष्भावः । जश्त्वचत्वॆ । भुत्-भुद्, बुधौ, बुधः
। बुधा | भुद्धयाम् । भुत्सु । स्पष्टम् । ततः किमित्यत आह- तेनेति । अष्टन्शब्दस्य गौणतायां जक्शसोर्विषये आत्वाभावेनेत्यर्थः । हलादावेवेति । 'अष्टन आ विभक्तौ' इत्यत्र अष्टन इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाभावादिति भावः । 'गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः' इत्यपि नात्र प्रवर्तते, तथा सति 'अष्टाभ्य औश्' इत्यत्र बहुवचनवैयर्थ्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरव्यात्वस्य पक्षेऽपि व्यावृत्ति
I
वा | औकादौ तु हलादित्वाभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टाः इति । सौ हलि 'अष्ट आविभक्तौ' इत्यात्वे रुत्वविसर्गो इति भावः । 'षड्भ्यो लुक्' इति 'षट्चतुर्भ्यः' इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि । हलादिषु पक्षे आत्वमिति स्थितम् ।
I
1
तदेतत्सङ्गृह्णाति । प्रियाष्टनो राजवदिति । प्रियाष्टन् शब्दस्याजादिषु विभक्तिषु राजचदेव सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि । प्रियाष्टाः । प्रियाष्टा- प्रियाष्टानौ । प्रियाष्टानः । प्रियाष्टानम् प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्ना । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टाभिः प्रियाष्टभिः । प्रियाष्ट्ने । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टाभ्यः- प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्टाभ्याम् - प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाप्रियाष्ट्नाम् । प्रियाष्ट्न प्रियाष्टनि प्रियाट्नोः प्रियाष्टासु-प्रियाष्टसु । वस्तुतस्तु ष्णान्ता षट्' इति सूत्रे भाष्ये 'अष्टन आ विभक्तौ' इत्यत्र हलीत्यपकर्ष मुक्त्वा प्रियाष्टा प्रियाष्टाः इति न सिध्यति, प्रियाष्टानौ प्रियाष्टान इत्येव प्राप्नोति इति शङ्किते 'यथालक्षणमप्रयुक्ते' इति समाहितम् । 'नैव वा लक्षणमप्रयुक्ते प्रवर्तते । प्रयुक्तानामेवान्वाख्यानात्' इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एव 'अष्टाम्य औश' इति सूत्रे भाष्ये 'अष्टन आत्वं इह वैकल्पिकम् । यदयमात्वभूतस्य ग्रहणं करोति अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्रूयात' इत्युक्तम् । प्रियाष्टन्दा- उदस्य लोके प्रयोगसत्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात् तदसङ्गतिः स्पष्टैव । तस्मात् प्रियष्टान्शब्दप्रयोगविचारः सर्वोऽपि अभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः ।
- अथ धकारान्ता निरूप्यन्ते । 'बुध अवगमने' कर्तरि क्विप् । बुध् इति धकारान्तः -शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह - सम्भाव इति । हल्ड्यादिना सुलोपे सति
1
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
इति घान्ताः ॥ ( ३७३ ) ऋत्विग्दधृक्ाग्दिगुष्णिगडचुयुजिकुञ्चां च ३५६ || एभ्यः क्किन् स्यात् । अलाक्षणिकमपि किञ्चित्कार्यं निपातनालभ्यते निरुपपदायुजेः किन् । कनावितौ ( ३७४ ) कृदतिङ ३|१|१३|| सन्निहिते धात्वधिकारे तिभिन्नः प्रत्ययः कृत्संज्ञः स्यात् । ( ३७५ ) वेरपृक्तस्य ६ |१| ६७ || अपृक्तस्य वस्य लोपः स्यात् । ' कृत्तद्धित - ' ( सू १७९ ) इति प्रातिप प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा पदान्तत्वाद्वा 'एकाचो बशः' इति बकारस्य भष भकार इत्यर्थः । जश्श्वचर्खे इति । वाऽवसाने इति चर्त्वविकल्प इति भावः । स्यामादौ 'स्वादिषु' इति पदत्वात् भष् जश्त्वम्, भुद्धयाम् । भुद्भिः भुभ्यः । भुत्सु । इति धान्ताः ।
1
1
थकारान्ता निरूप्यन्ते । अथ युज्शब्दस्य व्युत्पत्ति दर्शयितुमाह — ऋत्विग्दधृक् । धातोरित्यधिकृतं । 'स्पृशोऽनुदके क्विन' इत्यतः क्विन्नित्यनुवर्तते । पञ्चम्यर्थे षष्ठी । तदाह-एभ्यः इति । ऋतौ उपपदे यज्धातोः, धृष्धातोः सृज्धातोः, दिधातोः, ष्णिहधातोः, अम्चु धातोः, युज्धातोः कुञ्च धातोश्चेत्यर्थः । ननु ऋत्विक्, दष्टक् इत्यादौ कुत्वद्वित्वादि कुत इत्यत आह- श्रलाक्षणिकमपीति । लक्षणानि सूत्राणि तद्विहितं कार्यं लाक्षणिकम् । सूत्रतः प्रत्यक्षानुपदिष्टमपि कार्यं निपातनात् सिद्धरूपनिर्देशात् लभ्यत इत्यर्थः । तत्र ऋतावुपपदे : यजेः किन् । तस्य कित्त्वात् 'वचिस्वपियजादोनाम्' इति सम्प्रसारणं 'वश्व' इति षत्वापवादः कुत्वं च । धृषेः क्विनि द्वित्वमन्तोदात्तत्वं च । सृजेः कर्मणि क्विन् अमागमश्च । दिशेः कर्मणि क्विन् । उत्पूर्वात् स्निः किन्, उदो दलोपः षत्वं च । अञ्चेः सुप्युपपदे क्विन् । युजेः केवलात् किन् । कुचेः क्विन् नलोपाभावश्च निपात्यते । यद्यपि अञ्चेः केवलस्यैवोपादानम् तथाप्युष्णिक्शब्द साहचर्यात् सोपपदस्यैवान्वेर्ग्रहणमित्याहुः । निरुपपदादिति । विनू विधिफलं हि नुमो नस्य कुत्वमेव । नुम् च असमासे एव वक्ष्यते । समासे तु सुयुगित्यादौ जस्य 'चोः कुः' इति कुत्वेनैव सिद्धतया किनि क्विपि च विशेषाभावादिति भावः । कनाविताविति । लशक्कतद्धिते इति हलन्त्यमिति च सूत्राभ्यामिति शेषः । वकारादिकारस्तु उच्चारणार्थः । अथ किन्नन्तस्य 'कृत्तद्धित' इति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति- कृदतिङ । धातोरित्यधिकृतम् प्रत्यय इति च । धातोरिति विहि तविशेषणम् । धातोः विहितः प्रत्यय इति लभ्यते । धातोरित्यधिकृत्य विहित इति यावत् । तदाह- सन्निहिते धात्वधिकारे इति । तेन णिजादिनिरासः । युज् व् इति स्थिते । वेरपृक्तस्य । 'लोपो व्योः' इत्यतः लोप इत्यनुवर्तते । उत्सृष्टानुबन्धाः सर्वे किबादयो वेरित्यनेन गृह्यन्ते । इकार उच्चारणार्थः, अपृक्तग्रहणात् । तदाह- अपृक्तस्य वस्येति । अवृक्तस्येति किम् । जागृविः । क्विनः कृत्संज्ञायाः प्रयोजनमाह - कृत्तद्धितेति
For Private and Personal Use Only
२६१
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
सिद्धोन्तकौमुदी
[ हलन्तपुंलिश
दिकत्वारस्वादयः । ( ३७६ ) युजेरसमासे ७१७॥ युजेः सर्वनामस्थाने नुम्स्यादसमासे । सुलोपः संयोगान्तलोपः । (३७७) किम्प्रत्ययस्य कुः । २२६२॥ किन् प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेना. मुनासिको कारः । यु । “नश्चापदान्तस्य- ( सू १२३ ) इति नुमोऽनुस्वारः परसवर्ण: । तस्यासिद्धत्वात् 'चोः : (सू ३७८) इति कुत्वं न । युजौ । युजः । युजम् । युजी.। युजः । युजा । युग्भ्याम् इत्यादि । 'असमासे किम् । (३७८) चो कुः ८।२।३०॥ चवर्गस्य कवर्गः स्यात् झलि पदान्ते च । इति कुत्वम् । युजरसमासे । उगिदचामित्यतः सर्वनामस्थान इत्यनुवर्तते । 'इदितो नुम् धातो' इत्यतो नुमिति च । तदाह-नुम्स्यादित्यादिना । युन् ज् इति स्थिते प्रक्रियां दर्शयतिसुलोपः इति । परत्वात्पूर्व नुमि ततो हल्ड्यादिलोप इति भावः । संयोगान्तलोप इति । जकारस्येति शेषः। - किन्प्रत्ययस्य कुः ॥ पदस्य इत्यधिकृतम् । 'अलाजशोऽन्ते' इत्यतः अन्त इत्यनुव. तते । किन् प्रत्ययो यस्मात् सः विन्प्रत्ययः तस्येति बहुव्रीहिः। किन्नन्तस्येति तु नार्थः। तथासति किनः कुरित्येव यात्, प्रत्ययग्रहणपरिभाषया किन्नन्तस्येत्यर्थलाभात् । तदाह-क्विन्प्रत्ययो यस्मादित्यादिना। बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दनिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्यते, उदित्त्वात् । अणुदित्सूत्रे अप्रत्यय इत्येतत् अणैव सम्बध्यते । नतु उदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधीयमानोऽपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङाः पञ्चापि पर्यायेण प्राप्नुयुः। स्थानत आन्तर्यस्य पञ्चस्वप्यभावात् स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह-नस्येति । नासिकास्थानत आन्तर्यादिति भावः। युङिति। युजिर् योगे। रुधादिः । युनक्तीति युझ्। नुमि कृते तदीयनकारस्य 'चोः कुः इति कुत्वं न प्राप्नोतीति क्विन्प्रत्ययस्येत्यारम्भः । अथ औजसादिषु विशेषमाह-नश्चेति । नुमः इति । 'युजेरसमासे' इति विहितस्येति शेषः। परसवर्ण इति । 'अनुस्वारस्य ययि' इति पर. सवर्णो जकारः नासिकास्थानत आन्तर्यादिति भावः। तेन युक्षावित्यादि सिद्धम् । नन्विह अकारस्य झलि जकारे परे 'चोः कुः' इति कुत्वं कुतो न स्यादित्यत आहतस्येति । परसवर्णस्येत्यर्थः। युग्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः। युक्षु।
असमास इत्यस्य व्यावत्यं सुयुज्शब्दं कथयिष्यन् तत्र विशेषमाह-चोः कुः । 'झलो झलि' इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् । 'स्कोः संयोगाद्योइत्यतोऽन्ते इत्यनुवर्तते । तदाह-चवर्गस्येति । ननु 'चोः' इत्यत्र उकारस्य उपदेशाभावात
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६३
किन्प्रत्ययस्य- --> ( सू ३७७ ) इति कुत्वस्यासिद्धत्वात् । सुत्रुक् । सुयुग् । सुयुजौ सुयुज: । 'युजेः' इति धातुपाठपठितेकार विशिष्टस्यानुकरणम्, न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । 'युज समाधी' देवादिक आत्मनेपदी । संयोगान्तलोपः । खन् । खब्जौ । खन्जः इत्यादि । 'श्च' ( सू २९४ ) इति षत्वम्, जश्त्वचवें, राट् - राड् । राजौ । राजः । रात्सु । राट्सु । एवं विभ्राट् ।
इस्वाभावेन उदित्वाभावात् कथमिह सवर्णग्रहणमिति चेत्, न । चोः इत्युकारान्तग्रहणसामर्थ्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात् । अन्यथा 'चः कुः' इत्येव ब्रूयात् इति । कुश्वमिति । सुयुशब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादात्पप्राणसाम्यात् यथासङ्ख्यसूत्राच्चेति भावः । नन्विह 'किन्प्रत्ययस्य' इत्येव कुत्वं कुतो न स्यात् । यद्यपि सुपूर्वायुजे । 'सत्सूद्विष' इत्यादिना डिपि उपपदसमासे सुयुज्शब्दः न निम्तोऽयम् । निरुपपदायुजेः चिनिनि अनुपदमेवोक्तत्वात् । तथापि किन् प्रत्ययो यस्मात् इति बहुव्रीह्माश्रयणात् सम्प्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आहक्किन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति । तथा चात्र 'चोः कुः' इत्येव न्याय्यमिति भावः । सुयुक् - सुयुगिति । 'वावसाने' इति चर्त्वविकल्पः । ननु युक् इत्यपि रूपमिष्टं कथं सिध्येत् । किनि नुमि युङित्येवापत्तेः । नच 'ऋत्विक्' इत्यादिसूत्रे 'युजेरसमासे' इति सूत्रे च जीति इकारविशिष्टस्यैव निर्देशात् 'युज समाधौ ' इति दैवादिकस्य अकारातस्याग्रहणात् ततः 'क्विप् च' इति क्विपि नुमभावे कुत्वे युक् इति सिध्यतीति चाच्यम्, 'straपौ धातुनिर्देशे' इति इक्प्रत्ययान्तत्वस्य उभयत्रापि सम्भवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह - थुजेरिति । 'युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे 'युजिर योगे' इति इकारविशिष्टः यः पठितः तस्यैव रेफाशिरस्कतया ग्रहणम्, नत्विका निर्देशः, व्याख्यानादित्यर्थः । ततः किमित्यत आह—तेनेति ॥ 'खजि गतिवैक्लव्ये । क्विप्, इदित्त्वान्नुम् । 'नश्चापदान्तस्य' इत्यनुस्वारः, परसवर्णो अकारः । खज्जुशब्दः । तस्य विशेषमाह-संयोगातेति । हल्डयादिना सुलोपे जकारस्य संयोगान्तलोपः । ततो निमित्तापायात् अनुस्वार परसवर्णयोनिवृत्तिः । खन् इति रूपमित्यर्थः । 'अनिदिताम्' इति नलोपस्तु न इदित्वात् । 'राजु दीप्तौ' इत्यस्मात् क्विपि राजशब्दः । तस्य विशेषमाह - त्रश्चेति । हल्डयादिना सुलोपे 'वश्व' इति षत्वम् । जश्त्वेन डकारः । 'वावसाने' इति चर्त्वविकल्पः ।
11
मादौ 'स्वादिषु' इति पदत्वात् षत्वं जगत्वं च । राभ्यामित्यादि । 'डः सि घुट्’ इति विकल्पं मत्वाह-राट्त्सु - रास्त्रिति । एवं विभ्राडिति । राज्शब्दवत् षत्वादीत्यर्थः । 'टु भ्राज दीखौ' क्विप् । विशिष्य आजत इति विभ्राट् । देवान् यजतीति देवेट्
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंलिश
देवेट । देवेजो। देवेषः । विश्वसृट् । विश्वसृड्। विश्वसृजौ । विश्वसृजः । इह सृजिय. ज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसासाहचर्यात् 'टु भ्राज़ दीप्तौ इति फणादिरेव गृह्यते । यस्तु 'एज ब्रेज़ भ्राज दीप्तौ' इति तस्य कुत्वमेव । विभ्राक्-विभ्राग । विधाग्भ्याम् इत्यादि । 'परौः बजेः षः पदान्ते ( उ० २१७ ) परावुपपदे व्रजेः विप्स्याहोघश्च पदान्तविषये षत्वं च । परित्यज्य सर्व व्रजतीति परिव्राट् । परिव्राजौ । परिव्रामः । (३७६) विश्वस्य धसुराटोः ६॥३॥१२॥ विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राशब्दे च परे । विश्वं वसु यस्य स विश्वा. वमुः। राडिति पदान्तोपलक्षणार्थम् । चर्वमविवक्षितम् । विश्वाराट् । विश्वाराड् ।
देवान् यजतीति विग्रहे क्विपि यजादित्वात् 'वचिस्वपि' इति सम्प्रसारणम् । आद्गुणः ॥ विश्वसडिति । 'सृज विसर्गे' क्विपि 'वश्च' इति षत्वादि। ननु क्विबन्तेऽपि देवेशब्दे विश्वसृज्शब्दे च क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात्विक्शब्दवत् कुस्वं कुतो न स्यादित्यत आह-रहेति । 'मृजिशोः' इति सूत्रे काम्यसूत्रे च विश्वसड्भ्यामिति उपयटकाम्यतीति च भाष्यप्रयोगात् 'क्विन्प्रत्यय' इति कुत्वं नेत्यर्थः। परिमृडिति । 'मृजू शुद्धौः विप्। 'क्किति च' इति निषेधात् 'मृजेर्वृद्धिः' इति न भवति । 'नश्च' इति षत्वम् । परिमार्टीति परिमृट् । अथ विभ्रागिति कुत्वं साधयितु. माह-षत्वविधाविति। वश्चादिसूत्रे इत्यर्थः। अथ परिवाशब्दं व्युत्पादयति-परौ व्रजेः।
औणादिकसूत्रमेतत् । 'क्विचिप्रच्छि' इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानु. वर्तते । पदान्त इति ष इत्यनेनैव सम्बध्यते । नतु क्विब्दीर्घाभ्यामपि व्याख्यानात् । तदाह-परावुपपदे इत्यादिना। षत्वं चेति । 'चोः कुः' इत्यास्यापवाद इति भावः । विश्वस्मिन् राजते इत्यर्थे 'सत्सूद्विष' इत्यादिना क्विपि उपपपदसमासे विश्वरा. ज्शब्दः । तस्य विशेषमाह-विश्वस्य वसुराटोः। 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह-विश्वशब्दस्येति । विश्वं वस्विति। 'वसुप्रै हेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणौ।' इति कोशः। विश्वावसुरित्युदाहरणं प्रासङ्गिकम् । 'आदित्यविश्ववसवः' इत्यमरप्रयोगे तु न दीर्घः 'नरे संज्ञायाम्' इत्यत संज्ञाग्रहणापकर्षात् । ननु राट्शब्दस्य कृतचत्वंस्य निर्देशात् जश्त्वे सति दीर्घो न स्यादित्यत आह-राडिति । अविवक्षितमिति । व्याख्यानादिति भावः। विश्वाराट्-विश्वाराडिति । '' इति पत्वम् , जश्त्वचत्वे, चवनिर्देशस्य पदान्तोपलक्षणत्वाज्जवत्वपक्षेऽपि दीर्घः । यपि त्रैपादिकं 'बश्व इति षत्वं 'चोः कुः' इति कुत्वात्परम् । तथापि चवर्गा. स्तमवादिविषये षत्वमपवादत्वान्नासिद्धम्-'अपवादो वचनप्रामाण्यात्' इति ।
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२६५
विश्वराजो । विश्वरामः । विश्वाराड्भ्याम् इत्यादि । (३०)स्को संयोगाघोरत च ॥२॥२९॥ पदान्ते झलि च परे यः संयोगस्तदायोः सकारककारयोलोपः स्यात् । भृट-भृड् । सस्य श्चुत्वेन शः। तस्य जश्त्वेन जः । मृज्जौ । मृज्जः । 'ऋत्विग- (सू ३७३ ) इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विान्तस्वात्कृत्वम् ।
विश्वराजाविति । अपदान्तत्वान्न दीर्घ इति भावः । भ्रस्ज पाके' क्विप् । 'अहिज्या इति सम्प्रसारणम् रेफस्य ऋकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । भूल्नशब्दः । ततः सुबुल्पत्तिः। तत्र विशेषमाह-स्कोः संयोग। पदस्येत्यधिकृतम् । चकारात् 'मलो क्षलि इत्यतो सलीत्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन सम्बध्यते । संयोगेति लुसषष्ठीक पृथक्पदम् । स च क च स्को, तयोरिति वि. ग्रहः । 'संयोगान्तस्य लोपः इत्यतो लोप इत्यनुवर्तते । तदाह-पदान्त इत्यादिना । अत्र काशक स्थातेत्यत्र मल्परसंयोगादित्वात् ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वा. तिक पठितम्-झलीत्यपहाय 'समीति वक्तव्यमिति । सनः सकारमारभ्य आमहिङो
कारेण प्रत्याहारः । तदिदं वार्तिकं भाष्ये प्रत्याख्यातम्-'काष्ठशगेव नास्ति कुतः काष्ठशक् स्थाता' इति । ककारान्तेभ्यो नास्ति क्विप, अनभिधानादित्याशयः । न च पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तये 'सङि' इति वार्तिकमावश्यकमिति वाच्यम्, तत्प्रत्याख्यानपरभाष्यप्रामाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणा. नामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम्।
भृट-भृडिति । भूस्ज् स् इति स्थिते हल्ख्यादिलोपे 'स्कोः' इति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचत्वे इति भावः। यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्य 'वश्व' इति पत्वे जश्त्वचर्वयोः भृट्-भृड् इति सिध्यति । तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज़ औ इत्यादावचि पदान्तझल्पर संयोगादित्वाभावान्न संयोगादिलोपः । 'झलां जश झशि' इति जश्त्व. स्यासिद्धत्वात् सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात् शकारस्य जकारः। नच जश्त्वस्यासिद्धत्वात् शकारस्य व्रश्चेति षत्वं शवयम् , षत्वं प्रति श्चुत्वस्यासिद्धत्वात् । भ्यामादौ तु 'स्वादिषु' इति पदत्वात् संयोगादिलोपः। प्रश्चेति षत्वं जश्त्वं च । भृभ्यामित्यादि । ऋविगित्यादिनेति । ' गतौ' औणादिकस्तुः। ऋतुः गमन प्राप्तिः दक्षिणाद्रव्यलाभो विवक्षितः। तस्मिन्निमित्ते यजन्ति यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजजातोः क्विन् 'वचिस्वपि' इति कारस्य सम्प्रसारणमिकारः। पूर्वरूपम् । यणादेशश्च । ऋत्विज् इति रूपम् । ततः सोहल्ल्यादिलोपः। एतावत् सिद्धवत्कृत्याह-किन्नन्तत्वात्कुत्वमिति । विन्प्रत्यय
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
- सिद्धान्तकौमुदी
[हलन्तपुंल्लिा
aaaaaaaaaaaaaaaaaaaaam
ऋविक्-ऋत्विग् ऋत्विजो ऋत्विजः । रासस्य (सू २८०) इति नियमान्न संयोगान्तलोपः। ऊर्क। ऊर्ग। ऊौं । ऊर्जः। ॥ इति बान्ताः ॥ स्यदायरवं पररूपत्वं च। (३६१) तदोः सः सावनन्त्ययोः २२१०६॥ त्यदादीना तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे। स्यः त्यो त्ये । त्यम्। त्यो। त्यान् । सः। तौ। ते। परमसः । परमती । परमते । द्विपर्यन्तानामित्येव । नेह । स्वम् । न च तकारोच्चारणसामर्थ्यान्नेति वाच्यम् । अतिस्वमिति गौणे चरितार्थत्वात्।
स्येत्यनेनेति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि 'चो कुर इति कुत्वेनैवैतत्सिध्यतीति वाच्यम् । “चो कु: "इति कुत्वं हि 'प्रश्च' इति षत्वेन अपवादत्वात् बाध्येत्। क्विन्प्रत्ययस्येति कुत्वं तु क्विन्विधिसामर्थ्यादेव न बाध्यते । यष्टेत्यादौ पविधेश्चरितार्थत्वादिति भावः । ऊर्क-ऊर्ग इति । 'उर्ज बलप्राणनयो। चुरादिण्यन्तात् 'भ्राजभास' इत्यादिना क्विप् , णिलोपः । ऊर्ज इति रूपम् । ततः सोहल्ड्यादिलोपः । 'योः कः' इति जस्य कुत्वं गकारः । 'वावसाने' इति चत्ववि. कल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्व शक्यम्, पदान्तविधौ तन्निषे. धात् , 'पूर्वत्रासिद्धीये न स्थानिवत्' इति वचनाच । इति जान्ताः। ___ अथ दकारान्ता निरूप्यन्ते । त्यशब्दस्तशब्दपर्यायः। तस्य विशेषमाह-त्यदायत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां 'त्यदादीनाम्' इति दकारस्यान्त्यस्य अकार: 'अतो गुणे' इति पररूपं चेत्यर्थः । ततश्च अदन्तवद्रूपाणीति भावः । त्य स् इति स्थि. ते। तदोः सः सावनन्स्ययोः। त्यदादीनामिति । 'त्यदादीनामः' इत्यतस्तदमुवृत्तरिति भावः। तकारदकारयोरिति । सूत्रे तश्च चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेनं सत्वमिति भावः । त्ये इति । सर्वनामत्वत् जसः शीभाव इति भावः । स्मायादीनामप्युपलक्षणमिदम् । त्यम् त्यौत्यान्। त्येन त्याभ्याम् त्यैः। त्यस्मै त्याभ्याम् त्येभ्यः । त्यस्मात् । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्येषु। एवं तदशब्दः । परमसः इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वा. त्तस्यापि प्रथमैकवचने त्वमित्यत्र 'तदोः सः सौ' इति सत्वं कुतो न स्यादित्यत आहद्विपर्यन्तेति । 'त्यदादीनामः' इत्यत्र पठितं 'द्विपर्यन्तानामेवेष्यते इति वार्तिकं तदोः सः सौ इत्यत्राप्यनुवर्तते एवेत्यर्थः ततः किमित्यत आह-नेहेति । इहशब्दविवक्षितमाहस्वमिति । युष्मच्छब्दस्य द्विशब्दादुपयेव सर्वादिगणे पागदिति भावः । ननु त्वाही सौ हति तकारोच्चारणसामदेिव त्वमित्यत्र सत्वं न भवति। अन्यथा स्वाहो सौ इत्येवाया। अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशय निराकरोति-न चेति ।
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् त्यदौ त्यदः । अतित्यद् अतित्यदो अतिस्यदः । यः यौ ये । एषः एतौ एते । अन्वादेशे तु एनम् एनौ एनान् । एनेन एनयो: । एनयो: । ( ३८२ ) के प्रथमयोरम् ७ १२ ॥ युष्मदस्मद्भयां परस्य के इत्येतस्य प्रथमाद्वितीय योश्चामादेशः स्यात् । ( ३८३) मपर्यन्तस्य ७२।६१ ॥ इत्यधिकृत्य । ( ३८४ ) वाहौ सौ |9|२||४|| युष्मदस्मदोपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे । ( ३८५ ) शेषे लोपः
२६७
"
तावारणसामर्थ्यादिह सत्वं नेति न वाच्यमित्यन्वयः । श्रतित्वमिति । द्विपर्यन्तानामित्यनुवृत्तौ त्वमित्यत्रापि सत्वं स्यात् । न च 'स्वाहौ सौ' इति तकारोंच्चारणानर्थक्यम् त्वामतिक्रान्तः अतित्वमिति गौणे युष्मच्छन्दस्य त्वादेशे त्वाद्दाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सस्वप्रवृत्तेर्दुर्वारत्वात् स्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वान्तर्गणकार्यत्वेन गौणे तस्याप्रवृत्तेः । अत एवाह - संज्ञायामिति । त्यदिति । कस्य चिन्नामेदम् । प्रतिस्यदिति । त्यमतिक्रान्त इति विग्रहः । यः इति । यशब्दस्य त्यदात्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराभावान्न सत्वम् । एषः इति । एतद् शब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । श्रन्वादेशे त्विति । 'द्वितीया टौरस्येनः' इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भावः ।
1
I
अथ युष्मदस्मद् शब्दयोः प्रक्रियां दर्शयति -ङ प्रथमयोरम् । 'युष्मदस्मद्भ्यां ड सोऽश्' इत्यतो युष्मदस्मद्भ्यामित्यनुवर्तते । परशब्दोऽध्याहर्तव्यः । इति लुप्तषठीकं पृथक्पदम् । प्रथमयोरिति प्रथमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यम् । तदाह - युष्मदस्मद्भ्यामित्यादिना । सोरमादेशे कृते 'न विभक्तौ' इति मस्य नेत्त्वम् । युष्मद् अम्, अस्मद् अम् इति स्थितम् । श्रधिकृत्येति । कार्याणि वक्ष्यन्त इति शेषः । स्वाहौ सौ | त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह - युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यत्र 'त्वमावेकवचने' इत्येव युष्मदशब्दस्य त्वादेशः सिद्धः । तथापि युष्मानतिक्रान्तः अतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधा - नम् । नहि तत्र 'त्वमावेकवचने' इत्यस्य प्रवृत्तिरस्ति, अत्र युष्मदशब्दस्य बहुत्ववि - शिष्टे वृत्तेः । एकनचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची नतु एकवचनसंज्ञकप्रत्य - यवाचीत्यनुपदमेव वक्ष्यते । शेषे लोपः । 'अष्टन आ विभक्तौ' इत्यतः विभक्तौ इत्यनुवर्तते । विभक्तावित्यनुवृत्तं शेष इत्यनेनान्वेति । युष्मदस्मदोरनादेशे' द्वितीयायां च, प्रथमायाश्च द्विवचने भाषायां योऽचि इत्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्त
I
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
७२।४०॥ आत्वयस्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । 'मतो गुणे ( सू १९१) । 'अमि पूर्वः। ( सू ९९४ ) स्वम् । अहम् । ननु 'स्वम् स्त्री 'अहम् स्त्री' इत्यत्र 'त्व अम्' 'अह अम्' इति स्थिते अमि पूर्वरूप परमपि बाधित्वान्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिले युष्मदस्मदी । तेन स्त्रीस्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया ।
विभक्तिरिह शेषशब्दार्थः युष्मदस्मदोरिति चानुवृत्तम् । तदाह-आस्वयत्वेति । अन्त्य स्येति । अलोऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसम्भवात् इति प्रकृतसूत्रे 'युष्मद. स्मद्भ्यां ङसोऽश्' इति सूत्रे च भाष्यकैयटयोः स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयोः पररूपमिति भावः । त्व अम् , अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कयाहअमि पूर्वः इति । ___ अत्र शङ्कते-नन्विति । 'ननु च स्याद्विरोधोक्तौ' इत्यमरः । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति । 'अजाद्यतः' इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम् । अर्धाङ्गीकारेण परिहरति-सत्यमिति । पररूपादन्तरङ्गष्टाबित्यङ्गीक्रियते। इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः । अलिङ्गे युष्मदस्मदी इति । 'साम आकम्' इति सूत्रे भाष्ये पठितमेतत् । युष्मदस्मदी इति शब्दस्वरूपपरत्वान्नपुंसके। शब्दस्वरूपपरत्वादेव च 'त्यदादीनि सबैनित्यम्' इत्येकशेषोऽपि न, अत एव भाष्यप्रयोगात् । तेनेति । अलिङ्गत्वेनेत्यर्थः। ननु 'डे प्रथमयोः' इति सूत्रे भाष्ये पुंसि युष्मानस्मा. नित्यत्र 'तस्माच्छसो न पुंसि' इति नत्वस्य सिद्धत्वात् 'शसो न' इति नत्वविधिवैयर्थ्यमाशङ्कय स्त्रियां नपुंसके च युष्मान् ब्राह्मणीः पश्य, अस्मान् ब्राह्मणीः पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य इत्यत्र नत्वार्थे 'शसो ना इति नत्वविधानमित्यादि स्थितम् । किंच स्वमोनपुंसकादित्यधिकारे 'नेतराच्छन्दसि' इति सूत्रे 'नपुंसकादेशेभ्यो युष्मदस्मदोविभक्त्यादेशा विप्रतिषेधेन' इति वातिकतभाष्ययोः शिशीलुडनुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेधः उपन्यस्तः । अतः युष्मदस्मदोरलिङ्गत्वमनुपपन्नम् । 'साम आकम्' इति सूत्रे 'म. लिङ्गे युष्मदस्मदी' इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लि. अविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवम्परम् इति तत्रैव भाष्ये स्पष्टम् । एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्वात् टाप दुर्वार इत्यस्वरसादाह-यद्वेति । अधिकरणत्वविवक्षयेति । 'विवक्षातः कारकाणि भवन्ति' इति वक्ष्यमाणत्वादिति भावः । यदि हि शेषे इति विभक्तिविशेषणं स्यात्, तर्हि व्यर्थमेव स्यात्, आस्वयत्वाभ्यां विशेषविहि
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
तेन मपर्यन्ताच्छषेस्य 'अद्' इत्यस्य लोपः । स च परोऽप्यन्तरङ्गे अतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अस्यहम् । (३८६ ) युवावो द्विवचने ७ | |२ || द्वयोरको युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ (३८७) प्रथमायाश्च द्विवचने भाषायाम् ||२८८ ॥ इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । युवाम् । आवाम् । 'ङि' इत्येव सुव
२६६
ताभ्यां स्वविषये लोपस्य बाधसम्भवात् । अतः शेषस्येत्यर्थ आस्थेयः । ततः किमित्यत आह-सेनेति । शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः । मपर्यन्तादिति । मपर्यन्तस्येत्य - पकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः । एतच्च 'त्यदादीनामः' इति सूत्रे 'टिलोपष्टावभावार्थ: कर्तव्य इति स स्मृतः । अथवा शेषसप्तम्या शेषे लोपो विधीयते ।' इति वार्तिकतद्भाष्ययोः स्पष्टम् । न च सपर्यन्तस्य त्व इति अह इति वादेशे कृते शिष्टस्य अद् इत्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यम् त्वाहादेशयोः कृतयोः अदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाभावेऽपि त्वाह्नादेशप्रवृत्तेः पूर्वका लिकमपर्यन्तशेषत्वमादाय तदुपपत्तेः । नन्वस्तु मपर्यन्ताच्छेषस्य अदुशब्दस्य लोपः । तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वात् टाप् दुर्वार इत्यत आह- - स चेति । शेषे लोप इत्यर्थः । अन्तरङ्गे इति । 'अतो गुणे' इत्यस्य वहिर्भूतविभक्त्यपेक्षलोपापेक्षया अन्तरङ्गत्वं बोध्यम् । श्रदन्तत्वाभावादिति · त्व अद्, अह अबू इत्यन्त्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व अह इत्यनयोरदन्तत्वाभावान्न टाबित्यर्थः । परमत्वमिति । 'हे प्रथमयोः' इत्यादीनामाङ्गत्वात् तदन्तविधिरिति भावः ।
1
4
श्रतित्वमिति । 'हे प्रथमयोः' इत्यादीनां गौणे अप्रवृत्तौ मानाभावादिति भावः । युष्मद् औ अस्मद् औ, इति स्थिते 'डे प्रथमयोः' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते - युवावो द्विवचने । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । उक्तिर्वचनम् । द्वयोः वचनं द्विवचनम् । तत्र समथंयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसञ्ज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामर्थ्यात् । अन्यथा द्वित्वे इत्येव श्रूयात् । 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परतः इत्यर्थलाभान् । तदाह - द्वयोरुक्तावित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभवियति । युव अद्, आव अद् इति स्थिते 'शेषे लोपः' इति प्राप्ते । प्रथमायाश्च द्विवचनैः भाषायाम् ॥ 'अष्टन आ विभक्तौ' इत्यतः आग्रहणमनुवर्तते । 'युष्मदस्मदोरनादेशे' । इत्यतो युष्मदस्मदोः इति च । तदाह- इहेति । भाषायां प्रथमाद्विवचने परे
1
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंल्लिम
चम् । भाषायाम् किम् । युवं वस्त्राणि । मपर्यन्तस्य (सू ३८३) किम् । साक.
कस्य मा भूत् । युवकाम् । आवकाम् । 'स्वया' 'मया' इत्यत्र 'ल्या' 'भ्या' इति मा भूत् । 'युवकाभ्याम्' 'आवकाभ्याम्' इति च न सिध्येत् । (३८)
इत्यर्थः । भाषायामित्यस्य तु लौकिकव्यवहारे इत्यर्थः । युवाम् आवामिति । युव अद् अम्, आव अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीचे 'अमि पूर्वः' इति भावः । औडीत्येव सुवचमिति। द्वितीयाद्विवचनेऽप्यात्वस्य इत्या. दिति भावः । युवं वस्त्राणीति । युष्मद् औ, इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । ___ मपर्यन्तस्य किमिति । युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवाम् आवामिति सिद्धेरिति प्रश्नः । साकच्कस्येति । 'अव्ययसर्वनाम्माम्' इति टेः प्रागकचि युष्मकदू औ, अस्मक औ इति स्थिते के प्रथमयोः' इत्यमि 'युवावौ द्विवचने' इति समस्तयोः साकच्कयोस्तन्मध्यपतितन्यायेन युवावादेशयो। 'प्रथमायाश्च' इति दकारस्य आत्वे अमि पूर्वे च युवाम् आवाम् इत्येव स्यात् । ककारो न शूयेत। अतो मपर्यन्तस्येति वचनमित्यर्थः । ननु समुदायादेशत्वेऽपि 'ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच , अन्यत्र सुबन्तस्य टेः प्राक , इति व्यवस्थाया वक्ष्यमाणत्वाधुवामावामिति परिनिष्ठितसुबन्तयोष्टेः प्रागकचि युवकाम् आवकामिति सिध्यत्येव । अत्र साकच्कयोयुवावादेशाप्रसक्तरित्यस्वरसा. दाह-त्वया सयेति । यदि मपर्यन्तस्येति न स्यात् तदा 'त्वमावेकवचने' इति त्वमा. देशौ समस्तयोः स्याताम् । ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व आ, म आ इति स्थिते 'योऽचि' इति अकारस्य पत्वे त्व्या म्या इति स्यात् । अतो 'मपर्यन्तस्य' इति वचनम् । सति तस्मिन् मप. यन्तस्य त्वमादेशयोः कृतयोः त्व अद् आ,म अद् आ इति स्थिते अकारयोः पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः । ननु 'योऽचि' इति सूत्रस्थाने 'अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः । तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्य अकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वरसादाह-युवकाभ्यामावकाभ्यामिति च न सिध्येदिति । असति मपर्यन्तवचने इति शेषः । ओकारसकार इत्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यामावाभ्यामित्येव स्यात् । ककारो न श्रूयेत । युष्मकद अस्मकदू इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तु. बुष्मदस्मदोरनादेशे इत्यात्वे युवकाभ्याम् आवकाभ्यामिति निबांधमित्यर्थः ।
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
quart जसि ७|२||३|| स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसःशी प्राप्तः 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' ( प ९३ ) इति न भवति । 'ङे प्रथमयोः-' ( सू ३८२ इत्यत्र मकारान्तरं प्रश्लिष्य 'अम् मान्त एवावशिष्यते, न तु विक्रियते' इति व्या
२७१
‘ङे प्रथमयोः' इति जसः अमि कृते विशेषमाह - यूयवयौ जसि । स्पष्टमिति । युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ स्तो जसि परतः इति सुगममित्यर्थः । यूय अबू अम्, वय अड् अम् इति स्थिते पररूपे 'शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह - यूयम् बयमिति । परमयूयमिति । यूयवयविधेराङ्गत्वात्तदतविधिरिति भावः । श्रतियूयमिति । गौणत्वेऽपि तदप्रवृत्तौ मानाभावादिति भावः । अत्र शोभावमाशय परिहरति- इहेति । इह 'शेषे लोपः' इत्यन्त्यलोप इति पक्षे दकारस्य लोपे सति अवर्णान्तात् सर्वनाम्नः परत्वात् जसः शीभावः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह- अङ्गकार्ये इति । अङ्गाधिकारविहिते कायें कृते सति पुनः अङ्गाधिकार विहितं कार्यं न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते 'अमि पूर्वः' इत्यस्य नानुपपत्तिः । ' ज्यादादीयसः' इति सूत्रे 'ज्ञाजनोर्जा' इति सूत्रे च 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषा स्थिता । सा चात्र अर्थतः उपनिबद्धा । नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते 'सुपि च' इति दीर्घो न स्यादिति वाच्यम् । 'इयोरेकस्येश्स्यादिनिर्देशेन तदमित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वादाङ्गः शीभावो न भवतीति भावः । ननु 'अङ्गकायें' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकार विहितत्वेऽपि अङ्गाधिकरणकत्वाभावात् 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषास्वारस्येन तथैव प्रतीतेः । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह - डे प्रथमयोरिति । 'हे प्रथमयोरम्' इत्यत्र अम् म् इति मकारान्तरं प्रश्लि ष्यते । अम् च म् चेति द्वन्द्वः । अन्त्यो मकारः संयोगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकारः अमो विशेषणम्, तदन्तविधिः । मकारान्तः अम् स्यादिति लभ्यते । मकाशन्तस्य अमः पुनर्मान्तत्वविधानात् अम् मान्त एव भवति । नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थः । वस्तुतस्तु मकारान्तरप्रश्लेषो भाष्ये अदर्शनादुपेक्ष्यः । सन्निपातपरिभाषयैवात्र शीभावो न भवति । दकारस्य शेष
।
हि त्वयत्वनिमितेतरात्मकशेषविभक्त्यात्मकस्य अमः युष्मदस्मदोश्च सन्निपातमाश्रित्य प्रवृत्तः । ततः शीभावे तु आद्गुणे यूये वये इति स्यात् । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसन्निपातभङ्गः । परादित्ये तु युष्मदस्मत्सन्निपातविरोध इत्यलम् ।
1
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंजि
ख्यानाद्वा । (३८६) त्वमावेकवचने ७।२189॥ एकस्योती युष्मदस्मदोर्मपयन्तस्य त्वमौ स्तो विभक्तो। (३६०) द्वितीयायां च ७IRI७॥ युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् । (३६१) शसो न७।१।२९॥ नेत्यविमक्तिकं पदम् । युष्मदस्मद्भया परस्य शसो नकारः स्यात् । अमोऽपवादः। 'मादेः परस्य' (सू ४४) । 'संयोगान्तस्य लोपः' (सू ५४)। युष्मान् । अस्मा
अथ द्वितीयैकवचनस्य अमः हे प्रथमयोः' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते-खमावेकवचने । 'युष्मदस्मदोरनादेशे इत्यतो युष्मदस्मदोरित्पनुवर्तते । 'मपर्यन्तस्या इत्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसाम.
र्थ्यात् । तदाह-एकस्येत्यादिना। त्व अदू अम् , म अदू अम् इति स्थिते । द्वितीयायां च । शेषपूरणेन सूत्रं व्याचष्टे-युष्मदस्मदोरिति । 'युष्मदस्मदोरनादेशे' इत्यतः तदनु. वृत्तेरिति भावः । श्राकार इति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । तथाच द्वितीयाविभक्तौ परतः युष्मदस्मदोराकारः स्यादिति फलति । 'अलोऽन्स्यस्य' इति दकारस्य भवति । त्व अ आ अम् , म अ आ अम् इति स्थिते पररूपे, सवर्ण। दीर्घ, अमि पूर्वरूपे च परिनिष्टित रूपमाह--त्वाम् मामिति । युवाम् आवामिति । पूर्ववत् 'द्वितीयायां च' इत्यात्वमिति विशेषः । 'प्रथमायाश्च' इत्यस्य अत्राप्रवृत्तेः। अथ शसि विशेषमाह-शसो न । ' प्रथमयोः' इत्यतः अमित्यनुवर्तते । युष्मदस्ममया. मिति च । युष्मदस्मद्यां परस्य :शसः अम् न स्यादिति लभ्यते । तथाच अमभावे 'द्वितीयायां च इत्यात्वे पूर्वसवर्णदीधै 'तस्माच्छसो नः पुंसि' इति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति । तथापि युष्मान् ब्राह्मणीः पश्य, अस्मान् ब्राह्मणीः पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इति स्त्रीनपुंसकयोनं सिध्येत् । अतो नेदं सूत्र शसः अनिषेधपरम् । किं तु शसा नकारोऽत्र विधीयते इत्यभिप्रेत्य, तर्हि शसो नः इति प्रथमा कुतो न भूयते इत्याशय आहनेत्यविभक्तिकं पदमिति । लुप्तप्रथमाविभक्तिकमित्यर्थः । ततश्च फलितमाह-युष्मदस्म.
यामित्यादिना । अमोऽपवादः इति । प्रथमयोः' इति प्राले एव नस्वविधेस्तदपवा. दता । युष्मद् अस् , अस्मद् अम् इति स्थिते 'द्वितीयायां च' इत्यात्वे अनेन शसो नकारः । स च 'अलोऽन्त्यस्य' इति नान्त्यस्येत्याह-श्रादेः परस्येति । संयोगान्तस्येति । अकारस्य नकारे कृते सकारस्य लोप इति भावः । यद्यपि शास: अमि कृतेऽपि अकार. स्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति । तथापि 'सत्यपि सम्भवे बाधनं भवति' इति न्यायान्नत्वस्य, अमपवादत्वमाश्रितम्। किंच अमि कृते
प्रथमयो' इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो नस्यादित्यलम् ।
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२७३
न् । (३६२) योऽचि । ७।२।६२॥ मनयोर्यकारादेशः स्यादनादेशेऽजादी पर. तः । त्वया । मया ।(३९३) युष्मदस्मदोरनादेशे ७RIअनयोराकारः स्यादनादेशे हलादौ विभको । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः । (28४) तुभ्यमह्यौ ङयि ॥२॥६५॥ अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो यि । अमादेशः 'शेषे लोपः' (सू ३८५)। तुभ्यम् । मह्यम् । परमतुभ्यम् । परममत्यम्। अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । भावाभ्याम् । (३९५) भ्यसो भ्यम् १॥३०॥ भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । प्रायः शेषे लोपस्यानस्य.
अथ तृतीया विभक्तिः । युष्मद् मा अस्मद् आ इति स्थिते । योऽचि। 'युष्मद स्मदोरमादेशे इत्यनुवर्तते । 'मन मा विभक्ती इत्थतः विमताविति चानुवर्तते । मचीति-विभक्तिविशेषणम् । तवादिविधिः । तदाह-अनयोरिति । युष्मदस्मदोरन्त्वस्येत्यर्थः । अचि किम् ? युवाभ्याम् । अनादेशे किम् ? स्वत्, मत् । 'पसम्या अत् इत्यवादेशे सति न यत्वम् । युष्मद् भा, मस्मद् आ इत्यत्र 'स्वमावेकवचने इति मपर्यन्तस्य त्वमादेशयोः दकारस्य यत्वे परस्पे च रूपमिति भावः। युष्मदस्मदोरना• देशे । 'अष्टन आ विभक्ती' इत्यतः आ इति विभक्काविति चानुवर्तते। 'रायो हलि' इत्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिः । तदाह-अनवोरिति । युष्मदस्मदोरन्स्यस्येत्यर्थः । वस्तुतस्तु हलोति नानुवर्तनीयम् , योचि' इत्यजादौ यत्व विधानेन परिशेषादेव तत्सिद्धः। युवाभ्याम् । भावाभ्यामिति । युष्मद् भ्याम् , अस्मद भ्याम् इति स्थिते, युवाबादेवायोः दकारस्य मात्वे सवर्णदीर्घ इति भावः । अत्र हली. त्यनुवृत्तौ 'योचि हत्यल्पाहणं मास्तु । हलादावात्वस्य विशेषावहितत्वादेव यत्व निवृत्तिसिद्धेरिति भाष्ये स्पष्टम् ॥ युष्माभिः। भस्माभिरिति । 'युध्मदस्मदोरनादेशे इत्या. त्वे सवर्णदीर्घ इति भावः।। .. अथ चतुर्थी विभक्तिः। युष्मद् ए, अस्मन् ए इति स्थिते 'त्वमावेकवचने' इति प्राप्ते । तुभ्यमझौ डयि । के इत्यस्य ससम्येकवचनं ड्योति । 'युष्मदस्मदोरनादेशे इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । श्रमादेश इति । 'हे प्रथमयोः इत्यनेनेति शेषः। शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । 'अमि पूर्वः इति मत्वाह-तुभ्यम् । मद्यमिति । परमतुभ्यमिति । तुभ्यमयविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे बदप्रवृत्तौ मानाभावादिति भावः । युवाभ्याम् । भावाभ्यामिति । तृतीयाद्विवचनवदिति सावः । भ्यसो भ्यम् । भ्यम् अभ्यमिति वा छेदः । तदाह--भ्यस इति । युष्मदस्मज्या परस्येति शेषः, 'युष्मदस्मनयां सोऽ' इत्यतस्तदनुवृत्तेः। ननु भ्यमादेशपये
पा० १८
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिमान्तकौमुदी
[ हलन्त(लित
जोपस्व एव । कामपरिभाषया एवं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युमभ्यम् । भस्मभ्यम् । (३६६) एकवचनस्य च ७१॥३२॥ नाम्पा पञ्चम्योकरकास्य यत् स्यात् । स्वत् । मत् । 'सेच' इति सुवचम् । युवाभ्याम् । भाषाभ्याम् । (१९७)पञ्चम्थात् ७१।३१॥ बाभ्यो पञ्चम्या भ्यसोऽत्स्यात् । सुपता भस्मत् । (३८) तबममौ उसि ॥२॥१६॥ अनयोमपर्यन्तस्य तवजयोस्तोगसि । (३६) युष्मदस्मद्गयां उसोऽश् १॥२७॥ सष्टम् । तब मम । युवयोः । आवयोः । (४००) साम माकम् ॥१॥३३॥ माम्बा यो लोपः' इत्यदो लोपे युष्मम्ममस्मभ्यमिति मकारादकारो न भूयेतेत्यत आहभाष इति । लक्ष्वानुरोधादिह अन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह-तत्राङ्गवृत्तेति । भावृत्त पुनर्वृत्तावविधिः इति परिभाषयेत्यर्थः । अझे वृत्तं वर्तनं यस्य तत् अनावृत्तं, तस्मिन् कायें प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः विधिर्नास्तीत्यथः । प्रकृते च शेषलोपे अङ्गकायें प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् स्विति । अभ्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाभावात्तस्मिन् परे एत्त्वं न । किन्तु परस्पे सति युष्मभ्यम् अस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वामावा. दपि एत्त्वं न।
अथ पञ्चमी विभक्तिः । एकवचनस्य च । 'युष्मदस्मद्यां सोऽ' इत्यतो युष्मदस्मझ्यामित्यनुवर्तते 'पञ्चम्या अत्' इति च। तदाह-आभ्यामिति । युष्मदस्मद्यामि. त्यर्थः । अनेकालत्वात् सर्वादेशः । 'न विभक्तौ इति तस्य नेत्त्वम् । स्वत् मत् इति । युष्मद् अस् , अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः उसेः अदादेशे सति पर. रूपे 'शेषे लोप' इति टिलोपः। अन्त्यलोपपक्षे दकारलोपे सति त्रयाणामकाराणां परस्पमिति भावः । सुवचमिति । लावादिति भावः । पञ्चम्या अत् । 'युष्मदस्मद्यां उसोऽश्' इत्यतो युष्मदस्मद्यामित्यनुवर्तते । भ्यसो भ्यम् इत्यतो 'भ्यस' इति । वदाह-आभ्यामिति । युष्मदस्मयामित्यर्थः । युष्मत् अस्मदिति। युष्मद् भ्यस् , अ. स्मद् भ्यस् , इति स्थिते म्पसः अदादेशः शेषलोपश्च । . अथ षष्ठी बिभक्तिः । तवममौ ङसि । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरि. स्वानुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । "स्वमायेकवचने' इत्यस्यापवादः । युष्मदस्मद्भयां सोऽश् । स्पष्टमिति । युष्मदस्मन्यां
समर स्वादिति सुगममित्यर्थः । शित्त्वात् सर्वादेशः । तव ममेति । युष्मद
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२७५
परस्य साम माकम् स्यात् । भाविनः सुटो निकृश्यर्थ ससुटकनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । भस्मासु ॥
__ समस्यमाने व्येकरववापिनी युष्मदस्मदी। . अस् , अस्मद् अस् , इति स्थिते मपर्यन्तस्य तवममादेशयोः कृतयोः अशादेशे दकारात् पूर्वयोरकारयोः पररूपे अदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः। युवयोः । श्रावयोरिति । युष्मद् ओस् , अस्मद् मोस् इति स्थिते मपर्यन्तस्य युवावादेशयोः “योऽचि' इति दस्य यत्वे पररूपमिति भावः। साम प्राकम् । पाण्यामिति । 'धुष्मदस्मद्रयां उसोऽश्' इत्यतस्तदनुवृत्तरिति भावः । साम इति । सकारेण सहित: आम् साम् तस्येत्यर्थः । ससुदकस्य माम इति यावत् । ननु युष्मद् आम् , अस्मद् आम् इति स्थिते अवर्णात् परत्वामाशत् सुटो न प्रसक्तिः । नच शेषे लोपः इति दस्य लोपे कृते अवर्गात् परत्वमस्तीति वाच्यम् । आकमादे. शाप्राक भनादेशतया शेषलोपल्यैवात्राप्रसके ससुदकनिर्देशोऽनुपपनः व्यर्थश्चेत्यत आह-माविनः इति । भविष्यत इत्यर्थः । यदि तु आम आकम् इत्येवोच्येत, तर्हि आमः आकमादेशे कृते दकारख्य शेषलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्सात् तस्य च अवर्णात्परत्वात् सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम् , अस्मेवाकमिति स्यात् । अतः ससुटकनिर्देशः । यद्यपि आकमादेशप्रवृत्तिकाले सुटो नप्रसक्तिः । तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट् भाविष्यति, तल्यापि स्थानषष्ठयाः स्वीकरणान्निवृत्तिर्भवति । अन्यथा ससुटकनिर्देशवप्रथादिति भावः । यदि तु शेषस्य लोप एवाश्रयीते, तदा कृतेऽप्याकमादेशे अदो लोपे अ. वर्णात् परत्वाभाबादेव सुद्धा प्रसक्त्यभावात् ससुटुकनिर्देशो मास्तु । युष्माकम्, अस्माकमिति । आकमादेशे कृते अदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोचारणम् । अन्यथा पररूपापत्तः । न चाकारोच्चारणसामर्थ्यादेव पररूपनिरास इति वाच्यम् , कमादेशे प्राप्ते 'बहुवचने झल्येत्' इत्येत्त्वनिवृत्त्या चरितार्थस्वादिस्यलम् ।
त्वयि मयीति। युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोः योऽचिः इति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः पाक्योरिति । प्राग्वत् । युष्मासु अस्मास्विति । 'युष्मदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ इति भावः ।। . 'त्वमावेकवचने हत्यत्र 'युवावौ द्विषवने' इत्यत्र च एकवचन द्विवचनशब्दौ यौ. मिको, मतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सब्गृह्णाति-समस्यमान इति । तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्वयेकत्ववाचिनी तदा समासार्थः अन्यसल्याचेदपि युवायौ त्वमावषि
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. सिद्धान्तकौमुदी
[ हलन्तपुंलित
समासार्थोऽन्यसङ्ख्यश्चेत्स्तो युवावो त्वमावपि ॥ १ ॥ सुबस्छस्सु परत आदेशाः स्युः सदैव ते । स्वाही यूयवयौ तुभ्यमयौ तवममाविति ॥ २ ॥ एते परत्वाबाधन्ते युवावौ विषये स्वके । स्वमावपि प्रवाधन्ते पूर्वविप्रतिषेधतः ॥ ३ ॥
-
स्तः इत्यन्वयः । त्वाम् मां वा अतिक्रान्तः अतिक्रान्तौ, अतिक्रान्ताः इति, युवा. मावां वा अतिक्रान्तः, भतिक्रान्ती, अतिक्रान्ताः इति च विद्महे 'अत्यादयः कान्ता. चर्थे द्वितीयया' इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा, तदा समासार्थो मुख्यविशेष्यभूतः अन्यसंख्यश्चेदपि युष्मदस्मदर्थगतसंख्यापे. क्षया अन्यसंख्याकश्चेदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमा. देशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशो, द्विवचने प्रत्यये परतो युवावावादेशौ हत्यर्थाश्रयणे तु त्वाम् मां वा अतिक्रान्तो, अ. तिक्रान्ताः इति विग्रहे अतियुष्मदूशब्दे अत्यस्मशब्दे च युष्मदस्मदोद्विवचने बहुवचने च प्रत्यये परे त्वमौ न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ताः इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावो न स्यातामित्यव्याप्तिः स्यादित्यर्थः । · ननु युष्मदस्मदोद्वयर्थकत्वे युवावो, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ? नेत्याह-सुजस्लेहस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्ध त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तरं ये इत्यध्याहार्यम् । 'त्याहौ सौ, यूयवयौ जसि, तुम्य. मझौ यि, तवममौ ङसि' इति सुजस्लेडस्सु ये आदेशाः विहिता ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्वयर्थकत्वे यु. वावी, एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एते इति । तृतीयालोके पूर्वार्धमेकं वा. क्यम् । एते त्वाहादयः, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते। कुतः ? पर. स्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं स्वाहादिमिर्युवावयोर्वाधः । त्वमौ तु तेभ्यः परौ कथं तैर्षाध्येतामित्यत आह-त्वमाषपीति । पूर्वेति। विप्रतिषेधे सति पूर्व पूर्वविप्रतिषेधः। 'सुम्सुपा' इति समासः। तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृस्याश्रयणादिति भावः । प्रत्यवोत्तरपदयोश्च' इति सूत्रभाष्ये तु 'त्वमावेकवचने' इति सूत्रे 'शेष' इत्यनुवयं जन्समिग्नविभक्तिषु' इति व्याख्यातम् ।
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
दुव्येकसङ्ख्यः समासार्थो बह्नर्थे युष्मदस्मदी । तयोरव्यैकतार्थत्वान्न युवावौ श्वमौ च न ॥ ४ ॥
त्वाम् मां वा अतिक्रान्त इति विग्रहे अतित्वम् । अत्यहम् | अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतिस्वाभ्याम् | अतिमाभ्याम् । अतिश्वभ्यम् । अतिमभ्यम् । ङसिभ्यसोः भतित्वअतित्वत् । मतिमत् । अतिमत् । भ्यामि प्राग्वत् । अतितव । अतिमम ।
:
२७७
तदेवम् स्वमावेकवचने, युवावौ द्विवचने' इत्यत्र एकवचन द्विवचनशब्दबोर्योगिकत्वाश्रयणस्य अव्याप्तिपरिहारार्थत्वमुक्त्वा अतिव्याप्तिपरिहारार्थत्वमाह-दुष्येकसख्य इति । चतुर्थश्लोकेऽस्मिन् यदा तदेत्यध्याहार्यम् । यदा युष्मान् अस्मान् वा अतिक्रान्तौ अतिक्रान्तः इति विग्रहे समासे सति द्वित्वैकस्वविशिष्टः समासार्थः समासस्य मुख्यविशेष्यभूता, युष्मदस्मदी तु बह्वर्थ, तदा युवायौ त्वमौ च न स्तः, तयोः युष्मदस्मदोः द्वित्वैकत्वविशिष्टार्थकत्वाभावात्। युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवा चित्वे सत्येव प्रवृत्तेराणात् । द्विवचने एकवचने च प्रत्यये परतः इत्यर्थाश्रयणे तत्रातिव्याप्तिः स्यादिस्वर्थः । अत्र 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे भाष्ये 'त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थहणम्' इति वार्तिकव्याख्यावसरे 'युवावो द्विवचने' 'त्वमावेकवचने' इत्यत्र द्विवचनेकवचनशब्दयो यौगिकस्वा श्रयणमुपक्षिन्य युवाम् आवां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ताः इति विग्रहान् प्रदर्श्य, त्वाम् मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता:, इति च विग्रहान् प्रदर्श्य, अतियुष्मदत्यस्मच्छन्दयोः सुजस्टेसभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदशितौ । सुजस्ङस् तु त्वाहौ यूयवयौ तुभ्यमह्यौ तवममौ इत्येत एवादेशाः उदाहृताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् ।
तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति - त्वाम् मां वा श्रतिक्रान्तः इत्यादिना । अतिक्रान्तौ अतिक्रान्ताः इति च विग्रहयोरुपलक्षणमिदम् । विग्रहे इत्यनन्तरं 'रूपाणि वक्ष्यन्त' इति शेषः । सुजस्डेङसभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावेव भवतः । अवशिष्टप्रक्रियास्तु केवल युष्मदस्म. इज्ज्ञेयाः । सुजस्डेडस् तु त्वाहौ यूयवयौ, तुभ्यमौ तवममौ इत्येते एवादेशाः पूर्वविप्रतिषेधात् त्वमौ बाधित्वा भवन्ति । ततश्च सुमहेडस्तु केवलयुष्मदस्मद्वदेव
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
। सिद्धान्तकौमुदी
[ हलन्तपुंल्लिा
-
अतिस्वयोः अतिमयोः । भतिस्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतिस्वयोः । अतिमयोः । अतित्वासु अतिमासु ॥ युवाम् भावां वा अतिक्रान्त इति विप्रहे सुबस्वस्सु प्राग्वत् । औषमओट्सु-पतियुवाम् । अतियुधाम् । मतियुगाम् । अस्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । भत्यावाभिः । भ्यसि-अतियुवभ्यम् । अत्यावभ्यम् । लिम्बसो:-अतियुक्त् । भनियुक्त् । अत्यावत् । अस्यावत् । ओसि-अतियुक्योः । बतियुवयोः । - योः । अत्यावयोः । मतियुवाकम् । अस्यावाकम् । अतियुवयि । अस्यावनि : अतियुवासु । अत्यावासु ॥ युष्मानस्मान्या अतिक्रान्त इति विप्रहे सुजस्डेवरसु. प्राग्वत् । औषम्झौट्स-अतियुष्माम् । भतियुष्माम् । अतियुष्माम् । अत्यस्मा. म् । अस्यस्माम् । अस्यस्माम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । सत्य. रूपाणीति निष्कर्षः । अतित्वाकम् प्रतिमाकमिति । ननु, 'साम आकम्' इति ससुटकनिः देशावत्र आमः सुट्सम्भवः तत्रैवाकम् , नचात्र सुट् सम्भाव्यते। इह युष्मदस्मदो. रुपसर्जनत्वेन सर्वनामत्वाभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत् , मैवम्-ससुटकत्वस्य सम्भावनामात्रविषयत्वात् । एवं च सुट यत्र सम्भविष्यति तत्र सुटो निवृत्यर्थ ससुटकनिर्देशः । यत्र तु सुट् न सम्भवति, तत्र केवलस्य आमा सुट । अत्र च 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे अतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मदस्मदोरेकार्थवाचित्वे उदाहरणाम्युक्त्वा व्यर्थवाचित्वे उदाहरति-युवाम् आवां वा अतिक्रान्त इति । अतिक्रान्ती, अतिक्रान्ताः इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वयर्थवृत्तित्वात् सुजस्डेस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावायेव भवतः, अबशिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वत् ज्ञेयाः । सुजसडेजस्सु तु त्याहौ यूयवयौ तुम्बा मह्यौ तवममौ इत्येते एवादेशाः परत्वाधुवावादेशौ बाधित्वा प्रवर्तन्ते । सुजस्स्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्थवामित्व उदाहरणान्याह-युष्मान् अस्मान्वेति । युष्मानस्मान्वा, अतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः इति विग्रहेष्वित्यर्थः । येकसंख्यः समासाः इति चतुर्थश्लोकस्योदा. हरणान्येतानि । अत्र युष्मदस्मदोरेकव्यर्थवाचित्वाभावात् सुजस्करन्योऽन्यत्र मपर्यन्तस्य कापि न त्वमौ नापि युवावी। उ.प्रथमयोः' इत्यायास्तु भवन्त्येव । सुजस्तोकस्सु तु त्वाही यूयवयौ तुभ्यमयौ तवममौ इत्येते भवन्त्येव । तेषामेकयविनेपनिवन्धनत्वाभावात् । प्राग्वदिति । केवलयुष्मदस्मद्वदित्यर्थः। ..
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२७६
स्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः अत्यस्माभिः । भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । असिभ्यसो:-अतियुष्मत् २ । अत्यस्मत् १ । बोखि-अतियुष्मयोः । भतियुष्मयोः । अत्यस्मयोः । अत्यस्मयोः । अ. तियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । भत्यस्मयि । अतियुष्मासु । अस्यस्मासु । (४०१) पदस्य । १२१६॥ (१०२) पदात् । ११७॥ (४०३)मनुदा सर्वमपादादौ ११॥ इत्यधिकृत्य । (४०४) युष्मदस्मदोः बीपी द्वितीयास्थयो(नावो ११।१२० ॥ पदारपरयोरपादादौ स्थित योलमा पाषादिविशिधयोर्वा नौ इत्यादेशो स्तः । तो चानुदात्तौ । (४०५) बहुवचनस्य वस्नसो ॥२१॥ उत्तविषयोरनयोः षष्ठयादिबहुवचमान्तयोर्वस्नसो स्तः । वनायोरपवादः । (१०६) तेमयावेकवचनस्य १॥२२॥ उक्तविधयो. रनयोः षष्ठीचतुध्ये कवचनान्तयोस्ते में एतौ स्तः । (१०७) त्वामो द्वितीयायाः २३॥ दिवाकवचनान्टयोस्खा मा एतौ स्तः।
श्रीशरावतु मापीह दत्ताते मेऽपि शर्म सः । पदस्य । पदात् । अनुदात्तं सर्वमपादादौ । इत्यधिकृत्येति । विधयो वक्ष्यन्त इति शेषः। अहमस्व प्रथमे पादे इमानि सूत्राणि पठितानिः । तत्र 'पदस्य इत्येतत् 'अपदान्तस्य मूर्धन्य तः प्रागधिक्रियते । ‘पदात्' इत्येतत्तु 'कुत्सने च सुप्यगोत्रादौ' इत्यतः प्रागपिक्रियते । 'अनुदात्तं सर्वमपादादौ इति पदत्रयं तु आ पादसमाप्तेः अधिक्रियते इति भाष्यादिषु स्पष्टम् । युष्मदस्मदोः षष्ठी। षष्यादिविशिष्टयोरिति । षष्ठीचतु.
द्वितीयाभिः सह विडत इति षष्ठीचतुर्थीद्वितीयाख्यौ, तयोरिति विग्रहः । षड्या. दिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतः तिष्ठत इति विग्रहस्तु न भव. ति । 'पदस्य' इत्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीच. तुद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठयादिविभक्तिषु परत पदत्वमा स्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजन मूल एवं वक्ष्यते । बहुवचनस्य वस्नसौ। उक्तविधयोरिति । षष्ट्यादिविशिष्टयोर्युष्मा दस्मदोरित्यर्थः । तेमयावेकवचनस्य । षष्ठीचतुर्थेकवचनान्तयोरिति । अत्र द्वितीयाग्रहणं मासुवसते, तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । 'तेमयो' इति सूत्रे तेश्च मेख तेमयाविति हि इति भावः । अयमपि वांनावोरपवादः । त्वमौ द्वितीयायाः। त्वाश्च माश्चेति कि । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।।
-अथ विमतिक्रमलसद्वितीयाचतुषिष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरविमशः इत्यादि श्लोकद्वयेन । 'तत्र श्रीशस्त्वावतु मापीह' इति प्रथमः पादः । वि.
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
स्वामी ते मेsपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
[ इलन्तपुंलिङ्ग
नः शिवं वो नो दद्यात्सेभ्योऽत्र वः स नः ॥ २ ॥ पदात्परयोः किम् । वाक्यादो मा भूत् । त्वां पातु मां पातु । अपादादौ किम् । 'वेदैरशेषैः संवेद्योऽस्मान् कृष्णः सर्वदावतु ।' स्थग्रहणाच्च्छ्रयमाणविभक्ति -
1
|
ईशः पतिः विष्णुः त्वा मा अपि पातु इत्यन्वयः । अत्र त्वाम्, माम् इति दिदीमैकवचनान्तयोः त्वामा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेकि शर्म सुखं दत्तादित्यन्वयः । 'दु दान् दाने' आशिषि लोटि दत्तादिति रूपम् । दण दिति क्वचित् पाठः । अत्र तुभ्यम् माम् इति चतुथ्यैकवचनान्तयोः ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठयेकवचनान्तयोः ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुःसर्वव्यापकः वां नौ अपि पातु इत्यन्वयः । अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयोः वां नौ इत्यादेशौ । सुखं वां नौ ददावीश इति । नौ इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत्र युवाभ्याम् आवाभ्याम् इति चतुर्थीद्विवचनाम्सयोः वनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोः आवयोरिति षष्ठीद्विवचनान्तयोः वांनावौ । सोऽव्याद्वो न इति । सः हरिः वः नः अपि अव्यात् रक्षतात् इत्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोः वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । न इत्यनन्तरम् अपीत्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोः वस्नसौ । सेव्योऽत्र वः सः नः इति । स हरिः वः नः अपि सेव्यः भजनीय इत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्टी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोः वस्नसौ । स्वां पातु मां पाविति । अत्र युष्मदस्म-दोः पदात् परत्वाभावात् 'स्वामौ द्वितीयायाः' इति न भवतीत्यर्थः । यद्यप्यत्र अस्म-: च्छब्दस्य प्राविति पदात् परत्वमस्ति तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्रास्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यथप्यनुष्टुप्छन्दस्कोऽयं श्लोकः । तत्र एकैकः पादः अष्टाक्षरः इति स्थितिः । तत्र सन्ध्यभावे 'अस्मान् कृष्णः सर्वदाऽवतु इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्वव्याघातः । संवेद्य् इत्यस्य पदत्वाभावात् अ
1
1
1
प्रदात् परत्वाभावश्च । पूर्वान्तत्वे तु स्मानित्यस्य पादादिस्थितस्य नास्मच्छ. था। तथापि संवेद्यो इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्ः पदत्वम् । स्मानित्यस्य सुकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्तुतस्तु ओकारस्य पूर्वामहत्वात् । संबेधो इत्यस्य पदत्वम्, स्मानित्यादेस्टाक्षरत्वं च परादित्याच्यास्म
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकरणम् ११] बालमनोरमासहिता।
२८१ % 3A
कयोरेव । नेह इति युष्मरपुत्रो ब्रवीति । इस्यस्मत्पुत्रो ब्रवीति । 'समानवाक्ये निघातयुष्मदस्मदादेशा वतव्याः' (वा ४७१४)। 'एकति वाक्यम्' (११९९)। तेनेह म । मोदनं पच, तव भविष्यति । इह तु स्यादेव । 'शालीना ते बोदनं दास्यामि' इति । 'एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः' (वा ४७१५) । अन्वादेशे तु नित्यं स्युः । पाता ते भक्तोऽस्ति,. भाता. तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव (१०८) न चपाहाहैवयुक्ते ॥१॥२४॥
सदरूपता । 'उभयत आश्रयणे नान्तादिवत्' इति तु नास्तीति इण्धातौ निरूप. विमामः । केचित्तु 'अपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सवदावतु' इति प्रदाहरन्ति । तन, युष्मानित्यस्य पदात् परत्वाभावादेवाप्रा । अस्मानित्यस्य तु पदात् परत्वेऽपि समानवाक्यस्थपदात् परत्वामावात्। - युष्मदस्मदोपडीतुपीरितीयान्तयोः इत्येव सत्यवान , किंस्थाहणेन । स्थाहणेऽपि निरस्पैवार्यस्य कामादित्यत आह-स्वग्रहणादिति । स्थाधातुः महानौ वर्तते । 'समये तिड सुपीक' इति यया । समये मर्यादायां विषये अनुवृत्ति मा हासीरिति गम्यते । ततस षष्ठीचतुर्थीद्वितीयाः तिष्ठतः, न परित्यजतः इति ज्यु. पतिर्विवक्षिता । षष्यादिविभक्तीरपरित्यजतोरित्यर्थः । अलुसपथ्यादिविमक्तिवि. शिटपोरिति फलतीति भावः । इति युष्मरपुत्र इति । पदात् परत्वं सम्पादयितुम् इतिबमा युवयोयुष्माकं वा पुत्रा, आवयोरस्माकं वा पुत्र इतिः विग्रहः । अत्र विमक्तेलका लुसत्वात् भूयमाणविभक्तिकत्वाभावानादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न, 'प्रत्ययोत्तरपदयोश्च' इति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निधातशब्दः अनुदात्त. वाची । एकतिछिति । तिलिस्यनेन तिबन्तं विवक्षितम् । एकातिर यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्छात्रोपयोग्येव । तेन पाय मृगो धावति' इत्यादौ नाव्यासिरिति समर्थसूत्रे भाष्ये स्पष्टम् । ओदनमिति । ओदनं पचेत्येकं वाक्यम् । तव भवि. व्यतीत्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात् पदात् परवाभावान्नादेश इति भावः। शालीनामिति । ब्रीहिणामित्यर्थः । प्रकृतिविकारभावे षष्ठी । एते वानावादयः इति । इदं च 'सपूर्वायाः' इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत् । अन्वादेशे तु नित्यमित्यस्योदाहरणमाह-तस्मै ते नम इत्येवेति । अत्र योऽग्निई व्यवाट् , य इन्द्रों वजूबाहुः' इत्यादि पूर्ववाक्य, द्रष्टव्यम् । एवंच किञ्चित्कार्य विधातुमुपासस्य कार्यान्तरं बोधयितुं पुनरुपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः।
न चवाहा । च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
1
चादिपञ्चकयोगे नैते वादेशाः स्युः । हरिस्त्वा मां च रक्षतु । कथं त्वां मां वा न रक्षदित्यादि । युक्तग्रहणात्सा क्षायोगेऽयं निषेधः । परम्परासम्बन्धे त्वादेशः स्वादेव । हरो हरिश्च मे स्वामी । (४०६ ) पइयार्थैश्वानालोचने ८|१|२५|| अचाक्षुषज्ञानाथैर्धातुभिर्योगे एते आदेशाः न स्युः । चेतसा त्वां समीक्षते । परम्परासम्बन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तसंवा पश्यति चक्षुषा । (४१०) सपूर्वायाः प्रथमाया विभाषा ||२६|| विद्यमानपूर्वात्
खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः । युक्त इति भावे कः । तदाह - चादिपञ्चकयोगे इति । पञ्चानामन्यतमेन योगे इत्यर्थः । एते इति । वांनावादय इत्यर्थ: । 'युष्मदस्मदोः षष्ठी' इत्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः । इत्यादीति । कृष्णो मम हा प्रसीदति । अदभुतमिदमित्यर्थः । कृष्णो ममाह न प्रसीदति । अहेति खेदे । कृष्णो ममैव सेव्यः । ननु 'न चवाहाहैव:' इत्येवास्तु, मास्तु युक्तग्रहणम् । 'वृद्धो यूना' इत्यादिवत् तृती यमैन तल्लाभादित्यत आह- दुरूग्रहणादिति । यत्र चाद्यथैः समुच्चयादिभिर्युष्मदस्मदर्थयोः साक्षादन्वयः तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्र चशब्दस्य हरिहरयोः साक्षादन्वयः । समुच्चितयोर्हरिहरयोः स्वामीत्यत्रान्वयः । स्वामीत्यस्य मे इत्यनेनान्वयः । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाभावात् मेआदेशस्य निषेधो नेति भावः । पश्याथैश्वानालोचने । दर्शनं पश्यः । 'दृशिर् प्रेक्षणे' इत्यस्मादत एव निपातनात् भावे प्रत्ययः । 'पात्रा' इति पश्यादेशः । पश्यः दर्शनम् अर्थोयेषां ते पश्यार्थाः, तैरिति विग्रहः । आलोचनं चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः दर्शनार्थकैरित्यर्थः । पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात् । तदाह-प्रचातुषेत्यादिना । चेत सेति । देवेत्यध्याहा -
हे देव मनसा त्वां चिन्तयतीत्यर्थः । परम्परेति । 'न चवाहा' इत्यत्र युक्तग्रहणसामर्थ्यात् साक्षात्संबन्धविवक्षा युक्ता । इह तु तद्विवक्षायां मानाभावात् परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः । भक्तस्तवैति । देवेत्यध्याहार्यम् । इह तबेस्यस्य रूपेणान्वयः न तु साक्षात् ध्यायतिनेति भावः । अनालोचने इत्यस्य प्रयोजन माह - बालोचने त्विति ।
पूर्वायाः । वां नावाथादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युकम्। सम्वादेशेऽपि क्वचिद्विकल्पार्थमिदम् । सहशब्दोऽत्र सलोमक इत्यादिवत् विचमानवाची । विद्यमानं पूर्व' यस्या इति विग्रहः, 'तेन सहेवि तुल्ययोगे' इति वा त्रिहोम प्रायिकम् इति वक्ष्यमाणत्वात् । प्रथमेत्यनेन तदन्तं गृह्यते । बदा
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
.
२८३
प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशाः वा स्युः। भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मा इति वा । (४११) सामन्त्रितम् २१:४८॥ सम्बो. धने या प्रथमा तदन्तमामन्त्रितसंजू स्यात् । (४१२) भामन्त्रितं पूर्वमवि. घमानवत् ११७२॥ स्पष्टम् । अग्ने तव । देवास्मान्पाहि । भम्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिपातः आमन्त्रितनिपातश्च न ।
ह-विद्यमानेत्यादिना । परयोरित्यनन्तरं युष्मदस्मदोरिति शेषः । भक्तस्त्वमिति । देव. दसत्यध्याहार्यम् । हे देवदत्त त्वमपि भक्तः, अहमपि भक्तः इत्यन्वयः। नेति । भक्तत्वेनेत्यर्थः । त्रायते इति । पालयतीत्यर्थः । अत्र पूर्ववाक्योपात्तयुष्मदस्मदर्थयो. रिह पुनरूपादानादन्वादेशोऽयम् । अध 'तेने त्येतत् पूर्व विधमानं पदं, ततः पर 'हविरिति प्रथमान्त, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पा। तथा 'त्रावत इत्येतत् पूर्व विधमान पदम् , ततः परं 'सः' इति प्रथमान्तम् , ततः परस्थास्मच्छब्दस्यान्वादेशेऽपि मादेशविकल्पः । 'प्रायत' इत्येतत् मध्यमणिन्यायेन उम. यत्र संबध्यते । तेन निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, सः इत्यस्य विद्यमान. पूर्वत्वं च बोध्यम् । सामन्त्रितम् । प्रातिपदिकार्थसूत्रोपात्ता प्रथमा 'सा' इत्यनेन परामृश्यते । 'संबोधने च' इत्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इत्यादिना । तदन्तमिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात् संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा । आमन्त्रितं पूर्वमविद्यमानवत् । स्पष्टमिति । अनुवर्तनीयपदान्तरामावादिति भावः । अग्ने तवेति । 'अग्ने तव श्रवो वयः' इत्यधि अग्ने इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दः अविद्यमानवत् । 'अग्ने नय' इत्यचि अग्ने इत्यविद्यमानवत् । 'अग्न इन्द्र वरुण' इत्युचि अग्ने इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र, देवा. स्मानित्यत्र च युष्मदस्मदोः तेनसावादेशौ न भवतः । तव अस्मानित्यनयोः पदात् परत्वाभावात् पादादौ स्थितत्वाच्च । 'अग्ने नया इत्यत्र नयेति तिङन्तस्य 'तिङ. तिङः' इत्यनुदात्तत्वं न भवति । अतिङन्तात् पदात् परं तिबन्तं निहन्यते इति हि तदर्थः । इह च अग्ने इत्यतिङन्तस्य अविद्यमानवत्त्वादतिङन्तात् परत्वाभावात् नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तु 'आमन्त्रितस्य 'च' इति सर्वानुदात्तत्वं न भवति । पदात् परमामन्त्रितं निहन्यते इति हि तदर्थः । इह |च अग्नेशब्दस्यापिय. मानवत्वेन पदात् परत्वाभावात् इन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि मानुदात्तत्वम् , ततः प्राचीनयोः अग्ने इन्द्र इत्यनयो विधमानवत्त्वात् । - ननु सर्वदा रक्ष देव नः' इत्यत्र कथं नसादेशः, देवेत्यस्याविद्यमानववादित्यस
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
-
'सर्वदा रक्ष देव नः' इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रोत्येत. दाश्रित्यादेशः । एवम् 'इमं मे गजें यमुने' इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनानामा. मन्त्रितानामविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः । (४१३) नाम: त्रिते समानाधिकरणे सामान्यवचनम् ॥७३॥विशेष्यं सामानाधिकरणे विशेषणे आमन्त्रिते परे नाविद्यमानवत्स्यात् , हरे दयालो नः पाहि । अग्ने
आह-सर्वदेति । लक्ष्मीपते तेऽघ्रियुगं स्मरामि' 'प्रतापरुद्र ते ख्यातिः' इत्यादी तुते इति विभक्तिप्रतिरूपकमव्ययम्, तत्र आमन्त्रितस्याविद्यमानवत्वात् युष्मदूशब्दस्य पादादिस्थत्वात् । एवमिति । 'इमं मे गङ्गे यमुने' इति मन्त्रे सर्वेषां निघात इत्यन्वयः । 'आमन्त्रितस्य च' इत्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि-यमुन इत्यादिभ्यः प्राचीनानामिति । इति आदियेषामिति विग्रहः । आदिना सरस्वतीशुतु. द्रीत्यनयोग्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । यमुने, सरस्वति, शुतुद्रि इत्येतेषु एकैकस्मात्प्राचीनानां गङ्ग, यमुने, सरस्वति इत्येषां सर्वेषां निघात इत्यर्थः । शुतु. द्रिशब्दस्य तु अनुदात्तत्वं नेत्यविवादम् , तस्य द्वितीयपादादिस्थत्वात् । 'आमन्त्रितस्य च' इत्यत्र 'पदस्य, पदात् , अनुदात्तं सर्वमपादादौ इत्यनुवृत्तेः 'इमं मे इत्यचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्तेः । ननु गझे इत्यस्यानुदात्तत्वमुचितम् , तस्य मे इति पदात् परत्वात्। यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोः ग यमुने इत्यनयोरविद्यमानवत्त्वेन पदात् परत्वाभावादित्यत आह-आमन्त्रितानामविद्यमानबद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच इत्यादिभ्य इति सर्वेषामिति च बहुवचनमनुपपन्नमित्यपास्तम् । कचित् पुस्तकेषु यमुन इत्यादिप्राचीनामन्त्रिताविद्यमानवद्भावेऽपीति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने. सरस्वतीत्याभ्यां प्राचीनयोरामन्त्रितयोरविद्यमानवमा. वेऽपीति सुगममेव । अयंच निघातः पदकाले स्पष्टं श्रूयते।
नामन्त्रिते । आमन्त्रितम् अविद्यमानवदित्यनुवर्तते । सामान्यवचनमित्यनेन विशे. व्यसमर्पकः शब्दो विवक्षितः, विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते। समानाधिकरणे इति तत्रान्वेति । समानम् अधिकरणं यस्येति विग्रहः । समानशब्द एकत्वपरः। विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह--विशेष्यमित्यादिना। हरे दयालो इति । अत्र दयालो इति समानाधिकरणविशेषणे परे हरिशब्दो नाविद्यमानवत् । ततश्च दयालो इत्यल्याविद्य. मानत्वेऽपि हरे हति पदात् परत्वान्नसादेश इति भावः । अग्ने तेजस्विनिति । हह
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
तेजस्विन् । 'विभाषितं विशेषवचने' ( सू ३६५५) । अत्र भाष्यम् ' बहुवचनमिति वक्ष्यामि' इति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभवः देवाः शरण्याः, युष्मान्भजे, वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात्-सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ । (४१४) पादः पत् ६ |४| १३० ॥ पाच्छन्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाद्भ्यामित्यादि । इति दान्ताः ॥ अग्नि मन्यतोत्यभिमत्- अग्निमद् । अग्निमयौ । अग्निमथः । अभिमभ्यामित्यादि । इति थान्ताः ॥ 'विग्-' ( सू ३७३ ) इत्यादिसूत्रेणाचेः सुप्युपपदे क्विन् । (४१५) अनिदितां हल उपधायाः क्ङिति ६|४|२४||
२८५
तेजस्विमिति विशेषणे परे अग्ने इत्यस्य अविद्यमानवत्वाभावात् पदात् परत्वात्तेजस्विनित्यस्य निघात इति भावः । सु शोभनौ पादौ यस्येति बहुवीहौ 'संख्या सुपूर्व ल्य' इति पादशब्दान्त्यलापे सुपाशब्दः । तस्य सुटि रूपाण्याह - सुपादित्यादिना । शसि विशेषमाह - पादः तत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह - पाच्छन्दान्तमिति । पाच्छब्दस्येति । पाच्छन्दान्तस्य विधीयमानोऽपि पदादेश: 'निर्दिश्यमानस्यादेशा भवन्ति' इति पादूशब्दस्यैव सर्वादेशो भवति, तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः । सुपदि । -इति दान्ताः ॥
अथ थकारान्ता निरूप्यन्ते । श्रग्निमदिति । 'मन्थ विलोडने' इति भ्वादौ । 'मन्थ विलोडने' इति ऋयादौ । उभाभ्यामपि किपि 'अनिदिताम्' इति नलोपे अग्निमथ् इति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचत्वं इति भावः । भ्यामादौ जत्रत्वेन थस्य -दः । अग्निमद्भ्यामित्यादि । सुपि 'खरि च' इति चर्त्यम्, अग्निमत्सु । 'मथे विलो'डने' इत्यस्याप्येतदेव रूपम् । 'मथि हिंसासंक्लेशनयोः" इति हृदितस्तु नलोपाभाचात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः ॥
1
अथ चकारान्ता निरूप्यन्ते । ऋत्विगित्यादिसूत्रेणेति । प्र अञ्चतीत्यर्थे 'अञ्चु गतिपू-जनयोः' इति गत्यर्थकाद्धातोः नोपधात् विन्नित्यर्थः । पूजार्थस्य त्वग्र वक्ष्यते क्विनि 'हलन्त्यम्' इति नकार इत् । इकार उच्चारणार्थः । 'लशक्वतद्धिते' इति ककार इत् । 'वेरपृक्तस्य' इति वकारलोपः । प्र अन्य इति स्थिते । अनिदिताम् ॥ अस्येत्यधिकृतं बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम् । तदन्तविधिः । 'अनिदिताम्' इत्यपि तद्विशेषणम् । इत् हस्व इकार, इत् इत्संज्ञकः येषां तानि इडिन्स, न इदिन्ति, अनिदिन्ति तेषामिति विग्रहः । अवयव षष्ठ्यन्तमेतत् उपधाया
I
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
सिद्धान्तकौमुदी . [हलन्तपुंलिङ्ग
m हलन्तामामनिदितामझानामुपधाया नस्य लोपः स्यास्किति छिति च । 'उगिदचाम्-' (सू ३६१) इति नुम् । 'संयोगान्तस्य लोपः' (सू ५४ ) नुमो नकारस्य 'क्विन्प्रत्ययस्य कु. (सू ३७७ ) इति कुत्वेन इकारः। प्राइ । मनुस्वारपरसकगौ, प्रायो, प्राश्वः । प्राश्चम् , प्राचौ । (४१६) मचः ६४॥१३॥ लुप्तमकारस्वायतेमस्याकारस्य लोपः स्यात् । (४१७) चौ ६३।१३८॥ लुप्ताकारनकारेऽ. बंधी परे पूर्वस्याणो दीर्घः स्यात् । प्राचः। प्राचा, प्रारभ्यामित्यादि । प्रत्यर, प्रलयी, प्रत्यवः । प्रत्यञ्चम् , प्रत्यञ्चौ । 'भवः' (सु ४१६) इति लोपस्य विषयेऽ.
इत्यत्रान्वेति। उपधाया इत्यस्यव्यवषष्ठ्यन्तम् । तच्च बनान्न लोपः इत्यतो नेत्य. बुवृत्ते लुप्तषष्ठीके अन्वेति । क्च च क्डौ इतौ यस्येति विग्रहः । तदाह-हलन्तानामित्यादिना । इति चकारात्पूर्वस्य नकारस्य लोपः। प्र अच् प्राच् इति स्थितम् । तस्मात् सुबुत्पत्तिः। सुटि विशेषमाह-उगिदचामिति । नुमिति । सौ विशेषमाहसंयोगान्तस्य लोपः इति । हल्ङयादिना सुलोपे सतीति शेषः । कुवेन डकार इति । नासिकास्थानसाम्यादिति भावः । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते नुमि पश्चापदान्तस्या इति नकारस्यानुस्वारः। 'अनुस्वारस्य ययिः इति तस्य परसवर्णो अकारः । नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्यासिद्धत्वादिस्यर्थः। शसादावचि नुमभावात् प्र अच् अस् इति स्थिते । अचः । अच इत्यन्चुधातोः 'अनिदिताम्' इति लुप्तनकारस्य षष्ठयन्तम् । भस्येत्यधिकृतम् । 'अल्लोपोऽनः' इत्यतो मस्लोप इत्यनुवर्तते । तदाह-लुप्तेति । इत्यकारलोपे प्रच् अस् इति स्थिते । चौ। अन्चुधातोरुकारान्तस्य लुसनकाराकारस्य धाविति सप्तम्यन्तम् । 'दलोपे इत्यतः 'पूर्वस्य दीर्घोऽणः' इत्यनुवर्तते। तदाह-लुप्तेति । प्राचः इति । यद्यपि 'अच: इत्य.
लोपस्य 'चौ' इति दीर्घस्य चाभावेऽपि सवर्णदीघेण प्राचः इति सिध्यति, तथापि प्रतीकः इत्याच) सूत्रम् । प्राग्भ्यामिति । प्राच्भ्याम् इति स्थिते 'चोः कुः' इति कुत्वम् , 'क्विन्प्रत्ययस्य कु:' इति कुत्वस्यासिद्धत्वात् । इत्यादीति। प्रानिमः । प्राचे । प्राचः, प्राचोः, प्राक्षु। . __ प्रत्यङ् इति । प्रतिपूर्वादश्चः क्विन् , यण 'अनिदिताम्' इति नकोप, सुबुत्पत्तिः । 'उगिदचाम्' इति नुम् , हल्ड्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नका
ख्य 'क्विन्प्रत्ययस्यः इति कुत्वेन डकार इति भावः । प्रत्यञ्चाविति । प्रत्य भौ इस स्थिते 'उगिदवाम्' इति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो मकार
सि भाषः । एवं प्रत्यञ्चः । प्रत्यञ्चम् , प्रत्यचौ। ननु प्रति अन्ध इति स्थिते TAPाणिकते 'भनिदिताम्' इति नलोपे प्रत्यच इत्यस्मात् शसि मसर्वनाम
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२८
न्तरजोऽपि यण् न प्रवर्तते । 'भकृतव्यूहा:-- (५५५) इति परिभाषया । प्रतीयः । प्रतीचा । 'अमुमश्चति' इति विप्रहे 'मदर अदति स्थिते (४१८) विश्वग्देवयोमध टेरद्रपञ्चतावप्रत्यये ६३।२अजयो सर्वनाम्नश्च टेरनचादेशः स्यादप्रत्ययान्ते अश्चती परे । 'अददि अच्? इति स्थिते, यण् । (४१) मदसोऽसे दुदो मः रा०॥ अदसोऽसान्तस्य दात्परस्य ऊदूतौ स्तो दस्य मश्च । उ इसि हस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याभवम्या.
स्थानत्वात् 'उगिचा' इति नुमभावे 'अचः' इत्यकारलोपे 'चौ इति वीओं न भवति, पूर्वस्यापोऽभावात् । तता प्रत्ययः इति स्यादित्यत आह-अचः इति लोपस्येत्यादि । 'अचःइति कोपेन अणिमामिलस्याकारस्य विकासोन्मुखत्वादिह यान भवति । ततश्च प्रति मम् अस् इति स्थिते 'aneल्पकारखोपे सति 'चौ इति इकारस्य दीर्धे प्रतीच इति रूपं निर्वाधम् । एतदर्थमेव ' इति चौ इति धार• ब्धम् । प्राचः पश्येत्यत्र मस्कोपदीर्घयोरमावेऽपि सवर्णदीघेणेव स्पसिद्धः । भाष्ये तु 'चौ इत्यारम्भसामादेवात्र वम् नेति समाहितम् । न च प्राचः पायेत्यादौ सावकाशत्वमिति वाच्यम् , सवर्णदीर्णैव निर्वाहात् (वार्णादासकीयः' इति परिभाषया 'मचइत्यल्लोपे सति सवर्णदीर्घासिद्धेः) इत्यन्यत्र विस्तारः।
भदस् मञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च. सति सदस् अन् इति स्थिते । 'अनिदिताम् इति नलोपे कृते भदस् अफ् इति स्थिते सतीत्यर्थः । विष्वग्देवयोश्च । अनि इति लुसप्रथमाकम् । अनयोरिति । विष्वादेवशब्दयोस्त्यिर्थः । सर्वनाम्न इति । चकारेण 'आ सर्वनाम्नः' इत्यतस्तवमुकवादिति मारः। अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यम् अयमाणत्वादुविधमानःप्रत्ययः वियवादिर्यस्मा. दिति बहुव्रीद्याश्रयणादिति भावः। प्रकृते भदसण्टेरन्यादेशमुदाहस्स दर्शयति-कादद्वि भन्च् इति स्थिते इति । अधादेशोऽयम् 'अनिदिताम्। इति. मझोपे ते प्रवर्तते, नलोपल्य परत्वादिति बोध्यम् । यणिति । रेफादिकारस्येति शेषः । अदधूच् इत्यतः सुत्पत्तिः । अदसो । अदसः असेः दात् उदा मः इति च्छेदः। अदस हत्यवयवषष्ठयन्तम्। असेरिति तद्विशेषणम् । न विद्यते सिः यस्य सः असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । तदाह-अदसोसान्तस्येति । असे किम् । अदस्यति । वात् किम् । अमुया । अत्र 'अलोऽन्स्यस्या इति यकारस्य न भवति । ननु उदूताविति कथम् , उ इत्यस्यैव श्रवणादित्यत माह- इतीति । उश्च अाच तयोः समाहारः इति विग्रहे इन्वे सति, सुब्लुकि, सवर्णदीपं स नपुंसकम् इति सकले 'इस्वो नपुंसके प्रातिपदिकस्य इति हस्वत्वे, समाहारस्पैकत्वादेवप्राय
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
.. सिद्धान्तकौमुदी
[हमन्तशि
नयोर्हस्वो दीर्घस्य दीः । अमुमुयक , भमुमुयञ्चो, अमुमुयश्चः । अमुमुयध्वम् , अमुमुबञ्ची, अमुचः । अमुमुईचा, अमुमुयग्भ्यामित्यादि । । मुस्वस्यासितवान यण् । 'भन्स्यबाधेऽन्त्यसदेशस्य' (१०४) इति परिभाषामाश्रित्य परस्सैव मुस्वं सोः 'स्वमोनपुंसकात्' इति लुकि, उ इति रूपमित्यर्थः । मान्तरतम्यादिति । मर्धमानस्व व्याजनस्वपित्सदृशो मात्रिको हस्वः उकारः। स्वस्य तु मात्रिकस्य मात्रिकत्व. सारनादुको हस्थः, दीर्घस्य तु द्विमात्रत्वसाण्यात द्विमात्र उकार इत्यर्थः । अमुमुरिति । अदाच्स् इति स्थिते 'उगिदचाम्' इति नुमि, हल्ल्यादिलोपे, कारस्य संयोगान्तकोपे, नुमो नकारस्य 'क्विन्प्रत्ययस्य कुः इति कुल्वे, अदर सिखते, 'प्रयमवकारस्य मत्वे, तदुत्तरस्याकारस्य उत्वे, द्वितीपदकारल्य मत्वे, तदुत्तरल्य रेफल्य उत्वे च कृते, अमुमुरिति रूपमिति मावः । प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः । अमुमुयञ्चाविति । प्रासावितिवद्रूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेषः । अमुमुईचः इति । अमुमु है अच् अस् इति स्थिते अन्तरसोऽपि यण 'अच' इति लोपविषये न प्रवर्तते इत्युक्तरीत्या अकृते यणि 'अव:: इल्यकारलोपे 'चौ इति इकारस्य दीर्घ इति भावः। अमुमुयम्भ्यामिति । 'चोः कु: इति कुत्वमिति विशेषः । इकारे परे मकारादुकारस्य यणमाशय आह-मुत्वस्यासिद्धः त्वादिति । अमुमुईचे । अमुमुचः । अमुमुईचोः । अमुमुयक्षु । - मतान्तरमाह-अन्त्यबाधे इति। अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्य कार्यामा सति अन्त्यसमीपवर्तिनः कार्य भवतीत्यर्थः । प्रकृते च अदसः इति नाववषष्ठी। किन्तु स्थानषष्ठी। ततश्च 'अलोऽन्स्यस्या इत्युपविष्ठते । असान्तस्य अद. सः अन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम् । अदसमचान्त्यवर्णः सकारोदात्परो न भवति । भलादेशे कृते तु इकारः अन्तः सोऽपि वात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य भादेशवाघे सति अन्त्यसमीपवर्तिन एवं दास्परस्य उत्वम् , दस्य च मा, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोमुत्वमित्यर्थः । नन्वेवं सति णो नः इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यनेष स्यात् नमतीत्यत्र न स्यादिति चेत्, मैवम्-'अलोऽन्त्यपरिभाषाया अप्रत्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्सो अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इति यस सम्प्रसारणम् इति सूत्रे भाष्ये स्पष्टं प्रपश्चितत्वात् । यद्यपि ध्याः सम्प्रसार. जम् इति सूत्रे प्रकृतसूत्रे च 'अनन्स्यविकारे अन्त्यसदेशस्यः इति परिभाषा पठिता तथापि यात्रार्थतः संगृहीता । अन्स्यस्य विकारः मादेशः अन्त्यविकारः। भन्स्य. किारल्याभावः अनन्त्यविकारः, अर्थाभावेऽव्ययीभावेन सह नस्तत्पुरुषो विकल्प्यते विसरमाणत्वात्तत्पुरुषः । अव्ययीभावपक्षे तु ततीपाससम्यो हुलम् इत्वम्मा
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
वदतां मते 'अदमुयङ' 'अ: से सकारस्य स्थाने यस्य सः असिः तस्य असे:' इति व्याख्यानात् 'स्यदाद्यत्व विषय एव मुखं नान्यत्र' इति पक्षे 'अदद्रपङ्' । उक्तं च (भाष्ये ) ॥
'अदसोऽद्रेः : पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येके सेर्हि दृश्यते ॥ इति ।
२६
'विष्वग्देवयोः' किम् । अश्वाची । 'अञ्चतो' किम् । विष्वग्युक् । 'अप्रत्यये ' किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति 'अन्यत्र धातुग्रहणे तदादिविधि:' इति । तेनायस्कारः । 'अतः कृकमि ( सू १६० ) इति सः । उदबू, उदब
-वाभावः । अलोऽन्त्यपरिभाषाया अप्रवृत्या अन्त्यस्य आदेशाभावे सतीति यावत् । श्रङिति । अत्र पूर्वस्य दकारस्य तदुत्तराकारस्य च न मुत्वमिति विशेषः ।
मतान्तरमाहइ-भः सेः सकारस्येति । सेरित्यस्य विवरण सकारस्येति । असेरिति aritaryषः, किन्तु अः सेः यस्य सः असिः, तस्य असेरिति विग्रहः । सेरिति स्थानषष्ठी, इकार उच्चारणार्थः, सकारस्थानकाकारवत इत्यर्थः । अदसूशब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाकारवत्त्वम् । अतः त्यदाद्यत्ववत एवादसूशब्दस्य मुवं नान्यस्य इति फलितम् । अतः अद्रयादेशे सति सकारस्थानका कारवत्त्वाभावान्न मु त्वमित्यर्थः । तदिदं पक्षश्रयमपि भाष्यसंमतमित्याह-उक्तं चेति । अदसः टेः मद्रेविधौ सति अदद्वयच् इत्यत्र प्रथमद्वितीययोः दकारयोः पृथङ्मत्वं तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव । लत्ववत् । चलीक्लृप्यते इत्यत्र चरी हृप्यते इति स्थिते रेफऋकारयोर्यथा 'कृपो से लः' इति लत्वं, तथा केचिदिच्छन्ति । अन्त्यसदेशस्यैव केचित् त्वमिच्छन्ति । अयादेशे सति प्रथमयोद्वितीययोश्च मुत्वं नैव केचिदिच्छन्ति । हि यतः असेः सकारस्थानकाकारवत एव मुत्वं दृश्यते, अः सेः यस्येति बहुवीहिणा - प्रतीयत इति योजना | विष्वग्देवयोः किमिति । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अश्वाचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाभावान्नाद्वयादेश इति भावः । श्रप्रत्यये किम् । विष्वगञ्चनमिति । अत्र अन इति स्युडादेशस्य श्रूयमाणतया अचेरप्रत्ययातत्वं नेति भावः । ननु उत्तरपदाधिकारादचुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र अद्यादेशस्याप्रसक्तः किमप्रत्ययग्रहणेनेत्यत आह- श्रप्रत्ययग्रहणमिति । तेनेति । अयथा 'अतः कमि' इत्यत्र 'नित्यं समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदापात धातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्त्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः ।
1
उदङिति । उत् अचतीति विग्रहे क्विन्नादिरिति भावः । शसादौ 'अचः' इति लोपे १६ बा०
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
सिद्धान्तकौमुदी
[हलन्तपुंल्लिा
-
उदश्चः । शसादावचि । (३२०) उद ईत् ६४।१३६॥ उच्छब्दास्परस्य लुप्तनकारस्याम्चतेमस्याकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि । (५२१) समः समि ६।३।६३॥ अप्रत्ययान्तेऽञ्चतौ परे समः समिरादेशः स्यात् । सम्यक् , सम्यचौ, सम्यच्चः । समीचः । समीचा । (४२२) सहस्य सध्रिः ६।३।५॥ अप्रत्ययान्तेऽञ्चतौ परे । सध्रय । (४२३) तिरसस्तियलोपे ६।३।६॥ अलुप्ताकारेऽञ्चतावप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यन्, तियची, तिर्यश्वः । तिर्यश्चम् , तिर्यचौ, तिरश्चः । तिरश्चा, तिर्यग्भ्यामि. त्यादि । (४२४) नाञ्चेः पूजायाम् ६।४।३०॥ पूजार्थस्याश्चतरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ्, प्राची, प्राञ्चः । नलोपाभावाद. प्राप्ते । उद् ईत् । 'अचः' इति सूत्रमनुवर्तते, अल्लोप इत्यतः अत् इति च। भस्येत्य. - धिकृतम् । तदाह-उच्छब्दादित्यादिना । सम् अञ्चतीति विग्रहे विनादि । समः समि। समीति लुप्तप्रथमाकम् । अञ्चतावप्रत्यय इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे-अप्रत्ययेति । समीचः इति ॥ 'अचः इति लोपे 'चौ इति दीर्घः । सहस्य सध्रिः । सहस्य सध्रिः स्यादप्रत्ययान्ते अश्वतौ पर इति व्याख्यानं सुगमत्वादुपेक्षि. तम् । सध्यङिति । सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्यादेशे यण् । तिरसस्तियलोपे। तिरि इति लुप्तप्रथमाकम् । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते 'अचः इत्यल्लोपो यस्य सः अलोपः, तस्मिन्निति विग्रहः। तदाह-अलुप्तेत्यादिना.। तिर्यङिति । तिरः अञ्चतीति विग्रहे क्विन्नादि। तिरसस्तिर्यादेशे यण् । तिरश्चः इति । शसादावचि 'अचः' इत्यल्लोपसत्त्वान्न तिर्यादेशः । सस्य श्चुत्वेन शः इति भावः ।
पूजार्थादञ्चुधातोः क्विनि 'अनिदिताम्' इति नलोपे प्राप्ते-नाचेः। ‘भनिदि. ताम्' इति सूत्रात् उपधायाः क्तिीत्यनुवर्तते । “श्नान्नलोपः' इत्यतो नलोप इत्यनुवर्तते । तत्र नेति लुष्टषष्ठीकम् । तदाह-पूजार्थस्येत्यादिना। पूजाया गम्यत्वे सतीत्यर्थः । न त्वत्राञ्चुधातोः पूजार्थत्वमेव इह विवक्षितम् । अत एव अञ्चितं गच्छति इत्यत्र नलोपो न । अञ्चरत्र समाधानमर्थः । समाहितो भूत्वा गच्छतीति गम्यते। समाधानं च अव्याकुलत्वम् , अव्याकुलं गच्छतीत्यर्थः। अव्याकुलगमने च पूजा गम्यते । नत्वञ्चतेरेव सोऽर्थ इति 'अञ्चोऽनपादाने' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । प्राङिति । प्रपूर्वादञ्चतेः क्विन् । प्रकर्षेण पूजनमञ्चेरर्थः । नलोपाभावे प्राश्च इत्यतः सुबुत्पत्तिः। हल्ड्यादिलोपः, संयोगान्तलोपः, ततः अनुस्वारपरसवर्णनिवृत्ती, नकारख्य 'क्विन्प्रत्ययस्य कुः इति कुत्वेन डकार इति भावः । प्रान्चाविति । स्वाभाविकनकाल्य अनुस्वारपरसवर्णाविति भावः । अलुप्तेति । 'उगिदचाम्' इत्यत्र नलोपिनोऽश्चते
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६१
कारलोपो न । प्राश्वः । प्राश्चा, प्राध्भ्याम् इत्यादि । प्राघु-प्राक्षु-प्राइषु । एवं पूजार्थे प्रत्यादयः । 'कुच कौटिल्याल्पीमावयोः । अस्य 'ऋत्विग-(सू ३७३) आदिना नलोपाभावोऽपि निपात्यते । कुछ , कुचौ, कश्वः । क्रुझ्यामित्यादि। 'चोः कुः' (सू ३७८ ) पयोमुक्-पयोमुग् , पयोमुचौ, पयोमुचः। 'वश्व-' (सू २९४) इति षत्वम् । 'स्को:- (सू ३८.) इति सलोपः। जश्वचवें । रेव ग्रहणान्नुम् न। ततश्च नकारद्वयश्रवणं न शङ्कयमिति भावः। नलोपाभावादिति । शसादावधि 'अचा' इति लोपो न भवति । लुप्तनकारस्यैवाञ्चतेस्तत्र ग्रहणादिति भाकः । प्राच इति । प्रमञ्च मस् इति स्थिते सवर्णदीघे रूपमिति भावः । 'नाम्चेः पूजायाम्' इत्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्, 'भनिदिताम्। इति लोपप्रसङ्गात् । असर्वनामस्थानतया 'उगिदचाम्' इति नुमश्चा. प्रत्पतेरिति बोध्यम् । प्राइभ्यामिति । 'स्वादिषुः इति पदत्वात् चकारस्य संयोगा. न्तकोपे अनुस्वारपरसवर्णनिवृत्तौ नकारस्य 'क्विन्प्रत्ययस्य इति कुत्वेन ब्कारः इति मावः । इत्यादीति । प्राभिः । प्राब्चे, प्राभ्याम् प्राइभ्यः । प्राश्चा, प्राजोः, प्रा. बाम् । प्राञ्चि, प्रायो। प्राङरिष्वति। 'णोः कुक्टुक' इति वा कुक् । 'चयो द्वितीया इति पक्षे खाच बोध्यः । एवमिति । सुटि पूर्ववदेव रूपाणि । शसादावचि प्रत्यञ्चः, प्रत्यचा । प्रत्याभ्याम् । अमुमुयञ्चः । अमुमुयङ्म्याम् । उदयः । उदभ्यामि स्मादि ज्ञेयम् । ___ क्रुन्च कौटिल्येति । नलोपाभावोऽपीति । 'मनिदिताम्' इति नलोपाभावः, निरुपपदात् क्विन्नपि निपात्यत इत्यर्थः । सति तु नलोपे नकारो न येत । 'उगिदचाम्' इति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः । वस्तुतस्तु स्वाभाविकोपधस्यैव धातुपाठे निर्देशात् नलोपस्यात्र प्रसक्तिरेव नास्ति । अत एव परेश्च घाइयो' इति सूत्रे भाष्ये क्रुश्चेत्यत्र चकारे परे 'चो कुः इति कुत्वमाशय ऋत्विगित्यादिसूत्रे क्रुश्चेति निपातनात् कुत्वं नेत्युक्तं सङ्गच्छते । यदि तु नल्यानुस्वारपरसवर्णाभ्यां भकारो निर्दिश्येत, तर्हि तल्य 'चो कुः' इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात् । कुत्वे कर्तव्ये परस. वर्णस्यासिद्धत्वादित्यास्तां तावत् । नोपधत्वमभ्युपेत्य आह-क्रुङ् इति । हल्ड्यादिलोपे संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वम् । क्रुझ्याभिति । संयो. गान्तलोपे नकारस्य कुत्वं डकारः । अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपात. भादेव न भवति, चवर्गपश्चमकार एव सर्वत्रेति 'परेश्च धारयोः' इति सूत्रभाष्यकैय.
स्वरसः । पयोमुगिति । 'मुच्ल मोक्षणे क्विप् । सुपूर्वात् 'ओ पश्चू छेदने' इति धातोः विपि अहिज्या' इति सम्प्रसारणे सुवृश्चशब्दः । तस्य विशेषमाह-व्रश्चेति षत्वमिति । हल्ख्यदिना सुलापे कृते चकारस्य षत्वमित्यर्थः । सलोप इति । धातुपाठे वस्तू
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
सिद्धान्तकौमुदी
[ हलन्तपुंलिश
mmmmmmmmmmmmmmmmmmmmmmmmm
सुट्-सुघृड् , सुवृश्ची, सुवृश्चः । सुटत्सु-सुवृट्सु । इति चान्ताः । 'वर्तमाने पृष
बृहन्महज्जगच्छ तृवच्च' (उ० २४१) एते निपात्यन्ते, शतृवच्चैषां कार्य स्यात् । उगित्त्वान्नुम् । 'सान्त महतः- ( ३१७ ) इति दीर्घः । मह्यते पूज्यत इति महान् , महान्तो, महान्तः । हे महन् । महतः । महता, महद्भयामित्यादि । (४२५) अत्वसन्तस्य चाधातोः ६४१४॥ अत्वन्तस्योपधाया दीर्घः स्यादातुमिन्नासन्तस्य चासम्बुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामादादौ दीर्घः । ततो नुम् । धीमान् , धीमन्तो, धीमन्तः । हे धीमन् । शसादौ
इति सस्य श्चुत्वे कृते वश्च इति निदेशः । तत्र श्चुत्वस्यासिद्धत्वात् 'स्कोः इति सकारस्य लोप इत्यर्थः । 'वावसाने' इति चत्वें षस्य टः। तदभावे जश्त्वेन ड इत्य. थः। सुवृद्रिस्वति । चर्वस्यासिद्धत्वात् पूर्वं 'डः सिः' इति वा भुट् । ततश्चत्वमिति भावः । इति चान्ताः। ___ अथ तकारान्ता निरूप्यन्ते । अथ महच्छब्दे विशेषं वक्तुमाह-वर्तमाने । उणादि. सूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृष सेचने' 'वृहि वृद्धौ' अनयोर्गुणभावः, महेः कर्मणि अतिप्रत्ययः, गमेर्जगादेशश्चेति विशेषः । शतृवदिति । शतृप्रत्ययान्तव. दित्यर्थः। उगित्त्वादिति । शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः । सान्तेति । सुटि महन्त् स औ इत्यादिस्थिती नकारात् पूर्वस्य अकारस्य दीर्घ इत्यर्थः । मयते इति । 'कर्तरि कृत्' इति कर्थ बाधित्वा निपातनात् 'मह पूजायाम्' इति धातोः कमणि अतिप्रत्यय इति भावः । महानिति । नुमि दीघे सुलोपे संयोगान्तलोप इति भावः। महान्ताविति। नुमि दीघे अनुस्वारपरसवर्णाविति भावः । हे मह. निति । असम्बुद्धावित्यनुवृत्तेः 'सान्तमहतः इति दीर्घो नेति भावः । महत इति । असर्वनामस्थानत्वाच्छसादौ न दीर्घः। धीः अस्यास्तीत्यर्थे धीशब्दान्मतुप 'पकार इत् , उकार उच्चारणार्थः। तद्धितान्तत्वेन प्रातपदिकत्वात् सुबुत्पत्तिः । धीमत् स् इति स्थिते । अस्वसन्तस्य । अतु इति लुप्तषष्ठोक पृथक्पदम् । अङ्गविशेष. णत्वात्तदन्तविधिः अधातोरित्यसन्तविशेषणम् । 'नोपधायाः' इत्यतः उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नासन्तस्य च उपधाया इति लभ्यते। 'सर्वनामस्थाने चासंबुद्धौ' इत्यतः असंबुद्धाविति 'सौ च' इत्यतः साविति ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह-अवन्तस्येत्यादिना । ननु कृते अकृते च दोघे प्रवृस्यास्य नुमो नित्यत्वात्परत्वाच्च मकाराकारात् नुमि कृते अत्वन्तत्वाभावात् कथमिह दीर्ष इत्यत भाह-परमिति । वचनसामादिति । अन्यथा निरवकाशत्वापत्तिरिति भावः । तो जुमिति दी कृते नुमित्यर्थः । 'विप्रतिषेधे यदूबाधितं तबाधितम्' इति त्वनित्य
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६३
महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति, गोमानिवाचरतीति वा क्या जन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । 'उगिदचाम्-' (सू ३६१ ) इति त्रेऽ.. ज्ग्रहणं नियमार्थम् । 'धातोश्चेदुगिरकार्य तयञ्चतेरेव' इति । तेन 'सत्' 'ध्वत्' इत्यादौ न । 'अधातोः' इति स्वधातुभूतपूर्वस्यापि नुमर्थम् । गोमान, गोमन्तौ, म् , 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इत्युक्तेरिति भावः। धीमानिति । दीपें नुमि हल्ल्यादिलोपे संयोगान्तलोपे रूपमिति भावः । हे धीमन्निति । असम्बुद्धौ इत्युक्तेः नदीर्घ इति भावः । महद्वदिति । असर्वनामस्थानतया शसादौ नुमभावादिति भावः । मत्सोरिति वक्तव्ये अन्तग्रहणं तु अत्वन्तमात्रग्रहणार्थम् । अन्यथा उपदेशे ये अत्व. न्तास्त एव गृोरन् , न तु मतुबादयः। नहोते उपदेशे अत्वन्ता इत्याहुः । नन्वधातोरित्येतत् असन्तस्येव अत्यन्तस्यापि विशेषणं कुतो नेत्यत आह-धातोरपीति । अत्यन्तस्य धातुत्वेऽपि दीर्थार्थम् । अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाभि
तमित्यर्थः।
.. ननु धातुपाठे अत्यन्तधातुरप्रसिद्ध इत्यत माह-गोमन्तमिति । भाचरति बेत्यनन्तरम् इत्यर्थे इति शेषः । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मनः क्यच' इति क्यचि 'न: क्ये' इति नियमात् पदत्वाभावाज्जरत्वाभावे गोमत्यशब्दात् 'सनाद्यन्ताः" इति धातुत्वात् कर्तरि क्विपि 'यस्य हल मतो लोपः' इति यलोपाल्लोपयोः गोमत्शब्दार सुबुत्पत्तिः । गोमानिवाचरतीत्यर्थे तु 'सर्वप्रातिपदिकेभ्यः क्विन्वा वक्तव्या' इति क्विपि 'सनाचन्ता इति धातुत्वात् कर्तरि क्विपि सुबुत्पत्तिरिति भावः । एवं विधात् गोमतशब्दात् सौ 'अस्वसन्तस्य' इति दीघे सति 'उगिदचाम्' इति नुमि हल्ल्यादिलोपे गोमानिति रूपं वक्ष्यति । तत्र गोमच्छब्दस्य क्यजन्तस्य भाचारक्विबन्तस्य च 'सनाचन्ताः' इति धातुत्वात् कथमस्य 'उगिदवाम्' इति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशय माह-उगिदचामिति । सत्रे इति। उगितः सर्वनामस्थाने इत्येतावदेव सूत्रमस्तु अशतेरुगित्त्वादेव सिद्धेः । अतः अज्ग्रहणमति. रिच्यमानं नियमार्थमित्यर्थः। नियमशरीरमाह-धातोश्चेदिति । धातोश्चेदुगितः कार्य स्यात् तर्हि अञ्जतेरेव नतु धात्वन्तरस्येति नियमार्थम्' इति पूर्वेणान्वयः । निय. मस्य फलमाह-तेनेति । 'नन्सु ध्वन्सु गतौ' इत्युगितौ धातू , ताभ्यां क्विपि अनि. दितां हल उपधायाः' इति नलोपे सुबुत्पत्तौ सोहल्ड्यादिलोपे 'वसुत्रसुध्वंस्वनडहां दः' इति दत्वे नत् ध्वत् इति रूपमिष्टम् । उगितः सर्वनामस्थाने इत्युक्ते तु अत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः । तोतावतैव सिद्धे मधातोरिति किमर्थमित्यत आह-अधातोरिति विति। अधातुः पूर्व भूतः मधातुभूतपूर्वः, पूर्वम अधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः। ततश्च उगिदचर्चा सर्वनाम:
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६४
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
>
गोमन्तः इत्यादि । 'भातेर्डवतु:' ( उ ६३ ) । भवान् भवन्तो भवन्तः । शत्रन्तस्य स्वत्वन्तत्वाभावान्न दीर्घः । भवतीति भवन् । ( ४२६ ) उभे अभ्य स्तम् ६|१|५|| षाष्ठद्विस्व प्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः । (४२७) नाभ्यस्ताच्छतुः ७|१|७८ ॥ अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत्स्थाने इत्येकं वाक्यम् । तत्र अधातोरित्यभावेऽपि अग्रहणादधातोरुगित इति लाभादधातोरुगितो मलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः । अधातोरित्यपरं वाक्यम् । उक्तो नुमागमः अधातुभूतपूर्वस्यापि भवतीत्यर्थः । प्रकृते च क्यजावारक- स्पस्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वम् अधातुत्वसत्वान्नुम् निर्वाध इत्य1: । एतत् सर्वम् 'उगिदवाम्' इति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घे तुमि च कर्तव्ये अल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात् कौ लुप्तं न स्था'विवदित्युक्तेश्च ।
}
1
अथ भवच्छब्दे विशेषमाह - भातेर्डवतुरिति । उणादिसूत्रमेतत् । भाधातोर्डवतुः - स्यादित्यर्थः । डकार इत् । उकार उच्चारणार्थः । डिस्वसामर्थ्यादभस्यापि टेर्लोपः । भवत् इति रूपम् । भवानिति । भवच्छब्दात् सुः । 'अत्वसन्तस्य' इति दीर्घः, उगिदचाम्' इति नुम्, हल्ब्यादिलोपः संयोगान्तलोपश्चेति भावः । शत्रन्तस्य त्विति । 'लटः शतृशानचौ' इति भूधातोर्लटः शतृ आदेशः । शकार इत्, ऋकार इत्, शप्, -गुणः, अवादेशः, पररूपम् भवत् इति रूपम् । तस्य तु अत्वन्तत्वाभावादत्व सन्तस्येति दीर्घो न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थः । भवन्निति । सौ नुमि हरड्यादिलोपे संयोगान्तलोपः । भवन्तावित्यादि तु पूर्ववदेवेति भावः । दान्धातोः लटः शत्रादेशे शप् । जुहोत्यादिभ्य भ्यः श्लुः | 'ग्लौ' इति द्वित्वम्, अभ्यासहस्वः, इनाम्यस्तयोरातः' इत्याल्लोपः । ददत् इति रूपम् । ततः सुबुत्पत्तिः । 'उगिदचाम्' इति तुमि प्राप्ते 'नाभ्यस्तात्' इति तन्निषेधं वक्ष्यन् अभ्यस्तसंज्ञामाह - उभे अभ्यस्तम् । 'एकाचो द्वे प्रथमस्य' इत्यतो द्वे इत्यनुवर्तते । उभेग्रहणं समुदायप्रतिपत्त्यर्थम् । -इत्यनेन च षष्ठाध्याय विहितमेव द्वित्वं विवक्षितम्, 'अनन्तरस्य विधिर्वा प्रतिषेधो 'वा' इति न्यायात् । तदाह - पाष्ठेत्यादिना । समुदिते किम् ? नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् 'अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात् । नाभ्यस्ताच्चतुः । 'हृदितो नुम् धातो:' इत्यतो नुमित्यनुवर्तते । तदाह - अभ्यस्तादित्यादिना । दददिति । - ददत् शब्दात् सुः । हल्ड्यादिलोपः । 'नाभ्यस्तात्' इति निषेधात् 'उगिदचाम्' इति - नुम् न । अत्वन्तत्वाभावाच्च न दीर्घ इति भावः ।
'जझ भक्षणहसनयोः, जागृ निद्राक्षये, दरिद्रा दुर्गतौ चकासृ दीप्तौ, शात्रु अनुशिष्टौ दोघी दीप्तिदेवनयोः, वेवीड् वेतिना तुल्ये' इति सप्त धातवः अदादौ पठिता
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
•
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२६५
-
ददद्, ददतौ, ददतः । (४२८) जक्षित्यादयः षट् ६१६॥ षड् थातवोऽन्ये जक्षितिश्च सप्तमः एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत्-जक्षद् , जक्षतौ बक्षतः । एवं जाग्रत् दरिद्रत शासत् , चकासत् । दीधीवेव्योरिवेऽपि छान्दसत्वाद्वयत्ययेन परस्मैपदम् । दीध्यत् , वेव्यत् । इति तान्ताः । गुप् ,-गुब् , गुपो, गुपः । गुब्भ्यामित्यादि । इति पान्ताः । (४२६) त्यदादिषु दशोऽनालो. चने का ३।२।६०॥ त्यदादिषूपपदेष्वज्ञानार्थादृशेर्धातोः कञ् स्यात् , चात् सुम्बिकरणाः। तेभ्यो लटः शनादेशे शब्लुकि सुबुत्पत्तौ 'नाभ्यस्ताच्छतुः इति निष इष्यते । अभ्यस्तसम्ज्ञायाश्च द्वित्वनिबन्धनत्वादिहाप्रासाविदमारभ्यतेजक्षित्यादयः षट् । अभ्यस्तमित्यनुत्त बहुवचनान्ततया विपरिणम्यते । तत्र जक्षितिः आदिवामिति सदगुणसंविज्ञामबहुप्रीही सति जक्षधातुमारभ्य षण्णामेव ग्रहण स्यात्, वेवीगेन स्यात् । अतद्गुणसविज्ञानबहुबीहो तु जागृ इत्यारभ्य षण्णां महल स्यात्, नतु जो। मतो व्याचष्टे-बडधातवोऽन्ये जक्षितिश्च सप्तम इति । अत्र विवरणवाक्ये जक्षितिरिति क्तिपा निर्देशः, जक्षधातुरित्ययः । 'दादिभ्यः सार्वधा. तुके इति हडागमे रूपम् । सूत्रे जम् इति पृथक्पदम् । इतिमा जक्षिः परामृश्यते । इति आदिः येषामित्यतगुणसं विज्ञानबहुव्रीहिः । ततश्च इत्यादयः षट् इत्यनेन जक्षधातोः अन्ये जागृ इत्यारभ्य पदधातवो विवक्षिताः चशब्दः अध्याहार्यः । एवं च जाधातु जागृधातुमारभ्य पद धातवश्चेत्येवं सप्त धातवः अभ्यस्तसम्मकाः स्युरिति फलतीत्यर्थः । तदिदं भाष्ये स्पष्टम् । जशदिति। अभ्यस्तत्वान्नुम्निषेध इति भावः। ननु दीधीवेव्योठित्वात् 'अनुदात्तडित' इति आत्मनेपदसन्जक एव लट: शानजादेशः स्यात् न तु शत्रादेशः इत्यत आह-दीधीवेश्योरिति । दीधीवेव्याः छन्दोमात्रविषयत्वं तिताधिकारे वक्ष्यते । ततश्च 'व्यत्ययो बहुलम्' इति छान्दसं पर. स्मैपदम् । अतः शानजसम्भवात शत्रादेशाएवेत्यर्थः। दीध्यत् वेव्यदिति । दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः। अभ्यस्तत्वाच्च नुम् नेति भावः । इति तान्ताः।
अथ पकारान्ता निरूप्यन्ते । गुबिति । 'गुपू रक्षणे' क्विप् । 'आयादय आर्धधातुके बा' इति वैकल्पिकत्वादायप्रत्ययो नेति भावः । गुम्भ्यामिति । 'स्वादिषु' इति पदत्वात् भ्यामादौ जश्त्वमिति भावः । इति पान्ताः।
अथ शकारान्ता निरूप्यन्ते । ताडक्शब्दं व्युत्पादयितुमाह--त्यदादिषु । चकारात् स्पृशोऽनुदके क्विन्' इत्यतः क्विन् अनुकृष्यते । आलोचनमिह ज्ञानसामान्य विवशिवम् । तदाह-स्यदादिष्वित्यादिना । अनालोचने किम् । तं पश्यति तद्दर्शः। कर्मः
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सिद्धान्तकौमुदी
[ हलन्तलिश
किन् । (४३०) श्रा सनाम्नः ६३।१॥ सर्वनाम्नः आकारोऽन्तादेशः स्याग्दशवतुषु । कुत्वस्यासिद्धत्वात् 'वश्व- (सू २९४) इति षः। तस्य अश्त्वेन डः । तस्य कुत्वेन गः । तस्य चत्वेन पक्षे कः। तादृक्-ताम् तादशी तादृशः । 'परवापवादत्वात्कुत्वेन खकारः' इति कैयटहरदत्तादिमते तु चोभावपक्षे ख एव श्रूयते, न तु गः, जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । 'दिगादिभ्यो यत्'
ण्यम् । कजि तु कित्त्वात् गुणो न स्यात्। तदूशब्दे उपपदे स्विनि, उपपदसमासे सुब्लुकि तदू दृश् इति स्थिते । आ सर्वनाम्नः। आ इत्यविभक्तिकनिर्देशः । 'हरहवतुषु' इति सूत्रमनुवर्तते । तदाह-सर्वनाम्न इति । अन्तादेश इति। अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्षः। तादृश् इति रूपम् । ततः सुबु. स्पत्तिः । कुस्वस्येति। तादृश् स् इति स्थिते हल्ड्यादिलोपे, क्विन्प्रत्ययस्य कुः इति कुत्वस्यासिद्धृत्वात् 'नश्च' इति ष इत्यर्थः। तस्येति । 'प्रश्च' इति सम्पन्नस्य षकार. स्येत्यर्थः । तस्य कुत्वेनेति । डकारस्य 'किन्प्रत्ययस्य कु: इति कुत्वेन गकार इत्यर्थः । तस्य चत्वेनेति । गकारस्य 'वावसाने' इति चत्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः । 'कर्तरि कृत्' इति कर्तयेव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन् । स इवायं पश्यति, ज्ञानविषयो भवतीत्यर्थः। 'दृशेरत्र ज्ञानविषयत्वापत्ति. मात्रवृत्तित्वादज्ञानार्थता' इति 'त्यदादिषु दृशेः' इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द, एवायमित्यन्ये । ___ अथान कैयटादिमतं दूषयति-पत्वापवादत्वादिति । यद्यपि दगञ्चुयुजिकुमचुषु, अप्राप्तेऽपि प्रश्चादिषत्वे 'क्विन्प्रत्ययस्य कु. इति कुत्वमारभ्यते। तथापि क्विपैव सिद्धे 'स्पृशोऽनुदके किन् , त्यदादिषु दृशोऽनालोचने कञ् च' इति किन्विधान कि. न्प्रत्ययस्य कु.' इति कुत्वार्थ क्रियमाणं घृतस्पृक् , ताक् इत्यादिषु अप्रवृत्तौ निरव. काशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः। किन्धिधानं 'क्विन्प्रत्ययस्य कुः इति कुत्वार्थमेव इति 'स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च शकारविषये कुत्वस्य नासिद्धत्वमपि । अन्यथा 'स्पृ. शोऽनुदके किन्' इत्यादिना स्पृशादेः क्विन्विधिवैयर्थ्यात्। उक्तं च 'पूर्वत्रासिद्धम्। इत्यत्र भाष्ये-'अपवादो वचनप्रामाण्यात्' इति । खकारः इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति। तादृक् , तादृग् इति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य 'वावसाने' इति चत्वपक्षे ताहक् इति स्पसिद्धावपि चाभावपक्षे तारख् इत्येव स्यात्, तादृग् इति गकारो न श्रूयेतेत्यर्थः। नन्वस्तु शकारस्य खकाः। अथापि तस्य चाभावपक्षे जश्त्वेन गकारो निर्वाध इत्यत आह-जशवं प्रतीति ।
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२४७
(सू १४२९) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । 'वश्व- (सू २९४) इति षत्वम् , अश्स्वचत्वें । विट्-विड् , विशो, विशः । विशम् । (४३१) नशे
र्या माश६३॥ नशेः कवोऽन्तादेशो वा स्यात्पदान्ते । नक्-नग्-नट-नड्. नशो, नशः । नरभ्याम् नडभ्यामित्यादि। (४३२ ) स्पृशोऽनुदके किन् । ३२२५८॥ अनुदके सुप्युपपदे स्पृशेः क्विन् स्यात् । घृतस्पृक्-घृतस्मृग , घृतस्पृशो, घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुब्रोह्याश्रयणारिकप्यपि कुत्वम् ।'
-
जास्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पनखकारस्यासिद्धतया सखोऽमावेन जश्त्वासम्भवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । 'विश प्रवेशने विप् , विश् इति रूपम् । तस्य विशेषमाह-नश्चेति पत्वमिति । विश् म् इति स्थिते हल्ल्यादिलोपे 'वश्व इति शकारस्य पकार इत्यर्थः । जश्त्वचत्वे,इति । षस्य जवत्वेन । 'पावसाने इति तस्य चत्वेन पर्छ । इत्यर्थः । विम्याम् । विट्त्सु विट्स।
'गश अदर्शने क्वि । इति रूपम् । ततः सुबुत्पत्तिः। सोहल्ल्यादिलोपे बादिना नित्यं षत्वे प्राप्ते । नशेर्वा । 'क्विन्प्रत्ययस्य कु. इत्यतः कुरित्यनुवर्तते, 'स्कोः संयोगायोः' इत्यतः अन्ते इति च । 'पदस्य' इत्यधिकृतम् । तदाह-नशेः कार्ग इत्यादिना । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षे 'प्रश्व' इति षत्वम् । नक् नगिति । कुत्वपक्षे जश्त्ववाभ्यां रूपे। नट नदिति । षत्वपचे जश्त्ववाभ्यां रूपे । नरभ्याम-नड्भ्यामिति । कुत्वपक्षे जश्त्वेन गकारः। षत्वपक्षे तु जवत्वेन डकारः । 'मस्जिनशोर्मलि' इति नुम् तु न, धातोविहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । स्पृशोऽनुदके । अनुदके सुपीति । उदकशब्दमिन्ने सुबन्ते इत्यर्थः । 'सुपि स्थः' इत्यतः सुपीत्यनुवर्तते इति भावः । घृतस्पृक् घृतस्पगिति । घृतं स्पृशतीति विग्रहे क्विन् उपप. दसमासः । सुब्लुक् । घृतस्पृशशब्दात सुबुत्पत्तिः । सोहल्ल्यादिलोपः । 'क्विन्प्र. त्ययस्य' इति कुत्वस्यासिद्धत्वात् पूर्व 'वश्व इति षः। तस्य जश्त्वेन । तस्य कुत्वेन गः । तस्य चर्वविकल्प इति भावः । घृतस्पृरभ्याम् । घृतस्पृक्षु । अथ 'क्वि. न्प्रत्ययस्य कु.' इत्यत्र 'क्विनः कुः' इत्येतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति ।बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे । तस्य प्रयोजनमाह-क्विन् प्रत्ययो यस्मादिति बहुव्रीहयाश्रयणात् किप्यपीति। सति भवतीति शेषः । अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः। अतो निरुपसर्गात् स्पृशेः स्विवेव । तस्य सम्प्रति क्विन्नन्तत्वाभावेऽपि कुत्वं भवत्येव, बहुव्रीह्याश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२85
सिद्धान्तकौमुदी
[हलन्तपुंलिश
स्पृक् । षडगकाः प्राग्वत् । इति शान्ताः । 'जि धृषा प्रागल्भ्यः । अस्मात् 'ऋस्विम्- (सू ३५३) आदिना किन् । द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्व जश्वेन डः गः कः । धृष्णोतीति दधृक् दधृग , दधृषौ, दधृषः । दधृ. ग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट-रत्नमुड्, रत्नमुषी, रस्नमुषः । 'षड्भ्यो लुक्' ( स २६१ ) षट्-षड् । षड्भिः षडभ्यः। षड्भ्यः । 'पद्दतु
य॑श्च' (सू ३३८) इति जुट् । 'अनाम्' इति पर्युदासान ष्टुत्वनिषेधः । 'यरोऽ नुनासिके-' (सू ११६ ) इति विकल्पं बाधित्वा 'प्रत्यये भाषायां नित्यम्। (वा ५०१७ ) इति वचनान्नित्यमनुनासिकः । षण्णाम् । षटरसु-षट्सु । तदन्तविधिः परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्या
-
षडगकाः प्रागवदिति । षत्वजश्त्वकृत्वच रिति भावः । इति शान्ताः ।
अथ षकारान्ता निरूप्यन्ते । दष्शब्दस्य व्युत्पत्ति दर्शयति-नि घृषेति । 'आदि. जिटुडवः' इति निः इत् । आकारस्तु। 'उपदेशेऽजनुनासिकः' इति इत् । ऋत्विगादिनेति । किनादित्रयं निपात्यते । किनि लुप्ते पृष् इत्यस्य द्वित्वम् । 'उरत्' रपरत्वम् । हलादिः शेषः । कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम् । णित्यादिनित्यम्' इत्या. शुदात्तनिवृत्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् प्रथमं जश्त्वेन षस्य डकार इत्यर्थः । गः कः इति । 'विन्प्रत्ययस्य' इति डस्य कुत्वेन गकारः, तस्य चत्वेन ककार इत्यर्थः। रस्नमुदिति । 'मुष स्तेये क्वि, उपप दसमासः सुब्लुक, हल्ड्यादिलोपः, जश्त्वचत्वें इति भावः । षष्शब्दो नित्यं बहुव. चनान्तः । तस्य बहुवचनेष्वेव रूपाणि दर्शयति-पड्भ्यो लुगिति। अनेने जश्शसोः लुकि जश्त्वचत्वे इति शेषः । तदन्तविधिरिति । 'षड्भ्यो लुक् , षट्चतुयश्च' इत्यनयोराङ्गत्वादिति भावः । प्रियाः षट् यस्येति बहुवीहौ प्रियषष्शब्दस्य (एकद्विबहुवचनानि सन्ति । प्रियषट्-प्रियषड् , प्रियषषौ, प्रियषषः इत्यादि रत्नमुष्शब्दवत् । तत्र 'षड्भ्यो लुक्' इति 'षट्चतुर्थ्यश्च' इति च लुडनुटावाशक्य आह-गौणत्वे विति । षड्भ्यः इति, 'षट्चतुर्म्य' इति च बहुवचननिर्देशवलेन तदर्थप्राधान्य एवं लुछ्नुटोः प्रवृत्तेरिति भावः । पठितुमिच्छतीत्यर्थे, 'पठ व्यक्तायां वाचि' इति धातोः 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सन्प्रत्यये 'सन्योः ' इति द्वित्वे हलादिशेषे 'सन्यतः' इत्यभ्यासस्य इत्त्वं, सन इट् , पत्वं, 'सनाचन्ताः' इति धातुस्वम् । पिपठिष इत्यस्मात् क्विप्, 'अतो लोपः' पिपठिप इति षकारान्तम् । कृदमात् प्रातिपदिकरवं, ततः सुः, तत्र विशेषं दर्शयति-रुत्वं प्रतीति । 'कौ लुप्त न
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
सिद्धत्वात् 'सजुषो रु' ( सू १६२ ) इति रुत्वम् । ( ४३३) वेरुिपधाया दीर्घ इकः ८|२|७६ ॥ रेफवान्तस्य धातोरुपधायाः इको दीर्घः स्यात्पदान्ते । पिपठीः, पिपठिषौ, पिपठिषः । पिपठीर्भ्याम् | 'वा शशि' ( सू १५१ ) इति वा विसर्जनीयः । (४३४) नुम्विसर्जनी यशर्व्यवायेऽरि ३५८ ॥ एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठोष्षु | पिपठीः षु । 'प्रत्येकम्' इति व्याख्यानादने क व्यवधाने षत्वं न । निंस्स्व ॥
-
२६६
स्थानिवत्' इति निषेधाद्धल्ड्यादिलोपे कृते 'ससजुषो रुः' इति रुत्वम् । न च सकाराभावः शक्यः, रुत्वं प्रति षत्वस्यासिद्धत्वादित्यर्थः ।
1
वरुपधायाः । र् च, व् च व तयोरिति विग्रहः । 'सिपि धातो रुव' इत्यतो धातोरित्यनुवर्तते । वौरिति तद्विशेषणम् । तदन्तविधिः । ' पदस्य' इत्यधिकृतम् । 'स्कोः संयोगायोः' इत्यतः अन्ते इत्यनुवर्तते । तदाह - रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीयिमिति । 'स्वादिषु' इति पदत्वात् 'वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणो दीर्घ इति भावः । सुपि विशे
माह - वा शरीति । पिपठिष सु इति स्थिते षत्वस्यासिद्धत्वात्वे, दीर्घे, विसर्जनये, तस्य सत्वं बाधित्वा 'वा शरि' इति विकल्पेन विसर्जनीयः । तदभावपक्षे विस
नीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः सु इति स्थिते, इण्कवर्गाभ्यां परत्वाभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते । तुम विसर्जनीय । इण्कोः इति, मूर्धन्यः इति चानुवर्तते । तदाह - एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिर्व्यवधानं विवक्षितम् । न तु 'अट्कुप्वाङ्' इतिवत् यथासम्भवं व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भावः । विसर्जनीयस्य सत्वपक्षे आह- 'टुस्खेनेति । पिपठीस् सु इति स्थिते प्रथमसकारेण शरा व्यचायमाश्रित्य ईकारादिगण परत्वात् द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य 'ष्टुत्वेन षकारः, नतु 'आदेशप्रत्ययोः' इति षः । अपदान्तस्य इत्यनुवृत्तेरिति भावः । एवं च ' नुम्शर्व्यवायेऽपि' इत्येव सिद्धे विसर्जनीयग्रहणं व्यर्थमित्याहुः । अयोगवाहानां शर्ष्वपि पाठादिह विसर्जनीयग्रहणं भाष्ये प्रत्याख्यातम् । निस्स्वेति । 'णिसि चुम्बने' लुग्विकरणः | 'णो नः' इति णस्य नः, इदित्त्वान्नुम् । अनुदात्तेत्त्वादात्मनेपदम् | लोणमध्यमपुरुषैकवचनं' थास्, 'थासः से, 'सवाभ्यां वामौ' इत्येकारस्य चत्वम् । निस्स्व इति स्थिते 'नश्चापदान्तस्य' इत्यनुस्वारे निस्स्वेति रूपम् । अत्र यथासंभवं व्यवधानाश्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्वं स्यात् । अतः प्रत्येकं व्यवधानमाश्रितमिति भावः ।
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
-
-
-
निस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थ, व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अत एव न शर्ग्रहणेन गतार्थता । 'रात्सस्य' (सू २८० ) इति सलोपे विसर्गः। चिकीः, चिकीर्षों. चिकीर्षः । 'रोः सुपि' (सू ३३९) इति नियमान्न विसर्गः । चिकीर्षु । 'दमेर्टोस्' ( उ २२५ ) डित्त्वसामाटिलोपः। पत्वस्यासिद्धत्वाकृत्वविसौं । दोः, दोषौ, दोषः । 'पदन्नो--(सू २२८ ) इति
निस्से इति । उक्तधातोर्लण्मध्यमपुरुषैकवचनं थास् । तस्य 'थासः से' इति सेआदेशः।. निस्से इत्यत्रापि द्वितीयसकारस्य षत्वं न भवति, प्रत्येकमेव व्यवधानाश्रयणादिति भावः । हिसि हिंसायाम्' सुपूर्वादस्मात् किप, इदित्त्वान्नुम् , ततः सप्तमीबहुवचने सुहिन्ससु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे सुहिन्सु इति रूपम् । 'स्वा. दिषु इति पदान्तत्वात् 'नश्चापदान्तस्य' इत्यनुस्वारो न । कि च पुम्शब्दात् सप्त. मीबहुवचने पुंस्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे पुंसु इति रूपम् । तत्र सुहिनसु इत्यत्र नुमा व्यवधानात् षत्वं स्यात् । नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे पुंसु इत्यत्र षत्वं स्यादित्यत आह-नुम्ग्रहणमिति । व्याख्यानादिति । प्रकृतसूत्रे 'हय. वरट सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थः । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपल. क्षणार्थमित्येतत् सूत्राक्षरानुगतमित्याह-अत एव न शर्ग्रहणेन गतार्थतेति । नुम्ग्रहणस्य नुम्स्थानिकानुस्वारोपलक्षणार्थत्वादेव शर्महणेन नुम्ग्रहणस्य गतार्थता लब्धप्र. योजनता नेत्यर्थः । नुम्ग्रहणस्य केवलानुस्वारोपलक्षणार्थत्वे तु सरग्रहणेनैव सिद्ध त्वात् तद्ग्रहणमनर्थकं स्यात् . अनुस्वारस्य शवपि पाठादिति भावः ।
चिकीरिति । कृधातोस्सनि 'इको झल' इति सनः कित्त्वाहकारस्य गुणाभारे 'अ. जमनगमां सनि' इति दीर्घः। ततः 'ऋत इद्धातोः' इति इत्त्वम् , 'हलि च' इति दीर्घः। ततः सन्यकोः इति द्वित्त्वम् । 'हलादिशेषः, हस्वः, कुहोश्चुः' इत्यभ्यासककारस्य चुत्वं, सस्य षत्वम् । चिकीर्ष इति रूपम् ‘सनाद्यन्ताः' इति धातुत्वात्ततः क्विम्। 'अतो लोपः चिकीर्ष इत्यस्मात् षकारान्तात् सबुत्पत्तौ सोहल्डयादिलोपे चिकीर्ष इति स्थितम् । एतावत् सिद्धवत्कृत्य 'रात्सस्य' इति नियमात् षकारस्य संयोगा. न्तलोपाभावमाशङ्कय आह-रात्सस्येति । षत्वस्यासिद्धत्वादिति भावः। एवं चिकीयामित्याधुह्यम् । विसर्गमाशय आह-रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाभावादिति भावः । दमेडोंसिति । मौणादिकमेतत्सत्रम् । 'दमु उपशमे इत्येत. स्माद्धातोर्डोस्प्रत्ययः स्यादित्यर्थः । डकार इत् । डित्त्वसामादिति । 'टे' इति भख्य विहितष्टिलोप इह भत्वाभावेऽपि डित्त्वसामर्थ्यात् भवतीत्यर्थः । सकारस्य प्रत्ययावयवत्वात् षत्वं, दोष इति षकारान्तं रूपम् । ततः सोहख्यादिलोपः। एतावत्
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । 'विश प्रवेशने' । सन्नन्ताक्किप् । कत्वस्यासिद्धत्वात्संयोगान्तलोपः । 'वश्व -' ( सू २९४ ) इति षः । जश्त्वचवें । विविट् - विविड्, विविक्षो, विविक्षः । 'स्को:-' ( सू ३८० ) इति कलोपः । तद्-तड्, तक्षौ, तक्षः । गोरट् - गोरड्, गोरक्षौ, गोरक्षः । तक्षिरक्षिभ्यो ण्यन्ताभ्यां क्विपि तु 'स्को:-' (सू ३८० ) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३ ) इति त्विह नास्ति । 'तस्य दोषः संयोगादिकोपलत्वणखेषु' ( वा ४४० ) इति निषेधात् । तस्मात्संयोगान्तलोप एव ।
३०१
1
सिद्धवत्कृत्य आह-बत्वस्यासिद्धत्वाद्रुस्वविसर्गाविति । षत्वस्यासिद्धत्वाद्वत्वे सति विसर्गः । वा दोषन्निति । शलादाविति शेषः । दोष्णः इति । शसि दोषन्नादेशे 'अल्लोपोsनः' इत्यकारलोपे 'खाभ्याम्' इति णत्वमिति भावः । दोःसु दोष्षु । विश्वक्षूशब्द व्युत्पादयति- विशेति । सन्नन्तादिति । वेष्टुमिच्छतीति विग्रहे विशेः सन् 'हलन्ताच्च' इति सनः कित्वान्न लघूपधगुणः । 'सन्यङोः' इति द्वित्वम् । हलादिः शेषः । शकारस्य झल्परकत्वात् 'वश्व' इति षः । 'पढोः कः सि' इति षस्य कः । प्रत्ययावयवत्वात् सस्य षत्वम् | 'सनाद्यन्ताः' इति धातुत्वात् क्विप् । 'अतो लोपः' विविक्ष इति षकारान्तं रूपमित्यर्थः । कस्वस्येति । विवक्ष इत्यस्मात सोहेल्ड्यादिलोपे बकाree संयोगान्तलोपः । 'स्कोः' इति । ककारलोपस्तु न शङ्खयः । संयोगादिलोपे कर्तव्ये 'पढोः कः सि' इति कत्वस्यासिद्धत्वादित्यर्थः । व्रश्चेति षः इति । संयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्त्या कत्वस्यापि निवृत्तौ झल्परत्वनिवृत्या पूर्वप्रवृतत्वस्यापि निवृत्तौ पदान्तत्वात् 'वश्च' इति शस्य ष इत्यर्थः । जश्त्वच इति । चस्य जइत्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः ।
स्कोरिति । ‘तक्षू तनूकरणे' अस्मात् क्विप् ततस्सोर्हरड्यादिलोपे 'स्को:' इति कलोपे षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । तद्भ्याम् । तत्सु-तट्सु गोरडिति । 'रक्ष पालने' इत्यस्मात् कर्मण्युपपदे अणि प्राप्ते, वासरूपन्यायेन क्विपि सुयुत्पत्तौ तशब्दवद्रूपम् । तक्षिरक्षिभ्यामिति । इका निर्देशोऽयम् । तक्ष रक्ष धातु
' हेतुमति च' इति णिच् चकार इत् । 'चुटू' इति णकार इत् । ततः 'सनाद्यन्ताः' इति धातुत्वात् क्विपि 'णेरनिटि' इति णिलोपे, क्विपि लुप्ते, तक्ष, रक्ष इति कारान्ते रूपे । ततः सुलोपे सति संयोगान्तलोपापवादः । 'स्कोः संयोगाद्यो:' इति . ककारस्य लोपः न प्रवर्तते इत्यर्थः । णिलोपस्येति । 'पेरनिटि' इति णिलोपस्य 'अचः सस्मिन्' इति स्थानिवत्त्वादित्यर्थः । तस्य दोषः इति । तस्मादिति । 'स्कोः इत्यस्याप्र वृतेरित्यर्थः । सति च षकारस्य संयोगान्तलोपे ककारस्य जश्त्वचत्वें इत्यभिप्रेत्य
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
सिद्धान्तकौमुदी
हलन्तपुंलिश
तक्-तम् । गोरक्-गोरग। 'स्को:-- (सू ५८० ) इति कलोपं प्रति कुत्वस्थासिद्धरवारसंयोगान्तलोपः । पिपक्-पिपम् । एवं विवक् । दिधक् ॥ इति षान्ताः ॥ 'पिस गती' सुष्ठ पेसतीति सुपाः, सुपिसो, सुपिसः। सुपिसा, सुपीाम् । सुपीःषु-सुपीष्षु । एवं सुतः । 'तुम खण्डने । विद्वान् , विद्वांसो, विद्वांसः। हे विद्वन् । विद्वांसम् , विद्वासौ । (४३५) वसोः सम्प्रसारणम् ६४।१३१॥ वस्वन्तस्य भस्य सम्प्रसारणं स्यात् । पूर्वरूपं, षत्वम् । विदुषः । विदुषा । '
माह-तक-तम् । गोरक्-गोरगिति । 'दु पचष् पाके' अस्मात् सनि 'सन्यडोः' इति द्वित्वम् , हलादिशेषः । 'सन्यतः इत्यभ्यासाकारस्य हत्त्वम् । 'चोः कुः इति चका. रस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य षः। पिपक्ष इति रूपम् । ततःसोलोपे 'स्को" इति ककारस्य लोपमाशक्य आह-कुत्यस्यासिद्धत्वादिति । चकारस्थानिकस्येति शेषः । सति च षकारस्य संयोगान्तलोपे झल्परत्वानिवृत्त्या पूर्वप्रवृत्तककारस्य निवृत्ती पदान्तत्वात् कुत्वे जश्त्वचत्वे इत्यभिप्रेत्य आह-पिपक्-पिपगिति । पिपक्षी, पिपक्षः इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे 'वच परिभाषणे इत्यस्मात् विवक्षशब्दः पिपक्ष्शब्दवदित्यर्थः । दिधगिति । दग्धुमिच्छतीत्यर्थे 'दह भस्मीकरणे इत्य. स्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्त्वे, दिदइस् इति स्थिते 'दादेर्धातोर्घः' इति हस्य घत्वे 'एकाचो बशः' इति दकारस्य धत्वे, दिधधस इति धकारस्य चत्वेन ककारे प्रत्ययावयवत्वात् सस्य षत्वे ततः किपि अतो लोपे दिधश् इति रूपम् । तस्मात् सुबुत्पत्तौ सोलोपे चर्वस्यासिद्धत्वात् 'स्कोः' इत्यभावे षकारस्य संयोगान्तलोपे खर. परत्वाभावात् पूर्वप्रवृत्तककारस्य निवृत्तौ. पदान्तत्वात् जश्त्वचत्वे इति भावः । दि. क्षो दिधक्षः इत्यादि । इति षान्ताः। ___ अथ सकारान्ता निरूप्यन्ते । सुपीरिति । 'वोरुपधायाः इति दीर्घः । एवं सुतूरिति । विद्वानिति । विद् ज्ञाने' अदादिः, लटः शत्रादेशे 'विदेः शतुर्वसुः शित्त्वात् सार्वधातु. कत्वात् शप, लुक् । 'सार्वधातुकमपित्' इति डिस्वान्न लघूपधगुणः । कृदन्तत्वात् प्रातिपदिकत्वं विद्वस्शब्दः । तस्मात् सुः, उगित्वान्नुम् , 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नलोपो नेति भावः । सान्तत्वामा. वात् । 'वसुन सु' इति दत्वं न । विद्वांसाविति । सुटि नुमि कृते 'सान्तमहतः' इति दीर्घः, 'नश्च' इत्यनुस्वार इति भावः । शसादावचि विशेषमाह-वसोः सम्प्रसारणम् । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणम् । भस्येत्यधिकृतम् । तदाह-वस्व. तत्येति । पूर्वति । शसि वकारस्य उत्वे विदु अस् इति स्थिते, सम्प्रसारणाच्या इति पूर्वरूपे, विदुख इति स्थिते, प्रत्ययावयवत्वात् सस्य पत्वमित्यर्थः । 'पत्वतुकोरसिद्धर
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
३०३
संसु-( ३३४ ) इति दत्वम् । विद्वद्भयाम् इत्यादि । सेदिवान् , सेदिवासी सेदिवांसः। सेदिवासम् । अन्तरङ्गोऽपीगगमः सम्प्रसारणविषये न प्रवर्तते । 'अकृतव्यूहाः-(५५७) इति परिभाषया । सेदुषः । सेदुषा, सेदिवद्याम्
-
-
इति पूर्वरूपस्यासिद्धत्वं न शक्यम् , पदान्तपदाचोरेकादेश एव तत्प्रवृत्तेः। सुपि दत्वे चर्वम् । विद्वत्सु । सेदिवानिति । 'षद्ल विशरणगत्यवसादनेषु' 'धात्वादेः पः सा', 'भाषायां सदवसश्रुवः' इति लिटः क्वसुः, उकावितो, 'लिटि धातोः इति द्वित्वम्ह लादिशेषः, 'अत एकहलमध्ये इत्येत्वाभ्यासलोपो, 'वस्वेकाजादूधसाम्। इति इट् । सेदिवसशब्दः । ततः सुः, उगित्वान्नुम् , 'सान्तमहत' इति दीर्घः, मुलोपः, सस्य संयोगान्तकोपः, तस्यासिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाभावान्न दत्व. मिति भावः । सेदिवासाविति । नुमि 'सान्तमहतः' इति दीर्घः । ननु उत्तरीत्या निष्पनात् सेदिवस्थाब्दात् शसि 'बसोः सम्प्रसारणम्' इति वकारस्य उत्वे पूर्वरूपे हकारस्य यणि सेयुषः इति स्यात्। ततश्च सेदुषः इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्सम्प्रसारणरूपकायें पर्यालोच्य पूर्वमेव इटन प्रवर्तते । पदावधिकान्वाण्यानाभ्युपगमादिति वाच्यम् , एवमपि बहिर्भूतयजाथसर्वनामस्था. मस्वादिप्रत्ययनिमित्तकमसण्ज्ञापेक्षतया सम्प्रसारणस्याङ्गल्य बहिरङ्गत्वेन इडागमस्यैवान्तरणत्वात् प्रथम प्रवृत्तेः । परादन्तरङ्गस्य बलवत्त्वादित्यत आह-अन्तरङ्गोऽपी. ति । प्रकृतेति । भविष्यता सम्प्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः।
वस्तुतस्तु प्रथममपि सेदिवसशब्दादेव सुबुत्पत्तिरस्तु। तथापि वकारस्य सम्प्र. सारणे, उत्वे कृते, यणि सत्यपि सम्प्रसारणस्य बहिरङ्गत्वेनासिद्धत्वात् 'लोपो व्योः' इति लोपे सेदुषः इति रूपं सिद्धम् । नच 'नाजानन्तर्य बहिष्टप्रक्लतिः' इति निषेध शल्यः । उत्तरकालप्रवृत्तिके अजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च सत्तर. कालप्रवृत्तिके वलि लोपे तदभावात्। किश्च कृते इटि सम्प्रसारणप्रवृत्तावपि वलादि. त्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुषः इति निर्वाधम् , 'निमित्तापाये नैमित्ति. कस्याप्यपायः' इति न्यायात्। किञ्च पदावधिकान्वाख्यानेऽपि सेवस अस् इति स्थिते इट्सम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथमं सम्प्र. सारणे वलादित्वाभावादिटः प्राप्तिरेव नास्तीति सेदुषः इति निर्वाधमित्याहुः । सेदुपा सेदिवट्यामित्यादीति । सेदिवत्सु। 'हिसि हिंसायाम्। इदित्त्वान्नुम् , सुपूर्वा क्विप् , इदित्त्वान्नलोपो न, 'नाच' इत्यनुस्वारः, सुहिस्शब्दात्सोलोपः, सकारस्य संयोगान्तलोपः, तस्यासिद्धत्वानलोपो न । नापि सर्वनामस्थाने च' इति दीर्घः । मिमिचापायादनुस्वारनिवृत्तिः। सहिन हति सौ रूप वक्ष्यति । तत्र. 'साम्समहतः'
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
सिद्धान्तकौमुदी
[हलन्त(शि
-
इत्यादि । 'सान्तमहत:- (सू ३१५) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातोः। महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन , सुहिंसी सुहिंसः । सुहित्भ्याम् इत्यादि । सुहिन्सु-सुहिन्सु । ध्वत्-ग्वद् , ध्वसौ । ध्वसः । ध्वद्भपाम् । एवं सत् । (४३६) पुंलोऽसुङ् शम्सर्वनाम स्थाने विवक्षिते पुंसोऽसुङ् स्यात् । असुङ उकार उच्चारणार्थः । 'बहुपुंसी' इत्यत्र, गितच' ( सू. ४५५ ) इति ओवयं कृतेन 'पूलो डुम्सुन्' ( 'पातेईम्सुन्' ) इति
इति 'दीर्घमाशङ्कय आह-सान्तेति । सुहिन्भ्यामिति । 'स्वादिषु' इति पदान्तत्वात् ससम संयोगान्तलोपे निमित्तापायादनुस्वारनिवृत्तिरिति भावः । मुहिन्स्विति । संयो. गान्तलोपे अनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवलंसने कृतानुस्वारनिदेशः । विप् , अनुस्वारस्यासिद्धत्वात् 'अनिदिताम्। इति नलोपः। सोर्लोपः। 'वसुत्रंस' इति दत्वम्। 'वाऽवसाने इति चर्वविकल्प इति भावः । एवमिति । 'सु अवस्त्रंसने क्विबादि पूर्ववदिति भावः। - 'पून पवने' अस्मात् 'पूलो ढुंसुन्' इति उणादिसूत्रेण ढुसुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंसशब्दात् सुबुत्पत्तिः । तत्र सुटि विशेषमाह-सोऽसुङ । 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृत्ति. ममिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-सर्वनामस्थाने इति । पुंसः असुङ् स्यात् सर्वनाम स्थाने इति फलितम् । ननु तत्पुरुषात् परमपुस्शब्दात् सुटि असुगदेशात् प्रागेव 'समासस्य' इत्यन्तोदात्तत्वं पकारादुकारस्य स्यात्। सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्य अन्तरङ्गत्वात् प्राप्तेः । इष्यते तु असुङि कृते परमपुमस इत्यत्र मका. रादकारस्य । अत आह-विवक्षिते इति । 'पुंसोलुङ्' इत्यत्र सर्वनामस्थान इति न परसप्तमी किन्तु विवक्षिते इत्यध्याहृत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुडित्यर्थः आश्रीयते । एवं च सर्वनामस्थानोत्पत्तेः प्रागेव अधिकृते 'समासस्य' इत्यन्तोदात्तत्व, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः । नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गोऽपि समासस्वरः पकारादुकारस्य अकृतव्यूहपरिभाषया न भवति । असुङि कृते पकारादुकारस्य समा. सान्ततायाः प्रनत्यत्वादिति वाच्यम् , विवक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूह परिभाष्यका अस्वीकार्यत्वादिति भावः।
अत्र असुधि उकार इत् · उदित्कार्यार्थः इति प्राचीनमतं दूषयितुमाहअमर उकार उच्चारणार्थः इति । न त्वित्सम्मकः । प्रयोजनाभावादिति भावः । 'जनु रिकार्पमस्तिप्रयोजनमित्यत आह-पूषो इंसुनिति प्रत्ययस्य उगिस्वेनेव
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
३०५
प्रत्ययस्योगित्वेनैव नुम्बिद्धः । पुमान् । हे पुमन् । पुमायो । पुमासः । पुंसः। पुंसा, पुम्भ्याम् , पुम्भिः इत्यादि । पुंसि। पुंसु । 'दुशन--' (सू २५६ ) इत्यन । उशना, उशनसो, उशनसः ।. यस्य सम्बुखी वाऽनछ नलोपश्च वा वाच्यः' (वा ५०३७)। हे उशनन्-हे उशन-हे उशनः । उशनोज्यामित्यादि, नुम्सिद्धेरिति । ननु विनिगमनाविरह इत्यत आह-बहुपुंसीत्यत्र उगिसम्च इति ङीवर्य कतेनेति । बहवः पुमांसो यस्याम् इति बहुव्रीहौ सुब्लुकि निमित्तापायादसुन निवृत्ती सामान्दादुगिस्वात् डोपि बहुसीशब्दः । अत्र डीपः असर्वनामस्थानत्वातस्मिन विविवेमसुख प्रातिरेव नास्ति । ढुसुन उगिस्वादेव की वक्तव्या। तदर्थे पुनः
उगिरनावश्यकम् । तेनैव नुमोऽपि सिद्धत्वात् असु उकार उच्चारणार्थ इति भावः। 'यम्माविशु पाते?सुन्। इति वदयते । तथापि पाठान्तामिदं प्रष्टव्यम् । 'लियाम्। इति सूत्रमाध्यघटयोस्तु सूतेः सत्यता, कारस्याहस्वः, मसुम् प्रत्ययः इत्युक्तम् । पुमानित । ईसुन हति तानुस्वारनिर्देशः। तता सूशब्दात सौ विवक्षिते अस।
WER, उकार उभारणार्थ:, किया इस्यन्तादेशः । निमित्तापायानुस्वारविकृतो पुमस् सुः मित्स्वानुम् , 'सान्तमहतः' इति दी, सोर्लोषः सस्य संयोगामलोपः तस्यासित्वावलोपो नेति भावः । हे पुमन्निति । 'सान्तमहतः' इत्यत्र 'मासम्बुद्धी इत्यनुवृत्तेः न दीर्घ इति भावः । पुमांसाविति । असुछि पुमम् औ इति स्थिते बुमि 'मान्त' इति दीर्घः । 'नश्च' इति नुमोऽनुस्वारः इति भावः । पुंसः। पुंसति । शसादावसर्वनामस्थानत्वादसुखभावे रूपम् । यय्परत्वाभावान्न परसवर्ण इति भावः । पुग्भ्यामिति । सस्य सयोगान्तलोपे निमित्तापायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः । इत्यादीति। पुसे। पुंसः, इंसोः। पुंसोति । अत्र यय्परत्वाभावान परसवर्णः। नुम्स्थानिकानुस्वारस्यैवोपलक्षणात् 'नुम्विसर्जनीया इति षत्वं नेति भावः ।। . 'वश कान्तौ अस्मात् 'वशेः कनसिः इति कनसिप्रत्ययः । ककार इत् । इकार उच्चारणार्थः । 'अहिज्या' इति सम्प्रसारणम् । उशनस्शदा, तस्य सो विशेषमाहकाशनेत्यनङिति । डकार इत् , अकार उच्चारणार्थः, डिवादन्तादेशः । उशनन् स् इति स्थिते उपधादीर्घः, हल्ल्यादिना सुलोपः, नलोपः । उशना इति रूपमिति भा.
। यद्यपि वशधातुबछान्दस इति लुग्विकरणे वक्ष्यते । तथापि तत् प्रायिकम् , 'वष्टि पाशुरिः इत्यादिनिर्देशात् , 'उशना मार्गवः कविः' इति कोशाच । अस्य सम्बुद्धावि. ति। एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तु 'सम्बोधने दूशनसखिरू सान्तं on नान्तमथान्यदन्तम्' इति लोकवार्तिकमित्याह । भाष्यादृष्टस्वादिदम. प्राणिकमेवेति प्रामाणिकाः । हे उशनन् इति । अनडि नलोपाभावे रूपम् । हे एक.
२० वा.
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
लिखान्तकौमुदी
[हलन्त'बिग
अनेहा, अनेहसी, बनेहसः । हे अनेहः । भनेहोभ्यामित्यादि। वेधाः, वेषयो। वेषसः । है.वेधः । वेषोभ्यामित्यादि। अधातोरित्युक्तेर्न दीर्घः । मुटु वस्ते सुवः, सुवसौ, सुवसः। पिण्ड प्रसते पिण्डग्रः, पिण्डरलः । 'प्रसु कसु मदने । (३७) अदस मौ सुलोपश्च ॥ ७।२।१०७ ॥ अदस भौकारोऽन्तादेशः स्वात्सौ परे सुलोपश्च । 'तदोः सः सौ-(सू ३८१) इति दस्य सः। असो। 'ओरवप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुस्वं च (वा ४४८२)। प्रतिषेषसं.
नैति। अमकि नलोपे रूपम् । हे उशन इति। अनभावे रूपम् । उशनोभ्यामिति । सल्य रुत्वे हशि च' इत्युत्त्वे 'आद्गुणः' । उशनासु-उशनस्सु । अनहेति । 'ननिहन एह च' इति नजि उपपदे हनधातोरसुन् , प्रकृतेरेहादेशच, उपपदसमासः, 'नलोपो 'ना', 'तस्मान्नुचि अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपा, उपधादीर्घः, नझोप इति भावः । हे अनेहः। अनेहोभ्यामित्यादि । वेधा इति । 'विधामो वेध च बिए. वात् धाग्धातोरसुन् प्रकृतेवेंधादेशश्च । असुनि उकार उचारणार्थः । उगित्वामान नुम् , ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, सत्वविसर्गाविति भावः । 'वस आच्छादने लुग्विकरणः । सुपूर्वादस्मात् स्विप , सुवस्शब्दः, ततः सुः, हल्ङ्यादिलोपः, रुत्वबिसौ, सुवः इति रूपं वक्ष्यति । अत्र 'अत्वसन्तस्य' इति दीर्घमाशय आहअधातोरित्युक्तेन दीर्घ इति । न च सुवस्शब्दस्य असन्तत्वादधातुत्वाच दो? दुर्वार इति वाच्यम् , धात्ववयवभिन्नो यः अस् तदन्तस्य दीर्घ हत्याश्रयणात् । सुवोभ्या. मित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपम् , तस्य यजादित्वेन सम्प्र'सारणप्रसङ्गात् । पिण्डप्रस्शब्दः सुवस्शब्दवत्। ___ अवस्शब्दात् सौ त्यदायत्वे प्राप्ते । अदस औ । अदस इति षष्ठी। औ इल्य. विभक्तिकनिर्देशः। 'तदोः सः सौ' इत्यतः सावित्यनुवर्तते। तदाह-दस प्रोकार इति । अन्तादेश इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औचे कृते हलः परत्वा. भावात् हल्ड्यादिलोपे अप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापबाद इति भावः । असौ इति । अदस् स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दल्य सोच रूपम् । अथ 'अव्ययसर्वनाम्नाम्' इत्यकचि अदकस्शब्दात् सौ. विशेषमाह-ौरवप्रतिषेध इति । 'अदस औ सुलोपश्च' इत्यत्र अदपाब्देन तन्मध्यपतितन्मायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेधो वक्तव्यः । 'तदोः सः सौ हति कारस्य सकारे कृते तस्मात् सकारात् परस्य अकारस्य उकारपच वा वकव्य
। ततश्च अदकस् स् इति स्थिते, औत्वाभावे, दस्य सस्वे. सति, सकारात् कलमकारस्य उत्वे सति, त्यवायत्वे, पररूपे, रुत्वे, विसर्गे, अक इति. कपर।
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
नियोगशिष्टमुत्वं तदभावे न प्रवर्तते। असको-अमुकः । स्यदायस्वं, पररूपम् , वृद्धिः । 'अदम्रोऽसे:- (सू ४११) इति मस्खोत्त्वे । अमू । 'जसः शो' (सू २१४)। 'आद्गुणः (सू ६९)। (४३८) पत ईनहुवचने । E२ ॥ अदसो दास्परस्य एत ईस्याहस्य च मो बहोकौ । अमी। 'पूर्वत्रासिद्धम्। (सू १२) इति विभक्तिकार्य प्राक् , पश्चादुत्वमस्खे । भमुम् , अमू , जमून् । मुस्वे कृते औत्वप्रतिषेधाभाषपक्षे अदकस् स् इति स्थिते. सकारस्य औत्वे, सुलोपे, दस्य सत्वे, मसको इति रूप वक्ष्यति । तत्र औत्वप्रतिषेधाभावपक्षे औत्वे कृते सकारादकारस्य त्वविकल्पः तोन स्यादित्यत आह-प्रतिषेधेति । 'सन्नियोगशिष्टानां सह वा प्रवृत्तिः सहया निवृत्ति इति न्यायादिति भावः । अमुक अमुकशर्मा इत्यादि त्वसाध्येवे. त्याहुः । केचित असावपर्याया अमुकशब्दः अव्युत्पन्न इत्याहुः । अदस् औ इति वियते प्रक्रियाद पति-दायत्वमिति । पररूपमपि बोध्यम् । मलोत्ने इति । भदौ इत्पत्र दात् परस्य मौकारस्य दीर्घ उकार दस्य मत्वं चेत्यर्थः । जसि त्यदायत्वं पर रूप सिद्धवत्कृत्य माह-जसरशीति । भादगुणे अदे इति स्थितम् । तत्र दकारादेका. रख्य उत्त्वे प्राप्ते। एत बहुवचने। 'अदसोऽसेर्दादु दो मइत्यस्मात् 'असो दादितिः 'दो माइति चानुवर्तते । तदाह-प्रदसः इत्यादिना । बापोंक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः। पारिभाषिकस्य ग्रहणे तु ममीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, भदे इत्येकारस्य बहुवचनतया तत्परकत्वाभावादिति भावः । ननु औजसादिषु त्यदायत्वे परस्पे च उत्तमत्वयोः कृतयोः अमुऔ अमुःइत्यादि स्यात् । मुत्वस्यासिद्ध. त्वान्न यणित्याशक्य आह-पूर्ववति । विभक्तिकार्यमिति । त्यदायत्वादिकमित्यर्थः । - यदि तु 'पूर्वत्रासिखम् । इत्यत्र कार्यासिद्धत्वमिध्येत, तर्हि अमू अमी इत्यादि न सिध्येत् । तथा हि 'पूर्वत्रासिद्धम्' इति सिद्धे असिद्धत्वारोपः उच्यते। निरधिष्ठानश्वासिद्धत्वारोपो न सम्भवति । ततश्च कार्यासिद्धत्वपमे सूत्रोदाहरण. सम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात् पादिके मुल्वे. कृते सत्ति उच्चस्थानिनः अकारस्यापहारे सति, पश्चात् मुत्वे अभावप्रतियोगित्वारोपेजप, 'देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनसन्मज्जनम्' इति न्यायेन स्थानिभूतस्य दकाराद्वकारस्याभावात् वृद्धिगुणादि न स्यात् । शास्त्रासिद्धत्वपमे तु यद्यत्
पादिक शास्त्रं प्रवृत्त्युन्मुकं तत्तच्छास्त्र एवाभावारोपसम्भवात् पूर्वशास्त्रप्रतिबन्धकल्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां 'विप्रतिषेधे पर कार्यम्। इति न प्रवर्तते । मदुकं 'पूर्वत्रासिद्ध नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति । ततश्च स्थानिनः सकारख्य निवृत्त्यभावात् वृद्धिगुणादिप्रवृत्तिः निर्वाधा । एतच्च. :पूर्वत्रासिद्धम्। भावन अवः पारिइत्यत्र 'पत्वकोरसिद्धः' इत्यत्र च भाष्ये स्पष्टम् । प्रपत्रित
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
सिद्धान्तकौमुदी
[ हलन्तति
-
घिसंज्ञायां नाभावः। (४) नमुने। २।३ ॥ नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना, अमूभ्याम् , अमूभ्याम् , अमूभ्याम् , अमीभिः । अमुष्मै। अमीभ्यः। अमुष्मात् । अमुष्य, अमुयोः, ममी. च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस अम् इति स्थिते त्यदायत्वं, पररूपम् अमि पूर्वः, सत्वमत्वे, इति भावः । प्रमू इति । द्वितीयाद्विवचनं प्रथमाद्विवचनवत् । अमूनिति। शसि, त्यदायत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम् , उत्तमत्वे इति भावः।
तृतीयैकवचने अदस् आ इति स्थिते त्यदायत्वं, पररूपम् , उत्वमत्वे च सिरस त्य आह-मुत्वे कृते घिसंज्ञायां नाभाव इति । 'शेषो ध्यसखि इति विसंज्ञायाम् 'आडो नास्त्रियाम्' इति नाभाव इत्यर्थः । ननु 'पूर्वत्रासिद्धम्। इति विभक्तिकार्य प्राक् पश्चात् उत्वमत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नामाव इत्युच्यते । तदिदं पूर्वापरविरुद्धमिति चेत् सत्यम् । यद्विभक्तिकार्य प्रति मुस्वं निमित्तं न भवति, तदेव विभक्तिकार्य प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथम मुस्वप्रवृत्तेरविरोधः। 'न मु ने इत्यारम्भसामादित्यलम् । ननु कृतेऽपि प्रथम मुत्वे नाभावो न सम्भवतिः तस्मिन् कर्तव्ये मुत्वस्य असिद्धतया घेः परत्वाभावादित्यत आह-न मु ने। असिद्धमित्यनुवर्तते। म् च उश्चेति समाहारद्वन्द्वः । ने इति ना इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सत्सप्तमी च एषा । तथाच नाभावे कर्तव्ये कृते च इति लभ्यते । तदाह-नाभाव इत्यादिना । प्रकृते च नाभावे कर्तव्ये मुत्वस्यासिद्धत्वाभावात् घेः परत्वान्नाभावो निर्वाधः । यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नामावे कृते सुपि च' इति दीर्घः प्रसज्येत । दीघे कर्तव्ये मुत्वस्याऽसिद्धतया अकारसत्त्वात् । अतः कृतेऽपीत्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीघे कर्तव्ये मुत्वस्यासिद्ध त्वाभावादकाराभावात् न दीर्घ इति भावः । अमूभ्यामिति । त्यदाद्यत्वे, पररूपे सुमि च' इति दी., दस्यामत्वं, आकारस्य ऊत्त्वम् इति भावः । अमीभिरिति । त्यवासय, पररूपं 'नेदमदसोरकोः' इति ऐनिषेधः, 'बहुवचने शल्येत्' इत्येत्त्वम्, 'एताप. चने' इति ईत्वमत्त्वे इति भावः । अमुष्मै इति । त्यदायत्वं, पररूपं, के स्मै, सता मत्वे, षत्वमिति भावः । अमीभ्य इति । त्यदायत्वं, पररूपं, 'बहुवचने सल्येवरत्वम् , इत्त्वमत्वे इति भावः । अमुष्मादिति । त्यदायत्वं, परस्पं, उसे स्मात्, उत्त्व. मल्ने, पत्वमिति भावः। अमुष्येति । त्यदायत्वं, पररूपं, सः स्यादेशः, उत्वमत्वे, प्राथमिति भावः । अमुयोरिति । भोसि त्यदायत्वं, पररूपम्, 'भोलि का इल्मेस्वर,
या प्रलमत्वे, इति भावः । अमीषामिति । आमि स्यदायक, परसपम्, बासि
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
,
www.kobatirth.org
प्रकरणम् ११]
बालमनोरमासहिता |
षाम् । अमुष्मिन् अमुयोः, अमीषु ॥ इति सान्ताः ॥ इति हलन्त पुंलिङ्गप्रकरणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
9
अथ हलन्तस्त्रीलिङ्गप्रकरणम् ॥ १२ ॥
(४४०) नहो धः || २|३४|| नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् - उपानद्, उपानहौ, उपानहः । उपानद्धयाम् । उपानत्सु । उत्पूर्वात् 'ष्णिह प्रीती' ( वा १२०१ ) इत्यस्मात् 'ऋस्विग्- ' ( सू ३७३ ) आदिना क्विन् मिपातनाद्दोषत्वे । किन्वस्वारकृत्वेन हस्य घः, जरश्वचवें । उष्णिक् उष्णिग्,
सर्वनाम्नः' इति सुद्, एवं, ईत्वं, मत्वं, षत्वमिति भावः । श्रमुमिन्निति । डौ त्यदाद्यत्थं, पररूपं, ङोः स्मिन्नादेशः, उत्त्वमत्ये, षत्वमिति भाव: । श्रमीष्वति । सुपि स्वदाद्यत्वं, पररूपम्, एत्वम् ईश्वमत्वेः षत्वमिति भावः । इति सान्ताः ।
३०६
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्त पुंल्लिङ्गप्रकरणं समाप्तम् ।
अथ हलन्तस्त्रीलिङ्गे इकारान्ता निरूप्यन्ते । 'जह बन्धने' 'णो नः' उपनद्यते इति विमद्दे उपपूर्वात सम्पदादित्वात् कर्मणि क्विप्, 'नहिवृति' इत्यादिना पूर्वपदस्य दीर्घः । turesशब्दः स्त्रीलिङ्गः, 'पादुका । पादूरुपानत्स्त्री' इत्यमरः । नहो धः । 'हो ढः' इत्यतो हः इत्यनुवर्तते । पदस्य इत्यधिकृतम् । 'स्कोः संयोगा-' इत्यतः अन्ते इत्यनुवर्तते । 'झलो झलि' इत्यतः झलि इत्यनुवर्तते । तदाह - नहो हस्येत्यादिना । 'हो' ढः' इति ढत्वापवादः । उपानदिति । उपानहू शब्दात् सोहेल्ड्यादिलोपः, हस्य धः,
त्वचत्वें इति भावः । अत्र दकार एव तु न विहितः । तथा सति नद्वमित्यत्र 'रदाभ्याम्' इति नत्वप्रसङ्गादित्यलम् । उपानद्द्भ्यामिति । हस्य धत्वे जश्त्वमिति भावः । उपानस्विति । धत्वे 'खरि च' इति चत्वमिति भावः । उष्णिशब्दः छन्दोविशेष. वाची स्त्रीलिङ्गः । तं व्युत्पादयितुमाह-ष्णिह प्रीतावित्यादिना । दलोपषत्वे इति । उदो दकारस्य लोपः सस्य षत्वं च निपात्यत इत्यर्थः । न च 'धात्वादेः षः सः' इति कृतसकारस्य 'आदेशप्रत्यययोः' इत्येव षत्वसिद्धेः किं तन्निपातनेन इति वाच्यम्, 'सात्पदाद्यो:' इति निषेधबाधनार्थं पत्वनिपातनस्यावश्यकत्वात् । न च उष्णिहृशब्दात् समासात् सुबुत्पत्तेः पूर्व. स्निह् इत्येतत् न पदम् । नितरां सकारस्य पदादित्व
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
सिद्धान्तकौमुदी
उष्णिहौ, उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु ॥ इवि हान्ताः ॥ द्यौः, दिवौ, दिवः । भ्याम् । द्युषु ॥ इवि वान्ताः ॥ गीः, गिरौ, गिरः । एवं पूः । चतुरश्वतत्रादेशः । चतस्रः । चतस्रः । चतसृणाम् ॥ इति रेफान्ताः ॥ किमः कादेशे टापू | का, के, काः । सर्वावत् । (४४१) यः सौ ७२।११० || इदमो दस्य यः स्यात्खौ । 'इदमो मः' मिति वाच्यम्, पदादादिरिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः । हस्य व इति । घोषनादसंवार महाप्राणसाम्यादिति भावः । न च 'क्विन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वातू 'हो ढः' इति ढत्वमेवोचितमिति वाच्यम्, षत्वापवादः कुत्वमिति कैयटादिमते -तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचवें इति । नच अश्वे कर्तव्ये 'क्विन्प्रत्ययस्य कुः' इति कुत्वस्यासिद्धत्वं शक्यम्, 'उष्णिगञ्चु' इति नि-देशेन जश्त्वे कर्तव्ये कुत्वस्यासिद्धत्वाभावज्ञापनात् । वस्तुतस्तु 'क्विन्प्रत्ययस्य कुः - इति कुत्वं पत्वापवादो न भवति, इति मूलकारमते तुल्यन्यायात् ढत्वस्यापि नापवादः । ततश्च तद्रीत्या ढडगका इति बोध्यम् । इति हान्ताः ।
अथ वकारान्ता निरूप्यन्ते । द्यौरिति । दिव्शब्दः स्त्रीलिङ्गः । 'थो दिवौ द्वे स्त्रियाम्' इत्यमरः । तस्मात् सु:, 'दिव औत्' इति वकारस्य औकारः, इकारस्य यण' रुत्यवि -सर्गो, सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनास्विधित्वात् स्थानिवत्त्वाभावात् न हल्यादिलोप इति भावः । द्युभ्यामिति । भ्यामादौ हलि 'दिव उत्' इत्युत्त्वमिति भावः । इति वान्ताः ।
हलन्तस्त्रीलिङ्ग
1
श्रथ रेफान्ता निरूप्यन्ते । गीरिति । 'गृ निगरणे' क्विप्, 'ऋत इद्धातोः' इति इत्त्वं, - रपरत्वं, गिरशब्दात् सुयुत्पत्तिः, सोर्लोपः, 'वरुपधायाः इति दीर्घः, रेफस्य विसर्ग इति भावः । भ्यामादौ तु हलि 'वः' इति दोर्घः, गीर्भ्यामित्यादि । गीर्षु । एवं पूरिति । -गीर्वदित्यर्थः । ' पालनपूरणयोः' क्विप्, 'उदोष्ठ्यपूर्वस्य' इत्युत्वं रपरत्वम् । पुर् शब्दात् सोर्लोपः, 'a' इति दीर्घः, रेफस्य विसर्ग इति भावः । चतुरश्वतत्रादेश इति । 'जशसोः स्त्रीलिङ्गस्य चतुर्राब्दस्य 'त्रिचतुरोः स्त्रियाम्' इत्यनेनेति भावः । चतस्रः इति । परत्वात् 'चतुरनडुहो:' इत्यामं बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम् तु न, विप्रतिषेधे यदूबाधितं तद्वाधितमेव' इति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति । 'न तिसृचतसृ' इति दीर्घनिषेधः । इति रेफान्ताः ।
.
अथ मकारान्ता निरूप्यन्ते । किम इति । किमूशब्दात् स्त्रीलिङ्गाद्विभक्तौ 'किमः कः' इति प्रकृतेः कादेशे कृते अदन्तत्वात् टाबित्यर्थः । सर्वावदिति । सर्वाशब्दवदित्यर्थः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति न, शब्दस्वरूपपरस्य गौणतया कदापि सर्व'नामत्वाभावादिति भावः । अथ हृदम्शब्दस्य स्त्रीत्वे विशेषमाह-यः सौ। 'इदमो मः' इत्यतः इदमः इत्यनुवर्तते, 'दश्च' इत्यतः दः इति च षष्ठयन्तमनुव
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १२]
बालमनोरमासहिता ।
-
(सू ३४३)। इयम् । त्यदायत्वं, टाप् 'दश्च (सू ३४५) इति मः । इमे, इमाः । इमाम् , इमे, इमाः । अनया। 'हलि लोपः' (सू ३४७)। आभ्याम् । आभ्याम् । आभ्याम् । आभिः । अस्यै । अस्याः, अनयोः, आसाम् । अस्याम् , अनयोः, आसु । अन्वादेशे तु एनाम् , एने, एनाः । एनया। एनयोः । एनयोः ॥ इति मान्ताः ॥ 'ऋत्विग्-' (सू ३७३) आदिना सृजेः क्विन् अमागमश्च निपातितः । तते । तदाह-इदमो दस्येति । पुंसि तु नेदं प्रवर्तते, 'इदोऽय् पुसि' इति विशिष्य विधेः । नापि क्लीवे, तस्य सोः लुका लुतत्वात् । ततश्च परिशेषात् स्त्रियामेवेदम् । इयमिति । इदम् स् इति स्थिते, दकारस्य यत्वे, इयम् स् इति स्थिते, त्यदायत्वं बाधित्वा 'इदमो मः' इति मकारस्य मकारे कृते, हल्ल्यादिना सुलोप इति भावः । इदम् औ इति स्थिते प्रक्रियां दर्शयतित्यदायत्वमिति । त्यदायत्वे सति, पररूपे, अदन्तत्वात् टापि 'द इति दकारस्य' मत्वे, इमा औ इति स्थिते, औड आप इति शीमावे, आद्गुणे इमे इति रूपम् । इमा इति । जति स्यदायत्वं, पररूपम् , टाप् , 'दाच' इति मः, पूर्वसवर्णदीर्घः इति भावः । अत्र विभक्तो सत्यां त्वदायत्वं, पररूपं, टाप् च सर्वत्र भवन्तीति बोध्यम् । इमाः इत्यत्र इमा अस् इति स्थिते पूर्वसवर्णदीर्घः। 'जस: शी' इति तु न । टापि कृते अदन्तात् परत्वामावात् । इमामिति । अत्वपररूपटाम्मत्वेषु कृतेषु अमि पूर्वः' इति भावः । इमे इति । भौटि औवत् । इमाः इति । अत्वपररूपटाम्मत्वेषु पूर्वसवर्णदीर्घः । स्त्रीत्वान्नात्वाभाव इति भावः । अनये. ति । इदम् आ इति स्थिते, अत्वं, पररूपम् , टाप् , 'अनाप्यकः' इति इद् इत्यस्य अन् आदेशः। अन् आ आ इति स्थिते, 'आजि चापः इत्येत्त्वे, अयादेशः इति भावः। टाप्रमृत्यजादौ सर्वत्र अन् आदेश इति बोध्यम् । हलि लोपः इति । भ्यामादौ हलि इद् इत्यस्य लोप इत्यर्थः । आभ्यामिति । इदम् भ्याम् इति स्थिते, इदो लोपे, अत्वे पररूपे, टापि च रूपमिति भावः। आमिरित्यप्येवम् । अस्यै इति । इदम् ए इति स्थिते, मत्वपररूपटाप्सु स्याडागमे, हस्वत्वे, इदो लोप इति भावः । अस्याः इत्य. प्येवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदमः इदः अनादेशे, अत्वपररूपटाप्सु, 'आडि चापः' इत्येत्त्वे, अयादेश इति भावः । प्रासामिति । इदम् आम् इति स्थिते अत्वपररूपटाप्सु, सुटि, इदो लोप इति भावः । अस्यामिति । इदम् इ इति स्थिते, अत्वपररूपटाप्सु, डेरामि, स्याहागमे, हस्वत्वे, इदो लोपः इति भावः। आस्विति । इदम् सु इति स्थिते, अत्वपररूपटाप्सु, इदो लोप इति भावः । अन्वादेशे विति । 'द्वितीयाटोस्स्वेनः' इत्येनादेशे, टापि रमावद्रूपाणि इति भावः । इति मान्ताः।
अथ.जकारान्ता निरूप्यन्ते। सजशब्दं व्युत्पादयति । ऋत्विगिति । 'सृज विसर्गे।
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
सिद्धान्तकौमुदी
[इलन्तस्त्रीलिा
-
स्रक स्रग , सजी, सजः । सग्भ्याम् । स्रक्षु ॥ इति जान्ताः॥ त्यदायत्वं टाप् । स्या, त्ये, त्याः । एवं तद् , यद्, एतद् ॥ इति दान्ताः ॥ वाक्-वाग , वाचौ, वाचः । वाग्भ्याम् । वाक्षु ॥ इति चान्ताः ॥ अपशब्दो नित्यं बहुवचनान्तः। 'सप्तन्-' (सू २७७ ) इति दोघः। आपः। अपः । (४४२) अपो भि ७४४ अपस्तकारः स्याद्भादौ प्रत्यये परे। अद्भिः। अद्भ्यः। अद्भ्यः । अपाम् । अप्सु इति पान्ताः ॥ दिक्-दिग् , दिशौ, दिशः। दिग्भ्याम् । दिक्षु । 'त्वदादिषु- (सू ४२९) इति दृशेः क्विन्विधानादन्यत्रापि कृत्वम् । एक्-हम् ,
अस्मात् विन् , ऋकारात् परः अमागमा, मकारः इत् , कारस्य यण रेफः, स्वजश. ब्दः स्त्रीलिङ्गः । 'माल्यं माला जो मूनि' इत्यमरः । सक्-स्रगिति । 'किन्प्रत्ययस्य कुः इति कुत्वं जश्त्वचत्वें इति भावः । इति जान्ताः।
अथ दकारान्ता निरुप्यन्ते । त्यदशब्दस्य प्रक्रियां दर्शयति । त्यदाद्यस्वमिति । विभ. क्ती, अत्वे, पररूपे, टापि, त्या इति रूपम् । सर्वत्र ततः सर्वावपाणि। सौ तु तदोः सः सौ' इति तकारस्य स इति विशेषः । एवमिति। तद् यद् एतद् एतेभ्यो विभक्तो अत्वपररूपटाप्सु सर्वावद्रपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे 'आदेशप्रत्यययोः' इति षत्वमिति विशेषः ॥ इति दान्ताः ॥ - अथ चकारान्ता निरूप्यन्ते । वागिति। वचेः 'किब्वचि' इत्यादिना विप् दीर्घश्च, 'वचिस्वपि' इति सम्प्रसारणाभावश्च, वाच् इति रूपम् । 'सुलोपः, चोः कुः, जश्त्वचत्वे इति भावः ॥ इति चान्ताः॥
. अथ पकारान्ता निरूप्यन्ते । अप्शब्द इति । 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति स्त्र्यधिकारे लिङ्गानुशासनसूत्रात् नित्यं बहुवचनान्तत्वं स्त्रीत्वं चेत्यर्थः । दीर्घ इति । जसीति शेषः । अप इति । 'अप्तृन्' इत्यत्र 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनुवृत्तः शसि न दीर्घ इति भावः । अपो भि। 'भच उपसर्गात्तः' इत्यस्मात् त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाक्षिप्तप्रत्ययो भि इति सप्तम्यन्तेन विशेष्यते, तदादिविधिः । तदाह-अपस्तकार इत्यादिना। प्रत्यये किम् , अभक्षः । अद्भिरिति । पकारस्य तकारे जश्त्वमिति भावः ॥ इति पान्ताः॥ . अथ शकारान्ता निरूप्यन्ते। दिगिति । 'दिश अतिसर्जने' ऋत्विगादिना क्विन् , सुलोपा, 'प्रश्व' इति षः, तस्य जश्त्वेन डः, तस्य 'क्विन्प्रत्ययस्य कुः' इति कुत्वेन गः, तस्य चत्वविकल्प इति भावः। दृश्यन्ते अर्था अनयेति विग्रहे सम्पदादित्वात् दृशेः क्विम् । ततः सुलोपे 'अश्च' इति षत्वमाशक्य आह-त्यदादिष्विति। अन्य
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १२ ]
बालमनोरमासहिता |
,
1
दृशौ दृशः ॥ इहि शान्ताः ॥ स्विट्-विड्, स्विषौ, विषः । विभ्याम् । स्विट्स्सु- त्विट्सु । वद्द जुषत इति सजूः, सजुषौ, सजुषः । सजूर्भ्याम् । सजूष्षु - सजूःषु । षत्वस्यासिद्धत्वादुत्वम् । आशीः, आशिषौ, आशिषः । आशीर्भ्याम् । आशीर्भिः ॥ इति षान्ताः । असौ । त्यदाद्यत्वं, टाप् । औक: शी । उत्वमखे । अमू, अमूः । अमूम्, अम्, अमूः । अमुया, अमूम्याम्, अमुभिः । अमुष्यै, अमूभ्याम् । अमूभ्यः । अमुष्याः । अमुष्याः, अमुयोः अमूषाम् । अमुध्याम्,
३१३
त्रापीति । स्यदाद्युपपदाभावेऽपीत्यर्थः । क्विन् प्रत्ययो यस्माद्विहित इति बहुबीलाश्रयणादिति भावः । दृगिति । षढगकाः प्राग्वत् । इति शान्ताः ॥
अथ षकारान्ता निरूप्यन्ते । त्विडिति । 'स्विष दीप्तौ' क्विप्, सुलोपः, जस्त्वचत्वें इति भावः । सजुरिति । 'जुषी प्रीतिसेवनयो:' क्विप्, 'सहस्य सः संज्ञायाम्' इति वा 'सजुषो:' इति निपातनाद्वा सहस्य सभावः, सुलोपः, 'ससजुषो रु' इति षस्य रुत्वं, 'रुपधायाः' इति दीर्घः । 'आङः शासु इच्छायाम्' क्विप्, 'माशासः क्वावुपसङ्ख्यानम्' इत्युपधाया इत्त्वं, 'शासिवसिघसीनां च' इति सस्य षः, आशिषशब्दात् सोर्लोपः । एतावत् सिद्धवत्कृत्य आह - षस्वस्येति । श्राशीरिति । षस्य रुत्वे कृते 'वोरुपधायाः' इति दीर्घ इति भावः ॥ इति षान्ताः ॥
1
अथ सकारान्ता निरूप्यन्ते । श्रसाविति । अदश्शब्दस्य स्त्रियामपि पुंवदेव सौ रूपमित्यर्थः । अदम् औ इति स्थिते प्रक्रियां दर्शयति - त्यदाद्यत्वमित्यादिना । अत्वे, पररूपे, टापि, औड: शीभावे, आद्गुणे, अदे इति स्थिते, एकारस्य दीर्घत्वादूत्वं दस्य
1
त्वं चेत्यर्थः । विभक्तौ सत्याम् अत्वं, पररूपं, टाबित्येतत् सर्वत्र ज्ञेयम् । अमूरिति । जसि, अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घे, ऊत्वमत्वे । टापि सति अदन्तत्वाभावात् जसः शीभावो न । एकाराभावान्नेत्त्वम् । श्रमूमिति । पुंवत्, ऊत्वं तु विशेषः । श्रमू इति । औटि औवत् । श्रमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाभावः । श्रमुयेति । अदस् आ इति स्थिते, अत्वपररूपटा', 'आङि चापः' इत्येत्त्वे, अयादेशे, उत्वमत्ये इति भावः । अमूभ्यामिति । अत्वपररूपान्सु, ऊत्वमत्ये इति भावः । एवममूभिरिति । अमुष्ये इति । अदस् एइति स्थिते, अत्वपररूपटाप्सु स्यादूस्वौ, उत्वमत्वे, पत्वमिति भावः । अमूभ्यः इत्यपि भ्यांवत् । टापि अदन्तत्वाभावादेवं न । श्रमुष्या इति । ङसिङसोडेंवत्, रूत्वविसर्गौ तु विशेषः । श्रमुयोरिति । ओसि अत्वपररूपटाप्सु, 'आङि चापः इत्येवे, अयादेशे, मुत्वमिति भावः । श्रमूषामिति । अमि, अत्वपररूपटा, खुटि, ऊत्वमत्वे, सहय षत्वमिति भावः । अमुष्यामिति । अदस् इ इति स्थिते,
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१४
www.kobatirth.org
सिद्धान्तकौमुदी
अमुयोः, अमूषु ॥ इति सान्ताः ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति हलन्तस्त्रीलिङ्गप्रकरणम् ॥
[ हलन्तनपुंसकलिङ्ग
अथ हलन्तनपुंसकलिङ्गप्रकरणम् ॥ १३ ॥
,
स्वमोर्लुक् । दत्वम् । स्वनडुत् - स्वनडुद् स्वनडुही । 'चतुरनडुहो: -' (सू ३३१ ) इत्याम् । स्वनड्वाहि । पुनस्तद्वत् । शेषं पुंवत् ॥ इति हान्ताः ॥ 'दिव उत्' (सू ३३७) अहर्विमलद्यु । अन्तर्वर्तिनी विभक्तिमाश्रिस्य पूर्वपदस्येवोतर खण्ड
अत्वपररूपटाप्लु, डेरामि, स्याद्स्वौ, मुत्वमिति भावः । अमूष्विति । सुपि अत्वपररू. पटासु, ऊत्वमत्ये, षत्वमिति भावः । इति सान्ताः ॥
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्तस्त्रीलिङ्गप्रकरणं समाप्तम् ॥
अथ हलन्तनपुंसकलिङ्गे हकारान्ता निरूप्यन्ते । सु शोभनाः अनड्वाह: यस्य कुलस्येति बहुव्रीहौ स्वनडुह शब्दात् नपुंसकलिङ्गात् सुदुत्पत्तिः । ननु तत्र सौ परतः 'चतुरनदु होः ' इत्याम्, 'अम् संबुद्धौ' इत्यम्, 'सावनडुहः' इति नुम् च स्यात् । हल्कादिना सुलोपेsपि प्रत्ययलक्षणसत्त्वादित्यत आह-स्वमोलंगिति । परत्वात् हल्डयादिलोपं बाधित्वा 'स्वमोर्नपुंसकात्' इति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाभावादामादि न भवतीति भावः । दत्वमिति । 'वसुसु' इत्यनेनेति शेषः । दत्वविधेः पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । नच तत्रापि 'न लुमता' इति निषेधः शङ्कयः । दत्वस्य सुबन्तत्वरूपपदत्वनिमित्तकतया अङ्गकार्यत्वाभावादित्याहुः । स्वनडुदिति । दत्वे चर्चविकल्पः । 'उरःप्रभृतिभ्यः कप्' इति तु न शक्यम्, तत्र गणे अनड्वानित्येकवचनस्यैव पाठादिति बहुव्रीह्यधिकारे मूल एव वक्ष्यते । स्वनडुही इति । 'नपुंसकाच्च' इत्यौङः शीभावः । स्वनड्वांहीति । 'जशशसोः शिः' इति शिभावे, तस्य सर्वनामस्थानत्वात् 'चतुरनडुहो:' इत्यामि, 'नपुंसकस्य झलचः' इति नुमि 'नश्च' इत्यनुस्वार इति भावः । अत्र यद्वक्तव्यं तत्पुंल्लिङ्गनिरूपणे उक्तम् । इति हान्ताः ।
I
अथ वकारान्ता निरूप्यन्ते । विमला द्यौ आकाशं यस्य अह्नः इति बहुव्रीहौ, सुब्लुकि, विमलदिवशब्दात् सोलुक् । एतावत् सिद्धवत्कृत्य आह - दिव उदिति । अहर्विमलघु इति । वस्य उत्वे इकारस्य यणिति भावः । अहर्ग्रहणं नपुंसकत्वसूचनार्थम् । ननु विमदिव और इति स्थिते 'नपुंसकाच्च' इति शीभावे विमलदिवी इति रूपं वक्ष्यति ।
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
स्यापि पदसंज्ञायां प्राप्तायाम् 'उत्तरपदत्वे चापदादिविषो प्रतिषेधः ( वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमलदिवि । 'अपदादिविधौ किम् । दधिः सेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । चकारस्य कुत्वे तु न ॥इति वान्ताः॥
तयुक्तम् , 'दिव उत्' इत्युत्त्वप्रसङ्गात् । नच विमलदिवी इति समुदायस्यैव सुबन्त. तया पदत्वान्न वकारस्य दिवशब्दरूपपदान्तत्वमिति वाच्यम् 'सुपो धातु' इति लुप्तां दिवशब्दोत्तरां विभक्तिं प्रत्ययलक्षणेनाश्रित्य दिव् इत्यस्य पदत्वात् । नच लुका लुसत्वात् न प्रत्ययलक्षणमिति वाच्यम् , पदसंज्ञायाः सुबन्तधर्मतया अङ्गधर्मत्वाभाबेन तत्र 'न लुमता' इति निषेधाप्रवृत्तः। अन्यथा राज्ञः पुरुषः राजपुरुषः इत्यादौ पूर्वमागे नलोपादिकं न स्यादित्याशय आह-अन्तर्वतिनीमित्यादि । उत्तरपदत्वे चेति । समासे उत्तरखण्डस्य पदसंज्ञायां कर्तव्यायाम् अन्तर्वतिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्यः पदादिविधि वर्जयित्वा इत्यर्थः। वार्तिकमेतत् । विमलदिवो इति ।
औजि रूपम् । विमलदिवि इति । शसि सति जाशसोः शिः' इति शिभावे रूपसिद्धिः । अझलन्तत्वान्न नुम् । ___ दधिसेचाविति । सिबतेः क्विप् । दध्नः सेवौ दधिसेचौ । समासे पूर्वोत्तरपदावय. वसुपोलुंकि समासात् पुनः सुबुत्पत्तिरिति स्थितिः। तत्र उत्तरखण्डादुत्तरां विभक्ति लुसां प्रत्ययलक्षणेनाश्रित्य सेच् इत्यस्य पदत्वेन तत्सकारस्य पदादितया 'सात्पदायो' इति षत्वनिषेध इष्टः । 'उत्तरपदस्थे प्रत्ययलक्षणप्रतिषेधः' इत्येतावत्येवोक्ते तु सेच इत्युत्तरंखण्डस्य पदसंज्ञायां कर्तव्यायां प्रत्ययलक्षणप्रतिषेधः स्यात् । तथाच सेच इत्यस्य सुबन्तत्वाभावेन अपदतया तत्सकारस्य पदादित्वाभावेन षत्वनिषेधो न स्यात् । अतः अपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणमाश्रित्य सेच् इत्यस्य पदत्वात् तत्सकारस्य 'सात्पदायोः' इति षत्वनिषेधो निर्बाधः । ननु सेच् इत्युत्तरखण्डस्य पदत्वे चकारस्य कुत्वं स्यादित्यत आहचकारस्य कुत्वे तु नैति । कुत्वे कर्तव्ये तु सेच् इत्यस्य पदत्वं नास्त्येव, कुत्वस्य पदान्त. विधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्त्वेन पदत्वा. भावादिति भावः । ननु दधि सिनत इति सोपपदाद्विचि उपपदसमासे षत्वं दुर्वारम्, 'गतिकारकोपपदानां कृभिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति वक्ष्यमाणत्वेन सेच् इत्यस्य अन्तर्वतिसुबभावेन अपदान्ततया 'सात्पदायोः' इति निषेधस्य तत्राप्रवृत्ते. रिति चेत् , अत्र सोपपदात् सिचेः विचः अनभिधानमिति भाव इति कैयटः समाहितवान् । पदात् आदिः पदादिरिति पक्षे तु उपपदसमासेऽपि षत्वं सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी सः प्रियः सः परमदण्डिप्रियः इत्यत्र अवान्तरतत्पुरुषस्य उत्तरखण्डे नलोपानुपपत्तिः 'उत्तरपदत्वे च इति प्रत्ययलक्षणप्रतिषेधेन
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ इलन्तनपुंसकलिङ्ग
"
वाः, वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि इति ॥ रेफान्ताः ॥ 'न लुमता-' ( सू २६३) इति कादेशो न । किम् के कानि । इदम् इमे इमानि । 'अन्वादेशे नपुंसके एनद्वक्तव्यः' ( वा १५६९ ) । एनत्, एने, एनानि । एनेन । एनयो: । एनयो: ॥ इति मान्ताः ॥ ब्रह्म ब्रह्मणी, ब्रह्माणि । 'सम्बुद्धौ नपुंसकानी तस्य पदत्वाभावादिति वाच्यम्, मध्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितस्वादित्यास्तां तावत् । इति वान्ताः ।
·
अथ रेफान्ता निरूप्यन्ते । वारिति । वारशब्दो रेफान्तो नपुंसकलिङ्ग: । 'आपः स्त्री भूम्नि वार वारि' इत्यमरः । वाशब्दात् स्वमोर्लुक्, रेफस्य विसर्ग इति भावः । चत्वारीति । चतुरशब्दो नित्यं बहुवचनान्तः, तस्य जश्शसोश्शिः, तस्य सर्वनामस्थानत्वात्, 'चतुरनडुहो:' इति प्रकृतेः आम् । स च मित्रत्वादन्त्यादच उकारात् परः, उकारस्य यण्, अझ लन्तत्वान्न नुम् इति भावः । इति रेफान्ताः ।
I
अथ मकारान्ता निरूप्यन्ते । किमूशब्दात् स्वमोर्लुकि प्रत्ययलक्षणमाश्रित्य विभक्तिपरकत्वात् कादेशमाशङ्कय आह--न लुमतेति । सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपागीत्याह - के कानीति । इदमिति । स्वमोर्लुकि रूपम् । 'इदमो मः, दश्च' इत्यादिवियो न भवन्ति, 'न लुमता' इति निषेधादितिभावः । इमे इति । औडि अत्वं, पररूपम्, 'दश्च' इति दस्य मः' 'नपुंसकाच्च' इति शोभावः, गुण इति भावः । इमानीति । जनशलोशिश:, अत्वं, पररूपं, 'दुश्च' इति मः, 'नपुंसकस्य झलचः' इति नुम्, 'सर्वनामस्थाने च' इति दीर्घ इति भावः । अन्वादेशे नपुंसके एनद्वक्तव्य इति । 'इदमेतदोः " इति शेषः । इदं च अम्येव भवति । तथाच भाष्ये 'एनदिति नपुंसकैकवचने वक्तव्यम्” इति पठित्वा 'कुण्डमानय प्रक्षालयैनत्' इत्युदाहृतम् । औट्शसो: टायाम् ओसि च 'द्वितीयाटस्स्वेनः' इत्येनादेश एव इति मत्वा आह-- एने इत्यादि । वस्तुतस्तु 'द्विसीयाटस्स्वेनत्' इत्येव सूत्रयताम् । नपुंसके अमो लुकि एनदिति सिध्यति । एनम्, एनौ, एनान् । एनेन, एनयो:, इति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमा· तस्तु नपुंसकैकवचने अमि एनदादेशः । एनम् एनौ इत्याद्यर्थं 'द्वितीयाटयैस्स्वेनः * इत्यत्र एनादेशो विधातव्यः । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन स्यदाद्यत्वासम्भवादिति शब्देन्दुशेखरे स्थितं भाष्यप्रदीपोद्यते प्रपञ्चितं च । इति मान्ताः ।
1
अथ नकारान्ता निरूप्यन्ते । ब्रह्मेति । वेदादौ वाच्ये ब्रह्मशब्दः नपुंसकलिङ्ग: । 'वेदस्तव तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः । इत्यमरः । स्वमोर्लुकि नलोप इति भावः । ब्रह्मणी इति । औङः शी, 'अट्कुप्वाङ्' इति णत्वम् । 'विभाषा दियो' इत्यल्लोपस्तु म 'न संयोगाद्वमन्तात्' इति निषेधादिति भावः । ब्रह्माणीति । जश्शसोः शिः, तस्य
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
2.
नलोपो वा वाच्यः । हे ब्रह्मन् - हे ब्रह्म । 'रोऽसुपि' ( सू १७२ ) । अहर्भाति । 'विभाषा खिश्यो:' ( सू २३७ ) । अही- अहनी, अहानि । ( ४४३ ) श्रहन् । ||६८ || 'अन्' इत्यस्य रुः स्यात्पदान्ते । अहोभ्याम् अहोभिः । इह 'अहः ' 'अहोभ्याम्' इत्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते 'अन्' इत्यावर्त्य एकेन नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रत्वरुत्वे । दीर्घाण्यहानि यस्मिन स दीर्घाहा निदाघः । इह इल्यादिलोपे प्रत्ययलक्षणेन 'असुवि' इति सर्वनामस्थानत्वात् नान्तलक्षणो दीर्घः । हे ब्रह्मन्निति । 'सम्बुद्धौ नपुंसकानाम्' इति लोपविकल्प इति भावः । अथ अहन्शब्दात् स्वमोलुंकि 'अहनू' इति रुत्वे प्राप्ते आह-रोडसुपीति । लुका लुप्तत्वेन प्रत्ययलक्षणाभावादिति भावः । अहर्भातीति । अत्र रुत्वे तु 'हशि च' इत्युच्ये गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वं न, रोरित्युकारानुबन्धग्रहणादिति भावः । अहानीति । जयशसोः शि, सर्वनामस्थानत्वात् उपधादीर्घः, अल्लोपस्तु न, सर्वनामस्थानत्वादिति भावः । टादावचि अल्लोपः, अह्ना, अहे इत्यादि । भ्यामादौ हलि विशेषमाह - श्रहन् । 'ससजुषो रु' इत्यतो रुरित्यनुवर्तते, 'स्कोः संयोगाद्यो:' इत्यतः अन्त इति च, पदस्येत्यधिकृतम् । 'अहन्' इति लुप्तषष्ठीकम् । तदाह - अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे, 'हशि 'च' इत्युत्रे, गुण इति भावः ।
मनु अहः, अहोम्या मित्यत्र रत्वरुत्वयोरसिद्धत्वात् न लोपः । नच रत्वरुत्वे नलोपापवादाविति वाच्यम्, 'न ङिसम्बुद्धयोः' इति नलोपनिषेधस्थले हे अहरित्यत्र, दीर्घाणि अहानि यस्मिन् स दीर्घाहाः हे दीर्घाहो निदाघ इत्यत्र नलोपे असत्यपि रत्वरुत्वयोरारम्भात् इत्याशङ्कय निराकरोति- इहेति । एकेनेति । आवृत्तयोः प्रथमेन 'अन्' इति सूत्रेण पदान्ते अहन्नित्येव स्यात्, न तु नलोप इत्यर्थ केनेत्यर्थः । द्वितीयेनैति । ‘अहन्नित्यस्य रुः स्यात् पदान्ते' इत्यर्थकेनेत्यर्थः । एवं च अह्नो नलोप'प्रतिषेधः' इति वार्तिकं न कर्तव्यमिति भावः । तदन्तस्यापीति । अहनुशब्दान्तस्यापि रत्वरुत्वे भवतः,पदाधिकारस्थत्वादिति भावः । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति निषेधस्तु प्रत्ययविधिमात्रविषय इति" असमाते निष्कादिभ्यः' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । तदन्ते रुत्वप्रवृत्ति दर्शयति - दीर्घाहा निदान इति । दीर्घाहनूशब्दात् पुंल्लिङ्गात् सा परत्वादुपधादीर्घे कृते हल्ड्यादिना सुलोपः । 'अहन्' इति रुत्वे, 'भोभगो' इत्यपूर्वत्वाद्यत्वे 'हलि सर्वेषाम्' इति यलोपे, रूपमिति भावः । ननु सुलोपे कृते 'रोsसुपि इति रत्वे तस्य यत्वं न भवति । यत्वविधौ रोः इत्युकारानुब
ग्रहणात् । तथाच दीर्घाहानिंदाघ इत्येव युक्तमित्यत आह-इह इल्ड्यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परस्वेऽपि अकृतव्यूहपरिभाषया हल्ध्यादिलोपात् प्राक् प्रवृ
For Private and Personal Use Only
३१७
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तनपुंसकलिङ्ग
निषेधाद्रत्वाभावे रुः, तस्याद्धित्वान्नान्तलक्षण उपधादीर्घः । सम्बुद्धौ तु हे दीर्घा हो निदाघ, दीर्घा हानौ, दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि, दण्डिनी, दण्डोनि । स्रग्वि, त्रग्विणी, स्रग्वीणि । वाग्मि, वाग्मिनी, वाग्मीनि । बहुवृत्रद, बहुत्री - बहुत्रहणी, बहुवृत्रहाणि । बहुपूष, बहुपूष्णी- बहुपूषणी, बहुपूषाणि । बहर्यम, बह्वर्यम्णी - बह्वर्यमणी, बह्वर्यमाणि ॥ इति नान्ताः || असूनः पदान्ते
तिर्न सम्भवति । रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह--तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्यासिद्धत्वान्नान्तलक्षणो दीर्घा निर्वाध । इति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्डयादिलोपात् पूर्वमेव परत्वादुपधादीर्घ इत्येवो. चितमित्यलम् । सम्बुद्धौ त्विति । सोरत्र हल्ड्यादिलोपात् प्रत्ययलक्षणमाश्रित्य असम्बुद्धौ इति प्रवृत्तेः उपधादीर्घाभावे रुत्वे, 'हशि च' इत्युत्वे, आद्गुणे, हे दीर्घाहो निदाघ इति रूपमित्यर्थः । अत्र 'रोऽसुपि' इति रत्वविधेस्तदन्तेऽपि प्रवृत्तौ फलं तु ages दीर्घाहनिदाघजालमित्यादि बोध्यम् ।
I
दण्डीति । दण्डोऽस्यास्तीत्यर्थे 'अत इनिठनौ' इति इनिः, दण्डिन्शब्दात् स्वमो. लुक, नस्य लोप इति भावः । दण्डिनी इति । औडदशी । असर्वनामस्थानत्वात् 'इन्हन्' इति नियमाच्च न दीर्घ इति भावः । दण्डीनीति । 'जशसोः शिः' 'इन्हन्' इति दीर्घ इति भावः । स्रग्वीति । 'अस्मायामेधास्त्रजो विनिः' इति खज्शब्दात् मत्वर्थीयो विनिः । त्रज् इत्यस्य अन्तर्वर्तिनों विभक्तिमाश्रित्य पदत्वात् जस्य कुत्वं त्रग्विन्शब्दात् सुबुत्पत्तिः । दण्डिवद्रूपाणि । अत्र इनः अनर्थकत्वेऽपि 'इन्हन्' इत्यत्र ग्रहणं भवत्येव, अनिनस्मिन्' इति वचनादितिबोध्यम् । वाग्ग्मीति । 'वाचो ग्मिनिः' इति ग्मिनिः । तद्धितत्वान्न गकार इत्, चकारस्य जइत्वम्, कुत्वम्, वाग्मिन्शब्दात् सुबुत्पत्तिः, त्रग्विवद्रूपाणि । बहवः वृत्रहणो यस्मिन् मन्वन्तरे इति बहुव्रीहौ बहुवृत्र
शब्दात् स्वमोलुकि, नलोपे, बहुवृत्रहेति रूपम् । औङः श्याम्, अल्लोपे, 'हो हन्तेः' इति कुत्वे, वृत्रघ्नी इति रूपम् । 'अत्पूर्वस्य' इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह - बहुवृत्रहाणीति । शेः सर्वनामस्थानत्वेन तस्मिन् परे अल्लोपाभावात् 'इन्हन्' इत्युपधादीर्घे 'एकजुत्तरपदे णः' इति णत्वमिति भावः । बहुपूषाणीति । बहवः पूषणः यस्मिन्निति बहुवीहिः । बहुपूष, बहुपूष्णी 'रषाभ्याम्' इति णत्वम् । जशसोस्तु शिः, शौ दीर्घः, 'अट्कुप्वाङ, इति णत्वम् । बह्वर्यमाणीति । बहवः अर्यमणो यस्मिन्निति बहुमीहिः बहुपूषवद्रूपाणि इति नान्ताः ।
अथ जकारान्ता निरूप्यन्ते । शरीरं यदा उत्पद्यते तदैव येन सृज्यते न दन्तादिवन्मये इत्यर्थे सृञ्धातोः नञ्पूर्वात् सम्पदादित्वात् किपू उपपदसमासे 'नलोपो नञः
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
३१६
-
-
कृत्वम् , सजेः किनो विधानात् । विश्वसूडादौ तु न । 'मृजिशो:- (सू २४०५) इति सूत्रे 'रज्जुसृड्भ्याम्' इति भाष्यप्रयोगात् । यद्वा 'व्रश्च-' (सू २९४) मा. दिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । नगृस्विक्छब्दयोस्तु निपातनादेव कुत्वम् । असक्छब्दस्तु अस्यतेरोणादिके ऋजिप्रत्यये बोध्यः। असृक् असृग् , इति नकारलोपे असृज्शब्दः रक्तपर्यायो नपुंसकलिङ्गः। 'रुधिरामुग्लोहितानरक्तक्षतजशोणितम्' इत्यमरः । तस्य स्वमो कि विशेषमाह-असृजः पदान्ते कुत्वमिति । 'किन्प्रत्ययस्य इति कुत्वस्यासिद्धत्वात 'चोः कुः' इति प्राप्तं कुत्वं बाधित्वा तदप. वादे वादिषत्वे।कृते, तस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन खकारः, अघोषचासविवारमहाप्राणत्वसाम्यादित्यर्थः । नच षत्वस्य निरवकाशत्वं शक्यम् , सृष्टमित्यादौ अपदान्ते 'क्विन्प्रत्ययस्य कु.' इति कुत्वाभावस्थले षत्वस्य चरितार्थत्वात् । ननु क्विनन्तत्वाभावादिह 'क्विन्प्रत्ययस्य' इति कुत्वं कुत इत्यत आह-सृजेः क्विनो विधानादिति । ऋत्विगादिसूत्रेण इति शेषः। तथाच क्विन् प्रत्ययो यस्मादिति अतदगुणबहुवीद्याश्रयणादिहापि कुत्वं निर्बाधमिति भावः । भाष्यप्रयोगादिति । नच रज्जुसडभ्याम् इति भाष्यप्रयोगात् विश्वसडादौ कथं कुत्वाभाव इति वाच्यम् , ज्ञापकस्य सामान्यापेक्षत्वात्। नचैवं सति असन्शब्देऽपि कुत्वं न स्यादिति वा. च्यम् , अनव्ययपूर्वपदस्यैव सृजेर्भाष्यप्रयोगतः कुत्वाभावबोधनादिति भावः। ननु उदाहतभाष्यप्रयोगात् विश्वसज्जुसूडादौ षत्वसिद्धावपि देवान् यजतीति देवेट् इत्यादौ 'चोः कुः इति कुत्वस्यासिद्धत्वात् व्रश्चादिना पत्वे, तस्य 'क्विन्प्रत्ययस्य कु" इति कुत्वं दुर्वारमित्यस्वरसादाह-यदेति । पत्वं कुत्वापवाद इति । यद्यपि सृष्टमि. त्यादौ अपदान्ते षत्वं सावकाशम् । वथापि यजिसज्योः पूर्वोत्तरसाहचर्येण पदान्तेऽपि विशिष्यविहितत्वान्निरवकाशत्वाच्च पदान्तविषये षत्वं कुत्वापवादः । तथाच विश्वबडादौ देवेडादौ च षत्वं निर्बाधम् । अत एव ‘सृजिशोः इति सूत्रे रज्जुसड्भ्या . मिति काम्यज्विधिसूत्रे उपयटकाम्यतीति च भाष्यप्रयोगः सङ्गच्छत इति भावः। नन्वेवं सति स्रगृत्विक्छन्दयोरपि 'क्विन्प्रत्ययस्य' इति कुत्वं बाधित्वा प्रश्चादिना षत्वं स्यादित्यत आह-स्रगृस्विक्छब्दयोरिति । ऋत्विगादिसूत्रे ऋत्विक स्रक् इति नि. पातनादेव कुत्वमित्यर्थः । नच स्रष्टा यष्टा इत्यादौ अपदान्ते निपातनात् कुत्वापत्ति. रिति वाच्यम् । निपातनेन ह्यानयोः अपवादभूतषत्वस्य अप्रवृत्तिमानं बोध्यते। कुत्वं तु स्वशास्त्रेणैव यथायथं भवतीति न दोषः । ननु तासक्छब्देऽपि कुत्वापवादः षत्वं स्यात् , ऋत्विगादिसूत्रे नक्शब्दस्यैव कुत्वनिपातनात् इत्यत आह-असृक्छब्दस्त्वि. ति । 'असु क्षेपणे' इत्यस्मात् औणादिके ऋप्रत्यये सति निष्पन्नस्य असृक्छब्दस्य प्राच' इति षत्वाविषयत्वात् 'चोः कुः' इति कुत्वे सति असक्छब्दो बोध्य इत्यर्थः ।
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तनपुंसकलिङ्ग
असूजी, मसृजि । 'पहन्- (सू २२८) इति वा । असन् , असानि । अ. सूजा-अस्ना, असम्भ्याम्-असभ्यामित्यादि। ऊ-ऊर्ग, ऊर्जी, ऊर्जि । नर• जानां संयोगः । 'बहुर्जि नुम्प्रतिषेधः ( वा ४३३१)। 'अन्त्यात्पूर्वो वा नुम्' ( वा ४३३२ ) । बहुर्जि-बहुर्जि वा कुलानि ॥ इति जान्ताः ॥ त्यत्-त्यद्, त्ये त्यानि । ततू-तद् , ते, तानि । यत्-यद् , ये, यानि । एतत्-एतदू, एते, एता. नि । अन्वादेशे तु एनत् । बेभिद्यतेः किम् । बेमित्-बेमिद् , बेभिदी। शाव. अंसजीति । जयशसोः शिः, झलन्तत्वान्नुम् , 'नश्च' इत्यनुस्वारः, तस्य परसवर्गों अंकार इति भावः । असानीति । शसरिशः, नान्तस्वादूदीर्घ इति भावः । अस्नेति । तृतीयैकवचने असन्नादेशे अल्लोपः । असृग्भ्यामिति । असनादेशाभावे कुत्वे जश्त्वमि. सि भावः । असभ्यामिति । भ्यामादौ असन्नादेशे नलोप इति भावः । ___ ऊर्गिति । 'उर्ज बलप्राणनयोः क्विप , स्वमोलक् . कुत्वेन गः, तस्य चत्वविकल्प इति भावः। ऊन्जीति । जस्शसोः शिः, झलन्तत्वान्नुम् , स च मित्त्वादन्त्यादचः उकारात् परो भवति । तदाह-नरजानां संयोग इति। बहू'छब्दोऽपि प्रायेण अर्वदेव। जाशसोः शिभावे कृते, झलन्तलक्षणनुमि ऊकारादुपरि प्राप्ठे, 'बहूजि प्रतिषेधो वक्तव्यः, अन्त्यात् पूर्व नुममेक इच्छन्ति' इति च वार्तिक प्रवृत्तम् । तदेतदर्थतः संगृ. हाति-बहूजीति । बहूर्जशब्दे अन्त्यादच उकारात् उपरि नुमः प्रतिषेधो वक्तव्यः, किंतु अन्त्यावर्णात् पूर्वो नुम् वा स्यादित्यर्थः । बहूजीति। जश्शसोर्नुमभावे रूपम् । बहूजीति । जकारात् पूर्व रेफादुपरि नुमि कृते, श्चुत्वस्यासिद्धत्वात् 'नश्च' इति तस्यानुस्वारे, तस्य परसवणे अकारे रूपं बोध्यम् । अत्र 'बहुर्जि प्रतिषेधः' इति प्रथमवार्तिकं न कर्तव्यम् , 'नपुंसकस्य झलचः' इति सूत्रस्य अचः परो यो झल् तदन्तस्य क्लीबस्य नुम् स्यादिति व्याख्याने सति नुम एवात्राप्रसक्तः। न चैवं सति वनानी. त्यादावव्याप्तिः शङ्कया, 'इकोऽचि विभक्ती' इत्यतः अचीत्यनुवयं अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम् स्यादिति वाक्यान्तराश्रयणादिति भाष्ये स्थितम् । एवंच ऊर्कछब्दे शौ 'नरजानां संयोगः' इति मूलं भाष्यविरुद्धत्वादुपेक्ष्यमेव , तत्र अचः परस्य शल: अभावेन नुमः अप्रसक्तः । इति जान्ताः ।।
अथ दकारान्ता निरुप्यन्ते । त्यदिति । त्यत् , तद् , यद् , एतद् , एषां स्वमोलुंका लुप्सत्वादू त्यदायत्वं, पररूपं, 'तदोः सः सौ' इति सत्वं च न भवति । इतरत्र तु सर्वत्र त्यदायत्वे पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्य च इति बोध्यम् । अन्वादेशे स्वेनदिति । अन्वादेशे नपुंसकैकवचने एनद्विधानादिति भावः । औजि जाशसोच.एने, एनानि । बेमियतेरिति । रितपा निर्देशोऽयम्। बेमिः इति यान्ताद्धातोरित्यर्थः । "मिदिन विदारणे। अस्मात् यकि 'सन्यहोः इति द्वित्वे, हलादिषेधे, 'अभ्यासे
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
३२१
क्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । भजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि । चेच्छिदि । इति दान्ताः ॥
गवाक्छब्दस्य रूपाणि क्लोबेऽर्चागतिभेदतः । असन्ध्यवपूर्वरूपैर्नवाधिकशतं मतम् ॥
चर्च' इत्यभ्यासभकारस्य जश्त्वेन बकारे, 'गुणो यङ्लुको:' इति गुणे, बेभिद्य इति रूपम् । तस्मात् 'सनाद्यन्ताः' इति धातुत्वात् क्विप्, अतो लोपः, 'यस्य हलः' इति कोपः । बेभिदशब्दात् स्वमोर्लुक्, जश्त्वचत्वें बेभिद् बेभित् इति रूपमिति भावः । बेमिदी इति । औक: श्यां रूपम्। जशसोश्शौ झलन्तलक्षणनुममाशङ्कय आहशाविति । स्थानिवत्वादिति । 'अचः परस्मिन्' इत्यनेनेति शेषः । न चात्र अल्लोपस्थानिभूतादचः पूर्वोः दकार एव न स्विकारः, तस्य दकारेण व्यवधानात् तथा च तस्य नुम विधिः स्थानिभूतादचः पूर्वस्य विधिनेति वाच्यम्, 'अचः परस्मिन्' इत्यत्र व्यवहित पूर्वस्यापि ग्रहणस्योकत्वात् । 'क्वौ लुप्तं न स्थानिवत्' इति तु न सार्वत्रिकमिति 'दीधीवेवीटाम्' इत्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वात् झलन्तलक्षणनुमोऽभावेऽपि अजन्तलक्षणो नुम् दुर्बार हत्यत आह-अजन्तलक्षणस्तु नुम् नैति । कुत इत्यत आह-स्वविधौ स्यानिवत्वाभावादिति । अल्लोपस्य स्थानिवत्वमाश्रित्य मित्त्वादन्त्यादचः परः प्रवर्तमानो हि नुम् दकारोपरितनस्य अका• रोपकक्षित देशस्योपरि प्रवृत्तिमर्हति तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्बिधिः । तस्मिन् कर्तव्ये अल्लोपस्य स्थानिवस्वं न सम्भवति, स्थान्यपेक्षया पूर्वस्यैव विधौ 'अचः परस्मिन्' इत्यस्य प्रवृत्तेः । स्थानिवत्सूत्रमपि स्थानिभूतस्य स्वस्य कार्यविधौ न प्रवर्तते, अनल्विधाविति निषेधादित्यर्थः । 'अचः परस्मिन्' इति सूत्रे पूर्वविधा - वित्यपनीय 'अपरविधाविति वक्तव्यं स्वविधौ स्थानिवत्वार्थम्' इति वार्तिकं तु भाष्ये प्रत्याख्यातमित्यदोषः । इति दान्ताः ।
1
अथ चकारान्ता निरूप्यन्ते ॥
जायन्ते नव सौ तथामि च नवभ्यांभिसभ्यसां संगमे षट्सड्ख्यानि नवैव सुप्यथ जसि श्रीण्येव । तद्वच्छसि । चत्वार्यन्यवचसु कल्य विबुधाः शब्दस्य रूपाणि त
ज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥
इति प्राचीनस्य कस्यचित् प्रश्नस्य श्लोकद्वयेन उत्तरमाह- गवाक्छब्दस्येति । श्रर्चागतिभेदतइति । 'अनिदिताम्' इत्यचेर्गतौ नकारस्य लोपः । पूजायां तु 'नाञ्चेः पूजाग्राम' इति निषेधान्नस्य लोपो नेत्येवं गतिपूजात्मकार्थभेदनिवन्धनन लोपतदभावा२१ बा०
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
स्वम्सुप्सु नव षड् भादौ षट् के स्थुस्त्रीणि अशाः । चत्वारिशेषे दशके रूपाणीति विभावय ॥
[ हलन्तनपुंसकलिङ्ग
आदिना किन् ।
तथाहि । गामवतीति विग्रहे 'ऋत्विग्' ( सू ३७३) गतौ नलोपः । ' अव स्फोटायनस्य' ( सू ८८ ) इत्यवस् । गवाक् - गवाग् । 'सर्वत्र विभाषा -' ( सू ८७ ) इति प्रकृतिभावे, गोअक् - गोअग् । पूर्वरूपे, गोSक-गोऽग् । पूजायां, नस्य कुत्वेन ङः । गवाङ् गोअङ्- गोऽङ् । अभ्यप्येता
भ्यामिति यावत् । असन्धीति प्रकृतिभावो विवक्षितः । असभ्यवङ्पूर्वरूपैरित्यनन्तरं शब्दोऽध्याहर्तव्यः । शतमित्यनन्तरमितिशब्दश्च । तथा च गत्यर्थपूजार्थभेदनिबन्धननलोपतदभावाभ्याम् असन्ध्यवङ्पूर्वरूपैश्च गवाक्छन्दस्य रूपाणि नवाधिकशतमिति मतं सम्मतमित्यर्थः । एतेन 'विंशत्याद्याः सदैकत्वे संख्यास्संख्येयसंख्ययोः' इति कोशात् शतशब्दस्य संख्यापरत्वे गवाक्छब्दस्य रूपाणामिति भाव्यम्, संख्येयपरत्वे तु मतमित्येकवचनानुपपत्तिरिति निरस्तम् । संख्येयपरत्वमाश्रित्य इतिशब्दमध्याहृत्य नवाधिकशतं रूपाणीति मतमित्यर्थाश्रयणात् । यद्वा शतशब्दस्य संख्येयपरत्वेऽपि शतमित्येकत्वाभिप्रायं मतमित्येकवचनमित्यदोषः । नवाधिकशतमित्येतत् प्रपञ्चयति - स्वम्सुप्सु नवेति । प्रत्येकमिति शेषः । रूपाणीति सर्वत्रान्येति । षड् भादौ षट्के स्युरिति । भिसि भ्यांत्रये, भ्यसूये च प्रत्येकं षडित्यर्थः । श्रीणि जरशसोरिति । प्रत्येकमिति शेषः । चत्वारि शेषे दशक इति । प्रत्येकमिति शेषः । स्वम्सुप्सु नवेत्येतदुपपादयति - त - तथा हीति | गामवतीति । गां गच्छति पूजयति वेत्यर्थः । क्विनि उपपदसमासे सुब्लुकि गो अञ्च् इति स्थिते प्रक्रियां दर्शयति - गतौ नलोप इति । गत्यर्थकत्वे 'मनिदिताम्' इति नस्य लोप इत्यर्थः ॥ गवाक्- गवागिति । गो अच् स् गो अच् अम् इति स्थिते, स्वमोर्लुकि, अक्लीबस्येति पर्युदासात् सर्वनामस्थानत्वाभावेन 'उगिदचाम्' इति नुमभावे, ओकारस्य अवङादेशे सवर्णदीर्घः, जस्त्वचत्वं इति भावः । सर्वत्रेति । अवडादेशस्य वैकल्पिकत्वात्तदभावपक्षे 'सर्वत्र विभाषा' इति प्रकृतिभावात् 'एड: पदान्तादति' इति पूर्वरूपस्याप्यभावे सतीत्यर्थः । पूर्वरूपे इति । ras: प्रकृतिभावस्य चाभावेन 'एड: पदान्ता' इति पूर्वरूपे सतीत्यर्थः । तदेवं गत्यर्थकत्वे षड् रूपाणि ।
1
1
. पूजायामिति । 'नाचे: पूजायाम्' इति नलोपाभावात् गो अञ्च इत्यस्मात् स्वमोलुंकि, वकारस्य संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य कु:' इति कुत्वेन डकारः । ततः अवधि प्रकृतिभावे, पूर्वरूपे च त्रीणि रूपाणीति भावः । पूर्वोदाहृतषड रूपसंक
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
३२३
न्येव नव । औढः शी, भत्वात् 'अव:' ( सू ४१६ ) इत्यक्लोपः । गोची । पूजायां तु, गवाश्ची-गोअची-गोऽची । ' अश्शस्रोः शिः ( सू ३१२ ) शेरसर्वनामस्थानत्वान्नुम्, गवाश्चि-गोअश्चि-गोऽवि । गति पूजनयोस्त्रीण्येव । गोचा - गवाश्चागोभञ्चा-गोऽञ्चा । गवाग्भ्याम् — गोअग्भ्याम् — गोऽग्भ्याम् - गवाभ्याम् - गोअड् भ्याम् - गोऽभ्याम् इत्यादि । सुपि तु न्ताना, पक्षे 'ह्णोः कुक् -' (सू १३० ) इति कुक् । गवाक्षु-गोभक्षु-गोऽक्षु, गवाक्षु, गोभक्षु, गोषु । गवाक्षुगोभक्षु-गोक्षु । न चेह 'चयो द्वितीयाः' ( वा ५०२३ ) इति पो ककारस्य
लमया सौ नवरूपाणि । श्रङः शीति । गत्यर्थकस्वे नलोपे औक्रशोभावे च सति अक्लीनस्येति पर्युदासादसर्वनामस्थानतया भत्वात् 'मचः' इत्यक्लोपे गोची इत्येकमेव रूपम् अकारस्य लुप्तत्वेन अवकायसंभवात् । पूजायां त्विति । अलुप्तनकारत्वाद 'ore:' इत्यल्लोपो नेति भावः । तथाच औडि श्रीणि रूपाणि । पूर्वोदाहृतैकरूपसंक
नया प्रत्येकं चत्वारि रूपाणि । शेः सर्वनामेति । गत्यर्थकस्थे नलोपे सति, शौ उगिदचाम्' इति नुमि, तस्य 'नइच' इत्यनुस्वारः, परसवर्ण इति भावः । पूजार्थकस्बे तु अलुप्तनकारत्वान्नुम् न । किंतु स्वाभाविकनकारस्य अनुस्वारः परसवर्ण इति भावः । गतिपूजनयोः शौ अविशिष्टान्येव त्रीणि रूपाणीत्याह-गति पूजनयोस्त्रीण्येवेति । गोचेति । गत्यर्थकस्बे लुप्तनकारत्वाद् 'अचः' इत्यस्लोपे एकमेव रूपमिति भावः । पूजार्थस्बे तु अलुसनकारत्वात् 'अचः' इत्यल्लोपाभावे, अवडि, प्रकृतिभावे, पूर्वरूपे च त्रीणि रूपाणीत्याह-गवान्चा गोश्रञ्चा गोऽञ्चेति । भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जपत्रे कुत्वे अवसन्धिपूर्णरूपैः श्रीणि रूपाणि । पूजार्थत्वे तु नलोपाभावात् चकारस्य संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन डकारे अवसन्धिपूर्वरूपैः ' त्रीणि रूपाणीत्यभिप्रेत्याह - गवाग्भ्यामित्यादिना । इत्यादीति । गवाग्भिः गो अग्भिः गोऽग्भिः गवाभिः गोअभिः गोऽमिः । गोचे गवाञ्चे गोअञ्चे गोडवे । म्यामि, भ्यसि च, प्राग्वत् षड्रूपाणि । सौ, गोचः - गवाञ्चः - गोअञ्चः - गोऽञ्चः । भ्या मि, म्यसि च प्राग्वत् । ङसि, गोचः - गवाञ्चः गोअञ्चः -गोऽञ्चः । गोचोः - गवाचो:गोअचो:- गोः । गोचाम् - गवाञ्चाम्- गोअञ्चाम्-गोचि गवाचि गोअचि गोऽ चि । ओसि प्राग्वत् । सुपि त्विति । पूजार्थकत्वे नलोपनिषेधात् चकारस्य संयोगान्तलोपे नकारस्य 'क्किन्प्रत्ययस्य' इति कुत्वेन डकारः । ततश्च अवङसंधिरूपैः त्रयाणां रूपाणां ङकारान्तानां कुगागम इत्यर्थः । कुगभावे तु गवाषु गोअषु - गोष्विति श्रीणि रूपाणि सुगमत्वान्नानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवडसंधिपूर्वरूपैः त्रीणि रूपाणि दर्शयति-गवातु-गोअतु-गोऽदिवति । तथा च सुपि नक
1
।
1
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
सिद्धान्तकौमुदी
[हलन्तनपुंसकलिङ्ग
खकारेण षण्णामधिक्यं शङ्कथम् । चत्वस्यासिद्धत्वात् । कृपक्षे तु तस्यासिद्धत्वजश्त्वाभावे पक्षे चयो द्वितीयादेशात्रीणि रूपाणि वर्धन्त एव ॥
ऊधमेषां द्विवंचनानुनासिकविकल्पनात् । रूपाण्यश्वाक्षिभूतानि ( ५२५ ) भवन्तीति मनीषिभिः ॥
रूपाणि । नन्वेषां मध्ये ककारवत्सु षड्पेषु 'चयो द्वितीयाः इति ककारस्य खका. रपक्षे षड्पाणि सखकाराण्यधिकानि स्युरित्याशङ्कय निराकरोति-नचेहेति । चव - स्येति । गतौ नलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्य खरिचा इति चत्वेन ककारे, गवाक्षु-गोअक्षु-गोऽश्विति त्रीणि रूपाणीति स्थितिः । तत्र 'चयो द्वितीयाः' इति शास्त्रदृष्ट्या चवंशास्त्रस्यासिद्धत्वात् ककारो नास्त्येव । किन्तु गकार एवास्ति, तस्य चय्त्वाभावात् 'चयो द्वितीयाः' इति न भवतीत्यर्थः। तथाच गतौ त्रयाणामाधिक्यं निरस्तम् । पूजायां तु कुपक्षे गवाक्षु-गोअक्षु-गोऽक्षु. इति त्रिषु ककारस्य द्वितीये सति खकारवतां त्रयाणामाधिक्यमिष्टमेवेत्याह-कुक्पक्षे विति । नचैवं सति नवाधिकशतमिति विरोधः शङ्कया, नवाधिकशतमिति सूत्रकारस्य मतमित्यर्थात्।
ऊह्यमेषामिति । प्रदर्शितानां द्वादशाधिकशतरूपाणामित्यर्थः। अश्वाक्षिभूतानीति । सप्तविंशत्यधिकपञ्चशतानीत्यर्थः । अश्वशब्दो हि ससत्वसङ्ख्यावच्छिन्न लक्षका, 'ससाश्वा हरितः सूर्यस्य' इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसंख्यावच्छिन्नलक्षकः, मनुष्यादिषु प्रायेणाक्ष्णोः द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्ख्यावच्छिन्नलक्षकः, पृथिव्यप्तेजोवाय्वाकाशानां भूतशब्दवाच्यानां पञ्चत्वात् । तत्राश्वशब्देन प्रथमनिर्दिप्टेन सप्तत्वसंख्यैव विवक्षिता । अक्षिशब्देन तु द्वितीयनिर्दिष्टेन सूचितया द्वित्वसंख्यया दशकद्वयात्मिका विंशतिसङ्ख्या विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्वसंख्यया पञ्चशतं लक्ष्यते । उक्तं च ज्यौतिषेण ।
'एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥
जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः। इति ॥ अत्र अश्वशब्दसूचितां सप्तत्वसंख्यामादौ लिखित्वा तदुत्तरतः अक्षिशब्दसूचिता द्वित्वसङ्ख्या लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्ख्या लेख्या। 'अडानां वामतो गतिरिति वचनात इत्यादि गणकसम्प्रदायप्रवर्तकलीलावत्यादिग्रन्थतो ज्ञेयम् । तथाच स च विंशतिश्च पञ्चशतानि च रूपाणि भवन्तीति मनीषिभिरूह्यमित्यर्थः । सथाहि सौ नवानां रूपाणामन्त्यवर्णस्य 'अनचि चा इति द्वित्वे तदभावे च अष्टादश
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् १३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
३२५
रूपाणि । प्रथमाद्विवचने चतुर्णा मध्ये पूजार्थानां त्रयाणां नकारस्य 'अनचि च' इति इति द्वित्वे तदभावे च षद्रूपाणि, 'अणोऽप्रगृह्यस्य' इति तु न, प्रगृह्यत्वात् । गतौ त्वेकमेव, संकलनया सप्त । जसि तु त्रयाणां अकारस्य द्वित्वे तदभावे च षड्रूपाणि, ' षण्णामेषामन्त्यस्य इकारस्य 'अणोऽप्रगृह्यस्य' इत्यनुनासिकपक्षे षट्, अनुनासि कत्वाभावपक्षे तु षट् स्थितान्येव, संकलनया जसि द्वादश । तथा च प्रथमायां विभक्तौ सप्तत्रिंशत् । एवं द्वितीयायां विभक्तावपि सप्तत्रिंशत् । तृतीयैकवचने तु चतुर्णां मध्ये पूजार्थानां त्रयाणां प्रकारद्वित्वे तदभावे च षरूपाणि, गतौ त्वेकमेव । सङ्कलनया सप्त । एषां सप्तानामन्त्यस्य आकारस्य अनुनासिकत्वपक्षे सप्त, तदभावे तु सप्त स्थितान्येव, संकलनया चतुर्दश । भ्यामि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट् तदभावे पट स्थितान्येव, सङ्कलनया द्वादश । एषु यकारस्य 'यणो ममः' इति द्वित्वे द्वादश, मथ इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाभावे तु द्वादश स्थितान्येव सङ्कलनया चतुर्विंशतिः । एषु मकारस्य द्वित्वे चतुर्वि शतिः, तदभावे चतुर्विंशतिः स्थितान्येव, संकलनया म्यामि अष्टाचत्वारिंशत् । भिसि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, संकलनया द्वादश । एषु विसर्गस्य द्वित्वे द्वादश । अयोगवाहानाम् अट्सु शर्बु चोपसंख्यातत्वेन विसर्गस्य यत्र्त्वात् । तस्य तु द्वित्वाभावे द्वादश स्थितान्येव, संकलनया मिसि चतुर्विंशतिः । तथाच तृयीयाविभक्तौ षडशीतिः । चतुथ्यैकवचने चतुर्णो मध्ये पूजार्थानां त्रयाणां अकारद्वित्वे तदभावे च षट्, गतौ त्वेकमेव सङ्कलनया इि सप्त, एकारस्य अनश्वान्नानुनासिकः । भ्यामि तु प्राग्वदेव अष्टाचत्वारिंशत् । भ्यसि तु षण्णां मध्ये गतिपूजनयोः प्रत्येकं त्रयाणां गङयोद्वित्वे षट्, तदभावे तु षट्, स्थितान्येव सङ्कलनया द्वादश । एषु यकारस्य 'यणो मयः' इति द्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्विंशतिः । एषु विसर्गस्य द्वित्वे चतुविंशतिः, तदभावे तु चतुर्विंशतिः स्थितान्येव, सङ्कलनया म्यसि अष्टाचत्वारिंशत् । तथा च चतुर्थ्यां विभक्तौ त्र्यधिकं शतम् । कसौ तु पूजायां त्रयाणां रूपाणां जकार द्वित्वे तदभावे च षट्, गतौ त्वेकं स्थितमेव, सङ्कलनया सप्त । एषु विसर्गद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया ङसौ चतुर्दश । भ्यामि भ्यसि च प्राग्वत: प्रत्येकं अष्टाचत्वारिंशत् । तथाच पञ्चम्यां विभक्तौ दशाधिकं शतम् । ङसि तु ङसि - वच्चतुर्दश । ओसि तु चतुर्णा मध्ये पूजायां त्रयाणां नकारस्य द्वित्वे तदभाषे च षट्, गतौ त्वेकं संकलनया सप्त । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश । आमि तु चतुर्णामध्ये पूजायां त्रयाणां त्रिषु नकारस्य द्वित्वे षट्, गतौ त्वेकं, संकलनया स एषु मकारस्य द्वित्वे तदभावे च चतुर्दश । तथाच षष्ट्यां द्विचत्वारिंशत् । डौ.
"
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तनपुंसकलिा
तिर्यक् , तिरश्ची, तिर्यच्चि । पूजायां तु. तिर्यड , तियश्ची, तिर्यश्चि ॥ इति पूजायां त्रयाणां जकारस्य द्वित्वे तदभावे षट् , गतावेकं सकलनया सप्त, एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानां मध्ये पूजायां कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थि. तान्येच, सङ्कलनया षट् । कुक्पक्षे तु 'चयो द्वितीयाः' इति द्वितीयादेशे खकारवन्ति श्रीणि, तदभावे तु ककारवन्ति त्रीणि, सङ्कलनया षट् , षण्णामेषां कारद्वित्वे षट् , तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । एषां द्वादशामा 'खयः शरः इति पकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सहलनया चतुर्विंशतिः। 'शरोड चि' इति निषेधस्तु न, तस्य सौनद्वित्वमात्र विषयत्वात् । तथा च कुक्पक्षे चतुर्विशतिः, कुगभावे तु षट् स्थितान्येव, सालनया पूजायां त्रिंशत् । गतौ तु प्रयाणां ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषां 'खयः शरम' इति षकारद्वित्वे षट् , तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । तथाच सङ्कलनया गतौ पूजायां च द्विचत्वारिंशत् । एषामन्त्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीतिः ।
एवं च सु अष्टादश (१८), औ सप्त (७), जस् द्वादश (१२), आहत्य प्रथमायां सप्तत्रिशत् (३.). अम् अष्टादश (१८), औट् सप्त (७) शस् द्वादश (१३) आहत्य द्वितायीयां सप्तत्रिंशत् (३५), टा चतुर्दश (१५), भ्याम् अष्टाचत्वारिंशत् (४०), मिस् चतुर्विंशतिः (२४) । आहत्य तृतीयायां षडशोतिः(८६) । के सप्त(७)भ्याम् अष्टाचत्वारिंशत् (४८), भ्यस् अष्टाचत्वारिंशत् (४८), आहत्य चतुर्थी त्र्यधिकं शतम्(१०३)। उसि चतुर्दश(१४), भ्याम् भ्यसोः अष्टाचत्वारिंशत् ३ (४८) भाहत्य पञ्चम्यां दशा. धिकं शतं (११०)। उस चतुर्दश (१४), ओस् चतुर्दश (१४) आम् चतुर्दश (१४) आह. त्य षष्ठयां द्वाचत्वारिंशत् (१२) । ङि चतुर्दश (१४) ओस् चतुर्दश (१४), सुप् चतुर. शीतिः (८४), आहत्य सप्तम्यां द्वादशाधिकं शतम् (११२)। ततश्च सङ्कलनया पञ्च. शतानि च, विंशतिश्च, सप्त च (१२७) रूपाणि । इति गवाक्छन्दप्रक्रिया। तिर्यगिति । तिरः अञ्चति इति विग्रहे 'ऋत्विक् आदिना किन् । गतौ 'अनिदिताम्' इति नलोपः। तिरस् अब इत्यस्मात् सुबुत्पत्तिः स्वमोलुंक, प्रत्ययलक्षणविरहात् असर्वनामस्थान. स्वाच्च न नुम् । अभत्वात् 'अचः' इत्यल्लोपो न, तिरसस्तिर्यादेशः, यण 'किन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वात् चकारस्य 'चोः कु:' इति कुत्वम् , जवत्वचत्वे इति भावः । तिरश्ची इति । तिरस् अच् औ इति स्थिते औङ यां, मत्वात् , 'अधः' इत्यल्लोपः । 'मलोपे' इत्युक्तेन तिर्यादेशः। सस्य श्चुत्वेन का इति भावः । तिर्यश्रीति । विश्स अप इत्यस्माज्जसि 'जाशसोः शिः, सर्वनामस्थानत्वान्नुम् , अनुस्वा
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
}
,
चान्ताः ॥ यकृत् य कृती, यकृन्ति । 'पद्दन् - ( सू २२८ ) इति वा यकन् । कानि । यवना - यकृता । शकृत् शकृती, शकृन्ति-शकानि । शक्ना - शकृता । ददत् ददती । (४४४) वा नपुंसकस्य । ७ । १ । ७६ ॥ अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम् वा स्यात्सर्वनामस्थाने । ददन्ति - ददति । तुदत् । (४४५) श्राच्छीन धोर्नुम् | ७|१|८० || अवर्णान्तादङ्गात्परो यः शतुरवयवस्त
"
३२७
परसवर्णो तिरसस्तिरिः यण् अभत्वात्, 'अचः' इत्यल्लोपो नेति भावः । पूजायां तु तिर्यङिति । स्वमोर्लुकि अभत्वात् अलुप्तनकारत्वात् 'अचः ' इत्यल्लोपाभावातियादेशः, चकारस्य संयोगान्तलोपः, नस्य कुत्वेन डकार इति भावः । तिर्यन्ची इति । औe: f रूपम् | अलुप्तनकारत्वादच इत्यल्लोपाभावात् तिरिः । तिर्यन्वि इति । जसोः शिः । शेषं पुंवत् । इति चान्ताः । 1
।
•
1
ranरान्ता निरूप्यते । यकृदिति । मांसपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्धः । स्वमोर्लुक् जश्त्वचत्यें, इति भावः । यकृती इति । Herit यकृन्तीति । 'जशसोः शिः झतन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भावः । शसादौ विशेषमाह - पद्मन्निति वा यकन्निति । यकानीति । शसकिशः, यकन्नादेशः सर्वनामस्थानत्वात् नान्तलक्षण उपधादीर्घ इति भावः । यक्नैति । टाय यकन्नादेशे अल्लोपः । यक्ने । यवनः । यमनोः । यक्नि-यकनि । यकसु । यकन्नभावे यकृद्रयामित्यादि । शदिति । शकृच्छब्दः विष्ठावाची, यकृत् । ददत्, ददती इति । शतृप्रत्ययान्तोऽयं ददच्छन्दः पुंलिङ्गनिरूपणे व्युत्पादितः । तस्य स्वमोर्लुक्, औङकशी नुम् तु न, असर्वनामस्थानत्वात् 'नाभ्यस्ताच्छतुः' इति निषेधाच्च । शौ 'माभ्यस्ताच्छतुः' इति नित्यं तुम्निषेधे प्राप्ते - वा नपुंसकस्य । 'नाभ्यस्ताच्छतुः' इति सूत्रं नञ्चर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम् धातोः' इत्यतो नुमिति 'उगिदचाम्' इत्यतः सर्वनामस्थाने इति च अनुवर्तते । तदाह - अभ्यस्तादिस्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णो । तुददिति । 'तुद् व्यथने' अस्माच्छतृप्रत्यये 'तुदादिभ्यश्शः' इति शः शपोऽपवादः, 'अतो गुणे' इति शतुरकारेण पररूपे तुदच्छन्दः, तस्मात् स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वाच्च न नुम्, जश्त्वचत्वें इति भावः । तुदच्छब्दादौडः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्तेश्राच्छीनयोर्नुम् । 'नाभ्यस्तात्' इत्यतः शतुरिति 'वा नपुंसकस्य' इत्यतो वेति चानुवर्तते । आदिति पञ्चमी । अङ्गस्य इत्यधिकृतं पञ्चम्या विपरिणम्यते तच्च आदित्यनेन विशेष्यते, तदन्तविधिः । परस्य इत्यध्याहियते, शतुरित्यनन्तरमवयवस्येत्यम्याहियते, तेन च अङ्गस्येति षष्ठ्यन्तं विशेष्यते, तदन्तविधिः । अङ्गस्येत्यस्य आवृतिर्बोध्या । तदाह-प्रवर्णान्तादित्यादिना । 'इदितो नुम् इत्यतः अनुवृत्यैव सिद्धे
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तनपुंसकलि
-
दन्तस्याङ्गस्य नुम् वा स्याच्छोनद्योः परतः । तुदन्ती-तुदती । तुदन्ति । भात् , भान्तो-भाती । भान्ति । पचत् । (४४६) शयनोनित्यम् । ७१॥ शश्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छोनद्योः परतः। पचन्ती, पचन्ति । दीव्यत् , दीव्यन्ती, दीव्यन्ति ॥ इति तान्ताः ॥ स्वप्-स्वब , स्वपी।
नुम्ग्रहणं स्पष्टार्थम् । तुदन्ती-तुदती इति । औङः श्या, नुमि, तदभावे च रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम् , तदाादिग्रहणेन विकरण विशिष्टस्याप्यङ्गत्वात् । ततश्च तुदत् इत्यन्त्यस्तकारः शतुरवयवः तुद इत्यवर्णान्तादङ्गात् परश्चेति नुमिति भावः। अवर्णान्तादनात् परो यः शतृप्रत्ययः इत्याश्रयणे तु अत्र नुम् न स्यात् । शविकरणाकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात् परत्वाभावात् , परादित्वे अवर्णान्ताङ्गाभावात् उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम् । तुदन्तीति । जश्शसोशिशः, सर्वनामस्थानत्वान्नुमिति भावः । भादिति । 'भा दीप्तौ लुग्विकरणः । लटः शतरि कृते सवर्णदीर्घे भात् इति रूपम् । तस्मात् स्वमोलक। जश्त्वचत्वे इति भावः । भान्तीभाती इति। 'औङः शी' 'आच्छीनथोर्नुम्' इति भावः। भान्तीति । जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः । पचदिति । पचधातोः लटः शतरि शप् , 'अतो गुणे' इति पररूपम् । पचत् इत्यस्मात् स्वमोलुंगिति भावः। और श्याम् 'आच्छीनयोः' इति विकल्पे प्राप्ते-शष्श्यनोनित्यम्। 'आच्छीनचोर्नुम्' इत्यनुवर्तते। 'ना. भ्यस्ताच्छतुः' इत्यतः शतुरित्यनुवर्तते । अवयव इति चाध्याहियते । तदाह-शप्श्यनोरादित्यादिना। पचन्ती इति। मौङ श्यां नुमि रूपम् । पचन्तीति । जशसोः शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति । दिवुधातोः लटः शतरि, श्यन् 'हलि च' इति दीर्घः। दीव्यच्छब्दात् स्वमोलुंगिति भावः । दीव्यन्ती इति । औङः श्यां नुमि रूपम् । 'शपश्यनोः' इति नित्यं नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वात् नुमिति भावः । इति तान्ताः। ___ अथ पकारान्ता निरूप्यन्ते । स्वबिति । सुशोभनाः आपो।यस्मिन् सरसीति बहुव्रीहिः। 'ऋक्पूरब्धः' इति समासान्तस्तु न भवति। 'न पूजनात्' इति निषेधात् । 'द्वयन्तरुपसर्गेभ्योऽप ईत्' इति न भवति । तत्र अप इति कृतसमासान्तग्रहणात् । स्वप्शब्दात् स्वमोलुंगिति भावः । स्वपी इति । औडा श्या रूपम् । असर्वनामस्थान. त्वाद् न नुमिति भावः। जश्शसोः शौ स्वप् इ इति स्थिते, 'अप्तृन्' इति दी., झलन्तलक्षणनुमि, अनुस्वारे, परसवणे, स्वाम्पि इति वक्ष्यति । तत्र 'अप्तृन्' इति दार्घ बाधित्वा परत्वानित्यत्वाच्च नुमि कृते अकारस्य उपधात्वाभावात् कथं दीर्घ
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता।
३२8
नित्यात्परादपि नुमः प्राक् 'अप्तृन्-' (सू २७७) इति दीर्घः, प्रतिपदोक्तत्वात् नुम् , स्वाम्पि । 'निरवकाशत्वं प्रतिदोक्तत्वम्' इति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि ।स्वपा । 'अपो भि' (सू ४४२) । स्वद्भयाम् । स्वद्भिः ॥ इति पान्ताः॥ 'अतिप्वपि-- ( २५४ ) इत्यादिना धनेरुस्। षस्वस्यासिद्धत्वाद्रुत्वम् । धनुः, धनुषो । 'सान्त- (सू ३१७ ) इति दीर्घः । 'नुम्विसर्जनीय- (सू ४३४ ) इति षस्वम् । धनूंषि । धनुषा, धनुर्ध्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः किम् वो:- (सू ४३३ ) इति दीर्घः । पिपठीः, पिपठिषी । अल्लोपस्य स्थानिवत्वाज्झलन्तलक्षणो नुम् न। स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न। पिपठिषि । पिपठीयामित्यादि पुवत् ॥ इति षान्ताः ॥ पयः, पयसी, पयासि । इत्यत आह-नित्यादित्यादि । प्रतिपदोक्तत्वादिति । 'अप्तृन्' इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः। ननु निरवकाशत्वं प्रतिपदोक्तत्वमिति 'छदिरुपधिबले.. ढवाति सूत्रे शेषाद्विभाषा' इति सूत्रे च भाष्ये स्थितम् । 'अतृन्' इति दीर्घस्तु न निरवकाशः, आपः इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात् परत्वाच्च पूर्व नुमागमे कथं दीर्घ इत्याशय इष्टापत्त्या परिहरति-निरवकाशस्वमित्यादि । स्वम्पीति । दीर्धे बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः । 'केचित्तु' 'अप्तृन' इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथम प्रवृत्तौ स्वाम्पि, इत्येव युक्तमित्याहुः ॥ इति पान्ताः। __ अथ षकारान्ता निरूप्यन्ते । धनुषशब्दं व्युत्पादयति-धनेरिति । 'जनेरुसिः' इत्यतः उसिरित्यनुवर्तमाने 'अतिवपियजितनिधनितपिम्यो नित्' इत्यौणादिकसूत्रेण 'धन धान्ये' इत्यस्माद्धातोः उस्प्रत्यय इत्यर्थः । प्रत्ययावयवत्वात् सस्य षत्वे धनुष्शब्दः । तस्मात् स्वमोलुक । तत्र षकारस्य कर्थ रुत्वमित्यत आह-पखस्येति । धनुरिति। 'चोरुपधायाः' इति दीर्घस्तु न, रेफान्तस्य अधातुत्वात् । धनूंषीति । 'नश्च' इत्यनुस्वारः । एवं चक्षुर्ह विरादय इति । 'चक्षेशिशच्च' इत्युसिः । शित्वेन सार्वधातुकत्वात् ख्शानादेशो न । 'अर्चिशुचिहुसपि' इत्यादिना हुधातोरिस् , 'सार्वधातुकार्धधातु. कयोः' इति गुणः, भवादेशः। आदिना सर्पिरादयो ग्रायाः। पिपठिषतेः किबिति । 'पठ व्यक्तायां वाचि' सन् , इट् , द्वित्वं, हलादिशेषः, अभ्यासाकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, 'सनाद्यन्ताः' इति धातुत्वम् । पिपठिष इत्यस्मात् विप् , अतो लोपः, पिपठिषु इत्यस्मात् स्वमोलुंक् , षत्वस्यासिद्धत्वाद्रुत्वम् । एतावत्सिद्धवस्कृत्य आह-वोरिति दी इति । पिपठिषी इति । औडःश्या रूपम् । सौ विशेषमाहभन्लोपस्येति । बेभिदूशब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक् । इति षान्ताः॥ .
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३०
सिद्धान्तकौमुदी
[ अव्यय
›
पयसा, पयोभ्याम् इत्यादि । सुपुम् सुपुंसी। सुपुमांसि । अदः । विभक्तिकार्यम्, उत्वमखे । भम् अमूनि । शेषं पुंवत् ॥ इति सान्ताः ॥
इति हलन्तनपुंसकलिङ्गप्रकरणम् ॥
अथाव्ययप्रकरणम् ॥ १४ ॥
(४४७) स्वरादिनिपातमव्ययम् | १|१| ३७ ॥ स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् ।
1
अथ सकारान्ता निरूप्यन्ते । पय इति । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । पयांसीति । 'शौ नुम् । 'सान्त' इति दीर्घः, अनुस्वार इति भावः । पयोभ्यामिति । रुत्वे, 'हशि च' इत्युबे, गुण इति भावः । सुपुमिति । सुशोभनः पुमान् यस्य गृहस्य इति बहुव्रीहौ, सुपुंस्शब्दात् स्वमोक, संयोगान्तलोपः । सुपुंसी इति । औङः श्यां रूपम् । सुपुमांसीति । शेः सर्वनामस्थानत्वात् 'पुंसोऽसुङ' इत्यसु । सुपुम्स् इ इति स्थिते, झलन्तलक्षणनुमि, 'सान्तमहतः' इति दीर्घः, 'नश्च' इत्यनुस्वारश्चेति भावः । भदः इति । अदस् शब्दात् स्वमोर्लुक्, रुत्यविसर्गौ, सान्तत्वात् न मुत्वम्, लुका लुप्तत्वात् त्यदाद्यत्वं नेति भावः । औङादावाह - विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । त्वमत्वे इति । 'पूर्वश्रा सिद्धम्' इति विभक्तिकार्योत्तरं उत्वमत्वे इत्यर्थः । श्रम इति । औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमस्वे इति भावः । अमूनीति । जशसोश्शिः, त्यदाद्यत्वं, पररूपम् अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः । इति सान्ताः ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्तपुंसकलिङ्गप्रकरणं समाप्तम् ॥
श्रथ अव्ययानि निरूप्यन्ते । स्वरादिनिपातमव्ययम् । स्वर् आदिः येषां ते स्वरादयः, तेच निपाताश्चेति समाहारद्वन्द्वः । फलितमाह - स्वरादय इति । स्वरादीन् पठतिस्वरित्यादिना | स्वरादीनां चादीनां च पृथकपाठस्तु 'निपाता आद्युदात्ताः' इति स्वरभेदार्थ:, चादीनामसत्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्ववाचिनामसत्यवा fani च तदिति व्यवस्थार्थश्च । स्वर् स्वर्गे पारत्रिकसुखविशेषे, परलोके च । अन्तर् मध्ये । प्रातर् प्रत्यूषे । पुनर् अप्रथमे, विशेषे च । सनतुर् अन्तर्धाने । स्वराद्याः पञ्च रफान्ताः । तेन स्वर्याति प्रातरत्रेत्यादौ 'हशि च' इत्युत्वं न, तत्र 'रो" इत्युकारामुव
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४]
बालमनोरमासहिता।
३३१
उस्। नीचैस्। शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा। रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस्। अवस् । समया। निकषा । स्वयम् । वृथा। न कम् । नम्। हेतौ। इदा । अद्धा सामि । 'वत्' ( ग ४) । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा। तिरस् । अन्तरा । मन्तरेण । ज्योक्। कम् । शम् । सहसा । बिना। नाना । स्वस्ति । स्वधा । भलम् । वषट । श्रौषट् । वौषट्। अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा। मृषा । मिथ्या । मुधा । पुरा । मियो। मिन्धग्रहणात् । उच्चस् महति । नीचेस अल्पे । शनैस क्रियामान्ये । ऋधक् सत्ये । वियोगशैघयसामीप्यलायवेबित्यन्ये । ऋते वर्जने । युगपत् एककाले। पारात् दूरसमीपयोः। पृषक मिन्ने । ह्यस् अतीतेहि । श्वस अनागतेहि । दिवा दिवसे । रात्रौ निशि। सायम् निशामुखे। चिरम् बहुकाले । मनाक् , ईषत् इदं द्वयमल्पे । जोषम् सुखे, मौने च । तूचीम् मौने । बहिस अवस् इदं द्वयं बाटे। समया समीपे, मध्ये च । निकषा अन्ति. के । स्वयम् आत्मनेत्यथें । वृथा व्यथें । नक्तम् रात्रौ । नम निषेधे ।
' 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
मप्रशास्त्यं विरोधश्च नमाः षट् प्रकीर्तिताः ॥" इत्यन्ये । हेतौ निमित्ते । इदा प्राकाश्ये । श्रद्धा स्फुटावधारणयोः, तत्त्वातिशययोरित्यन्ये । सामि अधे, जुगुप्सिते च । वत् इत्यनेन तेन तुल्य क्रिया चेद्वतिः तत्र तस्येव' 'तदहम्। इति वतिप्रत्ययो गृह्यते । 'उपसर्गाच्छन्दसि धात्वर्थे' इति वतिस्तु न गृह्यते । 'पराव. तो मिवत उद्वतश्च' इत्यत्राव्ययत्वाभावात् । वस्तुतस्तु 'तद्धितश्चासर्व विभक्तिः इत्येव सिद्ध वतिग्रहणमिह व्यर्थमेव । ब्राह्मणवत् , क्षत्रियवत् इति वतिप्रत्ययान्तस्योदाहर. णम् । केवलप्रत्ययस्य अव्ययत्वे प्रयोजनाभावात्। सना, सनत्, सनात्, एतायं नित्ये। उपधा भेदे । तिरस अन्ती , तिर्यगथें, पराभवे च । अन्तरा मध्ये, विनाय च । अन्तरेण वर्जने । वस्तुतस्तु 'अन्तरान्तरेण युक्त' इति सूत्रे भाष्ये अन्तरा, अन्तरेण इत्य. नयोः निपातत्वोक्तेरनयोः स्वरादिषु पाठः प्रक्षिप्त इति बोध्यम् । ज्योक कालभूयस्त्वे प्रश्ने, शीघ्राथें, सम्प्रति, इत्यर्थे च । कम् वारिमूर्धनिन्दासुखेषु । शम् सुखे । सहसा आकस्मिकाविमर्शयोः। विना वर्जने । नाना अनेकविनार्थयोः । स्वस्ति मङ्गले । स्वधा पितृहविदर्दाने । अलम् भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट वौषट् , श्रौषट् एतत्त्रय देवहविर्दाने । अन्यद अन्यायें । अस्ति सत्तायाम् । 'उपसर्गविभक्तिस्वरप्रतिरूपकाश्च' इति चाद्यन्तर्गणसूत्रादेव अस्तिशब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयोः स्थितम् । उपांशु
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
सिद्धान्तकौमुदी
[ अव्यय
1
1
थस् । प्रायस् । मुहुस् । प्रवाहुकम् । ( प्रवाहिका ) | आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । 'अथ' । अम् । आम् । प्रताम् । प्रशाम् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् । इति स्वरादयः । च । वा । इ । अह । अप्रकाशोच्चारणे, रहस्ये च । क्षमा क्षान्तौ । विहायसा आकाशे । दोषा रात्रौ । मृषा, मिथ्या इदं द्वयं वितथे । मुधा व्यथें । पुरा अविरते, चिरातीते, भविष्यदासन्ने च । मिथो, मिथस् इदं द्वयं रहसि सहार्थं च । प्रायस बाहुल्ये । मुहुस् पुनरथें । प्रवाहुकम् । समकाले ऊर्ध्वार्थिं च । प्रवाहिका इति पाठान्तरम् । श्रार्यलम् बलात्कारे । शाकटायनस्तु | आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम् पौनः पुन्ये । साकम् सार्धम् इदं द्वयं सहार्थे । नमस् नतौ । हिरुक् वर्जने । धिक् निन्दाभर्त्सनयोः । अम् शैघ्रये, अल्पे च । श्रम् अङ्गीकारे । प्रताम् ग्लानौ । प्रशाम समानार्थे । प्रतान् विस्तारे । अत्र प्रतान् इति नान्तरस्य पुनः पाठसामर्थ्यात् प्रताम्, प्रशाम् इति पूर्वयोः मो नो धातोः' इति नत्वं न । प्रशान् इति नान्तपाठस्तु असाम्प्रदायिकः 'कृन्मेजन्तः' इति सूत्रभाष्यस्वरसोऽप्येवमिति शब्देन्दुशेखरे स्थितम् । मा, माङ् एतौ निषेधे । अकृतिगणोऽयमिति । ततश्च अन्येऽप्येवं जातीयकाः स्वरादिगणे ज्ञेयाः । तथाहि-- कामम् स्वाच्छन्द्ये । प्रकामम् अतिशये । भूयस् पुनरर्थं । साम्प्रतम् न्याय्ये । परम् किन्त्वर्थे । साक्षात् प्रत्यक्षे । साचि तिर्यगर्थे । सत्यम् अर्धाङ्गीकारे । मङ्तु, आशु इदं द्वयं शैघ्रये । संवत् वर्षे । श्रवश्यम् निश्चये । सपदि शैघ्रये बलवत् अतिशये । प्रादुस् आविस् इदं द्वयं प्रकाशे । अनिशम्, नित्यम्, सदा, अजस्रम् सन्ततम् एतत्पञ्चकं सातत्ये । उषा रात्रौ । रोदसि द्यावापृथिव्यर्थं । श्रोम् अङ्गीकारे ब्रह्मणि च । अत्र अश्च उश्च मू चेति समाहारद्वन्द्व, ओमशब्द: ब्रह्मविष्णुशिवात्मकब्रह्मवाची 'अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्रह्मण्यङ्गीकारे चेति विवेकः । 'अवतेष्टिलोपश्च' इत्यस्यायमर्थः, अवधातोर्मन् स्यात् प्रत्ययस्य टिलोपश्चेति । अव् मू इति स्थिते 'ज्वरत्वर' इति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घः 'सार्वधातुक' इति तस्य गुणः, ओमिति रूपम् । उभयोरपि स्वरादित्वम् । न चौणादिकस्य 'कुन्मेजन्तः' इत्येव सिद्धमिति वाच्यम्, उणादौ हि 'विरव्ययम्' इति पठ्यते । चव्यन्तानां निपातत्वादेव सिद्धे नियमार्थमिदम् । उणादिपठितानां चा. दिस्वरादिपठितानां चेदव्ययत्वं, तर्हि च्चिरेवाव्ययं नेतरदिति । ततश्च ओमित्यस्य औणादिकस्याप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः पृथिव्याम् । भुवर् अन्तरिक्षे । झटिति, द्राक्, तरसा त्रयमिदं शैघ्रये । सुष्ठु प्रशंसायाम् दुष्टु निकृष्टे । सु पू. जायाम् । श्रः आश्चर्यं । कु कुत्सिते, ईषदर्थे च । अन्जसा तत्वे शीघ्रार्थे च । मिथु द्वावित्यर्थं । अस्तम् विनाशे । स्थाने युक्तार्थे । ताजक् शैघ्रये । चिराय, चिररात्राय, चि
1
I
1
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४ ]
बालमनोरमासहिता ।
>
एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । च । कच्चित् । किंचित् यत्र । नह । हन्त । माकिः । माकिम् । नकिः । ( आकिम् । नकिम् ) । माङ् । नञ् । यावत् । तावत् । स्वे । द्वै । (न्वे) । रे । श्रौषट् । चौषट् । स्वाहा । स्वधा । वषट् । (ओम् ) । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्ठु | स्म । आदह । 'उपसर्गविभक्तिस्वरप्रतिरूपकाश्च' (ग १६) | अवदत्तम्
ܢ
३३३
रस्य चिरम्, चिरेण, चिरात् इति षट्कं चिरार्थकम् । वरम् ईषदुत्कर्षे । अनुषक् आनुपूव्यें | अनुषक् अनुमाने । अमेनः शीघ्रसाम्प्रतिकयोः । सुद शुक्लपक्षे । वदि कृष्णपक्षे इत्यादि ॥ इति स्वरादयः ॥
अथ चादीनाह-च वा इत्यादिना । च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु 1 वा विकल्पादिषु । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये । ह प्रसिद्धौ । श्रह अद्भुते, खेदे च । एव अवधारणे, अनवक्लृप्तौ च । एवम् उक्तपरामर्शे । नूनम् निश्चये, त्तकै च । शश्वत् पौनःपुन्ये, नित्ये, सहार्थे च । युगपत एककाले । भूयस् पुनरर्थे, आधिक्ये च । कूपत् प्रश्ने, प्रशंसायां च । कुवित्-भूर्यथें, प्रशंसायां च । नेत् शङ्कायां प्रतिषेधविचारसमुच्चयेषु च । चेत् यद्यर्थे । चण् अयं चेदर्थे णित, समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित् इष्टप्रश्ने । यत्र अनवक्लुप्त्यमर्षगश्चियेंषु । नावकल्पयामि, न मर्षये, गहें, आश्चर्य वा यत्र भवान् वृषलं याजयेत् । । नह प्रत्यारम्भे । हन्त हर्षे, विषादे, अनुकम्पायां, वाक्यारम्भे च । माकिः माकिम्, नकिः, इदं त्रयं वर्ज - जैने । मानौ स्वरादिषूक्तौ । अन्यतरत्र पाठ इति युक्तम् । उभयत्र पाठस्तु व्यर्थ एव । नच निपातस्वरार्थः इह पाठ इति वाच्यम्, 'फिषोऽन्त उदात्तः' इत्येव तत्सि7 दुः । न च सत्त्ववचनत्वेऽप्यव्ययत्वार्थं स्वरादिपाठ इति वाच्यम्, तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्तेः । तस्माच्चादिष्वेव मानत्रौ पाठ्यावित्याहुः । यावत्, तावत् इदं द्वयं साकल्यावधिमानावधारणेषु । त्वै विशेषवितर्कयोः । द्वै वितकें न्व इति पाठान्तरम् । रे दाने, अनादरे च । श्रौषट् वौषट् स्वाहा इदं श्रयं देवहवि - दने । स्वधा पितृदाने । श्रौषडादीनामनेकाचां त्रयाणां स्वरभेदार्थ उभयत्र पाठः । तुम तुङ्कारे । तथाहि निदर्शने । खलु निषेधवाक्यालङ्कारनिश्चयेषु । किल इवार्थे, वार्तायाम्, अलीके च । अथ अयं मङ्गलानन्तरारम्भप्रश्नकात्स्यधिकारप्रतिज्ञासमुवयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थकत्वेऽप्यव्ययत्वम् । तथा च श्रीहर्षः - यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् ।" इति । अथ स्नपयाम्बभूव इत्यस्य मङ्गलस्नानं कारयामासेत्यर्थः । निपातश्चाथशब्दः । मृदङ्गादिध्वानवत् मङ्गलम् । सुष्ठु स्वरभेदार्थः पुनः पाठः । स्म अतीते, पादपूरणे च ।
."
1
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
सिद्धान्तकौमुदी
[अव्यय
-
अहंयुः । बस्तिक्षीरा । । भा।इ। ई। उ । ऊ। ए। ऐ । ओ । औ। पशु । शुकम् । यथाकथाच । पाट् । प्याट् । । है । है । भोः । अये। या विषु । एकपदे। युत्। श्रातः। चादिरप्याकृतिगणः। इति चादयः। (४४)तद्धितश्चासर्वविभक्तिः। आदह उपक्रमहिसाकुत्सनेषु । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः विभक्त्यन्तप्रतिरूपकाः अच्प्रतिरूपकाश्च चादिगणे पाठया इत्यर्थः । तत्रोपसर्गप्रतिरूपकमुदाहरति-अवदत्तम् इति। अत्र अवेत्युपसर्गप्रतिरूपकं, न तूप. सर्गः । ततश्च 'अच उपसर्गात्तः' इति तो न भवति । तादेशे तु अवत्तमिति स्यात् । अहंयुरिति । अहमिति सुबन्तप्रतिरूपकम् , अहङ्कारे । 'अहंशुभमोर्युस्' इति मत्व. थीयो युम् । अत्र अहमिति न अस्मच्छब्दस्य प्रथमैकवचनम् । तथा सति 'प्रत्ययोत्त. रपदयोश्च' इति मपर्यन्तस्य मदादेशे मधुरित्यापत्तेः । अस्तिक्षीरेति । अस्ति क्षीरं यस्याः इति बहुव्रीहिः, अत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं, नतु तिङन्तम् । तथा सति बहुवीझनुपपत्तेः । 'अनेकमन्यपदाथें' इति बहुवीहिविधौ सुबित्यनुवृत्तः । एवं च बहुव्रीहिविधौ ‘अस्तिक्षीरेत्युपसंख्यानम्' इति वार्तिकं न कर्तव्यमिति 'अनेकम. न्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् । स्वरप्रतिरूपकानुदाहरति-अ इत्यादिना । अस. म्बोधने । आ वाक्यस्मरणयोः । इ सम्बोधनजुगुप्साविस्मयेषु । ई, उ, ऊ, ए, ऐ, ओ, औ, इति सप्तकं सम्बोधने । पशु सम्यगर्थे । शुकम् शैघ्रये । यथाकथाच । सङ्घातोऽयमनादरे । पाट , प्याट , अङ्ग, है, हे, भोः, अये एते सप्त सम्बोधने । य हिंसाप्रातिलोम्यपादपूरणेषु । विषु नानाथें । एकपदे अकस्मादित्यथें । युत् कुत्सायाम् । प्रात इतो. ऽर्थे । चादिरप्याकृतिगण इति । यत् तत् द्वयं हेतो आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे । सुकम् अतिशये । अनु वितकें । शम्वत् अन्तःकरणे, आभिमुख्ये च । व पादपूरणे इवाणे च । चटु चाटु द्वयं प्रियवाक्ये। हुम् भसने। इव सादृश्ये । अद्यत्वे इदानीमित्यर्थ इत्यादि । अत्र स्वरादिचाधोराकृतिगणत्वेऽपि येषां निपात. स्वरः इष्टः ते चादिषु, अन्ये तु स्वरादिषु । स्वरद्वयभाजस्तु उभयत्र बोध्याः ॥ इति चादयः॥
अथ स्वरादिचादिभिन्नान्यव्ययान्याह-तद्धितश्चासर्वविभक्तिः । असर्वविभक्तिरिति बहुव्रीहिः । तत्र सर्वाः विभक्तयः यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न सम्भवति, अव्ययेभ्यः सतानां विभक्तीनाम् उत्पत्त्यभ्युपगमात् । तथाहि तद्धितश्च' इति प्रकृतसूत्रे भाष्ये तावत् 'व्येकयोद्विवचनैकवचने' 'बहुषु बहुवचनम्। इति सूत्रविन्यासं भक्त्वा 'एकवचनम् , द्वयोद्विवचनम् , बहुषु बहुवचनम्' इति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबहोरर्थयोः तस्य द्विवचनबहुवचने बाधके इत्यादि भियतम् । ततश्च एकवचनमित्यनेन ड्याप्प्रातिपदिकात् एकवचनं भवतीति सामान्य.
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४ ]
बालमनोरमासहिता ।
१|१|३८|| यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् - तसिलादयः प्राक्पाशपः शस्त्रभृतयः प्राक् समासान्तेभ्यः, अम्, आम्, कृत्वोऽर्थाः, तसिवती, नानाञाविति । तेनेह न । पंचतिकल्पम् । पचतिरूपम् । (४४६) कृन्मेजन्तः १ १ ३६ ॥ कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै । ( ४५०) क्वातोसुन्कसुनः १|१|४०|| विधिना द्विवबहुत्वाभावे एकवचनमिति लभ्यते । एवं च द्विबहुत्वाभावे सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहुत्वयोः द्विवचनबहुवचनो क्स्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्' इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्य सम्पद्यते । तथा च अलिङ्गसंख्येभ्योऽव्ययेभ्यः एकवचनं प्रवर्तमानं विनिगमनाविरहात् सर्वविभक्त्येकवचनं भवति । अत एव 'अव्ययादाप्सुपः' इत्यत्र प्रत्या• हार ग्रहणमर्थवत् । तस्मात्सर्वा विभक्तयो,' यस्मादिति न विग्रहः । किन्तु सर्वशब्दोsa सर्वः पटो दग्ध इतिवत् अवयवकात्स्न्यें वर्तते । एवं च सर्वा वचनत्रयात्मिका विभक्तिः यस्मान्नोत्पद्यते किन्त्येकवचनान्येवोत्पद्यन्ते स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह- यस्मादिति । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति । किन्त्येकवचनान्येवोत्पद्यन्ते इति शेषः । स्यादेतत्- तिब्वचेत्यनुवृत्तौ 'प्रशं सायं रूपम्' इति रूपप्रत्यये 'ईषदसमासौ कल्पप्' इति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम् । प्रशस्तं पचति, ईषत् पचतीत्यर्थः । अत्राप्यव्ययत्वं स्यात्, असर्वविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्दे अतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह- परिगणनमिति । वार्तिकमेतत् । तसिलादय इति । 'पञ्चम्यास्तसिल' इत्यारभ्य 'द्वित्र्योश्च धमुन्' इत्यर्थः । शस्प्रभृतय इति । 'बह्वल्पार्थात्' इत्यारभ्य 'अव्यक्तानुकरणात्। इति डाजन्ता इत्यर्थः । श्रम् श्रमिति । 'अमुच च्छन्दसि' इत्यम्, 'किमेत्तिङव्यय' हत्याम् च गृह्यते । कृत्वोऽर्था इति । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् द्वित्रिचतुस्सुच्, विभाषा बहोर्धा' इति त्रय इत्यर्थः । तसित इति । 'तेनैकदिक् तसिश्च' इति तसिः 'तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्यते । 'प्रतियोगे पञ्चम्यास्तसिः' इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम् । एवं च स्वरादिषु वदित्यस्य प्रयोजनं चिन्त्यम् । नानाञाविति । 'विनञ्भ्याartist न सह' इति विहितौ नानाऔं । इति परिगणनं कर्तव्यमित्यन्वयः । गणे परिगणनेनैव सिद्धेः 'तद्धितश्च' इति सूत्रं न कर्तव्यमिति भावः ।
>
कृन्मेजन्तः । कृद्मेजन्त इति छेदः । म् च एष्व मेचौ तौ अन्ते यस्येति बहुव्रीहिः । तदाह - कृद्यो मान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगानर्हत्वात् संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति । 'आभीक्ष्ण्ये णमुल् च' इति स्मृधातोर्ण
"
For Private and Personal Use Only
३३५
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
सिद्धान्तकौमुदी
[अव्यय
एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः। (४५१)अव्ययीभावश्च ।
१४१॥ अधिहरि । (४५२) अव्ययादापसुपः २ २॥ अव्ययाद्विहितत्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्यु. च्चसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति, तथापि न गौणे । भावग्रहणं व्यर्थमलिङ्गत्वात्। वा ( वा १६३३)॥
मुल्, 'अचो णिति' इति वृद्धिः, रपरत्वम् , 'नित्यवीप्सयोः' इति द्वित्वं, मान्त. कृदन्तत्वादव्ययत्वम् । जीवसे इति । 'तुमथें सेसेनसे' इत्यादिना असेप्रत्ययः। पिबध्ये इति । 'तुमथें से' इत्यादिना शध्यैप्रत्ययः । शित्त्वात् सार्वधातुकत्वम् । 'पाघ्राध्मास्थाम्नादाण्श्यतिसतिशदसदाम्' इति पिबादेश इति भावः । शप तु न, कथे सार्वधातुके तद्विधेः 'अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः । क्त्वातोसुन्कसुनः। कृत्वेति । 'समानकर्तृकयोः' इति क्त्वा। उदेतोरिति । उत्पूर्वादिणः 'भावलक्षणे' इत्यादिना तोसुन् । विसृप इति। 'सृपितृदोः कसुन्' । अव्ययीभावश्च । अव्ययसञ्ज्ञः स्यादिति शेषः । अधिहरीति । विभक्त्यर्थेऽव्ययीभावः, हरावित्यर्थः। अव्ययादाप्सुपः। आप च सुप् च आप्सुप् तस्य आप्सुपः, समाहारद्वन्द्वात् षष्ठी। 'ण्यक्षत्रियाष इत्यतो लुगित्यनुवर्तते । तदाह-अन्ययादिहितस्येति। तत्र शालायामिति । तत्रेत्यल्याव्ययत्वात् आपो लुक् । स्त्रीत्वबोधनाय शालायामिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्वा अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चसाविति। उच्चरतिक्रान्त इति विग्रहे 'अत्यादयः क्रान्ताधर्थे द्वितीयया इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा दोषामन्यमहः, दिवाभूता रात्रिरिति । अतो द्वितीयासम्भवात् 'अत्यादयः' इति द्वितीयासमासस्याविरोधः। अत्र समासाद्विहितस्य सुपः अव्ययभूतादुच्चैशब्दात् परत्वेऽपि ततो विहितत्वाभावात् न लुक् । अत्युच्चैरिति समुदायस्य तु नाव्ययत्वम् , स्वरादिगणे उच्चैःशब्दस्य केवलस्य पाठादिति भावः। ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि 'स्वरादिनिपातमव्ययम्' इति अव्ययसञ्ज्ञा भवत्येव 'प्रयोजनं सर्वनामाव्ययसज्ञायाम्' इति वचनादित्याशङ्कते-अव्ययसम्ज्ञायां यद्यपि तदन्तविधिरस्तीति । परिहरति-तथापि न गौणे इति । सर्वनामसज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधः अव्ययसज्ञाविधावनुवर्तत इति 'तद्धितश्चासर्वविभक्तिः इति सूत्रे भाष्ये स्पष्टमिति भावः।
आग्रहणं व्यर्थमिति । 'अव्ययादाप्सुपः इति सूत्रे इति शेषः । अलिङ्गत्वादिति । . अव्ययानां लिङ्गाभावादित्यर्थः । तथाच वार्तिकम् , 'अव्ययादाग्लुग्वचनानर्थक्य
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४]
बालमनोरमासहिता।
'सदृशं त्रिषु लिषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन म्येति तदव्ययम् ॥' इति ( भाग्योक्का) श्रुतिर्लिगकारकसंख्याभावपरा ॥ 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आप चैव हलन्तानो यथा वाचा निशा दिशा ॥' वगाह:-अवगाहः । पिधानम्-अपिधानम् ॥
इस्यव्ययप्रकरणम् ॥
लिझामावात् इति । तथा तदितबासर्वविभक्तिः इति सूत्रे भाष्येऽप्युक्तम्-स्त्री. पुंनपुंसकत्वानि सत्वगुणाः, एकस्वाहित्यबहुत्वानि च । एतानान् ये न वियन्ति तदा ध्यपमिति । ननु अव्ययानां खिङ्गामा 'स त्रिषु लिषु इत्यायर्वणश्रुतिविरोध इत्याशय परिहरति-सदृशमिति । त्रिषु लिनेषु सर्वासु च विभकिषु सर्वेषु वचनेषु च यत्न व्येति-विकारं प्राप्नोति, किन्तु सहाम् एकप्रकारमेव भवति, तदव्ययमिति आथर्वणक्षुतियोजना। अत्र विभक्तिवचनशब्दा कारकसख्यापरौ, नतु प्रत्ययपरौ, अन्यतरग्रहणवैयात् । लिगकारकेति । लिङ्गकारकसंख्याभावः परः तात्पर्यविषयभूतो यस्या इति विग्रहः। लिङ्गाष्पित्यादिषु सलमी हि षष्ठी.चानादरे' इति विहिता। समाचालित्कारकसख्याः अनाहत्य यन्त्र व्येति विकारं न प्राप्नोति, किन्तु सदृशम् एकप्रकारमेव भवति, तदव्ययमित्युदाहतश्नुतेरथः । तद्धितश्चासर्वविभक्तिः इति सूत्र भाष्ये 'स्त्रीपुनपुंसकत्वानि सत्यगुणाः, एकत्वद्वित्वबहुत्वानि च । एतानर्थान् येन वियन्ति तदव्ययम्' इत्युपक्षिप्या तत्र प्रमाणतया अस्याः श्रुतेरुदाहृतत्वादिति भावः । अयं च लिङ्गकारकसंख्याभावनियमो निपातानामेव, स्वरादीनां तु कतिपपानां लिङ्गकारकसंख्यान्वयोऽस्त्येव 'स्वरादिनिपातमव्ययम्' इति सूत्रे भाष्ये 'चादीनामसत्त्ववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां च. इत्युक्तत्वात् , स्वस्ति वाचयति. स्वस्ति वाच्य इति, क्षीणे पुण्ये स्वः पतति, प्रातपंजते इत्यादौ कर्मकारकयोगदर्शनाच । अथ प्रसङ्गादाह-वष्टीति । अव अपि इत्युपसर्गयोः अकारस्यालोपं, हलन्तानाम् आपंच भागुरिनामक आचार्यो वष्टि, इच्छ• सीत्यर्थः । एवशब्दस्तु पादपूरणः । अवेत्युपसगं आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठ्यादि केचित्पठन्ति । तत्त्वबोधिन्या तु पवर्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति कवित। उदाहरणमात्रमित्यन्ये । यद्यपि यश कान्तौ इत्यस्य छन्दोमात्रविषयत्वं
२२बा०
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ीप्रत्यय
-
अथ स्त्रीप्रत्ययप्रकरणम् ।१५। (४५३)स्त्रियाम्॥१३॥ अधिकारोऽयम् । समर्थानामिति यावत् ।(५५४) वक्ष्यते । तथापि अस्मादेव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तु वष्टि भागुरिरिति श्लोको भाष्ये न दृश्यते । प्रत्युत 'ड्याप्रातिपदिकात्' इति सूत्रस्थभाष्यपर्यालोच. नया नास्तीत्येव युक्तम् । सत्र ह्येवमुक्तम्-आग्रहणं न कार्यम् खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुबा उष्णिहा देवविशेति हल. न्तात् टापः स्वाद्यर्थमाब्ग्रहणमस्त्विति माक्षिप्य 'क्रुश्चानालभेत् उष्णिहककुभौ देव. विशं च' इति अकारान्तादेव तत्रापि टावित्युक्त्वा 'डाबुभाभ्यामन्यतरस्याम्। इति बहुराजा, बहुराजे, बहुराजाः इत्यर्थम् आग्रहणमिति समाहितम् । तस्मात् 'आपं चैव हलन्तावाम्' इत्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निदिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशा इत्यादिरूपसम्भवेऽपि वाचाशब्दः असाधुरेवेति शब्देन्दुशेखरे स्थितम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
. बालमनोरमाख्यायाम् अव्ययनिरूपणं समाप्तम् ॥
. अथ स्त्रीप्रत्यया निरूप्यन्ते । तदेवम् 'छ्याप्प्रातिपदिकात्' इत्यधिकृत्य 'स्वौजसमौदः इति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरमनुकान्तान् स्वीप्रत्ययान्निरूपयितुमाहस्त्रियाम् । अधिकारोऽयमिति । 'अजायतष्टाप्' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, न तु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकार इत्यत आह-समर्थे ति । यावदित्य. वधौ । 'समर्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । 'स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तदभावे नपुंसकम्।। ... इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिक स्त्रीपुंसयोलिङ्गम् । तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तनपुंसकमित्यर्थः । तदिदं लौकिक लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्य अचेतने खट्वामालादौ बाधात् स्त्रीप्रत्ययानापतः । दारानित्यादौ 'तस्माच्छसो नः पुंसि' इति नत्वानापत्तेश्च । कितु सत्वर. जस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम् , अपचयः स्त्रीत्वम् , स्थितिमात्रं नपुंसक. त्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय सामान्ये नपुंसकम्' इति प्रवादः । उत्कर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसक भवतीति तदर्थः। ईदृशमवस्थात्रयं केवलान्वयि, अर्य पदार्थः, इयं व्यक्तिः, इर्द वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्येएका शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च' इति । एकस्मिन्नेवायें.
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३३६
अजाधतष्टाप ४॥४॥ अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये
-
पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात् , कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशायतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः। पुंलिङ्गः शब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारादोध्यः । न च उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम् , एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तं च भाको-कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहूर्तमपि नावतिष्ठते, यावदनेन वर्धितव्यमपम्वेन वा युज्यते इति ।
म सति युगपत् द्वित्रिलिङ्गस्वानापत्तिरिति वाच्यम् , नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका तथा सति भूतभविष्ययवहारोच्छेदापातात् । तत्र कबिदः एकलिनविधि एषा) प्रयोज्यः, कश्चितु हिलिङ्ग, कपिचत्तु त्रिलिङ्ग इत्येत लिङ्गानुशासमभावादवगन्तव्यम् । एषां चीनपुंसकाम्दानां वृद्धयादिशब्दबदस्मिन् शास्त्र संकेतश्च लिङ्गानुपासनत एव शेयः । उक्तं च भाष्ये 'अवश्य तावत् कश्चित् स्वकृतान्त आस्थेयः इति । वैयाकरणसिद्धान्त इत्यर्थः । 'कृतान्तो यमसिद्धान्तौ इत्यमरः । तत्र टिषुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसाम.
र्थ्यात् सति संभवे स्तबकेशवतीत्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथा 'पशुना बजेस' इत्यत्र ग्रीव्यकावपि सत्त्वापचयात्मकपुंस्त्वाचनपायात् 'आलो नास्त्रिया' इति नामावस्याविरोधात् स्त्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादे 'तथालिङ्गम्' इत्यधिकरणे अध्वरमीमांसाकुदहलवृत्ताववोचाम। त्रिविधमपि एत. लिलङ्ग जातिव्यक्तिवत् प्रातिपदिकार्थ एव । प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाजादिबोधोऽनुभवसिद्धो विरुध्येत । किंच मातृदुहितृस्वसगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् । 'रकारान्ता मातृदुहितस्वसूयातुननान्दरः, प्रावृड्विगुक्त्विषः' इत्यादिलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव हश्यन्ते । अत एव च 'कृदिकारादक्तिनः' इत्यत्र अक्तिन इत्येतदर्थवत् । अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वात् डीपोऽप्राप्तेः तद्वैयर्थ्य स्पष्टमेव । न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात् कथं टाबादय इति वाच्यम् , द्वावित्यादिवत् प्रकृत्युक्तस्याव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयर्थ्यात् । तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यम् । टाबादयस्तु तद्दयोतकाः। तथा च टाबादिषु सत्सु अवश्य स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति । । अजायतष्टाप् । अजः आदिर्येषां ते अजादयः । ते चअच्चेति समाहारद्वन्द्वात् षष्ठी।
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[लीप्रत्यय
टाप् स्यात् । भजायुक्तिीषो पश्च बाधनाय । बजा। अतः, खट्वा । अनादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजो। 'द्विगोः (सू ४७९) इति की। पत्र हि समा. 'च्या प्रातिपदिकात्' इत्यतः प्रातिपदिकादित्यनुवृसं षष्टया विपरिणतम् अजादिभिः अता च विशेष्यते । तदन्तविधिः । तत्राद्विषये 'समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः' इति निषेधो न, 'उगिद्वर्णग्रहणवर्जम्' इत्युक्तः । ड्याङग्रहणं तु नानुवतते 'जियाम्। इत्यधिकारे तयोविधेयत्वात् । नच अजादिभिः प्रातिपदिकस्य विशे. पणेऽपि तदन्तविधिर्नास्ति, 'समासप्रत्ययविधौ इति निषेधात् , 'ग्रहणवता प्रातिप. दिकेन तदन्तविधिर्नास्ति' इति च निषेधादिति वाच्यम् , 'शुद्रा चामहत्पूर्वा जाति: इत्यत्र अमहत्पूर्वेति वचनेनात्र तदन्तविधिज्ञापनात् । किञ्च खियां व्यक्तो गम्यमा. मायामिति नार्थः, तर्हि अजा खट्वेत्यादौ अजत्वाधाकारेण वस्तुत स्त्रीव्यक्तौ गम्य. मानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भान न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः स्त्रीत्वे इति यावत् । तदाहअजादीनामित्यादिना । अजायन्तानामित्यर्थः । थोत्ये इति । उक्तरीत्या स्त्रीत्वस्य प्रा. तिपदिकार्थत्वादिति भावः । उक्तं च भाष्ये-'सियां यत् प्रातिपदिकं वर्तते तस्माताबादयो भवन्ति स्वार्थ इति । टाप् स्यादिति । प्रत्ययः, परश्न इत्यधिकृतम् । कस्मात् परो भवतीत्याकालायां सन्निधानात् अजादिभ्यः अदन्ताच्चेति बोध्यम् ।
ननु अजादिगणे अज, अञ्च इत्याचदन्तपाठो व्यर्थः, भदन्तत्वादेव सिद्धरित्यत आह-अजाधुक्तिरिति । 'वयसि प्रथमे 'जातेरस्त्रीविषयात्' इत्यादिवक्ष्यमाणस्य लोपो कोषश्च अदन्तटावपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवं च अदन्तटाबपवादौ छीप्डीषौ, तयोरप्यजादिटाबपवाद इति फलति । मजशब्दः छागजातो वर्तते । 'अजा छागी तुमच्छागवस्तच्छगलका अजे' इत्यमरः । अजशब्दात् टाप् पावितो, सवर्णदीर्घः । व्यपदेशिवत्त्वात् अजान्तत्वम् । अत इति । उदाहरणं वक्ष्यत इति शेषः । खटवेति । खट काडायाम्। 'अराप्रषिलटिकणिखटिविशिभ्यः कन्' खट्वशब्द: अदन्तः तस्मात् टापि सवर्णदीः। शयनं मञ्चपर्यपल्यकाः खट्वया समा इस्यमः। ननु 'प्रत्ययः, परश्च' इत्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वात् अजादिभ्यः अतत्र टापू स्यात् स्त्रीत्वे धोत्ये इत्यर्थ एव युक्तः। तथाच 'अजायतः, इति षष्ट्याश्रयणमयुक्तमित्यत आह-अजादिभिरिति । अजायत इति षष्ठीमाश्रित्य अजादीनाम् अदन्तस्य च वाच्ये स्त्रीत्वे टावित्येवम् अजादिभिः सीत्वस्य विशेषणादित्यर्थः । पम्चाजीति। पानामजानां समाहारः इति विग्रहे 'तद्धितार्थ इत्यादिना द्विगुः । 'अकारान्तो. सरपदो द्विगुः स्त्रियामिष्ट' इति स्त्रीत्वम् । 'द्विगोः इति की। 'यस्येति च' इत्य. कालोपः। नन्वन समासे अजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत माह-प्रति।
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३४१
सार्थ समाहारनिष्टं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु बातिलक्षणो की प्राप्तः । बाला । वत्सा । होढा । मन्दा । विलाता। एषु 'वयसि प्रथमे' ( सू ४७८ ) इति की प्राप्तः। 'सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वा २४९९) । सम्फला । भस्त्रफला 'पापो:--' (सू १००१) इति ह्रस्वः। 'सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्' (वा १४९६)। सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पु.
हि यतः अन्न पञ्चाजशब्दे समासार्थभूतो यः समाहार: तनिष्ट स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टावित्यर्थः । न चोक्तरीत्या तदन्तः विधिसत्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात् तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यम् , सत्यपि तदन्तविधौ अजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एवं न्याय्यत्वात्। अजादिभ्यष्टाए स्त्रीत्वे घोस्ये इति व्याख्याने तु स्त्रीत्वस्य अजादि. शब्दवाच्यत्वालामात् समाहारनिष्ठमपि त्रीत्वमादाय टाए स्यादिति भावः। __ अथाजादीनुदाहरति-अजेत्यादिना । एडकेति । मेट्रोधोरणोर्णायुमेंषवृष्णय एडके' इत्यमरः । अस्य स्त्रीत्वे कोशान्तरं मृग्यम् । अश्वेति। 'वाम्यश्वावडवा' इत्यमरः । चटकेति । चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरस्तु 'घटकः कलविङ्कः स्यात्तस्य स्त्री चटका' इत्याह । मूषिकेति। 'धुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका'. इत्यमरः । एषु जातीति । अजादिपञ्चसु 'जातेरस्त्री' इति डीए प्रासः । स अजादिटापा बाध्यत इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादि. त्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति । बालादिपञ्चसु 'वयसि प्रथमे' इति डीप् प्रातः । सः अजादिटापा बाध्यत इत्यर्थः । सम्भस्त्रेति । 'पाककर्णः इति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः सङ्गृहीतम् । सम् , भस्त्र, अजिन, शण, पिण्ड, एतेभ्यः परो यः फलशब्दः तस्मादपि 'पाककर्ण' इति ङीष् न भवति, किन्तु टाबेवे. त्यर्थः । सम्फलेति । समृद्धानि फलानि यस्या इति विग्रहः । भत्रफलेति । भस्त्रेक फलानि यस्या इति विग्रहः । 'भस्त्रा चर्मप्रसेविका' इत्यमरः। ननु भस्त्राशब्दस्य नित्यस्त्रीत्वात् भाषितपुंस्कत्वाभावात् 'स्त्रियाः पुंवत्' इति ध्रुवत्त्वस्याप्रसक्तो कथं हस्व इत्यत आह-यापोरिति । 'ड्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति द्वस्व इत्यर्थः । अजिनफला, शणफला, पिण्डफला, ओषधिविशेषसंज्ञाः । सदच्काण्ड। अयमपि 'पाककर्णः इति सूत्रपठितवातिकाथसङ्ग्रहः । सत् , अच् , काण्ड, प्रान्त, शत, एक, एतेभ्यः परो यः पुष्पशब्दः तस्मादपि 'पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच' इति कोष न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति । सन्ति पुष्पाणि यल्या इति विग्रहः । अच् इति लुप्तनकारः, अम्बुधातुः गृह्यत इत्यभिप्रेत्य उदाहरति-प्राक्पुष्पेति।
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
पा । 'शूदा चामहत्पूर्वा जातिः' (वा २४००-२४०१) पुंयोगे तु शूद्री । 'अम. हत्पूर्वाः किम् महाशूदी । क्रुष्चा । उष्णिहा । देवविशा । ज्येष्ठा, कनिष्ठा, मध्यमेति पुंयोगेऽपि । कोकिला बातावपि । 'मूलानमः' (वा २५००)। अमूला । 'ऋ. प्राचि पुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पेति। प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । ___ शद्रा चामहत्पूर्वा जातिः। 'अजाद्यतः' इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शुद्धजाति वाच्या चेत् अमहत्पूर्वः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणीयो. ऽपवादः । शूद्रात् स्वभार्यायां विधिना ऊढायामुत्पना स्त्री शूदा। जातिरित्यल्य प्रयोजनमाह-योगे स्विति । शूद्रस्य स्त्री इत्येवं पुंयोगात् स्त्रियां वृत्तौ जातिवाचि. स्वामावान टाप् । किन्तु 'पुंयोगादाख्यायाम्' इति ङीषेवेत्यर्थः। महाशद्रीति । महती च सा शूद्रा चेति विग्रहः । कर्मधारयः । 'पुंवत् कर्मधारयः इति पुंवत्त्वम् । अत्र मह. त्पूर्वस्वान टाप् । किन्तु जातिलक्षणीषेव । 'आभीरी तु महाशूद्री जातिपुंयोगयोः समा' इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्यां ब्राह्मणादुत्पन्नः आभीरः, स्त्री चेदामीरी। अत्र जातिग्रहणस्य अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोहयोते व स्फुटः । क्रुन्चेति । क्रुञ्चशब्दः चकारान्तः 'ऋत्विक्' इत्यादिना किन्नन्तः पक्षिजातिविशेषे वर्तते । 'यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्' इति रामायणे। उष्णिशब्द: हकारान्तः, छन्दोविशेषे 'ऋत्विक इत्यादिना किन्नन्त एव । देवविश्शब्दः शकारान्तः, गणविशेषात्मकमरुत्सु वर्तते 'मरुतो वै देवानां विशः इति श्रुतेः । एतेषामदन्तत्वाभावादप्रा टापि तद्विधानार्थमजादिषु पाठः । 'ख्याप्रातिपदिकात्' इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तस्वम् आस्थितमिति 'वष्टि भागु. रिल्लोपम्। इति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव । ज्येष्ठेति । यदा ज्येष्ठादि. शब्दाः प्रथमोत्पन्नादौ वर्तन्ते, तदा अदम्तत्वादेव टाप सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा, तदापि पुंयोगलक्षणं डीषं बाधित्वा टाबर्थ मिह पाठ इत्यर्थः । कोकिलेति। कोकिलशब्दस्य जातावपि जातिलक्षणकीर्ष बाधित्वा टाबर्थमिह पाठ इत्यर्थः । मूलान्नज इति । 'पाककर्ण' इति सूत्रे पठितं वार्तिकमेतत् । नत्रः परो यः मूलशब्दः तस्मात् 'पाककर्ण' इति कोष न भवति, किन्तु टावेत्यर्थः। अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहे 'नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः । ___ अत्र 'सम्भस्त्रेति, सदच्काण्डेति, मूलानमः' इति च वार्तिकत्रयं 'पाककर्णः इति सूत्रभाष्यपठितमपि फले विशेषाभावादजादिगणे मुले अपश्चितम् । न चैतान्यजाय. तर्गणसूत्राणीति भ्रमितव्यम् । अजादिराकृतिगणः । तेन 'नमुने' इति सूत्रमाष्ये
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३४३
मेभ्यो लोपः (सू ३०६) की । दण्डिनी। (४५५) उगितश्च ४१६॥ उगिदन्तात्प्रातिपदिकास्त्रियां छीप्स्यात् । भवती । पचन्ती । 'शश्यनोः-- (सू४४६) इति नुम् । 'उगिदचाम्-' (सू ३६१) इति सूत्रेऽज्ग्रहणेन 'पातोश्वेदुगिरकार्य ताचतेरेव' इति नियम्यते । तेनेह न । उखानत् । क्विप् । भनिदिताम्-(सू
टायामादेश इति भाष्यप्रयोगः सिद्धः । अतएव च पूर्वमीमांसायां द्वितीयस्य प्रथमपारे 'स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात्' इति स्तुतशखाधिकरणे 'बावडा गुणार्थ स्यात्' इति गुपसूत्रव्याख्यावसरे शावरभाष्यभट्टवार्तिकयोः 'छागस्य साया मेदसः' इति प्राकृतमन्त्रस्य 'वायव्यामजां वशामालभेत' इत्यत्र छागाया वपाया इत्यूहानुक्रमणं सङ्गच्छते । अत एव च ब्रामीमांसावां प्रथमस्य चतुर्यपादे 'चमसवदविशेषात्' इत्यधिकरणे शाकरभाष्यवाचस्पत्ययोः मजायां छागेति टाबन्तः प्रयोग उपपत्रः । अन्यथा जातिलक्षणोष्प्रसङ्गादित्यास्तां तावत् । 'ऋन्नेभ्याः इति सूत्रमजन्सस्त्रीलिङ्गाधिकारे प्रसङ्गात् व्याख्यातम् । इह तु सूत्रक्रमात् पुनस्तदुपन्यासः।
उगितश्च । उक् प्रत्याहारः, उक् इत् यस्य सः उगित्, उगित इति पञ्चम्यन्तम् । तेन प्रातिपदिकादित्येतत् विशेष्यते, तदन्तविधिः। 'उगिद्वर्णग्रहणधर्जम्। इत्युक्तेः 'समासप्रत्ययविधौ इति प्रतिषेधो न । पूर्वसूत्रात् डीबित्यनुवर्तते । तदाह-उगिद. न्तादिति । उगित् द्विविधं प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति-भवतीति । सर्वादिगणे भवतु इति अव्युत्पन्न प्रातिपदिकं पठितम, तस्य व्यपदेशिवस्वेन उगिदन्तत्वाद् डीप , पावितो, 'आच्छीनचोर्नुम्। 'शपश्यनोनित्यम्' इति नुम् न, शत्रन्तत्वा. भावात् । 'उगिदचाम्' इत्यपि न, सर्वनामस्थानत्वाभावात्। मथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेलटा शतरि शपि पररूपे पचच्छब्दः । तत्र शतृप्रत्ययः उगित् ; तदन्तं पचत् इति प्रातिपदिकमिति तस्मात् डीपि 'शपश्यनोनित्यम्' इति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत् 'भातेर्डवतुः इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि उकारस्य गुणे अवा. देशे भवच्छब्दात् छीपि तु, 'शपश्यनोनित्यम्' इति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्य अव्युत्पनत्वे तस्य कथं व्यपदेशिवत्त्वेन उगिदन्तत्वम् , 'व्यपदेशिवदा. वोऽप्रातिपदिकेन' इति वचनादिति वाच्यम्, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तः । 'उगिचाम् इति सू' इत्यादिग्रन्थः हलन्ताधिकारे गोमच्छब्दनि. रूपणे व्याख्यातः । तेनेति । अचुव्यतिरिक्तधातोरुगित्कार्याभावलाभेनेत्यर्थः । उखेति । उखा कुण्डी, उखायाः वंसते, पर्णात् ध्वंसते इति विग्रहः । 'पिठरं स्थाल्युखा
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
४१५) इति नलोपः । पर्णवत् । अष्चतेस्तु स्यादेव । प्राची, प्रतीची । (४५६) घनो र च ४१७॥ वमन्तात्तदन्ताच्च प्रातिपदिकारिस्त्रयो डीप्स्यात् , रश्चान्ता. देशः । वनिति वनिप्क्वनिन्वनिपा सामान्यग्रहणम् । 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' ( प २४ )। तेन प्रातिपदिकविशेषणातदन्तान्तम पिलभ्यते । सुत्वानमतिक्रान्ता, अतिसुत्वरी। अतिधीवरी। शर्वरी । 'वनो न
कुण्डम्' इत्यमरः । 'वंसु ध्वंसु अवलंसने'। सुपीत्यनुवृत्तौ 'किप च' इति लिए, उपपदसमासः सुब्लुक्, 'अनिदिताम्' इति नलोपः, हल्ल्यादिना सोर्लोपः, 'वसु. खंसु' इति दत्वमिति भावः । स्यादेवेति । कीषिति शेषः । प्राचीति । प्रपूर्वात् मन्चतेः 'ऋत्विक इत्यादिना किन् , 'अनिदिताम्। इति नलोपः, उगित्त्वात् डीप, 'अच: इत्यकारलोपः, 'चौ' इति दीर्घः । एवं प्रतीची। - वनो र च । वनः २ च इति छेदः । र इति लुप्तप्रथमाकम् , अकार उच्चारणार्थः, चकारात् डीप समुच्चीयते । वन इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् । प्रातिपदिकादित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । आन्तादेश इति । प्रकृतेरिति शेषः । नान्तत्वादेव कीए प्राप्तः, तत्सन्नियोगेन रेफमात्रमिह विधेयम् । सामान्वेति । अनुबन्धविनिर्मुक्तवन्ग्रहणस्य त्रिज्वपि साधारणत्वादिति भावः। ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात् प्रकृतिभूतात् शब्दात् यः प्रत्ययो विहितः तदादेः सः प्रकृतिभूतः शब्दः आदिर्यस्य तस्य, तदन्तस्य स प्रत्यय अन्तो यस्य समुदायल्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः । 'तिड्ङतिङ, इत्यत्र तिः ग्रहणेन शवादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् । 'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वनन्तेन प्रातिपदिका. दित्यधिकृतस्य विशेषणात् पुनस्तदन्तविधिलाभादिति भावः । नचैवं सति बन्नन्तस्य कथं लाभ इति वाच्यम् , येन विधिस्तदन्तस्या इत्यत्र 'स्वं रूपं शब्दस्याशब्द. संज्ञा' इत्यतः स्वमित्यनुवर्त्य विभक्तिपरिणामेन स्वस्य चेति व्याख्यानादिति भावः। तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्वेन वनन्तान्तमिति केचित् । 'ग्रह. गवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तु 'स्त्रियाम्' इत्यस्मिन् अधिकारे न प्रवर्तते, 'शूद्वा चामहत्पूर्वा जातिः' इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नन्तान्त. मुदाहरति-सुत्वानमिति । 'षु अभिषवे' सुयजोर्ड वनिप् इस्वस्य पिति कृति' इति तुक । सुत्वन् शब्दः। सुत्वानमतिक्रान्ता इति विग्रहे 'अत्यादयः' इति समासः। सुब्लकि, कीप, नकारस्य रत्वम्, अतिसुत्वरीति रूपम् । अविधीवरीति । 'दुधाम
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
इश इति वक्तव्यम्' ( वा २४०५ ) । हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकान्छीप् रश्च नेत्यर्थः 'ओण अपनयने' वनिप्, 'विड्वनोः—' ( सू २९८२ ) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । 'बहुव्रीहौ वा' ( वा २४०७ ) | बहुधीवरी । बहुधीवा । पक्षे डाब्वक्ष्यते । ( ४५७) पादोऽन्यतरस्या
धारणपोषणयोः' 'आतो मनिन्कनिब्वनिपश्च', 'अन्येभ्योऽपि दृश्यते' इति भाषायामपि कनिप 'घुमास्था' इति ईस्त्वम् । 'धीवानमतिक्रान्ता इति विग्रहे 'अत्यादयः" इति समासः । ङीप् रश्च, अतिधीवरीति रूपम् । भाष्ये तु ध्यायतेः क्वनिपि सम्प्रसारणे 'हल:' इति दीर्घ इति स्थितम् । शर्वरीति । 'शू हिंसायाम्', 'आतो मनिनक. निव्वनिपve', 'अन्येभ्योऽपि । त्रयते । इति भाषायामपि बनिए, 'सार्वधातुकार्धधातुकयोः' इति गुणः, 'वनो र च' इति ङीप् रश्च । वन्नन्तस्योदाहरणमेतत् । अतिशर्वरीति पाठे तु इदमपि वन्नन्तान्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरी इति वन्नन्तस्योदाहरणानि ।
नैति । पूर्ववत्वन्नन्तं वन्नन्तान्तं च गृह्यते । हश इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेन वना आक्षिप्तं धातोरित्येतत् विशेष्यते, तदन्तविधिः । डीबिति रुचेति चानुवर्तते । तदाह - हशन्तादित्यादिना । विहिर्ताविशेषणस्य प्रयोजनं दर्शयन् वन्नन्तोदाहरणं दर्शयितुमाह-श्रण इत्यादिना । वनिबिति । 'अन्येभ्योऽपि esed' इत्यनेनेति शेषः । श्रवावेति । ओणू - इत्यस्मात् वनिपि 'विड्वनोरनुनासिक-स्यात्' इति णकारस्य आवे ओकारस्यावादेशे अवावनुशब्दः । स्त्रीत्वस्फोरणा ब्राह्मणीति विशेष्यम् । अत्र ओण् इति धातोः हशन्तात् वन् विहितः, तदन्तत्वात् न डीत्वे, किन्तु राजवद्रूपम् । हशन्तात् धातोः परो यो वन् इति व्याख्याने तु आवे सति वनो हशः परत्वाभावात् निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरतिराजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्त्तमाने 'राजनि युधिकृञः' इति क्वनिप कर्मीभूते राजनि उपपदे युधेः कृञश्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुक्, राजयुध्वन् शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदतो राजयुध्वन् शब्दः, अतो न ङीब्रादेशावित्यर्थः । बहुव्रीहौ । इदं वार्तिकम् | 'वनो र च' इति विधिः बहुवीहौ वा स्यादित्यर्थः । 'अनो बहुव्रीहेः' इति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति । विग्रहः । बहुधीवेति । डीब्रत्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि कविकल्पः वाच्यम्, 'अल्लोपोsनः' इति उपधालोपयोग्यस्थल एव एतद्वार्तिकस्य प्रवृत्तेः भा. ये उक्तत्वात् बहुपर्वनुशब्दे च 'न संयोगाद्वमन्तात्' इत्यल्लोपनिषेधात् । पक्षे इति ।
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
Romaaaaaaaaaaaaaaaaaaaamwamma
म्शा पाच्छन्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकात् कीब्वा स्यात् । द्विप. दी-द्विपाद् । (४५) टाचि ४१॥ ऋचि वाच्यायो पादन्ताधाप् स्यात् । द्विपदा ऋक् । एकपदा । 'न षट्स्वस्रादिभ्यः' (सू ३०८) पञ्च । चतस्रः । पञ्च'
कीनत्वाभावपक्षे 'डाबुभाभ्यम्' इति डाए वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन् आ इति स्थिते टेः' इति टिलोपे बहुधीवाशब्दात् सोहल्ख्यादिलोपे बहुधीवा इति रमावद्रूपम् । जीवत्वयोः डापश्चाभावे सौ बहुधीवेत्येव रूपम् । बीमत्वयोः बहुधीवरोति । औजसादिषु तु बहुधीवयों-बहुधीवे-बहुधीवानौ इत्यादि पत्रयमिति भावः। - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पादशब्दः इति गृह्यत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । पाद इति पञ्चम्यन्तेन 'प्रातिपदिकात्' इत्यधिकृतस्य विशेषणादिति भावः। डीब्वा स्यादिति । 'ऋन्नेभ्यः' इत्यतः सदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यल्या इति बहुव्रीहिः । सख्यासुपूर्वस्य इति पादशब्दान्तस्याकारस्य लोपः। डीपि भत्वात् पादः पत्' द्विपदीति रूपम् । डीवभावे तु-द्विपादिति । टावृचि। पादन्तादिति । प्रातिपदिकादिति शेषः । 'पादोऽन्यतरस्याम्' इत्यतः अनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः । 'पादोऽन्यतरस्याम्' इति कीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पादो यस्या इति विग्रहः । उभयत्रापि टापि, 'पादः पत्' । 'ख्याष्प्रातिपदिकात्' इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दम. वष्टभ्य प्रत्याख्यातमेतत् । न च ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तत्ये एतत्सूत्रमिति वाच्यम् । एतन्नाष्यप्रामाण्येन तथाविधप्रयोगल्यापीष्टत्वादित्यलम् ।
न षट्स्वस्रादिभ्य इति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पचेति । इहान्तरङ्गत्वात् नान्तलक्षणडीपि प्राप्से षट्त्वान्निषिद्धे 'षड्भ्यो लुक' इति जाशसोलुंकि नलोप इति भावः। चतस्र इति । चतसभावे सति ऋदन्तलक्षणहीब् न, स्वनादित्वात् । ननु 'न षट्स्वस्त्रादिभ्यः' इति डोवेव प्रतिषिध्यताम् , कि टावनु. वृत्त्या । नान्तत्वात् टापः प्रसक्तेरभावेन तन्निषेधवेयर्थ्यादित्यत आह-पञ्चेत्यत्रेति । पन्चेत्यत्र न षट्स्वस्त्रादिभ्यः' इति न टाबित्यन्वयः। अदन्तलक्षणष्टाबिति शेषः । नान्तलक्षणडीपि प्रतिषिद्धे सति जाशसोलुंकि नलोपे कृते अदन्तत्वात् प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकोति यावत् । नच नलोपस्यासिद्धत्वात् टापः प्रसकिरेव नेति वाच्यम् , सुप्स्वरसंज्ञातुग्विधिषु टाविधेरनन्तर्भावेन तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वाभावात् । ननु 'न षट्स्वनादिभ्यः' इत्यत्र सत्यामपि टाउनुवृत्ती कमिह पदसंज्ञानिवन्धनस्तन्निषेधः, नलोपे कृते षट्सज्ञाविरहात् । नव साम्गिधे
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
-
इत्यत्र नलोपे कृतेऽपि 'ठणान्ता षट्' (स ३६९) इति षट्संज्ञा प्रति 'नलोपः सु. स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वात् 'न षट्स्वनादिभ्यः' ( सू ३०८) इति न टाप् । (४५8) मनः ४।१११॥ मन्नन्तान छोए। सीमा-सीमानौ । (४६०) अनो बहुव्रीहः ४।१।१२॥ अन्नन्ताद्वहुंबीहेने गेप । बहुयज्वा । बहुयज्वानो । (४६२) डाबुभाभ्यामन्यतरस्याम् ४।१।१३॥ सूत्रद्वयोपात्ताभ्या डाब्वा स्यात् । सीमा, सीमे-सीमानौ । दामा, दामे-दामानौ । 'न पुंसि दाम' कर्तव्ये नलोपल्यासिद्धत्वं शक्यम् , टानिषेधस्य सुप्स्वरसंशातुग्विधिषु अनन्तावादिस्पत माह-नलोपे कृतेऽपीत्यादि प्रसिद्धत्वादित्यन्तम् । टानिषेधविधिरयं षट्सज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नलोपस्यासित्वेन षट्संज्ञाया निर्वाधतया पट्सशानिबन्धनष्टाप्रतिषेधोऽत्र निर्वाध इति भावः। वस्तुतस्तु मलोपस्यासिखत्वेऽपि भूतपूर्वपदसंज्ञामाश्रित्य याग्निवेध उपपद्यते । अत एवं 'पदसंज्ञायां नलोपासिदत्वस्य न फलम्। इति नलोपः सुप्स्वर इति सूत्रभाष्ये उक्तमित्याहुः। ___ मनः । 'न षट्स्वनादिभ्यः' इत्यतः नेति 'अन्नेभ्यः' इत्यतो जीविति चानुवर्तते । मन इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तदाह-मन्नन्तान्न डीबिति । सीमेति । 'पिम् बन्धने' औणादिको मनिन् प्रकृतेदीर्घश्च । सीमनशब्दात् बीपि निषिद्ध राजव. दूपम् । अपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि मी. मेति सौ रूपसिद्धेः किं कग्निवेधेनेत्यत आह-सीमानाविति । डापि तु सति सीमे इत्येव स्यादिति भावः । अनो बहुव्रीहः। अन इति बहुवीहेरित्यस्य विशेषणम् , तदन्तविधिः । नेति डीविति च पूर्ववदनुवर्तते । तदाह-अन्नन्तादिति ॥ बहुयज्वा, बहुयज्वानाविति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षडीपः प्रतिषेधे राजवद्. पाणि । 'न संयोगात्' इति निषेधान्नायमुपधालोपी। अतोऽत्र 'अन उपधालोपिनः इति विकल्पो न प्रवर्तितुमर्हति । डाबुभाभ्याम् । उभाभ्यामित्येतद्वयाचष्टे-सूत्रद्वयोपा. त्ताभ्यामिति । 'मन' इति 'अनो बहुवीहे.' इति च सूत्रद्वयोपात्तात् मन्नन्तादन्नन्तबहुव्रीहेश्च इत्यर्थः । नन्विहान्यतरस्यां ग्रहणं व्यर्थम् । नच तदभावे डान्नित्यः स्या. दिति वाच्यम् , डापो नित्यत्वे तेनैव कोपो निवृत्तिसम्भवेन डीग्निषेधवैयर्थ्यात् एवं च डीनिषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धः अन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत् , स्पष्टार्थमिति केचित् । भाष्ये तु 'अन्यतरस्याम्' इति योगविभागमाश्रित्य बहुब्रीही वा' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दात् छापि, टिलोपे सीमाशब्दात् सोल्ड्यिादिलोपः । डाबभावपशेऽपि 'मनः" इति डोम्निषेधे सौ सीमे
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
इत्यमरः । बहुयज्वा - बहुयज्वे - बहुयज्वानो । (४६२) अन उपधालोपिनोऽन्यतरस्याम् ४|१|२८|| अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा डीप्स्यात् । पक्षे निषेधो । बहुराज्ञी - बहुराजा। बहुराश्यो बहुर राजे - बहु राजानो । (५६३) प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ७ | ३ | ४४ ॥ प्रत्ययस्थास्क कारात्पूर्वस्याकास्रयैकारः स्यादापि परे, स आप सुपः परो न चेत् । सर्विका । कारिका । अतः |
स्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह- सो मे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-- दशमेति । दाधातोरौणादिको मनिन् । 'हिरण्यमयं दाम 'दक्षिणा' इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह- -न पुंसीति । दामन्शब्दः पुंसि न, किन्तु स्त्रीनपुंसकयोरित्यर्थः, 'निषिद्धलिङ्ग' शेषार्थम्' इति परिभाषितत्वात् । अन्नन्तबहुवीहरु शहर ति- बहुयज्येति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात् सोर्हल्यादिलोपः । डीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह बहुयज्वे, बहुयज्वानाविति । शसि बहुयज्वनः । अत्र अल्लोपस्तु न भवति, 'न संयोगाद्वमन्तात्' इति निषेधात् । अत एव 'अन उपधालोपिनः' इत्यस्य नायं विषयः ।
अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन् शब्दात् 'अनो बहुव्रीहेः' इति Gooषेधे 'डाबुभाभ्याम्' इति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते- - अन उपधा । इदं सूत्रं नात्र प्रकरणे पठितम् । किन्तु 'दामहायनान्ताच्च' इत्युत्तरं पठितं प्रसङ्गादस्रोपन्यस्तम् | 'बहुव्रीहेरूधसो डीच् इत्यतो बहुव्रीहेरित्यनुवर्तते, 'संख्यान्ययादेर्डीप्' इत्यतो ङीबिति च । प्रा तिपदिकादित्यधिकृतम् अन इत्यनेन विशेष्यते, तदन्तविधिः । तदाह-श्र न्नन्तादित्यादिना । पक्षे डाब्ङीनिषेधाविति । कदाचित् ङीब्निषेधः कदाचित् ढाप् चेत्यर्थः । अन्यतरस्याग्रहणस्य प्रयोजनमिदम् । अकृते त्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्य 'अनो बहुवीहे' इति की प्रतिषेधस्य 'डाबुभाभ्याम्' इति डापश्च बहुराजन्शब्दादावुपधालोपिनि अनवकाशेन ङीपा बाधः स्यात् । बहुराशीति । डीपि अल्लोपे सोईल्ड्यादिलोप इति भावः । बहुराजेति । ढापि ङीनिषेधे च सौ रूपम् । बहुराइयाविति । ङीप्पक्षे औडि यण् । बहुराजे इति । डापक्षे औङि रूपम् । बहुराजानाविति । डीब्निषेधे औङि रूपम् ।
•
प्रत्ययस्थात् । ककारादिति । क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । 'वर्णात्कारः" इत्युक्तेः । एवञ्च सूत्रे कादित्यन्न अकार उच्चारणार्थ इति सूचितम् । स श्र विति । इत्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति । सूत्रे
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३४४
-
किम् । नौका । प्रत्ययस्थात् किम् । शक्नोतीति शका । असुपः किम् । बहुपरित्राजका नगरी । कात् किम् । नन्दना । पूर्वस्य किम् । परस्य मा भूत् । कटुका । भत इति तपरः किम् । राका । आपि किम् । कारकः । 'मामकनरकयोरुपसंख्याअसुपः इति पञ्चम्यन्तम् , असमर्थसमासः। आपि सुपः परस्मिन् सति इत्वं न भव. तीत्यर्थो विवक्षित इति भावः। सर्विकेति । सर्वशब्दादापि सवर्णदीघे सर्वाशब्दः, एकादेशस्य पूर्वान्तत्वेन ग्रहणात् सर्वनामकार्यम् । ततश्च 'अव्ययसर्वनाम्नाम्। इति टे: प्रागकच। तत्र ककारादकार उच्चारणार्थः । चकार इत् । अक इति ककारान्तः प्रत्यया टेः प्राग्भवति । सर्वकाशब्देऽस्मिन् ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य भकारस्य कथमित्वम् । ककारेण व्यवहिततया आप्परकत्वा. भावादिति चेत् , न-'येन नाम्यवधानम्' इति न्यायेन तद्वयवधानस्य अबाधकत्वात्। कारिकेति । फूलो ण्वुल् , अकादेशः, 'अचो भूणिति इति कारस्य वृद्धिः, रपरत्वं, कारकशब्दात् टाप, सवर्णदीर्घः, कारपूर्वस्य रेफादकारस्य इत्वम् । कादिति संघात. ग्रहणे तु एतिका इति न सिध्यति । एतच्छब्दे टेः प्रागकचि एतकशब्दात् जसि, त्यदायत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे, एतिका इति रूपम् । अत्राक. चि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाभावात् इत्त्वं न स्यात् , ककारादु. सरावर्णस्याकजनवयवत्वात् । न चाकचि अकारस्य नोच्चारणार्थत्वमिति शवयम्, एवं सति निरिस्यव्यये अकचि नकिर् इति न स्यात् । अतः कादित्यनेन ककारादित्येव विवक्षितम् । यका सकेत्यत्र 'न यासयोः इति इच्चनिषेधाल्लिाच्च । अन्यथा तत्र प्रत्ययस्थककाराभावेन हत्त्वस्याप्राप्तेः किं तनिषेधेनेत्यलम् ।
नौकेति । नौशब्दात् स्वार्थिकः कः, टाप् । अत्र ककारात् पूर्वस्य औकारस्य इत्त्व. निवृत्त्यर्थमत इति वचनम् । शकेति । 'शक्ल शक्तौ पचायच् , टाप् । अत्र ककारस्य धात्ववयवस्य प्रत्ययस्थत्वाभावान ततः पूर्वस्य इत्वम् । बहु रिवाजकेति । परिपूर्वा. मजेः ण्वुल् । बहवः परिवाजकाः यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दात् टाप । अत्राकारस्य कारपूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुक्षया पर. त्वात् । 'न लुमता' इति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एवं प्रवृत्तः । इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तनिषेधः । यदि तु असुपः' इति पर्यास भाश्रीयेत, तर्हि बहुपरिवाजक इति समुदायस्य सुभिन्नत्वादापः ततः परत्वादित्व दुर स्यादिति भावः । पूर्वस्य किमिति । एकादेशे कृते परस्य हस्वस्याभावात् पूर्वस्ये. स्यर्थसिद्धमिति प्रश्नः । कटुकेति । कटुशब्दात स्वयं कः, टाप, सवर्णदीर्घः । पूर्वस्ये. स्यनुको अत्र सवर्णदीर्घात् पूर्व वार्णादाङ्गस्य बलोयस्त्वादपवादत्वाच्या द्वितीयकका. राहत्तरस्य अकारस्य आपि परे इत्वं स्यादिति भावः। भत इति तपरः किम्-राका
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
नम्' इति (वा ४५२४) । मामिका । नरान्कायतीति नरिका । 'त्यक्त्यपोश्च' (वा ४५२५) । दाक्षिणात्यिका । इहत्यिका। (७६४) न यासयोः ७।३।४५॥ यत्त. दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् । 'त्यकनश्च निषेधः (वा
-
इति । 'कृदाधारार्चिकलिभ्यः कः' इति राधातोः औणादिकः कप्रत्ययः। 'उणादयो बहुलम्' इति बहुलग्रहणात् 'केऽण: इति हस्वो न, ककारस्य च नेत्वम्। टाप् , स्त्रीत्वं लोकात् । 'कलाहीने सानुमतिः पूर्णे राका निशाकरे' इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्स्वमिति भावः । - मामकेति । मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः। मामिकेति । ममे. यमिति विग्रहे 'युष्यदस्मदोरन्यतरस्यां खञ्च' इत्यणि, 'तवकममकावेकवचने' इति ममकादेशे, आदिवृद्धिः, टाए , 'टिइंढाणम्' इत्यादिना डीप्तु न, 'केवलमामक' इत्या. दिना सज्ञाच्छन्दसोरेव मामकशब्दात् डीब्नियमात् । ततश्चात्र ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्' इत्यप्राप्तौ वचनमिदम् । नरानिति । कैशब्दे आदेश उपदेशे' इत्यात्त्वे, 'आतोऽनुपसर्गे कः' इति कप्रत्यये 'आतो लोप इटि च' इति आ. लोपः, उपपदसमासः, सुपो लुक् , टाम् । अत्रापि ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्' इत्यप्राप्तौ वचनम् । त्यक्त्यपोश्चेति । त्यगन्ते स्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याकारस्य इत्त्वं वक्तव्यमित्यर्थः। 'उदीचामातः स्थाने' इति विकल्पस्याप. वादः । दाक्षिणास्यिकेति । दक्षिणस्यां दिशि अदूरे इति विग्रहे 'दक्षिणादाच्' इत्याच् , तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वम् । दक्षिणाशब्दात् भवाद्यर्थे 'दक्षिणापश्चात्पुरसस्त्यः इति त्यक् , 'किति च' इत्यादिवृद्धिः, दाक्षिणात्यशब्दात् टाप् । ततः स्वा. र्थिकः कः, 'केऽणः' इति टापो हस्वा, पुनष्टाए, इत्त्वमिति भावः । 'दक्षिणस्यां दिशि भवेति विग्रहे दक्षिणाशब्दात् टाबन्तादेव त्यकन्' इति मतं तु प्रौढमनोरमायां दू. षितम् । इहत्यिकेति । 'अव्ययात्यप' इति त्यप् , टाप, स्वार्थिकः कः 'केऽणः' इति हस्वः, पुनः टाप् ।
न यासयोः । नात्र कृतटापोः प्रथमान्तयोनिदशः। यत्तदोरित्येव विवक्षितमिति भाष्ये स्पष्टम् । 'प्रत्ययस्थात्' इत्यतः अत इति इदिति चानुवर्तते । तदाह-यत्तदो. रिति । यका । सका इति । 'अव्ययसर्वनाम्नाम्' इति यत्तच्छब्दयाष्टेः प्रागकचि सौ त्यदाथत्वं, पररूपं, टाप, हल्डयादिना सुलोपः। तच्छब्दे 'तदोः सः सौ' इति तकारस्य सकारः । उभयत्रापि प्रत्ययस्थात्' इति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते। अथ 'न यासयोः इत्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह-यकाम् । तकामिति । स्यकनश्च निषेध इति । त्यकन्प्रत्ययान्तस्यापि 'प्रत्ययस्थात्' इति इत्त्वप्रतिषेधो वक्तव्य
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
४५२६ ) उपत्यका । अधित्यका । 'माशिषि वुनश्च न' (वा ४५२८)। बी. वका । भवका । 'उत्तरपदलोपे न' ( वा ४५२९) । देवदत्तिका-देवका । 'क्षिपकादीनां च न (वा ४५३०)। क्षिपका । ध्रुवका । कन्यका। चटका । 'ता. रका ज्योतिषिः (वा ४५३१) अन्यत्र तारिका । 'वर्णका तान्तवे (वा ४५३२)
इत्यर्थः । उपत्यका अधित्यकेति । 'उपाधिभ्यां त्यकन्नासन्नारूढयो' इति त्यकन् , सप, सोहलङयादिलोपः । 'उपत्यकानेरासना भूमिवमधित्यका' इत्यमरः । मनु स्पकन्विधौ भकारस्य उच्चारणसामर्थ्यादेव इत्त्वं न भवति । अन्यथा त्यिकनमेव विदध्यात् 'अतः किं तन्निषेधेनेति चेत् , मैवम् पञ्चोपस्यको ग्राम इत्यत्र अकारभवणार्थवादित्यलम् । भाशिषीति । आशिषि यो वुन् , तस्य योऽयमकादेशः तदकारस्य 'प्रत्ययस्थात्' इति इत्वं नेति वकव्यमित्यर्थः । जीवका । भवति । जीवतात् भवतावित्यर्थः । जीवधातोः भूधातोश्च 'आशिषि छ' इति वुन् , 'युवोरनाको हति तस्य मकादेशा, 'सार्वधातुकार्धधातुकयोः" इति भूधातोरुकारस्य गुणः अवादेशश्च । उत्तरपदेति । उत्तरपदलोपेऽपि इत्वं नेति वक्तव्यमित्यर्थः । देवकेति । देवदत्तशब्दात् स्वार्थे कः। ठाजादावूयं द्वितीयादयः 'अनजादौ च विभाषा लोपो वक्तव्यः इति दत्तशबदलोपः । देवकशब्दात टाप् । देवदत्तिकेति तु दत्तपदस्य लोपामिव्यक्तये उपन्यस्त. म् । क्षिपकादीनां चेति । क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पति-क्षिपकेति । क्षिप प्रेरणे । 'हगुपधज्ञाप्रीकिरः कः । कित्वान्न लघूपधगुणः, क्षि. प्राचदात् स्वार्थे कः, 'केऽणः' इति हस्वः, पुनष्टाप् । ध्रुवकेति । 'ध्रुव स्थैर्ये कुटादिः, क्षिपकेतिवद्रूपम् । यद्वा 'ध्र स्थैर्य पचायच् 'गाङ्कुटादिभ्यः' इति छित्त्वान्न गुणः, उवछ, प्रवशब्दात् टाप, ततः स्वार्थिकः कः, 'केऽणः' इति हस्वः पुनष्टाप । कन्यकेति । कन्याशब्दात् कः, 'केऽणः' इति हस्वः, पुनष्टाप् । चटकेति । 'घट भेदने । पचायच , या स्वाथें कः, केऽणः' इति हस्वः, पुनष्टाए । क्षिपकादिराकृतिगणः। तेन अलका इष्टका इत्यादि। ___ तारका ज्योतिषीति । वार्तिकमिदम् । ज्योतिषि वाच्ये तारकेति भवति, इत्त्वं न भवतीति यावत् । 'तृ प्लवनसन्तरणयोः' ण्वुल, अकादेशः ऋकारस्य वृद्धिः रपरत्वम्, टाप । ज्योतिरित्यनेन नक्षत्रम् अक्षणः कनीनिका च विवक्ष्यते । 'नक्षत्रमूक्षं में तार तारकापि' इति 'तारकाक्ष्णः कनीनिका' इति चामरः । अन्यत्रेति। ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः । वर्णका तान्तव इति । इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति, इत्वं नेत्यर्थः । तन्तूनां विकारस्तान्तवम् । 'ओरना। वर्ण. केति प्रावरणविशेषः। 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु चुरादिः। ण्यन्तात् ण्वुल,
For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
-
अन्यत्र वर्णिका । 'वर्तका शुकुनी प्राचाम्' (वा ४५३३ )। उदीची तु वर्तिका । 'भष्टका पितृदेवत्यै' (वा ४५३४ )। अष्टिकान्या । 'सूतकापुत्रि. कावन्दारकाणां वेति वक्तव्यम्' ( वा ०५३५)। इह वा अ इति छेदः । कारपूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशन्दे कोनः इवर्णस्य पक्षेऽकारः । अन्य. अकादेशः, णिलापः, टार। अन्यत्रेति । तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः । वर्णिका स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा । वर्तका शकुनौ प्राचामिति। इदमपि वातिकम् । शकुनिः पक्षी, तत्र गम्ये प्राची मते वर्तकेति भवति इत्त्वं न भवतीत्यर्थः । प्राचाङ्ग्रहणस्य प्रयोजनमाह-उदीचा खिति । उदीचा मते तु शकुनो गम्ये वार्तिकेति इत्त्वं भवतीत्यर्थः। वर्तयतेण्वुल् , अकादेशः, णिलोपः, स्वार्थ का, टाए । 'कोयष्टिकष्टिभिको वर्तको वार्तिकादयः इत्यमरः । शकुनेरन्यत्र तु नित्यमेवे. त्वम् । अष्टका पितृदेवत्ये इति। इदमपिवार्तिकम्। पितरशता देवताश्च पितृदेवताः तदर्थे पितृदेवत्यम् । देवतान्तात् तादथ्ये यत्' इति यत् । पित्रथें कर्मणि वाक्ये अष्टफेति भवति 'प्रत्ययस्थात्' इति इस्वं नेत्यर्थः । अनन्ति पित्र] बाह्मणाः यस्यामिति विग्रहे 'अश भोजने इत्यस्मात् 'इष्यशिभ्यां तकन्' इति तकन् प्रत्ययः, as आदिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दात् टाप । अष्टिकान्येति । अष्टो अध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी, 'संख्यायाः अतिशदन्तायाः कन्' इति सूत्रेण अष्टौ इति सुबन्तात् कन् प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्त यिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात् 'सुपो धातुप्रातिपदिकयो। इति जसो लुकि निमित्तापायात् अष्टन आत्वनिवृत्तौ, अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात्रकारलोपे, अष्टकशब्दात् टापि 'प्रत्ययस्थात्' इति इत्त्वं भवत्येव । नचान्तर्व. तिसुपः परत्वं टापः शवयम् , ककारेण व्यवधानात् । असुपः इत्यस्य बहुपरिमाजका नगरी इत्यत्र अव्यवहिते सुपः परे टापि चरितार्थत्वात्। अत एव 'क्षिपकादीनां इति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात् सुबन्तात् स्वार्थिक कप्रत्यये सुपो लुकि अन्तर्वतिनी विभक्तिमाश्रित्य टापः सुवपेक्षया परत्वादसुपः इति निषेधसिद्धो कि तेनेत्यलम्।
'चा सूतकापुत्रिकावृन्दारकाणाम्' इति वार्तिकमर्थतः पठति-मृतकेति । अत्र पुत्रिकाशब्दः इकारमध्यः नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शारिवादित्वेन गेलन्तत्वादिति कैयटः । अत्रेवविकल्पभ्रम वारयति-इह वा म इति । सवर्णदाचे सति वा इति निर्देश इति भावः । भत्र अ इति लुप्तप्रथमार्क, कापूर्वस्येत्यनुवर्तते, अत इति निवृत्तम् , पुत्रिकाशब्दे अतोऽभावात् । तदाह-कात्पूर्वस्येति । नन्वन इस्वविआप एव कुतो न विधीयत इत्यत आह-तेनेति । अस्वविधानेनेत्यर्थः । पुनावाद
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
त्रेत्वबाधनार्थंमकारस्यैव पक्षेऽकारः । सूतिका - सूतका इत्यादि । ( ४६५) उदीचामातः स्थाने यकपूर्वायाः ७ | ३ | ४६ ॥ यकपूर्वकस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । 'केऽण:' (सू ८३४ ) इति ह्रस्वः । आर्यका – आर्यिका । चटकका - चटकिका | आतः किम् । साङ्काश्ये भवा
1
M
1
शार्ङ्गरवादित्वात् ङीनि, स्वार्थिके कप्रत्यये, 'केऽणः' इति ह्रस्वे, टापि,, पुत्रिकाशब्दः । अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्यः ईन्मध्यश्च स्यात् । अस्वविधौ तु पुत्रका पुत्रिकेति अकारमध्यः इकारमध्यश्च भवतीति भावः । ननु सूतका शब्दे वृन्दारकाशब्दे च कात्पूर्वस्याकारस्य अकारविधिः किमर्थमित्यत आहअन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे च ' प्रत्ययस्थात्' इति नित्यमित्ये प्राप्ते तद्विकल्पार्थमित्यर्थः । 'धून् प्राणिगर्भविमोचने' धात्वर्थेनोपसङ्ग्रहादकर्मकः । 'गत्यर्थाकक' इत्यादिना कर्तरि क्तः, टापू, स्वार्थिकः कः केऽण:' इति ह्रस्वः, पुनष्टाप् । अकारस्य त्वाभावपक्षे 'प्रत्ययस्थात्' इति इत्वम् । वृन्दमस्यास्तीति मत्वर्थे 'शृङ्गवृन्दाभ्यामारकनू' इति आरकन्प्रत्ययः । अमरेण तावत् देवतावाची वृन्दारकशब्द: 'अमरा निर्जरा देवा:' इत्यादिना पुंलिङ्गेष्वनुक्रान्तः । रूपिवाची मुख्यवाची च त्रिलिङ्गः । 'त्रिषूत्तरे' इत्युपक्रम्य 'वृन्दारकौ रूपिमुख्यौ' इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् ।
+
३५३
उदीचामातः । 'प्रत्ययस्थात्' इति सूत्रमनुर्तते । यश्च कश्च यकौ तौ पूर्वी यस्या इति विग्रहः । यति वर्णग्रहणम् अकारावुच्चारणार्थे । यकपूर्वाया इत्येतत् आत इत्यस्य विशेषणम् । तेन अर्थगतं। स्त्रीत्वमाकारे आरोप्य यकपूर्वाया इति स्त्रीलिङ्गनिर्देशः । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह - यकपूर्वस्येत्यादिना ॥ 'उदीचां ग्रहणं विकल्पार्थमेव । नतु देशतो व्यवस्थार्थम्' इति 'न वेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । नच ' षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थानेग्रहणं ज्ञापकम् । अत एव 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्र यस्यादिः वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्स्थानिकत्वाभावात् । ततश्च शालीय इति 'वृद्धाच्छः' इति छः न स्यात्, औपगवीय इत्यादावेव स्यादित्यलम् । केऽण इति ह्रस्व इति । आर्याशब्दात् स्वार्थिके
•
प्रत्यये यकाराकारस्य 'केऽण:' इति ह्रस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः । ' प्रत्ययस्थात्' इति नित्यस्य इत्त्वस्यापवादः । तदाह - आर्यका आर्थिकेति । यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति- चटकका चटकिकेति । चटकाशब्दात् स्वार्थे कः, 'केऽणः' इति
२३ बा०
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
साङ्काश्यिका । यक इति किम् । अश्विका । स्त्रीप्रत्यय इति किम् । शुभं याती. ति शुभंयाः । अज्ञाता शुभंयाः। शुभंयिका । 'धात्वन्तयकोस्तु नित्यम्' (वा ४५३६ ) । सुनयिका। सुपाकिका । (४६६) भस्त्रषाजाज्ञाद्वारवा नपू. र्वाणामपि ७३४॥ स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । हस्वः, पुनष्टाए , इत्त्वविकल्प इति भावः । साङकाश्यिकेति । सङ्गाशेन निर्वृत्तं नगर साझाश्यम् । 'वुञ्छणकठच्' इत्यादिना साङ्काशादिभ्यो ण्यः, मादिवृद्धिः, 'यस्येति च' इत्यकारलोपः । साङ्काश्यशब्दात् भवार्थे 'धन्वयोपधावु' अकादेशः, 'यस्येति च' इत्यकारलोपः, टाप् , 'प्रत्ययस्थात्' इति नित्यमित्वम् । इह यकारादकारस्य आकारस्थानिकत्वाभावादित्वविकल्पो न भवतीति भावः । ननु स्त्रीबोधकस्य अतः इद्वा स्यादित्येवास्तु, आत इति मास्तु । साडाश्यकाशब्दे यकारादकारस्य वुजादेशावयवत्वेन स्त्रीबोधकत्वाभावादिति चेत् , तात इति स्पष्टार्थमित्याहुः ।
अश्विकेति । अचाशब्दात् कः, 'केऽणः' इति हस्वः, पुनष्टाप् , अवकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वाभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमिति भावः । स्त्रीप्रत्यय इति किमिति । यकपूर्वाया इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति । शुभमिति मान्त. मव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति विच शुभयाशब्दात् स्वाथे कः 'केऽणः' इति हस्वः, टाप, शुभंयकाशब्दः। अत्र यकारा. दकारस्य धात्ववयवस्य स्त्रीवाचकत्वाभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमेवेत्त्वमिति भावः । 'यकपूर्व धात्वन्तप्रतिषेधः इति वातिकमर्थतः संगृ. हाति-धात्वन्तयकोस्तु नित्यमिति । यश्च कश्चेति विग्रहः । धात्वन्तयकारककारयोरु. परि विद्यमानस्य अकारस्य नित्यमित्त्वम् , न तु विकल्प इत्यर्थः । सुनयिकेति । णीज. धातोः पचायच् । 'सार्वधातुकार्धधातुकयोः' इति गुणे अयादेशे नयशब्दः । सुशोभना नयः यस्याः सा सुनया ततः स्वाथे कः, 'केऽणः' इति हस्वः पुनष्टाप् , सुनयकाशब्दः । अत्र यकारस्य धात्वन्तत्वात् ततः परस्याकारस्य नेत्वविकल्पः, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमिति भावः । सुपाकिकेति । पच धातोलि 'चजोः कुपिण्ण्यतो इति चकारस्य कुत्वे उपधा वृद्धौ पाकशब्दः। सुशोभनः पाको यस्याः सा सुपाका । स्वार्थे कः । 'केऽणः' इति हस्वः, पुनष्टाप् , सुपाककाशब्दः। अत्र ककारस्य धात्व. न्तत्वात् ततः परस्याकारस्य नेत्वविकल्पः, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्व. मिति भावः।
भस्त्रैषा । यकपूर्वत्वाभावात् 'उदीचाम्' इत्यप्रासौ वचनमिदम् । स्वेत्यन्तमिति । भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा एषां षण्णां द्वन्धः । ततः षष्ट्या आर्षो लुक् ।
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३५५
-
तदन्तविधिनैव सिद्ध नम्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राप्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयो त्वम् । अन्तर्वर्तिनी वि. भस्त्रैषाजाज्ञाद्वास्वानामिति विवक्षितमिति भावः । एषामिति। भस्त्रादीनामित्यर्थः । अत इद्वेति । पूर्वसूत्रादुदीचांग्रहणस्य 'प्रत्ययस्थात्' इति सूत्रात् इदित्यस्य चानुवृत्ते. रिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्त्रादिशब्दान्तानामिति लभ्यते, व्यपदेशिव. त्वेन केवलानामपि लभ्यते । एवं च नपूर्वाणां तद्भिन्नपूर्वाणां केवलानां च सिद्ध नसपूर्वाणामपीति व्यर्थमित्यत आह-तदन्तविधिनैवेति । ननु तदन्तविधिना भस्त्रादिशब्दानां नपूर्वाणामनअपूर्वाणां च प्राप्तौ, नअपूर्वाणामेवेति नियमाय नम पूर्वग्रहणम् । तथा सति केवलानां भस्त्रादिशब्दानां ग्रहणव्यावृत्तिः स्यादित्यपिशब्द इति व्याख्यातुमुचितमिति चेत्, न। एवं सति निर्भस्त्रिकेत्याथसिद्धेः। तस्मात् नपूर्वाणामिति स्पष्टार्थमेवेति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतया 'अभाषितपुंस्काच' इत्युत्तरसूत्रेणैव इत्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमि. त्यत आह-मस्त्राग्रहणमुपसर्जनार्थमिति । 'निर्भस्त्रिका इत्युपसर्जनत्वे त्रिलिङ्गतया भाषितस्कत्वेन तत्र 'अभाषितपुंस्काच' इत्यस्य अप्रवृत्तेरिति भावः । अन्यस्य स्विति । उपसर्जनादन्यस्य भस्त्राशब्दस्य तु भस्त्रिका परमभस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गन्तया 'अभाषितपुंस्काच्च' इत्युत्तरसूत्रेणैव पाक्षिकमित्त्वं सिद्धम् । अतः 'भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थ न भवतीत्यर्थः।
ननु भनेषका, परमैषका, अद्वके, परमद्वके इत्यत्रापि पाक्षिकमेतदित्त्वं स्यादि. त्यत आह-एषा द्वेति । एषा द्वा एतयोस्तु पूर्वपदसहितयोरिदं पाक्षिकमित्त्वं नेत्यर्थः । कुत इत्यत आह-अन्तर्वतिनीमिति । 'इदाप्यसुपः' इत्यनुवर्तते । इह तु टाप सुपः पर इति भावः । ननु टावत्र सुपः परो न भवति। तथाहि-एतच्छब्दस्य टेः प्राक् 'अव्ययसर्वनाम्नाम्' इत्यकचि, एतकदशब्दात् सौ 'तदोः सः सौ' इति तकारस्य सत्वे, 'आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियामादन्तत्वात् टापि, सवर्णदीर्घे, हल्ड्यादिलोपे, एषकेति रूपम् । ततः न एषकेति विग्रहे नन्तत्पुरुषे कृते, 'नलोपो नजः' इति नमो नकारस्य लोपे, 'तस्मान्नुडचि' इति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमेषकेति रूपम् । अत्र सौ परे प्रवृत्तत्यदाद्यत्वसिद्धमदन्तत्वमाश्रित्य प्रवृत्तष्टाप् कथं सुपः परः स्यात् । नच नन्तत्पुरुषे सोः सामासिके लुकि सति, सत्वत्यदाद्यत्वटानिवृत्ती, समासात् पुनः सौ, सत्वत्यदायत्वटाप्सु कृतेषु, हल्ङ्यादिलोपे, अनेषकेत्यत्र समासात् प्राक् प्रवृत्तात् सुपः पर एवं याबिति वाच्यम् , सामासिकलुगपेक्षया हल्डयादिलोपस्यैवान्तरङ्गत्वात् प्रवृत्तेः। ततश्च लुप्तेऽपि सौ प्रत्ययलक्षणसत्वेन निमित्तानपायात् पूर्वप्रवृत्तसत्वत्यदायत्वटापां निवृ.
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
भक्तिमाश्रित्य 'असुपः' इति प्रतिषेधात् । अनेषका। परमेषका । अदके । परमद्वके। स्वशब्दप्रहणं संज्ञोपसर्जनार्थम् । इह हि 'भातः स्थाने' इत्यनुवृत्तं स्वशब्दस्यातो त्तिर्नास्ति । सच टाप न सुपः पर इति चेत् , अत्र ब्रूमः-अन्तरङ्गानपि विधीन् बहि. रङ्गो लुक् बाधते' इति परिभाषया 'सुपो धातुप्रातिपदिकयोः' इति सुब्लुग्विषये अन्तरङ्गोऽपि हल्ङ्यादिलोपो न प्रवर्तते। अतः राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवंच गोमान् प्रियो यस्य सः गोमत्प्रियः इत्यत्र गोमच्छ. ब्दात् सोलुका लुप्तत्वात् 'उगिदचाम्' इति नुमुपधादीर्घादिकं न इति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । 'कृत्तद्धितः इति सूत्रे प्रौढमनोरमायां परिष्कृत. मेतत् । एवंच नञ् सु एतकदू सु इति स्थिते, नञ्तत्पुरुषे कृते, 'अन्तरङ्गानपि' इति न्यायेन त्यदायत्वप्रवृत्तः प्रागेव सामासिकलुकि, अनेतकदशब्दात् समासात्पुनः सौ, सत्वे, त्यदाद्यत्वे पररूपे, टापि, सवर्णदीर्धे, सोहेल्ड्यादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाप् भवतीत्यास्तां तावत् । श्रद्वके इति । न सु द्वकि नौ इति स्थिते, नञ्तत्पुरुषे 'अन्तरङ्गानपि' इति न्या. येन त्यदायत्वप्रवृत्तेः प्रागेव समासे औडो लुकि कृते, अद्वकिशब्दात् समासा. त्पुनरौडि, त्यदाद्यत्वे पररूपे, टापि, औडवशीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौङः सुपः पर एव टाबिति भावः। एवं परमद्वके इत्यत्रापि। । स्यादेतत्-आत्मात्मीयज्ञातिधनवाची स्वशब्दः। तत्र ज्ञातावात्मान च पुंलिङ्ग एव, आत्मीये तु विशेष्यनिघ्नस्त्रीलिङ्गः । धने तु पुंनपुंसकलिङ्गः, 'स्वो ज्ञातावा. त्मनि स्वं विष्वात्मीये स्वोऽस्त्रियां धने ।' इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दः संज्ञा, तदापि स्त्रीलिङ्गः। तत्र 'स्वमज्ञातिधनाख्यायाम्' इत्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वं नास्ति । आत्मात्मीयवाचिन एव सर्वनामता, साव्यनुपसर्जनस्यैव भवति, 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वात् अकचि, टापि, 'प्रत्ययस्थात्' इति नित्यमित्त्वे, स्विकेत्येवेष्यते । तत्तु न युज्यते। 'भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आत्स्थानिकत्वाभावान्नायमित्त्वविकल्प इति वाच्यम्, एषामत इद्वा स्यादिति विवरणवाक्ये आतः स्थाने इत्यनुवृत्तेरदर्शनादित्यत आहस्वशब्दग्रहणं संशोपसर्जनाथमिति। स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाभावादकजभावे, स्त्रियां टापि, सौ कृते, स्वार्थिककप्रत्यये, उक्तरीत्या 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इति परिभाषया हल्ल्यादिलोपं बाधित्वा प्रातिपदिकावयव. स्वात् सोलुंकि, 'केऽणः' इति हस्वे, कप्रत्ययान्तात् पुनष्टापि, स्वकाशब्दः । निर्गता
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
૩૫૭
विशेषणम् । न तु द्वैषयोरसम्भवात् । नाप्यन्येषाम् अव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजईः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु
,
स्वस्या इति विग्रहे 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे सुब्लुकि, 'गोस्त्रियो:' इति हवे, टापि, सुपि, स्वार्थिके कप्रत्यये, 'केऽण:' इति हस्वे, पुनष्टापि, नि. स्स्वकाशब्दः । एतद्द्वयमेव 'भस्त्रैषा' इति स्वशब्दस्य उदाहरणम् । आत्मीयायां तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनाभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आहइह हीति । इह 'भस्त्रैषा' इति सूत्रे 'उदीचाम्' इति पूर्वसूत्रात् आतः स्थाने इत्यनुवृत्तम्, तच स्वशब्दस्यैव अतो विशेषणम् । एवं च स्वशब्दस्य आत्स्थानिकस्य अत इद्वा स्यादिति लभ्यते । एतद्विशेषविवक्षयैव एषामत इद्वा स्यादिति विवरणवाक्ये आतः स्थाने इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति । द्वा एषा इत्येतयोस्तु विषये आतः स्थान इति न सम्बध्यत इत्यर्थः । कुत इत्यत आहअसम्भवादिति । एषा द्वेति सर्वाद्यन्तर्गगत्यदादित्वप्रयुक्तसत्वात्व निर्देशेन सर्वनामत्वावश्यकत्वादकच् । तदकारस्य आत्स्थानिकत्वस्याप्रसक्तेरित्यर्थः । नाप्यन्येषामिति । भस्त्राजाज्ञाशब्दानामपि मातः स्थान इति विशेषणं नेत्यर्थः । कुत इत्यत आहश्रव्यभिचारादिति । भस्त्राजाज्ञाशब्दानां सर्वनामत्वाभावेना कजन तथा कप्रत्ययान्ततया तेषु 'केऽणः' इति हस्वसम्पन्नस्य अतः आत्स्थानिकत्वनियमेन तद्विशेषणवैयर्थ्यादित्यर्थः ।
ननु आतः स्थाने इत्यनुवृत्तम् स्वशब्दस्य अतो विशेषणमस्तु तावता आत्मीयाय स्विका इत्यत्र इत्त्वविकल्पशङ्कायाः किमायातमित्यत आह-स्वशब्दस्त्विति । अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः । अतस्तदकारस्य आत्स्थानिकत्वाभावान्न प्रकृतसूत्रेणेत्वविकल्पशङ्का किन्तु 'प्रत्ययस्थात्' इति नित्यमेव इत्वमित्यर्थः । ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिनः आत्मीयायामुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसम्भवात् स्वशब्दग्रहणं संज्ञोपसर्जनार्थमित्यनुपपन्नमित्यत आह-प्रर्थान्तरे तु न स्त्री इति । आत्मज्ञातिधनेषु स्वशब्दो न स्त्रीलिङ्गः । उदाहृतकोशरीत्या आत्मज्ञातिवाचिनः स्वशब्दस्य नित्यपुंलि - ङ्गत्वात् धनवाचिनस्तस्य पुंनपुंसकलिङ्गत्वाच्चेत्यर्थः । तथा च टापि परे इत्यस्याभावान्नोदाहरणत्वप्रसक्तिः । ' प्रत्ययस्थात्' इत्यतः आपीत्यनुवृत्तेरिति भावः । इदमुपलक्षणम् । आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाभावाच्चेत्यपि द्रष्टव्यम् । ननु सञ्ज्ञोपसर्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वम् ? तस्याप्यकचि तदकारस्य आत्स्थानिकत्वाभावादित्यत आहसन्चोपसर्जनीभूतस्त्विति । सम्झोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनई
For Private and Personal Use Only
•
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३५८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
W
कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका । परमस्विकेति नित्यमेवेत्वम्, निर्भत्रका - निर्भस्त्रिका । एषका एषिका। कृतषत्वनिर्देशान्नेह विकल्पः, एतिके - एतिकाः । अजका - अजिका । ज्ञका-ज्ञिका । द्वके-द्विके । निःस्वका निःस्विका । ( ४६७) अभाषितपुंस्काच्च ७|३|४८ ॥ एतस्माद्विहितस्य आतः त्वेन स्वशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये, सुब्लुकि पुनष्टापि, 'केऽण:' इति हस्वा पन्नस्य अतः आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुपः परष्टाबिति शङ्कयम्, केन व्यवधानादिति भावः । तदेवम् 'भस्त्रैषा' इत्यत्र आतः स्थाने इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात् स्वशब्दावयवस्य आत्स्थानिकस्य अत इवा स्यादिति लब्धम्, तस्य प्रयोजनमाह - एवं चेति । उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैवातः इत्त्वविकल्पलाभात् आत्मीयायां स्वशब्दस्य सर्वनामत्वादकचि तदकास्य आत्स्थानिकत्वाभावादित्वविकल्पाप्रवृत्तौ 'प्रत्ययस्थात्' इति नित्यमेवेत्यमित्यर्थः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तदेवं प्रत्युदाहरणान्युक्त्वा उदाहरणान्याह -निर्भस्त्रकेत्यादि । भस्त्राया निष्क्रान्तेति विग्रहे 'निरादयः क्रान्ताद्यर्थे' इति समासे, 'गोस्त्रियोः' इति हस्वत्वे, पुन'टापि, समासात् सौ, कप्रस्यये, 'केऽण:' इति हस्त्रे, निर्भस्त्रकशब्दात् पुनष्टापि, सव
दीर्घे, निर्भस्त्रकाशब्दः । तत्र 'प्रत्ययस्थात्' इति नित्यमित्त्वे प्राप्ते अनेन इत्त्वविकल्पे निर्भस्त्रिका निर्भस्त्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका एषिकेति । अकचि एतकदूशब्दात् सुः । 'तदोः सः सौ' इति सत्वम्,
D
त्वम् त्यदाद्यत्वम्, पररूपम् टाप, 'प्रत्ययस्थात्' इति नित्यमित्त्वं बाधित्वा इत्त्वविकल्प इति भावः । ननु अकचि एतकदशब्दात् स्त्रियामौजसादिषु एतिके एतिका: इत्यादौ नित्यमित्वमिष्यते । तद्बाधित्वा अनेन इत्त्वविकल्पः स्यादित्यत आह - कृतषत्वेति । 'भस्यैतज्ज्ञास्वा' इति वक्तव्ये एषेति कृतषत्वनिर्देशात् औजसादिषु षत्वाभावान्नेत्त्वविकल्प इत्यर्थः । अजका अजिकेति । अजाशब्दात् कः, हस्वः, पुनष्टाप्, सवर्णदीर्घः इत्वविकल्पः । ज्ञका शिकेति । ज्ञाधातोः 'इगुपधज्ञाप्रीकिरः कः " इति कः, 'आतो लोप इटि च' इत्याल्लोपः । स्त्रियामदन्तत्वाद्वाप्, सवर्णदीर्घः । ज्ञाशब्दात् सुबन्तात् क', सुब्लुक्, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इवविकल्प इति भावः । द्वके द्विके इति । अकचि द्वकिशब्दात् स्त्रियामौडि, त्यदाद्यत्वम् पररूपम्, टाप् इस्वविकल्पः, औश्शी, आद्गुणः । निःस्त्रका निःस्विकेति । स्वस्याः निष्क्रान्तेति विग्रहः । 'निरादयः' इति समासः । उपसर्जनहरूवः, टाप्, सुपि कः, सुब्लुक, कप्रत्ययान्तात् पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भावः । श्रभाषितपुंस्काच्च । 'उदीचामातः स्थाने' इत्यनुवर्तते, अत हृदिति च । अभा
"
1
•
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता।
३५६
स्थाने अत इद्वा स्यात् । गङ्गका -गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव । (४६८) आदाचार्याणाम् ७।३।४६॥ पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभ्रिका । (४६६)अनुपसर्जनात् ४।१।१४॥ अधिकारोऽयम् 'यूनस्तिः '
षितः पुमान् येनेति विग्रहः । विहितस्येत्यध्याहार्यम् । तदाह-एतस्मादिति । अभा. षितपुंस्कादित्यर्थः । अयकपूर्वार्थं वचनम् । गड्गका गङ्गिकेति । गङ्गाशब्दात् कः । 'केऽणः' इति हस्वः, इत्त्वविकल्पः । विहितविशेषणस्य फलमाह-बहुव्रीहेरिति । अवि. धमाना खट्वा यस्या इति विग्रहे 'नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीही कृते, विद्यमानपदलोपे नमो नलोपे' 'शेषाद्विभाषा' इति कबभावपक्षे, 'गोस्त्रियोः' इति हस्वे अखट्वशब्दात् टापि, सुपि, अज्ञातादौ के, सुब्लुकि, 'केऽणः' इति हस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतः अभावान्नेत्त्ववि. कल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमित्यर्थः। अभाषितपुंस्कात् परस्येति व्याख्याने तु तादृशखट्वशब्दात् परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः । शैषिके कपि स्विति । न स् खट्वा स इत्यवस्थायां कपि सुब्लुक् । प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्। 'नमोऽस्त्यर्थानाम्' इति बहुव्रीहिसमासः । समासान्त इत्यन्वर्थसज्ञाबलात् कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाभावात् 'गोस्त्रियोः' इति हस्वो न भवति । नापि 'केऽणः' इति हस्वः, 'न कपि' इति निषेधात् । किन्तु 'आपोऽन्यतरस्याम्' इति हस्वविकल्पः। तत्र खट्वाशब्दात् विहितस्य कपः प्राग्वर्तिनः टापः अभाषितपुंस्काद्विहितत्वेन तत्स्थानिकहस्वाकारस्य अयम् इत्त्वविकल्पो भवत्येवेत्यर्थः । 'आपोऽन्यतरस्याम्' इति हस्वाभावपक्षे तु अखट्वाकेत्येव बोध्यम् । आदाचार्याणाम् । पूर्वसूत्रविषय इति । अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः। शुभ्रिकेति । शुभ्रशब्दो विशेष्यनिघ्नः अनियतलिङ्गः । ततः स्त्रियां टापि शुभ्राशब्दात् कः । 'केऽणः" इति हस्वः, पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापः अभा. षितपुंस्काद्विहितत्वाभावात् तत्स्थानिकस्यातो नेत्वविकल्पः । किं तु 'प्रत्ययस्थात! इति नित्यमित्वमित्यर्थः।
अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह-यूनस्तिरित्यभिव्याप्येति । 'यूनस्तिः। इत्यत्राप्ययमधिकारः नतु ततः प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यं तत् 'यूनस्तिः ' इत्यत्र वक्ष्यते । ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा, इत्यादिषु उपसर्जनेषु कुरुचरनदादिशब्देभ्यः 'टिड्ढाणमा
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६०
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
( सू ५३१ ) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति । (४७०) टिड्ढाणञ्द्वय सज्द्धनमात्र नयष्ठक्ठकञ्क्करपः ४|१|१५॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । नदट्-नदी । उपसर्जनत्वान्नेह | बहुकुरुचरा । वक्ष्यमाणेत्यत्र टित्वादुगिइत्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह-अयमेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधि ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलं तु 'वनो र च' इत्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु. स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्री इत्यादिषु आचारक्किबन्तप्रकृतिककर्तृक्कबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावश्यकत्वात् कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न -- अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्किबन्त प्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् ।
"
I
टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, करप् एषां द्वादशानां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ढादयः एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययः अप्रत्ययश्च । टिदा - दिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात् तदन्तविधिः । ततश्च टिन्तात् ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । 'अजाद्यतष्टाप्' इत्यस्मादतः इत्यनुवृत्तम् तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः । 'अनुपसर्जनातू' इत्येतत् श्रुतेषु टिदादिष्वेवान्वेति नतु तदन्तेषु । स्त्रियामित्यधिकृतम् । तदाह- अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । दिदन्तं ढादिप्रत्ययान्तं चेत्यर्थः । टित् त्रिविधः । प्रत्ययः, प्रातिपदिकम् धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीति अधिकरणे उपपदे 'चरेष्ट' इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवात्र टित्त्वात् प्रत्ययग्रहणपरिभाषया चरेत्येव टिदन्तम्, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यम्, नदट् देवट् इत्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषया अप्रवृत्तौ 'येन विधिः' इति विदन्तत्वस्य कुरुचर - शब्दे सत्वात् । अथ द्वितीयं टितमुदाहरति- नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसर्जनत्वविशेषणस्य प्रयोजनमाह — उपसर्जनत्वान्नैहेति । बहुकुरुचरेति । बहवः कुरुचराः यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितः टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अत एव च आपिशलिना
·
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६१
-
स्वाच्च ही प्राप्तः । यासुटो ङित्वेन 'लाश्रयमनुबन्धकार्य नादेशानाम्' ( प ७०) प्रोक्तमधीते आपिशला ब्राह्मणीत्यत्रापि न डीम् । तत्र हि आपिशलिना प्रोक्तमि. त्यर्थे 'तेन प्रोक्तम्' इत्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेद' इत्यणि 'प्रोक्ताल्लुक्' इति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनु. पसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात् स्त्रियां वर्तमा. नत्वाच अणन्तत्वनिबन्धनो डीप दुर्वारः स्यात् । तस्य च श्रुतटिदायन्वये तु प्रोता. गः उपसर्जनत्वान्न दोषः । अध्येत्रण तु लुप्तः, अणो योऽकारः इति व्याख्यानेन वर्णा. अयतया प्रत्ययलक्षणाभावात् । नच 'स्त्रियाम्' इत्यस्य श्रुतटिदादिविशेषणत्वात् प्रोकाणच स्त्रियामवर्तनादेव न डीपः प्रसक्तिरिति वाच्यम् , ज्ञापिते तदन्तविधौ प्राधान्यात् 'स्त्रियाम्' इत्यस्य कीप्रकृतिविशेषणताया एवं उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयर्थ्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम्।
स्यादेतत्-'वच परिभाषणे । अस्मात् कर्मणि लट्, 'लुटः सद्वा' इति तस्य शानजादेशः, 'स्यतासी लुलुटोः' इति स्यः, कुत्वषत्वे, आने मुक्, णत्वम् , टाप् , वक्ष्यमाणेति रूपम् । अत्र लडादेशस्य स्थानिवत्त्वेन टिस्वादुगित्वाच 'टिटडढाणम्' इति 'उगितश्च' इति च छोप प्राप्नोति । नच स्थानिनो लटष्टकारस्य ऋकार. स्य च इत्वाश्रयणात् डीविधेरल्विधित्वादनल्विधाविति निषेधः शङ्कयः, 'घुमास्थागापाजहातिसां हलि' इति क्ङिति विहितस्य ईत्त्वस्य 'न ल्यपि' इति निषेधेन लिङ्गेन अनुबन्धकायें अनल्विधाविति निषेधाभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाप्रसक्तेस्तस्मिन् परतः ईत्व. स्याप्रसक्त्या तनिषेधवैयर्थ्यं स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्वेन शानचष्टित्त्वादुगित्वाच्च कीप दुर्वार इत्याशङ्कय परिहरति-वक्ष्यमाणेत्यादिना । वक्ष्यमाणे. त्यत्र टित्त्वादुगित्वाच्च ङीप प्राप्तो न भवतीत्यन्वयः। कुतो नेत्यत आह-यासुट इत्यादि ज्ञापनादित्यन्तम् । 'यासुट् परस्मैपदेषूदात्तो डिच्च' इति लिङादेशानां तिप्, तस्, झि इत्यादिपरस्मैपदानां यासुडागमस्य डित्वं विहितम् । 'यदागमाः' इति न्यायेन यासुडागमो लिङ्गादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयर्थं स्यात् । अतः 'लाश्रयमनुबन्धकार्यमादेशानां न' इति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लुडादेशस्य शानचः टिदुगित्कायें डीपि कर्तव्ये स्थानिवत्त्वाभावान्न लीवित्यर्थः। ननु 'लाश्रयमनुबन्धकार्यमादेशानां न' इति ज्ञापनेऽपि ब्रूतादित्यत्र 'अव ईद इति पितो विधीयमान ईडागमो दुर्वारः। तस्य तिबाश्रयत्वेऽपि लाश्रयस्वाभावेन तस्मिन् कर्तव्ये तातडः स्थानिवत्त्वेन पित्त्वस्य निर्वाधत्वादित्यस्वरसा
For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदा
[स्रीप्रत्यय
-
इति ज्ञापनान्न भवति । इनः शानचः शित्वेन क्वचिदनुबन्धकायेंऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयो । ऐन्द्री। औत्सी। ऊरुद्वयसी-ऊरुदनी-ऊरुमात्री ।
दाह-श्नः शानच् इति । श्ना इत्यस्मात् षष्टयेकवचने आल्लोपे श्न इति रूपम् , 'आतो धातोः' इत्यन्न आत इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपा. भ्युपगमात् । 'हलः श्नः शानझौ' इति श्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वात् शानचः शित्वं व्यर्थम् । नचानल्विधाविति निषेधः शयः, 'न ल्यपि इति लिङ्गन अनुबन्धकायें अनल्विधाविति निषेधाभावस्यानुपदमेवोक्त. त्वात् । एवं च कचिदनुबन्धकार्येऽपि अनलिवधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कायें दीपि 'अनल्विधाविति निषेधप्रवृत्त्या स्थानिवत्त्वाभा. वेन टित्त्वोगित्त्वयोरभावात् न डीवित्यर्थः । वस्तुतस्तु 'लाश्रयमनुबन्धकार्य नादे. शानाम्' इत्यत्र यासुटो खित्वं न ज्ञापकम् , तस्य तिप्सिब्मिबर्थत्वात् । नहि लिङा. देशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम्, 'हल: श्नः शानज्झौ' इति सूत्रे भाष्ये 'डिच्च पिन्न, पिच्च डिन्न' इति प्रपञ्चितत्वात् । तथा निश्शानच: शित्वमपि न लिङ्गम् , तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् प्रत्युत शित्त्वस्य ज्ञापकत्वे 'सेपिच्च' इति हेरपित्त्वस्य तातको डित्वस्य च वैयर्थ्य मिति भाष्ये दूषणाभिधानाच्च । तस्मात् वक्ष्यमाणेत्यत्र डीबेव युक्तः, टाप त्वसाधुरेव । अजा. दित्वासाबिति या कथञ्चित् समाधेयमित्यास्तां तावत् ।।
सौपणेयीति । सुपाः अपत्यं स्त्री इत्यर्थे 'स्त्रीभ्यो ढक इति ढकि 'आयनेया इत्येयादेशः । 'यस्येति च' इतीकारलोपः, 'किति च' इत्यादिवृद्धिः । सोपणेयशब्दात् डोप् , 'यस्येति च इत्यकारलोपा, सौपणेयीति रूपम् । नच 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया 'शिलाया ढ' 'ढश्छन्दसि' इत्यनयोरेव ग्रहणमिति वाच्यम् , तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, 'सास्य देवता' इत्यणि, 'यस्येति च' इत्यकारलोपः, आदिवृद्धिः, ऐन्द्रशब्दात् डीप् , 'यस्येति च इत्यकारलोपः । आदिवृद्धिः, ऐन्द्रशब्दात् डीप, 'यस्येति च' इत्यकारलोपः इन्द्रस्येयमिति वा विग्रह, 'तस्येदम्' इत्यण् । औत्सीति । 'उत्सः प्रस्रवणं वारि इत्यमरः । ऋषिविशेषो या उत्सः। 'उत्सस्येयमिति विग्रहः । 'उत्सादिभ्योऽ' 'यस्येति च ङीप् । उत्सल्यापत्यं स्त्री औत्सी इति तु नोदाहरणम् । जातेरिस्यनु. वृत्तौ 'शारवायलो डीन्' इत्येव सिद्धेः 'गोनं च चरणैः सह' इत्यपस्यप्रत्ययान्तस्य जातिवादित्यलम् । ऊरुद्वयसो ऊरुदधनी ऊरुमात्रीति । उरूपमाणमस्या इति विग्रहः ।
For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
पञ्चतयी । आक्षिको । लावणिकी । यादृशी । इत्वरी । ' ताच्छीलिके णेऽपि' ( प ६८ ) । चौरी | 'नव्हनजीकक्ख्युस्तरुणतलु नानामुपसङ्ख्यानम्' ( वा २४२५ ) स्त्रैणी । पौंस्नी । शाक्ती की । आढ्यङ्करणी । तरुणी - तलुनी । ( ४७१) यञश्च ।
'प्रमाणे ' द्वयसदनमा त्रचः । ङीप् । पञ्चतयोति । पञ्च अवयवा यस्या इति विप्रहः । 'सङ्ख्याया अवयवे तयप्' ङोप् । प्राक्षिकीति । अक्षैदव्यतीति विग्रहः । 'तेन दीव्यति खनति जयति जितम्' इति ठक्, आदिवृद्धिः, 'यस्येति' च' इत्यकारलोपः । आक्षिकशब्दात् ङीप्, 'यस्येति च' । लावणिकोति । लवणं पण्यमस्या इति विग्रहः । 'लवणाट्ठञ', 'ठल्येकः', आदिवृद्धिः, 'यस्येति च', लावणिकशब्दात् ङीप्, 'यस्येति च' ठेत्येव सिद्धे ठक्ठोः पृथग्ग्रहणं तु उनो जिउस्य च व्यावृत्यर्थम् । दण्डोऽस्त्यदण्डिका 'अत इनिठनौ' काश्यां भवा काशिका 'काश्यादिभ्यष्ठञजिठौ' इति त्रिठः । यादृशीति । 'त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, 'आ सर्वनाम्नः' इति यच्छब्दस्याकारः ङीप्, 'यस्येति च । इत्वरीति । 'इण् गतौ' 'इण्नशजिसर्तिभ्यः क्करप' 'हस्वस्य पिति कृति' इति तुक्, इत्वरशब्दात् ङीप्, 'यस्येति च ' 'स्थेशभास' इति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् । 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः " इति भारविः । 'सैनमीश्वराप्रदह' इति वेदे । क्करपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेः अनुबन्धद्वयोपादानं स्पष्टार्थम् । ईश्वरी तु ईश्वरशब्दात् ईश्वरस्य स्त्रीति पुंयोगे ङीष् । अथवा 'अश्नोतेराशुकर्मणि वरटू च' इति वरडन्तात् टित्वात् ङीप् । यद्वा 'आतो मनिन्कनिञ्चनिपश्च' 'अन्येभ्योऽपि दृश्यते' इति क्वनिपि वनिपि च 'वनो र च' इति ङीब्रौ । 1
३६३
I
ताच्छीलकेऽपीति । तच्छीले भवस्ताच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् प्रत्यये सति तदन्तादपि ङीप् भवतीत्यर्थः । ज्ञापकस्सिद्धमेतत् । तथाहिशीलमित्यनुवृत्तौ 'छत्रादिभ्यो णः' इति विहिते णप्रत्यये अण्कार्ये भवति, 'कार्मस्ताच्छील्ये' इति ज्ञापकात् । कर्म शीलमस्येति विग्रहे छत्रादित्वात् णप्रत्यये, 'नस्तद्धिते' इति टिलोपे, कार्म इति भवति । नतु 'अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात् ताच्छीलिके णप्रत्यये अण्कायं विज्ञायते । अतस्ताच्छीलिकण प्रत्ययान्तादण्कार्यं ङीप् भवतीति भावः । चौरीति । चुरा शीलमस्य इति विग्रहः । छत्रादित्वात् णः, आदिवृद्धिः 'यस्येति च' चौरशब्दात् ङीपि, 'यस्येति च' । नञ्नञ् । नञ् स्रञ्, ईक्क्, ख्युन्, तरुण, तलुन एतेषामपि ङीब्विधौ वचनं कर्तव्यमित्यर्थः । नजादयश्चत्वारः प्रत्ययाः, अतस्तदन्तविधिः । स्त्रैणी पौंस्नीति । 'स्त्रीपुंसाभ्याम्' इति ननौ । तत्र स्त्रीशब्दान्ननि, आदिवृद्धिः, णत्वम् ङीप्, 'यस्येति च' ।
For Private and Personal Use Only
"
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
४।१।१६॥ यअन्तास्त्रियां डीप्स्यात् । अकारलोपे कृते । (४७२) हलस्तद्धितस्य । ६४।१५०॥ हलः परस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे। गार्गी । 'अनपत्याधिकारस्थान डीप' (वा २४२६) द्वीपे भवा द्वैप्या। अधिकारप्रह पुंस्शब्दात् स्नजि, आदिवृद्धिः डीए, 'यस्येति च । शाक्तीकीति । शक्ति आयुध. विशेषः प्रहरणम् अस्या इति विग्रहः । 'शक्तिकष्ठ्योरीकक', अदिवृद्धिः, डीप्, यस्ये. तिचा आढयकरणीति । अनाढयः आढयः क्रियते अनयेति विग्रहः । 'आढयसुभगा इत्यादिना ख्युन् । 'युवोः' इत्यनादेशः। 'अरुर्द्विषत्' इति मुम् , णत्वम् , डीप , 'यस्येति च' । तरुणी तलुनीति। यद्यप्यनयोः 'वयसि प्रथमे' इत्येव डीप सिद्धः । तथापि गौरादिषु पाठात् डीषि प्राप्ते इदं वचनम् । गौरादिपाठात् डीषि स्वरे वि. शेष इति भावः। ___ याश्च । यत्र इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो डीबित्यनुवतते । स्त्रियामित्यधिकृतम् । तदाह-यजन्तादिति । यद्यपि 'टिड्ढाणज्' इति पूर्वसूत्र एव यग्रहणं कर्तुमुचितम् । 'तथापि 'प्राचां ष्फ तद्धिते' इत्युत्तरसूत्रे या एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्ग. स्थापत्यं स्त्री इत्यर्थे 'गर्गादिभ्यो य इति यज , आदिवृद्धिः, 'यस्येति च' इति गकारादकारस्य लोपः । गार्यशब्दात् डीपि 'हलस्तद्धितस्य' इति यकारलोपात् परत्वात् 'यस्येति च' इति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः । हलस्त द्धिप्तस्य । हल इति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । 'यस्येति च' इति सूत्रात् ईतीत्यनुवर्तते, 'सूर्यतिष्यागस्त्य' इत्यतः 'उपधाया' इति, 'य' इति षष्ठयन्तं च, 'ढे लोपोऽकद्रवाः' इत्यतः 'लोप' इति च । तदाह-हलः परस्येत्यादिना। अकार. लोपात् प्रागेव यकारलोपो न सम्भवति, अकारे सति यकारस्य ईकारपरकत्वाभा. वात् । ननु कृते अकारलोपे कथं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्कयम् , यलोपविधौ तनिषेधादिति चेत्, न-यलोपे कर्तव्ये अल्लोपस्याभीय. त्वेनासिद्धतया यकारस्य उपधात्वसम्भवात् । उपधाग्रहणाननुवृत्तौ तु अल्लोपल्या. सिद्धत्वाद्यकारस्य ईकारपरकत्वाभावात् लोपो न स्यात् । यदा तु सूत्रारम्भसाम.
देिवाकारव्यवधानेऽपि यकारस्य लोपः सम्भवतीत्युच्यते, तदा उपधाग्रहणानुवृत्ति. मस्तुि । गागीति । इह 'गोत्रं च चरणैः सह' इति जातित्वेऽपि 'जातेरस्त्रीविषयात् इति न ङीष् , योपधत्वात् ।
अनपत्याधिकारेति । 'तस्यापत्यम्' इत्यपत्याधिकारविहितभिन्न यजन्तान डीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहे 'द्वीपादनुसमुद्रं यम्' इति यञ्। आ. विधुद्धिः । 'यस्येति च' टापि, सवर्णदीर्घः। अस्य यज्ञः अपत्याधिकारविहितत्वाभा
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६५
णात् नेह देवस्यापत्यं दैव्या । देवाद्यजनौ' इति हि यञ् प्राग्दीव्यतीयः, न त्वपत्याधिकारपठितः । (४७३) प्राचां फ तद्धितः ४।१।१७॥ यजन्तारष्फो वा स्या. स्त्रियाम् , स च तद्धितः । (४७) षः प्रत्ययस्य १॥३६॥ प्रत्ययस्यादिः षः इस्स्यात् । (४७५) आय नेयीनीयियः फढखयां प्रत्ययादीनाम् ७१॥२॥ प्रत्ययादिभूतानां फादोनों क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदि. स्वकम् । षित्त्वसामरिष्फेणोक्तेऽपि स्त्रीत्वे 'षिद्गौरा- (सू ४९८) इति वक्ष्य
वान डीविति भावः । नन्वनपत्यान डीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासात अधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति । इह नेति शेषः । देवस्या. पत्यमिति विग्रहे देवाद्यनी' इति यञ् , आदिवृद्धिः, 'यस्येति च', दैव्यशब्दात् टाप् , सवर्णदीर्घः, दैव्येति रूपम् । अनपत्यान्न डीबित्युक्ते अस्य यजः आपत्यत्वात् कीनिषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यः आपत्यत्वेऽपि तस्यापत्यम्' इत्यधिकारबहिर्भूतत्वात्। तदेतदुपपादयति-देवादिति । 'देवाद्यअनौ' इति तु 'तस्यापत्यम्' इत्यधिकारात् प्रागेव 'प्राग्दीव्यतोऽण' इत्यधि. कारपठितः । स चापत्यादिविकारान्तार्थेषु साधारणत्वात् अपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपि 'याश्व' इति सूत्रे 'आपत्यग्रहणं कर्तव्यम्। इत्येव भाष्ये दृश्यते । तथापि तत्र आपत्यपदम् 'अपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् । प्राचां ष्फ तद्धितः । यज इत्यनुवर्तते, स्त्रियामित्यधिकृतम् । ष्फेति लुप्तप्रथमाकम् । तदाह-यजन्तादिति। षः प्रत्ययस्य । 'मादिजिटुडवः' इत्यतः आदिरित्यनुवर्तते । 'उपदेशेऽजनुनासिक इत्' इत्यतः इदिति च तदाह-प्रत्ययस्यादिरिति । षकारस्य इत्मज्ञायां तस्य लोपः । आयनेयोनीयियः। आयन् , एय् , ईन् , ईय् , इय् , एषां द्वन्द्वात् प्रथमाबहुवचनम् । फ, ढ, ख, छ, ध्, एषां द्व. न्द्वात् षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासंख्यपरिभाषया क्रमेणान्वयः । तदाह-प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वे नित्स्वरोपयोगेऽपि नेत्त्वम् , फिनो नित्करणात् ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एया. दिषु च यस्य नेत्त्वम् , प्रयोजनाभावात् । ननु फस्य तद्धितसंज्ञा किमर्थेत्यत आहतद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह-षिद्गौरेति। वक्ष्यमाणो डीषिति । 'षिदूगौरादिभ्यश्च' इत्यत्र प्रातिपदिकादित्यनुवृत्तम् , ततश्च फान्तस्य प्रातिपदिकत्वाभावे ङीष् न स्यादिति भावः । ननुष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतित. त्वात् 'उक्तार्थानामप्रयोगः' इति न्यायादन्न कथं डीषित्यत आह-षित्त्वसामर्थ्यादिति ।
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
माणो गए । गाायणी । (१७६) सर्वत्र लोहितादिकतन्तेभ्यः ४।१।१॥ लोहितादिभ्यः कतशब्दान्तेभ्यो यजन्तेभ्यो नित्यं फः स्यात् । लौहित्यायनी । कात्यायनी। (४५७) कौरव्यमाण्डूकाभ्यां च ४१११६॥ आभ्यां फः स्यात् । क्रमेण टाब्दीषोरपवादः । 'कुर्वादिम्यो ण्यः' (सू ११५५) कौरव्यायणी । 'ढक्व मण्डूकात्' ( सू ११२२) इत्यण् । माण्डूकायनी । 'भासुरेरुप. सङ्ख्यानम्' (वा २४३३ ) भासुरायणी । (४७) वयसि प्रथमे ४११॥२०॥ फेण धोतितेऽपि स्त्रीत्वे पित्करणसामर्थ्यात् डीषित्यर्थः । गाायणीति। गर्गल्यापत्यं स्त्री इति विग्रहः । गर्गादियअन्तात् गायशब्दात् फा, षकारः इत् , फकारस्य आयनादेशः, 'यस्येति च इति यकारादकारस्य लोपः, 'हलस्तद्धितस्य' इति तु न भवति । ईतीत्यनुवृत्तेः । 'आपत्यस्य च' इत्यपि न । अनातीति निषेधात् । पित्त्वात् छीष, णत्वमिति भावः। __सर्वत्र। लोहितादिः गर्गाधन्तर्गणः । लोहितः आदिः येषामिति, कत: अन्तो येषामिति च विग्रहः। कतन्तेत्यत्र शकन्ध्वादित्वात् पररूपम् । यज इत्यनुवृत्तं बहु. वचनान्ततया विपरिणम्यते। 'प्राचां ष्फ तद्धितः' इति सूत्रं प्राचां वर्जमनुवर्तते । सर्वत्रेति सर्वेषु मतेष्वित्यर्थः। नित्यमिति यावत् । तदाह-लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्री इति विग्रहः । लोहितशब्दात् गर्गादियजन्तात् ष्फः, ष इत् , फकारस्यायन् , 'यस्येति च' इति यकारादकारस्य लोपः, तद्धितः इत्यप्यनुवृत्तेः पित्त्वात् डीषिति भावः। कात्यायनीति । पूर्ववत् प्रक्रिया बोध्या। कौरव्यमाण्डूकाभ्यां च । श्राभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दात् टापः माण्डूकशब्दात् ङीषश्चापवाद इत्यर्थः । कौरव्यशब्दस्य यजन्तत्वात् मण्डूकशब्दस्य अणन्तत्वाच्च । डीपोऽपवाद! इत्युचितमिति भ्रमं वारयितुमाहकुर्वादिभ्य इत्यादिना। कौरव्यायणीति। कुरोरपत्यं स्त्री इति विग्रहः। 'कुर्वादिभ्यो ण्यः' इति ण्यः । णकार इत् , 'ओर्गुणः, आदिवृद्धिः, 'गोत्रं च चरणैस्सह' इति इति जातित्वेऽपि योपधत्वात् 'जातेरस्त्रीविषयात्' इति डीषभावे टाप् प्राप्तः । ते बाधित्वा फः, ष इत् , आयन् , 'यस्येति च' इत्यकारलोपः । पित्त्वात् ङीष् । 'यस्येति च' इति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः तस्यापत्यं स्त्री इति विग्रहः । 'ढक् च मण्डूकात्' इत्यण , आदिवृद्धिः, 'यस्येति च' 'गोत्रं च चरणैस्सहर इति जातित्वात् ङीष् प्राप्तः, तं बाधित्वा ऽफः, ष इत् , आयन , 'यस्येति च,' षित्त्वात् डीए, 'यस्येति च' इति भावः । टाडीपोरपवाद इति पाठस्तु प्रामादिकः । आसुरेरुपसङ्ख्यानमिति । प्फस्येति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्री इति
For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६७
प्रथमवयोवाचिनोऽदन्तास्त्रियां लीप्स्यात् । कुमारी। 'वयस्यचरम इति वाच्यम्' (वा ३४३५)। वधूटी । चिरण्टी । वधूटचिरण्टशब्दो यौवनवाचिनौ । अतः किम् , शिशुः । कन्याया न । 'कन्यायाः कनीन च' (सू १११९) इति निर्देशात्। (४७६) द्विगोः ४।२।२१॥ अदन्ताद्विगोरीप्स्यात् । त्रिलोकी । अजादित्वा. त्रिफला । त्र्यनीका ( सेना) ॥ (20) अपरिमाणबिस्ताचितकम्बल्ये.
विग्रहः 'अत इज्', भादिवृद्धिः, ष्फः, ष इत् , आयन् , 'यस्येति च पित्त्वात् कोष, 'यस्येति च, णत्वमिति भावः । वयसि प्रथमे । प्राणिनां कालकृतावस्थाविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति विधा।
'पिता रक्षति कौमारे भा रक्षति यौवने।। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति ॥" इति दर्शनात् । चतुर्विधं वय इत्यन्ये । 'आये ययसि माधीतं द्वितीये नार्जितं धनम् ।
तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ॥' इति दर्शनात्। प्रथमे वयसीत्यनन्तरं विद्यमानादिति शेषः 'अजाद्यतष्टाप' इत्यतः अत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विशेष्यते । तदन्तविधिः । स्त्रिया. मित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो डीबित्यनुवर्तते । तदाह-प्रथमवयोवाचिन इत्या. दिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपात् बोध्यः । वयस्यचरम इति । चरमम् अन्त्यं वयः तद्भिन्नम् अचरमं, प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः। किमर्थमित्यत आह-वधूटी चिरण्टीति। अन. योद्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोद्वितीयवयसि अप्रसिद्धत्वादाहवधूटचिरण्टशब्दो यौवनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशु. शब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाभावात् न डीबिति भावः। कन्याया नैति । डीबिति शेषः । कुत इत्यत आह-कन्याया कनीन चेति । नच द्विवर्षा स्त्री इत्यादावपि बीए शङ्कयः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमवयोवाचित्वाभावात् पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्य यः वयोवाची तस्यैव विवक्षितत्वात् । द्विगोः। 'स्त्रिया मिति 'अत' इति 'डी'बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः । तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम् । त्रिलो. कशब्दात् टाबपवादो डीप् । 'यस्येति च' इति भावः । ननु त्रिफला त्र्यनीका इत्य. त्रापि डीप् प्राप्नोतीत्यत आह-अजादित्वात् त्रिफला व्यनीकेति । भवतीति शेषः ।
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
भ्यो न तद्धितलुकि ॥१॥२२॥ अपरिमाणान्ताद्विस्तायन्ताच्च द्विगो-ब्न. स्यात्तद्धितलकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आीयष्ठक् । तस्य 'अध्यर्ध-'
सू १६९३) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता। व्याचिता । द्विकम्ब. त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'तद्धितार्थः इति द्विगुः । 'अकारान्तोत्तरपदः' इति स्त्रीत्वम् , 'द्विगोः' इति डीपं बाधित्वा अजादित्वाट्टाबिति भावः। अनीकशब्दः ऐन्द्रवायवाग्रत्वे शुक्राप्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः।
अपरिमाण । 'द्विगोः' इति डीबिति चानुवर्तते। प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः । तदाह-अपरिमाणान्तादित्यादिना। अपरिमा. गान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-बाहीयष्ठक् । अध्यर्धेति लुगिति । पञ्चभिरश्वैः क्रोतेति विग्रहे 'तद्धितार्थ' इति द्विगुः । 'आदिगोपुच्छसङ्ख्यापरिमा. णाक्' इत्यधिकारे 'तेन क्रीतम्' इति ठक् 'अध्यर्धपूर्वाद्विगोलुंगसंज्ञायाम्' इति तस्य लुक् । अत्र 'द्विगोः' इति डीप न भवति अपरिमाणान्तद्विगुत्वात् । नन्वत्र 'द्विगोः' इति प्राप्तडीग्निषेधेऽपि 'टिड्ढाणन् , इति ठग्निमित्तिको डीप दुर्वारः। द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्र 'सङ्ख्याया अतिशदन्तायाः इति कनः 'अध्यध' इति लुकि 'अपरिमाण' इति निषेधस्य चरितार्थत्वात् इति चेत, सत्यम्'टिड्ढाणजा इत्यत्र प्रत्यासत्या टिड्ढाणादीनां यः अकारः तदन्तमिति विवक्षितम् । पञ्चाश्वशब्दश्चार्य ठगवयवाकारान्तो न भवतीति न दोषः। नच प्रत्ययलक्ष. णेन ठगवयवाकारान्तत्वं शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणाभावात् । बिस्तादिश. ब्दानां तु परिमाणविशेषवाचित्वात् 'अपरिमाण' इत्यनेन अप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति । 'सुवर्णबिस्ता हेम्नोऽक्षे इत्यमरः। 'गुजाः पञ्चाद्य माषकः । ते षोड. शाक्षः' इति च । गुमापञ्चकं माषपरिमाणम् । माषषोडशकम् अक्षपरिमाणम् , तच्च अशीतिगुनात्मकम् । तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ इति द्विगुः । 'सम्भवत्यवहरतिपचति' इति ठक् तस्य 'मध्यर्ध' इति लुक् । 'द्विगोः' इति ङीपि अनेन प्रतिषिद्धे सति टापि द्विबिस्ता मूषा । द्विबिस्तपरिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह दावणे द्रष्टव्यः । याचि. तेति । 'आचितो दश भाराः' इति इत्यमरः । 'तुला स्त्रियां पलशतं भारः स्यादि. शतिः पुमान् इति च । द्वावाचिता बहतीत्यर्थं 'आढकाचितपात्रात् खोऽन्यतरस्याम्। 'द्विगोष्टं श्च' इति खठनोरभावे प्राग्वतीयष्ठञ् । 'अध्यधः इति तस्य लुक् । अनेन 'द्विगोः इति डीपि निषिद्ध टापि द्वयाचिता शकटी। द्विकम्बल्येति । कम्बलस्य प्रकृ. तिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं । 'तदर्थ विकृतेः प्रकृतौ' इत्यर्थे 'कम्बलाच्च
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
き
-प्रकरणम् १५ ]
बालमनोरमासहिता ।
क्या परिमाणान्तात्तु दुव्याढकी । तद्धितलुकि किम् । समाहारे पश्चाश्वी (४८१) काण्डान्तात् क्षेत्रे ४|१|२३|| क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्तिः । ' प्रमाणे द्वयसच् – ' ( सू १८३८ ) इति विहितस्य मात्रचः ' प्रमाणे लः, द्विगोर्निध्यम्' (वा ३१२९ - ३० ) इति लुक् । क्षेत्रे किम्-द्विकाण्डी रज्जुः । (४८२ ) पुरुषात्प्रमाणेऽन्यतरस्याम् | ४|१|
संज्ञायाम्' इति यत् । द्वाभ्यां कम्बलाभ्यां क्रीतेति विग्रहः 'तेन क्रीतम्' इति ठञः ,' अध्यर्ध' इति लुक्, 'द्विगो:' इति ङीपि अनेन प्रतिषिद्धे टाप् । नन्वत्र 'न तद्धितलुकि' इत्येवास्तु । तावतैव पञ्चभिरश्वैः क्रीता पञ्चाषेति सिद्धेः 'अपरिमाण' इति मास्तु । एवंच द्विबिस्ताद्वियाचिता द्विकम्बल्येत्यपि सिद्धे बिस्तादिग्रहणमपि मास्त्वित्यत आह- परिमाणान्ताविति ।
'गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ॥
३६४
पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः ॥' इति स्मृतिः । द्वावाढको पचतीति विग्रहे 'आठका चितपात्रात् खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति कठोरभावे प्राग्वतीयष्ठञ् । 'अध्यर्ध' इति लुक् । 'द्विगोः' इति ङीप् । छयाकीति रूपम् । न तद्धितलुकि' इत्येतावत्येवोक्ते अत्रापि डीपो निषेधः स्यात् । - अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणस्वात् ङीनिषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति भावः ।
I
काण्डान्तात् क्षेत्रे । 'द्विगोः' इति, न तद्धितलुकीति चानुवर्तते । तदाह-- क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे : प्रमाणमस्याः इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्कान्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाहप्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्कयम्, असति हन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दः तदन्तादिति लभ्येत । एवंच द्विकाण्डा क्षेत्रभक्ति
free fahrusastrव क्षेत्रवर्तित्वात् काण्डशब्दस्य प्रमाणवाचित्वात् ङीनि ५ षेधो न स्यात् । द्वाभ्यां काण्डाभ्यां काण्डप्रमितक्षेत्राभ्यां क्रीता द्विकाण्डी वडवेत्यडीनिषेधः स्यात् । अतः अन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववत् मात्रचो
लुकि 'द्विगो:' इति ङीप् । क्षेत्रवृत्तित्वाभावात् न तन्निषेध इति भावः । ननु 'अप
F
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
२४॥ प्रमाणे यः पुरुषस्तदन्ताद्विगोड/ब्वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्माः सा द्विपुरुषो-द्विपुरुषा वा परिखा। (४८३) ऊधसोऽनङ ५।४।१३१॥ ऊधोऽन्तस्य बहुव्रीहेरनादेशः यात् स्त्रियाम् । इत्यनकि कृते डाब्दीन्निषेधे रिमाण' इति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम् , उत 'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्' इति वातिकानुसारेण परितः सर्वतः आरोहतः परिणाहतश्च येन मीयते तत् परिमाणमित्याढककुउवाद्येव आयामव्यावृत्तं विवक्षितम् ? नाद्य, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचो लुकि डीग्निषधो न स्यात् । न द्वितीयः, तथा सति काण्डशब्दस्यायामप्रमाणपरतया उक्तपरिमाणपरत्वाभावेन 'अपरिमाण इत्यनेनैव द्विकाण्डा क्षेत्रभक्तिः इत्यत्रापि डीग्निषेधसम्भवेन 'काण्डान्तात् क्षेत्रे इति सूत्रारम्भवैयर्थ्यादित्युभयतः पाशा रज्जुरिति चेत्, सत्यम्-'अपरिमाण' इति पूर्वसूत्रे पारिभाषिकमेव परिमाणं विवक्षितं, न त्वायामोऽपि ततश्च द्विहस्ता भित्तिरित्यत्र 'अपरिमाण' इति डीनिषेधो निर्बाधः। काण्डान्तादिति सूत्रं तु काण्डान्तात् क्षेत्र एव डीग्निषेधः, नान्यत्र द्विकाण्डी रज्जुरित्यादाविति। नियमार्थमित्यन्यत्र विस्तरः।
पुरुषात् । द्विगोरिति तद्धितलुकीति डीबिति चानुवर्तते। तदाह-प्रमाणे य इत्यादिना। प्रमाणमायामः, 'आयामस्तु प्रणाणं स्यात्' इति वचनात्। द्वौ पुरुषाविति । पञ्चहस्तायामः पुरुष इत्युच्यते, 'पञ्चारत्निः पुरुषः' इति शुल्बसूत्रात् । द्वौ पुरुषो प्रमाणमस्या इति विग्रहे 'तद्धितार्थ इति द्विगुसमासः । 'प्रमाणे द्वयसज्दन्नमात्र" इति विहितस्य मात्रच: 'प्रमाणे लः, 'द्विगोनित्यम्' इति लुक् । अत्र उक्तरीत्या पुरुपप्रमाणस्य आयामात्मकस्य 'अपरिमाण' इति नित्यं डीग्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । 'अन्ये तु तदस्य परिमाणम्' इति ठकः ठजो वा 'अध्यर्ध' इति लुक् । तत्र हि उत्तरसूत्रानुरोधात् परिमाणशब्देन परिच्छेदकमात्रं गृह्यते इत्याहुरित्यास्तां तावत् । दिपुरुषी द्विपुरुषा वा परिखेति। तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्ग परितः तत्संरक्षणार्थो जलाशयः परिखा। ___ अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः। तत्र विशेषमाहऊधसोऽनङ् । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुवीहावित्यनुवृत्तं षष्ट्या विपरिणम्यते, अधसः इत्यनेन विशेष्यते, तदन्तविधिः । तदाह-ऊधोऽन्तस्येति । समासान्तप्रकरगस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनकि डकार इत् , अकार उच्चारणार्थः, डिच्च' इत्यन्त्यस्य सकारस्य अन् , पररूपम् , कुण्डोधन् इति स्थिते सतीत्यर्थः । डाम्डीविनषेधेष्विति । 'डाबुभाभ्याम्' इति वैकल्पिके डापि,
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
३७१
धु प्राप्तेषु । (४८४) बहुव्रीहरुधसो ङीष् ४१॥२५॥ ऊधोऽन्तानहुव्रीहेष् िस्यास्त्रियाम् । कुण्डोनी। स्त्रियाम् किम् कुण्डोधो धेनुकम् । इहानवपि न । तद्विधौ 'स्त्रियाम्' (वा ३३६५) इत्युपसङ्ख्यानात् । (४८५) स. ख्याव्ययादेमप्श २६॥ छोषोऽपवादः । द्वथूनी । अत्यूनी। बहुव्रीहे. रित्येव । ऊधोऽतिकान्ता अत्यूधाः । (४८६) दामहायनान्ताच्च ४।१॥२७॥ सल्यादेवहुव्रीहेर्दामान्ताद्धायनान्ताच डीप्स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्त
'मन उपधालोपिनः' इति वैकल्पिके डीपि, तदुभयाभावे 'ऋन्नेभ्यः' इति प्राप्तस्या डीपः 'अनो बहुव्रीहः इति निषेधे च प्राप्ते इत्यर्थः । बहुप्रीहेः। ऊधस इति बहुव्री. हेविशेषणम् , तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह-ऊधोऽन्तादिति। कुण्डो. धनीति। अनडि कृते डीषि 'अल्लोपोऽनः' इति भावः । 'अधस्तु क्लीबमापीनम्। इत्य. मरः । जीविधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । डीविधौ स्त्रियामित्यनुवृत्ति: किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधो यस्येति विग्रहः । नपुं. सकत्वस्फोरणाय धेनुकमिति विशेष्यम्, धेनूनां समूह इत्यर्थः । 'अचित्तहस्तिधेनोष्टक इसुसुक्तान्तात्क: आदिवृद्धिः, क्लीवत्वं लोकात् । अत्र स्त्रीत्वाभावान डीषि. त्यर्थः। ननु मास्तु लीषु , अन तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङविधौ ‘स्त्रियाम्' इत्यभावादित्यत आह-तद्विधाविति । ऊधसोऽनविधौ ‘स्त्रि. याम्' इत्युपसङ्ख्यानादित्यर्थः । बहुप्रीहेः किम् । अधः प्राप्तेति विग्रहे 'प्राप्तापन्ने च द्वितीयया' इति समासे प्राप्तोधाः। ___ सङ्ख्याव्ययादेडीए । संख्याव्ययादेख्धोऽन्तात् स्त्रियां डीप स्यादित्यर्थः। ङीषोऽप. वाद इति । 'बहुव्रीहेरूधसो ङीष् इत्यल्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादे. रुदाहरति-व्यूनीति । द्वे ऊधसी यस्याः इति विग्रहः । अनकि डीपि अल्लोप इति भावः । अव्ययादेख्दाहरति-प्रत्यूनीति । अतिशयितमूधो यस्याः इति विग्रहः । बहुव्रीहेरित्येवेति । बहुव्रीहेरित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति । 'अत्यादयः क्रान्ता. धर्थे द्वितीयया' इति समासस्य अबहुव्रीहित्वान्न की। अत एव नानक, नापि डीए। दामहायनान्ताच्च । सङ्ख्यादेः जीप इति चानुवर्तते तदाह-सङ्ख्यादेरिति। अव्य. यग्रहणं तु नानुवर्तते अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धे अन्त. ग्रहणं स्पष्टार्थम् । दामान्ते इति । द्विदामन्शब्दे दामान्ते 'डाबुभाभ्याम्' इति डापि 'अन उपधालोपिनः इति डीपि, अनो बहुप्रीहेः' इति डीप्प्रतिषेधे च प्राप्ते, द्विहापनीत्यत्रापि हायनान्ते अदन्तत्वादापि प्राप्ते 'दामहायनान्ताच्च' इति वचन
For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
योर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्यय प्रहणाननुत्तरदामा वड. वेत्यत्र गनिषेधावपि पक्षे स्तः। द्विहायनी बाला । 'त्रिचतुभ्यां हायनस्य णत्वं वाच्यम्' (वा ५०३८)। 'वयोवाचकस्यैव हायनस्य गेब्णत्वं चेष्यते' (वा २४४१) त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र द्विहायना, त्रिहायना, चतुर्हायना शाला । (४७) नित्यं सज्ञाछन्दसोः ४।१।२६॥ अन्नन्ताबहुव्रीहेरुपधा. लोपिनो डीप्स्यात्सम्ज्ञाछन्दसोः। सुराज्ञी नाम नगरी। अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्नी ॥ (४८८) केवलमामकभागधेयपापापरसमानायकृतसु. मङ्गलभेषजाच्च ४।१।३०॥ एभ्यो नवभ्यो नित्यं लीप्स्यासम्ज्ञा छन्दसोः । 'अथो त इन्द्रः केवलोर्विशः 'मामकी तनू' । भागधेयी । पापी । अपरी। समामित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्याः इति विग्रहः। डीपि 'अल्लोपोऽनः' इति भावः । ननु भव्ययग्रहणानुवृत्तौ कि बाधकमित्यत आह-अव्ययग्रहणेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः। डाग्निषेधावपीीत । अपिना 'अन उपधा' इति की गृह्यते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरतिद्विहायनी बालेति । द्वौ हायनो यस्या इति विग्रहः । अथ त्रिहायणीत्यत्र भिन्नपदत्वात् णत्वप्राप्तावाह-त्रिचतुर्ष्यामिति । नन्वेवमपि द्विहायना शाला इत्यत्रापि डीप स्यात् , त्रिहायना शालेत्यत्र तु डीप णत्वं च स्यातामित्यत आह-वयोवाचकस्येति । इष्यते इति । भाष्यकृतेति शेषः ।
केवलमामक । 'नित्यं सज्ञाच्छन्दसोः' इति पूर्वसूत्रमनुवर्तते । एवं च 'अन उप. धालोपिनोऽन्यतरस्याम्' इति अन्यतरस्यां ग्रहणं निवृत्तम् । 'संख्याव्ययादेमप्' इत्यतो डीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आयकृत, सुमङ्गल, भेषज इत्येतेभ्यो नवभ्य इत्यर्थः । छन्दस्युदाहरति-अथोत इन्द्र केवलीरीति। मामकी तनू इति । मदीयायामित्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ् च' इत्यणि 'तवकममकावेकवचने' इति प्रकृतेर्ममकादेशः, ङीप्, 'सुपां सुलु' इति सप्तम्या लुक् । 'मित्रावरुणयोर्भागधेयी स्थ'। 'भागरूपनामभ्यो धेयः' इति स्वार्थिको धेय. प्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपि स्वार्थिकाः। प्रकृतेः क्वचिल्लिङ्गवचनान्यतिवर्त. न्ते' इति स्त्रीत्वम् , डीप् । 'तन्वः सन्तु पापीः।' पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात् स्त्रीत्वे डीए । 'उत वापरीभ्यो मघवा विजिग्ये । अपरशब्दः पवर्गमध्यः । 'समानीव आकूतिः। आयकृतीति क्वचित् वेदे अन्वेषणीयम् । एवं समयलीति च । 'सुमङ्गलीरियं वधूः' इत्यत्र 'छन्दसीवनिपौ च इति मत्वर्थे ईप्रत्ययः । 'शिवा. . बस्य भेषजी।' भेषजशब्दः रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्रात् स्त्री
For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३७३
-
नी। आर्यकृती । सुमाली । भेषजी। अन्यत्र केवला इत्यादि । मामकग्रहणं नि. यमार्थम् । अण्णन्तत्वादेव सिद्धः । तेन लोकेऽसंज्ञायां मामिका । (४८) अन्त
त्पतिवतानुक ४२११३२॥ एतयोः स्त्रियां नु स्यात् । 'ऋन्नेभ्यो डीप' (सू ३०६)। गर्भिण्या जीवद्भर्तृकायां च प्रकृतिभागी निपात्येते। तत्रान्तरस्त्यस्या गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयास्तिसामानाधिकरण्याभावादप्राप्तो मतुन्निपात्यते । पतिवत्नी' इत्यत्र तु वत्वं निपात्यते । अन्तर्यली । पतिवली । प्रत्युदाहरणं तु अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी । (880) पत्युनों यज्ञसंयोगे ४११॥३३॥ पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । त्वमपि । यद्वा भिषजः इयमित्यर्थे अणि इकारस्य एकारः, अत एव निपातनात् । सज्ञायामप्येवमेव सर्वत्र डीबुदाहार्यः । सज्ञाच्छन्दोभ्यामन्यत्र तु केवला मामिका इत्यादि । नन्वष्णन्तत्वादेव 'टिड्ढाणम्' इति छोपि सिद्ध मामकग्रहणं व्यर्थमित्यत आह-मामकग्रहणमिति । लाके असञ्ज्ञायां च डीनिवृत्त्यर्थमिति भावः । एवं भेष. जशब्दस्य अण्णन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायाम् इदं नोपन्यस्तम् ।
अन्तर्वत्पतिवतोर्नु । एतयोः स्त्रियां नुगिति। कित्त्वसामर्थ्यात् अयमागमः, नतु प्रत्यय इति भावः । कित्त्वादन्तावयवः, अन्तर्वत् न, पतिवत् न इति स्थिते आहऋन्नेभ्यो डीबिति । गर्भिण्यामिति । गर्भिण्यां जीवद्भकायां च स्त्रियाम् अन्तर्वत् पतिवत् इति प्रकृतिभागौ नुक्सन्नियोगेन निपात्येते इत्यर्थः । वार्तिकमेतत् । कतरस्मिन् किं निपात्यत इत्यत आह-तत्रेति । तयोर्मध्य इत्यर्थः । अन्तरस्त्यस्यां गर्भ इति विग्रहे अप्राप्तो मतुप निपात्यत इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह-अम्तश्श. ब्दस्येत्यादि अभावादित्यन्तम् । 'तदस्यास्त्यस्मिन्निति मतुप्' इति सूत्रेण अस्तिसमा. नाधिकरणात् कर्तृकारकप्रधानप्रथमान्तात् मतुप्प्रत्ययो विहितः। यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते तु प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणः, नतु अन्तश्शब्दः, तस्याधिकरणकारकप्रधानतया अस्तिसामानाधि. करण्यासम्भवात् । अतोऽत्र अप्राप्तो मतुग्निपात्यत इत्यर्थः। ततश्च 'मादुपधायाश्च मतोः' इति मकारस्य वत्वे अन्तर्वत् इति प्रकृतिभागः सम्पद्यत इति भावः । वत्वमिति । पतिरस्या अस्तीति विग्रहे 'तदस्यास्त्यस्मिन्' इति मतुपो मकारस्य मादुपधात् परत्वाभावेन 'मादुपधायाः इति वत्वमप्राप्तं निपात्यत इत्यर्थः । प्रत्युदाहरणं त्विति । गभिण्यामेव मतुन्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहः वाक्यमेव, नतु मतुबित्यर्थः। पतिमती पृथिवीति । जीवदर्तृकायामेव वत्वनिपातनादिह वत्वाभाव इति भावः । पत्युनों । पत्युरिति षष्ठी। न इत्यकार उच्चारणार्थः। स्त्रि.
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३७४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
वसिष्ठस्य पत्नी । तत्कर्तृकस्य यज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् । (४२) विभाषा सपूर्वस्य ४ | ३ | ३४ ॥ पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्यनो वा स्यात् । गृहस्य पतिः गृहपतिः - गृहपत्नी । 'अनुपसर्जनस्य' इतीहोत्तरामनुत्तमपि न पत्युर्विशेषणं, किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी, दृढपतिः । वृषलपत्नी - वृषलपतिः । अथ 'वृषलस्य पत्नी' इति व्यस्ते कथमिति -यामित्यधिकृतम् । तदाह - पतिशब्दस्येति । यज्ञे नैति । यज्ञसम्बन्धः यज्ञेन सह स्वामितया सम्बन्धः, यज्ञफलभोक्तृत्वमिति यावत् । तदाह - तत्कर्तृकस्येति । वसिष्ठकंकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तेत्युचितं, नतु तत्त्रयपि, "स्वर्गकामः' इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमात् इत्यत आह- दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे 'लिङ्गविशेषनिर्देशात् पुंयुक्तमैतिशायनः' इत्यधिकरणे 'स्ववतोस्तु वचना'दैककर्म्यं स्यात्' इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माभिरध्वरमीमांसा कुतूहलवृत्तौ ।
विभाषा सपूर्वस्य । पत्युर्न इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्ट्या विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत् पतिशब्दान्तप्रातिपदिके अन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह - पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः -- गृहपत्नीति । नत्वपक्षे 'ऋन्नेभ्य' इति ङीप् । 'अत्र गृहपतिशब्दः पतिशब्दान्तः गृहशब्दात्मकपूर्वावयव सहितश्चेति भावः । नच 'ग्रहणवता प्रातिपदिकेन' इति निषेधः शङ्खयः, 'शूद्रा चामहत्पूर्वा' इति लिङ्गेन तस्य स्त्रियामित्यधिकारे अप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिः यस्या इति बहुव्रीहौ दृढपतिः
पत्नीत नत्वविकल्प इष्यते स तु न सम्भवति, 'अनुपसर्जना' दित्यधिकारात् पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनात् इति नात्र सम्बध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह- अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्रुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्व विशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव सम्बन्धे जाते सति पश्चात् पतिशब्देऽपि पुनर्व्यापारे मानाभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्य प्राप्तविभाषा कुतो न स्यादित्यत आह- वृषलपत्नीति । पाति रक्षतीति पतिः वृषपतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह - यज्ञसंयोगाभावादप्राप्तमेव नत्वं विभाष्यत इति भावः ।
आक्षिपति – प्रथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा । 'मङ्गला
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३७५
चेन । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्किबन्तात्कर्तरि क्विप् । अस्मिश्च पक्षे, पत्नियो, पस्नियः इतीयविषये विशेषः । सपूर्वस्य किम् । गवा पतिः स्त्री। (४४२) नित्यं सपल्यादिषु ४३१॥३५॥ पूर्वविकल्पापवादः । समानस्य सभा. वोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी। (४६३)
नन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ ।' इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः। ततश्च सपूर्वेत्वाभावात् न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाभावाच्च न पूर्व. सूत्रेण । अतो वृषलस्य पत्नीत्यनुपपत्रमित्याक्षेपः । इति चेन्नैति । इत्याक्षिपसि चेत् तयुकमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितः तस्मैव शूदस्त्रियामपि अयशसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गोण्या वृत्त्या प्रयोगः । यथा गमायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः। उक्तं च भाष्ये-'तुषजकस्य पत्नीत्युपमानात्सिद्धम्। इति । यद्वेति । प्रौढिवादमात्रमिदम् , स्त्रियामाचारविबन्त. प्रकृतिकक्किबन्तशब्दाः न सन्तीति 'अनुपसर्जनात्' इत्यत्रोक्तत्वात् । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाव्यभिचारात् सपूर्वस्येति किमर्थमिति प्रश्नः। गवां पतिः स्त्रीति । स्वामिनी रक्षित्री वेत्यर्थः । असमस्तत्वात् गवामित्यस्य न पूर्वावयवत्वमिति भावः। यद्यपि 'यत्र सब्याते पूर्वो भागः पदं तत्र चेत् प्रातिपदिकसज्ञा भवति तर्हि समासस्यैव' इति नियमेन गवां पतिः इति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाभावादेवात्र नत्वविकल्पो न भवति। तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थ सपूर्वस्येति वचनमिति भावः । वस्तुतस्तु 'व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्त. त्वाभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः।
नित्यं सपत्न्यादिषु । विषयसप्तम्येषा। सपत्न्यादिविषये तत्सिद्धयर्थे नित्यं नत्वमित्यर्थः । पूर्वविकल्पैति । 'विभाषा सपूर्वस्य' इति विकल्पस्यापवाद इत्यर्थः । आर. म्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्याः सा सपत्नीति वक्ष्यति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवं च 'वोपसर्जनस्य' इति वैकल्पिकः सभाव इत्यत आह-समानस्येति । इह गणे समान, एक, वीर, भ्रातृ, पुत्र इति समानादयः पठिताः। अतः समानशब्देनैव बहुव्रीहिरुचितः। तस्य च निपातनादेव नित्यं सभाव इति भावः । समानः पतिरिति । अत्र समानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धन. भर्तृशब्दपर्यायः । वीरपत्नीति । वीस पतिर्यस्याःइति विग्रहः । सपत्न्यादित्वात्रत्वम् ।
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
पूतकतारै च ४॥१॥३६॥ अस्य स्त्रियामै आदेशो कीच । 'इयं त्रिसूत्री पुंयोग एवेष्यते' (वा २४४९)। पूतकतोः स्त्री पूतक्रतायी। 'यया तु तवः पूताः स्यात्पूतक्रतुरेव सा' । (४६४) वृषाकप्यग्निकुसितकुसिदानामुदात्तः४।१ ३७॥ एषामुदात्त ऐ आदेशः स्यान्डीच । वृषाकपेः स्त्री वृषाकपायो । 'हरविष्णू वृषाकपी' इत्यमरः । 'वृषाकपायी श्रीगौर्योः' इति च । भन्मायो । कुसितायी-कुखिदायी। कुसिदशब्दो ह्रस्वमध्यो न तु दीर्घमध्यः। (४५) मनोरौ वा
__ पूतक्रतोरै च । ऐ इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात् स्त्रियां डीप्स्यात् , प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः । इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात् स्त्रियां वृत्तावेवेत्यर्थः। पूतक्रतायीति । पूतः क्रतुः येन सः पूतक्रतुः, तस्य स्त्रीत्यर्थे डीप , तकारादुकारस्य ऐकारः, तस्य आयादेश इति भावः। पुयोग इत्य. स्य प्रयोजनमाह-ययेति । वृषाकप्यग्नि । ऐ चेत्यनुवर्तते । तदाह-एषामिति । वृषाकपायोति । डीप , प्रकृतेरुदात्तः ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात् तदाकारोऽप्युदात्त: 'अनुदात्तं पदमेकवर्जम्' इति अवशिष्टानामचामनुदात्त. त्वम् । उदात्त इति किम् । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वृषाकपिशब्दो मध्यो. दात्त:-'नाहमिन्द्राणि रारण सख्युर्वृषाकपेः' इति यथा। अन्ते एकस्मिन् लधौ सति द्वयोर्वा लघ्वोः सतोः पूर्वः बह्वच्कस्य गुरुः उदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवर्जम्' इत्यवशिष्टानामचामनुदात्तत्व. मिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात् तत्स्थाने ऐकारः अनुदात्त: स्यात् । ततश्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽन्न उदात्तत्व. विधिः । अग्नायीति । 'अग्निर्पर्धा' इत्यादौ अग्निशब्दः अन्तोदात्तः, ततो डीप् , प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशायादेशाकारस्य उदात्तत्वसिद्धरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिटस्वरेणान्तोदात्ते । ततो डीप ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अतएवाह-कुसिदशब्दो हस्वमध्यो न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि 'लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्रा. प्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता।
४११३८॥ मनुशब्दस्यौकारादेशः स्यादुदात्तैकारश्च वा। ताभ्यां सन्नियोगशिष्टो डीच । मनोः स्त्री मनायी-मनावी-मनुः । (885) वर्णादनुदात्तातोपधा. तो नः ४।११३६॥ वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा डीप्स्यात् तकारस्य नकारादेशश्च । एनी-एता रोहिणी-रोहिता । 'वर्णानां
मनोरौ वा । ऐ चेति, उदात्त इति, डीबिति चानुवर्तते । तदाह-मनुशम्दस्येति । उदा. स्तैकारश्च वेति । औकार:, उदात्त ऐकारश्च वा स्यादित्यर्थः । उदात्तैकार इति समास: निर्देशादुदात्त इत्यौकारेण न सम्बध्यत इति सूचितम्, एतच्च वृत्तिपदमार्योः स्प: टम् । चकारात् डीप ऐकारौकाराभ्यां समुच्चीयते । तदाह-ताभ्यामिति । ऐकारौकाराभ्यां समुच्चयेनैव विहित् इत्यर्थः । ततश्च तदुभयाभावपक्षे डीबपि नेति लभ्य. ते, 'सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषावशादिति भावः । इयं तु परिभाषा 'पूतक्रतोर च' इति सूत्रभाष्ये स्थिता। मनायीति । 'यदै किं च मनुरवदत्' इत्यादौ मनुशब्दः 'नित्यादिनित्यम्' इत्यायुदात्तः । 'धान्ये नित्' इत्यतो निदित्यनुवृत्तौ 'शृस्वृस्निह्' इत्यादिना मनेरुप्रत्ययविधेः। ततश्च शिष्टस्वरेण नकारादुकारः अनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशः डीप चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाभावे तत्सन्नियोगशिष्टो डीबपि नेत्युक्तमेव ।
वर्णादनु । वेति डीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणम् , तदन्तविधिः । तोपधादित्यपि वर्णादित्यत्रान्वेति, तकारः उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः । वर्णादित्यस्य 'स्वं रूपं शब्दस्य' इति वर्णशब्दादिति नार्थः, तोपधत्वासम्भवात् । कि तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः। वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम् , तदन्तविधिः। त इति षष्ठी, तकारस्येत्यर्थः । न इत्यत्र नकारादकार उच्चारणार्थः, नकार इत्यर्थः। तदाह-वर्णवाचीत्या. दिना। तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तीवर्णान्ते अन्वेति, नतु वर्णादि. त्यत्रेति भावः । एनी एतेति । श्वेतेत्यर्थः । एतशब्दात् की , तकारस्य नकारश्च । डीबभावे टाबेव । नत्वं तु न भवति, डीपा संनियोगशिष्टत्वात्। एतशब्दः श्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरुद्रदत्तप्रभृतयो याज्ञिकाः । रोहिणी-रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः। डीपि णत्वे रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह--वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः शोणः, शितिः, पृश्निः, पृषत् इति क्रमेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओका
For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३७८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
तणति नितान्तानाम्' (फि ३३) इति फिट्सूत्रेणायुदात्तः । ' येण्या शलल्या' इति गृह्यसूत्रम् | त्रीण्येतान्यस्या इति बहुव्रीहिः । अनुदात्तात् किम् । श्वेता । 'घृतादीनां व' (फि. २१) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । 'पिशङ्गादुपसङ्ख्यानम्' ( वा २४५५) । पिशङ्गी - पिशङ्गा । 'असितपलितयोर्न' ( वा २४५३) । अक्षिता । पलिता । 'छन्दसि वनमेके ( वा २४५४) असिक्नी । पलिक्नी । अवदातशब्दस्तु
1
रस्म चोदात्तत्वे 'अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादसानुदात्तत्वमित्यर्थः ।
I
ननु 'अनुपसर्जनात्' इत्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तम् नतु तदन्तविविलभ्यवर्णान्तविशेषणत्वमित्यत आह- त्र्येण्येति । श्रीणि एतानि श्वेतानि अवयवसंस्थानानि यया इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिनः उपसर्जनत्वात् ङीनत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यमृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्यमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाsयकर्माण्यत्रेति व्युत्पत्त्या आपस्तम्बाश्वलायनादिप्रणीत कल्पसूत्र विशेष उच्यते । त्र्येण्येति णत्वमार्षम् । यजुर्वेदे तु 'त्रि एण्या शलल्या निवर्तयेत' इति पठितम् । तत्र श्रीणि एतानि श्वेतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु 'वर्णानां तणति' इति श्वेतशब्दस्याद्युदात्तत्वात् शिष्टस्वरेणानुदासान्तत्वमेवेत्यत आह - घृतादीनामिति । श्रत इत्येवेति । 'अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवर्तत एवेत्यर्थः । शितिः स्त्रीति । 'शिती धवलमेचकौ' इत्यमरः । पिशङ्गीति । 'घावान्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदासान्तत्वेऽपि तोपधत्वाभावात् अप्राप्तो ङीबुपसङ्ख्यायते । 'अन्यतो ङीष् इति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः । असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य श्वेतवाचकतया च 'वर्णादनुदात्तात्' इति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य डीप्सन्नियोगेन कनादेशम् । अन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नोति । असितशब्दात् ङीप्, तकारस्य क्नादेशे पररूपे 'यस्येति च' इत्यकारलोपः । क्नू इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि । 'पलितं जरसा शौक्यम्' इत्यमरः । ननु 'अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वात् 'लघावन्ते' इति मध्योदाततया अनुदात्तान्तत्वात्तोपधत्वाच्च 'वर्णादनुदात्तात् इति ङीन्नत्वे स्यातामित्यत भाई - श्रवदातशब्दस्त्विति । 'अवदातः सिते पीते शुद्धे' इति कोशात् 'दैप् शोधने'
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
न वर्णवाची, किंतु विशुद्धवाची । तेन अवदाता इत्येव । ( ४६७) श्रन्यतो ङीषू ४|१|४०॥ तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकास्स्त्रियां
स्यात् । कल्माषी । सारङ्गी । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि ४२ ) इति मध्योदात्तावेतौ । अनुदात्तान्तात् किम् । कृष्णा । कपिला । ( ४६८) बिगौरादिभ्यश्व ४|१|४१ ॥ विदूभ्यो गौरादिभ्यश्च ङीष्स्यात् । नर्तकी । गौरी । 'आमनडुहः स्त्रियां वा' (वा ४३७८ ) । अनडुही-अनड्वाही । पिप्पल्या'दयश्च' ( ग ४७ ) | आकृतिगणोऽयम् । (४६६) सूर्यतिष्यागस्त्यमत्स्यानां
1
३७६
For Private and Personal Use Only
•
इत्यस्मात् तप्रत्यये अवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्च 'धुंयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् || 'अवदातः सितो गौरः' इति कोशस्तु शुद्धस्वसाधर्म्यात् बोध्यः
1
1
अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति तोपधादिति चानुवर्तते । तत्र कस्मादन्यतः इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति - तोपधापेक्षया अन्यत इति । तदाह - तोप भिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः । 'चित्रं किर्मीरकल्माषशचलैताश्च कर्बुरे' इत्यमरः । सारङ्गीति । 'सारङ्गः शबले त्रिषु' इत्यमरः । 'फिषोऽन्त उदात्तः' इत्यन्तोदात्तत्वशङ्कां व्युदस्यति - लघाविति । एतत्सूत्रं 'वृषाकपी' ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः । पिगौरादिभ्यश्च । ष् इत् येषां ते षितः, गौरः आदिः येषां ते गौरादयः, षितश्च गौराद
1
1
चेति द्वन्द्वः । नर्तकीति । 'नृती गात्रविक्षेपे' शिल्पिनि वुन्' 'षः प्रत्ययस्य' इति चकार इत्, 'हलन्त्यम्' इति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात् छीष्, टापोऽपवादः, 'यस्येति च' इत्यकारलोप इति भावः । गौरीति । श्वेतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् 'अन्यतो ङीष' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वायम् । 'उमा कात्यायनी गौरी' इत्यमरः । 'द'शवर्षा भवेद् गौरी' इति स्मृतिः । अनुदुही - अनुड्वाहीति । अनडुहः स्त्रीत्यर्थः । aat वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीषि आम्विकल्पः । एवं च 'अनुडुहः स्त्रियाम् आम् वेति वक्तव्यम्' इति वार्तिकं न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र गौर, मत्स्य, मनुष्य, शृङ्ग, गवय, हय, मुकय, गौतम, ड्वाही, अनुदुही, तरुण, तलुन श्वन् इति पठित्वा 'पिप्पल्यादयश्च' इत्युक्त्वा पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । तत्र पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वात् ङीषोऽप्राप्तेरिह पाठः । श्वन् शब्दस्य तु 'ऋन्नेभ्यः' इति डीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । श्राकृतिगणोऽयमिति । गौ
अन
1
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
य उपधायाः ६४।१४६॥ अङ्गस्योपधायाः यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः । 'मत्स्यस्य याम्' (वा ४१९८)। सूर्यागस्त्ययोश्छे च यो च' (वा ४१९९) । तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्' (वा ४२००) । मत्सी । 'मातरि षिच्च' (वा २७१०) इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठा. दनित्यः पिता की । दंष्ट्रा । (५००) जानपदकुण्डगोणस्थलभाजनाग. कालनीलकुशकामुककबरावृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु४।१।४२॥ एभ्य एकादशभ्यः प्राति. रादिरित्यर्थः । 'पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् । __ मत्स्यशब्दात् गौरादित्वात् डीपि विशेष दर्शयितुमाह-सूर्यतिष्यागस्त्य । हे लोपोऽकद्र वाः' इत्यतो लोप इत्यनुवर्तते । य इति षष्ठी अङ्गस्येत्यधिकृतमवयवषष्ट्यन्तम् , तच्च उपधायामन्वेति । अङ्गस्य उपधाभूतो यो यकारः तस्य लोपः स्यादिति लभ्यते । सूर्यतिष्यागस्त्यमत्स्यानामित्यप्यवयवषष्टयन्तं यकारेऽन्वेति, न त्वङ्गविशेषणम् । तदाह -अङ्गस्येत्यादिना । मत्स्यस्य ड्यामिति । तेनेह न, मत्स्यस्येदं मात्स्यम् ।। सूर्यागस्त्ययोश्छे च ङयां चेति सूरीयः । सूरी । अगस्तीयः । अगस्ती । नेह, सौर्यम् । आगस्त्यम् । तिष्येति । 'नक्षत्रेण युक्तः काल:', 'सन्धिवेलायतुनक्षत्रेऽभ्योऽण' इति च विहिते नक्षत्रसम्बन्धिनि अणि परतः तिष्यपुष्ययोर्यलोप इत्यर्थः। तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः । एवं पोषः । नेह-तिष्यस्य पुष्यस्य वाऽयं तैष्यः, । पौष्यः। मत्सीति । मस्यशब्दात् गारादिङीषि यलोपः, 'यस्येति च' इत्यकारलोपः। मनु 'पितृव्यमातु. लमातामहपितामहाः' इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ। तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः पित्वं विहितम्-'मातरि षिच्च' इति । ततश्च षित्त्वविधानादेव डीसिद्धेः गौरादिषु मातामहीशब्दपाठो न कर्तव्यः । नच 'मातरि षिच्च' इति न क्रियतामिति वाच्यम् , पितामहीत्यत्र डीषर्थ तस्यावश्यकत्वादित्यत आह-मातरीति । दं ट्रेति । दंशेः 'दाम्नीशस' इति करणे ष्ट्रन् । अत्र षित्त्वे सत्यपि न छीषिति भावः । सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप इति तु न व्याख्यातम् । तथा सति सौरी बलाकेति न सिध्येत् । सूर्येणैकदिक् इत्यर्थे 'तेनैकदिक्' इत्यणि तदन्तात् हीपि अणन्तमङ्गम् , नतु सूर्यशब्द इति तदसिद्धिः । वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः।।
जानपद । जानपदेत्यादि कबरादित्यन्तमेकं पदम् । समाहारद्वन्द्वात् पश्चमी ।
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३८१
पदिकेभ्यः क्रमावृत्त्यादिष्वर्थेषु डोष्स्यात् । जानपदी वृत्तिश्चेत् , अन्या तु जानपदी । उत्सादित्वादअन्तत्वेन 'टिड्ढ--' (सू ४७०) इति डीप्यायुदात्तः। कु. ण्डी अमत्रं चेत् , कुण्डान्या । 'कुडि दाहे' । 'गुरोश्च हलः' (सू ३२८०) इत्यप्र. त्ययः। यस्तु 'अमृते जारजः कुण्डः' इति मनुष्य जातिवचनस्ततो जातिलक्षणो छीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो नीष विधीयते, न तु नियम्यते। गोणी आवपनं चेत् , गोणान्या। स्थली अकृत्रिमा चेत् , स्थलाऽन्या। भाजी श्राणा चेत् , माजान्या । नागी स्थूला चेत् , नागाऽन्या। गजवाची नागशब्दः जानपदीति । जनपदे भवेत्यर्थः । वृत्तिश्चेदिति । जीविका गम्या चेदित्यर्थः। ननु उत्सादित्वादनि डीपक सिद्धे की विधिय॑र्थ इत्यत आह-उत्सादित्वादिति । 'अनुदात्तौ सुप्पितौ' इति डीप्यागुदात्तत्वम् । डीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । 'पात्राऽमत्रे च भाजनम्' इति च । कुण्डशब्दस्य स्त्रीत्वमपि डीविधिसामर्थ्यात् । 'पिठरे तु न ना कुण्डम्' इति विश्वः । कुण्डाऽन्येति । दहनीयेत्यर्थः। तदेव विशदयति-कुडि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोः अप्रत्ययः स्यात् भावकर्मणोः स्त्रियामिति तद. र्थः । ननु 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।' इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह-यस्विति । जातिलक्षण इति । 'जातेरस्त्रीविषयात्' इति जातिनिमित्तक इत्यर्थः । ननु अमत्रेऽपि वाच्ये कुण्डश. ब्दात् जातिलक्षणडोषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव लीषिति नियमार्थ तदिति वाच्यम् , एवं सति मनुष्यजातिविशेषवाचित्वे डीषोऽनुत्पत्तेरित्यत आहअमत्रे हि स्त्रीविषयत्वादिति । 'जातेरस्त्रीविषयात्' इत्यनित्यस्त्रीलिङ्गात् ङीष विहि. तः । अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः, ‘पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'कुण्डी कमण्डलौ जारात् पतिपत्नीसुते पुमान् ।' इति मेदिनीकोशाच्च । तथाच कुण्डशब्दात् जातिलक्षणङीषप्राप्त एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि डोष निर्वाध इति भावः।। ___ आवपनं चेदिति । ओप्यते।निक्षिप्यते अस्मिन्नित्यर्थे आपूर्वाद्वपेयुट् । गोणाऽ. न्येति । कस्याश्चिदिदं नाम । अकृत्रिमा चेदिति। इदानीन्तनपुरुषपरिष्कृता भूमिः कृ. त्रिमा, तद्भिन्नेत्यर्थः । स्थलाऽन्येति । कृत्रिमेत्यर्थः। 'स्थलयोदकं परिगृह्णन्ति' इति यजुवेंदे । भाजीति । भज्यते सेव्यते इति कर्मणि घञ्। 'घजजबन्ताः पुंसि' इति तु प्रायिकम् । श्राणा चेदिति । 'यवागूरुष्णिका श्राणा' इत्यमरः । भाजाऽन्येति । अश्राणेत्यर्थः । 'श्रा पाके' क्तः । 'संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम् , णत्वं च,
For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
स्थौल्य गुणयोगादन्यत्र प्रत्युक्त उदाहरणम्। सवाची तु दैर्ध्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् , कालान्या । नीली अनाच्छादनं चेत् , नीलान्या, नोल्या रका शाटीत्यर्थः । 'नील्या अन्वक्तव्यः' (वा २६८०) इत्यन् । अनाच्छादनेऽपि न सर्वत्र, किं तु 'नोलादोषधौ' (वा २४५६ ) । नोली । 'प्राणिनि च' (वा २४५८ )। नीली गौः । 'संज्ञायां वा' (वा २४५५) । नीली-नीला। कुशी अयो. विकारश्चेत् , कुशाऽन्या । कामुकी मैथुनेच्छ। चेत् , कामुकाऽन्या । कवरी केशाना सनिवेशश्चेत् , कबराऽन्या । चित्रेत्यर्थः। (५०१) शोणात्प्राचाम् ४।११४३॥
पक्वेत्यर्थः । नागशब्दस्य स्थौल्ये काप्यप्रसिद्धेराह-गजवाचीति । वर्णश्चेदिति । वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः। वर्णविशिष्टा चेदिति यावत् । अन्यथा कालशब्दस्य 'गुणे शुक्लादयः पुंसि' इति पुंस्त्वापातात् । सूत्रे वर्णा इति च्छेदः । अर्शआद्यजन्ताहाए । कालाऽन्येति । क्रोर्ययुक्तेत्यर्थः । संज्ञाशब्दो वा। अनाच्छादनं चेदिति । वस्त्रभिन्न गवादिकमित्यर्थः । नीलाऽन्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटी. त्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषः अप्रसक्तिरेव, नीलादोषधौ, प्राणि. नि च' इति नियमस्य वक्ष्यमाणत्वादित्यत आह-नील्या रक्तेति । नील्या ओषध्या रागविशेष प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह-नील्या अनिति । 'तेन रक्तं रागात्' इत्यत्र इदं वार्तिकम् । नीलीशब्दादन्प्रत्यये सति 'यस्येति च' इति लोपे नीलशब्दा, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात् 'नीला. दोषधौ प्राणिनि च इति नियमे सत्यपि ङीषः प्राप्तेस्तनिवृत्त्यर्थमनाच्छादनग्रहण. मितिभावः । ननु नीला कुण्डीत्यत्रापिअनाच्छादनत्वात् ङीष् स्यादित्याशड्य आहअनाच्छादनेऽपीति । 'नीलादोषधौ, प्राणिनि च' इति वार्तिकमेतत् । नीलात् अना. च्छादनेऽपि भवन् ङीष् ओषधौ प्राणिनि चैव स्यात् , न त्वन्यत्रेत्यर्थः । एवञ्च नीला कुण्डीत्यादौ न डीषिति भावः । 'संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्तविषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः । अयोविकारश्चेदिति । फाला इति प्रसिद्धः । कुशाऽ. न्येति । छन्दोगसूत्रे 'प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसत्रेब्वेके प्रादेशमात्रीः कुशपृष्ठात्स्वक्तस्समामज्जते' इति प्रसिद्धा । कामुकीति । कामयितुं शीलमस्या इति विग्रहे 'लषपत' इत्यादिना कमेरुकन् । मैथुनेच्छावती चेदित्यर्थः । अआिद्यजन्ताहाप् । कामुकाऽन्येति । धनादीच्छावतीत्यर्थः । शोणात् प्राचाम् । 'रोहितो लोहितो रक्तः शोणः कोकनदच्छविः । इत्यमरः । 'वर्णानां तणतिनितान्तानाम्। इति शोणशब्दः आधुदात्तः अनुदात्तान्तः। 'अन्यतो ङीष् इति नित्यं डीषि प्राप्ते विकल्पार्थमिदम्।
For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३-३
-
-
शोणी-शोणा । (५०२) वातो गुणवचनात् ४॥१॥४४॥ उदन्ताद्गुणवाचिनो वा छीप् स्यात् । मृद्वी-मृदुः । उतः किम् । शुचिः । गुण इति किम् । आखुः ।
वोतो गुणवचनात् । प्रातिपदिकादित्यनुवृत्तम् । वा उत् इति च्छेदः । उता गुणवचनस्य प्रातिपदिकस्य विशेषणात् तदन्तविधिः । तदाह-उदन्तादिति। वा डीबिति । बीषिति नात्रानुवर्तते । 'गुणवचनात् डीबायुदात्तार्थः' इति वार्तिकादिति भावः । मृद्वीति । मृदुशब्दात् डीपि यण् । अत्र
'सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥' इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यांसमवायिकारणं तत्रैव निविशते सम. वैति यः स गुण इत्यन्वयः । द्रव्यमानसमवेत इति यावत् । मात्रपदात् सत्ताजातियं. वच्छिद्यते, तस्याः द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वे अतिव्याप्तिवारणाय आह-अपैतीति । कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः। द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वानातिव्याप्तिरिति भावः । एवमपि गोत्वे अतिव्याप्तिवारणाय आह-पृथग्जातिषु दृश्यते इति । पृथक् भिन्नाः जातयः येषां ते पृथग्जातयः । भिन्नजातीयव्यवृत्तिरिति यावत् । गोत्वस्य गोजातीयेष्वेव सत्त्वात् भिन्नजातीयेषु अश्वादिष्वसत्त्वानातिव्यासिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह-आधेयश्चाक्रियाजाचे. ति । आधीयते उत्पाद्यते इत्याधेयः उत्पाद्यः अक्रियाजः अनुत्पाद्यः । उत्पाद्यत्वानुः त्याधत्वाभ्यां द्विविध इति यावत् । गुणो नित्यानित्यभेदेन द्विविधो भवति । नित्य. गतानां गुणानां नित्यत्वात् , अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अ. प्युत्पाद्यत्वानातिव्याप्तिरिति भावः । एवमपि द्रव्ये अतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वात् असमवायिकारणसंयोगनाशे ततोऽपायात् विजातीयपार्थिवाद्यवयवेषु सत्त्वात् , नित्यानित्यभेदसत्त्वाच्च । अत आह-असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । अत्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासात् तद्भिन्नत्वमिति लब्धम् । 'आधेयश्चाक्रियाजश्च' इत्यनेन क्रियानिरासात् क्रियाभिन्नत्वं लब्धम् । असत्त्वप्रकृतिः इत्यनेन द्रव्यस्य निरासात् द्रव्यभिन्नत्वं लब्धम् । तथाच जातिभिन्नत्वे सति क्रिया. भिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं घेदितव्यम् । समवेत. वाभावादभावनिरासः। अत्र 'नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता' एव इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तभिन्नत्वमपि निवेश्यम् । 'आकडारादेका संज्ञा' इति सत्रभाष्ये तु 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्या.
For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
'खरुसंयोगोपधान्न' (वा २४६०)। 'खरुः, पतिवरा कन्या' । पाण्डुः । (५०३) बह्वादिभ्यश्च ४१४५एभ्यो वा डीस्यात् । बह्वी-बहुः । 'कृदिकारादक्तिनः' (ग ५०) । रात्रिः-रात्री। 'सर्वतोऽक्तिनादित्येके (ग ५१) शकटि:-शकटी । अक्तिन्नर्थात् किम् । अजननिः । किन्नन्तत्वादप्राप्ते विध्यर्थ स्योक्तस्य प्रपञ्चनपर वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्यु. पात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपटवादिशब्दानां गुणविशिष्टदव्यवाचित्वात् गुणवचनत्वाभाव इति वाच्यम् । गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्र. व्यवाचित्वस्यैव विवक्षितत्वात्। एवञ्च रूपशब्दस्य न गुणवचनता, तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे 'गु. णवचनेभ्यो मतुपो लुगिष्टः, इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ रूपो घटः इत्यादि. प्रयोगापत्तेः । प्रपञ्चितं चैतदरुणाधिकरणेऽस्माभिरध्वरभीमांसाकुतूहलवृत्तौ । - शुचिरिति । शुक्लेत्यर्थः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।' इत्यमरः । नच शुचिधातोः 'इगुपधात् कित्' इत्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आ. कडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम् , उणादीनाम् अव्युत्पत्तिपक्षाश्रयणात् । पाखुरिति । मूषिकेत्यर्थः । आखोस्तु जातिवि. शिष्टव्यवचनत्वादुक्तगुणवचनत्वाभावान्न ङीए । 'खरुसंयोगोपधान्न' इति वार्तिकम् । खरुश्च संयोगोपधश्चेति समाहारद्वन्द्वः। खरुशब्दात् संयोगोपधाच्च 'वोतो गुणवच. नात्' इति डीप नेत्यर्थः । खरुशब्दमप्रसिद्धृत्वात् व्यावष्टे । पतिवरा कन्येति । पति. लामोत्कण्ठावतीत्यर्थः । औत्कण्ठ्यलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । श्वेतेत्यर्थः । संयोगोपधत्वात् न छीप् । बह्वादिभ्यश्च । गुणवचन. त्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्य. रीत्या सङ्ख्याशब्दानां गुणवचनत्वाभावात् अप्राप्तस्य ङीषो विधानार्थ बहुग्रहणमित्याहुः। बह्वी बहुरिति। वैपुल्यवाची बहुशब्दोऽयम्। त्रित्वादिसमनियतसङ्ख्याविशेष. वाचित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपि 'बहुगणवतुडति सङ्ख्या' इति स. ख्याशब्दत्वात् न गुणवचनत्वमिति न वैयर्थ्य मिति भावः । 'कृदिकारादक्तिनः' इति बह्नाद्यन्तर्गणसूत्रम् । कृतो य इकारस्तदन्तात् प्रातिपदिकात् खीष् वा स्यात् , न तु क्तिनन्तादित्यर्थः । रात्रिः गतीति । 'राशदिभ्यां त्रिप' इति राधातोरोणादिकस्त्रिम्। गुणवचनत्वाभावात् उदन्तत्वाभावाच्चाप्राप्ते वचनम् । 'सर्वतोऽक्तिन्नादित्येके' । इत्यपि बह्वाधन्तर्गणसूत्रमेव । कृदिकारान्तादकृदिकारान्तादपि नीष वा स्यात् , नतु 'किन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः शकटीति। शकटिशब्दस्य अव्युत्पन्नप्रातिपदिक. स्वात् कृदन्तत्वाभावात् सर्वत इति वचनम् । अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं
For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च' (सू १९२ ) इति पद्भावः । पद्धति:पद्धती । (५०४) पुंयोगादाख्यायाम् ४|१|४८ ॥ या पुमाख्या पुंयोगात्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी । ' पालकान्तान' ( वा २४६१ )
३८५
बोध्यम् । जननिरिति । 'स्त्रियां क्तिन' इत्यधिकारे 'आक्रोशे नञ्यनिः' इति नजि उपपदे जनेरनिप्रत्ययः, अक्तिन इत्युक्तौ अत्र निषेधो न स्यात् । अतः अक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि तिनि 'अनुदात्तोपदेश' इत्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात् कथं पद्धतिशब्दात् ङोषित्यत आह- क्तिन्नन्तत्वादिति । गणे इति । बह्वादिगण इत्यर्थः । ननु पादाभ्यां हतिरिति विग्रहे 'कर्तृकरणे कृता बहुलम्' इति तृतीयासमासे सुब्लुकि पाद इति इति स्थिते कथं पदादेश:, 'पाद: पत्' इत्यत्र कृतसमासान्तलोपस्यैव पादशब्दस्य ग्रहणात् भत्वाभावाच्च । पादस्य पदाज्यातिगोपहतेषु' इत्यपि न सम्भवति, तस्य आज्यादि. वेव परेषु प्रवृत्तेरित्यत आह- हिमकाषीति । हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः ।
पुंयोगात् । पुंयोगादिति हेतौ पञ्चमो । आख्यायामिति पञ्चम्याः सप्तम्यादेशः, 'सुपां स्थाने सुपो भवन्तीति वक्तव्यम्' इत्युक्तेः । माख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचकः इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात् पुंस इति लभ्यते । तथा च आख्यायामित्यनेन पुंसि प्रसिद्धात् शब्दादिति लभ्यते । पुंयोगादिति स्त्रियामित्यत्रान्वेति । तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदाहया पुमाख्येत्यादिना । ङोषिति । 'अन्यतो ङीष्' इत्यतस्तदनुवृत्तेरिति भावः । 'वोतो गुणवचनात्' इति पूर्वसूत्रे तु 'गुणवचनात् ङीबाद्युदात्तार्थः" इति वार्तिकात् ङीप् लब्ध इति न तत्रास्यानुवृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः 'आतोऽनुपसर्गे कः' । तज्जायायां तु गोरक्षणाभावेऽपि तद्भार्यात्वात् तद्वयपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वात् ङीषि 'यस्येति च' इत्यकारलोप इति भावः । हरेः स्त्री, शम्भोः स्त्री इत्यादौ न ङीष् स्त्रीप्रत्ययविधिप्रकरणे अत इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा, तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता श्वश्रूः मातुलानी वा गोपीति स्थादिति वाच्यम्, 'अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छन्दमपि इति भाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि केकयी देवकी इत्यादयस्तु | गौरादौ पाठ्या इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम्प्रसूता । अयं हि शब्दो जातप्रसवामाह । स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता स्वास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष् ।
*
२५ बा०
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८६
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
गोपालिका । अश्वपालिका | 'सूर्याद्देवतायां चाब्वाच्यः' ( वा २४७१) । सूर्यस्य स्त्री देवता सूर्या । देवतायाम् किम् । सूरी कुन्ती । मानुषीयम् । ( ५०५ ) इन्द्रवरुणभवशर्व रुद्रमृड हमारण्ययवयवनमातुलाचार्याणामानुकू | ४|१|४६ ॥ एषामानुगागमः स्यान्ङीष्व । इन्द्रादीनां षण्णां मातुला चार्ययोश्च पुंयोग एवेष्यते ।
अत्र 'गोपालकादीनां प्रतिषेधः' इति वार्तिकम् । अत्र आदिपदेन अश्वपालिकेस्यादयः पालकान्ता एवं गृह्यन्ते, भाष्ये तेषामेवोदाहरणात् । तदाह - पालकान्तानैति । पुंयोगलक्षणङीषिति शेषः । गोपालिकेति । गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । 'णेरनिटि ' इति णिलोपः । rai पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषे षष्ठी, उत 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दात् उत्पन्नपः परत्वेन असुप इति निषेधात् 'प्रत्ययस्थात् इति इत्त्वानुपपत्तेः । नचास्तु कर्मणि षष्ठीति द्वितीयः पक्षः । ' गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासात् उत्पन्नस्य टापः सुपः परत्वाभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यम्, 'तृजकाभ्यां कर्तरि' इति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम् - गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गोपाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्त्वात् सुब्लुक् । गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात् । नात्र टापू सुपः परः, केन व्यवधानात् । अस्तु वा शेषषष्ट्या समासः । एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ट्या समासप्रवृत्तेः । अत एव प्रकृतसूत्रे 'उपपदमति' इति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ट्या समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम् । सूर्यादेवतायामिति । देवताभूतायां स्त्रियां पुंयोगाद्वर्त्तमानात् सूर्यशब्दात् चाप वक्तव्य इत्यर्थः । 'पुंयोगात्' इति ङीषोऽपवादः । चपावितौ । सूर्येति । चापि सवर्णदीर्घः । देवतायां किमिति । सूर्यस्त्रियां देवतात्वाव्यभिचारात् प्रश्नः | सूरी कुन्तीति । ङीषि 'सूर्य तिष्य' इति । यकारलोपः, 'यस्येति च' इत्यकारलोपः । मानुषीयमिति । इयं कुन्ती मानुषी, न तु देवतेत्यर्थः । एतच्च महाभारतादौ स्पष्टम् । नच 'सूर्याद्देवतायां न इत्येयोच्यताम्, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यम्, टापि हि सति पिश्वादनुदासत्वम् 'अनुदात्तौ सुप्पित्तौ इत्युक्तेः । चापि तु 'चितः' इत्यन्तोदात्त. त्वमिति भेदः ।
1
इन्द्रवरुण । श्रानुगागम इति । कित्त्वादागमलिङ्गादिति भावः । ङीष् चेति । 'अन्यतो
1
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३७
तत्र कीषि सिद्ध आनुगागममात्र विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी । हिमारण्ययोमहत्वे (वा २४७२)। महद्धिमं हिमानी। महदरण्यम् अरण्यानी । 'यवादोषे (वा२४७३)। दुष्टो यवो यवानी। 'यवनाल्लिप्याम्' (२४७४)। यव. नाना लिपिर्यवनानी। मातुलोपाध्याययोरानुग्वा । मातुलानी-मातुली । उपाध्यायानी उपाध्यायो । 'या तु स्वयमेवाण्यापिका तत्र वा ष्वाच्यः । उपाध्यायीउपाध्याया। 'आचार्यादणत्वं च' (वा २४७७ )। आचार्यस्य स्त्री आचा
ही' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति । पुंयोगादित्यनुवृत्तः, तेषां स्त्रीत्वे पुंयोगं विना अप्रवृत्तेश्चेति भावः । नन्वेवं योगादित्येव सिधे लीविधिर्व्यर्थ इत्यत आह -तत्रेति । तब इन्द्रादिषु षट्सु मातुलाचार्ययोश्च पुंयोगादित्येक डोपि सिद्ध तत्सन्नियोगेन आनुगागममानं विधीयत इत्यर्थः। इतरेषामिति । हिमा. रण्ययवयवनानां तु आनुक की चेत्युभयं विधीयते, तत्र पुंयोगस्यासम्भवादिति भावः । इन्द्राणीति । भानुकि ककार इत् , उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः। वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी इत्युदाहरणानि. सुगमत्वादुपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्ति, अकारोच्चारणस्य अल्लोपनिवृत्त्या चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरि. स्यन्यत्र विस्तरः । हिमारण्योर्महत्वे । इति वार्तिकम् । महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुडीपावित्यर्थः। महद्धिमं हिमानीति । महत्त्वयोगे स्त्रीत्वमत एक ज्ञेयम् । अरण्यानीति । महदरण्यमित्यर्थः । यवादोषे । इति वार्तिकम् । आनुड्डीषाविति शेषः । दुष्टयवे वृत्तौस्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् । इत्यपि वातिकम्। लिपिरक्षरविन्यासः । तत्र लक्षणया वृत्तौ आनुङकोषावित्यर्थः । मातुलोपाध्याययोरानुग्वेति । इदमपि वातिकम् । अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवान असम्भवाभावात् । अत्र आनुगेव तु विकलप्यते, आनुगभावेऽपि पक्षे डीषु भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम् । मातुलानी मातुलोति । मातुलस्य स्त्री. त्यर्थः । उपाध्यायानी उपाध्यायीति । उपाध्यायस्य स्त्रीत्यर्थः । या तु स्वयमेवेति । इदं तु वार्तिकं तृतीयस्य तृतीये। इस' इति सूत्रे पठितम् । या स्वयमेवाध्यापयति न तूपा. ध्यायस्य स्त्री, तत्र पुंयोगाभावेऽपि केवलडीविकल्पो वाच्य इत्यर्थः । 'युगान्तरे ब्रह्मवादिन्यः स्त्रियः सन्ति। तद्विषयमिदम् ,
'पुरा युगेषु नारीणां मौजीबन्धनमिष्यते ।
अध्यापनं च वेदानां सावित्रीवचनं तथा ॥' - इति स्मरणात् । आचार्यादणस्वं च । इत्यपि वार्तिकम् । चकारः आनुङ्
For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
355
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
र्यानी । पुंयोग इत्येव । आचार्या, स्वयं व्याख्यात्री । 'अर्यक्षस्त्रियाभ्यां वा स्वार्थ (वा २४७८) । अर्याणी -अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षस्त्रियाणी-शस्त्रिया ।
योगे तु, भयो । क्षत्रियी। कथं 'ब्रह्माणी' इति । ब्रह्माणमानयति जीवयतीति 'कर्मण्यण' ( सू २९१३) । (५०६) कोतात्करणपूर्वात् ४१५०॥
डोषोः समुच्चयार्थः । आचार्यानीति । आचार्यस्य स्त्रीत्यर्थः । 'अट् कुप्वाइ' इति 'णत्वं न भवति ।
'उपनीय तुयः शिष्यं वेदमध्यापयेद्विजः।।
सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥" 'एकदेशमुपाध्यायः' इति स्मृतिः। पुंयोग इत्येवेति। पुंयोगग्रहणमनुवर्तत एवे. त्यर्थः । तत्प्रयोजनमाह-प्राचार्येति । अत्र पुंयोगाभावं विशदयति-सायं व्याख्यात्रीति । धर्मोपदेष्ट्रीत्यर्थः। 'यस्माद्धर्मानाचिनोति सआचार्यः इति स्मरणादिति भावः। अर्यक्षस्त्रियाभ्यांधा। इति वार्तिकम् । आनुढीषाविति शेषः। स्वार्थ इति व्याख्यानलभ्यम्। तेन पुयोगनिरासः। अत एव भाष्ये 'अर्याणी अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्यात्रीतिवत् अर्याति ङीषमेवोदाहरेत् । अर्यशब्दं व्याचष्टे--स्वामिनी वैश्या वेत्यर्थ इति । 'अर्यः स्वामिवैश्ययोः' इति निपातनादिति भावः। क्षत्त्रियाणी, क्षत्रियेति । क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः। 'सवणेभ्यः सवर्णालु जायन्ते हि सजातयः । इत्युपक्रम्य 'विन्नास्वेष विधिः स्मृतः इति स्मरणात्। विन्नास्वि. त्यस्य उढास्वित्यर्थः । पुयोगे तु अयों क्षत्रियीति । अर्यस्य स्त्री अर्थी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः । कथमिति । 'इन्द्रवरुण' इत्यादिसूत्रे ब्रह्मन्श. ब्दस्य अग्रहणात् ब्रह्मणः स्त्रीत्यर्थे ब्रह्माणीत्यानुल्छीषौ कथमिति प्रश्नः, उत्तरमाहब्रह्माणमिति । आनयतीत्यस्य व्याख्यानं जीवयतीति । 'अन प्राणने' प्राणनं जीवनम् । अस्माद्धातोहेंतुमण्णिचि उपधावृद्धौ तिपि शपि गुणायादेशो आनयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् ततश्च ब्रह्माणमानयतीति विग्रहे अनि इति ण्यन्तात् 'कर्मण्यण' इत्यणि 'णेरनिटि' इति णिलोपे आनशब्देन ब्रह्माणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीचे ब्रह्मानशब्दात् 'टिड्ढाणम्' इति छीपि 'यस्येति च' इत्यकारलोपे 'पूर्वपदात् संज्ञायाम्' इति गत्वे ब्रह्माणीति रूपमिति भावः । 'एकाजुत्तरपदे' इति तु न, अणि सति प्रातिपदिकस्य द्वयकत्वात् लुप्तेऽ प्यणि लोपस्य स्थानिवत्त्वात्। 'पूर्वत्रासिद्धीये न स्थानिवत्' इति तु न, 'तस्य दोषः' इत्युक्तेः ।
क्रीतात्करणपूर्वात् । प्रातिपदिकादित्यनुवृत्तम् अत इत्यनुवृत्तेन क्रीतादित्यनेन च
For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
३४
कीतान्ताददन्तस्करणादेः स्त्रियां कीऽस्यात् । वस्त्रक्रीती । क्वचिन्न । धनकीता। (५०७) क्तादल्पाख्यायाम् ४१५१॥ करणादेः क्तान्ताददन्तास्त्रियां डी. स्यादपत्वे द्योत्ये । अभ्रलिप्ती द्यौः। अल्पाख्यायाम् । किम् । चन्दनलिप्ता अङ्गना। (५०८) बहुव्रीहश्चान्तोदात्तात् ४१५२॥ बहुव्रीहेः कान्तादन्तोदात्ताददन्तास्त्रियां लीष्स्यात् । 'जातिपूर्वादिति वक्तव्यम्' (वा २४८४ ) । तेन 'बहुन
विशेष्यते, तदन्तविधिः । तदाह-क्रीतान्तादित्यादिना । करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यम् , तेन करणादेरिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति । ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे 'कर्तृकरणे कृता बहुलम्' इति समासात्मकं प्रातिप. दिकमादन्तमेव, न त्वदन्तमिति कथमन्त्र कीषिति चेत् , सत्यम्-समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्त्र भिस् क्रीत इति स्थिते 'गतिकारकोपपदानां कृतिः सह समासवचनं प्राक् सुबुत्पत्तोः' इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः । एतच्च 'पुयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् । तहि धनक्रीतेत्य. त्रापि कीष स्यादित्यत आह-कचिन्नति । 'कर्तृकरणे कृता बहुलम्' इति बहुलग्रह. णेन 'गतिकारकोपपदानाम् इत्यस्य कचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वात् टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तस्वाभावान्न डीषित्यर्थः । एवं च अत इत्यनुवृ. तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्च 'उपपदमति' इत्यत्र कैयटे स्पष्टम् । करणपूर्वात् किम् । सुक्रीता । नचैवमपि वस्त्रेण क्रीतेति वाक्यात् ङीष्प्रसङ्गः। क्रीतेति प्रातिपदिकस्य करणपूर्वत्वात् अदन्तत्वाच्चेति वाच्यम् , करणपूर्वादिति हि क्रीता. न्तस्य प्रातिपदिकस्य विशेषणम् । नतु क्रीतशब्दस्य । करणं पूर्व यस्मिन् इति बहु. व्रीहिः । करणशब्दात्मकपूर्वावयवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः । एतदर्थमेव पूर्वग्रहणम् । अन्यथा क्रीतात्करणादित्येवावक्ष्यदित्यलम् ।
क्तादल्पाख्यायाम् । करणादेरिति । करणपूर्वादित्यनुवृत्तेरिति भावः । क्तान्तादिति । कान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति । अत इत्यनुवृत्तेरिति भावः । अल्पत्वे थोत्ये इति । अल्पाख्यायामिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा। अभ्रलिप्ती द्यौरिति । अभैरल्पैराच्छन्नेत्यर्थः । अनरीषदाच्छन्नेति वा । बहुव्रीहेश्च । कादिति अत इति चानुवर्तते । तदाह-बहुव्रीहेरिति। क्तान्तादिति । कान्तान्तादित्यर्थः । तेनैति । जातिपूर्वादितिः विशेष. मेन बह्वादिपूर्वान्न कीषित्यर्थः । 'सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र सुखादिगणः
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६०
faranौमुदी
[ स्त्रीप्रत्यय
=सुकालसुखादिपूर्वान्न' ऊरुभिन्नी । नेह बहुकोता । 'जातान्तान्न' ( वा २४७९)। दन्तजाता। 'पाणिगृहीती भार्यायाम्' ( वा २४८० ) । पाणिगृहीता अन्या । (५०) श्रस्वाङ्गपूर्वपदाद्वा ४|१|५३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती - सुरापीता । 'अन्तोदात्तात् किम् वस्त्रच्छन्ना । 'अनाच्छादनात्' इत्यु.
पठितः । ' जातिकाल सुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः' इति 'नसुम्याम्' इति 'बहोर्नष्वदुत्तरपदभूम्नि' इति च कान्तबहुवीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वं स्यान्तोदात्तत्त्रेऽप्यर्थात् पर्युदास इति भावः । करुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रह: । 'निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति, जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति वार्तिकात् । 'जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तु 'जातेरस्त्री'विषयात' इत्यत्र वक्ष्यते । बहुकोतेति । बहवः क्रीताः ययेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् । जातान्तान्न । इति 'वार्तिकम् | 'बहुव्रीहेश्च' इत्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ताः जाताः यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः । पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदृढा भार्या तस्यां विद्यमानादेव पाणिगृहीतशब्दात् ङीषित्यर्थः । 'विवाहका विधिवत् पाणिः गृहीतो यस्या इति विग्रहः । पाणिगृहीताऽन्येति । दास्यादिरित्यर्थः ।
अस्वाङ्गपूर्नपदाद्वा । स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्मास् परं यत् क्तान्तं तदन्तात् बहुव्रीहेर्डीष् वा स्यादिति सूत्रार्थः । यद्यपि अस्वाङ्ग पूर्वपदं यस्य तस्मात् क्तान्तबहुवीहेरित्यपि व्याख्यातुं शक्यम् । तथापि उत्तरसूत्रे अस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम् । ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदन्तान्तबहुबीहि-त्वात् टीविकल्पः स्यादित्याशङ्कयाह-पूर्वेर्णेति । 'बहुवीहेश्वान्तोदात्तात्' इति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः । एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य च इहापि सम्बन्धात् बहुकुता इत्यादी नातिप्रसङ्ग इति भावः । सुरापीति । सुरापीतेति । सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात् किमिति । 'बहुव्रीहेश्व' इत्यत्र श्रुतम् 'अस्वाङ्गपूर्वपदाद्वा' इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत् किमर्थमिति प्रश्नः । वस्त्रच्छन्नेति । ऊरुभिन्नीतिवत् पूर्वनिपातः । अथ वस्त्रच्छन्नेत्यत्र 'जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वमाशङ्कय निरस्पति -- अनाच्छादनादिति । तथाच बहुवीहित्वात् पूर्वपदप्रकृतिस्वरे शेषनिधाते
For Private and Personal Use Only
·
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६१
दात्तनिषेधः । अत एव पूर्वेणापि न डीए। (५१०) स्वाहाच्चोपसर्जनादसंयोगोपधात् ४१५४॥ असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्राति. पदिकाद्वा डोष् । केशानतिकान्ता अतिकेशी-अतिकेशा। चन्द्रमुखी-चन्द्रमुखा । संयोगोपधातु सुगुल्फा । उपसर्जनात् किम् । शिखा । स्वाङ्गं त्रिधा ।
____ 'भद्रवं मूर्तिमत्स्वा प्राणिस्थमविकारजम् । अनुदात्तान्तमेतदिति भावः । अत एनेति । 'अस्वाङ्गपूर्वपदात्' इत्यनेन 'बहुवीहेश्च' इति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च होष नेत्यर्थः। अन्तोदात्तत्व एवोभयोः प्रवृत्तिरिति भावः। __ स्वानाच । उपसर्जनादिति असंयोगोपधादिति च स्वाङ्गादित्यत्रान्वेति । स्वा. ङ्गादित्येतत् अत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणम् , तदन्तविधिः । तदाह-संयोगोपधमित्यादिना। वा ङीषिति । 'अस्वाङ्गपूर्वपदाद्वा' इत्यतः वेति 'अन्यतो डीए' इत्यतः डीषित्यस्य चानुवृत्तेरिति भावः । बहुव्रीहेरित्यनुवर्तमाने उप. सर्जनग्रहणं किमर्थमित्याशङ्कय परिहरति-केशानतिक्रान्तेति । 'अत्यादयः क्रान्ताद्यर्थे इति समासस्तत्पुरुषः । अत्र बहुव्रीहित्वाभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः। 'एकविभक्ति चापूर्वनिपाते' इति केशशब्दस्य उपसर्जनत्वम् । चन्द्रमुखी चन्द्रमुखेति । चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु शोभनौ गुल्फो यस्या इति विग्रहः । 'पदघ्रिश्चरणोऽस्त्रियाम् । 'तद्ग्रन्थो घुटिके गुल्फौ' इत्यमरः । उपसर्जनात् किमिति । केवलकेशादिशब्दानां अनुपसर्जनानां स्त्रीत्वविरहादेवाप्राप्तः प्रश्नः । शिखेति । अत्र स्वाङ्गान्तत्वात् केवलशिखाशब्दात् डीनिवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधित्वा पो ङीष स्यादिति भावः। शोभना शिखा सुशिखेति क्वचित् पुस्तकेषु दृष्टम् तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासे अनदन्तत्वादेव प्राप्तिविरहात् । ___ ननु स्वस्य अवयवीभूतस्य अङ्गं स्वाङ्गम् । तथा च सुमुखा शालेत्यादावतिव्यातिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् । किञ्च सुकेशी रथ्येत्यत्राव्याप्तिः, तत्र केशानां रथ्याङ्गत्वाभावादित्यत आत-स्वाङ्ग विधेति । 'अद्र. वं मूर्तिमत् स्वाङ्ग प्राणिस्थमविकारजम् । अतस्थं तत्र दृष्टं च, तेन चेत्तत्तथायुतम् ।' इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गामिह विवक्षितमित्यर्थः। तत्र प्रथमार्ध प्रथम स्वाङ्गलक्षणमित्यभिप्रत्य विच्छिद्य पठति-पद्रवमिति । न विद्यते द्रवः यस्य तत् अद्भवम् । मूर्तिः अवयवसंयोगः अस्यास्तीति मूर्तिमत् , अवयवसंयोगसमवायि. कारणं द्रव्यमिति यावत् । प्राणिनि प्राणवति जन्तौ विद्यमानं प्राणिस्थम् । अविका. रज रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः। अद्रवमित्यस्य प्रयोजन.
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६२
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
सुस्वेदा, द्रवस्वात् । सुज्ञाना, अमूर्तस्वात् । सुमुखा शाला, अप्राणिस्थत्वात् । सुशोफा, विकारजश्वात् । अतरस्थं तत्र दृष्टं च-सुकेशी- सुकेशा वा रथ्या । अत्रास्थिस्यापि प्राणिनि दृष्टत्वात् । तेन चेत्तत्तथायुतम् । सुस्तनी - सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् । ( ५२१ ) नासिकोदरौष्ठजङ्घादन्तमाह -- सुस्वेदेति । सुशोभनः स्वेदः धर्मजः उदकप्रस्रवः यस्या इति विग्रहः । स्वेदस्य शोभनत्वं तु दुर्गन्धाभावः । द्रवत्वादिति । न स्वाङ्गत्वमिति शेषः । अतो न ङीषित्यर्थः । मूर्तिमदित्यस्य प्रयोजनमाह - सुज्ञानैति । सु शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति । न स्वाङ्गत्वमिति शेषः । प्राणिस्थमित्यस्य प्रयोजनमाह - सुमुखा शालेति । सु शोभनं मुखं प्रथमभागः यस्या इति विग्रहः । श्रप्राणिस्थत्वादिति । न स्वा. ङ्गत्वमिति शेषः । अविकारजमित्यस्य प्रयोजनमाह -- सुशोफेति । सु अधिकः शोफः श्वयथुः यस्या इति विग्रहः । ' शोफस्तु श्वयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः । न स्वाङ्गत्वमिति शेषः ।
अतत्स्थं तत्र दृष्टं चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थम् अप्राणिस्थं तत्र प्राणिनि दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाभावात् पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति - श्रप्राणिस्थस्यापीति । इदानीं प्राणिस्थत्वाभाasपि कदाचित् प्राणिस्थत्वादपि स्वाङ्गत्वमित्यर्थः ।
तेन चेत्तत्तथायुतमिति । तृतीयं स्वाङ्गलक्षणम् । अत्र भाष्ये 'स्वाङ्गमप्राणिनोऽपि इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयव विशेषेण तत् अप्राणिद्रव्यं प्रतिमादि तथा प्राणिद्रव्यवत् युतं सम्बद्धं यदि, तदा तत् स्तनाधाकृतिकं अप्राणिनोऽपि स्वाङ्गमित्यर्थः । सुस्तनी सुस्तना वा प्रतिमेति । शोभनौ स्तनौ स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाभावात् प्राण्यन्तरे अदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति - प्राणिवदिति । सप्तम्यन्ताद्वतिः । प्राणिवत् प्राणिसदृशे प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नच कल्याणपाणिपादेति बहुव्रीहावपि डिप् स्यादिति वाच्यम् ।' अस्वाङ्गपूर्वपदाद्वा' इत्यनुवृत्तेः । अत्र हि पाणिपादेति समुदायो न स्वाङ्गम्, किन्तु स्वाङ्गसमुदाय एव । यतु स्वाङ्गं पादेति न तु तत् अस्वाङ्गात् पूर्वपदात् परम् पाणिपदेन व्यवधानात् । तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात् पूर्वपदात् कल्याणशब्दात परत्वाभावात्र कीषिति भाष्ये स्पष्टम् ।.
"
नासिकौदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च । 'अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति 'अन्यतो
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता।
-
कर्णशृङ्गाच्च ४।११५५॥ एभ्यो वा डोष् स्यात् , आययोर्बह्वज्लक्षणो निषेधो बाभ्यते, पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु 'असंयोगोपधात्' इति पर्युदासे प्राप्ते वचनं मध्येऽपवादन्यायात् । सहनब्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी-तुजनासिकेत्यादि । नेह । सहनासिका। अनासिका । अत्र वृत्तिः । 'अजगात्रकण्ठेभ्यो वक्तव्यम् । स्वजी-स्वजेत्यादि । एतच्चानुक्तसमु.
डीए' इत्यतो कीषिति चानुवर्तते । तदाह-एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः, पूर्वसूत्रादुपसर्जनादित्यनुवृत्तः। ननु 'स्वाङ्गाच्च' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-पाययोरिति । नासिकोदरशब्दयोर्विषये न क्रोडादिबद्वचः' इति निषेषः प्राप्तः, सः अनेन लीष्विकल्पविधिना बाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा इत्यत्र 'सहनश्विधमानपूर्वाच्च' इति निषेधोऽप्यनेन बाध्यताम् । 'सहनाः इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्यत आह-पुरस्तादिति । 'पुरस्तादपवादा अनन्तरान विधीन् बाधन्ते नोत्तरान्' इति न्यायादित्यर्थः। ततश्च 'सहनम्' इति निषेधो 'न क्रोडादि' सूत्रेण व्यवहितत्वात् 'नासिकोदर' इत्यनेन बाधं नाहतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह-ओष्ठादीनामिति । सुगुल्फेत्यादौ असंयोगोपधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा अनोष्ठा इत्यादौ 'सहनन्। इति निषेधोऽप्यनेन बाध्यतामित्यत आह-मध्येऽपवादेति। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति न्यायादित्यर्थः । ननु 'नासिकोदर' इति डीविकल्पस्तुङ्गानासिकी इत्यादौ सावकाशः । 'सहनम्' इति निषेधस्तु सहकेशेत्यादौ सावकाशः, सह. नासिकेत्यादौ तु उभयप्राप्ती कतरस्य बाध इत्यत आह-सहनलक्षणस्त्विति । अस्ये. ति । 'नासिकोदर' इति डीविकल्पविधेरित्यर्थः । तुङगनासिकी। तुङ्गनासिकेति । 'न क्रोडादिबह्वचः' इति बह्वज्लक्षणडीनिषेधं बाधित्वा 'नासिकोदर' इति विकल्पः । इत्यादीति। कुम्भोदरी-कुम्भोदरा । अत्र बह्वजलक्षणडीनिषेधं बाधित्वा बीष्वि. कल्पः । बिम्बोष्ठी-बिम्बोष्ठा । सुजड्धी-सुजड्या। शुभ्रदन्ती-शुभ्रदन्ता । सुकर्णीसुकर्णा । सुशृङ्गी-सुङ्गा। ओष्ठादिषु संयोगोपधत्वेऽपि डीविकल्पः। नेह सहनासिकेति । सहशब्दो विद्यमानवचनः, सह नासिका यस्या इति विग्रहः। अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापि सहनश्विद्यमान' इति की निषेधाः, नतु 'नासिकोदर' इति डीविकल्प इत्यर्थः ।
वक्तव्यमिति । वा डीषिति इति शेषः । संयोगोपधत्वाद्वचनम् । स्वङ्गीति । सु शो. भनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा। वृत्तिन
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
३१४ सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
aaaaaaa च्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । 'भाष्यायनुक्तस्वादप्रमाणम्' इति प्रामा. णिकाः । अत्र वार्तिकानि । 'पुच्छाच्च' (वा २४८९) । सुपुच्छी-सुपुच्छा । 'कर. रमणिविषशरेभ्यो नित्यम्' (वा २४९० )। कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि । 'उपमानात्पक्षाच्च पुच्छाच्च' (वा २४९१)। नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना । (५१२) न फोडादिषहचः ४॥५६॥ क्रोडादेहचश्व स्वाजान्न छोए । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृति गणोऽयम् । सुजघना । (५१३) सहनश्विद्यमानपूर्वाच्च ४१५७॥ सहे. त्यादित्रिकपूर्वान डोष् । सकेशा । अकेशा । विद्यमाननासिका । (११४) न्थस्य मूलं दर्शयति- एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी इत्यपभ्रंशा एवेति भावः । पुच्छाच्चेति । संयोगोपधत्वेऽपि पुच्छशब्दान्तात् डीवेति वक्तव्यमित्यर्थः । कबरमणीति । कबरादिभ्यः परो यः पुच्छशब्दः तदन्तात् नित्यं डी. पिति वक्तव्यमित्यर्थः । पुच्छाच्चेत्युक्तविकल्पापवादः । कवरमित्यस्य व्याख्यानं चित्रमिति। इत्यादीति। मणिपुच्छी। वृश्चिकी विषपुच्छी। शरपुच्छी पक्षिजातिविशेषः। उपमानादिति। उपमानात् परौ यो पक्षपुच्छशब्दौ तदन्तादपि डीषित्यर्थः। नित्यमि. त्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः। विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षविशेषः, उलूकपक्षाविव पक्षौ पार्वे यस्या इति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्या उत्तरपदलोपश्च' इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छं पश्चिमान्तः यस्या इति विग्रहः । पूर्ववदेव बहुव्रीहिः । 'पुच्छाच्च' इति विकल्पस्यापवादः । ___ न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवः अचः यस्येति च विग्रहः । क्रोडा. दिश्च बह्वच् च इति समाहारद्वन्द्वः। क्रोडादेरिति । क्रोडादिर्गणः, बह्वच् च यत् स्वाङ्ग तदन्तात् ङीष नेत्यर्थः। कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । 'स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्त्वम् । अश्वानामिति । हरदत्तादिमते क्रोडा. शब्दो नित्यस्त्रीलिङ्गः। उपसर्जनहस्वत्वे अदन्ततया 'स्वाङ्गाच्चोपसर्जनात्' इति प्राप्तो ङीष् निषिध्यते । अमरस्तु 'न ना क्रोड भुजान्तरम्' इति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोडेति प्रातिपदिकं पठ्यते । एवं च लिङ्गात्रयेऽपि उदाहरणं निर्बाधम् । आकृतिगणोऽयमिति । क्रोडादिरिति शेषः । सुजघनेति । बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः । सहनञ् । त्रिक. पूर्वादिति । स्वाङ्गादिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमामवचनः । 'वोपसर्जनस्यः इति सभावविकल्पः। 'स्वाङ्गाच्च' इति प्राप्तस्य
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६५
नखमुखात्संज्ञायाम् ४।१५८॥ डीन स्यात् । शूर्पणखा । गौरमुखा । संज्ञा. याम् किम् । ताम्रमुखी कन्या। (५१५) दिक्पूर्वपदान्डीप ४११६०॥ दि. क्पूर्वपदात्स्वानान्तात्प्रातिपदिकात्परस्य डीषा कोबादेशः स्यात् । प्राङ्मुखी । आधु. दात्तं पदम् । (५१६) वाहः ४१६१॥ वाहन्तात्प्रातिपदिकान्छीष्स्यात् । कोषे. चानुवर्तते न छोप् । 'दित्यवाट् च मे दित्यौही च मे'। (५१७) सख्यशिश्वी.
निषेधः । 'नासिकोदर' इति डीविकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाह. रति । विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहब्रीहिः । नखमुखात् सन्शायाम् । नखमुखादिति समाहारद्वन्द्वः। शेषपूरणेन सूत्रं व्याचष्टे-ङोष नेति । 'स्वाङ्गाच्च' इति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति । राक्षसीविशेषस्य नाम । शुर्पाणीव कररुहाः यस्या इत्यस्वपदविग्रहः, सज्ञात्वेन नित्यसमासत्वात् । 'पूर्वपदात् सज्ञायाम्' इति णत्वम् । केवलयौगिकत्वे तु ङीष् भवत्येव । णत्वं तु न । गौरमुखेति । कस्याश्चिन्नाम । श्वेतं मुखं यस्या इत्यस्वपदविग्रहः । ताम्रमुखोति । यौगि. कोऽयम् । तानं मुखं यस्या इति विग्रहः ।
दिक्पूर्वपदान्डीप् । दिक् पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च । 'भन्यतो डीप' इत्यतो डीषित्यनुवृत्तं षष्ठया विपरिणम्यते । तदाहदिक्पूर्वेत्यादिना । प्राङमुखीति । प्राक् मुखं यस्या इति विग्रहः । डोषो डीविधेः फलमाह-पायुदात्तं पदमिति। डीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्त. त्वम् । डीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो डीबेव विधीयतामिति वाच्यम् , तथा सति प्राग्गुल्फेत्यादावपि 'असंयोगोपधात्' इति निषेधं बाधित्वा डीप्प्रसङ्गात् । डीपो ङीबादेशविधौ तु 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विहितडीषो डीविधानान्न दोषः। 'असंयोगोपधात्' इत्यस्यानुवृत्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः । वाहः । वाह इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणम् , तदन्तविधिः। तदाह-वाहन्तादिति । ङीषेवानुवर्तत. इति । 'अन्यतो डोष' इत्यत इति शेषः । न ङोबिति । 'दिक्पूर्वपदात्' इति पूर्वसूत्रे सन्निहि. तमपि की ग्रहणमिहानानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः। 'गर्भाश्च मे वत्साश्च मे इत्यनुवाके अनु. क्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते इति यजुवेंदभाष्ये भवस्वा. मिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च रूपष्टम् । दित्यं वहतीति विग्रहे 'च्छन्दसि सहः' 'वहश्च' इति ण्विः, उपधावृद्धिः, उपपदसमासः। दित्यवाह शब्दात् डीए, 'वाह अ 'एत्येधत्यूठसु' इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविष.
For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
ति भाषायाम् ४|१| ६२ ॥ इतिशब्दः प्रकारे भाषायाम् इत्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि कचित् । सखी । अशिश्वी । ' आ धेनवो धुनयन्तामशिश्वीः ।" (५१८) जातेरस्त्रीविषयादयोपधात् ४|१|६३ || जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । 'आकृतिग्रहणा जातिः
यत्वाद्वेदवाक्यमुदाहृतम् । लोके तु वाहयतेः क्विपि, वाहशब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमप्येतत् सूत्रमेतदर्थमिहोपन्यस्तम् ।
1
सख्यशिश्वी । सखिशब्दात् अशिशुशब्दाच्च स्त्रियां ङीषु निपात्यते भाषायाम् । लौकिक प्रयोगो भाषा । तर्हि वेदे नैव स्यादित्यत आह- इति शब्द इति । प्रकारे इत्यनन्तरं । वर्तते इति शेषः । प्रकारः सजातीयता । भाषायामित्यस्येति । सच इति शब्दः भाषायामित्यस्यानन्तरं सन्निवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह-तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, घेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दात्
षि 'यस्येति च' इति खकारादिकारस्य लोपः । भाषायां किम् । 'सखा सप्तपदा भव' । श्रशिरवीति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दात् ङीषि उकारस्य यण् । 'अशिश्वी शिशुना विना' इत्यमरः । छन्दस्यपि कचिदित्यस्योदाहरणमाहधेनवो धुनयन्तामशिरवीरिति । अशिश्वीर ब्दात् जसि 'दीर्घाज्जसि च' इति पूर्वसवदीर्घनिषेधाभावश्छान्दसः !
जातेरस्त्री | अर्थे कार्यासम्भवाच्छन्दे कार्ये विज्ञायत इत्याह- जातिवाचीति । न च स्त्रियाँ नियतमिति । स्त्री विषयः नियमेन वाच्या यस्याः इति बहुव्रीहिणा स्त्रीविष यशब्दो नियतस्त्रीलिङ्गपरः । तथाच अस्त्रीविषयादित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा अस्त्रिया इत्येवावक्ष्यदिति भावः । ननु यदि 'नित्यमेकमनेकानुगतं सामान्यम्' इति तार्किकोक्ता जातिः, तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेस्यादावतिव्याप्तिः, औपगवी कठी इत्यादावव्याप्तिश्च | 'सवर्णेभ्यः सवर्णासु जयन्ते हि सजातयः । इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राह्मणत्वादि सा जातिश्चेद्यवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्र 'जातेश्व' इति पुंवत्त्वनिषेधो न स्यात् इति चेत्, न-आकृतिग्रहणा जाति, लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या, गोत्रं च चरणैः सह ॥” इति भाष्योक्तत्रिवि - धजातेर्विवक्षितत्वात् इत्यभिप्रेत्य भाष्योक्तवैविध्यं प्रपञ्चयति-आकृतिग्रहणा जातिरिति । प्रथमेति शेषः । आकृतिः अवयवसन्निवेशविशेषः । गृह्यते अनेनेति ग्रहणं व्यअकम करणे ल्युट्, सामान्ये नपुंसकम्, आकृतिः ग्रहणं यस्या इति विग्रहः । उप
"
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६७
अनुगतसंस्थानव्यङ्गयेत्यर्थः । तटी।
-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या'असर्वलिङ्गत्वे सत्य कस्या व्यक्ती कथनाठ्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति लक्षणान्तरम् । वृषली । सत्यन्तम् किम् । शुक्ला । सकृत्-इत्यादि किम् । देवदत्ता। -'गोत्रं च चरणैः सह ।। अपत्यप्रत्ययान्तः शाखाध्येतृवाची च
सर्जनत्वात् 'टिड्ढाणम्' इति डीब्न । फलितमाह-अनुगतेति । सर्वासु घटादितत्त. द्वयक्तिषु एकरूपतत्तदाकारव्यङ्गायति यावत् । गृह्यत इति कर्मणि ल्युट् , आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम् , 'टिड्ढाणञ्' इति डीप्प्रसङ्गात् । तटीति । 'तटं त्रिषु' इत्यमरः। जलसमीपप्रदेशः आकृतिविशेषविशिष्टस्तटः, अतस्तटत्वमाकृ. तिव्यङ्गयत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादनियतस्त्रीलिङ्गत्वादयोपधत्वाच लीषिति भावः । युवत्वादिकमप्याकृतिव्यङ्गयत्वात् जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता। ___ नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात् , तदवयवसन्निवेशस्य ब्राह्मणादिसाधारणत्वेन वृषलत्वादीनां तद्वयङ्गयत्वाभावादित्याशङ्कयाह-लिङ्गानां च न सर्वमाक् । सकृदाख्यातनिह्येति । अन्या जातिरिति शेषः । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि लियानि न भजते इत्यर्थः। असमर्थसमास आर्षः । सदित्यतः पूर्वम् एकस्यां ज्यकाविति शेषः । आख्यातेति भावे क्तः, उपदेश इत्यर्थः । निर्मात्यस्य व्यक्त्य. न्तरे उपदेशाविनापिसुगमेत्यर्थः, निरित्युपसर्गवशात् । निर्णाझेत्यनन्तरमन्या जाति. रिति शेषः । फलितमाह-असर्वेति । एकस्यामिति । एकस्यां व्यक्तौ वृषल इत्युपदेशात् व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तर. मित्यर्थः । अन्यथा उक्ततटत्वादिजातेरेव 'आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात् , नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात् । वृषलीति । वृषलत्वं ह्यसर्वलिङ्गं नपुंसकत्वाभावात् , एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्य. सहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात् सकृदाख्यातनिर्याचं चेति भावः । ब्राह्मणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमम् , ब्राह्मणात् क्षत्रियायामुत्पन्नस्य ब्राह्मणत्वाभावात् । तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादा. वेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति । बलाकेति शेषः । 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ।' इति कोशात् विशे. प्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाभावात् शुक्लत्वं न जातिः। अवयवसंस्था. नव्यज्यत्वाभावान्न पूर्वलक्षणमपि । देवदत्तेति । संज्ञात्वेन नपुंसकलिङ्गहोनतया
For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९%
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
शब्दो जातिकार्य लभत इत्यर्थः । औपगवी । कठी। कलापी । बची। ब्राह्मगीत्यत्र तु शारिवादिपाठान्छीना बोबाध्यते । जातेः किम् । मुण्डा। अस्त्रीविष.
असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिर्ग्राह्यत्वमिति भावः। अनेन द्वितीयलक्षणेन जनननिमित्तकब्राह्मणत्वादिजातिसङ्ग्रहः ।।
नन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवस्वादेरनुगतसंस्थानव्यायत्वा. भावात् , सर्वलिङ्गत्वाच्चेत्यत आह-गोत्रं च चरणः सहेति । जातिरित्यनुषज्यते। गोत्रशब्देन अपत्यं विवक्षितम् , नतु पौत्रप्रभृतीति पारिभाषिकम् , व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो डीषिति 'अनुपसर्जनात इति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षित. मिति प्रपञ्चितम् । चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः । चरणैः सह गोत्रं जातिरिति लभ्यते । गोनं चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननवि. शेषप्रयुक्ता चेति द्विविधैव जातिलॊके प्रसिद्धा। तत्र गोत्रचरणा नान्तर्भवन्ति । तथापि 'अतस्मिन् तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ' इत्यभिप्रेत्य व्याचष्टेअपत्यप्रत्ययान्त इत्यादिना । गोत्रमुदाहरति-औपगवीति । उपगोरपत्यं स्त्री इत्यर्थे 'तस्यापत्यम्' इत्यणि 'टिड्ढाणज्' इति डीपं बाधित्वा परत्वादनेन ङीष् । स्वरे भेदः । चरणमुदाहरति - कठोति । कठेन प्रोक्तमधीयानेत्यर्थः । कलापीति । वैशम्पा. यनान्तेवासित्वनिबन्धनो णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् , ततो ङीष् । चरणविषये उदाहरणान्तरमाहबचीति । बहवः ऋचः अध्येयाः यस्या इति विग्रहः । 'ऋक्पूरब्धः पथामानक्षे' अन चबचावध्येतयेव' इत्यकारः समासान्तः, ततो डीए। 'पुरा कल्पे तु नारीणां मौजी. बन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा ।। इति यमादिस्मृतिः। ननु 'लिड़ानां च न सर्वभाक' इति 'गोत्रंच चरणः सह' इति च जातिलक्षणे ब्राह्म. णीति परित्यज्य वृषली औपगवी इत्येवं कुत उदाहृतमित्यत आह-ब्राह्मणीत्यत्रेति । ब्रह्मणः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणि ब्राह्मोऽजातो' इति टिलोपाभावे आदिवृद्धौ ब्राह्मणशब्दः । स्त्रियां तु जातिलक्षणं डीप बाधित्वा'शारिवायत्रो जीन्' इति डीन् , शारिवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः।
तदेवं जातिस्वरूपमुक्त्वा डीविधौ तद्ग्रहणस्य प्रयोजनं पृच्छति -जातेः किमिति । मुण्डेति । मुण्डत्वं नाम विलुप्तसर्वकेशत्वम् । तत्तु नाकृतिव्यङ्ग्यम् . केशद. मायामपि तदाकृतेः सत्त्वात्। नापि 'लिङ्गानां च इति लक्षणलक्षितम् , सर्वलिङ्गस्वात् । नापि गोत्रचरणान्तर्भूतम् । अतो न जातिरिति भावः । अनीविषयात् किमिति।
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६६
यात् किम् । बलाका । अयोपधात् किम् । क्षत्रिया। 'योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः' (वा २४९५)। हयी । गवयी । मुकयो । 'हलस्तद्वितस्य' (सू ४७२) इति यलोपः । [ 'मनोर्जातावभ्यतो घुझ्च' (सू ११८५)] । मनुषी । 'मत्स्यस्य च्याम्' (वा ४१९८) मत्सी । (५१९) पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ४१६४॥ पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि डीस्यात् । मोदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्ममूली । गोवाली । ओषषिविशेष रूढा एते। (५२०) इतो मनुष्यजातेः ।
श६५॥ ीष्स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं स्त्री औदमेयी । विषयग्रहणलभ्यं नियतत्वं प्रवेश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बलाकेति । पक्षिवगें 'बलाका बिसकण्ठिका' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न डोषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलि. गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्ये स्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवक्षित इति न दोषः, जातिविशेषे नियतस्त्रीलिङ्ग-त्वात् । भाष्ये तु अनियतस्त्रीलिडा. त्वमङ्गीकृत्य अजादित्वाट्टाबिति समाहितम् । क्षत्रियेति । 'लिङ्गानां च न सर्वभाक् इति जातिलक्षणसत्वेऽपिायोपधत्वान्न डीषिति भावः।
योपधप्रतिषेधे हयगवयेति । वार्तिकमिदम् । हयादीनां योपधत्वेऽपि डीष् वाच्य इत्यर्थः । इयीति । अश्वा प्रसिद्धा । गवयोति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुकयोति । चतुष्पाज्जातिविशेषः । हल इति । मनुष्यशब्दात् स्त्रियां डीषि मनुष्य ई इति स्थिते 'हलस्तद्धितस्य' इति यकारस्य लोपे 'यस्येति च' इत्यकारलोपे मनुषीति रूपमित्यर्थः । 'हलस्तद्धितस्य' इति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितु. माह-मनोर्जाताविति । तद्धिताधिकारे अपत्याधिकारस्थमिदं सूत्रम् । मनुशब्दादपत्ये अभ्यतो प्रत्ययौ स्तः प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तद. र्थः । मत्स्यशब्दात् डीषि यकारस्य तद्धितावयवत्वाभावादप्राप्ते लापे आह-मत्स्यस्य ड्यामिति । 'सूर्यतिष्यः इति सूत्रे वातिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपः स्यात् ड्यामेवेतिानियमार्थमिदम् । मत्सीति । डोषि यकारलोपे 'यस्येति च' इति लोप इति भावः । ज्यां किम् । मात्स्योऽवतारः। . ___पाककर्ण । 'जातेरस्त्रीविषयात्' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आहस्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थः । नियतस्त्रीलिङ्गत्वात् पूर्वेणाप्राप्ति
- जातिवाचित्वं दर्शयितुमाह-श्रओषधिविशेष रूढा इति । अवयवव्युत्पत्ति. रहिता इत्यर्थः । इतो मनुष्यजातेः । शेषपूरणेन सूत्रं व्याचष्टे-ङीष् स्यादिति । इदन्ता
For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
मनुष्य-इति किम् । तित्तिरिः । (५२१) ऊडुतः ४।०६६॥ उकारान्तादयोप धान्मनुष्यजातिवाचिनः स्त्रियामूङ स्यात् । कुरूः । 'कुरुनादिभ्यो ण्यः (सू ११९० )। तस्य 'स्त्रियामवन्ति--- (सू ११९५) इत्यादिना लुक् । अयोपघात् किम् । अध्वर्युः। 'भप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम्। (वा २५०२) रज्ज्वा. दिपर्यु दासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दी|न्तत्वेऽपि 'नो. न्मनुष्यजातिवाचिनः स्त्रियां डीस्यादित्यर्थः । स्त्रीप्रत्ययविधिषु अत इत्यनुवृत्तेरि. दन्तात् 'जातेरस्त्रीविषयात्' इत्यप्राप्तौ वचनम् । दाक्षीति । दक्षस्यापत्यं स्त्री इत्यय अत इजि, अल्लोपः, आदिवृद्धिः, ङीष् , 'यस्येति च' इति इकारलोपः । 'गोत्रं च चरणैः सह' इति जातिवाचित्वम् । दक्षः प्रजापतिविशेषः। योपधादपीति । अयं डीषिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्य अनुवृत्त्यभावबोधनादिति भावः । औदमेयीति । उदमेयो नाम कश्चित् , तल्यापत्यं स्त्री इत्यथें अत इञ् , 'यस्येति च' इत्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दात् डी, 'यस्येति च' इति इकारलोपः । तित्तिरिरिति । तित्तिरिः पक्षिजातिविशेषः । स्त्रियां ङीष न, अमनुष्यजातिवाचित्वा. दिति भावः। 'स्त्रीपुंसयोरपत्यान्तद्विचतुष्षट्पदोरगाः ।' इत्यमरकोशादयं स्त्रियामपि भवति । द्विपात्त्वात् ।। ___अकुतः । 'अयोपधादिति 'मनुष्यजातेरिति चानुवर्तते, उत इति तद्विशेषणम् , तदन्तविधिः । तदाह-उकारान्तादित्यादिना । कुरूरिति। कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः । 'गोत्रं च चरणैः सह' इति जातित्वम् । कुरुशब्दात् अङि सवर्णदीघः । अङि दा?च्चारणस्य प्रयोजन भाष्ये स्पष्टम् । 'तस्यापत्यम् इत्यणमाशङ्कयाहकुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेण अणपवादो ण्यप्र. त्यय इत्यर्थः । तर्हि स येतेत्यत आह-तस्येति । अध्वर्युरिति। अध्वयुशाखाध्यायिनीत्यर्थः । चरणत्वात् जातित्वम् । 'पुरा युगेषु नारीणां मौजीबन्धनमिष्यते । अध्या. पनं च वेदानां सावित्रीवचनं तथा । इति यमादिस्मृतिः । अप्राणिजातेश्चेति । वाच. कानामिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि उङ उपसख्यान. मित्यर्थः । नन्वत्र उत इति सम्बध्यते वा, न वा, नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात् अलाबूशब्दस्याऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचि. नः उङापत्तेरित्यत आह-रज्ज्वादिपर्युदासादिति । उत इति न सम्बध्यते । अदन्तेषु नातिप्रसङ्गः 'नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति न्यायेन रज्ज्वा. -दिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूडि सवर्णदीर्घ अलाबूशब्दात् उङन्तात् सुबुत्पात्तः । टायां यणादेशे अलब्वा इति रूपम् । एवं कर्कन्धूशब्दादून्तात् टायां कर्कन्ध्वा इति रूपम् । 'कर्कन्धूर्बदरी' इत्यमरः,
For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
४०१
-
धात्वोः' (सू ३७२१) इति विभक्त्युदात्तत्त्वप्रतिषेध ऊः फलम् । प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः, हनुः । (५२२) बान्तात्सायाम् ४।१। ६७॥ स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायाम् किम् । वृत्तबाहुः। (५२३) पङ्गोश्व ४१६८॥ पङ्गः । 'श्वशुरस्योकाराकारलोपश्च' (वा ५०३९)। चादू । पुंयोगलक्षणस्य लीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः (५२४) ऊरुत्तरपदादौपम्ये ४ ॥ उपमानवाचिपूर्वपदमूरूत्तरपदं
-
-
'तुम्ब्यलाबूरुभे समे' इति च। ननु उदन्तत्वादनयोरुविधिय॑र्थ इत्यत आहअनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाभावात् पूर्वेणापि मली। ___ बाहन्तात्सायाम् । 'उकुतः' इत्यतः अङित्यनुर्वते, स्त्रियामित्यधिकृतम् , प्रातिपदिकादिति च । तदाह-स्त्रियामूङ स्यादिति । भद्रबाहूरिति । कस्याश्चित्सज्ञा । सन्शायां किमिति । सज्ञायामित्येतत् किमर्थमिति प्रश्नः । वृत्तबाडुरिति । वृत्तौ बाहू यस्या इति विग्रहः । स्त्रियामपि नोङ । पङ्गोश्च । अङिति सूत्रशेषः। भग्नपादत्वं पडत्वं न जातिः, आसीने शयाने च आकृत्या दुर्ग्रहत्वात् , एकस्यां व्यक्तौ विकलपादोऽयं पङ्गुरिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यवस्थेषु तस्य दुर्घहत्वात् , गोत्रचरणानन्तर्भावाच्च । ततश्च 'अहुत:' इत्यप्राप्तौ वचनमिदम् । स्वशुर• स्येति । वृत्त्यादौ पठितमिदम् । चकारात् ऊङनुकृष्यते । श्वशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे डीषि प्राप्ते तदपवाद उङ, तत्सनियोगेन रेफादकारस्य उकारस्य लोपश्चेत्यर्थः । नच वकारादकारस्य लोपः शयः, 'अन्त्यबाधेऽन्त्यसदेशस्य' इति वचनात् । 'यस्येति च' इति तु नात्र भवति ईकारे तद्धिते च तद्विधानात् । ननु
भूरित्यत्र कथं स्वादयः, 'ड्याष्प्रातिपदिकात्' इत्यधिकृत्य तद्विधेः, अस्य च ड्याबन्तत्वाभावात् , उडन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावादित्यत आहलिङ्गविशिष्टेति । 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषयेत्यर्थः । वस्तुतस्तु श्वशुरस्येति वचनममूलकमेव, भाष्ये अदृष्टत्वात् 'याप्प्रातिपदिकात्' इति सूत्रस्थभाष्यविरोधाच्च । तत्र हि 'ड्याप्प्रातिपदिकात्' इत्यत्र ऊङोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादुङ् विधीयते। तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि हयुक्तरीत्या श्वश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुसत्वेन एकादेशाप्रसक्तेस्तदसङ्गतिः स्पष्टैव । तथाच श्वभू. रित्यव्युत्पन्न प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम् । ऊरूत्तर । ऊरुः उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तर.
२६ बा०
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०२
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः । ( ५२५) संहितशफलक्षणवामादेश्व ४|१|७० ॥ अनौपम्यार्थं सूत्रम् | संहितोरूः । सैव शफोरूः । शफी खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआवच् । लक्षणोरूः । वामोरूः । ‘सहितसद्दाभ्यां चेति वक्तव्यम्' ( वा २५०३ ) । हितेन सह सहितौ
I
1
पदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति उपमीयते अनयेत्युपमा उपमानम्, उपमैव औपम्यं स्वार्थे ष्यञ् । तदाह - उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रह: । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः । इत्यमरः । करभोरुत्वस्याजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्यत्वाभावात् असर्वलिङ्गत्वाद्यभावाच्च । उपमानवाचीति किम् - वृत्तोरुः करभोपमोरुरित्यादौ नोड्, करभशब्दस्य करभसदृशे अवृत्त्या उपमानवाचित्वाभावात् । संहितशफ संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमित्यत आह—अनौपम्यार्थमिति । संहितोरूरिति । संहितौ संश्लिष्टौ ऊरू यस्या इति विग्रह: सैव शफोरूरिति । संहितोरुरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृगोति-- शफौ खुराविति । यद्यपि 'शर्फ क्लीबे खुरः पुमान्' इत्यमरः । तथापि 'शफ खुरे गवादीनाम्' इति चन्द्रकोशात् पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह-ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह - संश्लिष्टत्वादिति । तर्युपमानवाचि पूर्व पदत्वादेव सिद्धमित्यत आह- उपचारादिति । शफवत् वास्तवं संश्लिष्टत्वमवलम्ब्य शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात् तत्सादृश्याप्रतीतेर्नोक्तर्दोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह- लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दात् 'अर्शआदिभ्योऽच्' इत्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुक्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इति विग्रहः । 'वामौ वल्गुप्रतीपौ द्वौ' इत्यमरः ।
सहितेति । सहित सह आभ्यां परः यः ऊरुशब्दः तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिखे पुनः संहितग्रहणं व्यर्थमित्यत आह-हितेनेति । हितेन सहेति विग्रहे 'तेन सह' इति बहुव्रीहौ 'वोपसर्जनस्य' इति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरू
For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
४०३
ऊरू यस्याः सा सहितोरूः। महेते इति सही ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः । (५२६) संज्ञा. याम् ४।१।७२॥ कद्रुकमण्डल्योः संज्ञायां स्त्रियामू स्यात् । कद्रुः । कमण्डलः । संज्ञायाम् किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थ वचनम् । (५२७) शारवायत्रो डीन् ४।११७३॥ शारवादेरमो योऽकारस्तदन्ताच्च जातिवा. चिनो कीन्स्यात् । शाहरवी। बैदी । 'जातेः' इत्यनुवृत्तेः पुंयोगे डोषेव । नृनरयोवृद्धिश्व' (ग ५४ ) इति गणसूत्रम् । नारी। (५२८) यङश्वाप ४१७४॥ रित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह-सहेते इति । रतिकालिकमर्दनमिति शेषः । विद्यमानवचनत्वेऽपि सहभब्दस्य न वैयर्थ्यमित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयर्थ्यमिति भावः। सज्ञायाम् । कद्रुकमण्डल्वोः इति, ऊणिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह-कद्रुकमण्डल्वोः सन्शायां स्त्रिया. मूङ स्यादिति । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वात् लोके सज्ञायामप्राप्तौ अयमारम्भः । करिति नागानां मातुः सज्ञा । एतच्च महाभारतादौ स्पष्टम् ।। कमण्डलूरिति कस्यचिन्मृगस्य सज्ञा। अत एव 'चतुष्पादयो ढञ्' इत्यत्र काम ण्डलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणम् , तस्य स्त्रीलिङ्गत्वाभावात् ।
शागरवाद्यञो ङीन्। शाङ्गरवादीति लुप्तपञ्चमीकम् । अञ इति षष्ठी। अत इत्यनुवृत्तं पञ्चम्यन्ते अन्वेति । जातेरित्यनुवृत्तमता विशेष्यते । तदन्तविधिः । तदाह-शारिवादेरित्यादिना । शाहरवीति । शृङ्गरोरपत्यं स्त्रीत्यर्थे अण, आदिवृद्धिः, रपरत्वम् , ओर्गुणः 'गोत्रं च चरणैः सह' इति जातित्वात् डीषि प्राप्ते डीन् । स्वरे विशेषः । बैदीति । बिदल्यापत्यं स्त्रीत्यर्थः । 'अनुष्यानन्तये बिदादिभ्योऽ। गोत्र. त्वेन जातित्वात् डीषि प्राप्ते डीन् । अषा अकारस्य विशेषणान्नेह-शूरसेनी । 'जनपदशब्दात्' इत्यपत्ये अन् । 'अतश्च' इति तस्य लुक् । अत्र जातिलक्षणीषेव न तु कीन् । अञो लुप्तत्वेन नकारादकारस्य अशोऽवयवत्वाभावात् । नृनरयोवृद्धि. श्चेति । चकारात् डीन् । नारीति । नृनरशब्दयोरुदाहरणम् । तत्र नृशब्दात् 'ऋन्नेभ्यः इति डीपि प्राप्ते डीन् , ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणीषस्तु नृशब्दान्न प्रसक्तिः, तत्र अत इत्यनुवृत्तः। नरशब्दात्तु डीनि नकारादकारस्य वृद्धिः। ननु पर. मपि 'यस्येति च' इति लोपं बाधित्वा अन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादका. रस्य वृद्धिः स्यात् । न च कृतायामपि वृद्धौ ‘यस्येति च' इत्यकारलोपः स्यादिति वाच्यम् , वृद्धिविधिसामर्थ्यादेव तस्य लोपाभावसिधेरिति चेदुच्यते-नृनरयोरिस्पत्र नर, इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः अः नरः, ना च नरश्च नृनरौ,
For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
यङन्तास्त्रियां चाप्स्यात् । यदिति व्यङ्ग्योः सामान्यग्रहणम् । आम्बष्ठया । कारीषगन्ध्या । 'पायञश्चाब्वाच्यः' (वा २५०५)। शार्कराक्ष्या। पौतिमाष्या। (५२६) आवट्याश्च ४।१।७५॥ अस्माच्चाप्स्यात् । 'यज्ञश्च' (सू४७१) इति डीपोऽपवादः । अवटशब्दो गर्गादिः। आवटया। (५३०) तद्धिताः ४१७६ आपञ्चमसमाप्तेरधिकारोऽयम् । (५३१) यूनस्तिः ४।११७७॥ युवन्शब्दात्ति. तयोरिति विग्रहः। नचैवमपि वानरीशब्दे अतिप्रसङ्ग इति वाच्यम् , अर्थवत एव ग्रहणात्। न च नृशब्दात् डीनि वृद्धौ नारीति सिधेनरग्रहणं व्यर्थमिति वाच्यम् , नरत्वजातिवाचिनः नरशब्दात् स्त्रियां जातिलक्षणडीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तु 'नृनरयोवृद्धिश्च' इति गणसूत्रं नारब्धव्यमेव । 'तदस्य धर्म्यम्' इत्यनुवृत्तौ 'ऋतोऽज' इति सूत्रेण 'नरस्य चेति वक्तव्यम्' इति वार्तिकेन च नुर्धा नरस्य धम्यत्यर्थे नृशब्दानरशब्दाच्च अञि, ततः 'टिड्ढाणज! इति डीपि नारीति सिद्धेः। 'नित्यादिनित्यम्' इति प्रकृतेराद्युदात्तत्वे डीपः पित्त्वादनुदात्तत्वम् । ङीयपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाभावात् । नचैवं सति मनुष्यधर्म्यत्वेनव बोधः स्यात् , न तु नरत्वेनेति वाच्यम् , योग्यतया हि तद्धानरत्वजातिविशिष्टैव बुध्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्य 'दिगादिभ्यो यत्' इति भवार्थकतया सिद्धत्वात् 'वसेस्तव्य. त्कर्तरि गिच्च' इति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथंचि. दन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम् ।। ___ यङश्चाप् । पकारी 'हल्याब्भ्यः ' इत्यत्र ग्रहणार्थः। चकारः 'चितः' इत्यन्तोदा. त्तार्थः । सामान्येति । यरूपस्य उभयत्रापि सत्त्वादिति भावः । ज्यङमुदाहरतिआम्बष्ठथेति । अम्बष्ठस्यापत्यं स्त्रीत्यर्थः । 'वृद्धत्कोसल' इति ज्यङ् । आम्बष्ठयशब्दा. च्चाप् । व्यङमुदाहरति-कारीषगन्ध्येति । करीषं गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः करीषगन्धिः । 'उपमानाच्च' इति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेः गोत्रापत्यं स्त्री इत्यर्थे अण्प्रत्ययः । 'अणिजोरनार्षयोः' इति तस्य ध्यादेशः । षाद्यन इति । षकारात् परो यो यज् तदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः । 'गर्गादिभ्यो यज्' इत्युभयन्त्र यज । आवट्याच्च । ननु कथमवटशब्दस्यापत्यमित्यर्थे यजन्तत्वमित्यत आह-प्रवटशब्द इति । आवटयेति। अवटस्यापत्यं स्त्रीत्यर्थः। गर्गादियनि यस्येति च' इत्यका. रलोपे आदिवृद्धौ अवट्यशब्दात् चाए । ___ तद्धिताः । वक्ष्यमाणाः प्रत्ययाः तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकारसूत्रमेतत् । उत्तरावधिमाह-आपञ्चमेति । यूनस्तिः । तद्धिता इत्यनुवृत्तमेकवचनेन विपरि•
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
४०५
प्रत्ययः स्यात् , स च तद्धितः । लिविशिष्टपरिभाषया सिद्ध तद्धिताधिकार उत्तरार्थः । युवतिः। अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तान्लीपि बोध्यम् ।
इति स्त्रीप्रत्ययप्रकरणम् ॥
अथ कारकप्रकरणम् ॥ १६ ॥ (५३२) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा २३४६॥
-
गम्यते । तदाह-युवन्शब्दात् तिप्रत्ययः स्यात् स च तद्धित इति । स्त्रियामिति शेषः । 'समर्थानाम्' इत्यतः प्राक् तदधिकारस्योक्तत्वादिति भावः। नान्तलक्षणीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिया । नच 'कृत्तद्धित' इति प्रातिपदिकत्वार्थे तदनुवृत्तिरिति वाच्यम् , प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात् सुनुत्पत्तिसिद्धेरित्यत आह-लिङ्गविशिष्टस्येति युवतिरिति। स्वादिष्विति पदत्वात् 'न लोप' इति नकारलोपः । अनुपसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उप. सर्जनत्वात्तिप्रत्ययाभावे नान्तलक्षणडीपः 'अनो बहुवीहेः' इति निषेधे 'डाबुभाभ्या. म्। इति डापि च रूपम् । ननु युवतीभिः परिवृत इत्यादौ कथं युवतीशब्द ईकारान्तः इत्यत आह - युवतीति स्विति । 'यु मिश्रणे इत्यस्माल्लटः शतरि, शपो लुकि, उव. डि, उगित्त्वान्डीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः। पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरोणादिके।बाहुलकात् कतिप्रत्यये कित्त्वात् गुणाभावे उवङि उगित्त्वात् डीपि युवतीशब्दः सिध्यतीत्याहुः । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणं समाप्तम् ॥
अथ कारकप्रकरणप्रारम्भः। तदेवम् 'ड्याप्रातिपदिकात्' इत्यधिकृत्य विहिताः स्वा. दिप्रत्ययाः सप्रयञ्चम् निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तिनामर्थविशेष. व्यवस्था दर्शयितमुपक्रमते-प्रातिपदिकार्थ । ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विक प्रातिपदिकार्थः प्रवृत्तिनिमित्तं व्यक्तिः लिङ्ग चेति त्रिकं प्रातिपदिकार्थः, प्रवृत्तिनिमित्त व्यक्तिः लिङ्ग संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिः लिङ्ग संख्या कारकं चेति पञ्चकं चेति पञ्चकं प्रातिपदिकार्थः, इत्येते पक्षाः 'सरूपाणामेकशेष एक
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०६
सिद्धान्तकौमुदी
[ कारक
नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमा त्रे लिङ्गमात्राद्याधिक्ये सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् ।
1
।
'विभक्तौ' 'स्त्रियाम्' इत्यादिसूत्रेषु भाष्ये स्थिताः, मञ्जूषायां प्रपञ्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात् पृथग्ग्रहणं व्यर्थमित्यत माह - निय तेति । नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य 'नियमेनोपस्थितिः स तदर्थं इत्यर्थः । एवञ्च तटः तटी तटम् इत्याद्यनियत लिङ्गेषु नि. यमेन कस्यापि लिङ्गस्योपस्थित्यभावात् प्रातिपदिकार्थ शब्देनाग्रहणात् पृथक् लिङ्गग्र हणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवान्वयभ्रमं वारयति - मात्रश ब्दस्येति । प्रातिपदिकार्थश्च लिङ्गं च परिमाणं च वचनं चेति द्वन्द्वः । प्रातिपदिकार्थलिपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रमित्यस्वपदविग्रहः । मात्र शब्दोऽवधारणे । 'मात्रं कात्स्न्येंऽवधारणे' इत्यमरः । 'मयूरव्यंसकादयश्च' इति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रातिपदिकार्थे, लिङ्ग, परिमाणे वचने च प्रत्येकमन्वय इत्यर्थः । वचनं संख्येति वक्ष्यति ।
ननु प्रातिपदिकार्थमा लिङ्गमात्रे परिमाणमात्रे सङ्ख्यामात्रे च प्रथमेत्यनुपपन्नम्। लिङ्गादीनां केवलानां प्रातिपदिकार्थं विना क्वाप्यनुपस्थितेरित्याशङ्कय अत एव बाधकात् लिङ्गमा अधिके इति विवक्षितमित्यभिप्रेत्य व्याचष्टे - लितमात्राद्याधिक्य इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदिकार्थमात्र इत्यस्योदाहरतिउच्चैरित्यादि । नन्वव्ययेषु 'सामान्ये नपुंसकम्' इति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च भानात् कथं प्रातिपदिकास्योदाहरणान्येतानीत्यत आह-प्रलिङ्गा इत्यादि । 'अव्ययादाप्लुपः' इति सूत्रे 'आब्ग्रहणं व्यथंम लिङ्गत्वात्' इति भाष्योक्तरीत्या अव्यये कस्यापि लिङ्गस्यानुपस्थितिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्वस्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति तेषां नियतलिङ्गत्वात् । अतस्तेषु लिङ्गानामपि प्रातिपदिकार्थान्तर्भावात् तेषामपि प्रातिपदिकार्थमाइत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि कृष्णः पटः, कृष्णा पटी, कृष्णं वस्त्रम् इत्यादौ कृष्णशब्दस्त्रिलिङ्गः, तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नच प्रातिपदिकोक्तार्थे किं प्रथमयेति वाच्यम् एकत्वादिसङ्ख्याबोधार्थस्वात् । नचाव्ययात् प्रथमोत्पत्तेः फलाभावः 'अव्ययादाप्सुपः' इति लुकोऽवश्यं प्रवृसेरिति वाच्यम्, पदत्वार्थं सुनुत्पत्तेरावश्यकत्वात् । तेन उच्चैरित्यादौ रुत्वविसर्गी
"
For Private and Personal Use Only
-
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः- तटी - तटम् । परिमाणमात्रे द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम्, प्रत्ययार्थस्तु परिच्छेयपरिच्छेदकभावेन व्रीहौ वि'उच्चैस्ते सम्यगुच्चारणम्' इत्यादौ तेमयादिसिद्धिश्च भवति । श्रनियतेति । अनियतलिङ्गास्तु तटादिशब्दाः लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकानन्तर्भावादित्यर्थः । तटः तटी तटमिति । 'तटं त्रिषु' इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो ब्रीहिरिति । द्रोण: परिमाविशेषः ।
/
'जालसूर्य मरीचिस्थं त्रसरेणुरिति स्मृतम् । dset fear तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयष्ट ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषः ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पद्वयं तु प्रसृतं द्विगुणं कुढ मतम् । चतुर्भिः कुडवैः प्रस्था प्रस्थाश्चत्वार आढकः । आढकतैश्चतुर्भिस्तु द्रोण इत्यभिधीयते ॥
४०७
कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ॥ इति स्मरणात् ॥
ब्रीहिरिति । जातावेकवचनम् 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' इति वचनात् । व्रीहिराशिरिति यावत् । नह्येकस्याः व्रीहिव्यक्तेः द्रोणपरिमाणं सम्भवति । ननु द्रोणाख्यपरिमाणविशेषस्य वीहिव्यक्तेश्च कथमभेदान्वयः धर्मंधमिणोर्भेदादित्यत आह - द्रोणरूपमिति । तथाचाभेदान्वयस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेद्यपरिच्छेदकभावेनान्वयाभ्युपगमान्त्रोक्तदोष इति भावः । ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियत पुंलिङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तु 'अस्त्रियामाढकद्रोणौ' इति द्विलिङ्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धम् । तत् किं परिमाणग्रहणेनेति चेत्तत्राह - प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेण परिमाणविशेषवाचिद्रोणशब्दात् स्वायें प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थमात्रे इत्यनेन गतार्थता स्यात् । किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात् परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्मकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मका भेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छे परिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्
For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
सिद्धान्तकौमुदी
[कारक
शेषणमिति विवेकः । वचनं सङ्ख्या । एकः। द्वौ। बहवः। इहोक्तार्थत्वाद्विमक्तेरप्राप्तौ वचनम् । (५३३) सम्बोधने च ॥३॥४७॥ इह प्रथमा स्यात् । हे राम ।
(५३४) कारके १४॥२३॥ इत्यधिकृत । (५३५) कर्तुरीप्सिततमं सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यप. रिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यं न प्रतीयेत । तदर्थमिह परिमाणग्रहणमित्यर्थः । ____वचनं सख्येति। पूर्वाचार्येस्तथा संज्ञाकरणादिति भावः। तथाच सङ्ख्यामात्रे प्रथमेति लभ्यते । नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत् सङ्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यम् . केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्य. भावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्विबहुत्वानां केवलानां नियतोप. स्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणांशे एकः द्वौ बहवः इत्युदाहृतम् । ननु एकः द्वौ बहवः इत्यत्र एकत्वद्वित्वबहुत्वानां नियमेनोपस्थित्या 'प्रातिपदिकार्थे। इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आहइहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन प्रथमा. विभक्तरप्राप्तौ तदर्थ वचनग्रहणमित्यर्थः। तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थ प्रयोज्या, 'न केवला प्रकृतिः प्रयोक्तव्या' नापि प्रत्ययः इति अनभिहितसूत्र. भाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्तं भाष्ये-'उक्तेष्वप्येकत्वादिषु प्रथमा' इति । मात्रग्रहणात् कारकाद्याधिक्ये प्रथमा न भवति । अत्र 'अथें प्रथमा' इत्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम् । ___सम्बोधने च । इहेति । सम्बोधने अधिके गम्येऽपि प्रथमा स्यादित्यर्थः। सम्बोधनमभिमुखीकृत्य ज्ञापनम् । हे रामेति । मां पाहीति शेषः । इह राम प्रति मद्रक्षणं ज्ञाप्यम् । न च हे राजन् सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि सम्बोधनप्रथमा स्यादिति वाच्यम् , सम्यक् बोधनमेव हि सम्बोधनम् समित्युपसर्गबलात् । श्रोतरि विशिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थो ज्ञापयितुं शक्यः, नान्यथा । ततश्च सम्बोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाभावान्न सार्वभौमशब्दात् सम्बोधनविभक्तिरिति मञ्जूषायां विस्तरः । इति प्रथमा विभक्तिः।
अथ द्वितीया विभक्तिः । कारके । इत्यधिकृत्येति । संज्ञा वक्ष्यन्ते इति शेषः। क्रिया. जनकं कारकम् , करोति-क्रियां निवर्तयतीति भाष्ये व्युत्पत्तिदर्शनात् । ब्राह्मणस्य पुत्रं पश्यतीत्यत्र ब्राह्मणस्यान्यथासिद्धत्वान्न कारकत्वम् । कर्तुरीप्सित । कारके इत्य. नुवर्तते प्रथमया विपरिणम्यते। आप्तुमिष्यमाणमीप्सितम्। आप्ल व्याप्ती, अस्मात
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४०8
कर्म १।४।४६॥ कर्तुः क्रियया आप्तुमिष्टतम कारक कर्मसम्झं स्यात् । कर्तुः किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । तमन्प्रहणं किम् । पयसा ओदनं भुङ्क्ते । 'कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्य
सन्नन्तात् 'मतिबुद्धिपूजार्थेभ्यश्च' इति.वर्तमाने क्तः। मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । 'कस्य च वर्तमाने' इति कर्तरि षष्ठी। अतिशयेनेप्सितमोक्सिततमम् । धावपा. तव्यापाराश्रयः कर्ता । केनाप्तुमित्याकालायां कर्तृविशेषणीभूतव्यापारेणेत्याल्लभ्यते, तत् फलितमाह-कर्तुः क्रिययेत्यादिना। क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम् । तेन कटं करोति, कृतवान् इत्यादौ नाव्याप्तिः। आप्तिः सम्बन्धः । एवं च कर्ता स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बन्धुमिष्यमाणमित्यर्थः । यथा तण्डुलान् पचति इत्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वा. त्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारः अधिश्रयणोदकासेचनधोपकर्षणप्रज्वलनादिरूप इति 'कारके' इत्यादिसूत्रभाष्ये स्पष्टम् । अत एव 'फलव्यापारयो. र्धातुः' इति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्यविक्लित्तिरूपफलाश्रयत्वात् तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम् । नच व्यापारलाभाय तदिति वाच्यम् , केनाप्तुमित्याकासायां कारकाधिकारादेव तल्लाभादिति पृच्छति-कर्तुः किमिति । माषेश्वश्वं बध्नातीति । माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तदक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यः र्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थ कर्तृग्रहणमिति भावः । कर्तृग्रहणे कृते तु नोक्तदोष इत्याह-कर्मण ईप्सिता माषाः, न तु कर्तुरिति । बन्धनकर्मीभूतस्याश्वस्यैवात्र माषा ईप्सिताः, नतु बन्धनकर्तुः, अश्वरक्षणस्यैव तदपेक्षितत्वादित्यर्थः।।
तमन्ग्रहणं किमिति । तमबन्तमीप्सिततममित्येतत् किमर्थं 'कर्तुरुद्देश्यं कर्म' इत्ये. वास्त्विति प्रश्नः । पयसा ओदनं भुक्ते इति । पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तु. रोदन एव पयसा मिश्रः उद्देश्यः, नतु केवलं पयः, नापि केवल ओदनः । नासौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन । तथापि यदा भुक्तवानेव पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्य भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रणसाधनतया गुणत्वेनैव तदुद्देश्य, नतु भोज्यत्वेन । अतस्तत्र पयसो गुगत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम् , नतु पयसोऽपि । तस्याप्योदन एवाईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । नच तमब्ग्रहणं किमर्थम् , 'कर्तुरीप्सितं कर्म' इत्येवास्त्विति वाच्यम् , 'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्य 'वारणार्थानामीप्सितः' इत्य.
For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
था गेहूं प्रविशतीत्यत्रैव स्यात् । ( ५३६) अनभिहिते २|३|१|| इत्यधिकृत्य । (५३७) कर्मणि द्वितीया २|३|२|| अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि 'प्रातिपदिकार्थमात्रे' इति प्रथमेव । अभिधानं च प्रायेण तिकृत्तद्धितसमासैः । तिङ्, हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः ।
1
[ कारक
पादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति । प्राचीनस्तु कैश्चित् 'तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते' इति ग्रन्थः केवलत मब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननु 'अधिशीङ्स्थासां कर्म' इत्यतोऽनुवृत्तेरह कर्मग्रहणं व्यर्थमित्यत आह - कर्मग्रहणमाधारेति । अधिशीङित्यत्र हि आधारः इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः । ननु हरि भजतीत्यादावसम्भवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह- अन्यथा गेहं प्रविशतीत्यत्रैव स्यादिति । हरिं भजतीत्यादौ न स्यादित्येवकारार्थः ।
1
1
अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः । कर्मणि द्वितीया । 'अनभि हिते' इत्यनुवृत्तं व्याचष्टे - श्रनुक्ते इति । हरिं भजतीति । तुष्टयनुकूलपरिचरणात्मकव्यापारो भजेरथः, पूजादिव्यापारेण हरिं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापार. प्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्टतुष्टयनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः, 'भावप्रधानमाख्यातम्' इति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्टतुष्टयनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसम्मतो नादर्तव्य इति मन्जूषादौ प्रपञ्चितम् । अभिfear | हरिः सेव्यते इत्यादाविति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराभावात् 'अभिहिते प्रथमा' इति वार्तिकाच्चेति भावः । अत्र भाष्ये कटं करोति भीधममुदारं दर्शनीयं शोभनमित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वात् भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्कय 'तिकृत्तद्धितसमासैरभिधानम्' इति परिगणितम् । तत्र प्रायेणेत्यध्याहृत्याह – अभिधानं चेति । समासैरित्यनन्तरं विवक्षितमिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रदर्शनाय । हरिः सेव्यत इति । 'लः कर्मणि' इति कर्मणि लकारः । 'भावकर्मणोः' इत्यात्मनेपदम् । तिङन्तेन अभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्म लकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिषदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति । हरिरिति शेषः । भूते कर्मणि क्तः कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टयाश्रयो हरिरिति बो
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
तद्धित, शतेन क्रीतः शत्यः। समास, प्राप्तः आनन्दो यं स प्राप्तानन्दः । कचि. निपातेनाभिधानम् , यथा-'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।' साम्प्रत. मित्यस्य हि युज्यत इत्यर्थः । (५३८) तथायुक्तं चानीप्सितम् १०॥ धः । 'सत्त्वप्रधानानि नामानि' इति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यकबोधस्यैव सर्वसम्मतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहित. त्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शतेन क्रीतः शत्य इति । पटादिरिति शेषः 'शताच्च ठन्यतावशते' इति यत्प्रत्ययस्तद्धितः। अन कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया। समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः । 'गत्यर्थाकर्मक' इत्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थकर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्रासिकर्मीभूत इति बोधः ।
प्रायेणेत्यस्य फलं दर्शयति-कचिदिति । विषवृक्षोऽपीति असाम्प्रतमित्यत्रा. न्वेति । संवध्येत्यत्र छेसुमित्यत्र चान्वये द्वितीयापत्तेः । तत्र त्वद्विषवृक्षमिति गम्यते । न साम्प्रतमिति विग्रहे नन्तत्पुरुषः। युज्यत इत्थर्थ इति । यजियोगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् । 'युक्ते वे सा. म्प्रतं स्थाने' इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेतिभावः । वस्तुतस्तु।छेत्तुमिति तुमुन्नत्र दुर्लभः । कृष्णं द्रष्टुं यातीत्यत्रेव क्रियार्थक्रियोपपदत्वाभावेन 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इत्यस्याप्रवृत्तेः । 'शकएष' इत्यादिनापि तुमुन्न, शकादियोगाभावात् । किन्तु 'इच्छार्थेषु' इत्यनुवृत्तौ 'समानकर्तृकेषु तुमुन्। इति तुमुन्, अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तः। यथा इच्छति भोक्तुमित्यादि। एवं च तुमुनस्साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संवध्य छेत्तमिष्यत इति यत् तदसाम्प्रतम्-अयुक्तमित्यर्थः । एवं चात्रापि तिडाभिहितत्वादेव द्वितोया. निवारणात् तिङ्कृत्तद्धितसमासैरभिधानम् इति परिगणनवार्तिके प्रायेणेत्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पवमोदनं भुङ्क्त इत्यत्र तु पचिभुजि. क्रियानिरूपिते द्वे कर्मत्वशक्ती। तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्यया. भिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् ।
ननु यथा बहुपटुरित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात् कल्पवादयो न भवन्ति, तया क्रियते कटः इत्यादावपि तिडादिभिरुक्तत्वात् द्वितीयादयो न भवि. प्यन्ति, 'उक्तार्थानामप्रयोगः' इति न्यायात् । किंच कटं करोतीत्यादौ सावकाशा द्वितीया कृतः फटः इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः
For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
सिद्धान्तकौमुदी
[कारक
-
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारक कर्मसंज्ञं स्यात् । प्रामं गच्छंस्तृणं स्पृशति । विर्ष भुक्ते। प्लक्षः इत्यादिः प्रथमाया अवकाश इति वाच्यम् , तत्र गम्यामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः। तथाप्युभयोः सावकाशत्वे परत्वात् प्रथमैव स्यात् । एवं चानभिहिताधिकारो व्यर्थ इति चेत् , मैवम्'कर्मणि द्वितीया' इत्यादीनां 'द्वयेकयोद्विवचनैकवचने' 'बहुषु बहुवचनम् इत्यनयोश्च एकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तन्त्र 'अनभिहिते' इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् । 'अनभिहिते' इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । नच प्रथमाया निरवकाशत्वं शङ्यम् , नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः साव. काशत्वात् । नापि तत्र परत्वात् प्रथमैव भविष्यतीति वाच्यम् , कर्तव्यः कट इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थं इति पक्षे. 'अनभिहिते' इत्यारब्धव्यम् । यदि तु पञ्चकं प्रातिपदिकार्थः इत्यनाश्रित्य कारक विभक्त्यर्थ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोत्तत्वान्न द्वितीयादिविभक्ति. प्रसक्तिः। एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः 'अनभिहिते' इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिवि. स्तरस्तु मञ्जूषायामनुसन्धेयः।
तथायुक्तं चानीप्सितम् । तथाशब्दस्य सादृश्यवाचकस्य प्रतियोगिसापेक्षत्वादाहईप्सिततमवदिति । पूर्वसूत्रे सन्निहितत्वादीप्सिततममेव सादृश्यप्रतियोगीति भावः । क्रिययेति । क्रियाजन्यफलयुक्तमित्यर्थः । पूर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम् । द्वेष्योपेक्ष्यसङ्ग्रहार्थमिदं वचनम् । तत्र उपेक्ष्यमुदाहरति-ग्रामं गच्छंस्तृणं स्पृशतीति । संयोगानुकूलव्यापारः स्पृशेरथः । अत्र स्पृश्यमानस्य तृणस्य ईप्सिततमत्वाभावेऽपि गङ्गां स्पृशतीत्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेखि क्रियाजन्यसंयोगात्मकफला. श्रयत्वात्कर्मत्वमिति भावः । द्वेष्यमुदाहरति-विषं भुङक्त इति । यदा कश्चिदलवता वैरिणा निगृह्यमाणो विषं भुङ्क्ते तदेदमुदाहरणम् । भुजेहि मुखे प्रक्षितस्य गलवि. वरप्रवेशानुकूलः हनुचलनादिव्यापारोऽर्थः। विषस्य देष्यतया ईप्सिततमत्वाभावे. अपि ओदनं भुक्त इत्यादौ भुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगल. विवरप्रवेशात्मकफलाश्रयत्वात् कर्मत्वमिति भावः । नच 'धातूपस्थाप्यफलशालि कर्म' इत्येवास्तु, किमीप्सितानीप्सितयोः पृथक् ग्रहणेनेति वाच्यम् , अग्नेर्माणवक
For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
( ५३६ ) अकथितं च १।४।५१ ॥ अपादानादिविशेषैरविवक्षितं कारकं
कर्मसंज्ञं स्यात् ।
४१३
दुह्याचपचदण्ड्रुधिप्रच्छिचिब्रूशासुजिमधमुषाम् । कर्मयुक् स्यादकथितं तथा स्यानीहृकृष्वद्दाम् ॥
'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्म' इति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् ।
चारयतीत्यत्र हि 'वारणार्थानामीप्सितः' इति माणवकस्यापादानत्वं प्राप्तं तन्निवृस्वर्थं 'कर्तुरीप्सिततमम्' इति वक्तव्यमेव । एवंच द्वेष्योदासीनसङ्ग्रहार्थं ' तथायुक्तं च' इति सूत्रमावश्यकमित्यस्तां तावत् ।
"
अकथितं च । अकथितशब्दं व्याचष्टे - अपादानादिविशेषैरिति । अपादानं सम्प्रदानम् अधिकरणं कर्म करणं कर्ता हेतुः इति कारकसप्तकम् । तदेतद्यदा अपादानत्वादिविशेषात्मना न विवक्षितं, किन्तु सम्बन्धसामान्यात्मनैव तदा तत्कर्मसंज्ञकमित्यर्थः । ननु नटस्य शृणोति इत्यत्र नटसम्बन्धि श्रवणमित्यर्थके नटस्यापि कर्मत्वं स्यात् । तस्य क्रियान्वयित्वेन कारकत्वात् वस्तुतः अपादानस्य सम्बन्धित्वेन विवक्षितत्वाच्चेत्याशङ्कय परिगणयति – दुह्याजिति । वार्तिकार्थं सङ्ग्रहश्लोकोऽयम् । अतो व्याचष्टे - दुहादीनामिति । दुह प्रपूरणे, टु याच याच्ञायाम्, डुपचष् पाके । दण्ड दण्डनिपातने चुरादिः । निग्रह इत्यर्थः, इह ग्रहणार्थकः । रुधिर आवरणे, प्रच्छ ज्ञीप्सायाम् । श्लोके प्रच्छीत्यत्रेकार उच्चारणार्थः । इका | निर्देशे तु 'ग्रहिज्या' इति -सम्प्रसारणप्रसङ्गात् । चिञ् चयने, ब्रून् व्यक्तायां वाचि, शासु अनुशिष्टौ, जि अभिभवे, मन्थ विलोडने, मुष स्तेये इति द्वादशानामित्यर्थः । चतुर्णामिति । णीञ् पापणे, हृञ् हरणे, कृष विलेखने, वह प्रापणे । इति चतुर्णामित्यर्थः । कर्मणा यद्युज्यते इति । कर्मयुमित्यस्य व्याख्यानमिदम् । करणे उपपदे कर्मणि वाच्ये 'सत्सूद्विष' इत्यादिना विविति भावः । यद्यपि
I
'दुहिया चिरुचिप्रच्छिभिक्षिचिणामुपयोग निमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ।
इति प्रकृतसूत्रस्थ लोकवार्तिके पचिमथिमुष्यादयो न पठिताः । तथापि चकारेण dsपि सङ्ग्राह्या इति कैयटः ।
गां दोग्धि पय इति । क्षरणानुकूलव्यापारः क्षारणपर्यायो दुहेरर्थः । क्षारणात्मकव्यापार प्रयोज्यक्षरणात्मकफलाश्रयत्वात्पयः कर्म । गौस्तु क्षरणे अपादानम् । तदपादानत्वमुपेक्ष्य सम्बन्धित्वात्मना गोर्विवक्षायां कर्मत्वमनेन भवति । ततश्च शेष
For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४१४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाष्छतं दण्डयति । व्रजमव
1
षष्ठीनिरासे द्वितीया भवति । तदिदमुक्तं प्रौढमनोरमायाम् - गोसम्बन्धि पयःकर्मकं दोहनमथं इति । तथाच न माषाणामश्नीयादित्यत्रेव शेषत्वविवक्षायां प्राप्तां पष्ठीं बाधितुमिदं सूत्रम् । गोरपादानत्वविवक्षायां तु पञ्चम्येव - गोः पयो दोग्धीति । गोसकाशात् पयः क्षारयतीत्यर्थः । यदि तु गौः पयोविशेषणं तदा षष्ठयेव । गोस म्बन्धि यत्पयः तत् क्षारयतीत्यर्थः । एवमग्रेऽप्यूह्यमिति प्राचीनमतानुसारी पन्थाः । वस्तुतस्तु अपादानत्वादिविशेषरूपेणाविवक्षितं किन्तु कर्मत्वेनैव विवक्षितम् अकथितम् । तादृशमपादानादि कर्मसंज्ञकं स्यादित्यर्थः, कारकत्वव्याप्यसंज्ञानां स्वबोध्ये कर्मत्वादिशक्तिमत्त्वबोधकत्वात् बोधोऽपि तथैव । एवं च गां दोग्धि पयः इत्यत्र गोकर्मकं पयःकर्मकं च दोहनमित्येव बोधः । अवधेः सकाशाद्रवद्रव्यविभागो हि क्षरणम् । तच्च गोपनिष्टव्यापार प्रयोज्यम् । एवञ्च कर्तृव्यापारप्रयोज्यक्षरणात्मकविभागविशेषाश्रयत्वात् गोः पयसश्च पूर्वसूत्राभ्यां कर्मत्वमस्त्येव । अतः उभयकर्मकबोध एव युक्तः, नतु संबन्धित्वेन गोर्बोधः । अत एव प्रकृतसूत्रभाष्ये 'अकथितम्' इत्यनेनैव सिद्धत्वात् पूर्वसूत्रद्वयस्य वैयर्थ्यमाशङ्कय ईप्सितमात्रस्याप्यनेन कर्मसंज्ञायां 'वारणार्थानाम्' इत्यस्यानवकाशतया अग्नेर्माणवकं वारयतीत्यत्र माणवकस्याप्यपादानसंज्ञायां प्राप्तायां 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । ततश्च द्वेष्योपेक्ष्य सङ्ग्रहाय ' तथायुक्तं चानीप्सितम्' इत्यारब्धव्यमिति समाहितम् - 'एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन । तत्रेप्सितस्य किं स्यात् प्रयोजनं कर्मसंज्ञायाः ॥
यन्त कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम् । ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन' ॥
इति श्लोकद्वयेनेति शब्देन्दुशेखरे स्थितम् । 'एतेन कर्मेत्यादिभाष्यार्थस्तु कैय भाष्यप्रदीपोयोते च स्पष्ट इत्यास्तां तावत् ।
1
वलं याचते वसुधामिति । हरिरिति शेषः । बलिर्नामासुरविशेषः । मह्यं देहीति प्रार्थना याचेरर्थः । दानानुकूलो मह्यं देहीति शब्दप्रयोगरूपव्यापार इति यावत् । बलिकर्तृकं वसुधाकर्मकं दानं प्रार्थयत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नव्याः । प्रार्थना रूपव्यापारजन्यदाने जनकतया आश्रयत्वात् । बलिसम्बन्धि यद्वसुधाकर्मकं दानं तत् प्रार्थयत इत्यर्थ इति तु प्राचीनाः । अविनीतं विनयं याचत इति । अभ्युपगमप्रार्थना याचेरर्थः । यदा कश्चिद्बलवान् अविनीतः दुर्बलं कञ्चिद्रबाधते तदा दुर्बलमधिकृत्येदं वाक्यं प्रवृत्तम् | अविनीतकर्तृकं विनयकर्म कमभ्युपगमं प्रार्थमत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नवीनाः । अविनीतसम्बन्धिनमभ्यु
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४१५
-
रुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोतु फलानि । माणवर्क
पगममिति तु प्राचीनाः । तण्डुलानोदनं पचतीति। विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनजनितप्रशिथिलावयवकत्वात्मकं मृविशदत्वं विक्लित्तिः । तया मोदनाख्यद्रव्यान्तरं प्रकृतिभूतेषु तण्डुलेषु समवेतं निष्पद्यत इति स्थितिः । तत्र शिथिलावयवसंयोगविशेषात्मिका विक्लित्तिः समवायसम्बन्धेन तण्डुलेषु वर्तते । ओदने तु जन्यजनकभावेन वर्तते । तण्डुलैः प्रकृतिभूतैः ओदनं करोतीत्यर्थः । तण्डुल. समवायिकारणिकां तत्समवेतामोदनजनिकां विक्लित्तिं निर्वतयतीत्यर्थः । तत्र व्यापारफलं विक्लिति प्रति जन्यतया आश्रयत्वात् ओदनः प्रधानं कर्म । ताहशौदनजनिकां विक्लित्तिं प्रति समवायित्वेनाधारत्वात्। तण्डुलानां गुणकर्मत्वमिति तद्विवक्षायां द्वितीया। तण्डुसम्बन्धिनीमोदनजनिकां विक्लित्ति निर्वतयवी त तु प्राचीनाः।
गर्गान् शतं दण्डयतीति । दण्डधातुः ग्रहणानुकूलव्यापारार्थकः । ताडनादिना गर्ग। भ्यः सुवर्णशतं गृह्णातीत्यर्थः। ताडनादिव्यापारप्रयोज्यग्रहणविषयत्वात् शतं प्रधान कर्म । गर्गाणां तु तद्ग्रहणावधित्वात् गुणकर्मत्वम् । ग्रहणं हि परकीयद्रव्यस्य परस्वत्वानिवृत्तिपूर्वक स्वीकरणम् । तत्र स्वत्वविश्लेषे गर्गाणामवधित्वादपादानत्वम् , ग्रहणघटकतादृशविश्लेषप्रतियोगिभूतस्वत्वाश्रयत्वात् कर्मत्वं च । तत्रापादानत्वमा नादृत्य कर्मत्वविवक्षार्या द्वितीया। गर्गसम्बन्धिकमिति तु प्रायः। व्रजमवरुणद्धि गामिति । निर्गमप्रतिबन्धपूर्वकयस्किञ्चिदधिकरणकचिरस्थित्यनुकूलबन्धनद्वारकपिधानादिव्यापारो रुधेरर्थः। गां निर्गमप्रतिबन्धपूर्वक बजे चिरस्थितिका करोतीत्यर्थः । अन चिरस्थिति प्रति घजस्याधिकरणत्वमुपेक्ष्य गोद्वारा तस्थित्याश्रयतया कर्मत्व. विवक्षायां द्वितीया । व्रजसम्बन्धिनं गोकर्मक चिरस्थित्यनुकूलव्यापारं करोतीत्यर्थ इति प्राचीनाः । माणवकं पन्थानं पृच्छतीति । जिज्ञासितव्यार्थज्ञानानुकूलः केन पथा गन्तव्यमित्यभिलाषादिरूपव्यापारः पृच्छरर्थः। तत्र विषयतया ज्ञानरूपफलाश्रयत्वात् पन्थाः प्रधानकर्म । तज्ज्ञानं प्रति जनकतया आश्रयत्वात् माणवको गुणकर्म । माणव. केन पन्थानं ज्ञातुमिच्छतीत्यर्थः । अत्र माणवके करणत्व मुपेक्ष्य कर्मत्वविवक्षायां द्वितीया। पथिविषयक माणवकसम्बन्धि ज्ञानमिच्छतीत्यर्थ इति प्राञ्चः। वृक्षमवचिनोति फलानीति । वृक्षात् प्रच्याव्य फलान्यादत्त इत्यर्थः। प्रच्याव्यादानानुकूलव्यापारो लो. टप्रहारादिरूपः अवपूर्वकचिम्धातोरर्थः। तत्र प्रच्याव्यादानविषयत्वात् फलानि प्रधा. नकर्म प्रच्यवावधित्वावृक्षोऽपादानम् । तस्यापादानत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया, वृक्षस्य फलप्रच्यवाश्रयत्वेन कर्मत्वात् प्रच्यवस्य विभागस्य द्विनिष्ठत्वात् । वृक्षसम्बन्धि यत् प्रच्युतफलादानं तत् करोतीत्यर्थ इति प्राचीनाः। माणवकं धर्म
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१६
सिद्धान्तकौमुदी
[ कारक
धर्म ब्रूते - शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधि मथ्नाति । देवदत्तं शतं मुष्णाति । प्राममजां नयति - हरति- कर्षति - वहति वा । अर्थनिबन्धनेयं ते शास्ति नेति । बोधनानुकूलव्यापारः 'चोदनालक्षणोऽर्थो धर्म' इत्यादिशब्दप्रयोगामको ब्रूनोsर्थः । माणवकाय धर्म बोधयतीत्यर्थः । व्यापारप्रयोज्यबोधविषयत्वार्मः प्रधानकर्म । बोधविषयेण कर्मणाऽभिप्रेयमाणत्वान्माणवकः सम्प्रदानम् । तस्य सम्प्रदानत्वमुपेक्ष्य धर्मद्वारा बोधाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । धर्मविषयक 'माणसम्बन्धिनं बोधं जनयतीत्यर्थं इति तु प्राञ्चः । शासेस्तु धर्म कुर्वित्यादिविधिघटितशब्दप्रयोगरूपो, बोधनानुकूलव्यापारोऽर्थः । इतरत् प्राग्वत् ।
`शत जयति देवदत्तमिति । जि अभिभवे । ग्रहणानुकूलताडनादिव्यापारो जयतेरथः । गर्गान् शतं दण्डयतीतिवद्व्याख्येयम् । सुधां क्षीरनिधि मध्नातीति । मन्य विलोडने । द्रवद्रव्यगतसारोद्भवनानुकूलः मन्थानदण्डभ्रमजनितसङ्क्षोभात्मक आल्फालनपर्यायो व्यापारो मन्थेरर्थः । क्षीरोदधेः सकाशात् सुधां मन्थानदण्डभ्रमणेनोद्वावयतीत्यर्थः । व्यापारप्रयोज्योद्भवाश्रयत्वात् सुधा प्रधानकर्म । क्षीरोदधिस्तु उद्भवं प्रत्यपादानम् । तस्यापादत्वमुपेक्ष्य सुधाद्वारा उद्भवाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । सुधाश्रयं क्षीरोदधिसम्बन्धिनम् उद्भवं करोतीत्यर्थ इति तु प्राचीनाः । देवदत्तं शतं मुष्णातीति । अपश्यति देवदत्ते तदीयं सुवर्णशतं तस्मादपनीयादत्त इत्यर्थः । परस्वामिकद्रव्यस्य स्वामिनः सकाशादपनीयादानानुकूलः स्वाम्यज्ञातो निशासञ्चारभित्तिच्छिद्रकरणादिरूपव्यापारो मुषेरर्थः । व्यापारप्रयोज्यापनयनपूर्व कादानाश्रय. त्वाच्छतं प्रधानकर्म । अपनयनावधित्वाद्देवदत्तोऽपादानम् । अपादानत्वमनाहत्यापनीयादेयद्रव्यस्वामितया देवदत्तस्यापनीयादानाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । शतकर्मकं देवदत्तसम्बन्ध्यपनीयादानं करोतीत्यर्थ इति तु प्राञ्चः । ग्राममजां नयतीति । ग्रामे अजां प्रापयतीत्यर्थः । णीञ् प्रापणे । देशान्तरसंयोगानुकूलश्चलनगमपर्यायो व्यापारः प्राप्तिः । नतु देशान्तरसंयोगमात्रम् । ग्रामं प्रति चलनदशायामेव . प्राप्नोति गच्छतीति प्रयोगदर्शनात् । चलनेन संयोगे जाते अजा ग्रामं गता प्राप्ते. त्येव दर्शनात् । तादृशप्राप्त्यनुकूलो दण्डोद्यमनमार्गान्तरगतिप्रतिबन्धपूर्वकयोग्यमासंयोजनादिरूपव्यापारो नीधातोरर्थः । एतादृशव्यापार प्रयोज्यग्रामसंयोगतदनुकूलगमनोभयाश्रयत्वादजा प्रधानकर्म । तादृशाजाधारत्वात् ग्रामोऽधिकरणम् । अधिकरणत्वमनादृत्य ग्रामस्यापि तथाविधसंयोगाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । अजाकर्मकं ग्रामसम्बन्धि नयनमित्यर्थं इति तु प्राचीनाः । एवमेव ग्रामम् अजां हरति कर्षति वहतीत्यपि व्याख्येयम् । तत्र देशान्तरसंयोगानुकूलम् अजाचलनं वाहकद्वारकं, तादृशचलनानुकूलव्यापारः स्कन्धग्रहणादिरूपो हरतेरर्थः । रज्जुबन्धनादिना
।
For Private and Personal Use Only
"
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४१७
संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मभाषते-अभिधत्ते-वकीत्यादि । कार. के किम् । माणवकस्य पितरं पन्थानं पृच्छति । 'अकर्मधातुभियोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' (वा ११०३-११०४) । कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते। क्रोशमास्ते ॥
बलाचालनं कृषेरर्थः । शकटायारोपणादिरूपदेशान्तरसंयोगानुकूलप्राप्त्यनुकूलो वहेरर्थ इति विशेषः। - अर्थनिबन्धनेयं संशेति । कैयटादिभिस्तथा व्याख्यातत्वादिति भावः। तथा च एतदर्थकधात्वन्तरसंयोगेऽपि द्विकर्मकत्वं लभ्यते । वस्तुतस्तु भाष्ये याविरुधीत्याधु. दाहतश्लोकद्वयपरिगणिताः दुहियाचिरुधिप्रच्छिमिक्षिचिवमशासय इत्यष्टावेव धा. तवो द्विकर्मकाः। न तु पचिदण्डिजिप्रभृतयस्तदबहिर्भूता अपि । अर्थनिबन्धनेयं सशेत्यपि न युक्तम् , भाष्ये अदर्शनात् , भाष्ये याचिग्रहणेनैव सिद्ध मिक्षिग्रहणवै. यर्थ्याच्च । नन्वेष सति अहमपीदमचोय चोये इति तद्वाजस्य बहुषु' इति सूत्रस्थभाष्यविरोधः । तत्राहि चुदधातुः चौरादिकः प्रच्छिपर्यायः, कर्मणि लट् , उत्तमपुरुषैकवचनम् । अप्रष्टव्यमहं पृच्छय इत्यर्थः । अत्र चुदेर्द्विकर्मकत्वदर्शनात् अर्थनिबन्धनेयं सझेति विज्ञायत इति चेत्, न तावता चुदधातोरपि द्विकर्मकत्वलाभेऽपि तदन्येषां द्विकर्मकत्वे मानाभावात् । अत एव 'कर्तुरीप्सिततमम्' इति सूत्रभाष्ये, दुव्यर्थः पचिः तण्डुलानोदनं पचतीति तण्डुलान्विक्लेदयन्नोदनं निवर्तयतीति गम्यते। सण्डलानोदनं पचतीति तण्डुलविकारमोदनं निवर्तयतीति गम्यते । ओदनं पचतीति ओदनार्थान् सण्दुसान् विक्लेदयतीति गम्यत इत्युदाहृतम् । कर्तुरीप्सितसममित्येव तण्डुलानामपि कर्मत्वमिति पचेरेतदुदाहरणत्वमनुपपन्नमेव । तस्माद्भा. ध्यपरिगणितबहिर्भूतधातूनामन्त वितण्यर्थकत्व एव द्विकर्मकत्वमिति शब्देन्दुशेखरे स्थितम् । ___ ननु कुरून्स्वपिति देवदत्तः, मासमास्ते इत्यादौ कुर्वादेरनुद्देश्यत्वात् 'कर्तुरीप्सि. ततमम् इति कर्मत्वं न सम्भवति । कर्तुरेव स्वापादिक्रियाश्रयत्वात् । 'तथायुक्तम्। इत्यपि न कर्मत्वमित्यत आह-अकर्मकधातुभिरिति । ग्रामसमूहात्मककुरुपञ्चालाव. त्यादिपरोऽत्र देशशब्दः, नतु ग्रामादिरपि । तेन ग्रामे स्वपितीत्यत्र न द्वितीया। अत्र च 'अधिशीस्थासां कर्म' इति लिङ्गम् । अन्यथा अधिशेते अधितिष्ठति अध्या. स्ते वा वैकुण्ठं हरिः इत्यत्राप्यनेनैव कर्मत्वसिद्धस्तद्वैयर्थ्य स्पष्टमेवेत्यभिप्रेत्योदाहरति-कुरून् स्वपितीति । देवदत्त इति शेषः । कुरुषु निद्रां करोतीत्यर्थः । देवदत्तात्तु न तृतीया, तिङा अभिहितत्वादिति भावः । कुर्वादिशब्दाः जनपदविशेषेषु स्वभावान्नित्यबहवचनान्ताः। मासमास्ते इति । मासस्याधिकरणसज्ञां बाधित्वा कर्मत्वम् ।
२७ बा०
For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
( ५४० ) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ १|४|५२ ॥ स्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णो
कम स्यात् ।
गोदोहमिति । दोहनं दोहः । भावे घञ् । भावो धात्वर्थः । गोदोहनकालोऽत्र विवक्षितः । नचेह कालत्वादेव सिद्धिः शङ्कया, अहोरात्रसमूहस्य मासादेरेव तत्र ग्रहणात् । गन्तव्यत्वेनाध्वनो विशेषितत्वात् नियतपरिमाणः क्रोशादिरेव गृह्यत इत्यभिप्रेत्योदाहरति-क्रोशमास्ते इति । गन्तव्यत्वविशेषणादध्वन्यास्ते इत्यत्र न भवति । अनत्यन्तसंयोगार्थमिदं वार्तिकम् । अत्यन्तसंयोगे तु 'कालाध्वनोरत्यन्तसंयोगे' इत्येव सिद्धमिति प्राचीनानुसारी पन्थाः । वस्तुतस्तु 'अकर्मक धातुभिर्योगे' इत्यादिवचनं भाष्ये न दृश्यते । किन्तु अकर्मकधातूनां कथं द्विकर्मकत्वमित्याशङ्कायां 'कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम् । देशश्च' इत्युक्तम् । हिशब्दघटितत्वादिदं न विधायकम्, किन्तु अनुवादकमेव । तथाहि 'कुरून् स्वपिति' इत्यादौ स्वापादिक्रिययां कुर्वादीन् व्याप्नोतीत्यर्थः, धातूनामनेकार्थतया कदाचित् तेषां स्वापादिकरणकव्यापनेऽपि वृत्तेः । ततश्च 'कर्तुरीप्सिततमम्' इत्येव सिद्धम् । यदा तु स्वपादिधातूनां स्वापादावेव वृत्तिः, नतु व्याप्तिपर्यन्ते, तदा कुरुषु स्वपिति, मासे आस्ते इत्यधिक रणत्वमेव । एतच्च 'अकथितं च' इत्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इत्यत्र च भाष्ये स्पष्टम् । अत एव 'मां समां विजायते' इति सूत्रे समायां समायां विजायते इति विग्रहकथनं भाष्ये सङ्गच्छते । अन्यथा द्वितीयाप्रसङ्गात् । अत एव च लकारार्थप्रक्रि यायाम् अत्यन्तापह्नवे लिड्वक्तव्यः' इत्यत्र 'कलिङ्गेष्ववात्सीः नाहं कलिङ्गान् जगाम इति मूलकदुदाहृते वाक्ये कलिङ्गेष्विति सप्तमी सङ्गच्छते । उक्तं च हरिणा - 'कालभावाध्वदेशानामन्तर्भूत क्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ इति ।
इति शब्देन्दुशेखरे प्रपञ्चितम् ।
1
गतिबुद्धि । गतिश्च बुद्धिश्व प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं भक्षणम् गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्माणः, तेषामिति बहुव्रीहिः । अविद्यमानं कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति इन्द्रः । art कर्ता अणिकर्ता । यच्छन्दोऽध्याहार्यः । तदाह - गत्याद्यर्थानामित्यादिना । णौ अनुत्पन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता सः ण्यन्तधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः ।
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४१६
-
शत्रूनगमयत्स्वर्ग वेदार्थ स्वान वेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥
मासयत्सलिले पृथ्वी यः स मे श्रीहरिगतिः । गति- इत्यादि किम् । पाचयत्योदनम् देवदत्तेन । अण्यन्तानाम् किम् । गम. यति देवदत्तो यज्ञदत्तं, तमपरः प्रयुक्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः।
क्रमेणोदाहरति-शत्रूनिति । 'शत्रूनगमयत् स्वर्गम्' इति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन् , तान् यः शस्त्रघातेनागमयत् स्वर्ग स श्रीह. रिमें गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तार, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्या प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्सदाश्रयत्वात् । एवञ्च हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्ताः । प्रयोजककर्तुहरः शाब्दं प्राधान्यम् । अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोजकाधीनत्वात् गुणभूतमेव । शेषित्वलक्षणमार्थप्रा. धान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापारस्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयो. जकव्यापारे सत्त्वात् तदनुरोधि शत्रुगतं कर्मत्वं 'कर्तुरीप्सिततमम्' इत्येव सिद्धम् । अतो नियमार्थमिदं सूत्रम् । णिजथेनाप्यमानस्य प्रयोज्यकत्र्यदि कर्मत्वं भवति, तहिं गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तेन इत्यादौ प्रयोज्यकर्तन कर्मत्वम् , किन्तु कर्तृत्वमेव । तदेतत् 'हेतुमति च' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा । "गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।" इति । स्वधर्मणेति तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रनिष्ठ यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिमें गतिरिति वाक्यार्थः । एवमग्रेऽप्यू. यम् । वेदार्थ स्वानवेदयदिति । बुद्धयर्थधातोरुदाहरणम् । स्वशब्दः आत्मीयपरः, स्वे स्वकीयाः विधिप्रमुखाः वेदार्थमविदुः, तान् हरिः वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्यकर्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन् , तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मणः उदाहरणमेतत् । विधिः ब्रह्मा वेदमधीतवान् , तं हरिः अध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुविधेः कर्मत्वम् । श्रासयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्ते, तां हरिरासयदित्यर्थः । अन पृथिव्याः प्रयोज्यकाः कर्मत्वम् । यः समे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।
For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
सिद्धान्तकौमुदी
[ कारक
-
-
'नौवह्योन' (वा ११०९) । नाययति, वाहयति वा भार मृत्येन । 'नियन्तृकर्तृकस्य वहेरनिषेधः (वा १११०)। वाहयति रथं वाहान्सूतः । 'आदिखायोर्न ( वा ११०९)। आदयति, खादयति वा अन्नं बटुना। 'भक्षरहिंसार्थस्य ना ( वा ११११ ) भक्षयत्यन्नं बटुना। अहिंसार्थस्य किम् । भक्षयति बलीवर्दा. न्सस्यम् । 'जल्पतिप्रभृतीनामुपसङ्ख्यानम्। ( वा ११०७)। जल्पयति भाषयति
नीवोनेति । णीज् प्रापणे, वह प्रापणे इत्यनयोः ण्यन्तयोः प्रयोज्यकर्तः गति. बुद्धि' इत्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वति । भृत्यो भार नयति वहति वा, तं प्रेरयतीत्यर्थः । अन्न प्रयोज्यकर्तुभत्यस्य णिच्प्रकृत्यर्थ नयन वहनं च प्रति कर्तुः प्रयोजकव्यापार प्रति कर्मत्वे निवृत्ते णिच्प्रकृत्यर्थे प्रति कर्तृत्वस्यैव निरप. वादत्वेनावस्थानात् तृतीया बोध्या। यद्यपि नीवह्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेविशेषणत्वेन प्रविष्टतया गत्यर्थत्वात् प्राप्तिरिति भावः । नियन्तृकर्तृकस्य वहेरनिषेध इति । एवञ्च तत्र प्रयोज्यकर्तरुक्तस्य 'नीवह्योन' इति प्रति. षेधस्याभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । वाहाः अश्वाः वहन्ति, तान् सूतः प्रेरयतीत्यर्थः । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । इत्यमरः । 'वहन्ति बलीवर्दाः यवान् , वाहयति बलीवान देवदत्तः इति भाष्योदाहरणात् नियन्ता पशुप्रेरक एव विवक्षितः । आदिखाधोति। अद भक्षणे, खाह भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थक. त्वात् प्राप्तिः । आदयति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयती. त्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमिः त्यर्थः । ननु 'गतिबुद्धि' इति सूत्रे अणौ कर्तुः णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरा. दित्वात् नित्यं स्वाथिकण्यन्तः । तस्याणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषे. धोऽनुपपन्नः, अप्रसक्तत्वादिति चेत् , न-अत एव निषेधालिङ्गात् 'गतिबुद्धि' इति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवञ्च हेतुमणिचि अनुत्पन्ने सति अण्य. न्तभक्षिधातुवाच्या क्रियां प्रति कर्तुः हेतुमण्ण्यन्तवाच्या क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः। भक्षयत्यन्नं बटुनैति। चुरादिण्यन्तात् भक्षधातोहेंतुमणिचि पूर्वणेलोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवञ्च भक्षयत्यन्नं बटुः, खादतीत्यर्थः। तं प्रेरयतीति ण्यन्तस्यार्थः। भक्षयति बलीवन सस्यमिति । क्षेत्रे प्ररूढमलून सत्यमिह विवक्षितम् । तस्य तदानीमन्तः प्रज्ञजीवत्वात् तद्भक्षणं हिंसे. वेति भावः।
जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णो कर्म स्यादिति वक्तव्यमित्यर्थः। जल्पयति भाषयति नेति । धर्ममिति शेषः । पुत्रो धर्म जल्पति भाषते, वा, तं देवदत्तः
For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
वा धर्मं पुत्रं देवदत्तः । ‘दृशेश्व' ( वा ११०८ ) । दर्शयति हरि भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव प्रहृणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरति विघ्रति इत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन । 'शब्दायतेर्न' ( वा ११०५ ) । शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीत कर्मस्वेनाकर्मकत्वात्प्राप्तिः ।
४२१
प्रेरयतीत्यर्थः । गत्यर्थादिष्वमन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एव 'शब्दकर्माकर्मकाणा' मित्यस्य शब्दः कर्मकारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां संग्रहः । भाष्ये तु 'के पुनर्जल्पतिप्रभृतयः, जल्पति विलपति आभाषते' इत्येवोक्तम् । परिमणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये । दृशेश्चेति । 'दृशिर् प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति । 'गतिबुद्धि' इति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनां 'विद ज्ञाने, ज्ञा अवबोधने' इत्यादीनामेव ग्रहणम्, नतु ज्ञानविशेषवाचिनामित्येतत् 'शेश्व' इत्यनेन विज्ञायते । अन्यथा 'हशेश्व' इत्यस्य वैयर्थ्यप्रसङ्गात् । तेनैति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां संग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः ।
शब्दायतेर्नेति । शब्दं करोतीत्यर्थे 'शब्दवैर' इत्यादिना क्यडि, 'अकृत्सार्वधातुकयोः' इति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे वितपा निर्देशोऽयम् । शब्दायेति
तधातोः अणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्ते - नेति । शब्दायते देवदत्तः तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाभावात् प्रयोज्यकर्तृत्वमादाय तृतीयैव । अन शब्दकर्मकत्वात् प्राप्तिरिति भ्रमं निरस्यतिधात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मक कर्म धात्वर्थं अन्तर्भूतम् । अतः शब्दायेति क्यङन्तधातुरकर्मकः, 'धात्वर्थवहिर्भूतकर्मकत्वमेव सकर्मकत्वम्' इति 'खुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं च ' शब्दाययति सैनिकै रिपून' इति कर्म प्रयुञ्जानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । न चाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्, 'अकर्मकधातुभिर्योगे' इति मासस्य कर्मतया आसेरकर्मकत्वासम्भवात् । कि च ओदनादिकर्मणः अविवक्षायां
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
सिद्धान्तकौमुदी
[ कारक
येषां देश कालादिमिन्नं कर्म न सम्भवति तेऽत्राकर्मकाः। न त्वविवक्षितकर्माणोऽपि । तेन'मासमासयति देवदत्तम् इत्यादौ कर्मत्वं भवति। 'देवदत्तेन पाचयति' इत्यादौ तु न ।
(५४१) हक्रोरन्यतरस्याम् ११४५३॥ हक्रोरणौ यः कर्ता स गो वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं-भृत्येन वा कटम् । 'अभिवादिदृशोरात्मनेपदे वेतिवाच्यम्' (वा १११४ ) अभिवादयते दर्शयते देवं भक्तं-भक्तेन । चा। (५४२) अधिशीस्थाऽऽसाङ्कर्म १।४।४६॥ अधिपूर्वाणामेषामांधारः कर्म स्यात् । अधिशेते-अधितिष्ठति -अध्यास्ते वा वैकुण्ठं हरिः। (५४३) अभि. निविशश्च १४.४७॥ अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे सम्प्रदानम्-' (सू ५८०) इति सूत्रादिह देवदत्तः पचति, पाचयति देवदत्तेन यज्ञदत्त इत्यत्र प्रयोज्यकर्तुदेवदत्तस्य कर्मत्वं स्यात् , तदानी पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह-येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । __ हक्रो । हा च का च हकरौ तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः। अन्न प्रयोज्यकर्तु त्यस्य कर्मत्वविकल्पः । हक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । हक्रोरान्तरे तु प्राप्तविभाषा । अ. भ्यवहारयति सैन्धवान सैन्धवैर्वा, विकारयति सैन्धवान सैन्धवैर्वा । अत्र अभ्यवह रते क्षणार्थत्वात् विकारयतेरकर्मकत्वाच्च प्राप्तिः । अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातो शिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौ कर्म वेत्यर्थः । अभिवादयते इति । अभिवदति नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिनि फले 'णिचश्व' इत्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परस्मैपदे तु अभिवादयति देवं भक्तनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति । दर्शयते देवं भक्तं भक्तेन वा। 'गतिबुद्धि' इत्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम् । तथापि 'दृशेश्व' इति नित्यं प्राप्ते विकल्पः। ___ अधिशीथासां कर्म । शीङ, स्था, आस् एषां द्वन्द्वः। अधिपूर्वाः शीवस्थासः इति विग्रहे शाकपार्थिवादित्वादुत्तरपदलोपः। तदाह-अधिपूर्वाणामिति । अधिकरण. -संज्ञापवादोऽयम् । अधिशेते इति। अधिशेते वैकुण्ठं हरिः। अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः । अभिनिबिशश्च । आधार इति कति चानुवर्तते । अभिनीति संघातग्रहणम् । तदाह-अभिनीत्येतत्सङ्घातपूर्वस्येति । अभिनिविशते सन्मार्गमिति । मापहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत्। नन्वेवं सति पापेऽभिनिवेशः
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४२३
मण्डूकप्लुत्या अन्यतरस्यां ग्रहणमनुवयं व्यवस्थितविभाषाश्रयणात्वचिन्न । पापे. ऽभिनिवेशः । (५४४) उपान्वध्यावसः १४॥४०॥ उपादिपूर्वस्य वसतेरा. धारः कर्म स्यात् । उपवसति-अनुवसति-अधिवसति-आवसति वा वैकुण्ठं हरिः । 'अभुक्त्यर्थस्य न' ( वा १०८७ ) । वने उपवसति ।
'उभसवंतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाऽऽदैडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥' (वा १४४४) उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि
इत्यत्रापि कर्मत्वात् द्वितीया स्यादित्यत आह-परिक्रयणे इति ।। 'परिक्रयणे' इति सूत्रादन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात् कचिन्नेत्यन्वयः । तहि अभिनिविशते सन्मार्गमित्यत्रापि विकल्पः स्यादित्यत आह-व्यवस्थितेति । ननु 'परिक्रयणे सम्प्रदानमन्यतरस्याम्, आधारोऽधिकरणम् , अधिशीस्थासां कर्म, अभिनिविशश्च' इति सूत्रक्रमः । तत्र 'अभिनिविशश्च' इत्यत्र कथमन्यतरस्यांग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्। अधिशीस्थासां कर्म' इत्यत्र च तदनुवृत्तेरभावादित्यत आह-मण्डूकप्लुत्येति । तुल्यमिति शेषः । मण्डकाः यथा मध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्येत्यर्थः । 'एष्वर्थेष्वभिनिविष्टानाम्' इति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् । उपान्वध्यावसः। उप अनु अधि आङ् इत्येतेषां द्वन्द्वः । उपान्वध्यापूर्वो वस् इति विग्रहे शाकपार्थिवादित्वात् समासः। तदाह-उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गाः आधारत्व. घोतकाः । अत्र 'वसेरश्यर्थस्य प्रतिषेधः' इति वार्तिकम् । तत्रार्थशब्दो निवृत्तिव. चनः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।' इत्यमरः । भोजनस्यार्थः निवृत्तियं. स्मात् प्रतीयते सः अश्यर्थः, भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् । तदेतदर्थतः सगृह्णाति-अभुक्त्यर्थस्य नेति । ___ अथोपपदविभक्तयः। उभसर्वतसोरिति । वार्तिकम् । उभशब्दसवशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कायेंत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या । 'प्रकृतिवदनुकरणम्' इत्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेन 'उपर्यध्यधसस्सामीप्ये' इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । आमेडितान्तस्येति । द्विरुक्तस्य पर. माझेडितम् , तदन्तेषु कृतद्विवंचनेष्विति यावत् । तथाच कृतद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः। उभयतः कृष्ण गोपा इति । कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः। आधादित्वात् तसिः । 'उभयोऽन्यत्र' इत्ययच् । षष्ठयथें द्वितीया । सर्वतः कृष्णनिति । कृष्णस्य सर्वेषु
For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
सिद्धान्तकौमुदी
[कारक
लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' (वा १४४२-१४४३)। अभितः कृष्णम् । परितः कृष्णम् । प्रामं समया। निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । 'बुभु. क्षितं न प्रतिभाति किञ्चित् । (५४५) मन्तराऽन्तरेण युक्ते २।३।४॥ भाभ्यां योगे द्वितीया त्यात् । अन्तरा त्वां मा हरिः । अन्तरेण हरिं न सुखम् ।
पाश्वेंषु गोपा इत्यर्थः । धिक् कृष्णाभक्तमिति । धिक् निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः । धिष्मूः दैत्यत्र तु निषिद्धाचरणमित्यध्याहार्यम् । उपर्युपरीति । 'उपर्यध्यधसस्सामीप्ये' इति द्विवचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः। अध्यधीति। लोकस्य समीपदेशे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः । अभितः परित इति। 'ततोऽन्यत्रापि दृश्यते' इत्यस्य प्रपञ्चोऽयम् । योगेऽपीत्यनन्तरं द्वितीयेति शेषः । अभितः कृष्णमिति । गोपा इति शेषः। कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पाश्र्वेषु गोपा इत्यर्थः । 'पर्यभिभ्यां च' इति तसिल् । ग्रामं समया निकषेति । समया निकषा इति च आकारान्ते अव्यये। ग्राममित्यस्य प्रत्येकमन्वयः। ग्रामस्य समीपे इत्यर्थः । 'निकषान्तिके' 'समयान्तिकमध्ययो" इति चामरः । 'विलङ्घय लङ्कां निकषा हनिष्यति' इति माघः। हा कृष्णाभक्तमिति । हा इत्याकारान्तमव्ययं खेदे । 'हा विषादशुगाति' इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति-बुभुक्षितमिति । क्षुधार्तस्य किञ्चिदपि न स्फुरतीत्यर्थः । 'भा दीप्तौ' इह तु उपसर्गबलात् स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवं च 'कर्मप्रवचनीययुक्ते द्वितीया' इत्यनेन गतार्थत्वं न भवति ।
अन्तरान्तरेण युक्ते । अन्तरा इत्याकारान्तमव्ययं, ननु टावन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तम् , इति भाष्ये स्थितम् । अन्तरां त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुख नास्तीत्यर्थः । 'पृथग्विनान्तरेणते हिरुनाना च वर्जने ।' इत्यमरः । किमनयोरन्त. रेण गतेनेत्यत्र तु अन्तरशब्दो विशेषवाची। अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाभावान्न तद्योगे द्वितीया। नचैवं सति 'हलोऽन्तः संयोगः' इत्यत्र 'द्वयोश्चैवान्तरा कश्चित्' इति भाष्यप्रयोगः कथमिति शक्यम् , मध्यत्वनिमित्तमवधित्वं हि ययोनिर्णीतं तत्र द्वितीया। ययोस्तु न तन्नि. यस्तन सम्बन्धसामान्ये षष्टेयेव भवति युक्तग्रहणादिति कैयरः ।
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
४२५
(५४६) कर्म वचनीयाः १२४३॥ इत्यधिकृत्य । (५४७) मनुलक्षणे ११४४॥ लक्षणे द्योत्येऽनुरुक्तसज्ञः स्यात् । गत्युपसर्गसज्ञापवादः । (५४) कर्मवचनीययुक्ते द्वितीया २॥३८॥ एतेन योगे द्वितीया स्यात् । पर्जन्यो जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेतौ तृतीया अनेन बाध्यते । 'लक्षणेत्यम्भूत- (सू ५५२ ) इत्यादिना सिद्ध पुनः संज्ञावि
कर्मप्रवचनीयाः । इत्यधिकृत्येति । 'प्राग्रीश्वरान्निपाताः' इति पर्यन्तमिति बोध्यम् । अनुलक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इत्यर्थः । उक्तसन् इति । कर्मप्रवचनीयसम्ज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम् , नतु वृक्षं प्रति विद्योतते विद्युदितिवत् चिह्नमात्रम् , तथा सति 'लक्षणेत्यम्। इत्येव सिद्धेरिति वक्ष्यते । मत्युपसर्गसम्झापवाद इति। अनेन क्रियायोगे एव कर्मप्रव. चमीयसम्शेति सूचितम् । 'कर्मप्रवचनीयाः' इति महासम्माकरणसामर्थ्यादन्वर्थत्वम् । कति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयफ्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किं तु क्रियानिरूपितसम्बन्धविशेष धोतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसम्बन्धस्य धोत्यत्वेन अन्वयात् तत्र गत्युपसर्ग: सज्ञयोः प्राप्तिर्बोध्या।
कर्मप्रवचनीय। युक्ते इति भावे क्तः। तदाह-एतेन योगे इति। पर्जन्यो जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्या, सच दुर्ज्ञानत्वात् शाखा प्रति द्विकलचन्द्र इतिवत् प्रज्ञानं किञ्चिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति सम्भवति । हेतुभूतजपो छात्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवं च वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्वं चेति द्वयं द्वितीयार्थः । तदभयमनुना द्योत्यते। लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तर. कालविशिष्टा वृष्टिाप्यते। ततश्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह-हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात् तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वांशस्य कथमिह लाभः, 'अनुर्लक्षणे' इत्यत्र तदनुपादा. नात्। एवं च हेतुत्वाविवक्षायां वृक्षमनु विद्योतते विद्युदित्यत्र 'अनुर्लक्षणे' इति सावकाशम् । 'हेतौ' इति तृतीया तु धनेन कुलमित्यादौ सावकाशा। पर्जन्यो जपमनु प्रावर्षदित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वात् हेतुतृतीयैव स्यादित्यत आह-परापीति । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनःसल्शेति । वृक्षमनु विद्योतते विद्युत् इत्यत्र हि 'अनुर्लक्षणे' इत्यस्य न प्रयोजनम् ,
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
सिद्धान्तकौमुदी
[ कारक
-
धानसामर्थ्यात् । (५४४) तृतीयार्थ २।४५॥ अस्मिन्धोत्येऽनुरुक्तसज्ञः स्यात् । नदीमन्ववसिता सेना। नद्या सह सम्बद्धेत्यर्थः । 'षिञ् बन्धने' क्तः । (५५०) हीने श४६॥ होने द्योत्येऽनुः प्राग्वत्। अनु हरिं सुराः। हरेहींना इत्यर्थः। (५५१) उपोऽधिके च शहा-७॥ अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सझं स्यात् । अधिके, स मी वक्ष्यते । होने, उप हरिं सुराः । (५५२)
-
'लक्षणेत्यम्' इत्येव सिद्धेः। ततश्च 'अनुर्लक्षणे' इत्यारम्भसामर्थ्यात् हेतुभूते लक्षणे अनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौ तृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।
तृतीयार्थे । अनुरित्यनुवर्तते । कर्मप्रवचनीयाः इत्यधिकृतम् । अस्मिन् द्योत्ये इति । 'सहयक्तेऽप्रधाने इति तृतीयाथें साहित्ये थोत्ये इत्यर्थः। अत्र 'तृतीयार्थे। इत्यनेन कर्तृकरणे न गृह्येते, रामेण शरेणानुहतो वालीत्यत्र 'उपपदविभक्तेः कारकविभक्तिलीयसी' इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः, 'अनन्तरस्य' इति न्यायेन 'कर्मप्रवच. नीययुक्ते द्वितीया' इत्यस्य 'सहयुक्तेऽप्रधाने इत्यस्यैव बाधकत्वात् । तदाहनद्या सह सम्बद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्योतक इति भावः । ननु अवसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-पिञ् वन्धने क्त इति । उपसर्गबलेन सम्बन्धवृत्तेरस्मात क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा यं कमण्डलुना भवान् अद्राक्षीत् , स छात्र इति । सकृदेव हि कमण्डलुपाणिष्टः तस्य कमण्डलुर्लक्षणमिति अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्टम् । तेन व्याप्यात्मकलि.
मेवात्र लक्षणमिति न भ्रमितव्यम् । हीने। हीने द्योत्ये इति । निकर्षे धोत्ये इत्यर्थः । हीन इति भावे क्तः। 'ओ हाक् स्यागे' इति धातोरोदित्त्वात् 'ओदितश्च' इति निष्ठानत्वम् । अनुः प्राग्वदिति । कर्मप्रवचनीयसंज्ञ इत्यर्थः। अनु हरि सुरा इति । अत्र निकृष्टभावोऽनुद्योत्यो द्वितीयार्थः । तदाह-हरेहींना इत्यर्थ इति । हरेरिति षष्ठी प्रति. योगितायाम् , हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः। उपोऽधिके च। चकारात् हीने इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संशमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याहअधिके सप्तमी वक्ष्यत इति । 'यस्मादधिकम्' इत्यनेन कर्मप्रवचनीयसंज्ञाकार्य सप्तमी वक्ष्यत इत्यर्थः । होने इति । उदाहरणं वक्ष्यत इति शेषः । उप हरिं सुरा इति । हरेहींना इत्यर्थः।
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकरणम् १६] बालमनोरमासहिता।
४२७
aaaaaaaaar लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥४॥६॥ 'एश्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसज्ञाः स्युः । लक्षणे, वृक्षं प्रति-परि-अनु वा विद्योतते विद्युत् । इत्थम्भूताख्याने, भक्तो विष्णुं प्रति-परि-अनु वा। भागे, लक्ष्मीहरि प्रतिपरि-अनु वा। हरेर्भाग इत्यर्थः । वोप्सायाम् , वृक्षं वृक्षं प्रति-परि-अनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् । परिषिञ्चति । (५५३) अभि.
लक्षणेत्थंभूत । लक्षणं ज्ञापकम् , अयं प्रकार इत्थं, तं प्राप्तः इत्थंभूतः, तस्याख्यानमुपपादकमित्थंभूताख्यानम् , भागः स्वीकायोऽशः तत्स्वामी विवक्षितः । व्याप्तु कात्स्न्येन सम्बदन्धुमिच्छा बीप्सा । लक्षणं च इत्थम्भूताख्यानं च भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एग्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रि. तम् । व्याप्तुमिच्छायास्तरोत्यार्थत्वाभावादिति भावः । लक्षणे इति । उदाहरण वक्ष्यते इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसम्बन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युत् विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत् , तदु. त्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाभावादनुमेया सा। ततश्च प्रकाशितेन वृक्षेण विशुद्ज्ञानात् वृक्षो लक्षणम् । इत्यम्भूताख्यान इति । उदाहरणं वक्ष्यत इति शेषः। भक्तो विष्णु प्रतीति । भज सेवा. याम्। भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शआधच् , विषयतासम्बन्धः प्रत्यादिद्योत्यो द्वितीयार्थः, तस्य भक्तावेकदेशेऽन्वयः विष्णुविषयकभक्तिमानित्यर्थः । अत्र मतः भक्तिरूपं प्रकारविशेष प्राप्तत्वात् इत्थंभूतः तस्य विष्णुविषयकतया उपपाथत्वाद्विषयतासम्बन्धस्तदुपपादकः प्रतियोत्य इति ज्ञेयम् । भागे इति । उदाहरणं वक्ष्यत इति शेषः। लक्ष्मीहरि प्रतीति । स्वामित्वं द्वितीयार्थः। प्रत्यादिद्योत्यः । तदाह-हरे ग इत्यर्थ इति । हरेः स्वभूतेति यावत् । ___ वीप्सायामिति । उदाहरणं वक्ष्यत इति शेषः। वृक्षं वृक्षं प्रतीति । 'नित्यवीप्सयोः' इति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कात्स्न्येन सम्बन्धात्मिका । तथाच प्रकृत्यर्थगतकात्स्नमेव व्याप्तिः, सा यद्यपि द्विर्वचनधोत्या, तथापि प्रतिपर्यनुयोगे तद्दयोत्यत्वमपि। तथाच कृत्स्नं वृक्षं सिञ्च. तीत्यर्थः । व्यक्तिकात्स्यमिह विवक्षितम् , नत्ववयवकात्स्यमिति 'नित्यवीप्सयो? इत्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धः किमिह कर्मप्र. वचनीयसंज्ञयेत्यत आह-अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तम् । अतोऽत्र प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् 'उपसर्गात् सुनोति' इति षत्वं न भवति । कर्मप्रवचनीयत्वाभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य पत्वं स्यादित्यर्थः । भाष्ये तु 'किमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
सिद्धान्तकौमुदी
[ कारक
रभागे ११४१॥भागवर्जे लक्षणादावभिरुक्तसम्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिममि । देवं देवमभि सिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दी. यताम् । (५५४) अधिपरी मनर्थको ११४।६॥ उक्तसज्ञौ स्तः। कुतो. ऽध्यागच्छति । कुतः पर्यागच्छति । गतिसज्ञाबाधात् 'गतिर्गतौ' (सू ३९७७ )
उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाभावे तदप्रसक्तरित्याक्षिप्य द्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधानम्। इत्युक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तद. विवक्षायां सम्बन्धविवक्षायां षष्ठी बाधितुमिदं कर्मप्रवचनीयत्वविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसम्बन्धे अन्वयेन अन्तरङ्गत्वात्तनिमित्तषष्ठीबाधनार्थमिदम् । वृक्षं वृक्षं प्रति पक्षिण आसते इत्यादौ अकर्मकधातुयोगे अधि. करणादिसंज्ञानिरासार्थ चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च रूप. ष्टम् । एषु किमिति । लक्षणेत्थंभूताख्यानभागवीप्वास' इति किमर्थमित्यर्थः । परिसिवतीति । अग्निमित्यादि शेषः । अत्र लक्षणाद्यभावात् कर्मप्रवचनीयत्वाभावे 'उपसर्गा. त्सुनोति' इति षत्वमिति भावः । अभिरभागे। लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति-हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावः अभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थंभूताख्याने उदाहरणमिदम् । विषयतासम्बन्धः अभियोत्यो द्विती. यार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभिसिन्चतीति । कात्स्यसम्बन्धात्मिका व्याप्तिद्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्च. तीत्यर्थः । षत्वाभावादि पूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वामिभावः षष्ठयर्थः । अभिस्तयोतकः । अत्र संसृष्टद्रव्ये यत् वस्तु मम स्वभूतं स्यात् , तत् मह्यं दीयतामित्यर्थः । स्यादित्यस्तेलिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासात् उपसर्गत्वस्य निर्वा धत्वात् 'उपसर्गप्रादुर्ध्यामस्तिर्यच्परः' इति षत्वम् ।
अधिपरी अनर्थको । उक्तसंज्ञौ स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः। कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र कुत इत्यपादानापञ्चम्यास्तसिल । कस्मात् प्रदेशा. दागच्छतीत्यर्थः । नन्वत्र अधिपोरनर्थकतया सम्बन्धस्य तद्योत्यत्वाभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याभावान्न द्वितीयाप्रसक्तिरित्यत आहगतिसंज्ञाबाधादिति । अत्र 'गतिगतो' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये कुत इत्युपात्तमिति भावः। अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवार्थान्तरघोतकत्वाभावेऽपि धात्वर्थयोतकत्वमस्त्येव । अर्थान्तरघोतकत्वाभावेन अनर्थ
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४२8
इति निघातो न (५५५) सुः पूजायाम् १।४।६४॥ सु सिकम् , सु स्तुतम् । अनुपसर्गत्वान्न षः। पूजायाम् किम् । सुषितं किं स्यात् तवात्र । क्षेपोऽयम् । (१५६) मतिरतिक्रमेण च १४५॥ अतिक्रमणे पूजायां च अतिः कमप्रवचनीयसम्ज्ञः स्यात् । अति देवान्कृष्णः । (५५७) मपिः पदार्थसम्भावना. ऽन्ववसर्गगर्दासमुच्चयेषु १।४।६६॥ एषु घोत्येष्वपिरुक्तसञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । सम्भावनायो लिङ् । तस्य एव विषयभूते
-
कत्वव्यवहारः । उक्तं च भाष्ये-अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः" इति । एवंच क्रियायोगाभावात् गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता । सुः पूजायाम् । कर्मप्रवचनीय इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह-अनुपसर्गस्वान्न प इति । 'उपसर्गात् सुनोति' इत्यनेनेति शेषः । पूजायां किमिति । सुना पूजायाः नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं स्यात् तवासि । त्वया सम्यक सिक्तं, किन्तु अत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दात्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्म. प्रवचनीयत्वम् । तदभावात् 'उपसर्गात् सुनोति' इति षत्वमिति भावः । अतिरतिक्रमेण च । चकारात् पूजायामिति समुच्चीयत इत्याह-पूजायां चेति । अतिक्रमणमु. चितादाधिक्यम् । अति देवान् कृष्णः इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्येऽर्थे 'कुगतिप्रादयः' इति समासो न । 'स्वती पूजायाम्। इति नियमात्। द्वितीये त्वनभिधानान्नेत्याहुः।।
अपिः पदार्थ । पदार्थश्च सम्भावनञ्च अन्ववसर्गश्च गहरे च समुच्चयश्चेति द्वन्द्वः। एषु द्योतकतया विद्यमानः अपिः कर्मप्रवचनीय इत्यर्थः । तदाह-एष्विति । अप्रयुज्य. मानस्य पदान्तरस्यार्थः पदार्थः, तद्योतकमपिमुदाहरति-सर्पिषोऽपि स्यादिति । यत्रातिदोलभ्यादत्यल्पमाज्यं भुनानेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रा. पेः कर्मप्रवचनीयत्वे प्रयोजनमाह-अनुपसर्गत्वान्न ष इति । 'उपसर्गप्रादुर्ध्याम्' इत्यनेनेति शेषः । अपिद्योत्यं पदार्थ विशदयितुमाह-सम्भावनायां लिङिति । 'उपसंवादा. शङ्कयोश्च' इति सूत्रे 'उपसंवादाशङ्कयोलिङ। इति पठितवचनेनेति शेषः । तत्र आशङ्का उत्कटान्यतरकोटिका शङ्का, सम्भावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः। अस्धातोश्च भवनमर्थः, 'अस भुवि' इत्युक्तेः । भवनं च सत्ता, 'भू सत्तायाम्' इत्युक्तेः। ततश्च सम्भावना. विषयीभूतभवनार्थकादस्धातोः कर्तरि लिङि इनसोरलोपे यासुडागमादौ स्यादिति रूपम् । तेन च सम्भावनाविषयभवनाश्रयः कर्ता अवगतः, सच कर्ता क इत्यकासायां
For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
सिद्धान्तकौमुदी
[कारक
भवने कर्तृदोलभ्यप्रयुक्तं दौलभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते । सर्पिषः इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् , सम्भावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः। अपि स्तुहि, अन्ववसर्गः कामचारानुज्ञा । धिग्देवदत्तम् अपि स्तुयावृषलम् ,
प्रकरणात् औचित्यात् सर्पिष इत्यवयवषष्ठाबलाच्च बिन्दुरिति गम्यते, तमेवापिशब्दो योतयति, सच बिन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे सम्भावनाविषये भवने स्वस्य बिन्दोर्दोर्लभ्यात् तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, सम्भावनाविषयत्वबोधे दौर्लभ्यस्यापि सम्भावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो योतयति । एवं च बिन्दोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसम्बन्धेन च स्यादित्यत्रा. न्वयः । तदाह--तस्या एवेति । सम्भावनाया एवेत्यर्थः । कर्तुबिन्दोर्दोर्लभ्यात् भवन. क्रियायां यत् दौर्लभ्यं तद्योतयन् अपिशब्दः स्यादित्यनेन सम्बध्यत इत्यर्थः । ननु सपिरेव कर्तृत्वेनान्वेतु इत्यत आह-सर्पिषः इति । सम्बन्ध इत्यनन्तरं वर्तत इति शेषः । एवंच सपिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बिन्दुकर्तृका सम्भावनाविष. यीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनापिना अन्वयसत्त्वात् सपिषो द्वितीया स्यादित्यत आह-द्वितीया तु नेति । कुत इत्यत आह-सर्पिष इति । सर्पिषः बिन्दुनैव योगः, न त्वपिनेत्येवं सपिक इति षष्ठी स्वित्यादिसन्दर्भण उक्तत्वादित्यर्थः। कर्मप्रवचनीयद्योत्यसम्बन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम् , प्रकृते च अपिद्योत्यस्य उक्तसम्बन्धस्य बिन्दुरेव प्रतियोगी नतु सपिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाहृत्य सम्भावना द्योतकमपिमुदाहरति-अपि स्तुयाद्विष्णुमिति । 'सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे' इति लिङ्।
सम्भावनपदं व्याचष्टे-सम्भावनमित्यादिना। अवाङ्मनसगोचरं विष्णुमपि स्तु. यात् । स्तोतुं शक्त इत्यर्थः। अत्युक्तिरियम् अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात् 'उपसर्गात् सुनोति' इति षत्वं न । अन्ववसर्गद्योतकमपिमुदाहरति-अपि स्तुहीति । स्तुहि वा, नवा,. यथेष्टं कुवित्यर्थः । अन्ववसर्गपदं व्याचष्टे-अन्ववसर्गः कामचारानुशेति । "प्रेषातिसर्ग' इति लोट् । गर्हाद्योतकमपिमुदाहरति-अपि स्तुयाद् वृषलमिति । 'गीयां लड. पिजात्वोः' इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च सम्भानायां लिङ। अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेनिन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्त
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
गरे । अपि सिञ्च, अपि स्तुहि, समुच्चये । (५५८) कालाध्वनोरत्यन्तसंयो. गे।३।५॥ इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः। कोशं कुटिला नदी। क्रोशमधीते । क्रोश गिरिः । अत्यन्तसंयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।
() स्वतन्त्रः कर्ता ११४५४॥ क्रियायां स्वातन्त्र्येण विवक्षितो. अर्थः कर्ता स्यात् । (५६०) साधकतमं करणम् ॥४॥४२॥ क्रियासिद्धौ
मिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति-अपि सिञ्च अपि स्तुहीति । अपि. द्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाभावः । सिञ्च, स्तुहि चेत्यर्थः। ___ कालावनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः। निरन्तसंयोगः अत्य. न्तसंयोगः। अन्तः विच्छेदः तमतिक्रान्तः अत्यन्तः स चासो संयोगश्चेति विग्रहः। गुणक्रियाद्रव्यरित्यौचित्यात् गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र णात्यन्तसंयोगे उदाहरति-मासं कल्याणीति । भवतीति शेषः। त्रिंशद्दिनात्मको मासः। तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति-मासम. धीते इति । त्रिंशदिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रव्यात्यन्त. संयोगे उदाहरति-मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुणधानाः सन्ती. त्यर्थः। कालात्यन्तसंयोगमुदाहृत्य मध्वात्यन्तसंयोगे उदाहरति-क्रोशं कुटिला नदीत्यादि । मासस्य द्विरिति । मासे निशदिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमि. त्येवं द्विरधीत इत्यर्थः । द्वित्रिचतुर्व्यः सुच्' इति द्विशब्दात् कृत्वोऽथे सुच् 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति षष्ठी। शेषषष्ठीति केचित् । 'शिवरात्रौ जागृयात! इत्यत्र तु अधिकरणत्वस्य विवक्षितत्वात् सप्तमीत्याहुः। उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया विभक्तिः।। __अथ तृतीया विभक्तिः । स्वतन्त्रः कर्ता । कारकाधिकारात् क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह-क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । मनु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याभावादित्यत आहविवक्षितोऽर्थ इति । 'विवक्षातः कारकाणि भवन्ति' इति भाष्यादिति भावः । स्वात. त्रयं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्तिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा'धातुनोक्तक्रिये नित्य कारके कर्तृतेष्यते । इति । धातूपात्तव्यापारवतीत्यर्थः । साध
For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४३२
www.kobatirth.org
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ कारक
1
प्रकृष्टोपकारकं कारकं करणसज्ञं स्यात् । तमब्ग्रहणं किम् । गङ्गायां घोषः । ( ५६१ ) कर्तृकरणयोस्तृतीया २|३ | १८ || अनभिहिते कर्तरि करणे व तृतीया स्यात् । रामेण बाणेन हतो वाली । ' प्रकृत्यादिभ्य उपसंख्यानम्' ( बा १४६६) । प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणेति । द्विद्रोणेन धान्यं क्री. कतमं करणम् । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कर्त्रा क्रियायां जनयितव्यायां यत् सहायभूतं तदुपकारकमित्युच्यते । साधकतममित्यस्य व्याख्यानमेतत् । साधकशब्दात् 'अतिशायने तमप्' इति तमण् । अतिशयितं साधकं साधकतममिति भावः । यद्वयापारानन्तरं क्रियानिष्पत्तिः तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराव्यवहिता क्रियानिष्पत्तिः तत्तस्यां करणमिति यावत् । तमग्रहणं किमिति । साधकमित्येवोच्यताम् । कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः– कारकप्रकरणे गौणमुख्यन्यायः एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थ तमब्ग्रहणम् । अन्यथा 'आधारोऽधिकरणम्' इत्यत्र अन्वर्थमहासंज्ञाबला - देवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात् सर्वावयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं च तिलेषु तैलं दनि सर्पिरित्यादावेव स्यात् । गङ्गायां घोषः, कृपे गर्ग कुलमित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणम्' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।
'कर्तृकरणयोस्तृतीया । 'अनभिहिते' इत्याधिकारादाह - अनभिहित इति । रामेणेति । रामकर्तृकबाणकरणक हिंसा क्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसङ्ख्यानमिति । तृतीयाया इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्त्यपवादः । प्रकृत्या चारुरिति । सम्बन्धस्तृतीयार्थः । प्रकृतिः स्वभावः, तत्सम्बन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवायमभिरूपः न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते, तदा 'कर्तृकरणयोः' इत्येव सिद्धमिति भाष्यम् । प्रायेण याज्ञिक इति । प्रायशब्दो बहुलवाचा । बहुलाचारसम्बन्धियाज्ञिकत्ववानित्यर्थः । सम्बन्धश्च ज्ञाप्यज्ञापकभावः । बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु 'इत्थम्भूतलक्षणे' इत्येव सिद्धम् | बहुलेन आचारेण सम्पन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गार्ग्य इति । गोत्रमस्य गार्ग्य इत्यर्थः । अत्र प्रथमा प्राप्ता । गोत्रेण हेतुना ज्ञाप्यगार्ग्यत्ववानित्यर्थे तु ' इत्थम्भूतलक्षणे' इत्येव सिद्धम् इति भाष्यम् । समेनैति, विषमेतीति । क्रियाविशेषणमेतत् । समं विषमं च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धम् इति भाष्यम् । द्विद्रोणेन धान्यं क्रीणातीति । द्वयोर्द्रोणयोः समाहारः
1
For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४३३
गाति । सुखेन दुःखेन वा यातीत्यादि (५६२) दिवः कर्म च १४४४३॥ दिषः साधकतमं कारक कर्मसझं , स्यात् , चाकरणसम्झम् । अक्षरक्षान्वा दीव्यति । (५६३) अपवर्गे तृतीया २॥३६॥ अपवर्गः फलप्राप्तिः, तस्यां योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वा अनुवाकोऽधीतः । अपवर्ग किम् । मासमधीतो नायातः। (५६४) साहयुक्ते. ऽप्रधाने २।३।१६॥ सहायन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण, सहा. गतः पिता । एवं साकंसासमंयोगेऽपि । विनापि तद्योगं तृतीया। 'वृद्धो यूना(सू ९३१) इत्यादिनिर्देशात् । (५६५) येनाविकारः २३॥२०॥ येनान द्विद्रोणम् । पात्रादित्वान्न बीत्वम् । द्विद्रोणसम्बन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धम् इति भाष्यम् । सुखेनेति । सुखजनक यानं करोतीत्यर्थः। क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नाम्ना सुतीक्ष्णः । नामसम्बन्धिसृतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थम्भूतलक्षणे इत्येव सिद्धम् । धान्येन धनवानित्यत्र तु अभेदस्तृतीयार्थः । धान्याभिनधनवानित्यर्थः । वतित्वेन वहिं जानामीत्यत्र तु प्र. कारत्वं तृतीयार्थः । वड़ित्वप्रकारकवकिज्ञानवानस्मीत्यर्थ इत्याग्रुह्यम् ।
दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह-दिवः साधकतममिति । दिवुधात्वर्थ प्रति साधकतममित्यर्थः । चादिति । चकारात् करणसंज्ञकमित्यपि लभ्यत इत्यर्थः। अपवर्गे तृतीया। अपवर्गः समाप्तिः, 'कर्मापवगें लौकिका अग्नयः' इत्यादौ दर्शनात् । इह तु फलप्राप्तिर्विवक्षिता । फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः। तदाहअपवर्गः फलप्राप्तिरिति । कालावनोरिति । अनेन 'कालाध्वनो इति द्वितीयाया अयमपवाद इति सूचितम् । भहेति । अहि क्रोशे वा निरन्तरम् अनुवाकोऽध्ययनेन गृहीत इत्यर्थः। नायात इति । न गृहीत इत्यर्थः। सहयुक्ते । 'पृथग्विनानानामिा इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह-सहार्थेनेति । पुत्रेणेति । पितुरन्त्रागमनक्रियासम्बन्धः शाब्दः । पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पु. वात् तृतीया सिद्धा । तथापि पुत्रेण सह स्थूल इत्याद्येवास्य मुख्योदाहरणम् इति. भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह-एवं साकमिति । ननु 'पुत्रेणागतः पिता' इत्यन्न सहादिशब्दाभावात् कथं तृतीयेत्यत आह-विनापीति । 'वृद्धो यूना तल्लक्ष. गाचेत्' इति सूत्रे सहादिशब्दाभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः। येनाङ्गविकारः। अङ्गान्यस्य सन्तीत्यङ्ग शरीरम् । अर्शआयच् । तस्य विकार इति
बा० २०
For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३४
सिद्धान्तकौमुदी
[ कारक
विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्ब न्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य । (५६६ ) इत्थंभूतलक्षणे २|३|२१|| कञ्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः । ( ५६७) सम्शोऽन्यतरस्यां कर्मणि २|३|२२|| सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते । (५६६) हेतौ २।३।२३॥ हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च ।
विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्यविकृतेन अङ्गेन अङ्गिनो विकारः सम्भवति । तदाह - येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । सम्बन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह - प्रक्षिसम्बन्धीति । सम्बन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते । तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारा निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः । इत्थम्भूतलक्षणे । अयं प्रकारः इत्थं, तं भूतः प्राप्तः इत्थंभूतः 'भू प्राप्तौ' इति चौरादिकात 'आष्टषाद्वा' इति णिजभावे गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः । लक्षणं ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके ( सम्बन्धे द्योत्ये ) इत्यर्थः । तदाह - कञ्चित्प्रकारमिति । जटाभिस्तापस इति । तपः अस्यास्तीति तापसः । 'तपस्सहस्राभ्यां विनीनी' 'अण्च' इति मत्वर्थीयः अण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह - जटाज्ञायेति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यम्, करणत्वाविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् । संज्ञोऽन्यतरस्यां कर्मणि । सम्पूर्वस्य ज्ञाधातोरनुकरणात् षष्ठयेकवचनं 'संज्ञ' इति तदाह - सम्पूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । सन्जातीते इति । सम्यक् जानीते इत्यर्थः । 'सम्प्रतिभ्यामनाध्याने' इत्यात्मनेपदम् ।
1
,
तो । वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एवं विवक्षितः, नतु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्कय हेतुत्वकरणत्वयोर्भेदमाह - द्रव्यादि - साधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियां च प्रति यज्जनकं तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निर्व्यापारसव्यापारवृत्ति च यत् तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारव
For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिका' । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति
1
४३५
वृत्ति च यत् तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोः भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति-- दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति- पुण्येन दृष्टो हरिरिति । यागादिना स्वर्गादिफले जनमीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हतुत्वे तु पुण्येन ब्रह्मवर्चसमित्या
दाहार्यम् । ननु अध्ययनेन वसतीत्यत्र कथं तृतीया । अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाभावात् प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह-फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वालं प्रति हेतुरपि भवति । इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुथ्यैव भवति - अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैथटे स्पष्टम् ।
ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात् करणत्वहेतुत्वयारे सम्भवात् कथं तृतीयेत्यत आह— गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किंतु गम्यमानापीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह
अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रति इदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । इत्यमरः साध्यमित्यध्याहारलभ्यम् । तदाह- श्रमेण साध्यं नास्तीत्यर्थं इति । सद्यः खेदाधायकत्वात् साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाभावात् कथं श्रमस्य तत्र करणत्वमित्यत आह- इहेति । साध्यमित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाभेद इति निरस्तम्, श्रमशब्देन व्रीह्याद्युत्पत्स्यनुकूलकर्षणादिव्यापारस्य साधनक्रियां प्रतीत्यनेन बीह्याद्युत्पत्तेश्च विवक्षितत्वात् । 'गम्यमानापि क्रिया विभक्तौ प्रयोजिका' इत्यत्र उदाहरणान्तरमाह - शतेनैति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान् पाययतीति प्रतीयमानार्थः । तन वत्सनिष्टशतसङ्ख्यायाः पायने करणत्वाभावात् परिच्छिद्येति गम्यते । एकैकशतसख्यया वत्सान् परिच्छिद्य तदधिकवत्सेभ्यो व्यावर्त्य पाययतीत्यर्थः । तथाच
For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. सिद्धान्तकौमुदी
[कारक
-
पयः । शतेन परिच्छियेत्यर्थः । 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' (वा ५०४०)। दास्या संयच्छते कामुकः । धर्ये तु भार्याय संयच्छति । ... (५६९) कर्मणा यमभिप्रेति स सम्प्रदानम् १।४।३२॥ दानस्य कमणा यमभिप्रेति स सम्प्रदानसज्ञः स्यात् । (५७०) चतुर्थी सम्प्रदाने २।३।१३॥ विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः । 'क्रियया यमभिति सोऽपि सम्प्रदानम्' (वा १०८५)। पत्ये शेते। यजेः 'कर्मणः करणसम्ज्ञा शतसङ्ख्ययाः परिच्छेदं प्रति करणत्वमिति भावः । अशिष्टेति । इदच दाणश्च सा चेच्चतुर्थ्यथ' इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेताः अशिष्टाः, तेषां व्यवहारः आचारः, तस्मिन् विषये दाग्धातोः प्रयोगे सति चतुर्थ्यथं सम्प्रदाने तृतीया वाच्येत्यर्थः । दास्या संयच्छते कामुक इति । दास्यै कामुकः प्रयच्छतीत्यर्थः । कामुक इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिः धर्मशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः। अशिष्टपदप्रयोजनमाह-धर्मे बिति । धर्मादनपेत इत्यर्थः । न तृतीयेति शेषः । 'धर्मपथ्यर्थन्यायादनपेते' इति यदिति रत्नाकरः । धर्म स्विति पाठस्तु सुगम एव । इति तृतीया विभक्तिः ।
अथ चतुर्थी विभक्तिः । कर्मणा यमभि । कर्मसंज्ञकेन गवादिद्रव्येण यमभिप्रैति शेषि. त्वेनाध्यवस्यति स सम्प्रदानमित्यर्थः । शेषित्वं भोक्तृत्वम् । सम्प्रदीयते यस्मै तत् सम्प्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेस्थाकाङ्क्षायां दानस्येति गम्यते । तदाह-दानस्येत्यादिना। देयद्रव्योद्देश्यं सम्प्रदानमिति फलितम्। दानस्येति किम् । पयो नयति देवदत्तस्य । अत्र देवदत्तस्य । पयोनयनोद्देश्यत्वेऽपि न सम्प्रदा. नत्वम् , पयसो दानकर्मत्वाभावात् । चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां द. दातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोहेश्य इत्यर्थः । 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणात् सम्प्रदाने अनीयर् । तेन कृता सम्प्रदानस्य विप्रस्याभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव सम्प्रदानत्वे पत्ये शेते इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं सम्प्रदानत्वमित्याशङ्कायां 'क्रियाग्रहणमपि कर्तव्यम्' इति वार्तिकं प्रवृत्तम् । तदेतदर्थतः सङ्ग्रहातिक्रियया यमिति । क्रियोदेश्यमपि सम्प्रदानमिति यावत् । पत्ये शेते इति । पतिमुरिश्य शेते इत्यर्थः । नन्वेवमपि ओदनं पचतीत्यादावपि सम्प्रदानत्वप्रसङ्गः । न च कर्मसं. ज्ञाविधिवैयर्थ्य शङ्कयम् , अत एव तत्र कर्मत्वसम्प्रदानत्वयोविकल्पोपपत्तेरिति चेत्, न-पत्ये शेते इत्यकर्मकस्थले सावकाशायाः सम्प्रदानसंज्ञायाः सकर्मकस्थले कर्मसं. ज्ञया बाधात् । तथाच अकर्मकक्रियोद्देश्यमपि सम्प्रदानमिति फलतीति भावः। कर्मणः
For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४३७
सम्प्रदानस्य च कर्मेसज्ञा' (वा १०८६)पशुना रुद्रं यजते । पशुं रुद्राय ददाती. त्यर्थः । (५७१) रुच्यर्थानां प्रीयमाणः १४॥३३॥ रुच्यर्थानां धातून प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः। हरिनिष्ठप्रीतेभक्तिः की। प्रियमाणः किम् । देवदत्ताय रोचते मोदकः पथि। (५७२) श्लाघहस्थाशपां शीप्स्यमानः १२४॥३४॥ एषा प्रयोगे
करणसंशा सम्प्रदानस्य च कर्मसंशेति । वार्तिकमिदम् । एकस्मिन् वाक्ये कर्मणः सम्प्रदानस्य च समवाये सतीति शेषः। यजधातुविषयमेवेदमित्यभिप्रत्योदाहरतिपशुना रुद्र यजत इति । अत्र यजधातुदीनार्थक इत्यभिप्रेत्याह-पशुं रुद्राय ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः।
रुच्यर्थानाम् । रुच्यांनां धातूनामिति । 'रुच दीप्तावनिप्रीती च। दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति। समवायेन प्रोत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तम् , तदपवादोऽयम् । नन्वेवं सति हरिभक्तिमभिलपतीत्यत्रापि भक्तेः प्रीतिविषयत्वात् सम्प्रदानत्वं स्यादित्यत आह-अन्यकर्तृकोऽभिलाषो रुचिरिति । समवायेन प्रात्यान यापेक्षया यदन्यत् तत्कर्तृकाभिलाषः रुचधात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः। तथा च अभिलषतेः रुच्यर्थकत्वाभावान्न तयोगे सम्प्रदानत्वम्। प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यत् भक्तिः, तत्कतृकैव प्रीतिरिति रुच्यर्थयोगः। नन्विह भक्तेः सम्प्रदानत्वं कुतो न स्यात् । विष. यतासम्बन्धेन भक्तेरपि प्रीत्याश्रयत्वादित्यत माह-हरिनिष्ठप्रीतेभक्तिः कत्रीति। हरेरेव समवायसम्बन्धेन प्रीत्याश्रयतया प्रीयमाणत्वात् भक्त का उक्तरीत्या प्रीयमाणत्वाभावाच्च न सम्प्रदानत्वमिति भावः। भक्तिहरि प्रीणाति प्रीणयतीत्यादौ तुन भक्तः सम्प्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात् समवायेन प्रीत्याश्रयत्वाभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि शानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्य. स्याप्रसक्तविज्ञानात् अन्यथा प्रीधातुकर्मणः सम्प्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमाणत्वाभावान सम्प्रदानत्वमिति भावः । श्लाघtङ् । 'ला कत्थने 'हनुछ अपनयने 'टा गतिनिवृत्ती' 'शप उपालम्भे' एषां द्वन्द्वः । शपामित्यनन्तरं प्रयोगे इत्यध्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः, शीप्यमान इति लिङ्गात् । ज्ञापनवाचिनो ज्ञपेः 'सन्नन्तात् कर्मणि शान तदाह
For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[कारक
बोधयितुमिष्टः सम्प्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा। ज्ञीप्स्यमानः किम् । देवदत्ताय ३लाघते पथि । (५७३) धाररुत्तम: ११४। ३५॥ धारयतेः प्रयोगे उत्तमणं उक्तसज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः उत्तमर्णः किम् । देवदत्ताय शतं धारयति प्रामे । (१७४) स्पृहेरीप्सितः। २४॥३६॥ स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं सज्ञा । प्रकर्षविवक्षायां तु पर. एषां प्रयोगे इत्यादिना । गोपी स्मरादिति । मन्मथमपीडावशात् गोपी आत्मस्तुत्या विर. हवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । हनुते इति । सपत्न्यपनयनेन स्वाशयं कृष्ण बोधयतीत्यर्थः । तिष्ठते इति । गन्तव्यमित्युक्तऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । शपते इति । उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः ।
धारेरुत्तमर्णः । धारेरित्यनन्तरं प्रयोगे इत्यध्याहार्यम् । 'एङ् अवस्थाने इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह-धारयतेरिस्यादिना। अन्यस्वामिक द्रव्य नियतकाले पुनरर्पणबुद्धया गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता अधमणः, ऋणस्यार्पयिता धनस्वामी उत्तमर्णः । प्रतिमासमशीतिभागादिवृद्ध्या । उत्तमम् अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसम्बन्धी यो मोक्षः अपरि. मितनित्यसुखविशेषः तं धारयतीत्यर्थः। धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेर. यति, धारयति, अवस्थापयतीति यावत् । पूजयन् हि भक्तः तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन् तुष्टो हरिः तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति ।
तदाहुः पौराणिका:'तोयं वा पत्रं वा यद्वा किञ्चित् समर्पितं भक्त्या। तहणं मत्वा देवो निःश्रेयसमेव निष्क्रय मनुते ।" इत्यादि।
तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात् सम्प्रदानत्वं सम्बन्धषष्ठ्यपवादः। स्पृहेरीप्सितः । 'स्पृह ईप्सायाम्। चुरादावदन्तः। ततः स्वाथें णिचि अल्लोपस्य स्थानिवत्त्वात् लघूपधगुणाभावे स्पृहिशब्दात् षष्ठ्येकवचनम् । प्रयोग इत्यध्याहा. र्यम् । तदाह-स्पृहयतेरित्यादिना। ननु पुष्पेभ्यः स्पृहयतीत्येव स्यात् , नतु पुष्पाणि स्हयतीत्यपि । उभयं त्विष्यते । तदाह-ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदा पुष्पाणां स्पृहयतीति साधु । 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इत्यादि-दर्शनात् । वाक्यदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्टयाश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्यायसाध्वेवेत्यन्यत्र विस्तरः।
For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४३६
स्वात्कर्मसज्ञा, पुष्पाणि स्पृहयति । (५७५) क्रुधदुहेासूयार्थानां यं प्रति कापः १।४।३७॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसम्ज्ञः स्यात् । हरये क्रुध्यति, द्रुह्यति, ईय॑ति, असूयति वा । यं प्रति कोपः किम् । भार्यामाग्रति । मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः। द्रोहोऽपकारः। ईर्ष्या भक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एवं गृह्यन्ते । अतो विशेषणं सामान्येन 'यं प्रति कोपः' इति । (५७६) क्रुधनुहोरुपसृष्टयोकर्म १४३८ सोपसर्गयोरनयोर्योग यं प्रति कोपः तत्कारक कर्मसझं स्यात् । क्रूरमभिक्रुध्यति-भभिहस्यति । (५७७) राधीक्ष्योर्यस्य विप्रश्नः १२३॥ एतयोः कारकं सम्प्रदान स्यात् , यदीगो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति-ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः । (१७८) प्रत्याभ्यां श्रुवः
क्रुधगुह । क्रुधाथर्थानामिति । 'क्रुध क्रोधे, 'दुह द्रोहे' श्यन्विकरणौ । नय ईर्ष्यायाः शधिकरणः । असून उपतापे कण्डवादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति । रावणादिरिति शेषः। हरिविषयकं कोपं करोतीत्यर्थः। घातेच्छा. समनियतश्चित्तवृत्तिविशेषः कोपः। अकर्मकत्वात् षष्ठी प्रासा । द्रुह्यतीति । कोपात् हरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात् षष्ठी प्रासा । अपकारो दुःखजनिका किया। धात्वर्थोपसङ्ग्रहादकर्मकः । ईष्यतीति। ईर्ष्या असहनम् । हरि कोपान सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः। यथावि. हितकर्माचारे दम्भादिकृतत्वारोपणम् । इह कोपात् हरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येत् इत्येतदर्थ भार्यागुणेषु दोषारोपणं करोती. त्यर्थः । नात्र भार्यो प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षित. मिति बोध्यम् । एवञ्च क्रोधद्रोहेासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थि. तम् । तथाच कुप्यति कस्मैचिदित्यायसाध्वेव, कोपस्य कोपमूलकत्वाभावात् क्रुधार्थकत्वाभावाच । प्ररूढकोप एव हि क्रोधः, 'नाकुपितः क्रुध्यति' इति भाष्यात् । ___ कुधद्रुहोः। उपसृष्टयोरित्येतत् व्याचष्टे-सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाभावात् 'क्रियया यमभिप्रैति' इति सम्प्रदानत्वस्य न प्रस. क्तिः । नापि तादर्थ्यचतुर्थ्याः । अनुहोरकर्मकत्वात् न हरेः कर्मत्वम् । अतः शेषषष्ठयां प्राप्तायां वावनिकं कर्मत्वम् । राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । विप्रश्न इत्येतद्वथाचष्टे-विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति । मर्गो नाम ज्योतिकशास्त्रवित् ऋषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ ईक्ष दर्शने' । इह तु प्रश्नविषयशुभाशुभपर्यालोचनमर्थः, यस्य विप्रश्न
For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
सिद्धान्तकौमुदी
[कारक
-
पूर्वस्य कर्ता १४०॥ माभ्यां परस्य शृणोतेोंगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्रदान स्यात् । विप्राय गो प्रतिशृणोति आशृणोति वा । वि. प्रेण मह्यं देहीति प्रवर्तितस्तत्प्रतिजानीते इत्यर्थः । (५७४) मनुप्रतिगृणध १४४१॥ भाभ्यां गृणातेः कारक पूर्वव्यापारस्य कर्तृभूतमुक्तसम्झं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः ।
-
इति लिङ्गात् । तदाह-शुभाशुभं पर्यालोचयतीत्यर्थ इति । अत्र शुमस्याशुभस्य च प्रश्नविषयस्य धात्वर्थापलब्ग्रहादकर्मकावेतो। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा 'राधोऽकर्मकात्। इति नियमात् श्यन् न स्यात् । एवञ्च कि कृष्णस्य शुभमशुभ वेति पृष्टो गर्गः कृष्णविषयकं शुभाशुभ पर्यालोचयतीत्यर्थः । कृष्णस्य सम्प्र. दानत्वं षष्ठयपवादः।
प्रत्याभ्याम् । प्रत्याभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्य श्रुव इत्यस्य विशेषणम् । 'श्रु श्रवणे। इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापार परामृशति । तदाह-आभ्यामित्यादिना। पूर्वस्येत्यस्य व्याख्यानम्-प्रवर्त नारूपस्येति । प्रेरणारूपस्येत्यर्थः । प्रत्याभ्यामित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोनिमित्तत्वम् , अन्यथा 'अभिनिविशश्च' इतिवत्'प्रत्याक् श्रुवः' इत्येव ब्रूयादित्यभिप्रेत्योदाहरति-विप्राय गां प्रतिशृणोति भाशणोति वेति । अत्र प्रतिपूर्वक आपूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्युपगमे वर्तते, ततश्च प्रव. तितः प्रतिजानीते इति लभ्यते । केन प्रवर्तित इत्याकाक्षायां विप्रः कर्तत्वेनान्वेति। तत्र विप्रस्य प्रेरणाकर्तृत्वात् सम्प्रदानत्वं कर्तृतृतीयापवाद इत्यभिप्रेत्याह-विप्रेणेति । मह्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तः तुभ्यं ददामीत्यभ्युपगच्छतीति योजना । अनुप्रतिगृणश्च । पूर्वस्य कतंत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्नान्तस्य अनु. करणशब्दात् गृण इति षष्ठी । अत्र गृधातुः शंसितकर्मके शंसनविषयकप्रोत्साहने वतते । तत्र पूर्वव्यापारस्य शंसनस्य कर्ता सम्प्रदानमित्यर्थः । तदाह-आभ्यामिति । पूर्वसूत्रे प्रत्याभ्यामिति द्विवचननिर्देशबलात् प्रत्येकमेव धातुसम्बन्धावधारणात् तत्साहचर्यात् इहापि प्रत्येकमेव धातुसम्बन्ध इत्यभिप्रेत्योदाहरन्ति-होत्रे अनुगृणाति प्रतिगृणाति वेति । होता प्रथममिति । शंसितारं होतारं उत्तरात्तरशंसनविषये प्रोत्सा. हयतीति यावत् । 'मोऽथ मोदै व' इति प्रतिगरमन्त्रः । ओ इति सम्बोधने, मोदै इति लोडसमपुरुषैकवचनम् । व इत्वेवकाराथें । हे होतः अथ त्वदीयशंसनानन्तरं सुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तम् , पूर्वव्यापार शंसनं प्रति कर्तृ. स्वादोता सम्प्रदानत्वम् ।
For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
-
(५८०) परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥४४॥ नियतकालं भूत्या स्वीकरणं परिक्रयणम् तस्मिन्साधकतमं कारकं सम्प्रदानसो वा स्यात् । शतेनशताय वा परिकीतः । 'तादयें चतुर्थी वाच्या' (वा १४५८ ) । मुक्तये हरि भजति । 'क्लपि सम्पद्यमाने च' (वा १४५९)। भक्तिर्ज्ञानाय करूपते-सम्पयतेजायते इत्यादि । 'उत्पातेन ज्ञापिते च' (वा १४६. ) वाताय कपिला विद्युत । 'हितयोगे च. (वा १४६१)। ब्राह्मणाय हितम् । (५८१) क्रियार्थोपपदस्यच
परिक्रयणे । नियतकालमिति । तुभ्यमेतावद्वतनं दीयते, तत् गृहन् एतावन्त काल त्वं मम कर्मकरो मव इत्येवं परिमितकाल भृत्या स्वीकरण परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह-तस्मिन् साधकतममिति । सम्प्रदानत्वाभावे करण. संज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्व्यशतेनेत्यर्थः । तादर्थे चतुर्थी वाच्येति । 'चतु. थीं सम्प्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अथेन नित्यसमासः । तदर्थस्य भावः तादर्थ्यम् । ब्राह्मणादित्वात् ष्यम् । तेन च उपकार्योपकार. कभावसम्बन्धी विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यम् , इत्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति मुक्त्यर्थमित्यर्थ : उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति, मुक्तिर्जन्येति गम्यते प्राप्यत्वं वा, ब्राह्मणाय दधीति ब्राह्मणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अने. नैव सिद्धे 'चतुर्थी सम्प्रदाने' इति सूत्रं सम्प्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यम् , 'हरये रोचते भक्तिः' इत्यादौ 'रुच्यर्थानां प्रीयमाणः' इत्यार्थं तदावश्यकत्वादिति भाष्ये स्पष्टम् । क्लपि सम्पद्यमाने चेतिाक्लपीति सप्तमी, सम्पत्तिः विकारात्मना उत्पत्तिः परिणाम इति यावत् । क्लपिधातौ प्रयुज्यमाने सति सम्पद्यमानेऽथें वर्तमानात् चतुर्थी वाच्येत्यथः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः। क्लपीत्यर्थग्रहणमित्यभि. प्रत्योदाहरति--सम्पद्यते, जायते इत्यादीति। आदिना परिणमते इत्यादिसंग्रहः । परिणामस्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादर्थ्यचतुर्टीव सिद्धमित्याहुः । उत्पातेन शापिते चेति । अशुभसूचकः आकस्मिकः भूतविकारः उत्पातः, तेन सूचितेऽथें विद्यमानात् चतुर्थी वाच्येत्यर्थः । वातायेति । महावातस्य सूचिकेत्यर्थः । हितयोगे चेति । चतुर्थी वाच्येति शेषः । ब्राह्मणाय हितमिति । ब्राह्मणस्य सुखकृदित्यर्थः । याजनादीति शेषः।
क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था । क्रियेति विशेष्यमध्याहार्यम् । क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चरितं पदम् उपपदम् । स्थानिन इत्यपि तद्वि
For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
सिद्धान्तकौमुदी
[कारक
कर्मणि स्थानिनः २।३।१४॥ क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्र. युज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहतुं याती. त्यर्थः । नमस्कुर्मी नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं 'स्वयम्भुवे नमस्कृत्य' इत्यादावपि । (५८२) तुमर्थाच्च भाववचनात् २।३।१५॥ 'भाववचना. श्व' (सू ३१८०) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति यष्टुं यातीत्यर्थः। शेषणम् । स्थानं प्रसचिरस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् । 'तुमुन्ण्वुलौ. क्रियायां क्रियार्थायाम्। इति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह-क्रिया क्रियेति । स्थानिन इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति । फलेभ्यो यातीत्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह-फलान्याहर्तुमिति । इह फलाहरणक्रियार्था यानक्रिया, तद्वाचके उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वात् चतुर्थी द्वितीयापवादः । नच तादथ्यं चतुर्थां गतार्थता शङ्कया, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थव, अतो न फलेभ्यः स्तादर्थ्यचतुर्थीप्रसक्तिः । एवं च फलकर्मकाहरणक्रियार्या यानक्रियेति बोधः । उदा. हरणान्तरमाह-नमस्कुर्म इति। तुमुन्नन्तार्थाध्याहारं दर्शयति-नृसिंहमनुकूलीयतु. मिति । नचात्र 'नमास्वस्तिः इत्येव चतुर्थी सिद्धेति वाच्यम् , उपपदविभक्तेः कार. कविभक्तिर्बलीयसी' इति द्वितीयापत्तेः । एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम् ।
तुमर्थाच्च । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति सूत्रम् । क्रियार्थायां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलो स्तः । भोक्तुं व्रजति, भोजको व्रजति, भविष्य जिक्रियार्थी व्रजतिरत्रोपपदम् । अस्य तुमुनः अर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः क्रिया, उच्यते अनेनेति वचनः, भावस्य वचनः भाव. वचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् । प्रत्ययादिति शेषः । तत्र 'अव्ययकृतो भावे इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भावव. चनत्वे सिद्ध पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह-भाववचनाश्चेति । भाषे इत्यधिकृत्य ये घनादिप्रत्यया विहिताः ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः । यागाय यातीत्याधुदाहरणम् । एवं च क्रियार्थक्रियो। पपदत्वलाभार्थं तुमर्यादिति विशेषणम् । अत्र तादर्थ्यस्य तुमुनेव घमा घोतितत्वात् 'उकार्यानामप्रयोगः' इनि न्यायेन तादर्थ्यचतुर्थ्या अप्रासौ प्रथमायाः प्रासाविद वचनम् । तुमादिति किम् । पाकः त्यागः इत्यादौ घनो भावे इत्यधिकारस्थत्वेऽपि
For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
(५८३) नमःस्वस्तिस्वाहास्वधाऽलंवषडयोगाच्च २|३|१६ ॥ एभिर्योगे चतुर्थी स्यात् । हरये नमः । ' उपपदविभक्तेः कारकविभक्तिर्बलीयसी' ( प १०३ ) | नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । 'अलमिति पर्याप्त्यर्थग्रहणम्' ( वा १४६२ ) । तेन दैत्येभ्यो हरिरलंप्रभुः - समर्थ::- शक्त इत्यादि । प्रभवादियोगे षष्ठयपि साधुः । ' तस्मै प्रभवति - '
४४३
'
न चतुर्थी । क्रियार्थं क्रियोपपदत्वाभावेन तुमर्थकत्वाभावात् । भाववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेsपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादर्थ्यस्य ण्वुलैवोक्तत्वान्न तादर्थ्य. चतुर्थी, किन्तु प्रथमेव ।
·
नमः स्वस्ति । युज्यत इति योगः कर्मणि घञ् । नमस् इत्यादिभिर्युक्तादित्यर्थः । फलितमाह - एभियेोगे इति । न च तादर्थ्यचतुर्थ्या गतार्थत्वं शङ्कयम्, तादर्थ्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थस्वात् । तादर्थ्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी यथा 'गुरोरिदं 'गुर्वर्थम्' इति भाष्ये स्पष्टम् । एवं च नमः स्वस्त्यादियोगे तादर्थ्यस्य शेषत्वविवक्षायामपि चतुध्यैवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह-उपपदविभक्तेरिति । पदान्तरयोग निमित्तिका विभक्तिः उपपदविभक्तिः, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः । 'अन्तरान्तरेण' इति सूत्रे भाष्ये पठितमिदं वचनम् । तच न्यायसिद्धम् । क्रि. याकारकयोर्हि सम्बन्धः अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तु उपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु । प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवागम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । करशिरस्संयोगादिना तोषयतीत्यर्थः । करशिरस्संयोगादिमात्रार्थत्वे अकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्रद्देश्यकं द्रव्यदानमित्यर्थः । 'स्वं रूपं शब्दस्य' इति अलंशब्दस्यैव ग्रहणे कुमारीणामलङ्कार इत्यत्रातिव्याप्तिः । किञ्च दैत्येभ्यो हरिरलमित्यत्रैव स्यात्, दैत्येभ्यो हरिः प्रभुरित्यादा न स्यादित्यत आह-अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्तयर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्तयर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना कुमारीणामलङ्गार इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननु 'प्रभुर्बुभूषुर्भुवनत्रयस्य' इत्यादौ कथं
।
I
For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
सिद्धान्तकौमुदी
[कारक
(सू १७६५) 'स एषां ग्रामणी: (सू १८७८ ) इति निर्देशात् । तेन 'प्रभु. बेंभूर्भुवनत्रयस्य' इति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीविवक्षायां परामपि 'चतुर्थी चाशिषि- (सू ६३१) इति षष्ठीं बाधित्वा चतुर्येव भवति । स्वस्ति गोभ्यो भूयात् ।
- (१८४) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु २॥३१७॥ प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये णाय वा । इयना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे । अप्राणिवित्यपनीय नौकाकान्नशुकसगालवर्जेष्विति वाच्यम्। ( वा १४६४ ) तेन 'न त्वा मावं मन्ये' इत्यत्रा
षष्ठीत्यत आह-प्रभ्वादियोगे षष्ठयपि साधुरिति । कुत इत्यत आह-स एषां ग्रामणी. रिति निर्देशादिति । नन्वेवं सति दैत्येभ्यः प्रभुरिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह-तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोदूदेश्यक हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयात् इत्याशीर्वाक्ये चतुथ्येवेष्यते। तत्र 'चतुर्थी चाशिष्यायुष्य इत्यादिना परत्वात् पक्षे षष्ठीप्रसङ्ग इत्यत आहचकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामथ्येनेत्यर्थः।। ___ मन्यकर्मणि । अप्राणिज्विति च्छेदः । 'मन ज्ञाने' दिवादिः, श्यन्विकरणः, 'मनु अवबोधने तनादिरुविकरणः । तत्र मन्येति श्यना निर्देशात् देवादिकस्य ग्रहणमि. त्याह-मन्यतेरिति । कर्मणीति। अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । अनादर इत्यस्य व्याख्यानमेतत् । 'मनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । न त्वां तृणमिति । हे देवदत्त त्वां तृणत्वेनापि मन्ये इत्यर्थः । न . पादानादयमों लभ्यते। तृणादप्यधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः । तृणं त्वां मन्ये तृणाय वेत्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एत. देवाभिप्रेत्य भाष्येऽपि नअपात्तः। न च मन्यकर्मत्वाविशेषात् त्वामिति युष्मच्छ. ब्दादपि चतुर्थी शङ्कया, अनादरद्योतके कर्मणि इत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकम् , न तु युष्मदर्थः । श्यनैति । तानादिकमनुधातुकर्मणि द्वितीयैव, मतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति। मनुधातोरुविकरणस्य लडुत्तमपुरुषै. कवचनम् । ननु न त्वां नावमन्नं मन्ये' इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्या. प्तिः। न त्वां शुने मन्ये इत्यादौ तु प्राणित्वात् चतुर्थीविकल्पो न स्यादित्यव्या. तिः । कर्मणः प्राणित्वादित्यत आह - अप्राणिवित्यपनीयेति । न त्वां नावं मन्ये इति । जीणों नावं प्रति वाक्यमेतत् । न त्वामन्नं मन्ये इत्युप्युदाहायम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किन्तु द्वितीयैवेति
For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
प्राणित्वेऽपि चतुर्थी न । 'न त्वां शुने मन्ये' इत्यत्र प्राणित्वेऽपि भवत्येव । ( ५८५) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यां चेष्टायामनध्वनि २|३|१२ ॥ अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं प्रामाय वा गच्छति । चेष्टायाम् किम् । मनसा हरिं व्रजति । अनध्वनि इति किम् । पन्थानं गच्छति । मन्त्रा• ऽधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ।
४४५
(५८६) ध्रुवमपायेऽपादानम् १|४|२४|| अपायो विश्लेषः तस्मिन्साध्ये मधिभूतं कारकमपादानं स्यात् । ( ५६७) मपादाने पञ्चमी २३|२८|| ग्रामादायाति । धावतोऽश्वात्पतति । कारकम् किम् । वृक्षस्य पर्ण पतति । 'जुगु-'
भावः । न त्वां शुने मन्ये इति । हे देवदत्त त्वां श्वत्वेनापि न मन्ये इत्यर्थः । न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम् । एषु प्राणित्वेsपि न चतुर्थीविकल्प इति भावः ।
I
1
गत्यर्थ । शारीरपरिस्पन्दश्चेष्टा | मनसेति । अत्र शारीरचेष्टायाः अभावान्न द्वितीचतुर्थ्यो, किन्तु द्वितीयवेति भावः । 'आस्थितप्रतिषेधो वक्तव्यः' इति वार्तिकमर्थतः संगृह्णाति — मन्त्राऽधिष्ठिते इति । मन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा - पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन मन्त्राधिष्ठितत्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह - -यदा विति । उत्पथादिति । अमार्गादित्यर्थः । त्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितः मोहात्तन्मार्गात् प्रच्युतः मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्गः आक्रमितुमिष्यते, तदा अनध्वनीति निषेधाभावाच्चतुर्थ्यापि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति- उत्पथेन पथे गच्छतीति । उत्पथेनेत्यनन्तरं गन्तुमशक्त इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्तः उत्पथं परित्यज्य उज्जयिनीमार्ग प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाभावात् अनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थीविभक्तिः ।
अथ पञ्चमी विभक्तिः । ध्रुवमपाये । अपायपदं व्याचष्टे - अपायो विश्लेष इति । वियोग इत्यर्थः । ध्रुवपदं व्याचष्टे - अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनानाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः । अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वात् ग्रामोऽवधिरिति अपादानत्वात् पञ्चमी । माधुराः पाटलीपुत्रकेभ्यः आढ्यतराः इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय
For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४६
सिद्धान्तकौमुदी
[ कारक
प्साविरामप्रमादार्थानामुपसङ्ख्यानम्' (वा १०७९) । पापाज्जुगुप्सते, विरमति । धर्मात्प्रमायति । (५८८) भीत्रार्थानां भयहेतुः१४॥२५॥ भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद्विभेति चोरास्त्रायते । भयहेतुः किम् । अरण्ये बिभेति, त्रायते वा । (478) पराजेरसोढः शा२६॥ पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते। ग्लायतीत्यर्थः । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः । (५४०) वारणार्थानामोप्सितः । १४॥२७॥ प्रवृत्तिविघातो वारणम् , वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थो. ऽपादानं स्यात् । यवेभ्यो ग वारयति । ईप्सितः किम् । यवेभ्यो गां वारयति क्षे. अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनानाश्रयभूतं यत् तदेव ध्रुव. मिति व्याख्यायताम् । किमवधित्वविवक्षयेत्यत आह-धावतोऽश्वात् पततीति । अश्वस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः । जुगुप्सेति । जुगुप्साधर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादा. नत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्धया न रमते इत्यर्थः । विरमतीति । पापादित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात् प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावात् वचनमिदम् । यदा तु जुगुप्सते इत्यादेजुगुप्सादिभिनिवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकृतविश्लेषावधित्व. मादाय अपादानत्वादेव सिद्धमिति वातिकमिदं भाष्ये प्रत्याख्यातम् । ___ भोत्रा । चोरादिभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोरात् बिभेति भीत्या निवर्तते, चोरात्त्रायते आत्मानं त्रातुं निवर्तयतीत्यर्थः माश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् । पराजेरसोढः । सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषु 'सहिवहो. रोदवर्णस्य' इत्योत्त्वे सोढ इसि रूपम् । तत्र तार्थो भूतकालो न विवक्षितः । तदाहअसह्योऽर्थ इति । सोढुमशक्य इत्यर्थः। हेतुतृतीयाऽपवादोऽयम् । ग्लायतीत्यर्थ इति । असहनादिति शेषः । यदा तु असहनानिवर्तत इत्यर्थ आश्रीयते, तदा ध्रुवमित्यपादा. नत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति । तिरस्करोतीत्यर्थः । अत्र शत्रूणाममि. भवनीयतया असह्यत्वान्नापादानता।
वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यथेषु प्रवर्तितु. कामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाभावात् 'ध्रुवमपाये' इत्यप्रामाविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं,
For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
नतु गोः, तस्याः परकीयत्वेनानीप्सितत्वात् , वारणीयतया ईप्सितत्वव्याघाताच्च । तथाच 'तथायुक्तं च इति गोः कर्मत्वात् द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसम्भावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात् । यवस्वामी गामपहृत्य बध्नीयात् । गोस्वामिनं च यवस्वामी दण्ड. येत् । अतो यवानां रक्षितुमिष्टत्वात् ईप्सितत्त्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात् कर्मत्वम् । नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम् , ईप्सिततमत्वे 'वारणा
नाम्' इत्यपादानत्वं बाधित्वा 'कर्तुरीप्सिततमम्' इति कर्मत्वस्यैव परत्वात् प्रा. सेः । नच 'धारणार्थानामीप्सितः' इत्यपादानत्वस्य 'कर्तुरीप्सिततमम्' इति कर्मत्वा. पवादत्वं शङ्कयम् , 'कर्तुरीप्सिततमम्' इति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वात् न कर्तुरीप्सिततमम्। इति कर्मत्वापवादत्वम् । अतः परत्वात् गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात् कर्मत्वमेव । नच अग्नेर्माणवकं वारयतीत्यत्र अग्नेरीप्सितत्वाभावात् कथमपादानत्वमिति वाच्यम् , इष्टत्वभ्रमादग्नौ विषये स्पर्शनफलकप्रवृत्त्यभिमुखं माणवक प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्रा. ग्निस्पर्शे माणवकस्य दाहप्रसङ्गात् तद्विषयप्रवृत्तिविमुखीकरणात्मकवारणक्रियया आप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वात् माणवकस्य कर्मत्वम् । अग्नेस्तु वार. णक्रियेप्सिततममाणवकीयस्पर्श क्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सितत्वात् अपादानत्वम् ।
एतेन कर्तुापारजन्यफलाश्रयः कर्मेत्येवास्तु, 'कर्तुरीप्सिततम कर्म' 'तथायुक्तं चानीप्सितम्' इति किमीप्सिततमानीप्सितयोः पृथग्रहणेन । एतावतैव हरि भजति, ग्रामं गच्छन् तृणं स्पृशति, विषं भुक्त इत्यादिसर्वलक्ष्यसमहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्म इत्युक्तौ हि 'वारणार्थानाम्' इति सूत्रमल्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । नचानौ 'वारणार्थानाम्' इति सावकाशमिति वाच्यम् , वारयतेत्रि स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृ. त्तिविरहः । तत्र स्पर्शाशोऽग्निनिष्ठः माणवकनिछाध, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतया अग्निनिष्ठः । आश्रयतया माणवकनिष्ठश्च । तथा. च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ 'वारणा
नाम्' इत्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्वाधनार्थ 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । एवंच ईप्सितमात्रे अग्नौ साव.
For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
=
सिद्धान्तकौमुदी
। (५६१) अन्तर्धी येनादर्शनमिच्छति १ ४ २८ ॥ व्यवधाने सति यत्क - स्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम्, चौरान् न दिदृक्षते । इच्छतिग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । ( देवदत्ताद्यज्ञदत्तो निलीयते) । (५२) आख्यातोपयोगे ९४ २६ ॥ नियमपूर्वक विद्यास्वीकारे वक्ता प्राक्प्रज्ञः स्यात् । उपाध्यायादषौते । उपयोगे किम् । नटस्य गाथां शृणोति । (५६३) जनिकर्तुः प्रकृतिः ।
[ कारक
500
·
'काशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । 'कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं ' तथायुक्तम्' इत्यप्यारब्धव्यमित्यास्तां 'तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वमाश्रित्य प्रत्याख्यात. मिदं सूत्रम् ।
1
अन्तर्धौ । अन्तर्धावित्येतत् व्याचष्टे - व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । श्रात्मनो दर्शनस्येति । आत्मन इति दर्शन शब्दयोगे कर्मणि षष्ठी । आत्मन इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । आत्मन इत्यध्याहारे तु उभयप्राप्तौ - कर्मण्येवेति नियमान्न कृद्योगषष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवधानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्ण इति । 'लीड श्लेषणे' यन्त्रिकरणः । इह तूपसर्गवशात् व्यवधानेन परकर्तृकस्वविषयक दर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णः मातृकर्तृकस्वविषयकदर्शनविरहाय कुड्यादिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात् पञ्चमी । कर्तृतृतीयापवादोऽयं षष्ठयपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् । आख्यातोपयोगे । आख्याता उपयोगे इति छेदः । आख्यातेति तृजन्तात् प्रथमैकवचनम् । उपयोग पदं व्याचष्टे - नियमपूर्वकेति । भाष्ये तथोक्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे वक्तेति । अध्यापयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकं उपाध्यायस्योच्चारणम् अनुच्चारयतीत्यर्थः । षष्ठ्यपवादोऽयम् । भाष्ये तु उपाध्यायान्निर्गतं वेदं गृहणातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम् ।
For Private and Personal Use Only
निकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः । 'जनी प्रादुर्भावे' दैवादिकोऽकर्मकः । ' इजादिभ्यः' इति भावे इण् । 'जनिवध्योश्च' इति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ट्या समासः । 'तृजकाभ्यां कर्तरि । इति निषेधस्तु कारकषष्ठया
1
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४४४
१॥४॥३०॥ जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । (५४४) भुवः प्रभवः शा३२॥ भवनं भूः । भूकर्तुः प्रभवस्तथा। हिमवतो गङ्गा प्रभ. वति । तत्र प्रकाशते इत्यर्थः।। _ 'स्यब्लोपे कर्मण्यधिकरणे च' ( वा १४७४-१४५५) । प्रासादात्प्रेक्षते, आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते इत्यर्थः । श्वशुराज्जि. हेति । श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्। (वा ५०४१ ) कस्मात्त्वम् , नद्याः । 'यतश्चाध्यकालनिमानं ततः पञ्चमी' ( वा
एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटरशानच् , श्यन् , ज्ञाजनोर्जा 'आने मुक्' उत्पत्त्याश्रयस्येत्यर्थः। प्रकृतिशब्द व्याचष्टे-हेतुरिति । ब्रह्मण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत् तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम् , संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्दः उपादानकारणपर एव । अत एव भाष्यकैयटयोः 'गोमया. वृश्चिका जायन्ते गोलोमाविलोमभ्यो दूर्वा जायन्ते' इत्युदाहत्य परिणामेषु प्रकृतिव्यावयवानुस्यूतिसस्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवञ्च 'ब्रह्मणः प्रजाः प्रजायन्ते' इत्यत्र ब्रह्मशब्देन मायोपहितमीश्वरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः । भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह-भूकर्तुरिति । भवनं भूः सम्पदादित्वात् क्लिप । भुवः कर्ता भूकर्ता तस्ये. त्यर्थः । प्रभव इति । प्रभवति प्रथम प्रकाशतेऽस्मिन्निति प्रभवः, प्रथमप्रकाशस्थानमि. त्यर्थः । प्रभवतीत्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायास्तत्रानुत्पत्तेः । तदाहप्रकाशते इत्यर्थ इति । प्रथम प्रकाशते इति यावत् । अत एव हिमवति प्रकाशते इत्यत्र न भवति । एतेन जनिकर्तुरित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भा. ध्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । . ल्यब्लोपे इति । ल्यबन्तस्य लोपे अदर्शने अप्रयोगे सति गम्यमानतदर्थे प्रति कमणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिहेतीति । लज्जते इत्यर्थः। नन्वत्र ल्यबन्तस्य प्रयोगाभावात् कथं तदर्थ प्रति कर्माद्यवगतिरित्यत आह-गम्यमानापोति । प्रकरणादिनेत्यर्थः । गम्यमानापीत्यस्य प्रयोजनान्तरमाह-कस्मात्वमिति । आगतो. सीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः । नद्या इत्युत्तरम् । आगतोऽस्मीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः। यतश्चेति । यत इति तृतीयार्थे तसिः। येनावधिना अध्वनः कालस्य बा निमानं परिच्छेदः इयत्ता गम्यते, ततः पञ्चमी वा.
२४बा०
For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર્વ
सिद्धान्तकौमुदी
[ कारक
१४७७)। 'तद्युक्तादध्वनः प्रथमासप्तम्यो' ( वा १४७९ ) । ' कालात्सप्तमी 'च वक्तव्या' ( वा १४७८ ) । वनाद् ग्रामो योजनं - योजने वा । कार्तिक्या आग्रहायणी मासे |
1
(५8५) मन्यारादित र दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते २|३|२६|| एतैर्योगे पञ्चमी स्यात् । अन्येत्यर्थग्रहणम् । इतरग्रहणं प्रपवार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो प्रामात् दिशि दृष्टः च्येत्येकं वाक्यम् । तत्र पञ्चमीति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन पञ्चम्यन्तेन युक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये इति द्वितीयं वाक्यम् । 'कालासप्तमी च वक्तव्या' इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन पञ्चम्यन्तेन अन्वितात् कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मक - पूर्वावधिक योजनोत्तरदेशे ग्राम इत्यर्थः । अवधित्वसत्त्वेऽपि विश्लेषाप्रतीतेर्ध्रुवमित्यपादानत्वाभावाद्वचनम् । कार्तिक्या इति । कार्तिक्याः मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्गोत्थानात् । मास इति सप्तम्यास्तु स्वोत्तराव्यवहितकालवृत्ति त्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्ष पौर्णमासीत्यर्थः ।
अन्यात् । युक्त इति भावे क्त इत्याह- प्रभियोगे इति । अन्य, आरात्, इतर ऋते, दिक्शब्द, अञ्चूत्तरपद, आच, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चम साधयितुमाह- अन्येत्यर्थ ग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थक शब्दयोगे पञ्चमीति फलितम् । तहतरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह - इतरग्रहणं प्रपच्चार्थमिति । 'पचि विस्तारे' | अन्यशब्द. स्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । श्रन्यो भिन्न इतरो वेति । भेदवान् विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्टयपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । ' आराद्दूरसमीपयो:' इत्यमरः । ऋते कृष्णादिति । ऋते इत्येकारान्तमव्ययम् । 'ऋते वर्जने इत्यमरः । कृष्णस्य वर्जने सुखं नास्तीत्यर्थः । 'क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते' इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः । ' ततोऽन्यनापि दृश्यते' इति वा द्वितीया । 'ऋते द्वितीया च' इति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति - पूर्वी ग्रामादिति । ग्रामावधिकपूर्वदिक्वती' ग्राम इत्यर्थ: : ननु
For Private and Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
१५१
शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फा. स्गुनः। अवयववाचियोगे तु न । 'तस्य परमानेडितम्' ( स ८३) इति निर्देशात् । पूर्व कायस्य । अचूत्तरपदस्य तु दिक्शब्दत्वेऽपि 'षष्टयतसर्थ-(सू ६.९) इति षष्ठीं बाधितुं पृथग्रहणम् । प्राक्-प्रत्यग्वा प्रामात् । आबु दक्षिणा प्रामात् । आहि, दक्षिणाहि प्रामात् । 'अपादाने पञ्चमी' (सू ५८७ ) इति सूत्रे 'कार्तिक्याः प्रभृति' इति भाष्यप्रयोगात्प्रमृत्यर्थयोगे पञ्चमी। भवात्प्रमृति-आरभ्य
-
-
चैत्रात् पूर्वः फाल्गुन इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाभावात् कथं तधोये षञ्चमीत्यत आह-दिशि दृष्ट इति । रूढ्या दिग्विशेषवाचकाः पूर्वादय एक गृह्यन्ते । नत्वेन्द्रीककुबादयः । सम्प्रतीति। कदाचिदिग्वाचकानामिदानी कालवाचकानामपि योगे पश्चमी भवतीत्यर्थः । नन्वेवं सति पूर्व कायस्येत्यत्रापि स्यादित्यत आह-अवयववाचीति। तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं परामशति । द्विरुक्तस्य परं परावयवभूतमाडितमिति तदर्थः । पूर्व कायस्येति । शरीरस्य पूर्वा. वयव इत्यर्थः । ___ अञ्चुधातुः उत्तरपदं यस्य सः अञ्चूत्तरपदः प्रागादिदिक्छब्दः, नतु सध्रयङ्इ. त्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्रयङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यंत आह-अञ्चूत्तरपदस्येति । ष. ष्ट्यतसर्थेत्यनन्तरं परत्वात् प्राप्तामिति शेषः । प्राक् प्रत्यग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । आन्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । श्राहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशि दर इत्यर्थः । 'आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोदिक्शब्दत्वेऽपि 'षध्यतसर्थ इति षष्टी बाधितुं पृथक् ग्रहणम्। नन्वेवमपि भवात्प्रभृत्यारभ्य वा सेव्यो हरिः' इत्यादौ कथं पञ्चमी । अन्यादिशब्दयोगाभावादित्यत-आह-अपादाने इति । प्रभृतियोग इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः। तथा हि-'अपादाने पञ्चमी' इति सूत्रे भाष्ये 'यतश्चाध्वकालनिमानम्' इति वार्तिकं पठित्वा कार्तिक्याः आग्रहायणी मासे इत्युदाहृत्य 'इदं न वक्तव्यम्' इति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य इद. मन्त्र प्रयोक्तव्यं सन्न प्रयुज्यते, कातिक्याः प्रभृत्याग्रहायणी मासे' इत्युक्तम् । प्रभृ. तिशब्दाभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः। एवं वदता भाष्यकृता 'प्रभृत्यर्थकशब्दयोगे पञ्चमीति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थ वातिकस्यावश्यकत्वात्त. इसङ्गतिः स्पष्टैव । एवञ्च प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एक
For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
सिद्धान्तकौमुदी
[कारक
-
वा सेव्यो हरिः । 'अपपरिबहिः- ( स ६६६) इति समासविधानात् ज्ञाप. काद्वाहियोंगे पञ्चमी । प्रामाद्वहिः । (५६६) मपपरी वर्जने ११४॥ एतौ वर्जने कर्मप्रवचनीयौ स्तः। (५६७) प्राङमर्यादावचने ॥ भा. मर्यादायामुक्कसम्ज्ञः स्यात् । वचनप्रहणादभिविषावपि । (48) पञ्चम्यपाङ्: परिभिः २।३।१०॥ एतैः कर्मप्रवचनीयोगे पञ्चमी स्यात् । अप हरेः, परि च 'कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे तत आरभ्येत्यर्थ इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत् सर्वमभिप्रेत्योदाहरति-भवात् प्रभृति, भारभ्य वेति । भवः उत्पत्तिः, आरभ्येत्यस्यावधि परिगृह्येत्यर्थः । प्रभृतीत्यव्यमप्येतदर्थकमेव । भवमवधिं परिगृह्य हरिः सेव्य इत्यर्थः । उत्पत्तिक्षणात्मकपूर्वावधिकोत्तरकाले सर्वदा आमरणं हरिस सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्ववि. वक्षायां द्वितीयैव, उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेः । यथा 'सूर्योदयमारभ्य आस्तमयात् जपति' इत्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात् पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दा. थस्यावधि परिगृह्येत्यल्यावध्यादिघटितत्वेन क्रियात्वाभावात् । अपपरीति । बहि.
शब्दयोगे पञ्चमी सिद्धवत्कृत्य 'अपपरिबहिरञ्चवः पञ्चम्या' इति समासविधा. नात बहिशब्दयोगे पञ्चमी विज्ञायते इत्यर्थः । इदच 'अपपरि इति सूत्रे भाष्ये स्पष्टम् । 'करस्य करभो बहिः' इति त्वसाध्वेव। 'ज्ञापकसिद्धं न सर्वत्र' इति वा क. थञ्चित्समाधेयम् । " अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । कर्मप्रवचनीयाः इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । मत्रो. पसर्गत्वात् 'उपसर्गात्सुनोति' इति षत्वम् । आमर्यादावचने । उक्तसंश इति । कर्मप्र. वचनीयसंज्ञक इत्यर्थः । ननु 'आड्मर्यादायाम्' इत्येव सिद्ध वचनग्रहणं व्यर्थमित्यत आह-वचनग्रहणादिति । तेन विनेति मर्यादा, तेन सहेत्यभिविधिः। मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम् 'आइमर्यादाभिविध्योः' इति सूत्रम् । तत्र य आ दृष्टः स कर्मप्रवचनीयसंज्ञक: स्यादित्यर्थः । तथाच मर्यादाभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः । पञ्चम्यपाङपरिभिः । एतैरिति । अप आङ् परि इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति । कर्मप्रवचनीययुक्ते इत्यतस्तदनुवृत्तेरिति भावः। अप हरेः परि हरेः संसार इति । अपहरेः संसारः परिहरेः संसार इत्यन्वयः । हरि वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननु 'वृक्षं प्रति विद्योतते, भक्तो हरि प्रति' इत्यादौ 'लक्षणेत्यम्भूत' इति कर्मप्रवचनीयत्वात् 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वात् अपवादत्वाच्च बाधित्वा 'पञ्चम्यपाइपरिभिः' इति पञ्चमी स्यादित्यत
For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
४५३
हरेः संसारः। परिरत्र वर्जने । लक्षणादौ तु हरि परि । आ मुक्तेः संसारः । आ सकलाद् ब्रह्म । (५) प्रतिः प्रतिनिधिप्रतिदानयोः १४॥ २॥ एत. योरथयोः प्रतिरक्तसज्ञः स्यात् । (६००) प्रतिनिधिप्रतिदाने च यस्मात् २।३।११॥ अत्र कर्मप्रवचनीयोंगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । (६०१) भकर्तर्यणे पञ्चमी २॥३॥२४॥ कर्तृवर्जितं यहणं हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः । (६०२) विभाषा गुणेऽस्त्रियाम् २।३।२५॥ गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाडयात्-जाडयेन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियाम् कि. आह-परिरत्रेति । 'पञ्चम्यपाल्परिभिः' इत्यत्र वर्जनार्थकेनापेन साहचर्यात् परिरपि वर्जनायक एवं गृह्यत इत्यर्थः । श्रा मुक्तरिति । मुक्तेः प्रागिति यावत् । आसकलादिति । ब्रह्म सकलमभिव्याप्य वर्तत इत्यर्थः। ___ प्रतिः प्रतिनिधि । सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । उक्तसंश इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । प्रतिनिधि : अत्रेति । सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ट्यर्थे पञ्चमी अस्मादेव निर्देशात् । 'कृष्णस्य प्रतिनिधिः' इति तु 'ज्ञा. पकसिद्धं न सर्वत्र' इति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमीत्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्यु. म्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याधात्मना वा प्रत्यर्पयती. त्यर्थः । कर्मणि पञ्चमी । अकर्तणे । हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्वद्ध इति । नियमितकाले प्रत्यर्पणाभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति । अधर्मणः उत्तमणेनेति शेषः । बन्धे. हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्णः उत्तमणेन बद्ध इत्यण्यन्तस्यार्थः। शतेन ऋणेन प्रयोजकका उत्तमणेन प्रयोज्यका बन्धन कारितः अधर्मण इति ण्यन्तस्यार्थः । अत्र शतमृर्ण प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञं च, 'तत्प्रयोजको हेतुश्च' इत्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वा अप. वादत्वात् पञ्चमी स्यात् । अतः अकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृ. त्वान्न ततः पञ्चमीति भावः।
विभाषा । हेतावित्यनुवर्तते । तदाह-गुणे हेतावस्त्रीलिङ्ग इति । विद्यमानादिलि शेषः । जाड्यादिति । जडस्य भावो जाड्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च.
For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[कारक
-
म् । बुद्धया मुक्तः । 'विभाषा' इति योगविभागादगुणे स्त्रियां च क्वचित् । धूमाद. ग्निमान् । नास्ति घटोऽनुपलब्धेः । (६०३) पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् २।३।३२॥ एभियोगे तृतीया स्यात् पञ्चमीद्वितीये च । अन्यतरस्यांना हणं समुच्चयार्थम् , पञ्चमीद्वितीये चानुवर्तेते। पृथग्रामेण-रामात-रामं वा । एवं विना, नाना । (६०४) करणे च स्तोकाल्पकृच्छकतिपयस्यासत्ववचनस्य २।३।३३॥ एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यो स्तः। स्तोकेन स्तोइति ष्यन् । ननु धूमादग्निमानित्यादौ कथं प्रञ्चमी, धूमादेस्गुणत्वादित्यत आहयोगविभागादिति । 'विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादित्यर्थः। ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः गुणेs. स्त्रियामिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च जाड्यावद्ध इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह-अगुणे स्त्रियां च क्वचिदिति। योगविभागस्य इष्टसिद्धयर्थत्वादिति भावः । अत्रागुणे उदाहरति-धूमादिति । अग्निमानित्यनन्तरं ज्ञायत इति शेषः, धूमस्य अग्निज्ञानहेतुत्वात् अत्र धूमस्य अगुणत्वेऽपि हेतुत्वात् ततः पञ्चमीति भावः । स्त्रियामुदाहरति-नास्ति घट इति । घट इत्यनन्तरं इति ज्ञायत इति शेषः । अनुपलब्धेरिति । उपलब्धिः ज्ञानम् , तस्या अभावः अनुपलब्धिः । नन्त. त्पुरुषः । न चार्थाभावेऽव्ययीभावः शङ्कया, अर्थाभावे तयोविकल्पस्यावक्ष्यमाणत्वात्। __पृथग्विना । पञ्चमी द्वितीये चेति । तृतीयाभावपक्षे इति शेषः । 'अपादाने पञ्चमी' 'षष्ठयतसर्थप्रत्ययेन 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते। तथाच तृतीयाभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाभावपने द्वितीयैव सन्निहितत्वात् स्यात् , नतु पञ्चम्यपि, षष्ठयतसर्थत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह-अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येतावतैव सन्निहितद्वितीयासमुच्च. यसिद्धरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम् , अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याः षष्टयतसर्थ' इत्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात् कथमिह तदुपस्थितिरित्यत आह-पञ्चमीद्वितीये चानुवर्तते । मण्डूकप्लुत्येति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना ना. नेति । विना रामेण, रामात्, रामम् । नाना रामेण, रामात् , रामं वा । पृथग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् । 'पृथग्विनान्तरेणत हिरुइनाना च वर्जने ।' इत्यमरः । रामस्य वर्जने सुख्खं नास्तीत्यर्थः । करणे च । एभ्य इति । स्तोक अल्प
For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
काद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः । (६०५) दूरान्तिकार्थभ्यो द्वितीया च २|३|३५|| एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये च । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरम् - दूरात्- दूरेण वा अन्तिकम् - अन्तिकात् - अन्तिकेन वा । असत्ववचनस्य इत्यनुवृत्तेर्नेह | दूरः पन्थाः । ( ६०६) षष्ठी शेषे २३|५० ॥ कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्बाभिभावादिसम्बन्धः शेषः । तत्र षष्ठी स्यात् ।
४५५
कृच्छ्र कतिपय एभ्यश्चतुर्भ्यः इत्यर्थः असत्त्वपदं व्याचष्टे - प्रद्रव्येति । अन्यतरख्या मित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्धैव । तदाह - तृतीयापञ्चम्याविति । स्तोकेन स्तोकाद्वा मुक्त इति । लघुना आयासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये स्विति । द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः । कृच्छ्रेण कृच्छ्राद्वा मुक्तः । कष्टेनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्नेन साधनेनेत्यर्थः ।
दूरान्तिक । एभ्य इति । दूरार्थकेभ्यः अन्तिकार्थं केभ्यश्चेत्यर्थः । चकारः व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः । नतु 'दूरान्तिकार्थः षष्ठयन्यतरस्याम्' इति सन्निहितषष्ट्या अपि व्याख्यानात् । तदाह - चारपन्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् । 'दूरादावसथान्मूत्रं दूरात्पादावनेजनम् ।" इति भाष्यप्रयोगात् सप्तम्यर्थेऽधिकरणेsप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह-असत्ववचनस्येति । दूरः पन्था इत्यत्र पन्थाः द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः ॥ इति पञ्चमी विभक्तिः ॥
I
अथ षष्ठी विभक्तिः । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसम्प्रदानापादानाधिकरणकार काण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्यः अन्यः स्वस्वामिभावादिसम्बन्धः शेषपदार्थ इत्यर्थः । तत्रासति बाधके सम्बन्धो विशेषरूपेण सामान्यरूपेण च भासते, 'न हि निर्विशेषं सामान्यम्' इति न्यायात् । सति तु बाधके मातुः स्मरतीत्यादौ सम्बन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थि तिः । राज्ञः पुरुष इत्यत्र स्वस्वामिभावरूपविशेषात्मना सम्बन्धत्वरूप सामान्यात्मनाच सम्बन्धः षष्ठ्यर्थः । राजाश्रितस्वामित्वनिरूपितस्वत्वात्मकसम्बन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । सम्बन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया सम्बन्धविशेषगम् । सम्बन्धस्त्वाधेयतया राजानं प्रति विशेष्यम्, 'प्रधानप्रत्ययार्थवचनम्' इति
For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
wammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतो गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानो तृप्तः । (६०७) षष्ठी हेतुप्रयोगे २।३।२६॥ हेतुशब्दप्रयोगे हेतौ द्योत्ये वचनन प्रत्ययार्थस्य प्रकृत्यर्थ प्रति प्राधान्यावगमात्। अत एव पुरुषशब्दादपि न षष्टी, राजनिरूपितसम्वन्धाश्रयः पुरुष इति बोधे सम्बन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तः। यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्वरू. पसम्बन्धाश्रथो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवे. त्यन्यत्र विस्तरः। ___ सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्याह-कर्मादीनामपीति । कर्मत्वकर्तृत्वा. दीनामपि सम्बन्धत्वसामान्यात्मना विवक्षायां षष्ठशेव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यम्-'कर्मत्वादीनामविवक्षा शेषः' इति । सतां गतमिति । भावे क्तः । सत्सम्बन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गत. मिति तृतीया भवत्येव । कृयोगलक्षणा षष्ठी तु न भवति, 'न लोक' इति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य सम्बन्धत्वविवक्षायां तु षष्ठी, काश्रिता सर्पिस्सम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः। कर्मस्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधो दकस्योपस्कुरुते इति । एधशब्दःअका. रान्तः पुंलिङ्गः, 'कारके' इति सूत्रे “एधाः पक्ष्यन्ते" इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी। 'जातिरप्राणिनाम्। इत्येकवद्भावः । कर्मत्वविवक्षायाम् एधोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धिपरिष्करणमिति बोधः । एधश्शब्दस्साकारान्तोऽप्यस्ति नपुंसक. लिङ्गः, 'काष्ठं दाविन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् ।' इति कोशात् 'यथैधांसि समिद्धोऽग्निः' इत्यादिदर्शनाच्च । तथा सति एधः दकस्येति छेदः, उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, 'भुवनममृतं जीवन स्यात् दकं च' इति हलायुधकोशात् । तथाच एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरादिकाष्ठविशेषप्रज्वलिताग्नितप्लोदकस्य गुणवि. शेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मस्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसम्बन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करण. त्वस्य शेषत्वविवक्षायां षष्ठी । फलसम्बन्धिनी तृप्तिरिति बोधः।। ___षष्ठी हेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह-हेतौ धोत्ये इति । हेतुत्वे धोत्ये इत्यर्थः । हेतुवाचकात् षष्ठीति फलितम् । हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे
For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
षष्ठी स्यात् । अन्यस्य हेतोर्वसति । ( ६०८ ) सर्वनाम्नस्तृतीया च २|३|२७||
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्टी च । केन हेतुना वसति । कस्य हेतोः । 'निमित्त पर्यायप्रयोगे सर्वासां प्रायदर्शनम्' ( वा १४७३) किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारणम्, को हेतुः, किं प्रयोजनम् इत्यादि । प्रायप्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय इत्यादि । ( ६०६ ) षष्टयतसर्थप्रत्ययेन २|३|३०|| एतयोगे षष्ठी स्यात् । ' - दिक्छन्द -' ( सू ५९५ ) इति पचम्या अपवादः । प्रामस्य दक्षिणतः, पुरः, पुरस्तात्, उपरि, उपरिष्टात् । किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छदान्न भवति । सर्वमाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह - सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात् सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहरति-केन हेतुनैति । सर्वनाम्न इति यदि पञ्चमी स्यात्, तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् । निमित्तपर्यायेति । निमित्तपर्यायाणां प्रयोगे तेभ्यस्तत्समानाधिकरणेभ्यश्च सर्वासां विभक्तीनां प्रायेण प्रयोगो भवतीत्यर्थः । किं निमित्तं वसतीति । प्रथमान्तं द्वितीयान्तं च ज्ञेयम् । इत्यादीति । कस्मात् निमित्तात्, कस्य निमित्तस्य, कस्मिन्निमित्ते । पर्यायग्रहणस्य प्रयोजनमाह — एवं किं कारणमित्यादि । प्रायग्रहणस्य प्रयोजनमाह-- प्रायग्रहणादिति । एवं च ' षष्ठी हेतुप्रयोगे' 'सर्वनाम्नस्तृतीया च' इति सूत्रद्वयं न कर्तव्यं भवतीति भावः । षष्ठयतसर्थ । एतद्योगे इति । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः' इत्यारभ्य 'आहि च दूरे' 'उत्तराच्च' इत्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्य' स्वायें प्रत्यया विहिताः तत्र 'दक्षिणोत्तराभ्यामतसुच्' इति विहितः यः अतसुच्प्रत्ययः तस्यार्थः । दिग्देशकालरूपः स एवार्थो यस्य सः अतसर्थप्रत्ययः तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमः । तथापि लाघवादतसर्थेत्युक्तम्, न स्वस्तात्यर्थेति, संयुक्ताक्षरघटितत्वेन गौरवात् । दिक्शब्देतीति । 'अन्यारात' इति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेः दक्षिणशब्दात् अतसुच् । दक्षिणस्यां दक्षिणस्याः, दक्षिणा वा दिमित्यर्थः । एवं देशे काले च । पुरः इति । पूर्वाशब्दादस्तात्यर्थे 'पूर्वाधरावराणामसि पुरवश्चैषाम्' इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सति 'अस्ताति च' इति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति । 'उपर्युपरिष्टात्' इति सूत्रेण ऊर्ध्वशब्दात्
1
For Private and Personal Use Only
૪૫૭
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
सिद्धान्तकौमुदी
[कारक
(६१०) एनपा द्वितीया २।३।३१॥ एनबन्तेन योगे द्वितीया स्यात् । 'एनपा' इति योगविभागाषष्ठयपि । दक्षिणेन प्राम-ग्रामस्य वा । (६११) दूरान्तिकार्थः षष्ठयन्तरस्याम् २॥३॥३४॥ एतैोंगे षष्ठी स्यात्पञ्चमी च । दूरं निकटं ग्रामस्य-प्रामाद्वा।
(६१२) शोऽविदर्थस्य करणे २२३५१॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सपिषों ज्ञानम् (६१३) अधीगर्थदयेशां कर्मणि २३५२॥ एषां कर्मणि शेषे षष्टी स्यात् । मातुः स्मरणम् । सर्पिषो दय
रिल्प्रत्ययः रिष्टातिल्प्रत्ययः प्रकृतेरुपादेशश्च निपातितः। ऊर्ध्वायां दिशि, ऊर्वाया दिशः, ऊर्ध्वा दिगिति वा अर्थः । एवं देशे कालेऽपि । ___ एनपा द्वितीया । षष्ठ्यतसर्थः इति षष्टयाः नित्यं बाधे प्राप्त आह-योगविभागादिति । एनपेति योगो विभज्यते । 'षष्ठयतसर्थ' इति पूर्वसूत्रात् षष्टीत्यनुवर्तते । एन. बन्तेन योगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति । 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्ये. नप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यम् , दिक्शब्देभ्य एनम्विधेः । भाष्ये तु 'षष्ठयतसर्थ' इति सूत्रात् प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसम्भवादेनपा योगे षष्ठ्यसाधुरेवेति युक्तम् । दूरान्तिकाथैः । एतैरिति । दूरार्थकैरन्तिकार्थकैश्च शब्दोंगे इत्यर्थः । पञ्चमी चेति । ष. ट्यभावे 'अपादाने पञ्चमी' इत्यत अनुवृत्ता पञ्चमीति भावः । 'एनपा द्वितीया' इति 'पृथग्विनानानाभिस्तृतीया' इति द्वितीयातृतीये सन्निहिते अपि न समुच्चीयेते व्याख्यानात्।
शोऽविदर्थस्य । ज्ञः अविदर्थस्येति च्छेदः । ज्ञ इति ज्ञाधातोरनुकरणात् षष्ट्येकवचनम् । वित् ज्ञानं अर्थः यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह-जानातेरज्ञानार्थस्येति । शेषत्वेनेति । सम्बन्धत्वेनेत्यर्थः। शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपि 'प्रतिपदविधाना षष्ठी न समस्यते' इत्येतदर्थ' वधनम् । अधीगर्थ । एषामिति । 'इक् स्मरणे नित्यमधिपूर्वः, तस्यार्थ इवार्थो यस्य सः अधीगर्थः। स्मरणार्थक इति यावत् । शेष हति । 'षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः । मातुः ‘स्मरणमिति । वस्तुतः कर्मीभूतसर्पिसम्बन्धि स्मरणमित्यर्थः। सर्पिषो दयनमिति । वस्तुतः
For Private and Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
धकरणम् १६ ]
बालमनोरमासहिता ।
नम्, ईशनं वा (६१५) कृञः प्रतियत्ने २३ | ५३ ॥ प्रतियत्नो गुणाधानम् | कृञः कर्मणि शेषे षष्ठी स्यादगुणाधाने । एधोदकस्योपस्करणम् (२१५) रुजार्थानां भाववचनानामज्वरेः २२३| ५४ | भावकर्तृकाणां ज्वरिवर्जिताना रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । 'अज्वरिसन्ताप्योरिति वाच्यम्' ( वा १५०७ ) रोगस्य चौरज्वरः, चौरसन्तापो वा । रोगकर्तृकं चौरस -
98
कर्मीभूतसर्पिस्सम्बन्धिदयनमित्यर्थः । 'दय दानगतिरक्षणहिंसादानेषु । दीनान् दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । सर्पिष इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्विसम्बन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । लोकानीष्टे इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः । कृञः प्रति। कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाहकृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधशब्दस्सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवावी । एघश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दः अकारान्तः पुंलिङ्गः । एवश्व उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतः कर्मीभूतैधोदकसम्बन्धि परिष्करणमित्यर्थः ।
1
रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनामित्येतद्वाचष्टे - भावकर्तृकाणामिति । वक्तीति वचनः कर्तरि ल्युट् । प्रकृत्यर्थो न विवाक्षतः । भावः धात्वर्थः वचनः कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह -कर्मणि शेष इति । इदमपि समासाभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृत सन्तापादिपीडोच्यते । गौरं सन्तापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतः कर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघजन्तेन रोगशब्देन शारीरक्षयादिविकारविशेष विवक्षितः । सच रुजायां कर्ता । तत्कर्मणचौरस्य शेषत्वविवक्षायां षष्ठी । रोगस्य चौररुजेति समासो न भवतीति बोध्यम् । अज्वरिसन्ताप्योरिति । 'रुजार्थानां भाववचनानां ज्वरिसन्तापिवर्जितानाम्' इति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठ्याः समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं रोगस्य चौरसन्ताप इत्यत्रापि बोध्यम् । अत्राज्वरिसन्ताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात् षष्ठी स्यादित्यतिव्याप्तिं दर्शयितुमाह - रोगकर्तृकमिति । रोगकर्तृकः वस्तुतः कर्मीभूतचौरसम्बन्धी ज्वरः सन्तापो वेति यावत् । एवञ्च ज्वरिसन्ताप्योः रुजार्थकत्वात् रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणवरस्य शेषत्वविवक्षायां नानेन षष्ठी, किन्तु कृद्योगे षष्ठी, 'षष्ठी शेषे' इत्येव षष्ठी
For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[कारक
%32032 म्बन्धि ज्वरादिकमित्यर्थः । (६१६) आशिषि नाथः २।२।१५॥ आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषि इति किम् । माणघकनाथनम् । तत्सम्बन्धिनी याञ्चेत्यर्थः । (६१७) जासिनिग्रहणनाटकाथ. पिषां हिंसायाम् ॥३॥५६॥ हिंसार्थानामेषां शेषे कर्मणि षष्ठो स्यात् । चौ. रस्योज्जासनम् । निप्रौ संहतो विपर्यस्तो व्यस्तौ वा। चौरस्य निग्रहणनम्-प्रणिहननम्-निहननम्-प्रहणनं वा । 'नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य काथनम् । वृषलस्य पेषणम् , हिंसायाम् किम् । धानापेषणम् । (६१८) व्यवहपणोः समर्थयोः २३५७॥ शेषे कर्मणि षष्ठी स्यात् । छूते क्रयविक्र. वा। अतः चौरज्वरः चौरसन्तापः इति समासो भवत्येवेति भावः । ___ आशिषि नाथः । शेषे, कर्मणि इत चानुवर्तते। तदाह-आशीरर्थस्येति । इदमपि समासाभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीः नाथतेरथः । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि आशासनमित्यर्थः । जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह-हिंसार्थानामित्यादिना । इदमपि समासाभावार्थमेव । चौरस्योज्जासनमिति । 'जसु ताडने 'जसु 'हिंसायाम्' इति चुरादौ । वस्तुतः कर्मीभूतचौरसम्बन्धिनी हिंसेत्यर्थः । 'जसु मोक्षणे' इति देवादिकस्य तु न ग्रहणम् , हिसार्थत्वाभावात् जासीति निर्देशाच्च । निप्राविति । निग्रहणेति निपूर्वस्य हन. धातोः निर्देशः । तत्र नि प्र इत्येतो समस्तो गृह्यते, प्रनीत्येवं व्युत्क्रमेण च गृोते, प्रेति नीति च पृथगपि गृह्येते, व्याख्यानादित्यर्थः । समस्तावुदाहरति-चौरस्य निप्र. हणनमिति । वस्तुतः कर्मीभूतचौरसम्बन्धि हननमित्यर्थः । 'हन्तेरत्पूर्वस्या इति णत्वम् । विपर्यस्तावुदाहरति-प्रणिहननमिति । 'नेगद' इति णत्वम् । हन्तेर्नकारस्य तु न णत्वम् , 'अकुप्वाङ्' इति नियमात् ने कारस्य तदनन्तर्भावात् । व्यस्तावुदा. हरति-निहननं प्रहणनं वेति । निमित्ताभावानिहननमित्यत्र 'हन्तेरत्पूर्वस्य इति णत्वं न। चुरादिरिति । 'नट नृत्तौ इति तु न गृह्यते, नाटेति दीर्घोच्चारणादिति भावः। चौरस्योन्नाटनमिति । उपसर्गवशानाटेहिसायां वृत्तिरिति भावः । चौरस्य प्राथनमिति । 'ऋथ हिंसायाम्' इति घटादौ । 'घटादयो मितः' इति तस्य मित्त्वेऽपि 'मितां हस्वः" इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिंसेत्यर्थः । ___ व्यवहृपणोः। शेषपूरणेन सूत्रं व्याचष्टे-शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यो अर्थी ययोरिति विग्रहः । शकन्ध्वादित्वात् पररूपम् । एकार्थकस्य व्यवपूर्वकहधा. तो पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनि वृत्यर्थमेव । ननु 'पण व्यवहारे स्तुतौ च' इति पणधातुः स्तुतावपि वर्तते, नतु व्यव
For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
यव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं, पणनं वा । समर्थयोः किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः । ( ६१९ ) दिवस्त - दर्थस्य २|३|५८ ॥ यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् । ब्राह्मणं दीव्यति । स्तोतीत्यर्थः । ( ६२० ) विभाषोपसर्गे २|३|५8॥ पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीम्यति । (६२१) प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने २|३|६१ ॥ देवतासम्प्रदानकेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविषो वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छाग
४६१
हार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह-बूते इति । द्यूते अक्षैः क्रीडने क्रमवि क्रयविषयकमूल्यसंवादे चानयोः व्यवहृपणोः एकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वे अकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसम्बन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयक मूल्यसंवादेन ग्रहणं वेत्यर्थः । समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह - गणनेत्यर्थ इति । वस्तुतः कर्मीभूतशलाकासम्बन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राह्मणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवहारार्थ इत्याह- स्तुतिरित्यर्थं इति । वस्तुतः कर्मीभूतब्राह्मणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।
1
"
दिवस्तदर्थस्य । पूर्वसूत्रे निर्दिष्टव्यवहृपणौ तच्छब्देन परामृश्येते । तयोः व्यवहपणोः अर्थ एवार्थो यस्येति विग्रहः । तदाह- द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणं अर्थो यस्य वि इति विग्रहः । क्रयेति । क्रयविक्रयविषयक मूल्य संवादोऽर्थः यस्य दिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम् नतु कृदन्तयोगे समास निवृत्त्यर्थम् । तत् ध्वनयन्नुदाहरति- शतस्य दीव्यतीति । शतमक्षक्रीडनेन क्रयविक्रयविषयक मूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एव 'द्वितीया ब्राह्मणे' इत्युत्तरसूत्रे ' ग्रामस्य तदहः सभायां दीव्येयुः' इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थमित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः । विभाषोपसर्गे इति । उपसर्गे सति व्यवहृपणार्थस्य दिवः कर्मणि षष्ठी वा स्यादित्यर्थः ।
प्रेष्यवः । देवतासम्प्रदानके इति । देवता सम्प्रदानं यस्य तस्मिन्नित्यर्थः । प्रेष्य
।
For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१२
सिद्धान्तकौमुदी
[ कारक
स्य हृविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा । (६२२) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे २/३/६४॥ कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोsहो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् । द्विरहन्यध्ययनम् ।
(६२३) कर्तृकर्मणोः कृति २२३|६५ ॥ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्ण: । 'गुणकर्मणि वेष्यते ' ( वा ५०४२) । जुवोरिति । 'इष गतौ' दिवादिः श्यन्नन्तः, उपसर्गवशात् प्रेरणे वर्तते । प्रेष्यश्च ब्रूव तयोरिति विग्रहः । कर्मण इति । 'अधीगर्थ' इत्यतः कर्मणीत्यनुवृत्तं षष्ठ्या विपरिणम्यत इति भावः । विष इति । हविश्शब्दः न स्वरूपपरः । किन्तु हविर्विशेषवाचः कशब्दपरः, व्याख्यानात् । तथाच देवतासम्प्रदानकक्रियावाचिनोः प्रेष्यब्रुवोः कर्मीभूतः यो हविर्विशेषः तद्वाचकाच्छन्दात् षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये द्वागस्येति । मैत्रावरुण प्रति अध्वर्युकर्तृकोऽयं सम्प्रेषः । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत् प्रेष्य । ' होतायक्षदग्नि छागस्य वपाया मेदस जुषतां हविर्होतज' इति प्रषेण प्रकाशयेत्यर्थः । अत्र यद्यपि 'अग्नये छागस्य वपाया मेदसः प्रेष्य' इत्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि । तथापि तथाविधः प्रैषा भाष्योदाहरणात् । कचिच्छाखायां ज्ञेयः । मेदश्शब्देन वखखण्डतुल्यो मांसविशेष उच्यते । अनुब्रूहि वेति । अग्नये छागस्य हविषो वपाया मेदसोऽनुब्रूहीत्युदाहरणम् । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्य मेदोरूपं तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यबुवोः किम् अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने किम् | माणवकाय पुरोडाशं प्रेष्य । 'हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः' । इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थितमिति अव्यक्तमित्यर्थः ।
"
कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थः येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति । 'दिवस्तदर्थस्य' इत्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतः अधिकरणीभूतं यदहः तत्सम्बन्धि भोजनमित्यर्थः 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति । 'द्वित्रिचतुर्भ्यः सुच्' इति कृत्वोऽथं सुच् । क्षत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव नतु षष्ठी ।
कर्तृकर्मणोः कृति । कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह- कृद्योग इति । सत्र कर्तर्युदाहरति - कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णकतृका सृष्टिरि •
For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४६३
-
नेता अश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।
त्यर्थः । कर्मण्युदाहरति-जगत इति । जगत्कर्मकसृष्टयनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मधातुयोगे अप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी । 'अकथितं च' इत्यत्र भाष्ये स्थितमेतत् । नेता अश्वस्येति । 'अकथितं च' इत्यत्र 'ग्राममजा नयति' इत्युदाहरणे अजा प्रधानं कर्म, ग्रामस्तु गुणकमेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अश्वः प्रधानकर्म, जुध्नस्तु गुण. कति शेयम्।
स्यादेतत्-कृतीति व्यर्थम् । नच तिव्यावृत्त्यर्थ तदिति वाच्यम् , ओदन पचतीत्यादौ 'न लोक' इति लादेशयोगे षष्ठीनिषेधादेव षष्ठयभावसिद्धः। शतेन क्रीतः शत्योऽश्वः इत्यादौ तु तद्धितयत्प्रत्ययाभिहितत्वादेव अचादेः षष्ठी न भविप्वति । न च देवदत्त हिरुगिस्यादौ हिरुगायव्ययबोध्यवर्जनादिक्रियां प्रति कर्मत्वादनेन षष्ठी शङ्कया, 'न लोकाव्यय' इति तनिषेधात् शेषत्वविवक्षायां तु षष्ठयत्र इष्यत एव । एवञ्च परिशेषात् कृयोग एवेयं षष्ठी पर्यवस्यतीति कि कृद्ग्रहणेनेति पृच्छतिकृति किमिति । उत्तरमाह-तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्वं कृतः अनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रियाविशेषणम् । 'सुम्सुपा' इति समासः । अनेनेत्यनुवृत्तौ कृतपूर्वशब्दात् 'पूर्वादिनि 'सपूर्वाञ्च' इति इनिप्रत्ययस्तद्धितः। तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान भवति । ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन स. मासो न सम्भवति । कृतशब्दस्य कटशब्दापेक्षत्वेन सामर्थ्य विरहात् । अत एव तद्धि. तः इनिप्रत्ययोऽपि दुर्लभः । किञ्च कृत इति क्तप्रत्ययेन कटस्थ कर्मणोऽभिहितत्वेन ततः षष्ठयाः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन । क्तप्रत्ययेन कृता अ. भिहितत्वादेव कटात् द्वितीयापि दुर्लभेति चेत् , मैवम् , कृत अम् पूर्व अम् इत्यलो. किकविग्रहवाक्ये कटस्थासन्निहिततया कर्मत्वेनान्वयासम्भवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्यासम्भवे सति नपुंसके भावे कः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाभावात् समासतद्धितौ निर्बाधौ। ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिात कर्मजिज्ञाज्ञायां कटमित्यन्वेति,गुणभूतयापि क्रियया कारकसम्बन्धस्य कटं कृतवानित्यादौ दर्शनात् । तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम् , तस्य भावे विधानात् । नापीनिप्रत्ययेन, तस्य कर्तरि विधानात् । तथाच असति कृद्ग्रहणे षष्ठी स्यात् । तन्निवृत्त्यर्थ कूदग्रहणमिति भाष्ये स्पष्टम् ।
न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यम् , 'नपुंसके क्त भावे
For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
सिद्धान्तकौमुदी . [ कारक(६२४) उभयप्राप्तौ कर्मणि २॥३॥६६॥ उभयोः प्राप्तियस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवा दोहोऽगोपेन । 'श्रीप्रत्यययोरकाकारयो यं नि
षष्ट्या उपसङ्ख्यानम्। इति तस्य च वर्तमाने' इति सूत्रस्थवार्तिकेन निष्ठायोगे ष. ष्ठीनिषेधस्यात्राप्रसक्तेः । तथाच षष्ठ्यभावे उक्तरीत्या अनभिहितत्वात् द्वितीया सु. लमैव । नच कृतेऽपि कृद्ग्रहणे षष्ठी दुरा, कृतेति तप्रत्ययात्मककृयोगस्य सत्त्वादि. ति वाच्यम् , कृग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापनकृयोगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तयोगः षष्ठीनिमित्तम् । न चैवं सति ओदनस्य पाचकतमः, ओदनस्य पाचकग्रहणम् इत्यादौ षष्ठी न स्यात् , वृत्त्यनन्त तकृयोगाभावात् । तथाच ओदनं पाचकतमः, ओदन पाचकग्रहणम् इति द्वितीयैव स्यादिति वाच्यम् , इष्टापत्तेः । अत एव मतुबधिकारे 'प्रज्ञाश्रद्धार्चाभ्यो णः' इत्यत्र 'प्राज्ञो व्याकरणम्' इत्युदाहरिष्यते मूलकृता। नचैवं घटः क्रियत इत्यत्रापि कर्मणो विवक्षाभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनान्वयसम्भः वात् अनभिहितत्वात् द्वितीया दुर्वा रेति वाच्यम्, वैषम्यात्। कृतपूर्वीत्यत्र हि अलौ. किकविग्रहदशायां कटशब्दस्यासन्निधानात् कर्मणो विवक्षा न सम्भवतीति भावे तप्रत्यय इति युक्तमाश्रयितुम् । क्रियते इत्यत्र तु न सम्भवत्येवाविवक्षा, कृत्तद्धित. समासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाभावात् । तथाच वृत्तिविषय एवार्य व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु ओदनं पाचकतम इत्यादौ द्वितीया असाधुरेव, षष्ठ्येव साधुरिति प्रपञ्चितम् । विस्तरभयान्नेह तल्लिख्यते । ननु भाकाव्ये
"ददैदुःखस्य माग्भ्यो धायैरामोदमुसमम् ।
लिम्पैरिव तनोतिश्चेतयः स्यात् ज्वलो न कः॥" इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी। माइग्भ्यो दुःखं ददैर्ददनिः, पुष्पादीनाम् आमोदं परिमलं धायैःपोषकैः, तनोः तनुं शरीरं लिम्पैः लिम्पद्भिः कः चेतयः प्राणी ज्वलः ज्वलचिव न स्यादित्यर्थः। अत्रामोदस्योत्तमस्येति कर्मणि षष्ठ्या भाव्यम् । धायशब्दस्य पोषणार्थकधाञ्धातोः 'ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेत् , न-उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पोषकैरित्येवं गृहीत्वेत्यध्याहृत्य तधोगे द्वितीयाया उपपत्तः।।
उभयप्राप्तौ कर्मणि । पूर्वसूत्रात् कृतीत्यनुवर्तते । उभयप्रासाविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाह-उभयोः प्राप्तियस्मिन् कृतीति । एकस्मिन् कृति उभयोः कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात् , नतु कर्तरीति यावत् । आश्चर्य
For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४६५
यमः' (वा १५१३)। भेदिका विभित्सा वा रुद्रस्य जगतः । 'शेषे विभाषा' (वा १५१३)। स्त्रीप्रत्यये इत्येके । विचित्रा जगतः कृतिहरे:-हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येण-आचार्यस्य वा । (६२५) क्तस्य च वर्तमाने २।३१६७॥ वर्तमानार्थस्य कस्य योगे षष्ठी स्यात् । 'न लोक-- (सू ६२७ ) इति निषेधस्यापवादः । राज्ञा मतो बुद्धः पूजितो वा। (६२६) मधिकरणवाचिनश्च २।३।६८॥ तस्य योगे षष्ठी स्यात् । इदमे. षामासितं शयितं गतं भुक्तं वा ।
इति । अगोपकर्तृकः गोकर्मकः यो दोहः सः अद्भुत इत्यर्थः। उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मः न्येव षष्ठी स्यान्न तु कर्तरि । बहुवीयाश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभात् मिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति । स्त्रीप्रत्यययोरिति। वार्तिकमेतत् । 'स्त्रियां क्तिन्' इत्यधिकारविहितयोः अकाकारप्रत्यययोः कृतोः प्रयोगे कर्मण्येवेत्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल । अकादेशः, टाप 'प्रत्ययस्थात्' इतीत्त्वम् । बिभित्सेति । भिदेः समन्तात् 'अ प्रत्ययात्' इत्यकारप्रत्ययः टाप् । रुद्रकर्तकं जगत्कर्मकं भेदन, भेदनेच्छा बेत्यर्थः। शेषे विभाषेति । इदमपि वातिकम् । अकाकारप्रत्ययव्यतिरिक्तप्रत्यययोगे 'उभयप्राप्ती' इति नियमो विकल्प्यत इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तका जगकमिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तकं शब्दकर्मकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् । . . क्तस्य च वर्तमाने । ननु 'कर्तृकर्मणोः कृति' इत्येव सिद्धे किमर्थमिदमित्यत आहन लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्च 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धः पृथक ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः राजकर्तृकवर्तमानज्ञानविषयः राजकर्तकवर्तमानपूजाश्रय इति क्रमेणार्थः । 'पूजितो यः सुरासुरैः त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः । नच 'मतिबुद्धि' इत्यनेन भूतक्तस्य बाधः शयः, 'तेन' इत्यधिकारे उपज्ञाते इति लिङ्गात् तदबाधज्ञापनादित्याहुः । अधिकरणवाचिनश्च । शेषपूरणेन सूत्रं व्याचष्टेक्तस्य योगे षष्ठीति । शयितमिति । शेतेऽस्मिन्निति शयितम् । 'शीङ् स्वप्ने 'तोऽधिकरणे च धौव्या इति क्तप्रत्ययः । तत्र एषामिति कर्तरि षष्ठी। 'न लोक' इति निषे.
बा०३०
For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
દહ
सिद्धान्तकौमुदी
[ कारक
(६२७) न लोकाव्ययनिष्ठाखलर्थतृनाम् २/३६६॥ एषां प्रयोगे षष्ठी न स्यात् । लादेश:- कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उ-हरिं दिदृक्षुः- अलङ्करिष्णुर्वा । उक - दैत्यान्धातुको हरिः । 'कमेरनिषेधः ' ( वा १५१९ ) । लक्ष्म्याः का मुको हरिः । अव्ययम् । जगत्सृष्ट्वा । सुखं कर्तुम् । निष्ठा-विष्णुना हता दैत्याः । दैत्यान्हतवान्विष्णुः । खलर्थ:- ईषत्करः प्रपवो हरिणा । तृन् इति प्रत्याहारः
धापवादः । 'भुजेस्तु प्रत्यवसानार्थकत्वात् अधिकरणे क्तप्रत्ययः । इदमेषां भुक्तमोदनस्य इत्यत्र तु कर्तृकर्मणोर्द्वयोरपि षष्टी । 'उभयप्राप्तौ ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन 'कर्तृकर्मणोः कृति' इति षष्ठ्या एव तन्नियमाभ्युपगमात् ।
1
न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततः ल ऊकेत्यत्र आद्गुणे लो भवति । लादेशैति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडा - atri सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाभावात् तदादेशग्रहणमिति भावः । कुर्वन् कुर्वाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधात् द्वितीया । उ इति । तदुदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेस्सन्नन्तात् 'सनाशंसभिक्ष उः' इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोsf कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । श्रलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते । 'अर्ल कृन्' इत्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान् धातुको हरिरिति । 'आ क्वेस्च्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकारे 'लपपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्' इति तच्छीलादिषु हनधातोः कर्तरि सकञ्प्रत्ययः, उपधावृद्धिः । 'हो हन्तेः' इति हस्य घत्वम् | 'हनतोऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः घातनधर्मा घातनसाधुकारी वेत्यर्थः । कमेरिति । वार्तिकमिदम् | उकान्तकमेर्योगे षष्ठया निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति । 'लषपत' इत्यादिना उकञ् । श्रव्ययमिति । उदाहरणसूचनमिदम् । जगत्सृष्ट्वेति । हरिरास्ते इति शेषः । 'समानकर्तृकयोः” इति क्त्वाप्रत्ययः । ' क्त्वातोसुन्कसुनः' इति अव्ययत्वम् । सुखं कर्तुमिति । भक्तल्य हरिः प्रभवतीति शेषः । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्यत इति केचित् । वस्तुतस्तु अविशेषात् अकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरण सूचनमिदम्। 'तक्तवतू निष्ठा' । विष्णुना हता इति । अत्र भूते इति कर्मणि कः । करि पष्ठीनिषेधात्ततीया । दैत्यान् हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठी
1
1
For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४६७
'शतृशानचौ' इति तृशन्दादारभ्य तृनो नकारात् । शानन् । सोमं पवमानः। चानश् । आत्मानं मण्डयमानः। शतृ। वेदमधीयन् । हुन् । कर्ता लोकान् । द्विषः शतु. वोः (वा १५२२)। मुरस्य-मुरं वा द्विषन् । सर्वोऽयं कारकषष्ठयाःप्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः । (६२८) मनोवि
-
निषेधात् द्वितीया। खला इति । उदाहरणसूचनमिदम् । ईषत्कर इति । ईषद्दुम्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्' इति खलर्थको युजपि गृह्यते । ईषत्पानः सोमो भवता ।
ननु तृन्नित्यनेन यदि तृनेव गृह्यत, तर्हि सोम पवमान इत्यादौ न स्यादित्यत आह-तृन्निति प्रत्याहार इति । कुत आरम्य किमन्तानामित्यत आह-शतृशानचा. विति तृशम्दादारभ्य तनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दा, तत आरभ्य 'तृन्' इति सूत्रस्थनकारपर्यंन्तानामित्यर्थः । 'लटः शतृशा. नचावप्रथमासमानाधिकरणे, सम्बोधने च, तो सत् , पूड्यजोश्शानन् , ताच्छील्यवयोवचनशक्तिषु चानश् , इधार्योश्शनकृच्छ्रिणि, द्विषोऽमित्रे, सुभो यज्ञसंयोगे, अहः प्रशंसायाम् , आ क्वेस्तच्छोलतद्धर्मतत्साधुकारिषु, तृन्' इति सूत्रकमः । अत्र शानन्नादितृन्नन्तानां ग्रहणम् , नतु 'लटः शतृ' इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तल्य कापि पृथक् प्रयोगानईत्वात् । नापि शानचः, लादेशत्वादेव सिद्धेः इति स्थितिः । शाननिति । उदाहरणसूचनमिदम् । सोमं पवमान इति । 'पूड्यजोशानन् । आत्मानं मण्डयमान इति । 'मडि भूषायाम्। 'ताच्छील्यवयोवचन' इति चानश् । शत् इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । 'इधार्योः' इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तन्प्रत्ययः । शानन्नादितृन्नन्तानां लादेशत्वाभावात् प्रत्याहाराश्रयणमिति बोध्यम् । द्विषश्शतुवैति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । 'द्विषोऽमित्रे' इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विक. ल्पोऽयम् । सर्वोऽयमिति । 'अनन्तरस्य' इति न्यायादिति भावः । शेषे षष्ठी विति । शाब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः। ब्राह्मणस्य कुर्वन्निति । हरिरिति शेषः । लटरशनादेशः । मुखतो ब्राह्मणसम्बन्धिसृष्टयनुकूलव्यापारवानित्यर्थः । कर्मत्वविव. क्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति । ग्लाजिस्थश्च पस्नुः इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसम्बन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।।
अकेनोभविष्य । नेत्यनुवर्तते । अकश्च इन् च तयोरिति विग्रहः । भविष्यच्च आधमण्यं च तयारिति द्वन्द्वः । यथासङ्ख्यं नेष्यते, भाष्यात् । भविष्यति आधमण्ये के
For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
'ग्यदाधमर्ययोः २।३।७०॥ भविष्यत्यकस्य भविष्यदाधमार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । व्रज गामी । शतं दायो। (६२६) कृत्यानां कर्तरि वा २।३।७१॥ षष्ठो वा स्यात् । मया-मम वा सेव्यो हरिः । कर्तरि इति किम् । गेयो माणवकः साम्नाम् । 'भव्यगेय- (सू २८९४) इति कर्तरि यद्विधा. नादनभिहितं कम । भत्र योगो विभज्यते । कृत्यानाम् । उभयप्राप्तौ इति, न इति चानुवर्तते । तेन नेतच्या व्रज गावः कृष्णेन । ततः कर्तरि वा। उक्तोऽर्थः।
वर्तमानयोः अकेनोः योगे षष्ठी नेति फलितम्। तत्र आधमोशः अकेन नान्वेति 'आवश्यकाधमर्ययोणिनिः' इत्युक्तेः । अतः भविष्यदंश एवाके अन्वेति । इनेस्तु भविष्यदाधमयॆयोरुभयोरप्यन्वयः, सम्भवात् । तदाह-भविष्यश्यकस्येति । भविष्यदाधमार्थेनश्चेति । भविष्यदर्थकस्य आधमार्थकस्य चेन इत्यर्थः। सतः पालक इति । सज्जनान् पालयिष्यन् हरिः प्रादर्भवतीत्यर्थः । 'तुमुन्ण्वुलौ क्रियायां क्रिया. र्थायाम्' हात भविष्यति ण्वुल, तत्र 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवृ. त्तेः । ओदनस्य पाचक इत्यत्र तु न षष्ठीनिषेधः, ‘ण्वुल्तृचौ' इत्यस्य भविष्यति वि. धानाभावात् । व्रजं गामीति । 'गमेरिनिः' इत्यौणादिक इनिः । स च भविष्यति वि. हितः, 'भविष्यति गम्यादयः' इत्युक्तेः। गोष्ठं गमिष्यन्नित्यर्थः। शतं दायीति । ऋणत्वेन गृहीतं शतं प्रत्यर्पयतीत्यर्थः । 'आवश्यकाधमय॑योणिनिः इत्याधमण्य णिनिः । तस्य भविष्यति विधानाभावात् भविष्यदर्थकतया गतार्थत्वं न शङ्कयम् । ____ कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे-षष्ठी वा स्यादिति । कृत्या इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । 'कर्तृकमणोः' इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षे सेवायाम्। 'ऋहलोयॆत्' इति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुः अनभिहितत्वात् षष्ठीतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्य 'अचो यत्' इति यत्प्रत्ययाभिहि. तत्वात् कथं षष्ठीप्रसक्तिरित्यत आह-भव्येति । ननु 'नेतव्या व्रजं गावः कृष्णेन' इत्यत्र कृत्यसञ्जकतव्यप्रत्यययोगात् । उभयप्राप्तौ' इति बाधित्वा कृष्णात् षष्ठीवि. कल्पः स्यात्, व्रजातु 'कर्तृकर्मणोः कृति' इति नित्यं षष्ठी स्यादित्यत आहअत्र योगो विभज्यत इति। विभागप्रकारं दर्शयति-कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोः उभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति। नेता अश्वस्य स्वघ्नस्य स्त्रुघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरिक्ते चरितार्थस्य 'दोग्धव्या गावः पयः कृष्णन' इत्यादौ गुणकर्मणः उक्तत्वेन प्रधानकर्मणि चरितार्थनानेन परत्वात् बाधात्।
For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
ટ
(६३०) तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् २/३ / ७२ ॥ तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा | अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति । (६३१) चतुर्थी. चाशिष्यायुष्यमद्रभद्रकुशल सुखार्थहितैः २|३|७३॥ एतदर्थेयोंगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिषि, आयुष्यं चिरञ्जीवितं कृष्णाय - कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायस्वादन्यतरो न पठनीयः ।
(१३२) माधारोऽधिकरणम् १४४५ ॥ कर्तृकर्मद्वारा तन्निष्ठकियाया आधारः कारकमधिकरणसंज्ञः स्यात् । ( ६३३) सप्तम्यधिकरणे च | २|३|
ततः कर्तरि वैति । ' कृत्यानाम्' इति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक् प्रणतव्यमित्यर्थः । उक्तोऽर्थ इति । ' कृत्यानाम्' इत्यनुवत्यं कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषये मया मम वा सव्यो हरिरित्यादावि - दमवतिष्ठते ।
अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठयां नित्यं प्राप्तायां तृतीयाविकल्पोऽयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्ध अर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन गौरिव गवय इत्यादौ नेत्याहुः | अतुलोपमाभ्यामिति पर्युदासात् अनव्यययोग एवेदमित्यन्ये । चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र, भद्र, कुशल, सुख, अर्थ, हित एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चयावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ शमिति सुखपर्याय: । प्रयोजनमित्यर्थ पर्यायः । पथ्यमिति हितपर्यायः । 'हितयोगे च इति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननु 'स्वं रूपम्' इति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह- व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थेरिति व्याख्यानमयुक्तमित्यत आह-मद्रभद्रयोरिति । इति षष्ठी विभक्तिः ।
I
1
1
अथ सप्तमी विभक्तिः । श्राधारोऽधिकरणम् । कारके इत्यधिकृतं प्रथमान्ततया विपरिणम्यते तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात् क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किन्तु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह - कर्तृकर्मद्वारेति । तनिष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः 1
I
For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
३६ ॥ अधिकरणे सप्तमी स्यात् , चकाराद्र्रान्तिकार्थेभ्यः । औपश्लेषिको वैषयि. कोऽभिव्याप्रकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यो पचति । मोशे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । 'दूरान्तिकार्थेभ्यः-' (सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः। 'क्तस्येन्विषयस्य कर्मण्युप.
सप्तम्यधिकरणे च । चकाराद्रेति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति पूर्वसूत्रात् दूरान्तिकार्थेभ्य इत्यस्य चकारेणानुकर्षणादिति भावः। औपश्लेषिक इति । 'उपश्लेषः संयोगादिसम्बन्धः । तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयता. सम्बन्धकृत आधारः द्वितीय इत्यर्थः । अभिव्यापक इति। सकलावयवव्याधिकृत आधारस्तृतीय इत्यर्थः। तत्र औपश्लेषिकं कर्तद्वारकमाधारमुदाहरति-कटे प्रास्ते इति । देवदत्त इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्या पचतीति । तण्डुलानिति शेषः। साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति-मोक्ष इच्छास्तीति । अन्न कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छा. द्वाराधारत्वादधिकरणत्वम् । अथाभिव्यापकमाधारमुदाहरति-सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्तिं पुरस्कृत्य आत्मद्वारा सत्ता. धारत्वात्सर्वस्याधिकरणत्वम् ।
अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति-वनस्य दूरे अन्तिके वेति । दूरमन्ति. कमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः सम्बन्धः तत्कृतमौपश्लेषिकमिति व्युत्प. त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एव 'अधिकरणं नाम त्रिप्रकारम्व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितु. महति अन्यदत उपश्लेषात् । 'इको यणचि' अच्युपश्लिष्टस्या इति 'संहितायाम्। इत्यत्र भाष्य सङ्गच्छते। अच्युपश्लिष्टस्य अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति 'तत्र च दीयते कार्य भववत्' इत्यत्र भाष्यं सङ्गच्छते। अत एव च तदस्मिन्नधिकमिति दशा. न्ताः' इत्यत्र एकादश माषा अधिका अस्मिन् कार्षापणशते इत्यत्राधिकानाम् एकादशानां कथं शतमधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणासम्भवात् औपश्ले
For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
सख्यानम्' (वा १४८५ ) । अधीती व्याकरणे । अधीतमनेनेति विग्रहे 'इष्टादि • भ्यश्च' ( सू १८८८ ) इति कर्तरीनिः । 'साध्वसाधु प्रयोगे च' ( वा १४८६ ) । साधुः कृष्णो मातरि, असाधुर्मातुले । 'निमित्तात्कर्मयोगे ' ( १४९० ) । निमित्तमिह फलम् | योगः संयोगसमवायात्मकः ।
'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
४७१
किमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते । एवञ्च 'कटे आस्ते' इत्यादौ औपलेविकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात् । एवञ्च 'कटे आस्ते ' इस्माद एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम् । सर्वावयवव्याप्तिकृताधिकरणस्वमेष मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसम्मतत्वात् । अत एव 'स्वरितेनाधिकारः' इति सूत्रे 'साधकतमं करणम्' इति सूत्रे च भाष्ये 'अधिकरणमाचार्यः किं मन्यते । यत्र कृत्स्नमाधारात्मा व्याप्तो भवति । तर्हि इहैव सप्तमी स्यात् - तिलेषु तैलं, दहिन सर्पिः इति । गङ्गायां घोषः, कूपे गर्गकुलम् इत्यत्र तु न स्यात्, मुख्य एव कार्यसम्प्रत्ययादित्याशङ्कय स्वरितेनाधिकं कार्यं भवतीति वचनात् तमग्रहणाच्च न दोषः" इति समाहितम् । एवञ्च 'कटे आस्ते' गङ्गायां घोष:' इत्यादौ गौणमव्यधिकरणं सप्तम्यर्थं एव । यदि तु 'गङ्गायां घोषः' इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः ।
I
तस्येन्विषयस्येति । न च 'कृतपूर्वी कटम्' इत्यत्रापि सप्तमी शया, इन्प्रत्ययान्तः यः कप्रत्ययान्तः तस्य कर्मणीत्यर्थाभ्युपगमात् । कर्तरीनिरिति । भावक्तान्तात् अधीतशब्दात् कर्तरीनिप्रत्यये कृते अधोत्यस्याधीतवानित्यर्थः पर्यवस्यति । किम् अधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणम् अध्ययने कर्मत्वेनान्वेति । तच्च व्याक• रणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटम् इतिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः । साध्वसाधुप्रयोगे चेति । सप्तमी वक्तव्येति शेषः । साधुरिति । हितका शेत्यर्थः । श्रसाधुरिति । अहितकारीत्यर्थः । उभयत्र शेषषष्ठ्यपवादः । 'साधुनिपुणाभ्यामचयाम्' इत्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा - साधुर्भत्यो राजनि ।
1
तवकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणस्य प्रयोजनं वक्ष्यते । निमित्तादिति । कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी : वाच्येत्यर्थः । ननु 'जाडयेन बद्ध' इत्यत्रापि सप्तमी स्यादित्यत आह-निमित्तमिह फलमिति । फलमेवेत्यर्थः । इष्टसाधताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजनकत्वादिसम्बन्धं व्यावर्तयितुमाह-योगः संयोगसमवायात्मक इति । अयुत सिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोगः । चर्मणीति । चर्मार्थं व्याघ्रं हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा
1
For Private and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
છ૭૨
सिद्धान्तकौमुदी
[ कारक
केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥ [ इति भाष्यम् ] हेतौ तृतीयात्र प्राप्ता । सीमा अण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् । वेतनेन धान्यं लुनाति । (६३४) यस्य च भावेन भावलक्षणम् २।३।३७ ॥ यस्य क्रियया क्रियान्तरं लक्ष्यते, ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । 'अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्यै च' (वा १४८७-१४८८) सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असचर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । मत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव । केशेष्विति । केशार्थमित्यर्थः । चमरी मृगविशेषः । सीम्नीति । सीमार्थमित्यर्थः । हेतुतृतीया प्राप्तेति । तादर्थ्यचतुर्थ्यपीति बोध्यम् । सीमा अण्डकोश इति । 'सीमा घट्टस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम् । इति मेदिनी। पुष्कलको गन्धमृग इति । 'अथ पुष्कलको गन्धमृगे क्षेपणकीलयोः ।। इति मेदिनी। अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव । हरदत्तस्तु सीमा प्रामादि. मर्यादा । तस्याः ज्ञानार्थे पुष्कलकः शङ्कर्हतः निखात इति व्याचष्ट । अत्र पुष्कलकेन' कर्मणा सीम्नः संयोगो बोध्यः। वेतनेनेति । अत्र वेतनं भृतिद्रव्यम् , तदर्थमित्यर्थः । अन्न वेतनस्य लूयमानस्य धान्यस्य च तादर्थ्यमेव सम्बन्धः, न तु संयोगा, नापि समवाय इति भावः।
यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे-यस्य क्रिययेति । क्रिया च कश्रिया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति-गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वसम्बन्धे सप्तमी । शेषषष्ठ्यपवादः । वर्तमान दोहनविशिष्टाभिगोभिर्जाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्ष.. कता। गवां तु तदाश्रयतया। ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । दुग्धासु गत इत्यत्र तु अतीतदोहनविशिष्टाभिः गोभिर्जाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गत इत्युदाहार्यम् । अत्र यदवश्य पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा-यं कमण्डलुपाणि भवानद्राक्षीत् स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दष्टः । तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्प. ष्टम् । 'उदिते आदित्ये जुहोति' इत्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदि. तादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । 'उपरागे नायात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणससम्येवेत्यन्यत्र विस्तरः।
For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
४७३
न्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति । ( ६६५) षष्ठी चानादरे २|३| ३४ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्रात्राजीत् । रुदन्तं पुत्रादिकमनादृत्य सन्न्यस्तवानित्यर्थ: । (६३६) स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च २/३/३६ ॥ एतैः सप्तभिर्योगे षष्ठी सप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गर्वा - गोषु वा स्वामी । गव-गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः । ( ६३७) आयुक्तकुशलाभ्यां चासेवायाम् २|६|४० || आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने - हरिपूजनस्य वा । आसेवायाम् किम् । आयुक्तो गौः शकटे । ईषयुक्त इत्यर्थः ।
•
I
'
षष्ठी चानादरे । चात्सप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्येत ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह - अनादराधिके इति । अनादरः अधिको यस्मादिति विग्रहः । रुदति रुदत इति । कदा संन्यस्तवानिति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठी सप्तम्योरर्थः । अनादर विशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदन क्रियाविशिष्टपुत्रादिज्ञाप्यम् अनादर विशिष्टं प्रव्रजनमित्यर्थः । फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीश्वर । षष्ठी सप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ट्यैव सिद्धे किमffee षष्ठीविधानमित्यत आह - षष्ठयामेवेति । गवां गोषु वेति । गोसम्बन्धीत्यर्थः । गवां गोषु वा ईश्वरः । गवां गोषु वा अधिपतिः । गवां गोषु वा दायादः । पुत्रादिभिर्ग्रहीतुं योग्यः पित्राद्यार्जितधनांशो दायः । तमादत्त इति दायादः | 'आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात् कः । गोसम्बन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः । नित्यसाकाङ्क्षत्वादवृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । 'यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्दः स्वाभिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसम्बन्धीत्यर्थः । सम्बन्धश्च भोक्तृत्वरूपः । तदाह-गा एवेति । एवशब्दात् महिषादिव्यावृत्तिः । श्रयुक्त | आसे. वापदं व्याचष्टे - तात्पर्ये इति । औत्सुक्ये इत्यर्थः । 'तत्परे प्रसितसक्ताविष्टार्थोद्युक्त उत्सुकः ।' इत्यमरः । आयुक्तपदं व्याचष्टे - व्यापारित इति । प्रवर्तित इत्यर्थः । श्रयुक्तः कुशलो वेति । हरिपूजनविषये आयुक्तः प्रवर्तित इत्यर्थः । अत्र वैषयिकाधिकरणत्वविवक्षायां सप्तम्यामेव प्राप्तायां, सम्बन्धमात्रविवक्षायां तु षष्ठ्यामेव प्राप्तायां वचनम् । श्रायुक्तो गौरिति । आङीषदर्थे । 'युजियोंगे' । तदाह - ईषयुक्त इत्यर्थ इति ।
For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
કષ્ટ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
-
(६३६) यतश्च निर्धारणम् २।३।४१ ॥ जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीप्तम्यौ स्तः । नृणां नृषु वा द्विजः श्रेष्ठः । गव-गोषु वा कृष्णा बहुक्षीरा । गच्छतो- गच्छत्सु वा धावन्छीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः । (६३६) पञ्चमी विभक्ते २।३।४२ ॥ विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पश्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । (६४०) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः २।३।४३। आभ्यां योगे सप्तमी स्यादर्द्धायाम्, न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा ।
1
यतश्च निर्धारणम् । जातिगुणेति । यत इति तत इति च पञ्चम्यर्थे तसिः । यस्मा. त्समुदायात् एकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं स्वेतरव्यावृत्तधर्मविशेपवत्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात् षष्ठीसप्तम्यावित्यर्थः । अत्र स्वराउदेन एकदेश उच्यते । तत्र जात्या पृथक्करणमुदाहरति-नृणां नृषु वेति । नृशब्दो मनुष्यसमुदाये वर्तते । उद्भूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योः अवयवावयविभावः सम्बन्धोऽर्थः । उदाहृतनि र्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तचैष्ठ्यरूप - धर्मंक इत्यर्थः । गुणेन पृथक्करणमुदाहरति गवां गोषु वेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः । क्रियया पृथक्करणमुदाहरतिगच्छतां गच्छत्सु वेति । गच्छत्समुदायैकदेशभूतो धावन् स्वेतरव्यावृत्तशैत्रयधर्मक इत्यर्थः । संज्ञया पृथक्करणमुदाहरति-छात्राणामिति । छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः ।
पञ्चमी विभक्ते । विभागो विभक्तमिति । भावे क्तप्रत्ययाश्रयणादिति भावः । 'यतश्च निर्धारणम्' इत्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजान च सामान्यात्मना अभेदो विशेषात्मना भेदश्व स्थितः । एवञ्च निर्धारणे सर्वत्र कथञ्चिद्भेदस्य सत्त्वात् विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेण अभेदः तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह – निर्धार्यमाणस्येति । निर्धारणावधेरिति शेषः, 'यतश्च निर्धारणम्' इत्वनुवृत्तेः । अत्रावधिव्यावृत्तधर्मवत्त्वबोधनमेव न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति- माथुरा इति । अवधित्वं पञ्चम्यर्थः । मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाव्या इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोः गोत्वाश्वत्ववद्विरोधात् कथञ्चिदपि तद्रूपेण नाभेद इति निर्धारणावधेः पञ्चमीति भावः । साधुनिपुणाभ्याम् । शेषषष्टयपवादः । मातरि साधुरिति ।
I
For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
1
अर्चायाम् किम् । निपुणो राज्ञो मृत्यः । इह तत्त्वकथने तात्पर्यम् । 'अप्रत्यादिभि• रिति वक्तव्यम्' ( वा १४९३ ) । साधुर्निपुणो वा मातरं प्रति परि अनु वा । (६४१) प्रसितोत्सुकाभ्यां तृतीया च २|३|४४|| आभ्यां योगे तृतीया स्यात् चात्सप्तमी । प्रसित उत्सुको वा हरिणा - हरौ वा । (६४२) नक्षत्रे च लुपि २|३|४५ || नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानातृतीया सप्तम्यौ स्तोऽधिकरणे । 'मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् । पुष्यै शनिः । ( ६४३ ) सप्तमीपञ्चम्यौ कारकमध्ये २।३।७ ॥ शक्तिद्वयमध्ये यौ कालाध्वानो ताभ्यामेते स्तः । अद्य भुक्त्वायं व्यहे - याद्वा भोक्ता । कर्तृशक्स्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे - कोशाद्वा लक्ष्यं
BSN
हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः । शुश्रूषायामिति शेषः । निपुणो राह इति । साधुशब्दप्रयोगे तु अर्ची विनापि सप्तमी भवत्येव, 'साध्वसाधुप्रयोगे च' इत्युक्तेः । इह साधुग्रहणं तु अर्घायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् । अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः । प्रसितोत्सुकाभ्याम् | 'तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः' इत्यमरः । वैषयिकाधिकरणत्वे सप्तम्यामेत्र प्राप्तायामिदं वचनम् ।
नक्षत्रे च लुप | नक्षत्र इत्यनन्तरं प्रकृत्यर्थे सतीति शेषः । लुप्ाब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो विवक्षितः । तदाह-नक्षत्रे प्रकृत्यर्थे इति । श्रधिकरण इति । 'सप्तम्यधिकरणे च' इत्यतः मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनैति । मूलनक्षत्रयुक्तकाल इत्यर्थ: । 'नक्षत्रेण युक्तः कालः' इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूल प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् । सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कर्त्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात् कारकयोर्मध्यमिति विग्रहः । तदाह-शक्तिद्वयमध्ये इति । 'कालाध्वनोः" इत्यनुवृत्तेः पञ्चम्यन्ततया विपरिणम्यत इत्याह - यौ कालाध्वानाविति । श्रद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्वयहे अतीते तत्समोपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतन भुजिक्रियानिरूपित कर्तृत्वस्य द्वयहोत्तरदिनगतभुजिक्रियानिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कर्त्रादिपरत्वे त्विह न स्यात्, क्वाप्रत्ययस्य विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदात् भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति - इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरणत्वं पञ्चमीसप्तम्योरर्थः । इह तिष्ठन्नयमिष्वासः इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्ये
For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
सिद्धान्तकौमुदी
[ कारक
विध्यॆत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते। 'तदस्मिन्नधिकम् -' ( सू १८४६ ) इति ' यस्मादधिकम् - ( सू ६४५ ) इति च सूत्रनिर्देशात् । लोके - लोकाद्वा अधिको हरिः ।
(६४४) अधिरीश्वरे । १४६७ ॥ स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् । (६४५) यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी | २|३| ६ ॥ अत्र कर्मप्रवचनीययुक्त सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । 'सप्तमी शौण्डैः' ( सू ७१७ ) इति समासपक्षे तु रामाधीना । 'अषडक्षदित्यर्थः । कर्तृकमशक्त्योरिति । कर्तृत्वकर्मत्वरूप शक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कर्णादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमप्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसम्बन्धे शेषषष्ठयेवोचितेत्याशङ्कयाह- श्रधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसम्बन्ध सप्तमीपञ्चम्योरर्थः । लोकापेक्षा श्रेष्ठ इत्यर्थः ।
I
1
अधेः कर्मप्रवचनीयकार्यं वक्ष्यन् कर्मप्रवचनीयसज्ञामाह - अधिरीश्वरे । ईश्वरशब्देन ईश्वरत्वं स्वस्वामिभावसम्बन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह – स्वस्वामीति । यस्मादधिकम् । कर्मप्रवचनीययुक्ते इत्यनुवर्तते । तदाह - कर्मप्रवचनीयेति । शेषषष्ठ्यपवादः । उप परा इति । अवधित्वं सप्तम्यर्थः । तदाह - परार्धादधिका इत्यर्थं इति । यस्मादधिकं सङ्ख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रदचनीयत्वस्येदं फलम् । यस्येश्वरवचनमित्यस्य यत्सम्बन्धी ईश्वर उच्यते तत सप्तमीत्येोऽर्थः । इह यच्छब्देन स्वमुच्यते । एवञ्च स्ववाचकात्सप्तमीति लभ्यते । ईश्वरशब्दो भावप्रधान: यस्येश्वरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीचत्वमुच्यते ततः सप्तमीति यावत् । एवञ्च स्वामिवाचकात्सप्तमीति लभ्यते । तदाहृ—ऎश्वर्थे तु स्वस्वामिभ्यां प्रर्यायेण सप्तमीति । श्रधि भुवि राम इति । अधिरीश्वर पर्यायः । सम्बन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । श्रधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्ययः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात् 'अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात् खः इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति ।
For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता ।
( सू २०७९ ) इत्यादिना खः । (६४६) विभाषा कृत्रि १२४।६८ ॥ अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् 'तिथि चोदात्तवति' ( सू ३९७८ ) इति निघातो न । ॥ इति सप्तमी विभक्तिः ॥
॥ इति कारकप्रकरणम् ॥
1
रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न । अध्युत्तरपदत्वाभावात् । विभाषा कृमि । 'अधिरीश्वरे' इत्यनुवर्तते । कर्मप्रवचनीया इत्यधिकृतम् । तदाह- अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीश्वरत्वे इति यावत् । यदत्र मामधिकरिष्यतीति । अस्मिविषये मामधिकरिष्यतीति यत्तद्युक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतत् व्याचष्टे – विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह- प्रगतित्वादिति । तिङि चेति । उदाविति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिष्यतीति तिङन्तमुदात्तवत्, 'तिङ्ङतिङ :' इति निघातस्य 'निपातैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गति - त्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतः अधेर्निवाताभावार्थमिदं सूत्रमिति सिद्धम् ।
इति श्रीमद्वासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणं समाप्तम् ।
४७७
For Private and Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्राप्तिस्थानम् -
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी ।
For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययीभावसमासप्रकरणम् ।। १७ ॥ (६४७) समर्थः पदविधिः शश१॥ पदसम्बन्धो यो विधिः स समर्था
अथ समासाः। तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासानिरूपयिष्यन् तदुपोद्धातत्वेनाह-समर्थः पदविधिः । विधीयते इति विधिः कार्यम् । पदस्य विधिः पदविधिरि. ति शेषषष्ट्या समासः । तदाह-पदसम्बन्धी यो विधिरिति । समर्थाश्रित इति । सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्य द्वि विधम्-व्यपेक्षालक्षणम् , एका भावलक्षणं च । तत्र स्वार्थपर्यवसायिनां पदानामाकाक्षादिवशायः परस्परान्वयः तत् व्यपेक्षाभिधं सामर्थ्यम् , विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पसे:, सम्बद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तन्त्र र एकैकस्य शब्दस्य यो यः सन्निहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वाचेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋखुल्य राज्ञः पुरुष इति च । एका भावलक्षणसामयं तु प्रक्रियादशायां प्रत्येकमर्थवत्वेन पृथक् गृहीतानां पदानां समुदायशक्त्या विशिष्टकार्थप्रतिपादकतारूपम् । सङ्गतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तः । सङ्गतिः संसर्गश्च एकीभाव एव । यथा-सङ्गतं घृतं तैलेनेति एकी. भूतमिति गम्यते, यथा वा संसृष्टोऽप्तिरिति एकीभूत इति गम्यत इति भाष्याच्च । इदं च सामयं राजपुरुष इत्यादिवृत्तावेव । अत एव ऋद्धस्य राजपुरुष इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदाथकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात् समासः । यद्वा गुरुवदेवदत्तोऽपि विशेष्ये प्रधाने कुल एवान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसम्बन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरुत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा
"सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥" इति । "समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥" इति च । एतेन 'अयश्शूल' इति सूत्रे भाष्ये 'शिवस्य भगवतो भक्त इत्यर्थे शिवभागवतः इत्यादि व्याख्यातम् । एकार्थीभावश्चायमलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृकानचोः अप्रथमासामानाधिकरण्यं कलप्यते तद्वत् । अत एव 'लस्य अप्र. थमासमानाधिकरणेनार्थेनायोगादादेशानुपपत्तिः, तस्य कापि प्रयोगामावादित्याक्षिण्य आदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानात् गन्तव्यं प्रकृतेरपि तद्भवति' इति 'खटाशतृशानचौ' इति सूत्रभाष्ये समाहितम् । 'सिद्धानां शब्दानामन्याख्यानात्
For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८०
सिद्धान्तकौमुदी
[ अव्ययीभाव
1
श्रितो बोध्यः । (६४८) प्राक्कडारात्समासः | २|१|३ ॥ 'कडारः कर्मधारये ' ( सू ७५१ ) इत्यतः प्राक् समास इत्यधिक्रियते । (६४६) सह सुपा २१ ॥४॥ 'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टपचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लक्ष्य प्रक्रियार्थं कल्पितस्य अप्रथमासामानाधिकरण्यमनुमीयते ' इति कैयटः । अत्र प्रक्रियार्थं कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलौकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्थी वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्थाः इत्यादौ आस्वाद्यनापत्तेः, वृत्तौ महदादिशब्दानामनर्थकत्वात् अर्थवद्रग्रहणसम्भवे अनर्थकस्य 'आन्महतः' इत्यादौ ग्रहणायोगात् । तदुक्तम्'जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी ।' इति
अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्वकर्ण मण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मज्जूषायां चानुसन्धेयः । समर्थः किम् । पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजन - कत्वान्न सामर्थ्यम् |
प्राक्कडारात्। ‘आकडारात' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेऽपि अव्ययीभावादिसञ्ज्ञा समुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकः संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । ' अकर्तरि च कारके सज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथाच अन्वथें थं सञ्ज्ञा । सह सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससञ्ज्ञं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तदाह-सहेति योगो विभज्यत इति । समाससञ्ज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः । सहेत्यत्र 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते तदाह-- सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससञ्ज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते एकीभवतीत्यर्थः । कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकादूधजन्त एव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलतार्थकथनपरमित्याहुः । ननु घटो भवतोत्यत्र समासे घटभवतीत्यपि लोके प्रयोगः
1
For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७]
बालमनोरमासहिता ।
४०१
सिद्ध्यर्थत्वात्कतिपयतिजन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । 'सुपा'। सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् । (६५०) सुपो धातुप्रातिपदिकयोः २।४ ७१ ॥ एतयोरवयवस्य सुपो लुक्स्यात् । 'भूतपूर्व चरट' (सू १९९९) इति निर्देशाद् भूतशब्दस्य पूर्वनिपातः । पूर्व भूतो भूतपूर्वः । 'इवेन समासो विभक्त्यलोपश्च' (वा १२३६, १३४१)। स्यादित्यत आह-योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः । पर्यभूषयदिति। समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सने कैयटः । देवो देवान क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्यः। अनुव्यचलदिति । अचलदित्यनेन वेः पूर्व समासे सति तेन अनोः समासः । न त्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः।
सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । समास इत्यधिकृतम् । तदाहसुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्व भूत हात विग्रहे समाससज्ञा स्थिता । समासत्वात् प्रातिपदिकसम्शेति । 'कृत्तद्धितसमासाश्च' इत्यनेनेति शेषः। सुपो धातु । धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह-एतयोरवयवस्येति । लुक् स्यादिति । ण्यक्षत्रियार्षभितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुप इत्यनेन सप्तमीबहुव. चनस्यैव ग्रहणं किं न स्यादिति वाच्यम् , 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुग्विधानात् सुष्प्रत्याहारस्यैवान ग्रहणमिति ज्ञापनात् । नचैवमपि पूर्व भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् , 'सुपो धातु' इति लुग्विषये 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवालौकिकविग्रहवाक्ये समासप्रवृत्तिरिति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । 'कृत्तद्धितसमासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिद. म् । 'भस्त्रषा' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । एवञ्च पूर्व अस् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्ते!क्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननु 'सुबन्तं सुबन्तेन समस्यते' इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्च 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् 'उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह-भूतपूर्व चरडिति । पूर्वं भूत इति। लौकिक
३१ बा०
For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८२
सिद्धान्तकौमुदी
[अध्ययीभाव
vvvvvvvvvvvv
जीमूतस्यैव । (६५१) अव्ययीभावः ॥१५॥ अधिकारोऽयम् । (६५२) अध्ययं विभक्तिसमीपसमृद्धिव्य झ्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूय॑योगपधसादृश्यसम्पत्तिसाकल्यान्तवचनेषु ॥१॥ ६॥ 'अव्ययम्' इति योगो विभज्यते । अध्ययं समर्थन सह समस्यते । सोऽव्ययी. भावः । (६५३) प्रथमानिर्दिष्टं समास उपसर्जनम् १॥२॥४३॥ समासशास्त्रे
विग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति । समासत्वेन प्रातिपदिकत्वात् समुदायात् पुनर्यथायथं सुबुत्पत्तिरिति भावः ।
इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः। 'सुपो धातु' इति लुगभावः । पूर्वप. दस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्ध समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवश. ब्दस्यापि सुबन्तत्वाविशेषात् समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वनिपा. तः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिटस्वरेणान्तोदात्तत्वमेव, न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न, 'तत्र तस्ये. व इति निर्देशात् । क्वाचित्कश्वायं समासः । अत एव बह वृचा एव पदपाठे अवगृह. न्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । 'उदाहुरिव वामनः' इत्यादिव्यस्तप्र. योगाश्च सङ्गच्छन्ते । 'हरीतकी भुक्ष्व राजन् मातेव हितकारिणीम् । इत्यत्र तु मातरमिवेति भवितव्यम् । 'तिङ्समानाधिकरणे प्रथमा 'अभिहिते प्रथमा' इति वा. तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमा. याः प्रवृत्त्या मातेति प्रथमायाः मातृसहशीमित्यर्थे असाधुत्वादित्यास्तां तावत् । अव्ययीभावः। अधिकारोऽयमिति । एकसज्ञाधिकारेऽपि अनया सज्ञया समाससम्झा न बाध्यते इति 'प्राक्कडारात' इत्यत्रोक्तम् ।
अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह-अध्ययमिति योगो विभज्यत इति । अत्र 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीया. न्ततया विपरिणम्यते । समास इति अव्ययीभाव इति चाधिकृतम् । तदाह-अव्ययं समर्थेनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समास. संज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात् प्रातिपदि. कत्वे 'सुपो धातु' इति सुब्लुकि सति दिशा अप इति स्थितम् ।
अत्र उपसर्जनकार्य वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम् । ननु समासे प्रथ. मानिर्दिष्टमुपसर्जनम् इति व्याख्याने असम्भवः, समासे सति 'सुपो धातु' इति प्रथ
For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७]
बालमनोरमासहिता।
४८३
-
प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् । (५४)उपसर्जनं पूर्वम् २।२।३०॥ समासे उपसर्जनं प्राक्प्रयोज्यम् । (५५) एकविभक्ति चापूर्वनिपाते १।।४४॥ विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् , न तु तस्य पूर्वनिपातः । (६५६) गोस्त्रियोरुपसर्जनस्य शरा४॥ उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं माया लुप्तत्वात् । समासे चिकीषिते प्रथमानिर्दिष्टम् इति व्याख्याने तु कृष्णं श्रितः कृष्णश्रितः इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिदिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिदिष्टत्वादुपसर्जनत्वं स्यात् । अतो व्याचष्टे-समासशास्त्रे इति । समासपदं समासविधायकशास्त्रपरमिति भावः । एवञ्च 'द्वितीया श्रितः इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवञ्च 'अव्ययम्' इति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वा. दुपसर्जनत्वं स्थितम् । उपसर्जन पूर्वम् । 'प्राक्कडारात् समासः' इत्यधिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह-समासे उपसर्जने प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्व प्रयोज्यमित्यर्थ इति भावः । एवञ्च प्रकृते अपेत्यस्य पूर्व प्रयोगनियमः सिद्धः। अपदिशा इति स्थितम् । ___ अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति। 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यतः समास इति उपसर्जनमिति चानुवर्तते । समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति, नियतविभक्तिकमिति यावत् । एवञ्च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्न कार्ये कर्तव्ये उपसर्जन स्यादि. त्यर्थः । फलितमाह-विग्रहे यन्नियतेति। निष्कौशाम्बिशब्द उदाहरणम् । तत्र कोशाम्ब्याः निष्क्रान्तः निष्क्रान्तं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बि निष्कौशाम्बिना इत्यादि, इति स्थितिः। अत्र कौशाम्बीशब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बी. शब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति 'प्रथमानिर्दिष्टम्' इत्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्वनिपातः । तत्तद्विभक्तयन्तरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । 'तुल्यार्थैः' इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति 'अनेकम्' इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयोमध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् समासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि अनेनोपसर्जनत्वं भवति। पूर्वनिपातस्तु न भवतीति स्थितम् ।
गोस्त्रियोः : 'हस्वो नपुंसके प्रातिपदिकस्य' इत्यतः ह्रस्व इति प्रातिपदिकस्येति
For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
→
सिद्धान्तकौमुदी
च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । 'अव्ययीभावश्च' (सू ४५१ ) इत्यव्य - यत्वम् । (६५७) नाव्ययीभावादतोऽस्त्वपञ्चम्याः २ । ४ । ८३ ॥ अदन्तादव्ययीभावात्सुपो न लुक्, तस्य तु पञ्चमीं विना अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम् । 'क्लीबाव्ययं स्वपदिशं दिशेोर्मध्ये विदिक् स्त्रियाम् ।' इत्यमरः । (६५= ) तृतीया सप्तम्योर्बहुलम् | २४|८४ ॥ अदन्तादव्ययीभावात्तृतीया सप्तम्यो बहुलमम्भावः स्यात् । अपदिशम् - अपदिशेन अपदिशम् - अप
[ अव्ययीभाव
चानुवर्तते । उपसर्जनस्येति गोस्त्रियोविंशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशदेन स्त्रीप्रत्ययो गृह्यते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशsदस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तदन्तविधिः । तदाह - उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्यते, न त्वप्रधानमात्रम्, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति । तथाच अव्ययीभावसमासादुत्पन्नानां सुपाम् "अव्ययादाप्सुपः' इति लुक् स्यादिति शङ्कायामाह - नाव्ययीभावात् । अमू तु अपञ्चम्या इति छेदः । 'नाव्ययीभावादतः' इत्येकं वाक्यम् । 'ण्यक्षत्रियार्ष' इत्यतो लुमित्यनुवर्तते । 'अव्ययादा सुपः' इत्यतः सुप इति च । अता अव्ययीभावो विशेष्यते । तदन्तविधिः । तदाह- अदन्तादव्ययीभावात् सुपो न लुगिति । अम् तु अपञ्चम्याः इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः अमादेशः स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । तदाह--तस्य पच्चमीं विना श्रमादेश इति । अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुनिषेधस्यापि । एवञ्चादन्तादव्ययीभावात् परस्य सुपो न लुक्, किन्त्वमादेशः । पञ्चम्यास्तु लुक् अमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तु शब्दः । 'अव्ययीभावादतोऽस्त्वपञ्चम्याः' इत्येवोक्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपः लुकोऽपवादः अमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसक हस्वत्वेनाप्येतत् सिध्यति, 'अव्ययीभावश्च' इति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापि 'गोस्त्रियोः ' इति सूत्रं चित्रगुः अतिखट्वः इत्याद्यर्थमावश्यकमिति इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अपदिशमिति रूपसाधनं वृद्धसंम'तमित्याह -क्लोवाव्ययमिति तृतीया । 'नाव्ययीभावात्' इत्यस्मात् अत इत्यनुवर्तते, तदाह - दन्तादिति । अमादेशाभावे तु 'नाव्ययीभावात्' इत्यलुक्। ननु वेति सिद्धे
For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
दिशे बहुलग्रहणात् सुमद्रम् उन्मत्तङ्गम् इत्यादौ सप्तम्याः नित्यमम्भावः । 'विभक्ति'इत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययोभावः । विभक्तौ तावत् । इरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि fe अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वच
४८५
कि बहुलग्रहणेनेत्यत आह-बहुलग्रहणादिति ।
1
तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमतेविभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यद्धि, अर्थाभाव, अत्यय, असम्प्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्यं, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्त एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्च इति विग्रहः । विभक्त्यर्था - दिषु वाच्येष्वित्यर्थः । अव्ययमित्यनुवर्तते । अव्ययीभावः, समास इति चाधिकृतम् । तदाह - विभक्त्यर्थादिष्विति । विभक्तौ तावदिति । विभक्त्यर्थं प्रथममुदाहियत इत्यर्थः । हरौ इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वात् अधेः पूर्वनिपाते समासादुत्पन्नस्य सुपः 'अव्ययादा सुपः' इति लुगिति भावः । ननु लौकिकविग्रहे समस्यमानः अधिशब्दः कुतो नोपात्त इत्यत आह - सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथाचाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्वात् अधिशब्दो न पृथगुपात्तः, नित्यसमासतया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठितसन्धिकार्यस्य समासे सति औ इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः श्रूयेतेत्यतः आह— हरि ङि इति । सन्धिकार्यात् प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेः 'प्रत्ययोत्तरपदयोश्च' इति भाष्यसंमतत्वादिति भावः । यथा चैतत् तथा भूतपूर्वः इत्यत्रा नुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह— अत्र निपातेनेति । वचनेति । सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसामर्थ्यात् सप्तमीस्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्बाधा । 'विषवृक्षोऽपि संबर्ध्य स्वयं छेत्तुमसाम्प्रतम्' इत्यत्र तु एष्टव्य इत्यध्याहार्यम् । कृताऽभिधानात् विषवृक्षात् द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम्, कटं करोति भीष्ममुदारं दर्शनीयम् इत्यत्र परि
For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८६
सिद्धान्तकौमुदी
नसामर्थ्यात्सप्तमी । ( ६५६) अव्ययीभावश्च २ । ४ । १८ ॥ अयं नपुंसक स्यात् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' ( सू ३१८ ) । गोपायतीति गाः पातीति वा गोपाः, तस्मिन्नित्यधिगोपम् । समीपे कृष्णस्य समीपमुपकृष्णम् । समया प्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः, : 'अभितः परितः( वा १४४२ ) 'अन्याशत् - ( सू ५९५ ) इति द्वितीयापञ्चम्यो विधानसामर्थ्यात् ।
[ अव्ययीभाव -
गणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत् । अव्ययीभावश्च । श्रयं नपुंसकं स्यादिति । 'स नपुंसकम्' इत्यतः तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह - ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । ' आयादाय आर्धधातुके वा' इत्यायप्रत्ययः । 'लोपो व्योः' इति यलोपः । 'वेरपृक्तस्य' इति वकार. लोपः । गोपाशब्दः आकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । श्रधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे हस्वत्वे सति 'नाव्ययीभावात्' इत्यमि पूर्वरूपमिति भावः । 'गोस्त्रियोः' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाभावात् ।
समीपे इति । समीपार्थ काव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीप - मिति प्रयुक्तम् | कृष्णस्य उप इति तु न विग्रहः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । ननु समया ग्रामं, निकषा लङ्काम्, आराद्वनात् इत्यत्रापि समयाद्यव्ययानां समीपार्थकत्वात् अव्ययीभावः स्यात्, ततश्च 'ग्रामं समया, ग्रामं निकषा वनादारात' इति प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह-समयेति — विधानसामर्थ्यादिति । समया ग्रामं निकषा लङ्काम्, आराद्वनात् इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वात् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथम् अम्भावे तद्विकल्पे च 'समयाग्राम, निकषालङ्काम्, आराद्वनं, समयाग्रामेण निकषालङ्केन, आराद्वनेन' इति स्यादेव ततश्च द्वितीयापञ्चम्योर्विधिः व्यर्थः स्यात् । षष्ट्यैव गतार्थत्वात् । नच समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कये, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्ययोगात् । वस्तुतस्तु मध्यार्थ कसम -
>
शब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थ - त्वात् इदमयुक्तम् । नचैवं सति 'समया ग्रामम्' इत्यादौ अव्ययीभावः शङ्कयः, अ- त्या विभक्त्यर्थं समोपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात् समयानिकषा - ssराच्छन्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य
For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता।
४७
मद्राणां समृद्धिः संमद्रम् । यवनानां व्यद्धिर्यवनम् । विगता ऋद्धिव्यद्धिः । मक्षि. काणामभावो निमक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्राऽसं. प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाशः इतिहरि । विष्णोः पश्चादनु. विष्णु । पश्चाच्छब्दस्य तु नायं समासः । 'ततः पश्चात्नस्यते ध्वंस्यते' इति भाष्य. समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची। उपकृष्णं भक्ता इत्यत्र कृष्ण. सामीण्यवन्त इति बोधात् ।
मद्राणां समृद्धिरिति । समित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एत. सूत्राविहितसमासस्य नित्यतया अस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । सम्ममिति । सर्वत्र सुब्लुगादि पूर्ववत् ज्ञेयम् । समृद्धा मद्राः सम्मद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामध्येनाव्ययार्थप्राधान्य एव तत्प्रवृसेरिति भाष्ये स्पष्टम् । यवनानां व्य. द्धिः दुर्यवनमिति । दुर्शब्दार्थको व्युद्धिशब्दो विग्रहे ज्ञेयः । विगतेति । अभावप्रतियोगि: नीत्यर्थः । ऋद्धरभावो व्यद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यम् , सम. स्यमानपदार्थाभावस्यैव सत्र विवक्षितत्वात् इह च यवनाभावस्याप्रतीतेः । यवनीय. वृद्ध्यभावस्यैव प्रतीतेः । तत् ध्वनयन अर्थाभावे उदाहरति-मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निर्शब्दसमानार्थकमभावपदमिति भावः। घटः पटो नेत्यत्र तु ना. व्ययीभावः, अर्थग्रहणसामध्येनात्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहि. ममिति । अतीत्यव्ययपर्यायः अत्ययशब्दो विग्रहे ज्ञेयः। अर्थाभावेत्यनेन पौनरुक्त्यं निरस्यति-प्रत्ययो ध्वंस इति । अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः। तेन पटस्य प्रागभावः निष्पटमिति न भवतीति भावः। सुत्रे असम्प्रतीत्यस्य सम्प्रति न युज्यते इत्यर्थः। 'एतहि सम्प्रतीदानीम्। इत्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावानसमासः। तदाह-निद्रा सम्प्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्ययस्या. सम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादु. र्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाह-निद्रा सम्प्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्यवस्यासम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवा. क्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाहहरिशब्दस्य प्रकाशः इति हरि इति । इतीत्यव्ययं शब्दप्रकाशे वर्तते। तस्य हरिशब्देन स्वरूपपरेण षष्ट्यन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति । अनु इत्यव्ययं पश्चादथें वर्तते इत्यर्थः ।
भाष्येति । 'अचः परस्मिन्' इति सूत्रभाष्ये इत्यर्थः । 'ततः पश्रात्' इत्यत्राव्य. थीभावे तु पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः। एतद्भाष्यप्रयोगादेव एतत् सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञाय ।
For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
೪ss
सिद्धान्तकौमुदी
[अव्ययीभाव
प्रयोगात् । योग्यतावीप्सापदार्थानति वृत्तिसादृश्यानि यथार्थाः । अनुरूपम् , रूपस्य योग्यमित्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । प्रतिशब्दस्य चीप्सायां कर्मप्रवचनीयसं. ज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागौं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम्। चक्रेण युगपदिति विग्रहे । (६६०) अव्ययीभावे चाकाले ६।३।८॥ सहस्य सः स्यादव्ययीभावे, न तु काले। सच म्। काले तु सहपूर्वाह्नम् । सदृशः सख्या ससखि ।
-
अत एव 'यथाऽसादृश्ये' इति सूत्रे सादृश्यसम्पत्तीति प्राप्नोतीत्येवोक्तं भाष्ये। य. थाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्मात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थ विद्यमानमव्ययं समस्यते इति लभ्यत इत्यभिप्रेत्याह-योग्यतेति । अनरूपमिति । अत्रानु इत्यव्ययं योग्यतायाम् , अतो यथार्थं वर्तत इति भावः । अर्थमर्थ प्रती. ति । लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् । 'लक्षणेस्थम्भूताख्यान' इति वीप्सायां धोत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया। समासे तु द्विवचनं न, समासेन वीप्सायाः द्योतितत्वात् इति 'हयवस्ट' इति सूत्रे कैयटः । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थ प्रतीति लौकिकविग्रहप्रदर्शनं न सम्भवति। नित्य. समासत्वादित्यत आह-प्रतिशब्दरयेति । सामर्थ्यादिति । अव्ययीभावसमासस्य नि. त्यत्वे तु शेषषष्ट्यामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्वि. कल्पे च प्रत्यर्थ प्रत्यर्थेनेत्यादिसिद्ध द्वितीयाफलकं प्रतेः कर्मप्रवचनीयत्वविधानमन. र्थक स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाभावसम्पादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । 'अर्थमर्थे प्रति प्रत्यर्थम्' इति तत्त्वम्। शक्तिमनतिक्रम्य यथाशक्तीति । 'परावरयोगे च' इति क्त्वाप्रत्ययः । परावरत्वं च बौ. खुम् । अत्र यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूव्र्येणेत्यनुज्येष्ठमिति । कार्यकृतमिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम् ततः स्वाथें व्यज् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनुपदमेवोक्तम् । तथापि सूत्रगृहीतानुनाप्यनुज्येष्ठमिति समा. सः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात् स्वाथें व्यञ् योगपद्यशब्दः । तत् ध्व. नयन्नाह-चक्रेण युगपदिति । युगपत्पर्यायस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः । सूत्रे गृहीतत्वादिति भावः ।
अव्ययीभावे । सहस्य सः स्यादिति । 'सहस्य सः सज्ञायाम्' इत्यतः तदनुवृत्तेरिति भाषः। न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण
For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
४८
यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धराधिक्यं समृद्धिः, अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्प. यम् । अन्ते, अग्निग्रन्थपर्यन्तमधीते साग्नि । (६६१) यथाऽसादृश्ये २।१७। असादृश्य एव यथाशब्दः समस्यते। तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन 'सादृश्य' इति वा 'यथार्थ' इति वा प्राप्त
युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्नमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे व्यञ् । तध्वनयन्नाह-सदृशः सख्या ससखीति । सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थेनाव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणी. भूतसादृश्ये अप्राप्त्या तग्रहणमिति भावः । क्षत्राणां सम्पत्तिः सक्षत्रमिति। क्षत्रिया. णामनुरूपं कर्मत्यर्थः । सहेत्यव्ययमत्र सम्पत्तौ वर्तत इति भावः । सम्पत्तिसमृद्धिशब्दयोः पौनरुक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेरित्यर्थः । अनुरूप इति । अनुरूपः योग्यः आत्मभावः स्वभावः, स्वोचितं कमेंति यावत् । तृणमप्यपरित्यज्य सतृणमत्तीति । 'परावरयोगे च' इति क्त्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आ. ह-साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभ. क्षणल्याप्रसक्तेरिति भावः । अन्ते इति उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तश. ब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमधीते साप्रीति । अग्निशब्देन अग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहित ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुनीहिः । ग्रन्थमिति अन्यपदार्थाध्या. हारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वात् अग्निग्रन्थपर्यन्ताध्य. यने तत्कात्स्ानवगमात् साकल्यात्पृथगुक्तिः । ___ यथाऽसादृश्ये । असादृश्ये इति छेदः । व्याख्यानात् । असादृश्ये योग्यतावीप्सा. पदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्या यथार्थत्वादेव सिद्धेः नियमार्थमिदमित्याह-असादृश्ये एवेति । ननु 'प्रकारवचने थाल्' इति विहितथाल्प्रत्य. यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह-हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति 'प्रकारवचने थाल्' इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभे. दावगमात् उपमानत्वप्रतीतिरिति भावः । तेनेति । प्रायमित्यत्रान्वयः। साश्या.
For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
सिद्धान्तकौमुदी
[अव्ययीभाव
निषिध्यते । (६६२) यावदवधारणे । २।१ ॥ यावन्तः श्लोकास्ताव. न्तोऽच्युतप्रगामाः यावच्छ्लोकम् । (६६३) सुष्प्रतिना मात्रार्थ २१ ॥ शाकस्य लेशः शाकप्रति । मात्राथें किम् । वृक्षं प्रति विद्योतते विद्युत् । (६६४) मक्षशलाकासंख्याः परिणा ।२।१।१०। यूतव्यवहारे पराजय एवायं समासः। अक्षण विपरीतं वृत्तमक्षपरि । शलाकापरि। एकपरि । (६६५)विभाषा ।२।१।११॥
थकत्वेनेत्यर्थः । सादृश्य इति वेति । 'अव्ययं विभक्ति' इति सूत्रगतेन सादृश्ये वर्त. मानव्ययं समस्यत इत्यंशेन वा यथाथें विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्त मव्ययीभावसमासकार्य निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता। यथाशब्दस्य सूत्रगृहीत्वेन तद्योगे यथाथेंत्यप्रवृत्तरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत् परिमाणं येषामिति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप' इति वतुष्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेन अस्वपदवि. ग्रहाचित्यात् । अवधारणे किम् । यावदत्तं तावद्भुक्तम् । इयत् भुक्तमिति नाव. धारयतीत्यर्थः ।
सुष्प्रतिना मात्रार्थे । सुबिति छेदः । मात्रा लेशः । तस्मिनथें विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुग्रहणं सन्निहितस्याव्ययमित्य. स्याननुवृत्त्यर्थम् । तत् ध्वनयन्नुदाहरति-शाकस्य लेशः शाकप्रतीति । अत्र प्रतीत्य. व्ययं मानार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिदिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति । अत्र प्रतेः मात्रार्थकत्वाभावात् । न तेन समासः । न च 'लक्षणेत्थम्ः, इति कर्मप्रवचनीयत्वविधानसामर्थ्यांदेवात्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठया वा लुकि अविशेषात् , सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम् , वृक्षं प्रति सिञ्चति इत्यादौ 'उपसर्गात् सुनोति' इति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशलाका । समस्यन्ते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहारे इति । वार्तिकमिदम् । इदं घूतं तावत् पञ्चभिः अक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कृत्स्नाः । उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयन्ति । अन्यथा पराजयत इति स्थितिः । अक्षेणेति । कतरि तृतीया। विपरीतं वृत्तमित्यत्र वृतेर्भावे कः । विपरीतमिति क्रियाविशेष. णम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः। शलाकापरीति । शलाकया
For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
अधिकारोऽयम्। एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । 'सुप्सुपा' इति तु न नित्यसमासः । “अव्ययम्" इत्यादिसमास विधानाज्ज्ञापकात् । ( ६६६ ) अपपरिविपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि त्रिपरि इत्यादि ।
विभाषा । अधिकारोऽयमिति । ततश्च उत्तरत्र समासविधिषु एतदनुवर्तते इति लभ्यते । ननु 'प्राक्कडारात् समासः' इत्यत ऊर्ध्वं 'सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारोन घृतं इत्यत आह-- एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गेन दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुसुपा' इत्यपि नित्यसमासः स्यात् । ततश्च पूर्व भूतः इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात् । 'सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् ' आकडारात्' इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आह-सुप्सुपेति तु न नित्यसमास इति । कुत इत्यत आह-अव्ययमित्यादीति । 'आकडारात्' इत्येव सिद्धे 'प्राक्कडारात्' इति प्राग्ग्रहणं समाससञ्ज्ञायाः अव्ययीभावादिसञ्ज्ञासमावेशार्थम् । अन्यथा एकाधिकारात् पर्यायः स्यादिति 'आकडारात्' इति सूत्रे भाष्ये स्थितम् । तत्र 'अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु 'सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसञ्ज्ञा विधेयाः । 'उपपदमतिङ्' 'कर्तृकरणे कृता बहुलम्' 'आख्यातमाख्यातेन क्रियासातत्ये' इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वात् अर्थाधिकारानुरोधात् सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पक मित्या स्थेयम् । तत्र 'सुप्पा' इत्येव सिद्धे 'अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु समाससञ्ज्ञाविधानं व्यर्थ सत् ततः प्राचीनविधेः वैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात् । तदर्थमव्ययीभावादिविधिषु समासविधानं चरितार्थमिति वाच्यम्, 'प्रथमानिर्दिटम्' इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसजनत्वसिद्धेर्वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समासविधानं 'सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । 'आकडारात्' इति सूत्रे 'सुप्सुपा' इति समासविषये विस्पष्टं पटुः विस्पष्टपटुः इति विग्रहप्रदर्शनपर भाष्यं चेह लिङ्गमित्यलं बहुना । एवं च 'इवेन समासः' इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्यसमासाधिकारे 'कुगति' इत्यत्रापि इवेनेति वार्तिकं पठितम् । तथापि 'सुप्सुपा' इत्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः 1
For Private and Personal Use Only
४६१
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
सिद्धान्तकौमुदी
[अव्ययीभाव
'बहिरञ्चवः पञ्चम्या । २।१।१२॥ अपविष्णु संसार:-अप विष्णोः। परिविष्णुपरि विष्णोः । बहिर्वनम्-बहिर्वनात् । प्राग्वनम्-प्राग्वनात् । (६६७) आङ्म
र्यादाऽभिविध्याः ।।१।१३।। एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययी. भावः । आमुक्ति संसार:-आ मुक्तः । आबालं हरिभक्तिः-आ बालेभ्यः। (६६८) लक्षणेनाभिप्रती आभिमुख्य २।१।१४॥ आभिमुख्यद्योतकावभिप्रती चिह्नवा. चिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि, अग्नि प्रति (६६६) अनुयत्समया २१॥१५॥ यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत
अपपरिबहिः। समस्यन्ते सोऽव्ययीमाव इति शेषः । अपविष्ण्विति । अत्र अफ इत्यव्ययं वर्जने । विष्णु वर्जयित्वा संसरणमित्यर्थः। अपविष्णोरिति । लौकिकविन. हवाक्यम् , समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात्। 'अपपरी वर्जने' इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे 'पञ्चम्यपापरिभिः' इति पञ्चमी। तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः। समासात् सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथ. मग्रेऽपि ज्ञेयम् । : परिविष्ण्विति । अत्रापि परिवर्जने। पञ्चम्यादि पूर्ववत् । बहिर्वनम् बहिर्वनादिति । अस्मादेव ज्ञापकात् बहियोगे पञ्चमी । इतरत् पूर्ववत् । अदन्तत्वादम्भावः। प्राग्वनम् प्राग्वनादिति । अञ्चूत्तरपदयोगे पञ्चमी । आमर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविष्योः विद्यमानादित्यर्थः । मर्यादायामुदाहरति- प्रामुक्तीति । मुक्तः प्रागित्यर्थः । अभिविधावुदाहरति-आबालमिति। बालानारभ्य इत्यर्थः । 'आङ्मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात् 'पञ्चम्यपाइपरिभिः' इति पञ्च. मी। लक्षणेनाभि । लक्षणेनेत्येतद्वयाचष्टे-चिह्नवाचिनेति । प्राग्वदिति । समस्येते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति । शलभाः क्षुद्रजन्तुविशेषाः स्थूल. मक्षिकाः । अग्निमभीति । विग्रहोऽयम् । 'अभिरभागे' इति 'लक्षणेत्थम्' इति चाभिप्रत्योः कर्मप्रवचनीयत्वम् , अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः ।।
अनुर्यत्समया-लक्षणेनेत्यनुवर्तते। यदिति समयायोगे 'अभितः परितः' इति द्वितीयान्तम् । सामान्ये नपुंसकम् । तदाह-यं पदार्थमिति अनुवनमिति । वनशब्दःअत्र वनसमीपदेशे लाक्षणिकः । वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह-वनस्य समीपं गत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । 'अव्य. यं विभक्ति' इत्यादिना सिद्ध विभाषार्थमिदं सूत्रम्। ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्कया, वस्तुसत एवात्र लक्षण
For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
इत्यर्थः । (६७०) यस्य चायामः २|१|१६|| यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदेध्यपलक्षितेत्यर्थः । ( ६७१) तिष्ठद्गुप्रभृतीनि च २।१।१७ ॥ एतानि निपात्यते । तिष्ठन्ति गावो यस्मिन् काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । खलेयवम् । इत्यादि। (६७२) पारे मध्ये षष्ठया वा | २|१|१८|| पारमध्यशब्दौ षष्ठयन्तेन सह वा सम
४१३
त्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः । लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्य आवर्त्य तृतीयया विपरिणम्यते । तत्र एक लक्षणेनेत्यत्र सम्बध्यते । द्वितीयं तु अनुनेत्येतत् 'यस्य चायामः' इत्यनन्तरं सम्बध्यते । धोत्यत इति शेषः । अयामो दैर्घ्यम् । तदाह-यस्य दैर्घ्यमिति । यद्दैर्घ्य सदृशं दैर्घ्यमित्यर्थः । समस्यते इति । सोऽव्ययीभाव इत्यपि बोयम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति- गङ्गाया श्रन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तम्, न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्घ्यसदृशं दैये लक्ष्यते । तदेवानुद्योत्यम् । तदाह - गङ्गादेर्थ्येति ।
I
तिष्ठद्गुप्रभृतीनि च । एतानीति । शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम्। तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गु इत्येव वक्तव्यम्, 'सुप्सुपा' इत्यनुवृत्त: । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । श्रायती. वमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वये इत्यर्थः । शत्रादेश इति । तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वात् 'लटशतृशानचौ' इत्यप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि 'स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः । समासान्तइवेति । आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः । समासान्तश्चेति चकारात् अव्ययीभावश्च निपात्यते इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु 'नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसम् इति सप्तम्या अलुक् इत्यादि ग्राह्यम् ।
1
पारे मध्ये षष्ठ्या वा । पारे मध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किंतु पारमध्यशउदयोरेवेत्याह-- पारमध्यशब्दाविति । समस्येते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्य
1
For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६४
सिद्धान्तकौमुदी
स्यैते । एदन्तत्वं चानयोनिपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय- गङ्गापारात् । मध्येगङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् । (६७५) सङ्ख्या वंश्येन २|१|१६|| वंशो द्विधा, विद्यया जन्मम् । ननु पारमध्यशब्दयोरकारान्तयोः ग्रहणे कथमेकारनिर्देश इत्यत आह-पदन्तत्व चेति । ननु 'विभाषा' इत्यधिकारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह-पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावेऽयमव्ययीभावसमासः विशेषविहितत्वात् षष्ठीसमासँ बात । तदबाधार्थं वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पागत् इति विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसहस्वत्वे पारेगङ्गशब्दात् समासात् पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्' इति न लुक्, मदन्ततया 'नाव्ययीभावात्' इति निषेधात् । अपञ्चम्या इति पर्युदासादम्भा वश्व नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ट्या समस्येते इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकहस्वत्वे समासात् पुनरुत्पनायाः सप्तम्याः अम्भावे पारेमध्यं पारेगङ्गम् इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न सम्भवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह - महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्य. मपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, 'यत्र उत्सर्गाarat महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र एकदेशिसमासेन मुक्त षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इजा मुक्ते 'तस्यापत्यम्' इत्यण् न भवति । किं तु वाक्यमेवेति भाष्ये स्पष्टम् ।
सङ्ख्या वंश्येन । वंशो द्विधेति । वंशः सन्ततिः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववाय: सन्तानः' इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव विद्यया तु वंशः गुरुपरम्परा, 'यस्माजुर्मानाचिनोति स आचार्यः । तस्मै न दुह्येत् कदाचन । स हि विद्यातस्तं जनयति ।
For Private and Personal Use Only
[ अव्ययीभाव
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
सम् १"]
बालमनोरमासहिता।
४६५
ना च । तत्र भवो वंश्यः। तद्वाचिना सह सख्या वा समस्यते। द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशतिभारद्वाजम् । (६७४) नदीभिश्च २॥१॥२०॥ नदीभिःसह सङ्ख्या प्राग्वत् । 'समाहारे चायमिभ्यते' (वा १२४६)। सप्तगाम् । द्वियमुनम् । (६७५) अन्यपदार्थे च ज्ञायाम् २॥१॥२१॥ अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमा
तच्छृष्ठं जन्म। शरीरमेव मातापितरौ जनयतः' इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वात् यत् । वा समस्यते इति । सोऽव्ययीभाव इत्यपि बोध्यम् । द्वौ मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावश्यवाचीति सूचनाय वंश्यावि. त्युक्तम् । द्विमुनि व्याकरणस्येति। द्वौ च तो मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारय बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरण. विद्यायाः प्रवर्तको द्वौ मुनी पाणिनिकात्यायनावित्यर्थः। त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः। नन्वेवं त्रिमुनि व्याकरणमिति सामाना. धिकरण्यानुपपत्तिरित्यत आह-विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत् सिद्धम् । तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति-एकविंशतिभारद्वाजमिति । एकविंशतिः भरद्वाजा इति कर्मधारयं बाधित्वा अव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दात् बिदादित्वादञ् । 'योश्च' इति लुक् । समासे तु 'उपकादिभ्योऽन्यतरस्यामद्वन्द्वे' इति लुगभावः । 'तृतीयासप्तम्योर्बहुलम्' इति सूत्रे 'एकविंशतिभारद्वाजम् इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात्। ___ नदीभिश्च । प्राग्वदिति। नदीभिः सङ्ख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समा. हारे चेति । वार्तिकम् । चकार एवाथें, भाष्ये चकारविहीनस्यैव पाठात् । सप्तगामिति । सतानां गङ्गानां समाहार इति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमास बाधित्वा अव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयोः समाहार इति विग्रहः । अन्न नदीशब्देन नदीशब्दविशेषस्य नदीवाचकानां च ग्रहणम् इति सङ्ख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्जनदं सप्लगोदावरमित्यादि सिध्यति । अन्यपदार्थे च । सङ्ख्ये. ति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह - सुबन्तं नदोभिरिति । समस्यत इति । सो. ऽव्ययीभाव इत्यपि बोध्यम् । संज्ञानवगमादिति । सम्यक् ज्ञायते इति संज्ञा । 'आत. श्वोपसर्ग' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमा. दिह नित्यसमास इत्यर्थः। ततश्च नास्ति लौकिकविग्रहः, अस्वपदविग्रहो वेति फलति। वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव । अत एव 'द्वितीयतृतीयः
For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६६
सिद्धान्तकौमुदी
[ अव्ययीभाव
दिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । ( ६७६) समालान्ताः ५|४|६८ ॥ इत्यधिकृत्य । ( ६७७ ) अव्ययीभावे शरत्प्रभृतिभ्यः । ५|४|१०७ || शरदादिभ्यष्टच्स्यात्समासान्तो ऽव्ययीभावे | शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिशू । दृश् । विश् । चेतस् । चतुर् | त्यद् । तद् । यद् । कियत
इति सूत्रे अन्यतरस्याङ्ग्रहणेन उत्सर्गापवादयोर्महाविभाषाविषयत्वात् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थं उन्मत्तगङ्गमित्युदाहृतम् । 'अव्ययीभावेन मुके बहुव्रीहिर्न' इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसङ्गतिः स्पष्टेंव, कदाप्यव्ययीभावमुक्त्यसम्भवात् ।
1
समासान्ताः। इत्यधिकृत्येति । आपादपरिसमाप्तेरिति भावः । अत्र समासपदम् अलौकिकविग्रहवाक्यपरमेव । अत एव बहुकुमारीक इत्यत्र ह्रस्वो न । 'गोस्त्रियोः " इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवं चालौकिकविग्रहवाक्ये समाससंज्ञा समकालमेव समासान्ता इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची । अत एव उपशरदमित्यादौ 'नाव्ययीभावात्' इत्यम् । तत्र रचस्तदनवयवत्वे टजन्तस्याच्ययीभावसमासत्वाभावादम् न स्यात् । तथा च टचस्तदनवयवत्वे 'अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौकिकविग्रहवाक्ये सुपः परस्तादेव भवन्ति । अत एव 'प्रत्ययस्थात्' इति सूत्रभाष्ये 'बहुचर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।
अव्ययीभावे । 'राजाहरू सखिभ्यष्टच' इत्यतः टजित्यनुवर्तते । तदाह - शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः । उपशरदमिति । 'अव्ययं विभक्ति' इत्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठ्यन्तेनाव्ययीभावः । टच् । टचः समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वात् 'नाव्ययीभावात्' इत्यम् । उपशरद् इत्यस्य अव्ययीभावसमासत्वाभावात् अनव्ययत्वात् 'अव्ययानां भमात्रे टिलोपः ' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते । 'विपाशा तु विपाट् स्त्रियाम् इत्यमरः । 'लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठतिशरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः । 'जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे
For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता।
४६७
'जराया जरस् च (ग १४७)। उपजरसम् । 'प्रतिपरसमनुभ्योऽक्षणः।(ग १४८) 'यस्येति च? (सू ३११)। प्रत्यक्षम् । अक्ष्णः परम् इति विग्रहे समासान्तविधानसामर्थ्यांदव्ययीभावः । 'परोक्षे लिट' ( स २१५१) इति निपातनात्परस्यौकारादेशः । परोक्षम् । 'परोक्षा क्रिया' इत्यादि तु अर्शआद्यचि। समक्षम् । अन्वक्षम् । (६७) अनश्च ५।४।१०॥ अन्नन्तादव्ययीभावाच्स्यात् । (६७६) नस्त.
वाच्य इत्यर्थः । उपजरसमिति। जरायाः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्य जराया इति षष्ट्यन्तेनाव्ययीभावसमासे कृते टच , सुब्लुक् , उपेत्यस्य पूर्वनिपातः । टवो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसिः अनेन जरस् । टजन्ताद्यथायथं सुपः अम्भाव इति भावः । 'प्रतिपरसम्' इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः। . प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । 'लक्षणेत्थम्। इति कर्मप्रवचनीयत्वात् द्वितीया। 'लक्षणेनाभिप्रती' इत्यव्ययीभावः । टच , सुब्लुक् 'यस्येति च' इति इकारलोपः। प्रत्यक्षशब्दात् यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः। अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः। ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययीभाव इत्यत आह-समासान्तविधानसामर्थ्यादिति । प्रतिपरसमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थ शरदादिगणे पाठोऽवगतः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययीभावे टविहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः। परोक्षमिति । अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः । टच , सुब्लुक् । परशब्दस्य ओकारोऽन्तादेशः पररूपम् । परोक्षाद्यथायथं सुप् अम्भाव इति भावः । अर्शप्राद्यचीति । परोक्षमस्यास्तीत्यर्थं परोक्षशब्दात् धर्मप्रधानात् 'अर्शआदिभ्योऽच्। इति मत्वर्थीये अच्प्रत्यये कृते 'यस्येति च इत्यकारलोपे टापि च कृते, परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः। अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमिति युक्तम् , 'परोक्षे लिट! इति सूत्रस्थभाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अक्षणोोग्यमित्यर्थः । यथार्थेऽव्ययीभावः । टच , इकारलोप इति भावः । अन्वक्षमिति । अक्षणोः पश्चादित्यर्थः । पश्चादथें अव्ययीभावः । शेषं समक्षवत् ।
अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते। अन इति तद्विशेषणम् । तदन्तविधिः । तदाह-अन्नन्तादिति । नस्तद्धिते । न इति षष्ट्यन्तम् । तेन मस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । टेरिति सूत्रमनुवर्तते । 'अल्लोपोऽनः' इत्यस्मा
बा० ३२
For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
सिद्धान्तकौमुदी
[अव्ययीभाव
द्धिते ६।४।१४॥ नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । (६०) नपुंसकादन्यतरस्याम् पा४।१०६॥ अन्नन्तं यत्क्लो तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचमम्-उपचर्म । (६१) नदीपौर्णमास्याग्रहा. यणीभ्यः ५।४।११०॥ वा टचस्यात् । उपनदम्-उपनदि। उपपौर्णमासम्-उपपौर्णमासि । उपाग्रहायणम्-उपानहायणि। (६२) भयः ५४१११॥ झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्-उपसमित् (६८३) गिरेश्च सेनक. स्य पा४।११२॥ गियन्तादव्ययीभावाट ज्वा स्यात् । सेनकाहणं पूजार्थम् ।
ल्लोप इति च । तदाह-नान्तस्येति । उपराजमिति । राज्ञः समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावः । 'अनश्च' इति टच , सुब्लुक् , टिलोपः उपराजशब्दाद्यथायथं सुप् , अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वादृचि परे अव्ययानां भमाने टिलो. पाप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति । आत्मनीत्यर्थः । विभक्तयर्थे अव्य. यीभावः । शेषं पूर्ववत् । नपुंसकादन्यतरस्याम् । अन इत्यनुवृत्तं नपुंसकस्य विशेषणम्। तदन्तविधिः अनन्तात् क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह-अन्नन्तादिति । उपचर्मम् उपचर्मेति । चर्मणः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः अम्भावः । टजमावे उपचमेति रूपम्।
नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति। अन्यतरस्यामिति टजिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्रहायणी एतदन्तादव्ययीभावसमासाहज्वा स्यादिति यावत् । अत्र नदीसज्ञकस्य न ग्रहणम् , पौर्णमास्याग्रहायणीग्रहणा. लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् 'यस्येति च' इतीकारलोपः । उपनदशब्दात् सुप् अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकहस्वः । 'अव्ययादाप्सुपः' इति लुक् । उमपौर्णमासमिति । पौ. णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम् । उपपौर्णमासीति । टजभावे रू. पम् । एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः आग्रहायणी मार्गशीर्षपौर्णमासी, अत ऊर्ध्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः। उदगयनादिरेव हि संवत्सरस्यादिः, 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ।। इति प्रसिद्धः । झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः। अन्य. तरस्यामिति टजिति चानुवर्तते । तदाह-झयन्तादिति । गिरेश्च सेनकस्य । सेनको नामाचार्यः। पूजार्थमिति । अन्यतरस्यांग्रहणानुवृत्त्यव विकल्पसिद्धेरिति भावः ।
For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
४६8
उपगिरम्-उपगिरि ॥
इत्यव्ययीभावसमासप्रकरणम् ॥
अथ तत्पुरुषसमासप्रकरणम् ॥ १८ ॥ (६८४) तत्पुरुषः २२१॥२२॥ अधिकारोऽयम् । प्रारबहुव्रीहेः। (६५) द्विगुश्च २०२३॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । 'सङ्ख्यापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् । (६८६) द्वितीया श्रितातीतपतितग
उपगिरमिति । गिरेः समीपमित्यर्थः। रचि यस्येति च इति इकारलोपः) अम्भावः । इह सेनकग्रहणात् 'नदीपौर्णमासी' इत्यत्र 'झयः' इत्यत्र चान्यतरस्यांग्रहणं नानुवर्तत इति केचित् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायाम् अव्ययीभावसमासप्रकरणम्॥
अथ तत्पुरुषसमासनिरूपणम् । तत्पुरुषः। प्रागिति ॥ 'शेषो बहुव्रीहिः' इत्यतः प्रागि. त्यर्थः । द्विगुश्च । द्विगुरपीति । 'तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य 'सङ्ख्यापूर्वो द्विगुः इति द्विगुसंज्ञा विधास्यते। स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकारात् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः। इदमिति । 'द्विगुश्च' इत्येतदित्यर्थः । तहि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आहसङ्ख्येति । 'सङ्ख्यापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायक सूत्रम् । तत्र चकारः पठनीयः। ततश्च सङ्ख्यापूर्वसमासः द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवंच चका. रेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभात् 'द्विगुश्च' इति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह-समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति-पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुः । तस्य तत्पुरुषत्वात् 'राजाहस्सखिभ्यष्टच्' इति टच । 'स नपुंसकम्' इति नपुंसकत्वम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाभावात् । नच 'सङ्ख्यापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् । अतः 'समुच्चयार्थ द्विगुश्च' इति पृथक्सून. मस्त्विति वाच्यम् , सङ्ख्यापूर्व इति द्विगुरिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य
For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५००
सिद्धान्तकौमुदी
तात्यस्तप्राप्तापन्नैः २ |१| २४ ॥ द्वितीयान्तं वितादिप्रकृतिकैः सुबन्तैः सह वा - समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः इत्यादि । 'गम्यादीनामुपसङ्ख्यानम्' ( वा १२४७ ) ग्रामं गमी प्रामगमी अन्नं बुभुक्षुः अन्नबुभुक्षुः । ( ६८७ ) स्वयं तेन २।१।२५ ॥ द्वितीया' - ( सू० ६८६ ) इति न
[ तत्पुरुषसमास
तत्पुरुषसंज्ञा विधिः, द्विगुरित्यनेन द्विगुसज्ञाविधिरित्याश्रयणे सति चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्धया चकारस्य समुच्चयार्थत्वोपपत्तेः ।
द्वितीया । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथाच सुबन्तैरित्यस्य, सुप्तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः तेषां सुब्वटितसमुदायात्मकत्वाभावादित्यत आह- श्रितादिप्रकृ. तिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भाव: । 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः, 'कर्तृकरणे कृता' 'साधनं कृता' इतिवत् कारकविशेषानुपादानादिति प्राढमनोरमायाँ स्थितम् । नच श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभात् कृष्णं परमश्रित इत्यत्रापि समासः स्यादिति वाच्यम् समासप्रत्य विधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वात् 'गत्यकर्मक' इति कर्तरि कः । 'न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति । दुःखमतीत इति विग्रहः । 'इण् गतौ' । अतिपूर्वात् कर्ततिक्तः । इत्यादीति । गर्ते पतितो गर्तपतितः । 'पत्ल गतौ' कर्तरि क्तः तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेन 'यस्य विभाषा' इति इण्निषेधप्राप्तावपि अत एत निपातनादिट् । ग्रामं गतः ग्रामगतः ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्तः ग्रामं प्राप्तः ग्रामप्राप्तः । संशयमापन्नः संशयापन्नः ।
1
For Private and Personal Use Only
9
गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' इति औणादिक इनिप्रत्ययः, स च 'भवि ष्यति गम्यादयः' इति वचनात् भविष्यति काले भवति । 'अकेनोः' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । श्रन्नं बुभुक्षुरिति । भुजेः सन् । 'सनाशंसभिक्ष उ:' 'न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं तेन । क्तप्रत्ययान्त प्रकृतिकसुबन्तेन स्वय
1
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०१
-
सम्बध्यते, अयोग्यत्वात् । स्वयकृतस्यापत्यं स्वायकृतिः। (६८८) खट्वा क्षेपे. २।१।२६॥ खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृति केन सुबन्तेन समस्यते निन्दा याम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दाऽवगम्यते । (६८) सामि २१॥२७॥ सामिकृतम् । (६४०) कालाः शा॥ 'केन' इत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमा.
मित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः ।
अयोग्यत्वादिति । स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृती. याया एवोचितत्वादिति भावः। स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह- स्वयं कृतस्यापत्यं स्वायंकृतिरिति । स्वयंकृतस्यापत्यमित्यर्थे 'मत इञ्' इति स्वयंकृतशब्दात् षष्ठ्यन्तादिमि तद्धितान्तप्रातिपदिकावयवत्वात् सुब्लुकि 'यस्येतिच' इत्यकारलोपे आदिवृद्धौ स्वा. यंकृतिशब्दः । समासाभावे तु कृतशब्दस्यैव षष्ठ्यन्तत्वात्तत इजि ऋकारस्यादि. वृद्धौ रपरत्वे स्वयंकार्तिः इत्येव स्यादिति भावः । वस्तुतस्तु असामादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् ।
खट वा क्षेपे । क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा। द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य च सुब्घटितसमुदायात्मकत्वासम्भवात् अत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह--खट वाप्रकृतिकमिति। खट्वा रूढो जाल्म इति । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । खट्वा मम् आरूढ स इत्यलो. किकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत् कुत इत्यत माह-न हि वाक्येन निन्दाऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः। तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दा न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दा गमयति । तथाच भाष्यम् 'अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति, स खट्वारूढोऽयं जाल्म इत्युच्यते' इति । अत्र जाल्म इत्यनेन उवृत्ते अयं शब्दो रूढः, अवयवार्थे तु नाभिनिवेष्टव्यम् इति सूचितम् । सामि । सामित्यव्ययमधं वर्तते । तत् क्तान्तप्रकृतिकसुबन्तेन सम. स्यत इत्यर्थः । साभिकृतमिति । समासाभावे तु तद्धितवृत्तौ सामिकातिरिति स्यादिति भावः । कालाः । क्तेनेत्येवेति । क्तेनेत्यनुवर्तते एवेत्यर्थः। कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु 'अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्ध किमर्थमिदमित्यत आह-अनत्यन्तेति । मासप्रमित इति ।
For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
रब्धवानित्यर्थः। ( ६९१ ) अत्यन्तसंयोगे च २।१।२६॥ 'काला' इत्येव । अक्कान्तार्थ वचनम् । मूहूर्त सुखम् मुहूर्तसुखम् । (६४२) तृतीया तत्कृतार्थन गुणवचनेन २॥१॥३०॥ 'तत्कृत' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्खलया खण्डः शङ्कुलाखण्डः । धान्ये.
मासं प्रमित इति विग्रहः । प्रपूर्वकात् माधातोः 'आदिकर्मणि क्तः कर्तरि च' इति कतरिक्तः । तदाह-मासं परिच्छेत्तुमिति। इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति भावः । अत्यन्तसंयोगे च। काला इत्येवेति । तेन अत्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-अक्तान्तार्थमिति । अत्र क्तेनेति निवृत्त. मिति भावः। मुहूर्त सुखमिति । अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः ।
तृतीया तस्कृत । तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह-तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामशिना तदर्थों लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थ. कृतो यो गुणः तद्वाचिना समस्यते, अर्थशब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं सम्पद्यत इति भाष्ये स्थितम् । तदाह-तृतीयान्तमित्यादिना। गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दार्थद्वारक एवं सामध्ये प्रवर्तते । न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम् । नच घृतेन पावमित्यत्रातिप्रसङ्गः शङ्कया, गुणेनेति सिद्धे वचनग्रहणात् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यत इति व्याख्यानात् । शङ्कलया खण्डः शङ्कलाखण्ड इति । देवदत्त इति शेषः । शङ्कलाखण्डो देवदत्तः इत्येव भाष्ये उदाहृतम् । 'खडि भेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्शआधच् । शङ्कुलयेति करणे तृतीया। शङ्खलाकृतखण्डनक्रियावानित्यर्थः । यत्तु 'आकडारात्' इति सूत्रभाष्ये 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते । गुणमुक्तवता गुणवचनेनेति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तु 'वोतो गुणवचनात्' इत्यत्र 'सत्त्वे निविशतेऽपैति' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तदव्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्ड. शब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्ध त्वात् पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति -धान्येनेति । अर्थ
For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
नार्थो धान्यार्थः । ‘तत्कृत' इति किम् । अक्ष्णा काण: । ( ६६३) पूर्वसहशसमानार्थकलह निपुण मिश्रलक्ष्णैः २|१|३१|| तृतीयान्तमेतैः प्राभवत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे, माषोनं कर्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रप्रहणे सोपसर्गस्यापि ग्रहणम् । 'मिश्रं चानुपसर्गमसन्धी' ( सू ३८८८ ) । इत्यत्रानुपसर्गप्रहणात् ।
५०३
-
1
शब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाभावादप्राप्तौ पृथगुक्तिः । धान्येनेति प्रकृत्यादित्वात्ततीया । धान्याभिन्नं धनमित्यर्थ इति केचित् । ननु शङ्कुलया खण्डः इत्यत्र 'कर्तृकरणे कृता बहुलम्' इत्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति तत्कृत इति किमिति । गुणवचनेन चेत् तत्कृतेनैवेति नियमार्थं तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति-भदगा काण इति । न ह्यक्ष्णा काणत्वं, कृतं किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिचपावान् । गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् । किन्तु न गुणवचनोऽसौ |
1
पूर्वसदृश । एतैरिति । पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र, श्लक्ष्ण एतैरित्यर्थः । मासपूर्व इति । मासेन पूर्व इति विग्रहः । मासात् प्रागुत्पन्न इत्यर्थः । यद्यव्यवधित्वसम्बन्धे 'अन्यारादितरतें' इति दिक्शब्दयोगे पञ्चमी प्राप्ता, दिशि दृष्टः शब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत एव ज्ञापकात् तृतीया । हेतौ तृतीयेत्यन्ये । मातृसदृश इति । मात्रा सदृश इति विग्रहः । पितृसम इति । पित्रा सम इति विग्रहः । 'तुल्यार्थैर तुलोपमाभ्याम्' इति तृतीया । 'तुल्यायें:' इति षष्ठयां षष्ठीसमासेनैव सिद्धमित्याहुः । ऊनार्थेति । उदाहरणसूचनमिदम् । माषोनमिति । माषाख्यपरिमाणविशेषेण ऊनं परिमाणमित्यर्थः । अत एव ज्ञापकादवधित्वे तृतीया, हेतौ वा । अर्थग्रहणं च ऊनेनैव सम्बध्यते, न तु पूर्वादिभिरपि, समसदृशयोः पृथगुपादानात् । अर्थग्रहणस्य प्रयोजनमाह - माषविकलमिति । माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत् तृतीया । वाक्कलह इति । वाचा कलह इति विग्रहः । श्राचारनिपुण इति । आचारेण निपुण इति विग्रहः । आचारहेतुकनैपुण्यवानित्यर्थः । गुडमिश्र इति । गुडेन मिश्र इति विग्रहः । श्राचारश्लक्ष्ण इति । आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुककुशलत्ववानित्यर्थः । ननु गुडसंमिश्रा इत्यत्र कथं समासः ? सुबन्तविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तत्राह - मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति । कुत इत्यत आह - मिश्रं चेति । असन्धौ मिश्रत्युत्तरपदमुपसर्गहीनं तृतीयान्तात् परमन्तोदात्तमिति तदर्थः । अत्रानुपसर्गग्रहणादितरत्र मिश्रग्रहणे सोपसर्ग
For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०४
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
1
गुडसम्मिश्रा धानाः ‘अवरस्योपसख्यानम्' ( वा १२५६ ) मासेनावरी मासावरः । (६६४) कर्तृकरणे कृता बहुलम् २|१|३२|| कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः । 'कृद्ग्रहणे गतिकारक पूर्वस्यापि ग्रहणम्' ( प २९ ) नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । तावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन 'दात्रेण लूनवान्' इत्यादौ न । कृता किम् । काष्ठैः पचतितराम् । ( ६६५) कृत्यैरधिकार्थवचने २|१|३३ ॥ स्तुतिनिन्दाफलकमर्थवादवचनमधिकाथवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राभवत् । वातच्छेयं तृणम् । काकपेया नदी । (६६६) अन्नेन व्यञ्जनम् २ | २|३४|| संस्कारकद्रव्यवाचकं तृतीयान्तमनेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोप सेकक्रियाद्वारा सामर्थ्यम् । ग्रहणं विज्ञायत इत्यर्थः । मासेनावर इति । मासेन पूर्व इत्यर्थः । न्यून इत्यथें ऊनाथकत्वादेव सिद्धम् ।
1
कर्तृकरणे । कर्ता च करणं चेति समाहारद्वन्द्वात् सप्तमी । तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । कृतेत्यपि तथैव । तदाह - कर्तरि करणे चेति । प्राग्ददिति । समस्यते स तत्पुरुष इत्यथः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्यते, बहुलग्रहणादिति भाष्यम् । अतः कान्तमेवोदाहरति- हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्यय विधौ तदन्तविधिप्रतिषेधान्नखनिभिन्न इत्यत्र न स्यादित्यत आह- कृद्ग्रहणे इति । परिभाषेयम् ' गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । अतिशयेन पचतीत्यर्थः । 'अतिशायने' 'तिङश्च ' इत्यनुवृत्तौ 'द्विवचनविभज्य' इति तरप् । 'किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः । कृत्यैरधिकार्थवचने । श्रर्थवादवचनमिति । अविधायको क्तिरित्यर्थः । वातच्छेद्यं तृणमिति । वातेन छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः । 'ऋहलोर्ण्यत्' इति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा वा । काकपेयेति । 'अचो यत्' इति यत् 'ईद्यति' इति ईत्त्वं गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् । व्यञ्जनशब्द व्याचष्टे - संस्कारेति । संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । श्रनेनेति । अन्नम् ओदनः । तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इति कोशः । दध्ना श्रोदनो दध्योदन इति । नन्विह दनेति करणत्वस्य उपसिक्तपदापेक्षत्वात् असामर्थ्यात् कथमिह समास इत्यत आह- अन्तर्भूतेति । उपसेकक्रियां विना दध्नः अन्नसंस्कारकत्वानुपपत्या दना
।
For Private and Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०५
-
-
(६६७) भक्ष्येण मिश्रीकरणम् २॥१॥३५॥ गुडेन धानाः गुडधानाः । मिश्रण. क्रियाद्वारा सामर्थ्यम् । (880) चतुर्थीतदर्थार्थवलिहितसुखरक्षितैः २।१। ३६॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृ. तिविकृतिभाव एव गृह्यते । बलिरक्षितप्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः । 'अर्थेन नित्यसमासो विशेष्य
इत्यस्य दधिकरणकोपसेके वृत्ते सामर्थ्य मिति भावः । तदुक्तं भाष्ये-'युक्तार्थसम्प्रत्ययाच सामर्थ्यम्। इति । भक्ष्येण मिश्रीकरणम् । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः। कठिन. द्रव्यं खाद्यम् । पृथुकादि भक्ष्य विवक्षितम् । गुडेन धाना गुडधाना इति । 'धाना भृष्टयवे स्त्रियः' इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदा. पेक्षत्वान्न सामर्थ्यमित्यत आह-मिश्रणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्ते सा. 'मर्थ्यमिति भावः। ___चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह-चतुर्थ्यार्थायेत्यादिना। तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह-बलिरक्षितेति । यदि तादर्थ्यमात्रे अयं समासः स्यात् , प्रकृतिविकृति. भाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तुणमित्यत्रापि बले तार्थतया, रक्षिततृणस्य गवार्थतया च तदथेत्येव समाससिन्द्वेरिति भावः। यूपायेति । अत्र चतुर्थ्यन्तवाच्ययूपार्थ दारु । अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह-नेहेति । रन्धनायेति । पाकायेत्यर्थः। 'रध हिंसायाम्।। इह पाको विवक्षितः। भावे ल्युट , अनादेशः । 'रधिजभोरचि' इति नुम् । स्थाल्याश्चतुथ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । ननु अश्वेभ्यो घासः अश्वघासः, धर्माय नियमः धर्मनिययः इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह-अश्वघासाद. यस्तु षष्ठीसमासा इति । नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृ. तिविकृतिभावनियमो व्यर्थ इति वाच्यम् , शाब्दबोधे सम्बन्धत्वतादर्थ्यत्वकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्च रन्धनस्य स्थालीति सम्बन्धत्वेन भाने षष्ठी.
For Private and Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५०६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
लिङ्गता चेति वक्तव्यम्' ( वा १२७३ - १२७४) । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । ( ६६६) पञ्चमी भयेन २।१।३७ ॥ चोराद्भयं चोरभयम् । भयभीतभीतिभीभिरिति वाच्यम्' ( वा १२७५) वृकमीतः ( ७०० ) अपेतापोढमुक्त पतिता पत्रस्तैसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यस्तां तावत् । तदेवं तदर्थेत्यशः प्रपञ्चितः ।
I
1
अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह- अर्थेनेति । अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्ग तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात् 'परवल्लिङ्गम्' इति सर्वत्र पुंल्लिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । 'अर्थोऽभिधेयरैवस्तु प्रयोजन निवृत्तिषु' इत्यमरः । इह उपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति-द्विजायायं द्विजार्थ: सूप इति । तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयमिति शब्दः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति तादर्थ्य चतुर्थी । तदन्तस्य अर्थशब्देन समासः विशेष्यसूपशब्दस्य पुल्लिङ्गत्वात् समासस्य पुंल्लिङ्गता च । द्विजस्य उपकारकः सूप इत्यर्थः । द्विजार्था यवागूरिति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपि 'परवल्लिङ्गम्' इति पुंलिङ्ग बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुथ्यैव तादर्थ्यायोक्तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसक्तेनित्यसमासत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमित्यर्थः । 'हितयोगे च' इति शेषषष्ठयपवादचतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति । तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यं चतुर्थ्यन्तस्य रक्षितशब्देन समासः ।
1
I
पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोराद्भयं चोरभयमिति । 'भीन्नार्थानां भयहेतुः' इत्यपादानत्वात् पञ्चमी । भयभीतभीतिभीभिरिति । सूत्रे भयशब्दस्यैव ग्रहणात् भीतादेरप्राप्ते समासे वचनम् । वृकभत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये अपर आहेत्युक्त्वा 'भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्' इत्युक्त्वा वृकभयं, ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौ 'सुप्पा' इति वा मयूरव्यंसकादित्वाद्वा समासः । अपेता रोढ ।
For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
रत्पशः २।१।३८ ॥ एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रासादात्पतितः । ( ७०१ ) स्तोकान्तिकदूरार्थकृच्छ्राणि केन २।२|३६|| स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः! ‘पञ्चम्याः स्तोकादिभ्यः' ( सू ९५९) इत्यलुक्। (७०२ ) षष्ठी श२८ ॥ राज्ञः पुरुषो राजपुरुषः । ( ७०३) याजकादिभिश्च २|२||| एभिः षष्ठद्यन्तं समस्यते। ‘तृजकाभ्यां कर्तरि ' ( सू ७०९) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः । ‘गुणात्तरेण तरलोपश्चेति वक्तव्यम्' (वा ३८४१) तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । 'न निर्धारणे' ( सू ७०४ ) इति पूर
५०७
अल्पशः इति स्वार्थे शस्, अत एव निपातनात् । तदाह - अल्पं पञ्चम्यन्तमिति । 'बहुल्पार्थात्' इति शस्तु न भवति, बह्वल्पार्थान्मङ्गलवचनम्' इति वक्ष्यमाणत्वात् । स्तोकान्तिक । स्तोक, अन्तिक, दूर एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकद्दूरेषु सम्बध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । आन्तिकपर्यायस्योदाहरणम् । विप्रकृ ष्टादागत इति । दूरशब्दपर्याय उदाहार्यः । ' करणे च स्तोक' इति पञ्चमी । दूरादागत इत्यत्र तु 'दूरान्तिकार्थेभ्यः' इति पञ्चमी । अत्र 'सुपो धातु' इति लुकमाशङ्कयाह - पञ्चम्याः स्तोकादिभ्य इत्यलुगिति ।
षष्ठी । षष्ठयन्तं सुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिक विग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनों विभक्ति प्रत्ययलक्षणेनाश्रित्य नलोपः । न च लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यम्, पदत्वस्य सुब्धटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याजकादिभिश्च । ननु ' षष्ठी' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-तृजकाभ्यामिति । ब्राह्मणयाजक इति । ब्राह्मणस्य याजक इति विग्रहः । यजतेर्ण्यन्तात् कर्तरि ण्वुल् अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः । भूभतति तृजन्तस्योदाहार्यम्, भर्तृशउदय याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं 'सर्व गुण' इति सूत्रे भाष्ये स्थितम् । गुणवाचकात् विहितो यस्तरम् तदन्तेन षष्ठो वा समस्यते, तरपो लोपइचेस्यर्थः । फलितमाह - तरबन्तं यदिति । ननु ' षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-न निर्धारण इति । 'सर्व गुण' इति सूत्रे भाष्ये तु 'पूरणगुण इत्यस्यापवाद
1
For Private and Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
णगुण'-(सू ७०५) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सवश्वेतः। सर्वेषां महत्तरः सर्वमहान् । 'कृद्योगा च षष्ठी समस्यत इति वाच्यम्' (वा १३१५) इध्मस्य प्रव्रश्चनः इध्मप्रवश्वनः । (७०४) न निर्धारण २।२।१०॥ निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । 'प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम्' ( वा १३२०)। सर्पिषो ज्ञानम् । (७०५) पूरणगु. णसुहितार्थसव्ययतव्यसमानाधिकरणेन २।२१॥ पूरणाद्यथैः सदादिभिश्च षष्ठी न समस्यते । पूरणे, सतां षष्ठः । गुणे, काकस्य कार्ण्यम् । ब्राह्म
इत्येवोक्तम् । सर्वशब्दानुवृत्तः सर्वशब्द, एवेदं वातिकमित्यभिप्रत्योदाहरति-सर्वेषां श्वेततरः सर्वश्वेत इति । बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वेतरूपापेक्षया सर्वेषां बकानां श्वेतगुणोऽयमधिक इत्यर्थः। द्विवचनविभज्या इति विभक्तव्योपपदे तरप। अन सर्वेषामिति षष्ट्यन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः । पूर्ववत्तरप् । सर्वेषां महत्तरः इति विग्रहः । इतरस. म्बन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः। कृयोगेति । कृता योगो यस्या इति विग्रहः । 'कर्तृकर्मणोः कृति' इति विहितेति भाष्यम् । इध्मप्रव्रश्चन इति । कुठार इति शेषः। प्रवृश्चयतेऽनेनेति प्रवश्वनः । करणे ल्युट् । इध्मानां प्रवचन इति विन. हः । कर्मणि षष्ठी । 'प्रतिपदविधाना' इति वक्ष्यमाणनिषेधस्यापवादोऽयम् । ___ न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्र नृणामिति षष्टयन्तस्य द्विजशब्देन समालो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्टयेव, न तु निर्धारणषष्ठी। यतो निर्धारणम् यच्च निर्धार्यते, यश्च निर्धारणहेतुः, एतस्त्रितयसन्निधान एव तस्याः प्रवृत्ते. रिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचित्तु 'उत्तमः पुरुष. स्त्वन्यः परमात्मेत्युदाहृतः।' इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः । प्रतिपदविधानेति। पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । षष्टी शेषे' इति शेषलक्षणां षष्ठी वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पि. षो ज्ञानमिति । अत्र 'ज्ञोऽविदर्थस्य करणे' इति विहितषष्ठयाः समासो न भवति । 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम्। .
पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्याच समानाधिकरणं चेति समाहारद्वन्द्वात् तृतीया। तदाह-पूरणाद्यर्थै रिति ।। पूरणे इति । उदाहरणं वक्ष्यत इति शेषः । सतां षष्ठ इति । षण्णां पूरण इत्यर्थे 'तस्य पूरणे डट् 'षट्कतिकतिपयचतुरां थुक्' । नच कुम्भपूरणमित्यत्रापि स निषेधः स्या
For Private and Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५०६
णस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहर• णम् । अनित्योऽयं गुणेन निषेधः। 'तदशिष्यं संज्ञाप्रमाणत्वात्' (सू १२९५) इत्यादिनिर्देशात् । तेन अर्थगौरवम् । बुद्धिमान्द्यम् इत्यादि सिद्धम् । सुहि. तार्थास्तृप्त्यर्थाः । फलानो सुहितः । तृतीयासमासस्तु स्यादेव। स्वरे विशेषः। दिति वाच्यम् , 'सोऽचि लोपे चेत् पादपूरणम्' इति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । 'उन्छषष्ठाङ्कितसैकतानि' इत्यत्र तु उम्छात्मकः षष्ठ इति व्याख्येयम् । गुणे इति । उदाहरणं वक्ष्यत इत्यर्थः । प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः, व्याख्यानात् । तदाह-काकस्य कार्ण्यम् , ब्राह्मणस्य शुक्ला इति । कृष्णशब्दात 'गुणवचनब्राह्मणादिभ्यः' इति भावे ष्यन् । शुक्लशब्दात्तु 'गुणवचनेभ्यो मतुपो लु' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताः शुक्ला इत्यय ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावादसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह-यदा प्रकरणादिनेति । प्रकरणादर्थावत्यर्थः । दन्ताः संयुक्ताः शुभावहाः, न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणात् दन्ता इति विशेष्योपस्थितिः। यदा वा सर्ववणेषु दन्तवनभूषणेषु प्रकृतेषु ब्राह्ममस्य शुक्ला इत्युच्यते, तदा अर्थात् दन्ता इति विशेष्योपस्थितिः, तत्र सामयसत्त्वात् समासे प्राप्ते निषेध इत्यर्थः । अत्र 'आकडारात्' इति सूत्रोक्तगुणवच. नसम्ज्ञाकानां 'तृतीया तत्कृत' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् , अत्र गुण. वचनशब्दाभावात् । किन्तु 'वोतो गुणवचनात्' इति सूत्रभाष्ये प्रपञ्चितानां 'सत्वे निविशतेऽपैति' इत्यादिलक्षणलक्षितगुणानामेव ग्रहणमिति बोध्यम् । एतेन 'आकडारात्' इति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात् कथं काादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह-अनित्योऽपमिति । सम्ज्ञाप्रमाणत्वादिति । सज्ञायाः प्रमाणत्वं सम्ज्ञाप्रमाणत्वं तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमासनिषेधात्समासनिर्देशोऽनुपपन्नः स्यात् । अतो गुणेन समासनिषेधः अनित्य इति विज्ञायत इत्यर्थः । इत्यादीति । आदिना गुणकात्यमित्यादिसङ्ग्रहः। ___ वस्तुतस्तु अनित्यो गुणेन निषेध इत्ययमों भाष्ये नस्यते । न च कृष्णै. कत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् , 'पङ्क्तिविंशतिः इति सूत्रे विंशत्या. दिशब्दा भाववचना भवन्तीत्युक्त्वा गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गो• सहस्रमित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे-मुहितार्थाः तृप्त्या इति । नपुंसके भावे क्तः इति भावः । फलानां सुहित इति ।
For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
सत्, द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः । अव्ययम्, ब्राह्मणस्य कृत्वा । पूर्वोतर साहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरि इत्यादि सिद्धमिति रक्षितः । तथ्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव, स्वकर्तव्यम् । स्वरे भेदः । समानाधिकरणेन, तक्षकस्य सर्पस्य । विशेषणसमास स्त्विह बहुलग्रहणान्न । 'गोर्धेनोः "*" करणत्वस्याविवक्षायां सम्बन्धविवक्षायां षष्ठी । अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः । फलसुहितमिति कथं समास इत्यत आह- तृतीयासमासस्तु स्यादेवेति । करणत्वविवक्षायां तृतीया । 'कर्तृकरणे कृता बहुलम्' इति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आहस्वरे विशेष इति । तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपपदप्रकृतिस्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदति । सद्योगे षष्ठीसमासनिषेध उदाहियत इत्यर्थः । ' तौ सत्' इति शतृशानचोः सदिति सञ्ज्ञा वक्ष्यते । ननु द्विजस्य कुर्वन्निति न कर्मणि षष्ठी, 'न लोक' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह- किङ्कर इत्यर्थं इति । द्विजं परिचर - नित्यर्थ इति यावत् । कृञ्धातुरिति परिचरणे वर्तत इति फलितम् । श्रव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृद्भ्यामित्यर्थः । ' अनेकमन्यपदार्थे' इति सूत्रभाष्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं चक्ष्यत इत्यर्थः। ब्राह्मणस्य कर्तव्यमिति । ' अहं कृत्यतृचश्च' 'तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । ' कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति । षष्ठीसमास इति शेषः । तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः । ' कृत्यानां कर्तरि वा' इति षष्ठी । अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससम्भवात् किं तव्ययोगे तन्निषेधेनेत्यत आह-स्वरे भेद इति । वव्यति कृते कृदुत्तरपदप्रकृतिस्वरेण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः ।
I
समानाधिकरण इति । समानाधिकरणेन षष्ठयन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठयुत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारय समासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आहविशॆषणसमासस्त्विति। ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यात् न तु षष्ठीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम्, उभयथापि 'समा
For Private and Personal Use Only
[ तत्पुरुषसमास
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् १८
बालमनोरमासहिता ।
इत्यादिषु 'पोटायुवति ' ( सू ७४४ ) इत्यादीनां विभक्त्यन्तरे चरितार्थाना परत्वाद्वाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते । (७०६) तेन च पूजायाम् २२|१२|| ' मतिबुद्धि' ( सू ३०८९ ) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजितः इत्यादी तु भूते कान्तेन सह तृतीयान्तस्य समासः । ( ७०७) अधिकरणवाचिना च
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
]
५११
सस्य' इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेत्, मैवम् - कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ 'ज्यावमकन्पापवत्सु भावे' इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तम्माभूदित्येतदर्थं षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुलग्रहणमाश्रितम् । न चैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवारमिति वाच्यम्, निषेधसामर्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवं जातीयकप्रयोगाभाबोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह – गोनोरिति । गोर्धेनोरित्यादिषु षष्ठीसमासः प्राप्तः सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादिसङ्ग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते 'पोटा युवति', 'युवा खलति' इत्यादिविशेषविहितकर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह- पोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वादुबाधक इति । पोटायुवति, युवा खलति इत्यादिविधयः गौधेनुः, युवा खलतिरित्यादिषु प्रथमाविभक्त्यन्तेषु सावकाशाः । षष्ठीसमासस्तु राज्ञः पुरुषः इत्यादावसमानाधिकरणे सावकाशः । गोधेनोः, यूनः खलतेरित्यादिषु उभयं प्राप्तम् । तत्र पोटायुवति, युवा खलति, इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः । सोऽप्यनेन समानाधिकरणेनेति निषेधेन वार्यंत इत्यर्थः । नच निषेधसामर्थ्यादेव पोटायुवतीत्यादिसमासोऽपि बाध्यतामिति वाच्यम्, षष्ठीसमासे गोधेनोरित्यादौ अन्यतरस्य पूर्वनिपातः । 'पोटायुवति' इत्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य रूपटत्वात् । समानाधिकरणेन निषेधश्चायं काचित्क एव, अन्यस्य पदस्यार्थ इत्यर्थं अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिः सिद्धः ।
क्तेन च पूजायाम् । अत्र पूजाग्रहणं 'मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह - मतिबुद्धीति सूत्रेणेति । राज्ञां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणः ज्ञायमानः पूज्यमान इति क्रमेणार्थ: । ' मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'कस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितः राजमतः राजबुद्ध इति कथं समास इत्यत आह- राजपूजित इत्यादाविति । श्रधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे
For Private and Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१२
सिद्धान्तकौमुदी
२|२| १३॥ केन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा । ( ७०८ ) कर्मणि च २|२| १४ || ' उभयप्राप्तौ कर्मणि' ( सू ६२४ ) इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन । ( ७० ) तुजकाभ्यां कर्तरि २२|१५|| कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कतरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थ भर्तृशब्दस्य तु याजकादित्वात्समासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवन विधातुश्व
[ तत्पुरुषसमास
क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति । 'क्तोऽधिकरणे च धौव्यगतिप्रत्यवसा नार्थेभ्यः' इत्यधिकरणे क्तः । 'अधिकरणवाचिनश्च' इति षष्ठी । कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां स्रष्टेत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि' इति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह – उभयेत्यादिना आश्चर्यं इति । यद्यप्यत्र 'कर्तृकर्मणोः कृति' इत्येव कर्मणि षष्ठी, न तु 'उभयप्राप्तौ कर्मणि' इति सूत्रेण, तस्य सूत्रस्य कमण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः । शब्दानुशासनमित्यत्र तु वस्तुतः आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेर्नायं निषेधः, 'कृत्वोऽर्थप्रयोगे' इत्यतः प्रयोगे इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षे 'कर्तृकर्मणोः कृति' इत्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् ।
1
तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । नतु षष्ठ्याः । तदाहकर्त्रर्थतृजकाभ्यामिति । अपां स्रष्टा, वज्रस्य भर्तेति । 'ण्वुल्तृचौ' इति कर्तरि तृच् । 'कर्तृकर्मणोः, इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः I इक्षुभक्षिकेति । ‘स्त्रियां क्तिन्' इत्यधिकारे धात्वर्थेनिर्देशे ण्वुल् । कर्मणि षष्ठ्याः समासः । 'कर्मणि च' इति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्यत्रापि निषेधः स्यात् । नच भर्तृशब्दस्य याजकादौ पाठात् भवत्येव षष्ठीसमासः । 'याजकादिभिश्व' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं तर्हि वज्रस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह- पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्च वज्रस्य भर्तेत्यत्र 'याजकादिभिश्व' इति समासो नेति भावः । कथं तहीति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं, 'तद्धितार्थं' इति द्विगुः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, पात्राद्यन्तस्य नेत्युक्तेः । त्रिभुचनस्य विधातेति तृचा योगे कथं कर्मणि षष्ठ्याः समास इत्याक्षेपः । परिहरति
For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
कलहः' इति । शेषषष्ठया स्रमास इति कैयटः । ( ७१०) कर्तरि च २|२|१६|| कर्तरि षष्ठया अकेन न समासः । भवतः शयिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया अभावात् । ( ७११) नित्यं क्रीडाजीविकयोः २|२|१७॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । ' संज्ञायाम् ' ( सू ३२८६ ) इति भावे ण्वुल् । जीविकायाँ दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकाय 'तृजकाभ्यां कर्तरि ' ( सू ७०९ ) इति निषेधे प्राप्ते वचनम् । ( ७१२) पूर्वापराधरोत्तर मेकदेशिनैकाधिकरणे
५१३
शेषषष्ट्येति । प्रत्यासत्त्या कारकषष्ठया एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः । कर्तरि च । कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति । तदाह - कर्तरि षष्ठ्या इति । अकेनेति । 'तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति । 'स्त्रियां क्तिन्' इत्यधिकारे धात्वर्थनिर्देशे ण्वुलू, अकादेशः, टाप् । 'कर्तृकर्मणोः' इति कर्तरि षष्टी । अत्र अकस्य कर्त्रर्थकत्वाभावात् 'तृजकाभ्याम्' इत्यस्य न ' प्राप्तिः । ननु पूर्व सूत्रे 'तृकाभ्याम्' इति समस्तपदोपादानात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत आह— नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ट्या एवाप्रसक्क्या तत्समासनिषेधस्य शशशृङ्गेण कण्डूयनं न कर्तव्यमितिवदसम्भवपराहतत्वादित्यर्थः ।
1
नित्यं कीerजीविकयोः । उद्दालकपुष्पभञ्जिकेति । उद्दालकः श्लेष्मातकः तस्य पुष्पातेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियांति' इत्यधिकारे 'संज्ञायाम्' इति भावे वुलित्यर्थः । अत्र कर्मणि षष्ठ्याः समासः । वस्तुतस्तु 'स्त्रियां तिनू' इत्यधिकारे 'धात्वर्थनिर्देशे ण्वुल्' इति भावे ण्वलित्येव युक्तम् । 'संज्ञायाम्' इति तु अधिकरणार्थमिति दन्ते वक्ष्यते । तथा सति उद्दालकपुष्पाणि भज्यन्ते aari क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति । दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः । लिखेः कर्तरि ण्वुल् । अकादेशः । जीविका समागम्या | ननु ' षष्ठी' इति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह-तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधके उद्दालकपुष्पभञ्जि. here विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते, जीविका बोध के तु दन्तलेखक इत्यत्र 'तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः ।
पूर्वापर | 'पूर्वापराधरोत्तरम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दः अवयवे रूढः । एकदेशः अस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम् । एकमधिकरणम् एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेन अव
बा० ३३
For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૃષ્ઠ
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
२|२|१|| अवयविना सह पूर्वादयः समस्यन्ते, एकत्व सङ्ख्याविशिष्टश्चे दवयवी । षष्ठीसमास्रापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽहा समस्यते । ‘संख्याविद्याय ' - ( सू २३८ ) इति ज्ञापकात् । मध्याह्नः । सायाह्नः ।
1
विवाच सुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते स तत्पुरुष इत्यर्थः । फलितमाह – श्रवयविना सहेत्यादिना । ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव पूर्वकाय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य । कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह- षष्ठीसमासापवाद इति । पूर्व कायस्येति विग्रहे 'षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्वं कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायं नपुंसकत्वम् । 'तस्य परमात्रिडितम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समास - विधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । परवल्लिङ्गम्' इति पुंस्त्वमिति भावः । 'यत्र' उत्सर्गापवादो महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ' इति 'पारे मध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासोभावे षष्ठीसमासो न भवति । अपरवाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्वं नाभे: कायस्येति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमधं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वाशेऽऽन्वयः । अत्र पूर्वस्यांशस्य नाभिखधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्व शब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूतावयवकतया बहुत्वादेकत्वसङ्ख्या वैशिष्टयाभावान्न समास इति भावः ।
1
•
ननु अहो मध्यं मध्याह्नमित्यत्र कथमेकदेशिसमासः । मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह- सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । 'तत्पुरुषस्य' इति 'अहस्सर्वकदेशसङ्ख्या तपुण्याच्च' इति च प्रकृते, 'महोऽह एते. भ्यः' इत्येकदेशवाचकात् परस्य अहन् शब्दस्य अह्नादेशो विधीयते । ततश्चान्हः साथ इति विग्रहे अवयविवृत्तिना, अहन्शब्देन षष्ठ्यन्तेन अवयववृत्तिसायशब्दस्य तत्पु. रुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायश ब्दात् परस्य अहन्शब्दस्य अह्नादेशे 'रात्राद्वाहाः पुंसि' इति पुंस्त्वे सायाह्न इति
For Private and Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता |
99
केचित्तु । सर्वे एकदेशः कालेन समस्यते न त्वदैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः, उपारताः पश्चिमरात्रगोचरात् इत्यादि सिद्धमित्याहुः । ( ७१३) अर्धं नपुंसकम् २|२|२|| समशिवाच्यर्धशब्दो नित्यं क्लीवे स प्राग्वत् ।
>
भवति । तस्मात् सप्तम्येकवचने परे 'सङ्ख्याविसाय' इति सायशब्दपूर्वकस्य अह्नशब्दस्य अन्नादेशविकल्प उक्तः । सायाह्नि, सायाहनि सायाह्ने इत्युदाहरणम् । तत्र अहः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् । तदा ' षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठ्यन्तस्य सायशब्देन समासे सति षष्ठ्यन्तस्यैव समासशास्त्रे प्रथमा निर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याहशब्दस्य अहन्नादेशविधानं निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते ' इति विज्ञायते इत्यर्थः । मध्याह्न इति । अह्नो मध्यमिति विग्रहे अयं समासः । 'राजाहस्सखिभ्यष्टच्' इति टच् । 'अहोऽह एतेभ्यः' इत्यहादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम्, 'सयाविसाय' इति सूत्रे अहनुशब्दस्यैवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत श्राह - ज्ञापकस्येति । अहनुशब्देन सह सायशब्दस्य एकदेशिसमार्स सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात् सर्वेणापि अवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्यापेक्षत्वात् । नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेर्मध्यमित्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः । 'अहस्सर्वैकदेश' इत्यच्समासान्तः ।
1
अर्थं नपुंसकम् । अर्धमिति नपुंसकलिङ्ग निर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकमहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह- समशिवाच्यर्धशब्दो नित्यं क्लीब इति । वर्तते इति शेषः । 'वा पुंस्यर्धोऽर्ध समेऽशके' इति कोशादिति भावः । अंश. सामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । सः नित्यनपुंसकलिङ्गः अर्धशब्दः अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्ध पिप्पल्याः अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्ध पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्याः अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः अर्धपिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, मधें पिप्पल्याः अर्धपिप्पल्याम् इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनत्वात् 'गोस्त्रियोः' इति हस्वः स्यादित्यत आह
For Private and Personal Use Only
---
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
मास
'एकविभक्तावषष्ठयन्तवचनम्' (वा ६७३) । एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः। तेन 'पञ्चखट्वी' इत्यादि सिध्यति । अर्ध पिप्पल्या अर्धपिप्पली । 'क्लीवे' किम् प्रामाः। द्रव्यैक्य एव । अर्धं पिप्पलीनाम् । (७१५) द्विती. यतृतीयचतुर्थतुर्याण्यन्यतरस्याम् २॥२॥३॥ एतान्येकदेशिना सह प्रा. म्वद्वा। द्वितीयं भिक्षाया द्वितीयभिक्षा। 'एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्याग्रहणसामर्थ्यात् । 'पूरणगुण-' (सू ७०५) इति
एकविभक्ताविति । 'एकविभक्ति चापूर्वनिपाते' इति सूत्रे 'अषष्ठ्यन्तम्' इति वक्तव्य. मित्यर्थः। ततश्च पिप्पलीशब्दस्य षष्ठयन्तत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वा. शब्दस्य नियतविभक्तिकत्वेऽपि षष्ठ्यन्तत्वादनुपसर्जनत्वात् 'गोस्त्रियोः' इति हस्वाभावे अदन्तत्वाभावेन 'द्विगोः इति डीबभावे पञ्चखटवेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह-एकदेशिसमासविषयकोऽयमिति । 'अपथं नपुंसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमन लिङ्गमिति भावः । अर्धपिप्पलीति । प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जनत्वात् र्पूवनिपातः । पिप्पलोशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि “एकविभक्तौ' इति निषेधादुपसर्जनत्वाभावान हस्व इति भावः । ग्रामार्ध इति । ग्रामस्या इति विग्रहः । ग्रामस्यांश इत्यर्थः। अर्धशब्दस्य समांशवाचित्वाभावेन नि. त्यनपुंसकत्वाभावान्नायं समासः। किन्तु 'षष्ठी' इत्येव समास इति षष्ठ्यन्तस्य पूर्वनिपातः। द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः। अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याभावान्न समासः । सति समासे अर्धपिप्पलीत्येव स्यात् , विशेज्यैक्यात् । इदं सूत्रं 'परवल्लिङ्गम्' इति सूत्रभाष्ये प्रत्याख्यातम् । द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवल्लिङ्गम्। इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षायाः द्वितीय भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्ठी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेना. न्वेति । 'न लोक' इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः। ननु विभा. पाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह-अन्यतरस्यामिति । अन्यतरस्याङ्ग्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठ्यपधादभूते. नानेन समासेन मुक्ते उत्सर्गो न प्रवतेत । महाविभाषाधिकारे "अपवादेन मुक्ते उत्सर्गो न प्रवर्तते" इति 'पारे मध्ये षष्ठ्या वा' इति वाग्रहणेन ज्ञापितत्वादिति
For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् । ( ७२५) प्राप्तापन्ने च द्वि. तीयया २२४॥ पक्षे 'द्वितीया श्रित' ( सू ६८६ ) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः - जीविका प्राप्तः । आपन्नजीविकः - जीविकापनः । इह सूत्रे, 'द्वितीयया अ' इति छित्त्वा अकारोऽपि विधीयते । तेन जोविकां प्राप्ता स्त्री प्राप्त • जीविका । अपन्नजीविका । ( ७१६) कालाः परिमाणिना २|२| ५ || परि च्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यह
५१७
भावः । ननु 'पूरणगुण' इति निषेधात् कथमिह षष्ठीसमास इत्यत्र आह— पूरणगु. येति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयर्थ्यादिति भावः । इत्येकदेशि - समासनिरूपणम् ।
प्राप्तापन्नै च द्वितीयया । प्राप्त, आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह-पक्ष इति । वस्तुतस्तु 'द्वितीया श्रित' इति सूत्रे " प्राप्तापन्नशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वात् चकारो न तत्समुच्चयार्थः” इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः । 'द्वितीया श्रित' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह - प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्रीति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपरयोरकारमन्तादेशं साधयितुमाह - इह सूत्र इति । अकारोऽपीति । प्राप्तापन्ने द्वितीयया समस्येते तयोरकारोऽन्तादेशश्चेत्यर्थं लाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः ।
I
कालाः परिमाणिना । परिमाणिपदं व्याचष्टे - परिच्छेद्यवाचिनेति । काला इति बहुवचनात् कालविशेषवाचका इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य स इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावत् जननं साक्षात् परिच्छि नति । जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथाच मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । नच मासो जातस्य यस्य सः मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यम् । समानाधिकरणानामेव बहुव्रीहिविधानात् । 'निष्ठा' इति
I
I
For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
-
जातः। द्वयोरहोः समाहारो द्वयहः। यहो जातस्य यस्य स इति विग्रहः ॥ 'उत्तर. पदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम्' (वा १२८८) । द्वे अहनी जातस्य यस्य स द्वयनहजातः । 'अहोऽह्न:- (सू ७९०) इति वक्ष्यमा. णोऽह्लादेशः। पूर्वत्र तु 'न सङ्ख्यादेः समाहारे (सू ७९३) इति निषेधः। (७१७) सप्तमी शौण्डैः २१४०॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौ• ण्डोऽभशौण्डः । अधिशब्दोऽत्र पठ्यते । -अध्युत्तरपदात्-' (सू २०७९) इति खः । ईश्वराधीनः । (७१८) सिद्धशुष्कपक्कबन्धैश्च २॥१॥४१॥ एतैः जातशब्दस्य पूर्वनिपातापत्तेश्च । 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न । सुखादावस्य पाठकल्पनायां प्रमाणाभावादित्यलम् । द्वयहो जातस्येति । 'तद्धितार्थ इति समाहारे द्विगुः । 'राजाहस्सखिभ्यः' इति टच । 'रात्रालाहाः पुंसि' इति पुंस्त्वम् । ___ उत्तरपर्दैनैति । तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जा. तशब्दे उत्तरपदे सम्पन्ने पूर्वयोस्सुबन्तयोद्विगुसमासप्रवृत्तिर्वक्तव्या। स च समासस्त्रयाणां 'कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति । 'सुपसुपा' इत्येकत्वस्य विवक्षितत्वात् । अतः उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहुनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनि. मित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्पा' इत्येकत्वं विवक्षित. मित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि द्वयहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः 'तद्धितार्थ इति द्विगुसमासे 'राजाहस्सखिभ्यः' इति टचि 'अहोऽह्न एतेभ्यः' इत्याह्लादेशे द्वथह्न. जात इति रूपमित्यर्थः । अत्र पूर्वयोद्विगुतत्पुरुषत्वाभावे टच अह्नादेशश्च न स्यातामिति भावः। ननु द्वयोरहोस्समाहारो द्वयह इति कथं पूर्वमुक्तम् । तत्राप्यहादेशप्रसङ्गादित्यत आह-पूर्वत्र विति। निषेध इति । अहादेशनिषेध इत्यर्थः । इति सष्ठीसमासनिरूपणम् ।
सप्तमी शौण्डः। शौण्डादिभिरिति । बहुवचननिर्देशात् गणपाठाच्च शौण्डशब्दस्त. दादिपरः। अक्षेषु शौण्ड इति। शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी। अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः । ईश्वराधीन इति । प्रपञ्च इति शेषः। ईश्वरे अधि इति विग्रहः। 'अधिरीघरे' इत्यधेः कर्मप्रवचनीयत्वम् ।
For Private and Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५१४
-
सप्तम्यन्तं प्राग्वत् । साङ्काश्यसिद्धः । आतपशुष्कः स्थालीपक्कः । चक्रबन्धः । (७१) ध्वाक्षेण क्षेपे २।११४२॥ वासवाचिना सह सप्तम्यन्तं समस्यते नि. न्दायाम् । तीर्थे ध्वाङ्ग इव तीर्थ वासः । तीर्थकांकः इत्यर्थः । (७२०) कृत्यैऋणे २॥१॥४३॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके। मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाहेंगेयं साम । (७२१) संज्ञायाम् २११४४॥ सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासो. ऽयम् । अरण्येतिलकाः वनेकसेरुकाः। 'हलदन्तात्सप्तम्याः-' (सू ९६६ ) इत्यलुक् । (७२२) क्तेनाहोरात्रावयवाः २॥१४॥ अहो रात्रेश्वावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाङ्गकृतम् अपररात्रकृतम् । अवयवग्रहणं किम् । अन्हि दृष्टम् । (७२३) तत्र २१॥४६॥ 'तत्र' इत्येतत्सप्तम्यन्त 'यस्मादधिकम्' इति सप्तमी। तदन्तस्य अधिना समासः । सुब्लुक्, 'अषडक्षा इति अध्युत्तरपदत्वात् खः । ईनादेशः । ईश्वराधीन इति रूपम् । सिद्धशुष्क। सप्तमीत्यनुवर्तते । तदाह-तैस्सप्तम्यन्तं प्राग्वदिति । साङ्काश्यसिद्ध इति । सङ्काशेन निर्वृत्तं नगर साङ्काश्यम् । तत्र सिद्धः उत्पन्नो ज्ञातो वेत्यर्थः । आतपशुष्क इति । आतपे शुष्क इति विग्रहः । स्थालीपक्व इति । स्थाल्यां पक इति विग्रहः । चक्रबन्ध इति । चके बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् पृथगुक्तिः। ध्याङ्क्षण क्षेपे। बाङ्ग्रेत्यर्थग्रहणम् , व्याख्यानात् । तदाह-वाङ्क्षवाचिना सह सप्तम्यन्त समस्यत इति । क्षेपपदं व्याचष्टे-निन्दायामिति । तीर्थे ध्याह्न इव तीक्षध्वाङ्क्ष इति । ध्वाङ्कः काकः स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति। अर्थग्रहणस्य प्रयो. जनमाह-तीर्थकाक इति । कृत्यणे । सप्तमीत्यनुवर्तते । कृत्यग्रहणेन प्रत्ययग्रहणपरि. भाषया कृत्यसंज्ञकप्रत्ययान्तग्रहणम् । 'ऋणपदमावश्यकोपलक्षणम्' इति भाष्यम् । तदाह-सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके इति । मासे इति । सामीप्याधिकर. णत्वे सप्तमी। मासाव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यको. पलक्षणतायाः प्रयोजनमाह-पूर्वाहेगेयं सामेति । 'तत्पुरुषे कृति' इत्यलुक । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् । तेनेह न । पूर्वाह्न दातव्या भिक्षेति । संज्ञायाम् । सप्तमीत्यनुवर्तते । तदाह-सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाभिति । अरण्येति. लका इति वनेकसेरुका इति च संज्ञाशन्दौ । 'हलदन्तात् सप्तम्याः' इत्यलुक् । __क्तेनाहोरात्रावयवाः। अहोरात्रयोः अवयवा इति विग्रहः। सप्तमीत्यनुवर्तते । केनेति तदन्तग्रहणम् । तदाह-अह्रो रात्रेश्चावयवा इति । अहरवयवस्योदाहरतिपूर्वाहकृतमिति । राज्यवयवस्योदाहरति-अपररात्रकृतमिति । तत्र। तत्रेति शब्दस्वरूप.
For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
कान्तेन सह प्राग्वत्। तत्रभुक्तम् । (७२४) क्षेपे २११४७॥ सप्तम्यन्तं तान्तेन प्राग्वन्निन्दायाम् । 'अवतप्तेनकुलस्थितं त एतत्' (७२५) पात्रेसमितादयश्च २॥१॥४८॥ एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमय एव सङ्गताः, न तु कायें । गेहेशरः। गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषा समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः। (७२६) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन २॥१४॥ विशेषणं विशेष्येण-' ( सू ७३६ ) इति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकाशब्दस्य ग्रहणम् । सप्तमीति क्तनेति चानुवर्तते । तदाह-तत्रेत्येतत् सप्तम्यन्त क्तेन सह प्राग्वदिति । तत्रभुक्तमिति । समासस्वरः प्रयोजनम् । तत्रभुक्तस्येदं तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्तेनेति चानुवर्तते । तदाह-सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायामिति । अवतप्तेनकुलस्थितं त एतदिति । स्थितमितिभावे क्तः। नकुलेन स्थितम् । 'कर्तृकरणे कृता बहुलम्' इति समासः। 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया नकुलस्थितशब्दोऽपि कान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते 'तत्पुरुषे कृति' इत्यलुक् । हे देवदत्त, ते तव, एतत् अवस्थानम् , अवतप्ते नकुल. स्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुलाः न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वयं इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया। पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निदिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण गतौ सम्पूर्वात् 'गत्यकर्मक' इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः। फलितमाह-भोजनैति । गेहेशूर इति । गेह एव प्रकटितशौर्यः, न तु युद्ध इत्यर्थः । गेहेनदीति । नर्द शब्दे, 'सुप्यजातो' इति णिनिः। समासे सति निपातनादलुक । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्ती. त्यर्थः । ततः किमित्यत आह-तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । __ पूर्वकालैक । सुबित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते। पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः। ततश्च पूर्वकालेत्यनेन पूर्वकालवृत्त्यर्थक. शब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः। समानम् एकम् अधिकरणं वाच्यम् यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्व स्नातो वा पश्चादनुलिप्तत्वेन
For Private and Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता।
५२१
'दिक्सङ्खये संज्ञायाम्' ( सू ७२७) इति नियमबाधनार्थं च । पूर्व स्रातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः सर्वयाज्ञिकाः। जरन्नैयायिकाः। पुराणमीमांसकाः। नवपाठकाः । केवलवैयाकरणाः । (७२७) दिक्सख्ये संज्ञायाम् २१५०॥ 'समानाधिकरणेन' इत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति
-
विशेष्टुं शक्यते । अतो विशेषणं विशेष्येण' इति समासे सति अन्यतरस्य पूर्वनि. पाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपोत्यर्थः । एकशब्दविषये प्रयोजनान्तरमण्याह-एकशब्दस्येति । 'दिक्सङ्ख्ये सज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रप्तवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चा. च्छब्दाभावेऽपि स्नानानुलेपमयोः पौर्वापर्ये समासगम्यमेव । पूर्वकालः समस्यते इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाशिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः । ऋतूक्थादिसूत्रान्ताक्' सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः। पूर्ववत् ठक् । 'न य्वाभ्याम्' इत्यैजा. गमो वृद्धिनिषेधश्च । 'जीर्यतेरतृन्' इति भूते मतृन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसका इति । मीमांसामधीयते । मीमांसकाः । 'क्रमादिभ्यो वुन्'। पुराणाश्च ते मीमांसकाश्चेति विग्रहः। नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहन्निवशब्दो नूतनवाच्येव गृह्यते । न तु सङ्ख्याविशेषवाची। केवलवैयाकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः। तदधीते तद्वेद' इत्यण् । 'न य्वाभ्याम्' इति वृद्धिनिषेध ऐजागमश्व । केवलाश्च ते वैयाकरणा. श्चेति विग्रहः।
दिक्सङ्ख्ये सज्ञायाम् । अधिकार इति । 'पूर्वकालैक' इति सूत्रस्थं समानाधिकर. णेनेत्येतत् आपादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्सङख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननु 'विशेषणं विशेष्येण इत्येव सिद्धे किमथमिदं वचनमित्यत आह-सज्ञायामेवेति। नचैवं सति पञ्च गावो यस्य सः पञ्चगरिति बहुव्रीहिन स्यात् , पञ्चानां गवां समाहारः पञ्चगवमित्यत्र 'तद्धितार्थ इति समासश्च न स्यादिति वाच्यम् । 'विशेषणं विशेष्येण' इति यदि दिक्सङ्ख्ययोस्स. मासः स्यात् तर्हि सज्ञायामेवेति नियमशरीराभ्युपगमात् । पूर्वसूत्रं, पूर्वमासः, पूर्वसमुद्रः इत्यादौ तु सज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननु 'त्रिलोकनाथः पितृसद्मगोचर.' इति कथं कालिदासप्रयोगः। त्रिलोकशब्दस्य
For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
rammar
नियमार्थ सूत्रम् । पूर्वेषुकामशमी। सप्तर्षयः । नेह, उत्तराः वृक्षाः। पञ्च ब्राह्मणाः । (७२८) तद्धितार्थोत्तरपदसमाहारे च २।१५१॥ तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्सङ्घये प्राग्वद्वा । पूवस्या शालायां भवःपौर्वशालः । समासे कृते 'दिक्पूर्वपदादसंज्ञायां अः' (स १३२८) इति नः। 'सर्वनानो वृत्तिमात्रे पुंवद्भावः' (बा १३७६)। आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीही कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः। असज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे तु 'द्विगोः' इति डीप्रसङ्गः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीलि. ङ्गत्वात् । पात्रादित्वात् न स्त्रीत्वमित्यभ्युपगमे 'यदि त्रिलोकीगणनापरा स्यात्' इत्यादिप्रयोगाः न युज्येरनिति चेत् , सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः। व्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः। एतच्च 'द्विगोलुंगनपत्ये' इति सूत्रे भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशसङ्ख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशब्देन समासः । देशविशेषस्य सज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां सज्ञेयम् । नेहेति । असज्ञात्वादिति भावः । ___ तद्धितार्थ । एकापि सप्तमी विषयभेदात् भिद्यते। तत्र तद्धितार्थत्यंशे वैषयिका. धारत्वे वर्तते। उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमीपर्यवस्यति । समाहारांशे तु वाच्यतया आधारत्वे सप्तमी । पूर्वसूत्रात् दिक्सङ्ख्ये इत्यनुवर्तते । तदा ह-तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत् । प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । तद्धिताथें दिक्समासमुदाहरति-पूर्वस्यामिति । समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थ' इति समासे कृते 'दिक्पूर्वपदात्' इति अप्रत्यये कृते 'य. स्येति च, इत्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कात्स्ने। समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्स
ङ्ख्ये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वा. तद्धित इत्यन्योन्याश्रयप्रसङ्गः । तद्धिता) वाच्ये दिक्सङ्ख्ये समस्येते इति तु न व्याख्यातम् । तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वात् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह-तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे
For Private and Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
AAAA
पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । सङ्ख्यायास्तद्धिताथें, षण्णां मातृणामपत्यं षामातुरः। पञ्च गावो धनं यस्येति त्रिपदे बहब्रोहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' (१२८७) (७२६) गोरतद्धितलुकि ५।४।२॥ गोऽन्तात्तत्पुरुषाच्स्यात्समासान्तो न तद्धितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः । (७३०) सङ्ख्यापूर्गे
-
सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणायुदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह-दिविति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । __ सङ्घयायास्तद्धितार्थे इति । समास उदाहियत इत्यर्थः। तत्र तद्धितार्थे उदाहरतिपाण्मातुर इति । 'मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः' इत्यण, प्रकृतेरुकारश्चादेशः, आदि. वृद्धिश्च । अथ उत्तरपदे परत उदाहरति -पव गाव इति । अवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्प प्राप्ते इति । महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपक्षे 'गोरतद्धितलुकि' इति तत्पुरुषप्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः। द्वन्द्वतत्पुरुषयोरिति। उत्तरपदे परतः यो द्वन्द्वतस्पुरुषो तयोनित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु सम्पातायातम् , अनन्वयात् उत्तरपदे परतः समाससज्ज्ञाया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि । 'तत्पुरुषस्याङ्गलेः' इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या वि. परिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाहस्सखिभ्यः' इत्यतष्टजि. त्यनुवर्तते । समासान्त इत्यधिकृतम् । तदाह-गोऽन्तादित्यादिना । अतद्धितलुकोति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य 'अध्यर्ध' इति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीही कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य सः वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुधीही कृते पूर्वयोनित्यद्वन्द्वः । तेन 'द्वन्द्वाच्चुदषहान्तात् समाहारे इति टजपि नित्य एव । नच वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याभावात् कथमिह त्रिपदबहुव्रीहिरिति वा. च्यम् । द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । 'सप्तमोविशेषणे बहु. बीहा' इति ज्ञापन कण्ठेकाल इत्यादाविव व्यधिकरणबहुव्रीहिसम्भवाच्च । 'वा. क्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् ।
अथ समाहारे उदाहतु विग्रहं दर्शयति-पञ्चानां गां समाहार इति । अत्र समासे
For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
द्विगुः २१५२ ॥ तद्धितार्थ - ( सू ७२८ ) इत्यत्रोतस्त्रिविधः सख्यापूर्वी द्विगुः स्यात् । ( ७३१) द्विगुरेकवचनम् २|४|१|| द्विग्वर्थ: समाहार एकवस्स्यात् । 'स नपुंसकम् ' ( सू ८२१ ) इति नपुंसकत्वम् । पञ्चगवम् । (७३२) कुत्सितानि कुत्सनैः २|१|५३॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूट: । ( ७३३) पापाणके कुत्सितैः २|१|५४ ॥
सति 'गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्य विधास्यन् द्विगुसंज्ञामाह-सङ्ख्यापूर्वी द्विगुः । सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । ' तद्धितार्थ ' इति पूर्वसूत्रविहितसमासः अन्यपदार्थः, प्रत्यासत्तेः । तदाह - तद्धितार्थेत्यत्रोक्तस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वात् द्विगुसज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः | 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । उत्तरपदे यथा, पञ्चनावप्रियः । 'नावो द्विगोः' इति समासान्तष्टच् । द्विगुरेकवचनम् । अत्र 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः एकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि । समाहियत इति कर्मणि घनि समाहारशब्दः समाहृतप्रधानः, तदा समाहृतगत द्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाहद्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः । स नपुंसकमिति । समाहारे द्विगुर्द्वन्द्वच नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते । इति द्विगुसमासः ।
1
कुत्सितानि कुत्सनैः । वर्तमाने क्तः, व्याख्यानात् । तदाह- कुत्स्यमा नानीति । कुत्समैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्ने विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति । 'दुल उत्क्षेपे' चुरादिः । दुर्पूर्वादौणादिकः कूटप्रत्ययः । ' बहुलमन्यत्रापि' इति लुक् । रलयोरभेदात्रः । यो मीमांसामधीत्यान्यथा जानानां दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् । पापाणके कुत्सितैः ।
For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२५
पूर्वसूत्रापवादः । पापनापितः । आणककुलालः । (७३४) उपमानानि सामान्यवचनैः २१११५५॥ धन इव श्यामो धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सवयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् । (७३५) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २५६॥ उपमेयं व्याघ्रादिभिः सह प्राग्वसाधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनि
-
पापाशब्दः अणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेष.
समासेनैव सिद्ध किमर्थमिदमित्यत आह-पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयः अर्शआयच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते । 'कुरूपकु. त्सितावद्यखेटगाणकाल्समाः । इत्यमरः । ततश्च पापाणकशब्दो निन्दाहेतुभूतपाप. कुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ। ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । अतः पूर्वनिपातनिप्रमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्वासी कुलालश्चेति विग्रहः।
उपमानानि सामान्यवचनैः। उपमीयन्ते सहशतया परिच्छिद्यन्ते येस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्यः उपमानोपमेयसाधारणधर्मः तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दापरप
या उपमानशब्दाः उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुषः इत्यर्थः । धन इव श्यामो धनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याभावात् कथमिह समासः, इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह-इह पूर्वपदमिति । एवञ्च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामाना. धिकरण्यम् । अत एव मृगीव चपला मृगचपला इत्यत्र 'पुंवत्कर्मधारय' इति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्यम् । तथाच 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्तधर्मवत्त्वम् । एवञ्च सादृश्यप्रतियोग्यनुयो. गिनोस्साधारणधर्मवत् लब्धम् । स चेह साधारणधर्मः उत्तरपदोपस्थाप्य एव गृह्यते। सन्निहितत्वात् । तथाच घनगतश्यामत्वसदृशश्यामत्ववान् इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह-पूर्व निपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात् । खनकुञ्ज कुजखाः इतिवदनियमः स्यादिति भावः । .. उपमितम् । प्राग्वदिति । समानाधिकरणैल्समस्यते स तत्पुरुष इत्यर्थः । अनोपमि.
For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
पातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् । पुरुषो व्याघ्र इव शूरः । ( ७३६) विशेषणं विशेष्येण बहुलम् २|१| ५७ ॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् ।
तस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूत व्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह - विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिद. मित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृइयोपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः । पुरुषो व्याघ्र इव शुर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । 'भाष्याब्धिः क्वातिगम्भीरः" इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । नच पुरुषशब्दस्य शूरश• ब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः । अतः 'सामान्याप्रयोगे' इति व्यर्थमिति वाच्यम्, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामर्थ्य विघातकं, न तु प्रधानस्य । तथाचात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्य - मिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्वमिति ज्ञापयति । तेन राजपुरुषः सुन्दर इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।
विशेषणं विशेष्येण बहुलम् । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्वयावर्तकम् । व्यावर्त्य तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाहभेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति । नील• पदं तावदुत्पलमनीलादुत्पलाद्वयावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्यसमर्पण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः । नच उत्पलपदम् अनुत्पलानीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम्, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः, स्वभावात् । यथा - नीलोत्पलं, पाचकब्राह्मण इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा खञ्जकुब्जः कुब्जखअ इति । क्रियाशब्दयोरप्यनियमः । यथा- पाचकपाठकः पाठकपाचक इति । तथा गुणक्रियाश ब्दयोरप्यनियमः । यथा-खजपाचकः पाचकखज्ज इति भाष्ये स्पष्टम् । तथा कैलासाद्विः, मन्दराद्रिः, अयोध्यानगरी इत्यादौ सञ्ज्ञाशब्दा अपि विशेषणसमर्पका एव स्वभावात् । सामान्यजातिविशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । शिशपावृक्ष इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किम
For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२७
-
-
बहुलप्रहणात् क्वचिनित्यम् , कृष्णसर्पः। क्वचिन्न, रामो जामदग्न्यः । (७३७) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च २१५८॥ पूर्वनिपा. तनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः । 'अपरस्यार्धे पश्वभावो वक्तव्यः' ( वा ३२५३ ) अपरश्वासावर्धश्च पश्चाः । कथम् ‘एकवीरः' इति । 'पूर्वकालैक-' (सू ५२६ ) इति बाधित्वा परत्वादनेन समासे 'वीरकः' इति हि स्यात् । बहुलग्रहणाद्भविष्यति । (७३८) श्रेण्यादयः कृतादिभिः २११५६॥ श्रेण्यादिषु व्यर्थवचनं कर्तव्यम्' (वा १२९६ )। अश्रेणयः श्रेणयः कृताः श्रेणीकृताः (७३६)क्तेन नविशिष्टेनान २१६०॥ नविशिष्टेन कान्तेनानञ् कान्त समस्यते । कृतं च तदकृतं च कृताकृतम् । 'शाकपार्थिवादीनां सिद्धये उत्तरपदलो. थमित्यत आह-बहुलग्रहणादिति । - पूर्वापर । पूर्वादयः समानाधिकरणेन समस्यन्ते इत्यर्थः। विशेषणसमासेनैव सिद्ध किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । अपरमीमांसक इत्युदाहरणमुचितम् । अपर• स्यार्थे इति । 'पश्चात्' इति सूत्रभाष्ये इदं वातिकं स्थितम् । प्रथमवैयाकरणः, चरमवै. याकरणः, 'मध्यान्मः' मध्यमवैयाकरणः, वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि यतः, अनेन प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात् । अतः 'एकवीरः' इति कथमित्यन्वयः ननु 'पूर्व. कालैक' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति 'एकवीरः" इति निर्वाधमित्यत
आह-पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति-बाहुलकादिति । बहुलग्रहणानुवृत्ते. रस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः । श्रेण्यादयः । श्रेण्यादयः कृता. दिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्च्यर्थवचनं च्विप्रत्ययाऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेणय इति । शिल्पेन पण्येन वा जीविनां समूहाः श्रेणयः । पूर्व शिल्पेन पण्येन वा जीवितुमसमर्थाः इदानीं तेन जीवितुं समर्थाः कृता इत्यथें समासे सति श्रेणिकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो हस्वान्तः, भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः व्यर्थाभावात् । च्चिप्रत्यया. न्तस्य तु परत्वात् 'कुगति इति नित्यसमासः। ततः 'च्वोच' इति श्रेणिशब्दस्य दीर्घः।
क्तेन नन्विशिष्टेनानञ् । नविशिष्टेन तान्तेन समानाधिकरणेन सह नहितं ता. न्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम् एकदेशा
For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
सिद्धान्तकौमुदी
[तत्पुरुषसमास
पस्योपसङ्ख्यानम्' (वा १३१०)। शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मगः । (७३०) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः २।१।६१॥ सद्वैद्यः । वक्ष्यमाणेन महतः आकारः। महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः । (७४१) वृन्दारकनागकुखरैः पूज्यमानम् २।११६२॥ गो. न्दारकः । व्याघ्रादेः आकृतिगणत्वादेव सिद्ध सामान्यप्रयोगार्थ वचनम् । (७४२) न्तरस्याकरणात्तदेवाकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नार्य समासः, विशिष्टशब्दो ह्यत्राधिकवाची। यथा देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नजैव विशिष्टं नग्मात्राधिकेन क्तान्तेनेति लभ्यते । एवञ्च समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति । 'वों वर्णन' इति सूत्रभाष्ये इदं वातिकं पठितम् । शाकप्रियः पार्थिवः शाकपार्थिव इति । शाकः प्रियः यस्य स शाकप्रियः । 'वा प्रियस्य' इति प्रियशब्दस्य परनिपातः । शाक. प्रियश्चासौ पार्थिवश्व इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखण्डे बहुवीही उत्तरपदस्य प्रियशब्दस्य लोपः। देवब्राह्मण इति । देवाः प्रियाः यस्य स देव. प्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः।
सन्महत्परम् । समानाधिकरणैः समस्यन्ते स तत्पुरुषः इति शेषः । सद्वैद्य इति । सन् वैद्य इति विग्रहः। चिकित्साशास्त्रकूलषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा ग. म्यते । पूर्वनिपातनियमार्थे सूत्रम् । वक्ष्यमाणेनेति । महांश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य 'आन्महतः' इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीधे महावैयाकरण इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आहपङ्कादुधृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम्। वृन्दारकनागकुञ्जरैः। समानाधिकरणैः समस्यत इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवता. वाची। 'अमरा निर्जरा देवाः' इत्युपक्रम्य, 'वृन्दारका दैवतानि' इत्यमरः । गौः वृन्दारक इवेति विग्रहः । गौः नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नाग. शब्दः कुञ्जरशब्दश्च गजवाची॥ अत्र गोर्वृन्दारकादितुल्यत्वात् श्रेष्ठयं गम्यत इति पूज्यमानता। ननु व्याघ्रादेराकृतिगणत्वात 'उपमितं व्याघ्रादिभिः' इत्येव सिद्धे किमर्थमिदमित्यत आह-व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादाविति भावः।
For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२६
कतरकतमौ जातिपरिप्रश्ने २२१६३॥ कतरकठः । कतमकलापः। 'गोत्रं च चरणः सह' इति जातित्वम् । (७४३) कि क्षेपे २१॥६४॥ कुस्सितो राजा किंराजा, यो न रक्षति । (७४४) पोटायुवतिस्तोककतिपय गृष्टिधेनुवशा. वेहवाकयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः २२११६५(sey) तत्पु. रुषः समानाधिकरणः कर्मधारयः १२।४२॥ (७४६) पुंषत्कर्मधारय
कतरकतमौ । जातिपरिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयोः कः कठ इत्यर्थः । 'किंयत्तदोनिर्धारणे द्वयोरेकस्य डतरच' कोन प्रोक्तमधीते कठा। वैशम्पायनान्तेवासित्वात् प्रोक्त णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः। 'कलापिनोऽण् 'सब्रह्म. चारि' इति टिलोपः 'वा बहूनां जातिपरिप्रश्ने डतमच्'। ननु घटत्वादिवत् कठशाखाध्येतृत्वादिकं न जातिः। 'आकृतिग्रहणा जातिः' इति लक्षणस्य लिङ्गानां च न सर्वभाव , 'सकदाख्यातनिर्माह्या' इति लक्षणस्य च तत्राप्रवृत्तेरित्यत आह-गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात् कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवञ्च अनयोः कतरो देवदत्त इत्यत्र न भवति समासः । एषां कतमो देवदत्तः इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु इतरडतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवञ्च कतम एषां देवदत्त इत्यप्यस्ति । तत्र समासाभावाय जातिपरिप्रश्नग्रहणम् इति शब्देन्द. शेखरे स्थितम् । किं क्षेपे । क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सितपदमिति ज्ञेयम् , वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवात् । किंराजेति । 'राजाहस्सखिभ्यः' इति टच तु न, 'किमः क्षेपे' इति निषेधात् ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह-यो न रक्षतीति। स किंराजेत्यन्वयः ।
पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचक समस्यते स तत्पुरुष इत्यर्थः । अथ कर्मधारयकार्य वक्ष्यन् कर्मधारयसञ्ज्ञामाह-तत्पुरुषः समान। समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधि. करणः, मत्वर्थीयः अर्शआधच्। समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसज्ञको भवतीत्यर्थः। तत्पुरुषाधिकारे इयं सज्ञा न कृता, तथा सत्येकसज्ञाधि कारात् कर्मधारयसज्ञया तत्पुरुषसज्ञा बाध्येतेत्याहुः। पुंवत्कर्मधारय । स्त्रियाः युवदाषितपुंस्कादनडिति वर्तते । एकापि सप्तमी विषयभेदाद्भियते । कर्मधारयांशे अधि.
बा० ३४
For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
जातीयदेशीयेषु ६।३।४२॥ कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री, दत्तभार्या, पञ्चमभार्या, स्रोधनभार्या, सुकेशभार्या, ब्राह्मणभार्या । एवं पाचकजातीया पाचकदेशीया इत्यादि । इभपोटा । 'पोटा करणसप्तमी। जातीयदेशीयविषये परसप्तमी। तदाह-कर्मधारये इति । तथाभूत. मित्यनन्तरं स्त्रीवाचकमिति शेषः। भाषितपुंस्कादनडित्येतत् 'स्त्रियाः पुंवत् इति सूत्रे स्फुटीकरिष्यते। ननु कर्मधारये 'स्त्रियाः पुंवत्' इत्यनेन सिद्धं पुंवत्त्वम् , जाती. यदेशीययोस्तु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह-पूरणीप्रियादि. वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः । 'सन्महत्' इत्यादिना समासः । नवानां पूरणी नवमी। 'तस्य पूरणे डट् 'नान्तादसङ्ख्यादेमंद । टित्त्वात् ङीप् । अत्र नवमीशब्दस्य पूरण. प्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पंवत्त्वे 'आन्महतः' इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी चतुदशी । डट् 'नस्तद्धिते' इति टिलोपः। टित्त्वान्डीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः। अत्रापि प्रियादिपर्युदा. सादप्राप्तमनेन विधीयत इति भावः ।
'पुंवत्कर्मधारयः इत्यस्य प्रयोजनान्तरमाह-तथा कोपधादेरिति । 'न कोपधायाः 'सज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाङ्गाच्चेतः' 'जातेश्व' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पन्चमभार्येति । दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः। अत्र 'सज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । स्रोप्नभार्येति । स्त्रौनी चासो भार्या चेति कर्मधारयः। अत्र 'वृद्धिनिमि. तस्य च' इति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेशी चासौ भार्या चेति कर्मधा. रयः। अत्र 'स्वाङ्गाच्च' इति निषेधः प्राप्तः। ब्राह्मणभार्येति। ब्राह्मणी चासौ भार्या चेति कर्मधारयः। अत्र 'जातेश्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रति. प्रसवमुदाहरति-एवं पाचक.जातीया पाचकदेशीयेति। 'प्रकारवचने' इति जातीयर, 'ईषदसमाप्तौ' इति देशीयर । उभयत्रापि तसिलादिषु' इति पुंवत्त्वस्य 'न कोपधा. या इति निषेधः प्राप्तः । इत्यादीति। दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्च
For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५३१
स्त्रीपुंसलक्षणा'। इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम्। गृष्टिः सकृत्प्रसू. ता' गोगृष्टिः । 'धेनुर्नवप्रसूता', गोधेनुः । 'वशा बन्ध्या', गोवशा। वेहगर्भघातिनी', गोवेहत् । 'बष्कयण्यतरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः। कठाध्यापकः, कठधूतः । (७४७) प्रशंसावचनैश्च २।११६६॥ एतैः सह जातिः प्राग्वत् । गोमतलिका । गोमचचिका । गोप्रकाण्डम् । गवोद्धः। गोतलजः ।
मदेशीया, नौनजातीया, नौनदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजा. तीया, ब्राह्मणदेशीया।
तदेवं 'पुंवत्कर्मधारय' इति सूत्रं निरूप्य 'पोटायुवति' इति सूत्रस्य 'क्रमेणोदा. हरणान्याह- इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः अल्पः, स चासौ अग्निश्चेति विग्रहः । उदश्वित्कतिपयमिति । 'तक्र ादश्वित्' इत्यमरः । कतिपयं च तद्वदश्विच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोधेनुरिति । धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्येति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः । वेद्गर्भपातिनीति। कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः। कठप्रवक्तेति । प्रवक्ता अध्यापकः, स चासौ कठाचेति विग्रहः । कठाध्यापक इति। अध्यापकश्चासौ कटरचेति विग्रहः। कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः । 'धूर्तोऽक्षदेवी' इत्यमरः। विट इत्यन्ये । नच 'कुत्सितानि कुत्सनैः' इत्यनेन सिद्धिः शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितम्। - प्रशंसावचनैश्च । एतैरिति । रूढया प्रशंसावाचकैरित्यर्थः। जातिरिति । 'पोटायुवति' इत्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थ सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचचिंकेति। मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति । प्रकाण्ड चासौ गौश्चेति विग्रहः । गवोद्ध इति। उद्धश्चासौ गौश्चेति विग्रहः । अवङ् स्फोटायनस्य' 'आद्गुणः । गोतल्लज इति । तल्लजश्चासौ गौश्चेति विग्रहः ।
For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
सिद्धान्तकौमुदी
[तत्पुरुषसमास
-
प्रशस्ता गोरित्यर्थः । मतालिकादयो नियतलिझाः, न तु विशेष्यनिघ्नाः । जातिः किम् । कुमारी मतालिका। (७४) युषा खलतिपलितवलिनजरतीभिः शश६७ पूर्वनिपातनियमार्थ सूत्रम् । लिमविशिष्टपरिभाषया युवतिशन्दोऽपि समस्यते । युषा खलतियुवखलतिः । युवतिः खलती युवखलती। युवजरती। युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्यामानाधिकरण्यम् । (७४४) कृत्यतु. ल्याख्या भजात्या २१६८॥ भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः ।
सर्वत्र परवल्लिङ्गता। मतल्लिकादिशब्दानामप्रसिद्धत्वाद्वयाचष्टे-प्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गानिर्देशः। गोशब्दस्य पुल्लिङ्गत्वे तु प्रशस्त इति पाठयम् । ननु गोशब्दस्य पुंलिङ्गत्वे मतल्लिकामचर्चिकाप्रका• ण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुंलिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह-मतल्लिकादय इति । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लि. केति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तु 'पुंवत्कर्मधारय' इति पुवत्त्वं स्यादिति भावः ।
युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स. तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्धे किमर्थमिदमित्यत आह-पूर्वेति । युवनशब्दस्य खल. त्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्रा तन्निय. मार्थमिदं सूत्रमित्यर्थः। खलतिः केशहीनशिराः। 'पलितं जरसा शौक्लयम् वलिनो वलिभःसमौ' इत्यमरः । युवा खलतिः युवखलतिरिति । अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वानलोपः। ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आहलिङ्गविशिष्टेति । युवतिः खलतिः युवखलतिरिति । 'पुंवत्कर्मधारयः इति पुंवत्त्वम् । युवजर. तीति । जरती वृद्धा । युवतिश्चासौ जरति चेति विग्रहः । 'पुंवत्कर्मधारयः इति पुंव. त्वम् । ननु युवतिः कथं जरती स्यादित्यत आह-युवत्यामेवेति । कृत्यतुल्याख्या। कृत्यप्रत्ययान्ताः तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः । 'ऋहलोयेत्। इति ण्यत् । अहें कृत्यप्रत्ययः । भोज्योष्णशब्दयोः क्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यश्वेत इति। तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह-सदृशश्वेत इति । सहशशब्दस्य तुल्यपर्याय.
For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
५३३
अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न । (७५०) वर्णो वर्णेन २|१|६६ ॥ समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ( ७५१) कडाराः कर्मधारये २|२|३८|| कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः । ( ७५२) कुमारः श्रमणादिभिः २|१|७० ॥ कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रत्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् । ( ७५३) चतुष्पादो गर्भिण्या २२११७१ ॥ चतुष्पाजातिवाचिनो गर्मिणीशब्देन सह प्राग्वत् । गोगर्भिणी । ' चतुष्पाज्जातिरिति वक्तव्यम्'
स्वादिति भावः । भोज्य श्रोदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुर्वार इत्यत आहप्रतिषेधेति । भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया 'अजात्या' इति पर्युदासवैयर्थ्यादिति भावः ।
वर्णो । शेषपूरणेन सूत्रं व्याचष्टे - समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव । यत्तु 'वर्णो वर्णेष्वनेते इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु' इति स्वरो नेति, तञ्चिन्त्यम्, कर्मधारयस्वर प्रकरणे 'वर्णो वर्णेष्वनेते' इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये । 'उपसजैनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । कढाराः इति बहुवचननिर्देशात्तदादिग्रहणम् । तदाह - कडारादय इति । ' उपसर्जनं पूर्वम्" इति नित्ये प्राप्ते विकल्पोऽयम् । कडार. जैमिनिरिति । कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमारः श्रमणादिभिः । कुमारशब्दश्रमणादिभिः समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । कुमारी श्रमणा कुमार• श्रमणेति । 'पुंवत्कर्मधारय' इति पुंवस्वम् । श्रमणा परित्यक्तसर्वसङ्गा । ननु सूत्रे कुमारशब्दस्य पुंलिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत आह - इहेति । ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथं तेषु प्रवृत्तिः । नच लिङ्गविशिष्टपरिभाषयेति वाच्यम्, तत्सद्भावे प्रमाणाभावादित्यत आह-लिङ्गेति । एतदेवेति । एतदपीत्यर्थः, 'युवा खलति' इति सूत्रे जरतीग्रहणस्यापि तज्ज्ञापकत्वात् । न हि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या | 'आतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्याह- चतुष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः ।
For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
सिद्धान्तकौमुदी [ तत्पुरुषसमासmmmmmmmmmmmmmmmmaaaaaaaaaaaaaaaaaaa
a aaam ( वा १३११)। नेह स्वस्तिमती गर्भिणी । (७५४) मयूरख्यसकादयश्च २११७२। एते निपात्यन्ते । मयूरो व्यंसकः मयूरव्यं सकः । व्यंसको धूतः। उदक्चावाक्चोच्चावचनम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किञ्चन यस्य सोऽकिञ्चनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् । 'आख्यातमाख्यातेन क्रियासातत्ये' ( ग २०)। अश्नीत पिब. तेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृजता। खादतमोदता। 'एहीडादयोऽन्यपदार्थे' ( ग १८) एहीड इति यस्मिन्कमणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायो सोद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः । 'जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति' ।
विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी । ____ मयूरव्यंसकादयश्च । एते निपात्यन्त इति । कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति। अत्र कोशो मृग्यः । गुणवचनत्वात् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वधनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेत्यादेशः। अवाक्शब्दस्य अवचादेशश्च । 'उच्चावचं नैकभेदम्' इत्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनैति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहवीयपवादस्त्रिपदस्तत्पुरुषः । नमो नकारस्य लोपश्च निपात्यते । 'न लोपो नमः' इति तु नात्र प्रव. तते, किशब्दस्य उत्तरपदत्वाभावात् समासचरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात्। नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतोभय इति । बहु. बीयपवादस्तत्पुरुषः । अन्यो राजा राजान्तरमिति । अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेन अस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः। चिदेव चिन्मात्रमिति । 'मानं कात्स्न्येऽवधारणे' इत्यमरः। नित्यसमासत्व. सूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहः। आख्यातमिति । गण. सूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तेन समस्यते, स तत्पुरुष इत्यर्थः । अश्नीतपिबतेति । इहासुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् स्त्रीत्वा. टाप । एवं पचतभृज्जतेत्यादावपि । एहीडादय इति । इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः। ईडे इति लडुत्तमपुरुपैकवचनम् । डकारादेकारस्य अकारादेशः। एहियवमिति । यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम्-देहीति । इह पाठ इति । एहीडादिष्वित्यर्थः । 'जहि कर्मणा
For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
પુરૂષ
(ग २९ )। जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेकताभिधीयत इत्यर्थः । जहिजोडः । जहिस्तम्बः । (७५५) ईषदकृता २२७॥ ईषत्पिङ्गलः । 'ईषद्गुणवचनेनेति वाच्यम्' ( वा १३१६ )। ईषदक्तम् । (७५६) ना शश६॥ नसुपा सह समस्यते । (७५७) नलोपा नमः ६।३।७३॥ नजी नस्य लोपः स्यादुत्तरपदे । न ब्राह्मगोऽब्राह्मणः । (७५८) तस्मान्नुडचि
बहुलम्' इत्यपि गणसूत्रम् । कर्ता अभिधीयते इति । उक्तेः कतेत्यर्थः । जहिजोड इति । जोड इति कस्यचित् सज्ञा। जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य आह स जहि. जोडः । जहिस्तम्ब इति। जहि स्तम्बम् , जहि स्तम्बमिति य आहेति विग्रहः । इति समानाधिकरणाधिकारः।
ईषदकृता । ईषच्छब्दः अकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गल इति । पिङ्गलशब्दः अव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति । अकृतेत्यपहायेति शेषः।
ना। इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति । न लोपो नमः । नेति लुप्तषष्ठीकं पदम् । तदाह-नमो नस्येति । उत्तरपदै इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । नमोऽशिति सिद्धे लोपवचनम् अकब्राह्मण इति साक. कार्थमित्याहुः। अब्राह्मण इति। अत्रारोपितत्वं नअर्थः। आरोपितत्वं च ब्राह्मणत्वद्वारा ब्राहाणे अन्वेति । आरोपितब्राह्मणत्ववानिति बोधः । अर्थात् ब्राह्मणभिन्न इति पर्यव. स्यति । केचित्त न भिन्नवाची, ब्राह्मणानिन्न इत्यर्थ इत्याहुः। तदयुक्तम्' , ब्राह्म णाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाच 'उत्तरपदार्थप्रधानस्तत्पुरुषः' इति भाष्योद्घोषो विरुध्येत । किञ्च, अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्य शीभा. वस्मायादिकं न स्यात् , तच्छब्दार्थस्य नमर्थप्रति विशेषणत्वे अप्रधानत्वात् 'सज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तेः। तथा अस इत्यादौ 'तदोः सः सावनन्त्ययोः। इति सर्वाद्यन्तर्गतत्यदादिकार्य सत्वं च न स्यात् । अनेकमित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वासम्भवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः । तथा सति 'अनेकमन्यपदार्थ इति नोपपद्यत 'एतत्तदोः सुलोपः' इत्यत्र अनसमासग्रहणं चात्र लिङ्गम् । तद्धि असः शिवः, अनेषः शिवः इत्यादौ सुलोपाभावार्थम् । तद्भिन्नः एत. द्भिन्नः इत्यथें तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङयादिलोपस्य दुरित्वात्तद्वैयर्थ्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपित. त्वमेव नअर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायां च ज्ञेयः। प्राचीनास्तु
For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
६|३|७४ ॥ लुप्तनकाराचम उत्तरपदस्या जादेर्नुडागमः स्यात् । अनश्वः । अर्थाभव्ययीभावेन सहायं विकरूप्यते । 'रक्षोहाग मलध्वसन्देहाः प्रयोजनम्' इति 'अद्रुतायामसंहितम्' ( वा ११६७ ) इति च भाष्यवार्तिकप्रयोगात् । तेन धनुपलब्धिः, अविवादः ' अविनम् इत्यादि सिद्धम् । 'नमो नलोपस्तिति क्षेपे' ( वा ३९८४ ) । अपचसि त्वं जाल्म । नैकधा इत्यादौ तु नशब्देन सह 'सुपा' ( सू६४९ )
'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधकच नार्थाः षट् प्रकीर्तिताः ॥'
इति पठित्वा अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोभ्यः, अधर्मः इत्युदाजहुः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः |
तस्मान्नुचि । तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नम् परामृश्यते । उत्तरपद इत्यनुवृत्तं अचीत्यनेन विशेष्यते । तदादिविधिः । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयानू परत्वात्' इति परिभाषया सप्तमी षष्ठीं प्रकल्पयति । तदाह--- लुप्तनकार दिति ।
1
नश् इति । समासे सति नजो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । दिवादाद्यवयव इति भावः । नुक् तु न कृतः । ङमुट्प्रसङ्गात् । ननु 'उसरे कर्मण्यविघ्नमस्तु' इत्यादौ विज्ञानामभाव इत्यर्थे नतत्पुरुषे सति परवलिङ्गत्वे अविन इति स्यात् । न च अर्थाभावे अव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निर्मक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह--अर्थाभावे इति । रक्षेति । पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असन्देहश्च इति द्वन्द्वः । 'परवल्लिङ्गम्' इति पुंस्त्वम् । अत्र सन्देहाभाव इत्यर्थे असन्देहशब्दस्य असन्देहा इति प्रयोगात् तत्पुरुषो विज्ञायते । अव्ययीभावे रक्षोहागमलध्वसन्देहमिति स्यात् । श्रद्रुतायामसंहितमिति । परः सन्निकर्षः संहि ता' इति सूत्रे पठितमिदं वार्तिकम् अद्भुतायां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगात् अव्ययीभावेऽपि अर्थाभावो ना गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्व ना गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलबिधरित्यत्र अविवाद तत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति । 'न 'लोपो नञः' इति सूत्रस्थवार्तिकमिदम् । नजो नकारस्य लोपः स्यात् तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । श्रपचसि त्वं जाल्मेति । कुत्सितं पचसोत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाभावात् । वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्ति
I
For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता।
इति समासः । (७५8) नभ्रानपानवेदानासत्यानमुविनकुलमखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ६।३।७५॥ पाद् इति शत्रन्तः । वेदाः इत्यसुजन्तः। न सत्या असत्याः । न असत्या नासत्याः। न मुञ्चतीति नमुचिः। नकुलमस्य नकुलम्। न खमस्य नखम् । न स्त्री पुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न भरतीति नक्षत्रम् । क्षोयतेः क्षरतेर्वा क्षत्रमिति निपात्यते । न कामतीति नकः । 'कमेडः । न अकमस्मिनिति नाकः । (७६०) नगोऽप्राणियन्यतरस्याम् । ६३७७॥ नग इत्यत्र नष्प्रकृत्या वा। नगाः-अगाः पर्वताः । मप्राणिविति किम् भगोवृषलः शीतेन । 'नित्यं क्रीडा'-(सू ७११) इत्यतः नित्यम् इत्यनुवर्तमाने(७६१) कुगतिप्रादयः ॥२॥१॥ एते समर्थन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' (सू २३) इत्यनुवर्तमाने । (७६२) ऊर्यादिवि. डाचश्व ११०६१॥ एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । 'कारिकाशब्दस्योपसङ्ख्यानम्' (वा ११३२ )। कारिका क्रिया। कारिकाकृत्य । (७६३) अनुकरणं चानितिपरम् १६४६२॥ खाटकृत्य ।
कादव्ययेषु म इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नभ्समासे 'नलोपो नमः इति नकारस्य लोपे 'तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादि. त्यत आह-नैकधेत्यादौ स्विति । एतदर्थमेव 'नम्' इति सूत्रे 'न लोपो नमः' इति सूत्रे च मकारानुबन्धग्रहणमिति भावः । नभ्रानपात् । सुगमम् ।।
अनुवर्तमान इति । समासविधयो वक्ष्यन्त इति शेषः। कुगतिप्रादयः। समस्यन्त इति । स तत्पुरुष इत्यपि ज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम् , न तु पृथ्वीपर्यायस्य, गत्यादिसाहच. र्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् । ऊर्यादिविडाचश्च । विडाचौ प्रत्ययौ। ऊरीकृत्येति । उरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गातसमा. सः। समासेऽनपूर्व क्त्वो ल्यप।।शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । 'कृभ्व. स्तियोगे' इत्यभूततदावे चिः । गतिसमासे सति क्त्वो ल्यप, वेरपृक्तस्येति वलो. पः । 'अस्य च्वौ' इति ईत्वम् । पटपटाकृत्येति । पटपटा इति शब्दं कृत्वेत्यर्थः । 'अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्' इति पटच्छब्दाइडाचि द्वित्वम् , टिलोपः । 'नित्यमाडिते डाचि' इति तकारपकारयोः पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसंख्यानमिति । गतिसंज्ञाया इति शेषः । कारिकाशब्द व्या. चष्टे-कारिका क्रियेति । 'स्त्रियां क्तिन' इत्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृ.
For Private and Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३
सिद्धान्तकौमुदी
[तत्पुरुषसमास
अनितिपरम् किम् । खाडिति कृत्वा निरष्ठीवत् । (७६४) आदरानादयोः सदसती १४६३॥ सत्कृत्य । असत्कृत्य । (७६५) भूषणेऽलम् १६४६४॥ अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । 'अनुकरणम्(सू ७६३ ) इत्यादित्रिसूत्री स्वभावात्कृञ्चिषया । (७६६) मन्तरपरिग्रहे । १४॥६५॥ अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तहत्वा गतः। हतं परिगृह्य गत इत्यर्थः। (७६७) करणेमनसी श्रद्धाप्रतीघाते १६६॥ कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातः, अभि
त्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप् , सुब्लुक् , कारिकाशब्दोऽत्र न कर्तीवाची, न श्लोकवाची च, व्याख्यानात्। अनुकरणं चानिति परम् । अनुकरणं गतिसंज्ञं स्यात् इतिपरं वर्जयित्वेत्यर्थः । खाटकृत्येति । खाडिति शब्दं कृत्वे. त्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगामावादेव गतिसंज्ञा न भविष्यति, तत्किमनितिपरग्रहणेनेति वाच्यम् , यथाकथञ्चित्क्रियायोगसत्त्वात्। 'ते प्राग्धातो: इति सूत्रं तु ते गत्युपसर्गाः धातोः प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । ___ आदरानादरयोः सदसती। सदिति असदिति च अव्यये आदरानादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः । सत्कृत्येति । आदरं कृत्वेत्यर्थः । असत्कृत्येति । अना. दरं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप। भूषणेऽजम् । भूषणे विद्यमानं अलमित्य. व्ययं गतिसंज्ञकं स्यादित्यर्थः । अलङ्कृत्येति । कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञविषयेति । कृश्योग एव भवतीत्यर्थः । वस्तुतस्तु सोचे प्रमाणाभावात् धात्वन्त. रयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता। अत एव अलं भुक्त्वा ओदनं गत इति वृत्तिकृता प्रत्युदाहृतम् । अन्तरपरिग्रहे। अपरिग्रहे वर्तमान अन्तरित्यव्ययं गतिसंज्ञकं स्यादि. त्यर्थः । इतं परिगृह्येति । हत्वा गमनं हतम् अपरिगृह्य परिगृह्य वा भवति । तत्र आ. यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीपाते। कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञको स्तः । अत्यन्ताभिलाषः श्रद्धा, तस्याः निवृत्तिः प्रतीघातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति । पयः पिवतीत्यनुषज्यते । ननु समासे कृते इति सप्तम्याः कथं न लुगित्यत आह -कणेशब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहा. वगतिः, श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आहअभिलाषातिशये इति । कणेशब्द इत्यनुषज्यते । 'परावरयोगे च' इति सूत्रेण क्त्वा । अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः। श्रद्धाप्रतीपाते किम्-कणे हत्वा गतः ।
For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५३६
लाषातिशये वर्तते । मनश्शब्दोऽप्यत्रैव । (७६८) पुरोऽव्ययम् १।४।६७॥ पुरस्कृत्य । (७६९) मस्तं च १४६॥ अस्तमिति मान्तमव्ययं गतिसंशं स्यात् । अस्तगत्य । (७७०) मच्छ गत्यर्थवदेषु १।४।६६॥ अव्ययम् इत्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययम् किम् । जल. मच्छं गच्छति । (७७१) अदोऽनुपदेशे १४७८॥ अद: कृत्य, अद-कृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा, अदः कुरु। (७७२) तिरोऽन्तधौं । २।४१७१॥ तिरोभूय । (७७३) विभाषा कृषि १४७२॥ तिरस्कृत्य, तिर कृत्य, तिरः कृत्वा । (७७४) उपाजेऽन्वाजे १४७३॥ एतौ कृत्रि वा गतिसंज्ञौ स्तः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजे कृत्य, अन्वाजे कृत्वा । दुबैलस्य सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः, विषपानादौ मनःप्रवृत्ति प्रतिबध्य गत इत्यर्थः ।
पुरोऽव्ययन् । पुर इत्यव्ययं गतिसंज्ञकं स्यात्। पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम् , पुरी, पुरः कृत्वा गतः। अस्तं च। पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह-मान्तमव्ययमिति । अस्तहत्येति। तिरोधानं प्राप्येत्यर्थः । अ. व्ययं किं, काण्डम् अस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छगत्यर्थवदेषु । गत्यर्थधा. तुषु वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् । अच्छगत्येति । गति. मासे क्त्वो ल्यप् । अच्छोयेति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यए। अच्छे. त्यव्ययमाभिमुख्ये। तद्यथा-बर्हिरच्छेतीति । तदाह-अभिमुखमिति । जलमच्छं गच्छतीति। अत्राच्छब्दस्य नाव्ययत्वम् , न गतिसज्ञा, नापि 'प्राग्रीश्वरान्निपाताः' इत्यधिकृतनिपातसज्ञा । निपातत्वे सति हि अव्ययत्वात् विभक्तिलुक स्यादिति भावः । अदोऽनुपदेशे । अदाशब्दः । अनुपदेशे गतिसज्ञः स्यात् । अदकृत्येति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक च अद कृतमिति । 'गतिरनन्तरम् इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । अदः कुर्वित्यादावित्यर्थः । तिरोऽन्तधौँ । अन्तधिः व्यवधानम् , तत्र तिरस् इत्यव्ययं गति. सजकं स्यादित्यर्थः। तिरोभूयेति । गतिसमासे क्त्वो ल्यप् । व्यवहितो भूत्वेत्यर्थः। विभाषा कृत्रि। कृजि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसझं वा स्यादित्यर्थः । तिरस्कृत्य तिर कृत्येति । गतिसज्ञापक्षे गतिसमासे क्त्वो ल्यप् । 'तिरसोऽन्यतर. स्याम्' इति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाभावपक्षे सत्वमपि न भवति, तद्वि. धौ गतिग्रहणानुवृत्तरित्याहुः। केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात् सत्व. विधौ गतिग्रहणं नानुवर्तयन्ति । उपाजेऽवाजे । उपाजेकृत्य । गतिसंज्ञा पक्षागतिसमासे
For Private and Personal Use Only
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
बलमाधायेत्यर्थः । (७७५) साक्षात्प्रभृतीनि च ११७४॥ कृषि वा गति. संज्ञानि स्युः । 'व्यर्थ इति वाच्यम्' ( वा ११४२ ) । साक्षात्कृत्य, साक्षात् कृत्वा लवर्णकृत्य, लवणं कृत्वा। मान्तत्वं निपातनात् । (७७६) अनत्याधान उर. सिमनसी १४७५॥ उरसिकृत्य, उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मन. सिकृत्य, मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं, तत्र न । उरसि कृत्वा पाणिं शेते। (७७७) मध्ये पदे निवचने च ११४७६॥ एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा । निवचनेकृत्य, निवचने कृत्वा । वाचं नियम्येत्यर्थः । (७७८) नित्यं हस्ते पाणावु. पयमने श४७७॥ कृषि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये। हस्तेकृत्य। पाणौकृत्य । (७७६) प्राध्वं बन्धने १४॥७॥ प्राध्वम् इत्यव्ययम् । क्त्वो ल्यप् । अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे इत्यव्यये दुर्बलस्य बला. धाने वतेंते । तदाह-दुर्बलस्येति ।।
साक्षात्प्रमृतीनि च । शेषपूरणेन सूत्रं व्याचष्टे-कृषि वेति । साक्षादित्यव्यम् । च्व्यर्थ इति । अभूततदावे गम्ये सतीति वक्तव्यमित्यर्थः । साक्षात्कृत्येति । अप्रत्यक्षं प्रत्यक्ष कृत्वेत्यर्थः । गतित्वपक्षे क्त्वो ल्यप् । तत्र सुब्लुकमाशङ्कयाह-मान्तत्वमिति । लवणम् , उष्णम् , शीतम् , उदकम् , आद्यम् इति पञ्चानां साक्षात्प्रभृतिगणे मा. न्तत्वं निपात्यत इत्यर्थः । अनत्याधाने । उरलि मनसि इति विभक्तिप्रतिरूपके मव्यये गतिसंज्ञे वा स्तः अनत्याधाने । उरसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप । इह अत्या. धानं न गम्यत इत्याह-प्रभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्य. प। इहापि नात्याधानं गम्यत इत्याह-निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्व. न तस्य प्रयोजनमाह-अत्याधानमुपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणि निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । म. ध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते। मध्ये कृत्येति । गतिसमासे क्त्वो ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप । पदं कृत्वेत्यर्थः। निवचनेकृत्येति । वचनाभावं कृत्वेत्यर्थः । तदाह-वाचं नियम्येत्यर्थ इति । वचनस्य अभा. वः निवचनम् । अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते । शेषपूरणेन सूत्रं व्या. चष्टे-कृनीति । हस्ते इति पाणविति च शब्दो कृषि नित्यं गतिसंज्ञौ भवतः उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणि गृहीत्वेत्यर्थः। एदन्तत्वमौ. दन्तत्वं चानयोनिपात्यते। उपयमने कि, हस्ते कृत्वा सवर्ण गतः। अन्यदीयमिति बुद्धया दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने। प्राध्वमिति न द्वितीयान्तमित्याह
For Private and Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १०]
बालमनोरमासहिता।
પક
प्राचकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना स्वानुकूल्यकरणे, प्राध्वं कृत्वा । (७८०) जीविकोपनिषदावौपम्ये ७g॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविका कृवा। प्रादिप्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । 'प्रादयो गताद्यर्थे प्रथमया' (वा १३३५) प्रगत आचार्यः प्राचार्यः । 'मत्यादयः क्रान्ताद्यर्थे द्वितीयया' ( वा १३३६ ) । अति क्रान्तो मालामतिमालः। 'भवादयः प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसज्ञकं स्यादित्यर्थः । प्राध्वं. कृत्येति । गतिसमाले क्त्वो ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते । तदाह-बन्धनेनेति । बन्धनप्रहणस्य प्रयोजनमाह-प्रार्थनादिनेति । जीविकोपनिष । उपमैव औपम्य, तस्मिन्विषये जीविकाशब्दः उपनिषच्छब्दश्च कृमा योगे गतिसज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव अव. श्यं कृत्वेत्यर्थः । जीविकाकृत्येति गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषत् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गति. समासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिस. मासाः प्रपञ्चिताः।
ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह-प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थाने 'कास्वतिदुर्गतयः समस्यन्त इति वक्तव्यम्' इत्युक्त्वा 'कुब्राह्मणः, आकडारः सुब्राह्मणः, अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य' इत्युदाहृतम् । स्वती पूजायाम् , दुनिन्दायाम् , आठीषदथें, कुः पापाथें इति सौनागव्याकरणवचनम् इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति । 'प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्यम्' इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि प३ वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्र गत आचार्य इति । प्रेत्यस्य विवरणं गत इति, गत आचार्य इत्येव अस्वपदविग्रहः, नित्यसमासत्वात् । अभिगतो मुखं अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि। अत्यादय इति । क्रान्तायथें अत्यादयः समस्यन्त इत्यर्थः। अतिकान्तो मालामिति । अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः। तत्र कमुधातोरतिक्रमणमर्थः। प्रतिमाल इति। 'एकविभक्ति च' इति मालाशब्दस्य उपसर्जनत्वात् गोस्त्रियोः' इति हस्वः। अवादय हति । क्रुष्टाद्य :अवादयः समस्यन्त
For Private and Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૂર
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
क्रुष्टाद्यर्थे तृतीयया' ( वा १३३७ ) अव क्रुष्टः कोकिलया अवकोकिलः । ' पयोदयो ग्लानाद्यर्थे चतुर्थ्या' ( वा १३३८ ) । परि ग्लानोऽध्ययनाय पर्यध्ययनः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या ' ( वा १३३९ ) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'कर्मप्रवचनीयान प्रतिषेधः' ( वा १३३९ ) वृक्षं प्रति । ( ७८१) तत्रोपपदं सप्तमीस्थम् ३|१|8२ ॥ सप्तन्यन्ते पदे 'कर्मणि' ( सू २९१३ ) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् । तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् । ( ७८२) उपपदमतिङ २२२२१६ ॥ उपपदं सुबन्तं इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थ, तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कौशाम्त्रिरिति । अतिमालवत् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति । 'लक्षणेत्थम्' इति कर्मप्रवचनीयत्वान्न प्रादिस - मासः । इदं तु वार्तिकं भाष्ये प्रत्याख्यातम् ।
अथोपपदसमासं वक्ष्यन्नुपपदसञ्ज्ञामाह - तत्रोपपदं सप्तमीस्थम् । अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसम्बन्धेन तिष्ठतीति सप्तमोस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु' 'कर्मण्यण' इत्यादिसूत्रेषु वत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवञ्च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भीति पर्यवसन्नम् । कुम्भादेश्व उपपदसंज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्म - णीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसञ्ज्ञं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह - सप्तम्यन्ते पद इत्यादिना । तत्र 'धातोः कर्मणः समानकर्तृकात्' इति, 'धातोरेकाचों हलादे:' इति 'धातोः" इति च क्रमेण त्रयो धात्वधि - काराः । तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् 'धातोरेकाचः ' इत्यधिकारे 'चिल लुङि इत्यत्र सप्तम्यन्तं न गृह्यते । अन्यथा कर्मणीत्यादाविव: लुङन्ते अभूदित्यादावुपपदे धातोः चिलरित्यर्थः स्यात् । ननु तत्रेति व्यर्थम्, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसम्भवादित्याशङ्कयाह -- तस्मिंश्च सत्येव वक्ष्यमाणःप्रत्ययः स्यादिति । अयमाशयः -- तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्त. मीस्थमुपपदसञ्ज्ञं स्यात् । तत्र, तस्मिन्सति इति चाधिकृतं वेदितव्यमिति । तथा-चोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति तत्रेत्यस्यार्थः फलति । तथाच 'कर्मण्यण्"
।
For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता ।
પૂર
समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिक् किम् । मा भवान्भूत् । 'माछि लु' ( १२१९ ) इति सप्तमीनिर्देशान्माउपपदम् । अतिमहणं ज्ञाप. इत्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसज्ञाप्रवृत्त्यर्थः । धातोरण स्यात् कर्तर्य), कर्मवाचकं तु कुम्भादिपदम् उपपदसझं प्रत्येतव्यम् , तस्मिन्नुपपदे सत्येव अण् स्यादिति फलति । तस्मिन् सत्येवाण स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तयर्थे अण्प्र. त्ययः स्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसञ्ज्ञां प्रापस्य 'उपपदमति इति नित्यसमाससम्पादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुस्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाण स्यादित्युक्ते तु कुम्भाशुपपदस्य मण्प्रत्ययोत्पत्तौ निमित्तत्वावगमान केवलादण्प्रत्ययः, उपपदसज्ञायाः प्रत्ययविधि. सन्नियोगशिष्टत्वलाभात् । 'धः कर्मणि ष्ट्रन' 'भुवो भावे इत्यादौ सप्तम्यन्तमर्थनिर्दे. शपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् ।। ___ उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्चायं समास इति । सूत्रे तिङिति तदन्तग्रहणमिति भावः । समासः तिडन्तघटितो न भवतीत्यर्थः । अतिङ् किम् ? कारको व्रजति। 'तुमुन्ण्वुलौ क्रियायां क्रियायाम्' इति जता. वुपपदे फुलो ण्वुल् , अकादेशः । उपपदं समथेनेत्येतावत्युक्ते इहाप्युपपदसमासः स्यात्। अतः अतिङ्ग्रहणम् । नचैवं सुबित्यनुवृत्तः प्रयोजनाभाव इति वाच्यम् , चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थन समस्यत इति व्याख्याने तु सुबिति नानुवतेत । ततश्च चर्मकार इत्यत्र नलोपो न स्यादिति भावः। कुम्भमिति । कुम्भं करोतीत्यर्थे 'कर्मण्यम्' इति कर्मीभूतकुम्भवाचकपदे उपपदे कृधातोः कर्तरि अण्प्रत्यये अचो णिति' इति वृद्धौ परत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम् , अतिङन्तः समास इत्युक्तत्वादित्यत माह-कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगा. नहत्वमलौकिकत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः। कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपपाठः, कृयोगे षष्ठया विधानात् । मा भवान् भूदिति। अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः। भवानिति पदं तु समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङः तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं, येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह-माडिति । ननु अति
For Private and Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૃષ્ઠ
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
यति सुपा इत्येतदेहानुवर्तत इति । | पूर्वसूत्रेऽपि गतिप्रहणं पृथक्कृत्यातिच्हणं तत्रापकृष्यते । सुपा इति च निवृत्तम् । तथा च 'गतिकारकोपपदानां वृद्धिः सह समासवचनं प्राक्सुबुत्पत्तेः' ( प ७६ ) इति सिद्धम् । व्याघ्री । अश्वक्रीती । कच्छपी ।
ङ्ग्रहणं व्यर्थ, मा भवान् भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसम्भवादित्यत आह - भतिङ्ग्रहणमिति । एवञ्च उपपदम् अलुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह - पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्ष: । 'कुप्रादयः' इति 'गति' इति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमि - त्यत आह- तथा चेति । गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गस्युपपदयोरेव लाभ:, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्यति ।
I
अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति- व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः । व्यादपूर्वात् घ्राधातोः 'आतश्चोपसर्गे' इति कः, 'आतो लोप इटि च' इत्यारलोपः । 'पाघ्राध्माधेट्टशरशः' इति तु न भवति, 'जिघ्रतेः संज्ञायां नेति वाच्यम्' इति निषेधात् । आहो घशब्देन गतिसमासः । आघ्रशब्देन वेः गतिसमासः । तत्र यदि शब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसन्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्य 'कुत्सिते' इति सूत्रस्थभाष्यदर्शितस्य 'हयाप्प्रातिपदिकात' इत्यत्रास्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसंख्याकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वात् टाप् स्यात् । न तु जातिलक्षणङीप्, घशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च प्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य अदन्तत्वाभावात् जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धम्, तथापि गतित्वसम्भवमात्रेणेदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, 'आतश्चोपसमें ' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति । तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति-भश्वक्रीतीति । अश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता' इति समासः । ' क्रीतात्करणपूर्वात्' इति ङीष् । सुबन्तेन समासे तु उक्तरीत्या पूर्व टापि अदन्तत्वाभावात् ङीष् न स्यादिति भावः । उपपदसमासमुदाहरतिकच्छपीति । कच्छः तीरं, तेन तस्मिन् वा पित्रतीति कच्छपी । 'सुपि स्थः' इत्यत्र 'सुपि' इति योगविभागात्कः, उपपदसमासः । तस्य सुबन्तापेक्षायाम् उक्तरीत्या टावेव स्यात्, न तु जातिलक्षणङीषिति भावः ।
For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५४५
-
(७३) अमैवाव्ययेन २।२।२०॥ अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह । 'कालसमयवेलासु तुमुन्' (सू ३१७९ )। कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम्-अग्रे भुक्त्वा । 'विभाषाऽप्रेप्रथमपूर्वेषुः ( सू ३३४५) इति क्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् । (७-४) तृतीयाप्रभृतीन्यन्यतरस्याम् २।२।२१॥ 'उप. दंशस्तृतीयायाम्' (सू ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुक्त-मूलकोपदंशम् । उच्चै कारम् । (७-५) क्त्वा
अमैवाव्ययेन । अमैवेत्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । 'तुल्यार्थरतुलोपमाभ्याम्' इति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसञ्ज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह-तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुं कृत्वेत्यर्थः । ओदनं भुङ्क्त इति शेषः । 'स्वादुमि णमुल्, इति णमुल्, स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः इत्यव्ययत्वम् । तदेवेति नियमस्य प्रयोजनमाह-नेहेति । उपपदसमास इति शेषः । भोक्तुमिति । यद्यपि 'कालसमयवेलास' इति सप्तमीनिर्देशात् कालसमयवेलानामुपपदत्वम् , तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानव, न त्वमा । अतः कालादीनामुपपदत्वेऽपि न समास इत्यर्थः । अमेवेति किमिति । अमैवेत्येवकारः किमर्थं इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यविधानत्वाभावात् न उपपदसमास इति भावः ।
तृतीयाप्रभृतीन्यन्यतरस्याम् । तृतीयाशब्देन 'उपदंशस्तृतीयायाम्' इत्यारभ्य 'अन्वच्चानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । 'अमेत्येतदव्ययविशेषणम् । तदा ह-उपदंशस्तृतीयायामित्यादिना। मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति । 'उपदंशस्तृ. तीयायाम्' इति णमुल् । अमैव तुल्यविधानत्वात् पूर्वसूत्रेण नित्ये प्राप्ते विकल्पो. ऽयम् । ननु मूलकेनेत्यस्य भुक्त इत्यत्रैवान्वयात् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथामह समास इति चेत् , मैवम्-उपदंशनक्रियां प्रति हि मूलकस्य आर्थिक कर्मत्वमादाय सामर्थ्यमुपपाधम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाञ्चोपपायेत्यन्यत्र विस्तरः । उच्चै कारमिति । उच्चैः कृत्वेत्यत्र तु 'अव्ययेऽयथाभिप्रेताख्याने कृजः क्त्वाणमुलौ' । तत्र उच्चै कारमित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वा.
बा० ३५
For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
च २।२।२२। तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चै कृ. त्य-उच्चैः कृत्वा । 'अव्ययेऽयथाभित' (सू ३३८१) इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा, खलु कृत्वा। (७८६) तत्पुरुषस्याङ्गुलेः सङ्ख्या . व्ययादेः ५।४।६॥ सङ्ख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु। निर्गतमङ्गुलिभ्यो निरगुलम् । (७७) अहस्सर्वैकदेशसख्यातपुण्याच रात्रे४ि८७॥ एभ्यो रात्ररचस्यात, चात्सङ्ख्याव्ययादेः । 'अहम्रहणं द्वन्द्वार्थम्' (वा ३३५३) अहश्च रात्रिभावात् 'अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे 'आदिर्णमुल्यनन्यतर. स्याम्' इति कृदुत्तरपदप्रकृतिस्वरः आधुदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिटसूत्रेण अन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् , पर्याप्तो भोक्तुम् । 'पर्या. प्तिवचनेषु' इति तुमुन् । क्त्वा च । तृतीयाप्रभृतीनीति पूर्वसूत्रमनुवर्तते । क्त्वेति तृतीयार्थे प्रथमा । टायां 'सुपां सुलुक् पूर्वसवर्ण' इति पूर्वसवर्णदीर्घ इत्यपरे । तदाहतृतीयेति । ननु 'उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकर्तृकयोरिति क्त्वाविधेः पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह-अव्ययेऽयथेति । 'अव्ययेऽयथाभिप्रेताख्याने कृमः क्त्वाणमुलौ' इति सूत्रेणेत्यर्थः । अलं कृत्वेति । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इत्येतत् 'उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहि. तक्त्वो मान्तेन सह समासाभावात् न ल्वबिति भावः । इत्युपपदसमामाः।। ___अथ तत्पुरुषेषु असाधारणसमासान्तान् वक्तुमुपक्रमते-तत्पुरुषस्याङ्गुलेः सङ्ख्या. ब्ययादेः । 'अच्प्रत्यन्ववपूर्षात्' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकृतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकारात् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वात् अङ्गुलेरिति अवयवषष्ठी । अङ्गलेरिति तत्पु. रुषविशेषणं, तदन्तविधिः । तदाह-सङ्ख्याव्ययादेरिति । सङ्ख्या च अव्ययं च सहया. व्यये ते आदी यस्येति विग्रहः । द्वयङ्गुलमिति । 'तद्धितार्थ' इति द्विगुः । 'प्रमाणे द्वयसज्दन्नमात्रच 'प्रमाणे ल' 'द्विगोनित्यम्' इति लुक् । द्वयङ्गलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति इकारलोपः । निरङ्गुलमिति। 'निरादयः क्रान्ताद्यर्थे' इति समासः, अच् , इलोपः। अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च । एभ्यो रात्रेरिति । अहन् , सर्व, एकदेश, सङ्ख्यात, पुण्य एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहनादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पु. रुषो नास्त्येव । अहो रात्रिरिति वा अहश्वासौ रात्रिश्चेति वा असम्भवादित्यत आह-महर्ग्रहणं द्वन्द्वार्थमिति । नच ब्रह्मणो यदहः तस्यावयवभूता या मानुषी रात्रि.
For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता ।
५४७
-
श्वाहोरात्रः। सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रैः पूर्वरात्रः । स ख्यातरात्रः। पुण्यरात्रः । द्वयो रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः । (७८) राजाहस्सखिभ्यष्टच ५।४।३१॥ एतदन्तात्तत्पुरुषाचस्यात् । परमराजः । अतिराजी । कृष्णसखः । () अह्नष्टखोरेव ६४।१४५॥ एतयोरेव परतो. ऽहष्टिलोप: स्यात् , नान्यत्र । उत्तमाहः । द्वे अहनी मृतो यहोनः क्रतुः । रिति षष्ठीतत्पुरुषः सम्भवतीति वाच्यम् , अहहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवजातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच् , इलोपः 'जातिरप्राणिनाम् इत्येकवत्त्वम् । 'स नपुंसकम्' इति बाधित्वा 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहे 'पूर्वकालैक' इति कर्मधारया अच् इकारलोपः।
'रात्राह' इति पुंस्त्वम् । 'सर्वनाम्नो वृत्तिमात्रे' इति पुवत्त्वम् । एकदेशेत्यर्थग्र. हणमित्यभिप्रेत्योदाहरति-पूर्वमिति । पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम्। इत्येक. देशिसमासः । अच् , इलोपः, 'रात्राह' इति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्या. ता रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम् । पुण्यरात्र इति । पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम् । अच्, इलोपः । 'रात्रात इति पुंस्त्वम् । द्विरात्रमिति । 'तद्धितार्थ' इति द्विगुः । सङ्ख्यादित्वादच , इलोपः। 'सख्यापूर्व रात्रं क्लीबम्' इति नपुंसकत्वम् । अतिरात्र इति । 'अत्यादयः क्रान्ताद्यर्थे। इति समासः । अव्ययादित्वादच् , इलोपः, 'रात्राह' इति पुंस्त्वम् ।
राजाहस्सखिभ्यष्टच् । 'तत्पुरुषस्याङ्गुले' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवच. नत्वेन विपरिणतं राजाहस्सखिभ्यः इत्यनेन विशेष्यते । तदन्तविधिः, तदाह-एत. दन्तादिति । परमराज इति । परमश्वासौ राजा चेति विग्रहः। समासान्तष्टच । 'नस्तद्धिते' इति टिलोपः । अतिराज इति । अतिक्रान्तो राजानमिति विग्रहः । 'अत्यादयः। इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्त. ष्टच । 'यस्येति च' इति इकारलोपः । अष्टखोः। शेषपूरणेन सूत्रं व्याचष्टे-टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्मात् लोप इति चेति भावः । 'नस्तद्विते' इत्येव सिद्ध नियमार्थमिदमित्याह-नान्यत्रेति । एवकारस्तु अह्न एव टखोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तम् आह्निकम् 'कालाह' इत्यधिकारे 'तेन निवृत्तम्' इति ठञ् । टिलोपाभावादलोपः। टप्रत्यये उदाहरतिउत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः । 'राजाहस्सखिभ्यष्टच्' इति टच । 'अष्टखोरेव' इति प्रकृतसूत्रेण टिलोपः 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । खे उदाहरति-द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः परिक्रीत इत्यर्थः ।
For Private and Personal Use Only
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
तद्धितार्थे द्विगुः । ' तमधीष्टः ' ( सू १७४४ ) इत्यधिकारे 'द्विगोर्वा' इत्यनुवृत्तौ 'रात्र्यहस्संवत्सराच्च' ( सू १७५१ ) इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्राराज्ञी । ( ७६० ) महोऽह एतेभ्यः ५|४|६८ ॥ सर्वादिभ्यः परस्याद्दन्शब्दस्याहादेशः स्यात् समासान्ते परे । ( ७६१) श्रहो - दन्तात् ८|४|७|| अदन्तपूर्वपदस्था फारपरस्याऽहादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । सख्याताहः । द्वयोर होर्भवः । 'कालाट्ठञ्' ( सू १३८१)
द्वयहीन इत्यत्र प्रक्रियां दर्शयति - तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत्र आहतमधीष्ट इत्यादि । तथाच द्वयन्शब्दात् खस्य ईनादेशे 'अह्नष्टखोरेव' इति टिलोपे यहीन इति रूपमित्यर्थः । नन्वत्र 'अहोऽह्न एतेभ्यः' इत्यह्नादेशः कुतो न स्यात् । नखे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम् । अहीन इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेत्, न - समासान्ते पर । एवाह्लादेशविधानात् प्रकृते तु समासान्तविधेरनित्यत्वात् 'राजाहरूसखिभ्यः' इति न टच् । यद्यपि उत्तमाहः इत्यत्र यहीन इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धः । तथापि आह्निकमित्यादावावश्यकस्य नियम विधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहरूसखिभ्यः' इति टच् स्यादि - त्याशङ्कयाह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति 'ड्या प्रातिपदिकात्' इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपि 'यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टिश्वात् ङोपि मद्रराज्ञीति निर्वाधमिति वाच्यम्, टचि हि सति 'भस्याढे तद्धिते' इति पुंवत्त्वे टिलोपे मद्रराजी इति स्यादिति भावः ।
अहोऽह्न एतेभ्यः । पूर्वसूत्रे अहस्सर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः । तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहश्शब्दवर्ज ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहरुशब्दः, अहरशब्दात् परस्य अहम्शब्दस्य तत्पुरुषे असम्भवादित्यभिप्रेत्य व्याचष्टे – सर्वादिभ्य इति । समासान्ते पर इति । एतत्तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् । 'पूर्वपदात्संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्रान्येति । 'रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — प्रदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहम् भव लक्षा इत्यत्र णत्वार्थं पादित्यपि बोध्यम् । समासान्ते पर इति किम् । द्वे अहनी भृतो द्वयहीनः । अत्र समासान्ताविधेरनित्यत्वात् रजभावे अहादेशो न । सर्वाह्न इति । सर्वमहरिति विग्रहे 'पूर्वकाल' इति समासे 'राजाहरूसखिभ्यः '
·
For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५४६
m
'द्विगो गनपत्ये' (सू १०८० ) इति ठजो लुक् । द्वयह्नः । स्त्रियामदन्तत्वाट्टाप् । यह्ना । यह्नप्रियः । अत्यह्नः । (७६२) क्षुभ्नादिषु च ४३६॥ एषु णत्वं न स्यात् । दीर्घाही प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । 'प्रातिपदिकान्त-- (सू १०५५) इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात्।
भदन्तादिति तपरकरणान्नेह । परागतमहः पराह्नः। न सङ्ख्यादेः समाहारे • इति टच , अह्लादेशः, णत्वं 'रात्राहाहा' इति पुंस्त्वम् । पूर्वाह्न इति । समासादि स.
डिवत् । संख्याताह इति । संख्यातमहरिति विग्रहः । विशेषणसमासः, टच अह्नादेशः । निमित्ताभावान णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । संख्यापूर्वस्य उदाहरति-- द्वयोरहोरित्यादि । यह इति । तद्धितार्थे द्विगुः । टच । ततो भवाथें ठञ् , तस्य लुक , अकादेशः । प्रसादाह-स्त्रियामिति । द्वयहेति । द्वयोरहोर्भवेत्यर्थः । ठञ् लुक् च पूर्व. वत् । 'अपरिमाणविस्त' इति न डीप । ठनिमित्तस्तु डीप नेत्यपरिमाणविस्तेत्य. ब्रोक्तम् । टचष्टित्त्वेऽप्युपसर्जनस्वात् ठिड्ढ' इति न डीप । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति । 'शवाहाहाः पुंसि' इत्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः। तद्धितार्थेत्युत्तरपदे द्विगुः । टच् अलादेश इति भावः। अव्ययपूर्वस्योदाहरति-अत्यह इति । अहरतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टच् अह्नादेश इति भावः ।
तुम्नादिषु च । रषाभ्यामित्यतो ण इति 'न भाभूपूकमि' इत्यतो नेति चानुव. तते । तदाह-एग्विति । दीर्घाली प्रावृडिति । वर्षौ प्रावृदशब्दः स्त्रीलिङ्गः। 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति की 'अल्लोपोऽन: इत्युपधालोपः । 'अहोऽदन्तात्' इति णत्वं तु क्षुम्नादित्वान्नेति भावः । ननु क्षुम्नादिषु दीर्घाहीत्यस्य पाठो व्यर्थः 'अहोऽदन्तात्' इत्यत्र हि अह्न इत्यदन्तात् षष्टयर्थे प्रथमा । अदन्तपूर्वपदस्था. निमित्तात् परस्य अहशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाहीत्यत्र च अहा. देशस्याप्रसक्त्या अदन्तत्वाभावादेव णत्वस्याप्राप्तौ किं तन्निवृत्त्ययन क्षुम्नादिपाठे. नेत्यत आह-एवञ्चेति । एवं सति दीर्घाहीशब्दस्य क्षुम्नादिपाठे सति, एतदर्थम् 'अहोऽदन्तात्' इति णत्वनिवृत्यर्थम् , अह्न इत्यस्य अदन्तत्वानुसरणं षष्ट्यर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावह न कर्तव्यमित्यर्थः । क्षुम्नादिपाठादेव णत्वनिवृत्तिसिद्धे. रिति भावः । ननु दीर्घाहीत्यस्य णत्वाभावाय किं क्षुम्नादिपाठोऽभ्युपगम्यताम् उत अह इत्यस्य अदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह-प्रातिपदिकान्तेति । अथ 'अहोऽदन्तात्' इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाहभदन्तादिति । पराह्न इति । 'प्रादयो गताद्यथें' इति समासः, टच , अव्ययात्परत्वाद.
For Private and Personal Use Only
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૦
सिद्धान्तकौमुदी
। तत्पुरुषसमास
५४॥ समाहारे वर्तमानस्य सङ्ख्यादेरह्लादेशे। न स्यात् । सङ्ख्यादेः इति स्पष्टार्थम् । द्वयोरहोः समाहारो यहः। यहः । (७४४) उत्तमकाभ्यांच ५।४।०॥ आभ्यामहादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । 'पुण्यकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । 'उत्तमप्रहणमुपान्त्यस्यापि सङ्ग्रहार्थम्। इत्येके । सङ्ख्याताहः । (७६!) अग्राख्यायामुरसः ५।४।६३॥ टच्स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः । (४६) मनोऽश्मायस्स
लादेशः । परेति पूर्वपदस्यादन्तत्वाभावात् न णत्वमिति भावः । न संङ्ख्यादेः समाहारे। अह्लादेश इति । 'अह्नोऽहः' इत्यतस्तदनुवृत्तेरिति भावः। ननु संख्यादिमि. न्नस्य तत्पुरुषस्य समाहारे अभावादेव सिद्ध संख्यादेरिति व्यर्थमित्यत आहस्पष्टार्थमिति । यह इति । समाहारे द्विगुः । टच् , राबाह्न' इति पुंस्त्वम् । सङ्ख्या. दित्वात्प्राप्तस्य अह्नादेशस्य निषेधः । व्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्वयहवत्। ___ उत्तमैकाभ्यां च । ननु उत्तमशब्दात् परस्याहन्शब्दस्य अह्रादेशाप्रसक्तरुत्तमग्रहणं व्यर्थमित्यत आह-उत्तमशब्द इति । उत्तमशब्दः अन्त्ये वर्तते । यथा द्वादशाहे 'उद. यनीयातिरात्र उत्तममहः' इति अन्त्यमिति गम्यते । 'अहस्सर्वेकदेशसङ्ख्यातपुण्या' दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सुचितमित्याशङ्य स्वतन्त्रेच्छत्वान्महरित्याह-पुण्यकाभ्यामित्येवेति । पुण्याह. मिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच, टिलोपः, 'पुण्यसुदिनाभ्यां च' इति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहे 'पूर्वकाल' इति समासः । टच , टिलोपः। उपान्त्यस्यापीति । लक्षणयेति शेषः । पुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् , उत्तमे च एकं चेति द्वन्द्वः, सौनं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातम. हरिति विग्रहे विशेषणसमासः, टच , टिलोपः । 'रात्रालाहा' इति पुंस्त्वम् । उपान्त्य. सङ्ख्यातशब्दपूर्वकत्वात् नाह्रादेशः ।।
अग्राख्यायामुरसः । शेषपूरणेन सूत्रं व्याचष्टे-टच् स्यादिति । पञ्चम्यर्थे सप्तमी। अग्रं प्रधानं तद्वाची य उरशब्दः तदन्तात्तत्पुरुषाच स्यादित्यर्थः । 'अग्रयाख्यायाम्। इति पाठान्तरम् । अग्रे भवमग्रयं, मुख्यमिति यावत् । अश्वानामुर इवेति । उरो यथा प्रधान तथेत्यर्थः । उरकशब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति । उरशब्देन मुख्यवाचिना षष्ठीसमामः, टच् , 'परवल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्या.
For Private and Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५१
रसां जातिसंशयोः ५।४।४॥ टचस्याज्जातौ संज्ञायां च । उपानसम् , अमृताश्मः, कालायसम् , मण्डूकसरसम् इति जातिः । महानसम् , पिण्डाश्मः, लोहितायसम् , जलसरसम् इति संज्ञा । (७४७) ग्रामकोटाभ्यां च तक्षणः ५।४।५॥ प्रामस्य तक्षा प्रामतक्षः। साधारण इत्यर्थः । कुट्या भवः कौटः । स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः । (GE) मतेः शुनः ५।४।६६॥ अतिश्वो वराहः । अतिश्वी सेवा । (SEE) उपमानादप्राणिषु ५।४।६७॥ अप्रा. णिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेवाकर्षश्वः । अप्राणिषु किम् , वानरः श्वेव वानरश्वा । (८००) उत्तरमृगपूर्वाञ्च सक्नः ५।४ ॥ चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलक
यामिति किम् , देवदत्तस्योः देवदत्तोरः । अनोऽइमायस्। उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतः अश्मेति विग्रहः। टचि, टिलोपः। कालायसमिति । कालम् अय इति विग्रहः, टच , 'परवल्लिङ्गम्' इति नपुंसकत्वम् । मण्डूकसरसमिति । षष्टीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः । ग्रामकौगाभ्यां च तक्ष्णः । आभ्यां रजिति। ग्रामकोटाभ्यां परो यस्तक्षन्शब्दः तदन्तात्तत्पुरुषाच् स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटयां भव इति । कुटीमेकां क्रयादिना सम्पाथ तन यो वसति, न तु परकीयभूमिप्रदेशे, स कौट इत्यर्थः । फलितमाह-स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः।
अतेश्शुनः । अतीत्यव्ययात् परो यः चन्शब्दः तदन्तात्तत्पुरुषादृजित्यर्थः । अतिश्व इति । श्वानमतिक्रान्त इति विग्रहः । 'अत्यादय' इति समासः। रचि, टिलोपः। श्वापेक्षयाधिकवेगवान् वराह इत्यर्थः । अतिश्वी सेवेति । श्वानमतिक्रान्तेत्यर्थः, धापेक्षया नीचा सेवेति यावत् , टच , टिलोपः । टित्त्वात् डीप् , यस्येति चेत्यकारलोपः । उपमानादप्राणिषु । आकर्षः श्वेवेति । आकृष्यते कुसूलादिगतधान्यमनेनेत्याकर्षः। पञ्चाङ्गुलो दारुविशेषः। 'उपमितं व्याघ्रादिभिः' इति समासः । टच् , टिलोपः, आकर्षश्वः इति रूपम् । उपमानात् किम् । शुनो निष्क्रान्तः निश्श्वा। उत्तरमृग। उत्तर, मृग, पूर्व एभ्यः उपमानाच्च परो यः सक्थिशब्दः तदन्तात्तत्पुरुषाच् स्या. दित्यर्थः । उत्तरसक्थमिति। उत्तरं सक्थीति विग्रहः । पूर्व सक्थीति विग्रहे 'पूर्वकाला इति समासः । फलकसक्थमिति। फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात् समासः । सर्वत्र टच , टिलोपः।
For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५२
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
सक्थम् । (८०१) नावो द्विगोः ५|४|६६ ॥ नौशब्दान्ताद्विगोष्टच्स्यात्, न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोर्लुगनपत्ये' (सू १०८० ) इत्यत्र अचि इत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पश्चभिनौभिः क्रीतः पञ्चनौः । ( ८०२ ) अर्धाच ५|४| १०० ॥ अर्धाभावष्टस्यात् । नावोऽर्धम् - अर्धनावम् । क्लीवत्वं लोकात् । (८०३) खार्याः प्राचाम् ५|४|१०१ ॥ द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम्-द्विखारि । अर्धखारम्, अर्धखारी । (८०४) द्वित्रिभ्यामञ्जलेः ५|४|१०२ ॥ ज्वा स्याद् द्विगौ । द्वयञ्जलम् - द्वयञ्जलि | अतद्धितलुकीत्यैव । द्वाभ्यामञ्जलि
1
1
नावो द्विगोः । न तु तद्धितलुकीति । 'गोरतद्धितलुकि' इत्यतो मण्डूकप्लुत्या तदमुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः, तस्य 'द्विगोर्लुगनपत्ये' इति लुकमाशङ्कयाह - द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रियाः यस्येति विग्रहे उत्तरपदे द्विगुः, टच्, आवादेशः । द्विनावमिति । द्वयोः नाव: समाहार इति विग्रहे द्विगु:, टच्, आवादेशः, 'स नपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विग्रहः । द्विनाववत् । पचनौरिति । सद्धितार्थे समासः । आयष्ठक्, 'अध्यर्ध' इति लुक् । अर्थाच्च । अर्धशब्दात् परो यो tatasदः तदन्तात् तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति । 'अर्धं नपुंसकम्' इति समासः, टच्, आवादेशः । अत्र 'परवल्लिङ्गम्' इति स्त्रीत्वमाशङ्कयाह -क्लीबस्वं लोकादिति । खार्या प्राचाम् । खारीशब्दान्तात् द्विगोः, अर्धपूर्वकात् खारीशब्दान्तात् तत्पुरुषाकचेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः । टच्, 'यस्येतिच' | 'स नपुंसकम्' इति नपुंसकत्वम् । टजभावपक्षे 'स । नपुंसकम्' इति नपुं. सकत्वान्नपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः । 'अर्ध नपुंसकम् इति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत् समासः । टजभावपक्षे 'परवल्लिङ्गम्' इति स्त्रीत्वम् | एकविभक्तावषष्ठयन्तवचनादुपसर्जनत्वाभा वान्न स्वः । अर्धखारि इति क्वचिद्धस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः । द्वित्रिभ्यामञ्जलेः । शेषपूरणेन सूत्रं व्याचष्टे-टज्वा स्यादिति । द्विगाविति । द्वन्जलमिति । द्वयोरञ्जन्योः समाहार इति विग्रहे द्विगुः, टच्, 'यस्येति च', 'स नपुंसकम्' । द्वयन्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । अतद्धितलुकोस्येवेति । अनुवर्तत एवेत्यर्थः । श्रव्जलिभ्यां क्रीत इति । अञ्जलिशब्दः अष्जलिपरिमि
1
For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् १८ ]
क्रीतो द्वयञ्जलिः। (८०५) ब्रह्मणो जानपदाख्यायाम् ५|४|१०४ ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । (८०६) कुमहद्भयामन्यतरस्याम् ५|४|१०५॥ आभ्यां ब्रह्मणो वा टच्स्यातत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्म: - कुब्रह्मा । ( ८०७) आत्महतः समानाधिकरणजातीययोः ६ |३|४६ ॥ महतः आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः - महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः 'सन्महत्'
५५३
तधान्यादौ वर्तते, केवलस्याज्जलेः मूल्यत्वासम्भवात् । परिमाणत्वात् ठञ् । 'अध्यर्ध इति तस्य लुक् ।
I
ब्रह्मणो जानपदाख्यायाम् । जनपदे भवो जानपदः भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायाम् प्रकृतत्वात् समासेनेति लभ्यते । तदाह - समासेन जानपदत्वमाख्यायते चेदिति । जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट ब्रह्मेति । ब्रह्मश दोsa पुंलिङ्गः । ब्रह्मा विप्रः । 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच्, टिलोपः, 'परवल्लिङ्गम्' इति पुंस्त्व. म् । जानपदेति किम् । देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम् । कु ब्रह्मेति । रजभावे रूपम् | 'कुगतिप्रादयः' इति समासः । कुब्रह्म इति । टचि रूपं, टिलोपः । अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन् विशेषमाह - आन्महतः । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम् | उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति न तु जातीय इति, तस्य प्रत्ययत्वात् । तदाह - महत श्रात्वमित्यादिना । महाब्रह्म इति । महांश्चासौ ब्रह्मा चेति विग्रहः । 'सन्महत्' इत्यादिना समासः । आत्त्वम् । सवर्णदीर्घः । 'कुमहयाम्' इति टच् । टिलोपः, 'परवल्लिङ्गम्' इति पुंस्त्वम् । महाब्रह्मेति । टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधि प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति - महादेव इति । जातीये उदाहरति- महाजातीय इति । महत्सदृश इत्यर्थः । प्रकारवचने जातीयर · आत्त्वम् सवर्णदीर्घः । समानाधिकरणे किमिति । 'आन्महतो जातीये चेत्येवास्तु । चकारादुत्तरपदसमुच्चये सति महत आत्त्वम् स्यात् उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति । अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः ।
1
1
"
ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशा-:
For Private and Personal Use Only
·
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃષ્ઠ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
( सू ७०० ) इति समासो प्रहीष्यत इति चेत्, महाबाहुः न स्यात् । तस्मात् ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' ( प ११४ ) इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । 'आत्' इति योगविभागादात्वं, 'प्रागेकादशभ्यः'( सू १९९५ ) इति निर्देशाद्वा । एकादश । महतीशब्दस्य 'चुंवरकर्मधारय ' ( सू ७४६ ) इति पुंवद्भावे कृते आत्त्वम् । महाजातीया । 'महतः आत्वे घास
[ तत्पुरुषसमास
1
स्वत एव निर्वर्तितत्वात् । 'सन्महत्' इत्ययं समासस्तु सम्महदादिशब्द समस्यमानं विशिष्योचार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रतिप्रदोक्तपरिभाषया 'आमहतो जातीये चेत्यत्र 'सन्महत्' इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससम्भवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते - लाक्षणिकमित्यादिना । परिहरति- महाबाहुर्न स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदोक्तत्वाभावातदुत्तरपदे परे आखं न स्यात्, अतः समानाधिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षण प्रतिपदोक्तपरिभाषा प्रवृत्ते दुर्वारत्वात् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह- तस्मादिति । तच्छदार्थमाह- समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्वम् । आस्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिष्ठ पूर्वपदस्य महता विशेषणे इति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणं परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु 'आन्महतः' इत्यत्र महत एव ग्रहणात् 'द्वयष्टन' इत्युत्तरसूत्रे द्व्यष्टनोरव ग्रहणात् एकादशेत्यत्र कथमात्त्वमित्यत आह- आदिति योगविभागादात्वमिति । योगविभागस्य भाष्यादृष्टत्वादाह - प्रागेकादशभ्य इति निर्देशा द्वेति । एकादेशेति । एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । 'आन्मद्दत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयर प्रत्यये परे महताजातीयेति स्थादित्यत आह- महतीशब्दस्येति । नच परत्वात्पुंवत्वं बाधित्वा आत्त्वं स्थादिति वाच्यम्, 'आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति व्याप्सूत्रे भाये उक्तत्वादिति भावः ।
For Private and Personal Use Only
•
महत आश्वे इति । घास, कर, विशिष्ट एषु परतः महत भावं पुक्त्वं च वक्तव्यमित्यर्थः । ननु 'आन्महतः' इत्यात्वे 'पुंवत्कर्मधारय' इति पुंवस्वे च सिद्धे किमर्थमिदमि
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५५
करविशिष्टेषूपसङ्ख्यानं पुंवद्भावश्च' (वा ३९५०)। असामानाधिकरण्यार्थमि. दम् । महतो महत्या वा घासो महाघासः। महाकरः। महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) अष्टाकपालः। 'गवि च युक्त' (वा ३९५२)। गोशब्दे परे युक्त इत्यर्थे गम्ये अष्टन आत्त्वं स्यादिति वक्तव्यमित्यर्थः ।। बागवं शकटम् । 'अच्प्रत्यन्वव-' (सू ९४३) इत्यत्र अच् इति योगविभागाद्बहुव्री. हावयच् । अष्टानां गवां समाहारोऽष्टगवम् तयुक्तत्वाच्छ कटमष्टागवमिति वा । (50) द्वयष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः ६।३।१७॥ मात्स्यात् । द्वौ च दश च द्वादश । द्वयधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टावि.
-
त्यत आह-असामानाधिकरण्यार्थमिदमिति । महाकर इति । महतो महत्या वा कर इत्यर्थः। महाविशिष्ट इति । महतो महत्या वा विशिष्टः, अधिक इत्यर्थः । भ्रष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । अष्टसु कपा. लेषु संस्कृतः पुरोडाश इत्यथें तद्धिता) द्विगुः । संस्कृतं भक्षाः' इत्यण् । 'द्विगोलुंगनपत्ये' इति लुक् । आत्त्वं सवर्णदीर्घः । गवि च युक्ते इति । वार्तिकमिदम् । तत्सूच. यितुमाह-वक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावौ यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननु 'गोरतद्धितलुकि, इति टञ्चिधेस्तत्पुरुषमात्रविषयत्वात् अष्टागवमिति कथमित्यत आह-पच्प्रत्यन्ववेत्यति । तत्पुरुषत्वे अष्टगवशब्दष्टजन्त एवेत्याह-अष्टानामिति । तथा च समाहारद्विगोस्त. त्पुरुषत्वात् 'गोरतद्धितलुकि' इति टच सुलभ इत्यर्थः। नन्वष्टानां गवां समाहार इत्यर्थ शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात् , कथं वा आस्वमित्यत आहतक्तत्वादिति । समाहारद्विगुरूपतत्पुरुषादृचि उत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः ।
द्वयष्टनः। शेषपूरणेन सूत्रं व्याचष्टे-पात्स्यादिति । द्विशब्दस्य अष्टन्शब्दस्य च सङ्ख्यावाचके उत्तरपदे परे आत्स्यात् , न तु बहुवीयशीत्योरित्यर्थः । द्विशब्दस्योदाहरति-द्वादशेति । द्वौ च एकश्च द्वयेकाः, द्वयधिकः एकः द्वयेका इत्यादौ तु नास्ति 'एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषो न स्तः' इति 'चा' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति । द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । स नपुंसकम्' इति क्लीवत्वं तु न । किन्तु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न, अनभिधानात् । व्यधिका विंशतिरिति तत्पुरुषो वा। अथाष्टन्शब्दस्योदाहरति-अष्टादशेति । अष्टौ च दश चेति द्वन्द्वः । भष्टाधिका दशेति वा । अष्टाविंशतिरिति । अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । अष्टाधिका
For Private and Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૫
सिद्धान्तकौमुदी
[तत्पुरुषसमास
शतिः । अबहुव्रीत्यीत्योः किम् । द्वित्राः । द्वयशीतिः। 'प्राक्शतादितिवक्तव्यम्' (वा३९५३) । नेह । द्विशतम् । द्विसहस्रम्। (208) स्त्रयः ६॥३॥४८॥ त्रिश. ब्दस्य त्रयस् स्यात्पूर्वविषये। त्रयोदश । त्रयोविंशतिः । बहुग्रीहौ तु, त्रिर्दश त्रिदशाः । सुबथै बहुप्रीहिः । अशोतौ तु त्र्यशीतिः । प्राक्छतादित्येव । त्रिशतम्। त्रिसहस्रम् । (१०) विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ६३।४॥ द्वयष्ट. नोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे। द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । त्रिचत्वारिंशत्-त्रयश्चत्वारिंशत् । एवं पञ्चाश. त्यष्टिसप्ततिनवतिषु । (८११) एकादिश्चैकस्य चादुक् ६।३।७६॥ एकादिर्ने.
विशतिरिति वा । दिवा इति । द्वौ वा त्रयो वेति विग्रहः । 'सङ्ख्याव्ययः इति बहु. श्रीहिः । 'बहुवीही साख्येये डच्” इति डच् । बहुव्रीहित्वादन द्विशब्दस्य आत्त्वं न । ठ्यशीतिरिति । द्वौ चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । द्वयधिका आशीतिरिति वा । अन्नाशीतिपरकत्वात् द्विशब्दस्यात्त्वं न । प्राक्शतादिति । 'य. ष्टनः सङ्ख्यायाम्' इत्येतत् शतप्रभृतिसङ्खयाशब्दे परे न भवतीति वक्तव्यमित्यर्थः । द्विशतमिति । द्वौ च शतं चेति समाहारद्वन्द्वः । द्वयधिक शतमिति वा। एवं द्वि. सहस्रमित्यत्रापि।
स्नयः । सन्धिवेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह-त्रय. स्यादिति । पूर्वविषये इति । प्राक्शतात् सङ्ख्याशब्दे उत्तरपदे परतः, न तु बहघीयशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, व्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयम्, रुत्वम् , उत्वम् , आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः । 'बहुधीहो सङ्ख्येये डच्' इति डच् । नन्वत्र त्रिरित्यस्य 'सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् द्वित्रिचतुभ्यः सुच् इति सुजन्तत्वात् स. मासेऽपि सुचः श्रवणापत्तिरित्यत आह-सुजथे बहुव्रीहिरिति । सुजथे क्रियाभ्यावृत्ती लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र 'सहयाव्यया इति बहुमीहिः न तु सुजन्तस्येत्यर्थः । व्यशीतिरिति । अयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधि. काशीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्दः, व्यधिक शतमिति वा । एवं त्रिसहस्रमित्यपि। विभाषा चत्वारिंशत्। व्यवहितस्यापि द्वयष्टनोरित्यस्य सम्बन्धाय-सर्वेषामिति । द्वयष्टनोस्त्रेश्चेत्यर्थः । तदाह-दयष्टनोस्त्रेश्चेति ।
एकादिश्च । 'म लोपो नमः' इतिः नमः इति षष्ठ्यन्तमनुवर्तते , तच्च प्रथमया विपरिगम्यते । 'नभ्राण्मपात् इत्यतः प्रकृत्येत्यनुवर्तते । सदाह-एकादिर्न प्रकृत्येति ।
For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५७
प्रकृत्या स्यादेकस्य चादुगागमश्च । नी विंशत्या सह समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः। अनुनासिकविकल्पः । एकेन नविंशतिः एकानविंशतिः-एकागविंशतिः । एकोनविंशतिरित्यर्थः । 'षष उत्त्वं दतृदशधासू. त्तरपदादेष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२)। षोडन्-षोडशषड्धा-घोढा । (E76) परवलिङ्गं द्वन्द्वतत्पुरुषयोः २।४।२६॥ एतयोः पर• एकः आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदुगिति अदुगिति वा छेदः । नसो विंशत्येति । न विशतिरिति विप्रहे नसमासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृसत्वाद्यभावात् कथमिह तृतीयासमास इत्यत आह-तृतीयेति योगविभागादिति । अनुनासिकविकल्प इति। तृतीयासमासे कृते सुब्लुकि एक नविंशति इति स्थिते 'नलोपो नमः इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र ककार इत् , उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीघः, एकादू नविंशतिरिति स्थिते 'यरोऽनुनासिके' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागम. पक्षेऽपि पररूपं तु अकारोच्चारणसामर्थ्यान्न भवति । एकेन न विंशतिरिति विग्रहवाक्यम् । एकेन हेतुना विशतिनं भवतीत्यर्थः । एकानविंशतिः, एकानविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति । पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । 'पूर्वसदृश' इति समासः । साचासौविंशतिश्च ।
षष उत्वमिति । दतृशब्दे दशन्शब्दे च उत्तरपदे परे धाप्रत्यये च परे षष्शब्दस्य उत्वं उत्तरखण्डस्य दतृशब्दस्य दशन्शब्दस्य धाप्रत्ययस्य च आदेर्दकारस्य धकारस्य च टुत्वं च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः, न तु ष्टुत्वमिति प्रयोजनाभावात् । 'धासु वा' इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रहणमिति भाष्यम् । धाप्रत्यये परे षष उत्त्वं वा स्यात् । टुत्वं तु उत्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेषेति कैयटः । उत्त्वपक्ष एव नित्यं टुत्वमिति हरदत्तः । षोडन्निति । षट् दन्ता यस्येति बहुव्रीहौ 'वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्त्वम् । अन्त्यषकारस्य उत्त्वम् । आद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्त्वान्नुम् , सुलोपः, संयोगान्तलोपः । तस्यासिद्धत्वान्न दीर्घः । षोडन् इति रूपम् । षोडशेति । षट् च दश चेति, षडधिका दशेति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम् , आद्गुणः, दकारस्य टुत्वेन डकारः। हरदत्तमतमनुसत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति-पड़धेति । 'संख्याया विधार्थे धा' अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु दुत्वमपि न भवति । "झलां जशोऽन्ते' इति जश्त्वेन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति-घोढेति । धाप्रत्ययः, अन्त्यस्य षकारस्य उत्त्वम् , आद्गुणः, टुत्वेन धस्य ढ इति भावः। कै
For Private and Personal Use Only
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५८
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
पदस्येव लिङ्ग स्यात् । कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापमालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' ( वा १५४५)। पञ्चसु कपा लेषु संस्कृतः पश्चकपालः पुरोडाशः । प्राप्तो जीविका प्राप्तजीविकः । आपन्नजी. निकः । अल कुमार्य अलं कुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः । (८१३) पूर्ववदश्वघडवो श२७॥ द्विवचनमतन्त्रम् । अश्ववडवौ। अश्व वडवान् । अश्ववडवैः । (१४) रात्राहाहाः पुंसि २४॥२७॥ एतदन्तौ द्वन्द्व.
यटमते तु उत्वाभावपक्षेपि टुत्वं नित्यमेव । षड्ढा । कैयटमतमेव युक्तम् , षोढा, षड्ढा इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् ।
परवल्लिङ्गम् । परवदिति षष्ठयन्ताद्वतिः । तदाह-एतयोः परपदस्येवेति । द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् , समाहारद्वन्द्वे ‘स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे शति । अत्र द्वन्द्वे अवयवलिङ्गेनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्धे नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वप. दलिने प्राप्ते उत्तरपदलिङ्गार्थ विधिः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति षष्ठ्यन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवञ्च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । द्विगु, प्राप्त, आपन्न, अलम्पूर्व, गतिसमास एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः। पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तं न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति । अत्र उत्तरपदस्य जीवि. काशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलम्पूर्वस्योदाहरति-भलं कमा अलङ्कमारिरिति । अत्र उत्तरपदकुमारीलिङ्ग समासस्य न भवति। नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे' इत्यपि न भवति, तस्य समासस्य नित्यत्वेन अलं कुमार्य इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह-अत एवेति । 'पविभक्ति च' इति कुमारीशब्दस्योपसर्जनत्वाध्रस्वः। गतिसमासमुदाहरतिनिष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्ग समासस्य न भवति । यद्यपि निरादिस. मास एवायम् , न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः। तथापि गतिसमा. सग्रहणं प्रादिसमासोपलक्षणमित्याशयः ।
पूर्ववदश्ववडवौ । अवश्च बडवा च इति द्वन्द्वे परवल्लि बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्ववडवाविति द्वन्द्वः पूर्वपदस्य लिङ्ग लभते इत्यथें बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह-द्विवचनमतन्त्रमिति । उपलक्षणमिदम् । द्विवचनं विभक्तिश्रेति द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । रात्राहाहाः। द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन
For Private and Personal Use Only
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता।
५५४
तत्पुरुषौ पुस्येव । अनन्तरत्वात्परवलिङ्गतापवादोऽप्ययं परस्वासमाहारनपुंसकता बाधते । अहोरात्रः। रात्रेः पूर्वभागः पूर्वरात्रः। पूर्वाह्नः। द्वयहः। 'सङ्ख्यापूर्व रात्रं क्लीयम्' (लि १३१) । द्विरात्रम् , त्रिरात्रम , गणरात्रम् । (८१५) अपथं नपुं. सकम् २।४॥३०॥ तत्पुरुषः इत्येव । अन्यत्र तु अपयो देशः। कृतसमासान्तनिर्देशान्नेह । अपन्थाः । (८१६) अर्धर्चाः पुंसि च २४॥३१॥ अर्धर्चादयः शब्दाः पुंसि क्लीवे च स्युः । अधः-अर्धर्चम् । ध्वजः-ध्वजम् । एवं तीर्थशरी. विपरिणतं रात्रादिभिर्विशेष्यते. तदन्तविधिः । रात्राहाहान्तद्वन्द्वतत्पुरुषाः । पुंसी. त्यर्थः। फलितमाह-एतदन्ताविति । परवल्लिङ्गतापवादः । ननु अहोरात्र इति समा. हारद्वन्द्वे 'स नपंसकम्' इति नपुंसकत्वप्रसङ्गः । नव नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम् , 'पुरस्तादपवादाः अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इत. रेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति । अयमिति । पुंस्त्वावधि. रिति शेषः । अहोरात्र इति । अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वानपुंसकत्वम् , अपवादत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । 'अहस्सर्वकदेश' इत्यच् । पूर्वाह्न इति । अह्न पूर्वमित्येकदेशिसमासः। 'राजाहस्सखिभ्यः' इति टच । 'अहोऽह्नः' इत्यहादेशः । परवल्लिङ्ग नपुंसकं च बाधित्वा पुंस्त्वम् । द्वयह इति । द्वयोरहोस्समाहार इति विग्रहे द्विगुः, टच , न सङ्ख्यादेस्समाहारे' इत्यह्लादेशनिषेधः। परवल्लिङ्ग बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभा. वान स्त्रीत्वम् , समासान्तस्य समासमक्तत्वात्। सङ्ख्यापूर्वम् । लिङ्गानुशासनसूत्रमिदम् । न त्वष्टाध्यायीस्थं सूत्रम् , नापि वार्तिकम् , भाष्ये अदर्शनात् । 'रात्रा. हाहाः पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः । 'अहस्स.कदेश' इत्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवतु' इति सङ्ख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् ।
अपथं नपुंसकम् । न पन्थाः इति विग्रहे नन्समासो नसो नस्य लोपे 'अक्पू: इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवति । 'परवल्लिङ्गम्' इत्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वमहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः । अपन्थाः इति । 'पथो विभाषा' इति समासान्तविकल्पः । 'पथः सङ्ख्याव्ययादेः' इति वक्ष्यमाणबार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धर्चाः। बहुवचनात्तदादीनां ग्रहणमित्याह-अर्धर्चादय इति। अर्ध चमिति । अचोर्धमिति विग्रहे 'अर्ध नपुंसकम्' इति समासः । 'ऋ' इति अच् । परव.
For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
रमण्डपीयूषदेहाङ्कुशकलशेत्यादि । (८१७) जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् १।२।। एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याःब्राह्मणः पूज्यः। (१८) अस्मदो द्वयोश्च १।२।५॥ एकरवे द्वित्वे च विव. क्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे, अहं ब्रवीमि, आवो ब्रूव इति वा । 'सविशेषणस्य प्रतिषेधः' ( वा ७२१)। पटुरहं ब्रवीमि । (१) फल्गु. नीप्रोष्ठपदानां च नक्षत्रे १।२६० ॥ द्वित्वे बहुत्वप्रयुक्तं कार्य वा स्यात् । पूर्वे फल्गुन्यौ-पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् । फल्गुन्यौ माणविके । (२०) तिप्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विव. चनं नित्यम् ।२।६३॥ बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनवंसू । तिव्येति किम् । विखाशानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माण. वकाः । (२१) स नपुंसकम् २।४।१७॥ समाहारे द्विगुईन्द्रश्च नपुंसकं स्यात् ।
ल्लिङ्ग स्त्रीत्वं बाधित्वा पुन्नपुंसकत्वविकल्पः । आत्याख्यायाम् । आकृत्यधिकरणन्या. येन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः। तथा सति ब्राह्मण भोज्याः इत्यादौ विशेषणोन्न स्यादित्याशङ्कय एकस्मिन्नथें विद्यमानः शब्दः बहनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लम्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्त कार्य लभत इत्यर्थः । अस्मदो द्वयोश्च । सविशेषणस्येति । 'त्वं राजा वयमप्युपासितगुरुप्रज्ञा. भिमानोन्नताः' इत्यत्र तु अवयवगतबहुत्वाभिप्राय बहुवचनम् । फल्गुनी। नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः । तदाहद्वित्वे इति। पूर्व प्रोष्ठपदे इति । स्त्रीत्वादौडशीभावः । प्रोष्ठपदा भाद्रपदा खियाम्। इत्यमरः । फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण । 'लुबविशेषे इति लुप् । ततो जाताथै ‘फल्गुन्यषाढाभ्यां टानौ' इति । टित्त्वात् डीप ।
तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे च अनुराधाचेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्यशब्दात् पुनर्वसुशब्दाच 'नक्षत्रेण युक्तः' इत्यम् । 'लुबविशेषे' इति लुप् । ततो जाताथें सन्धिवेलायण । 'श्रविष्टाफ. ल्गुनी' इत्यादिना लुक् । जात्याख्यायामित्यादिचतुस्सूच्या अत्र सङ्गतिश्चिन्त्या। स नपुंसकम् । द्विगुरेकवचनम्' इति द्विगुः 'द्वन्द्वश्च प्राणि' इति द्वन्द्वश्व तच्छब्देन परामृश्यते । तौ च समाहारावेव विवक्षितो, व्याख्यानात् । तदाह-समाहारे इति ।
For Private and Personal Use Only
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वा १५५६ )। पञ्चमुली। 'आवन्तो वा' (वा १५५५ ) पश्चखट्वम्पञ्चखट्वी । 'अनो नलोपश्च, वा द्विगुः स्त्रियाम्' (वा १५५८) पञ्चतक्षीपञ्चतक्षम् । 'पात्राद्यन्तस्य न' ( वा १५५९ ) । पञ्चपात्रम् । त्रिभुवनम् । चतु. युगम् । 'पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा १५५३ ) पुण्याहम् । सुदिना. हम् । 'पथः सङ्ख्याव्ययादेः' ( वा १५५४) सङ्ख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीवमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विप. पञ्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च ओष्ठौ चेति विग्रहः । 'द्वन्द्वश्च प्राणि' इति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तम् उत्तरपदं यस्येति विग्रहः । 'स नपुंसकम्' इत्यस्यापवादः । पन्चमूलीति । समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः इति ली। श्रावन्तो वेति। स्त्रियां वेति वक्तव्यमित्यर्थः। पचखट वमिति । समाहारद्विगुः । नपुंसकत्वे हस्वः। पञ्चखट्वीति । उपसर्जनहस्वत्वे अदन्तत्वात् , 'द्विगोः' इति ङीप् । अनो नलोपश्चेति । अन इत्यावर्तते । एक प्रथमया विपरिगत द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात् , अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं स्त्रियामित्यत्रैव सम्बध्यते, न तु नलोपेऽपि । तेन स्त्रीत्वा. भावेऽपि नलोपः । पन्चतक्षीति । पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं, नलोपः, 'द्विगोः इति डीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाभावपक्षे 'स नपुंसकम्' इति नपुंसकत्वं, नलोप इति भावः। न चान्तवातनी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् 'नलोपः प्रातिपदिक' इत्यनेन नलोपो भविष्यतीति वाच्यम् , 'उत्तरपदत्वे च' इति प्रत्ययलक्षणनिषेधात् । __ पात्राद्यन्तस्य नैति । पात्रादिर्गणः। तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम् , त्रिभुवनम् , चतुर्युगमिति । स्त्रोत्वाभावे 'स नपुंसकम्। इति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परः यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । 'शवाह्न' इत्यस्यापवादः । पुण्याहमिति । पुण्यम् अहरिति कर्मधारयः, 'राजाहः इति टच, टिलोपः । 'उत्तमैकाभ्यां च' इति अह्नादेशनिषेधः । सुदिनाहमिति । सुदिनम् अहरिति कर्मधारयः, टच् , टिलोपः, प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम् । पथः सङ्ख्याव्ययादेरिति । नपुंसकत्वं वक्त. व्यमिति शेषः । सङ्ख्याव्ययेति समाहारद्वन्द्वः। सङ्ख्याव्ययमादिरिति कर्मधा. रयः, दिग्योगे पञ्चमी, पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा। सदाह-सङ्ख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋकपः' इति अप्र.
बा०३६
For Private and Personal Use Only
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
सिद्धान्तकौमुदी
. [ तत्पुरुषसमास
थम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः, अतिपन्थाः। 'सामान्ये नपुंसकम्' (वा ५०४३ )। मृदु पचति । प्रातः कमनीयम् । (२२) तत्पुरुषोऽनक. मधारयः २।४।१६॥ अधिकारोऽयम् । (२३) संज्ञायां कन्थोशीनरेषु २। ४॥२०॥ कन्थान्तस्तत्पुरुषः वलीवं स्यात् , सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा। सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्यम् । संज्ञायाम् किम्। वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था। (२४) उपशोपक्रमं तदाद्या. विख्यासायाम् २।४।२१॥ उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् , त्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे' इति समासः। सुपन्थाः, अतिपन्थाः इति । 'स्वती पूजायाम् इति समासः । 'न पूजनात्' इति समासान्तनि. षेधः । आवश्यकत्वादनेन सिद्धे 'अपथं नपुंसकम्' इति न कार्यम् ।
सामान्ये नपुंसकमिति । न्यायसिद्धमेतत् , विशेष्यविशेषणसन्निधाने सति, स्त्रीत्व. पुंस्त्वयोरनभिव्यक्ती 'उभयोरन्तरं यच्च तदभावे नपुंसकम् ।' इति लक्षणलक्षितनपुं. सकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन' इति सूत्रभाष्ये एकश्रुतिः स्वरसर्वः नाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेहि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथाच मृदु पाकं करोतीत्यर्थः । तथाव धातूपात्तव्यापार प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्यात् मृद्विति द्वितीया । यत्र तु धात्व. र्थः करणत्वेनान्वेति 'यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्ग कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृयीयान्तत्वमेव 'ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादावि. त्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्ययस्य विशेष्यस्यालिङ्गत्वात् तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावात् नपुंसकत्वमेवेति भावः । इदं चानियतलिङ्गाविषयम् । तेन आदि पचति प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात्। ___ तत्पुरुषोऽनञ्। नसमासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्य. थः । तदाह-अधिकारोऽयमिति । 'परवल्लिङ्गम्' इत्यतः प्रागिति शेषः । संज्ञायां कन्यो । सुगममेव । उपज्ञा । उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा । 'स्त्रियां क्तिन्' इत्यधि. कारे 'आतश्योपसर्गे' इति कर्मण्य । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । तत्पु. रुषः इत्यस्य विशेषणमिदम् , तदन्तविधिः, 'स नपुंसकम्' इत्यतो नपुंसकमित्यनुवतते । तदाह-उपशान्तः उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ। आदि
For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
तयोरुप ज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः । (८६५) छाया बाहुल्ये २|४| २२ | छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्यै । इण छाया इक्षुच्छायम् । 'विभाषा सेना' - ( सू ८२८ ) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादि - न्यः' इति तु 'आ समन्तान्निषादिन्यः' इत्याश्लेषो बोध्यः । (८२६) सभाराजाऽमनुष्यपूर्वा २|४|२३|| राजपर्यायपूर्वोऽमनुष्य पूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इमसभम् । ईश्वरसभम् । 'पर्यायस्यैवेष्यते ' ( वा ५१९ ) नेह, राजसभा, चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षस्स. भम्, पिशाचसभम् । (६२७) अशाला च २|४|२४|| सङ्घातार्था या सभा
५६३
1
शब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवक्षायामिति यावत् । तदाह - तयोरादिरित्यादि । पाणिनेरु • पज्ञेति । कर्तरि षष्ठी । पाणिन्युपशं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमानं इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । नन्देनारम्यमाण इत्यर्थः । कर्तरि षष्ठ्याः समासः । छाया बाहुल्ये । छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमभिप्रेत्याह - छायान्त इति । पूर्वपदार्थेति । कस्य बाहुये इत्याकाङ्क्षायाम् आपादकद्रव्यनिमित्तवत्वात् छायाया: । तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् । कुड्यस्य
1
छाया कुडयच्छाया ।
सभा । राजा च अमनुष्यश्च राजामनुष्यौ, तौ पूर्वौ यस्याः सा राजामनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह - राजपर्यायपूर्व इति । इनसभम्, ईश्वरसभमिति । इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणं दर्शयति- पर्यायस्यैवेष्यत इति । भाष्यकृतेति शेषः । 'स्वं रूपम्' इति सूत्रे 'जित्पर्यायवचनस्यैव राजाद्यर्थम्' इति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसमेति । चन्द्रगुप्त इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वात् देवसभेत्यादावपि स्यादित्यत आह- श्रमनुष्यशब्दो रूढयेति । असुरशब्दो दैत्यानिवेति भावः । अशाला च । अशालार्थ केत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजा मनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् सम्प्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह--सङ्घातार्था या
For Private and Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसचात इत्यर्थः । अशाला किम् ? धर्मसभा धर्मशालेत्यर्थः । (२८) विभाषा सेनासुराच्छायाशालानिशा. नाम् २।४।२५॥ एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम्-ब्राह्मणसेना । यवसुरम्-यवसुरा। कुडयच्छायम्-कुडयच्छाया। गोशालम्-गोशाला । शिवनि. शम्-श्वनिशा । 'तत्पुरुषोऽनष्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढ. सेनो राजा । असेना । परमसेना।
॥ इति तत्पुरुषसमासप्रकरणम् ॥
अथ बहुव्रीहिसमासप्रकरणम् ॥ १९ ॥ (२) शेषो बहुव्रीहिः २।२।२३ अधिकारोऽयम् । 'द्वितीया त्रित'(सू ६८३) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्त. समेति । सभाशब्द इत्यर्थः । विभाषा सेना। प्रथमार्थे षष्ठी। तत्पुरुष इत्यनुवृत्तं सेना. दिभिर्विशेष्यते । तदन्तविधिः । तदाह-एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः । 'शुनश्चतुर्दश्यामुपवसतः पश्यामः' इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावात् न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नसमासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वात् न क्लीबत्वम् । 'तत्पुरुषो. ऽनकर्मधारयः' इत्यधिकारस्य अत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां तत्पुरुषसमासप्रकरणम् ॥
शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तरित्यर्थः । ननु 'द्वितीया श्रित' इति 'तृतीया तत्कृत' इति 'चतुर्थी तदर्थः इति 'पञ्चमी भयेन' इति षष्ठी' इति 'सप्तमी शौण्डै: इति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः। विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह-विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तो प्रवृत्तावपि प्रथमाविभक्ति विशिष्य उच्चार्य विधानाभावात् समासविधिषु विशिष्यनिर्दिष्टद्वितीयादिविभक्तिषटकापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह-प्रथमान्तमित्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।
For Private and Personal Use Only
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९
बालमनोरमासहिता।
५६५
मित्यर्थः । (३०) मनेकमन्यपदार्थे २२२॥२४॥ अनेक प्रथमान्तमन्यपदार्थे वतमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधि. करणानामिति च फलितम् । प्राप्तमुदकं यं सः प्राप्तोदको ग्रामः । ऊढरथोऽनड्वा. न् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः। वीरपुरुषको प्रा. मः । प्रथमाथे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिभुक्तमस्य ।
अनेकमन्यपदार्थे । प्रथमान्तमिति । शेषग्रहणानुवृत्तिलभ्यमिदम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाभावात् । अनेक सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्तत्यर्थः । एवञ्च पञ्चभिर्मुक्तमन्नं यस्य सः पञ्चभुक्तः इति बहुव्रीहिनिवृत्त्यर्थं 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वातिक यदाष्ये स्थितं, यच्च वृष्टे देवे यो गतः सः वृष्टदेव इति बहुव्रीहिनिवृत्यर्थे 'अप्रथमा. विभक्त्यर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिक, तदुभयमपि न कर्तव्यमित्याह-अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितमिति। शेषग्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिर्भुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्याप्रथमान्तत्वान्न बहुवीहिरिति फलितम् । प्रथमान्ताति. रिक्तस्य पदल्यार्थे वर्तमान समस्यते इत्यर्थाश्रयणावृष्टे देवे गतः इत्यत्रापि न बहुवीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति-प्राप्तमिति । 'गत्यर्थाकर्मक' इति कतरिक्तः । अत्र विग्रहवाक्ये प्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतः ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषण. तया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति-ऊढरथोऽनडवानिति । ऊढो रथो येनेनि विग्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति-उपहृतपशू रुद्र इति। उपहृतः पशुः यस्मै इति वि. ग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति-उद्धृतोदना स्थालीति। उद्धृतः ओदनः यस्या इति बहुव्रीहिः । अथ षष्ठयर्थबहुव्रीहिमुदाहरति-पीताम्बरो हरिरिति। पीतम. म्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति-वीरपुरुषको ग्राम इति । वीराः पुरुषाः यस्मिन्निति विग्रहः । शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समा. सेनाभिहितत्वात् प्रथमैव । प्रथमार्थे तु नैति । अन्यपदार्थशब्देन प्रथमान्तातिरिक्त. द्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः। व्यधिकरणानामपि नेति । अनेकं प्रथमान्तमित्युक्तेरिति भावः।
For Private and Personal Use Only
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૫૬
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः ( १३६० ) प्रपतितपर्णः प्रपणः । 'नमोsस्स्यर्थानt वाच्यो वा चोत्तरपदलोपः' ( वा १३६१) अविद्यमानपुत्रः अपुत्रः । [ 'अव्ययानां च ' उच्चैर्मुखः । 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च । सप्तम्यन्तम् उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समासः उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्थः कालः यस्य सः कण्ठेकालः । उष्ट्रमुखमिव मुखं यस्य सः उष्ट्रसुखः । 'सङ्घातविकारषष्टयाश्चोत्तरपदलोपश्च । केशानां सङ्घातश्चूडा
C
प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रथमान्तं तस्य अन्येन प्रथमान्तेन बहुवीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विक.. -ल्पेन वाच्य इत्यर्थः । अत्र बहुव्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं प्रपतितम् । 'प्रादयो गताद्यर्थे' इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नञोऽस्त्य - र्थानां । नञः परेषामस्त्यर्थवाचिनां सुबन्तानां बहुवीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । श्रविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति । अस्त्यर्थक विद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुवीहिरित्यनुवादः । श्रव्ययानां चेति । बहुव्रीहिर्वाच्य इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् ।
1
"
सप्तभ्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम् तस्य समस्तपदस्य पदान्तरेण बहुबीहिर्वाच्यः । समस्तपदा -' त्मके पूर्व पदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहित समस्तपूर्वपदकं बहुव्रीहिमुदाहरति-- कण्ठेस्थः कालो यस्य सः कण्ठे काल इति । 'सुपि स्थः' इति कः । कण्ठे तिष्ठतीति कण्ठेस्थः । उपपदसमासः । 'अमूर्धमस्तकात्' इति सप्तम्या अलुक् । कण्ठेस्थ इति समस्तपदम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । तत्र कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तर'पदं स्येत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाल इति सप्तम्यन्तपदघटितसमासगर्भा बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्' इत्यलुक्। अथ उपमानसहितसमस्त पूर्वपदकं बहुव्रीहिमुदाहरति-उष्ट्रमुखमिव मुखं यस्य सः उष्टमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहे बहुब्रीहिरित्यनुवादः । तत्र उष्ट्रसुखेस्येतद्बहुव्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातवि
For Private and Personal Use Only
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६७
-
यस्य सः केशचूढः । सुवर्णस्य विकारः अलङ्कारो यस्य सः सुवर्णालङ्कारः । 'अस्तिक्षीरादयश्च' ] । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः । (३१) स्त्रियाः वद्भाषितपुंस्कादनूङ समानाधिकरणे स्त्रियामपूरणीप्रिया. दिषु ६।३।३४॥ भाषितपुंस्कादनू ऊडोऽभावोऽस्यामिति बहुव्रोहिः । निपातना पञ्चम्या अलुक् षष्ठयाश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्परं ऊछोऽभावो यत्र तथाभूतस्य स्त्रीवाचकस्य शब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिक
कारषष्ठयाश्चोत्तरपदलोपश्चेति । षष्ठयन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठयन्तादुत्तरपदस्य लोपश्च । केशानां सङ्घातश्चूडा यस्य सः केशचूड इति । सतात. शब्दस्य लोपे रूपम् । सुवर्णस्य विकार उलङ्कारः यस्य सः सुवर्णालङ्कार इति । अत्र विकार. शब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहा. वुपसङख्येया इत्यर्थः। अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमावि. भक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं वचनम्। वस्तुतस्तु वचनमिदं नारब्धव्य. मित्याह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति। विभक्तिप्रतिरूपकत्वेन निपातितत्वा. दस्तीति 'स्वरादिनिपातमव्ययामित्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादा. प्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव ।सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदु भाष्ये-'अस्तिक्षीरादिवचनं न वाव्ययत्वात्' इति ।।
स्त्रियाः पंवत् । भाषितपुंस्कादनूडिति समस्तमेकपदं स्त्रिया इति षष्ठयन्तस्य विशे. षणमित्यभिप्रेत्य व्याचष्टे-भाषितपुंस्कादिति । अनूडित्यस्य व्याख्यानम् - ऊङोsभाव इति । अर्थाभावेऽव्ययीभावः, नस्तत्पुरुषो वा। भाषितपुंस्कादिति दिग्योगे पञ्चमी। पर इति प्रथमान्तमध्याहार्यम् । तथाच भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या लुप्रसङ्ग इत्यत आहनिपातनात् पञ्चम्या अलुगिति। इदमुपलक्षणम् । निपातनात् अप्रथमान्तस्यापि बहुव्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा, अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमो। नन्वेवमपि स्त्रिया इति षष्ठयन्तस्य 'भाषितपुंस्काइन। इति यदि विशेषणं स्यात्, तर्हि भाषितपुंस्काइनूड इति षष्ठी श्रूयेतेत्यत आहे'षष्ठयाश्च लुगिति । निपातनादित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कम् तदस्यास्तीति अर्शआद्य । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । तृतो. यादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह-तुल्ये प्रवृत्तिनिमित्त इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः। स्त्रिया इति षष्ठयन्तं न स्त्रोप्रत्ययपरमिति भावः । पुवदिति रूपातिदेशः पुंस इव पुंवदिति षष्ठयन्ताद्वतिः। तदाह-पुत्राचकस्येव
For Private and Personal Use Only
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
रणे स्त्रीलिङ्गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः । ' गोत्रियोः - ( सू ६५६ ) इति ह्रस्वः । चित्रा गावो यस्यैति लौकिकविग्रहे 'चित्रा अस् गो अस्' इत्यलौकिकविप्रहे चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् - चित्राजरतीगुः - जरतीचित्रागुर्वा । ए दीर्घातन्वी
रूपमिति । स्त्रियामिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच्च 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह - स्त्रीलिङ्गे उत्तरपदे इति । अपूरणीप्रियादिष्वित्येतद्वयाचष्टे - - न तु पूरण्यां प्रिथादौ तु परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति किम् कुटीभार्यः । अत्र पुंवत्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् । स्त्रीप्रत्ययः पुंवत्स्यादित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य सः पटुभार्यः इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिनू' इति स्थानिवत्त्वादुकारस्य यण् स्यात् ।
1
"
1
ह्रस्व इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य 'गोखियोः इत्युकारो हस्व इत्यर्थः । ननु चित्रा गाव इति लौकिकसमा. साभ्युपगमे सुपो लुकः प्राक् चित्रा अस् इत्यत्र पूर्वसवर्णदीर्घे गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन आसो लुकि चित्रशब्दे अकारो न श्रूयेत चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाभावाल्लुक् न स्यादित्यत आह- चित्रा अस् इति । गोशब्दस्य स्त्रीलिङ्गत्वात् तद्विशेषण. त्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । ' प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्घात् सुब्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ हस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्यं इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनह्रस्वः । रूपवतीशब्दस्य पुंवत्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप् सुपा' इत्येकस्वस्य विवक्षितत्वादित्यत आह-- श्रनैकोक्तेरिति । शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थं संज्ञाविज्ञानात् । ततवार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणात् द्विबहूनां प्रथमान्तानां बहुवीहिरिति
स्पष्टमिति भावः । श्रत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति । गां प्रति चित्रात्वस्य जरतीत्वस्य च विशेषणत्वाविशेषात् अन्यतरस्य 'सप्तमीविशेषणे बहव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घे तन्व्यौ जङ्घे
For Private and Personal Use Only
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६६
जयः-तन्वीदीर्घाजयः । त्रिपदे बहुव्रीही प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समा. सस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्तिः । वस्तु. तस्तु नेह पूर्वपदमाक्षिप्यते । 'आनङ् ऋतः'-(सू ९२१) इत्यत्र यथा । तेनो. पान्त्यस्य पुंवदेव । चित्राजरद्गुः । इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति
वस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः धुंवत्त्वमाशङ्याह-त्रिपदे इति । उत्तर. पदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधाना. दित्यर्थः । ननु तर्हि मध्यमपदस्य पुंवत्त्वं दुर्वारम् , उत्तरपदपरकत्वसत्त्वादित्यत आह-द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपाललभ्यते । समासप्रथमावयवपदमेव पूर्वपदम् । न तु मध्यमावयवपदमपीति भावः । ननु म. ध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तर. पदत्वमस्तीत्यत आह-उत्तरपदशब्दो हीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवं प्रकारेण केचिद्वदन्तीत्यन्वयः ।
तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति (वत्त्वमिति युज्यते, उत्तरपदपरकत्वा. भावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम् , 'स्त्रियाः पुंवत्' इत्यन' तु पूर्वपदस्याश्रवणात् अनुवृत्त्यभावाच्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्त्व. मित्यर्थात् गम्यत इति वक्तव्यम् । तदपि न सम्भवतात्यत आह-नेह पूर्वपदमाक्षि. प्यत इति । इह 'स्त्रियाः पुंवत्' इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिण्यते, नार्थाद्गम्यत इत्यर्थः । कुत इत्यत आह-आनत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वे होतृपोतनेष्टोद्गातारः' इत्युपान्त्यस्य नेष्टुरानडुदाहृतः 'समर्थः पदविधिः' इत्यत्र भाष्ये। तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावात् मानङ् नोपपद्येत । तस्मानावश्यं उत्तरपदे विहितं कार्य पूर्वपदस्यैवेति नियम इत्यर्थः । तेनैति । पूर्वपदानाक्षेपेणेत्यर्थः। उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवतिनः मध्यमस्येत्यर्थः । पंवदेवेति । रूपमिति शेषः । तदेव दर्शयति-चित्राजरद्गुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम् । मध्यमेन व्यवधानात् उतरपदपरकत्वाभावाच्चेति भावः । इत्यादीति । जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घातनुजङ्घः ।
ननु 'आनकृतः' इत्यत्र 'होतृपोतनेष्टोद्रातारः' इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्' इति सूत्रे तदनाक्षेपे कि प्रमाणमित्यत आह-अत
For Private and Personal Use Only
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
yo
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्वीकः । स्त्रियाः किम् । प्रामणि कुलं दृष्ठिरस्य प्रामाणिष्टिः । भाषितपुंस्कात् । किम् । गङ्गाभार्यः । अनूङ् किम् । वा. मोरूभायः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता। स्त्रियाम्
एवेति । 'स्त्रियाः पुंवत्' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरदगुरि. त्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि चित्राजरदगुरितीत्यनन्तरं ।प्रयोगमिति शेषः । भाष्यमित्यस्य पटवीमृदुभार्यः इति प्रकृतसूत्रस्थभाष्यमित्यर्थः। सूचयः तीति शेषः । 'स्त्रियाः पुंवत्' इति प्रकृतसूत्रभाष्ये हि पट्ट्यौ मृदयौ हि भायें यस्येति द्वन्द्वगर्भबहुव्रीहौ पद्वी मृदुभायः इत्युदाहृतम् । वत्र पद्वी मृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्वम् , द्वन्द्वस्य परवल्लिङ्गतानिय. मात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुवत्त्वम् । मध्यमपदेन व्यवधानादु. त्तरपदपरकत्वाभावात् । मध्यमपदस्यानुत्तरपदत्वादसामानाधिकरणत्वाच्च न तस्मि. न्परे पुंवत्त्वसम्भवः । मृद्वीशब्दस्य तु केवलस्य भाषितपुंस्कत्वात् उत्तरपदपरकत्वाच पुंवत्त्वमिति तदाशयः । 'स्त्रियाः पुंवत्' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वा. भावेन पुंवत्त्वाप्रवृत्तः तदलङ्गतिः स्पष्टव । ततश्व पटवीमृदभार्य इति भाष्यं चित्रा. जरदूगुरिति प्रयोगं गमयतीत्यर्थः। कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधा. रयः । पुवकर्मधारय' इति जरतीशब्दस्य पुंवत्त्वात् डीपो निवृत्तिः । ततश्च जर. चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्य स्त्रियाः पुंवत्' इति पुंवत्त्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती चासो गौश्चेति कर्मधारये 'गोरतद्धितलुकि' इति टचि अवादेशे 'पुंवत्कर्मधारयः इति जर. तोशब्दस्य पुंवत्त्वे डीपो निवृत्तौ टित्त्वात् डीपि जरद्वीशब्दः । ततश्चित्रा जरदवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ 'नवृतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्त्वे चित्रजरगवीक इति रूपमित्यर्थः ।
स्त्रियाः किमिति । षष्ठयन्तस्य प्रश्नः । ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिरिति । ग्राम. णीशब्दस्य नपुंसकत्वे 'हस्वो नपुंसके' इति हस्ते ग्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकत्वस्फोरणार्थः। दृष्टिशब्देन नेवस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकहस्वनिवृत्तौ ग्रामणीकुल. मिति स्यादिति भावः। गाभार्य इति । अत्र गङ्गाशब्दस्य नित्यत्रीलिङ्गतया भाषितपुंस्कत्वाभावात् न पुंवत्त्वमिति भावः । वामोरुमार्य इति । वामौ सुन्दरी
For Private and Personal Use Only
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५७१
NvM
किम् । कल्याणी प्रधानं यस्य सः कल्याणीप्रधानः । पूरण्यां तु । (३२) अप्पू. रणीप्रमाण्योः ५।४।११६॥ पूरणार्थप्रत्ययान्तं यत्स्त्रोलिङ्गं तदन्तात्प्रमाण्यन्ताच बहुबोहेरप् स्यात् । कल्याणी पञ्चमी यासा रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य सः स्त्रीप्रमाणः : 'पुंवद्भावप्रतिषेधोऽप्रत्ययश्च प्रधानपूरण्यामेव'
उरू यस्या इति बहुवीहिः । 'संहितशफलक्षणवामादेश्व' इत्यूछ। तदन्तस्य पुंवर ऊडो निवृत्तौ वाभोरभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः।' स्त्रियां किमिति । सतम्यन्तस्य प्रश्नः । कल्याणी प्रधानं यस्य सः कल्याणीप्रधान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्वं नेति भावः।
पूरण्या स्विति । पुंवत्त्वनिषेधोदाहरणे विशेषो वक्ष्यत इति शेषः। अप्पूरणी । अबि. ति छेदः । 'बहुव्रीही सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात् पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्यते। तदाह-पूरणार्थेत्यादिना । अप् स्यादिति । समासान्तस्तद्धित इत्यपि बोध्यम् । पञ्चमीति । पञ्चानां पूरणीत्यर्थः । तस्य पूरणे डट्! 'नान्तादसङ्ख्यादेः' इति तस्य मडा. गमः। टित्वात् ङीप् । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीही कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः, अप् , सामासान्तस्तद्धितः, टाप् , 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा न वा। नाद्यः, तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः, पञ्चम्या रात्रेरन्य. पदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमी रात्रि विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्थासङ्गत्यापादनादिति चेत् , सत्यम् -पञ्चानां रात्रीणाम् उद्भतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्या. न्यपदार्थत्वं न विरुध्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनं तु अवयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसभ्ज्ञासूत्रे प्रपञ्चितम् ।
अथ प्रमाण्यन्तादविधेरुदाहरणमाह-स्त्री प्रमाणी यस्य सः स्त्रीप्रमाण इति । प्रमा. शब्दोऽत्र करणल्युडन्तः, विशेष्यनिघ्नः, टित्त्वात् डी । बहुव्रीहौ सति अप्प्रत्यये 'यस्येति च' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति । 'स्त्रियाः पुंवत्' इति सूत्रे 'अप्पूरणी' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीप. अमाः रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यं, बहुव्रीहे.
For Private and Personal Use Only
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५७२
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
( वा ३३५९ - ३९१०) रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु । ( ८३३) नघृतश्च ५|४|१५३॥ नद्युत्तरपदादृदन्तोत्तरपदाच बहुव्रीहेः कप्स्यात् । पुंवद्भावः । (८३४) केऽणः ७|४|१३|| के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते (८३५) न कपि ७|४|१४|| कपि परे अणो हस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अन्न तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया मनोज्ञा कल्याणी
रन्यपदार्थप्रधानत्वादित्यत आह-रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति । कल्याणीपञ्चमाः रात्रय इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थ समुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्घटकतया यथा प्रथमा
तो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यमिति भावः । अन्यत्र विति । कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावात् अप्राधा न्यादप्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः ।
नघृतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्य तो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यद्भयां विशे. ष्यते । तदन्तविधिः । ' उरःप्रभृतिभ्यः' इत्यतः कबित्यनुवर्तते । तदाह - नद्युत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथाच कल्याणीपञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कबिति भावः । नयन्तात् बहुवीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्याने तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्याः रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः । ह्रस्वः स्यादिति । 'शृदृप्राम्' इत्यतस्तदनुवृत्तेरिति भावः । न कपि । अणो ह्रस्व इति । ‘केऽणः' इत्यतः 'शूदुपाम्' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः कः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यं दुर्वारमित्यत आह-अत्र तिरोहितेति । रात्रेः तत्प्रवेशाभावात् अप्रधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति- बहुकर्तृक इति । बहवः कर्तारो यस्येति विग्रहः ।
I
1
तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनि
For Private and Personal Use Only
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता।
५७३
-
सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया। 'सामान्ये नपुंसकम्' दृढं भक्तिर्यस्य सः दृढभक्तिः। स्त्रीत्वविव. क्षायां तु दृढाभक्तिः। (३६) तसिलादिष्वाकृत्वसुचः ६॥३॥३५॥ तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्याप्त्यतिव्याप्तिपरिहाराय । 'तसौ' ( वा ३९१८ )। 'तरप्ततमपौ' (वा ३९१९)। 'चरट्जातीयरौ' (वा ३९२० )। 'कल्पन्देशीयरौ' ( वा ३९२१)। 'रूप. प्पाशपोः ( वा ३९२२ )। 'थाल्' (वा ३९२३) । 'तिल्थ्यनौ' (वा ३९२५)। बहीषु बहुत्र । बहुतः । दर्शनीयतरा दर्शनीयतमा। 'घरूप'-(सू षेधस्य प्रयोजनं पृच्छति-प्रप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः। प्रियादिगणं पठति-प्रिया मनोशेत्यादि । ननु भक्तिशब्दस्य प्रिया. दिषु पाठे दृढा भक्तिर्यस्य सः दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह-सामान्ये नपुंसकमिति । आश्रित्येति शेषः। दृढ़मिति । पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः। ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंस. कत्वं नापैति, लिङ्गविशेषस्याविवक्षितत्वात् , वेदाः प्रमाणमितिवत्। अत्र चार्थे पस्पशाह्निकभाष्ये 'शक्यं च अनेनाश्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह-स्त्रीत्वविवक्षायां विति । वाक्यसंस्कारपक्षाविशेष्यानुसारेण स्त्रीत्वप्रतीतेनियमादिति भावः । तसिला. दिष्वाकृत्वसुचः। स्त्रियाः पुंवत्' इत्यनुवर्तते । आ कृत्वसुच इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः। तदाह-तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल' इत्यारभ्य 'सहन्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रिया वदित्यप्राप्तौ वचनमिदम् ।।
ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पागत् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुशः इत्यत्र पुंवत्त्वं न स्यादित्यव्याप्तिः । ईषदसमासौ कल्पब्देश्यदेशीयरः' इति देश्यस्य षष्ट्या रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयोः परतः पट्वीदेश्येत्यत्र च शुभ्रारूप्येत्यत्र च पुंवत्वं स्यादित्यतिव्याप्ति. रित्यत आह-परिगणनमिति । अव्याप्त्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिरव्यामिः । अनिष्टस्थले प्रवृत्तिः अतिव्याप्तिः। परिगणनप्रकारमाह-वंतसावित्यादिना। बह्वीषु बहुत्रेति । बह्वीवित्यर्थे बह्वीशब्दात् 'सप्तम्यास्त्रल्' इति अलि पुंवत्त्वे डोषो नि. वृत्ता बहुत्रेति रूपमित्यर्थः । बहुत इति । 'पञ्चम्यास्तसिल्' इति बह्वीशब्दात् तसिल्, पुंवत्त्वात् ङीषो निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीये.
For Private and Personal Use Only
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७४
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
९८५) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पवितरा । पवितमा । पटुचरी । पटुबातीया । दर्शनीयकल्पा । दर्शनीयदेशीया। दर्शनीयरूपा । दर्शनीयपाशा। बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या। 'शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः' ( वा ३९२६.) बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । 'त्वतलोर्गुणवचनस्य (वा ३९२७) शुक्लाया भावः शुक्लत्वम् ,
-
त्यर्थे दर्शनीयाशब्दात् द्विवचनविभज्योपपदे तरप' इति तरप्। पुंवत्त्वे टापो निवृ. त्तिरिति भावः। दर्शनीयतमेति । मासामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात 'अतिशायेन तमबिष्टनौ' इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पटवी. शब्दात्तरपि तमपि च पट्वीतरा पवीतमा इत्यत्रापि पुंवत्त्वे डीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत माह-घरूपेति। तथा च हस्वेन पुंवत्त्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य हस्वे सति पद्वितरा पवितमेति रूपमित्यर्थः । __ पटुचरीति । पट्वीशब्दात् 'भूतपूर्व चरट्' इति पुंवत्त्व ङीषो निवृत्तिरिति भावः । पूर्व पटवीत्यर्थः । पटुजातीयेति । पट्वीशब्दात् 'प्रकारवचने जातीयर' इति पुंवत्त्वे डोषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ इति दर्शनीयाशब्दात् कल्पप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । षदसमाप्तौ' इति दर्शनीयाशब्दात् देशीयर् पुंवत्त्वे टापो निवृत्ति. रिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपैति । दर्शनीयाशब्दात् 'प्रशंसायां रूपप्', इति रूपपि पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दात् 'याप्ये पाश' पुंवत्त्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्टुं योग्येत्यर्थः । बहुथेति । बह्वीशब्दात् प्रकारवचने थाल् । पुंवत्त्वे डीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति । प्रशंसायामित्यनुवृत्ती 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति वृकीशब्दात् जातिलक्षणडीषन्तात् तिल् । पुवत्त्वे कीषो निवृत्तिरिति भावः । अजथ्येति । 'तस्मै हितम्' इत्यधिकारे 'अजाविभ्यां थ्यन्' इत्यजाशब्दात् थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृक. तिरजथ्या' इत्यत्र 'जातेश्व' इति पुवत्त्वनिषेधो न, परिगणनसामर्थ्यात्। शसीति । शसि परे बह्वर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः । तसावित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बढीभ्य इति । बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति बह्वीशब्दात् शस् । पुंवत्त्वे डीपो निवृत्तिरिति भावः । सम्प्र. दानकारकत्वस्फोरणाय देहीति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः। पुंवत्त्वे टापो निवृत्तिरिति भावः।
For Private and Personal Use Only
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता ।
५७५
शुक्लता । गुणवचनस्य किम् । का भावः। कत्रीत्वम् । 'शरदः कृताता' इत्या. दौ तु सामान्ये नपुंसकम् । 'भस्याढे तद्धिते' (वा ३९२८)। हस्तिनीनो समूहो हास्तिकम् । अढे किम् । रौहिणेयः । 'स्त्रीभ्यो ढक्' (सू ११२३) इति ढोऽत्र गृह्यते। 'अग्ने ढंक' (सू १२३६) इति ढकि तु पुंवदेव । अग्नायी देवता अस्य
त्वतलोरिति । त्वप्रत्यये तलप्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्य. मित्यर्थः । कत्रीत्वमिति । कौशब्दस्य क्रियानिमित्तत्वान्न गुणवचनत्वमिति भावः । 'आकडारात्' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्' इति सूत्रभाष्यस्थं 'सत्त्वे निविशते. ऽपैति' इत्यदि गुणलक्षणं तु नात्र प्रवर्तते। अत एव 'एकतद्धिते च' इति सूत्रभाष्ये एकस्याः भावः एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाभावात् त्वतलोगुणवचनस्य इत्यप्राप्त पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते। सखीत्वमित्यादि तु असाध्येवेति शब्देन्दुशेखर विस्तरः । ननु कृतः अर्थः कृत्यं यया सा कृतार्था, तल्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम्। कृतार्थशब्दस्य समासत्वेन उक्तगुणवचनत्वाभावादिस्यत आह-शरद इति । दृढभक्तिरित्यत्रानुपदोक्तरीत्या कृतः अर्थी येन तत् कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात् तल्प्रत्ययो व्युत्पाद्य इति भावः । भस्याढे ति । ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वं वक्तव्यमि. त्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति । 'तस्य समूहः' इत्यधिकारे 'अचित्तहस्तिधेनोः' इति उक् । ठस्येकः। पुंवत्त्वे सति नान्तलक्षणडीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्वाभावेऽपि 'यस्येति च' इति ईकार: लोपे टिलोपे च हास्तिकमिति सिद्धमिति वाच्यम् । 'यस्य' इति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाभावेन टिलोपानापत्तेः। 'उक्छसोश्च' इति पुंवत्त्वादेव सिद्धिस्त्वनाशङ्कया । छसः साहचर्येण 'भवतष्ठक्छसौ' इति उक एव तत्र ग्रहणात् । रौहिणेय इति । 'वर्णादनुदात्तात्' इति रोहितशब्दात् डीप तकारस्य नका. रश्च । रोहिण्याः अपत्यमित्यर्थे 'स्त्रीम्यो ढक्', एयादेशः 'भस्या इति पुंवत्त्वे डीडनकारयोः निवृत्तिः स्यादिति भावः । गृह्यत इति । व्याख्यानादिति भावः । अग्नायोति । अग्नेः स्त्री अग्नायी। 'वृषाकप्यग्नि' इति डीप। अग्नेरिकारस्य ऐकारादेशः । अग्नायी देवता अस्येत्यर्थे 'अग्नेढंक' इति ढक् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ततो ढस्य ,एयादेशः पुंवत्त्वे सति डीबत्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आग्नेय इति रूपम् । पुंवत्त्वनिषेधे तु आम्नायेय इति स्यादिति भावः । वस्तुतस्तु अग्नित्वं पुंसि प्रवृतिनिमित्त, स्त्रियां तु
For Private and Personal Use Only
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पू७६
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा। शत्रुपर्यायात्सपत्नशब्दाच्छाङ्गरवा. दिस्वान्कोन्येका । समानः पतिर्यस्या इति विप्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिजो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आययोः शिवायण। सपत्न्या अपत्यं सापत्नः। तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तर पदलक्षणो ण्य एव, न त्वम्। शिवादी रूढयोरेव ग्रहणात् । सापत्यः । अग्निसम्बन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । . ___ सपस्नीशब्दस्त्रिधेति । व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति । 'रिपौ वैरिसप. बारिद्विषद्वेषणदुहृदः" इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशेषनिमित्तकमित्यर्थः । 'पतित्वं सप्तमे पदे' इत्यादि. स्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः । 'नित्यं सपत्न्यादिषु' इति निपातनात् सभावः, ङीप, नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिवि. धानादिति भावः । 'पति म धवः इति कोशादिति भावः । आद्ययोरिति । शत्रुपर्याय सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत्न इति । सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण्' इत्यणि आद्यस्य सपत्नीशब्दस्य भाषितपुंस्कतया पुंवत्त्वे डीनो निवृत्तौ सापत्न इति रूपम् । नतु नकारस्यापि निवृत्तिः शत्रुपर्यायसपत्न. शब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वाभावात् , द्वितीयस्य तु सपत्नीशब्दस्य डीब्नत्वाभ्याम् उत्पन्नस्य शिवायणि कृतेभाषितपुंस्कत्वाभावात्, न पुंवत्वम् किन्तुडीपो 'यस्येति च' इति लोपे सापत्न इति रूपम्। सतितु पुंवत्त्वे डीब्नकारयोः निवृत्तौ सापत इति स्यात् । तृतीयास्विति। स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपत्नीशब्दात् पत्युत्तरपदलक्षणो ण्य एवेत्यन्वयः। सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इति ण्य एवेत्य. न्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत आह-लिङ्गविषिष्टपरिभाषयेति । एक्श. ब्दस्य व्यावर्त्यमाह-न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवायण अपवाद इत्यत आह-शिवादौ रूढयोरेवेति । सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विवाहकर्तरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयौगिकः शिवादौ रूढयोरेव ग्रहणम् , नतु केवलयौगिकस्य, योगाढेर्बलत्वादिति भावः। ततः किमित्यत आह-सापत्य इति । स्वामिपर्यायपतिशब्दघटितसपत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्वे सति
For Private and Personal Use Only
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम् १९]
बालमनोरमासहिता।
५७७
'ठक्छसोश्च' (वा ३९२९)। भवत्याश्छात्राः भावत्काः, भवदीयाः । एतद्वार्तिकम् 'एकतद्धिते च' (सू १०००)इति सूत्रं च न कर्तव्यम् । 'सबैनाम्नो वृत्तिमात्रे पुंवद्भावः' इति भाष्यकारेष्टथा गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । 'भत्रैषाजाज्ञाद्वा'-(सू
डीनत्वयोनिवृत्तौ 'यस्येति च इतीकारलोपः । सापत्य इति रूपमित्यर्थः ।
ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्यमिति शेषः । अभत्त्वा. दप्राप्तौ वचनम् । भावत्काः भवदीया इति । 'तस्येदम्' इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ, लिङ्गविशिष्टस्यापि ग्रहणात् । तत्र ठकि इकादेशात्प्राक् ठाव. स्थायामेव पुंवत्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः' इति कादेशः । नच इकादेशे सति भत्वात् 'भप्याढे तद्धिते' इति पुंवत्त्वे कृते इकस्य स्थानिवत्त्वेन ठक्त्वात् 'इसुसुक्तान्तात्' इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम् , इकादेशे कृते हि मथितं पण्यमस्य माथितिकः इत्यत्रेव अल्विधितया स्थानिवत्त्वा. भावेन सन्निपातपरिभाषया कादेशानापत्तः। अतष्ठाग्रहणम् । भवतीशब्दाच्छसि तु 'सिति च' इति पदत्वेन भत्वस्य बाधात् 'भस्याटे' इत्यप्राप्ते पुंवत्त्वे अनेन पुंव. त्वम् । एतदिति । 'ठग्छसोश्च' इति वातिकमित्यर्थः । एक तद्धिते चेति । एकशब्दस्य तद्धिते उत्तरपदे च परे हस्वः स्यादिति तदर्थः । एकस्याः भावः एकत्वं, एकता, एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः। मात्रशब्दः का स्न्ये । 'स्त्रियाः पुंवत्' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्टयेति । भाष्यकारववनेनेति यावत् । इदञ्च 'दक्षिणोत्तराभ्याम्' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्वात् इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् । _ 'सर्वनाम्नो वृत्तिमात्रे' इत्यस्य तद्धितवृत्तौ उदाहरति-सर्वमय इति । सर्वस्या आगत इत्यर्थः । 'तत आगतः' इत्यधिकारे 'मयट च' इति मयट् , 'सर्वनाम्नः' इति पुंवत्वम् , चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधा. तुवृत्तावुदाहरति-सर्वकाम्यतीति । सर्वामात्मने इच्छतीत्यर्थे 'काम्यच्च' इति सर्वा शब्दात् काम्यच् । 'सर्वनाम्नः' इति पुंवत्त्वम् । सनाधन्ताः' इति धातुत्वाल्ल. डादि। मयटकाम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंव. त्वमत्र न स्यादिति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह-सर्वकमार्य इति । समा. सवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अक. प्रत्यये 'प्रत्ययस्थात्' इति इत्त्वे एकिका, तस्या भावः एकिकत्वम् । अत्र पुंवत्त्वे
बा०३७
For Private and Personal Use Only
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
४६६ ) इति लिझात् । तेनाकच्येकशेषवृत्तौ च न । सर्विका । सर्वाः । 'कुक्कुटयादीनामण्डादिषु' ( वा ३९३४ ) कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः । (८३७) क्यङ्मानिनोश्च ६॥३॥३६॥ एत. योः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिमा काञ्चिद्दर्शनीयां मन्यते दर्शनीयमानिनी। दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत । इत्त्वनिमित्तस्य टापो निवृत्तत्वात् पाचिकाशब्दात् जातीयरि पाचकजातीयेतिवत् । हूस्वे सति स्था. निवत्वेन टापः सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वात् 'एक तद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्त्वं स्यादित्यत आह-पूर्वस्यैवेदमिति। वृत्तिप्रविष्टानेकभागानां मध्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति । 'भस्त्रैषा' इति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानम् , अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्त्वनियमादिति भावः । अचि तद्धितवृत्तावुदाहरति-सर्विकेति । सर्वाशब्दात् साकच्काहापि 'प्रत्ययस्थात' इति इत्त्वे पुंवत्त्वे टाबित्त्वयोः निवृत्तिः स्यादिति भावः । एकशेषवृत्ता. वुदाहरति-सर्वा इति । टाषन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः ।
कुक्कुट्यादीनामण्डादिष्विति । पुंवत्त्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थ. मिदमिति सूचयन् षष्ठीसमासमुदाहरति-कुक्कुट्या अण्डं कुक्कुटाण्डमिति । वत्त्वेन जातिलक्षणडीषो निवृत्तिरिति भावः। एवमग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः।' इत्यमरः । क्यङमानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनीवेति । एता चित्रवर्णा । 'चित्रं किर्मीरकल्माषशबलेताश्च कर्बुरे ।' इत्यमरः । एतशब्दः श्वेतपर्याय इति याज्ञिकाः। 'वर्णादनुदात्तात्' इति की नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमाने 'कर्तुः क्यछ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्त्वे डीनत्वयोनिवृत्ती, 'अकृत्सावधातुकयोः' इति दीघे एतायते इति रूपमिति भावः। श्येनीवेति । श्येतशब्दः श्वेतपर्यायः। 'शुक्लशुभ्रशुचिश्वेतविशद. श्येतपाण्डुराः।' इति अमरः । क्यादि पूर्ववत् । ननु 'स्त्रियाः पुंवत्' इत्येव मानिनीत्युत्तरपदेोपरतः पुंवत्त्वसिद्धः मानिन्ग्रहणं किमर्थमित्याशङ्कय मानिन्ग्रहणसमाना धिकरणार्थम् अस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरतिस्वभिन्नामिति । दर्शनीयमानिनोति । दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजाता
For Private and Personal Use Only
Page #588
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता।
५७६
-
चैत्रः । (८३८) न कोपधायाः ६॥३॥३७॥ कोपधायाः स्त्रियाः न पुंवत् । पाचिकाभायः । रसिकामार्यः। मद्रिकायते । मद्रिकामानिनी । 'कोपधप्रतिषेधे तद्धितवुग्रहणम्' ( वा ३९३१)। नेह । पाका भार्या यस्य सः पाकभार्यः । (३६) सज्ञापूरण्योश्च ६।३।। अनयोने पुंवत् । दत्ताभार्यः। दत्तामा. निनी। दानक्रियानिमित्तः स्त्रियां पुंसि च सम्ज्ञाभूतोऽयमिति भाषितमुस्कत्वमस्ति । णिनिरित्यनुवृत्तौ 'मन' इति णिनिप्रत्ययः, उपपदसमासः, सुब्लुक, असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋन्नेभ्यः' इति डीपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः 'स्त्रियाः पुंवत्' इत्येव पुंवत्वं सिद्धमिति ध्वनयितुं स्वभिन्नामित्युक्तम् । एकस्या एवं दर्शनीयायाः मनधात्वर्थ प्रति कर्मत्वकर्तृत्वसम्भवेऽपि वास्तवाभेदेन मानिनीशब्द. सामानाधिकरण्यसत्त्वादिति भावः । अथास्त्रीलिङ्गे उत्तरपदे उदाहरति-दर्शनीयामि• ति । स्त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यः दर्शनीयां स्त्रियं मन्यते सः दर्शनीयमानी चैत्र इत्यन्वयः। अत्र उत्तरपदवाच्यस्य मानिनः वस्तुतो दर्शनीयस्त्री. भेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुलिङ्गत्वात् तस्मिन् परे पुवत्त्वं न प्रासमित्यनेन तद्विधिरिति भावः ।
न कोपधायाः । पाचिकामार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटावित्त्वानि, पुंवत्त्वनिषेधश्च । पुंवत्त्वे टाबित्त्वयोनिवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका, 'अत इनिठनौ' इति ठन् । ठस्येकः, टाप, पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेष भवा मद्रिका मद्रवृज्यो कन्' टाप् , इत्त्वम् । मद्रिकेवाचरतीत्यर्थः । 'क्यङ्मानिनोश्च' इति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थे 'मनरचा इति णिनिः । उपपदसमासः । इहापि 'क्यङ्मानिनोश्च' इति पुबत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोनिवृत्तिः स्यात्। तद्धितवुग्रहणमिति। 'न तद्धितवुकोपधाया' इति सूत्रं पठनयीमिति यावत् । तद्धितसम्बन्धी सम्बन्धी च यः ककार तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति । तद्धितकोपधोदाहरणम् । पचिकामार्य इति तु वुसम्बन्धिकोपधोदाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह-नेहेति । पाकेति । 'अर्भकपृथुकपाका वयसि' इत्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य
प्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य सज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाभावात् 'स्त्रियाः पुंवत्' इत्यस्य प्रस. क्तेरेवाभावात् किं तनिषेधेनेत्यत आह-दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्थादिशब्दवन, किन्तु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च सम्ज्ञाभूतः प्रवृत्तः, अतस्त
For Private and Personal Use Only
Page #589
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
पञ्चमीभार्यः । पञ्चमीपाशा। (४०) वृद्धिनिमित्तस्य च तद्धितस्यारक्त. विकारे ६।३।३६॥ वृद्धिशब्देन विहिता या वृद्धिस्तद्धतुर्यस्तद्धितोऽरक्तविकाराथस्तदन्ता स्त्री न पुंवत् । स्रोनीमार्यः । माधुरीयते । माधुरीमानिनी। वृद्धिनि मित्तस्य किम् । मध्यमभार्यः। तद्धितस्य किम् । काण्डलावभार्यः। वृद्धिशब्देन किम् । तावदार्यः । रके तु, काषायी कन्था यस्य स काषायकन्थः । विकारे तु, स्य भाषित'स्कत्वात् पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुवत्त्वनिषेधमुदाहरति-पञ्चमाभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्र 'स्त्रियाः पुंवत्' इति निषिध्यते । पञ्चमीपाशेति । निन्दिता पञ्चमीत्यर्थः। 'याप्ये पाशपः । अत्र 'तसिला. दिषु' इति प्राप्त पुंवत्वं निषिध्यते । ___ वृद्धिनिमित्तस्य च । वृद्धिनिमित्तं हेतुरिति विग्रहः । रक्तं च विकारश्चेति समाहा. रद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्तविकारभिन्नेऽथें विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह-वृद्धिशब्देनेत्यादिना। तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । स्रौनीति । त्रुघ्नो देशः। तत्र भव इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिः, 'टिड्ढाणज्' इति ङीप् । स्रोघ्नी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति प्राप्तमिह निषिध्यते । माधुरीयते माधुरीमानिनीति । मधुरायां भवा माधुरी, 'तत्र भवः' इत्यण 'यस्येति च' इत्याकारलोपः, आदिवृद्धिः, 'ठिड्ढ' इति ङीप । माधुरीवाचरतीत्यर्थे 'कर्तुः क्यङ्' इति क्यङ्। 'सनाद्यन्ताः' इति धातुत्वाल्लडादि, माधुरीयते । माधुरीं मन्यते माधुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः। उपपदसमासः, सुडलुक् , नान्तत्वान्डी । इहोभयत्रापि 'क्यङमानिनोश्च' इति प्राप्त पुंवत्त्वं निषिध्यते । मध्यममार्य इति । मध्ये भवा मध्यमा, 'मध्यान्म:' इति मः। मध्यमा भार्या ।यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान पुंवत्त्वनिषेधः। काण्डलावभार्य इति । काण्ड लुनातीति काण्डलावी, 'कर्मण्यण' इत्यण्प्रत्ययः कृत् , 'अचो णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, 'टिड्डाणञ्' इति डीप। काण्डलावी भार्या यस्येति विग्रहः, पुंवत्त्वात् डीपो निवृत्तिः । अत्राणः कृत्वात्तद्धितत्वाभावात् न पुंवत्त्वानषे. धः । तावदभार्य इति । तत् परिमाणमस्यास्तावती, 'यत्तदेतेभ्यः परिमाणे वतु प्हति तच्छब्दावतुप तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्त्वात् डीप । तावता भार्या यस्येति विग्रहः । पुंवत्त्वात् डीपो निवृत्तिः, 'आ सर्वनाम्नः' इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः। रक्ते विति । रक्तेऽथें विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायोति ।
For Private and Personal Use Only
Page #590
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता ।
1
हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् वैयाकरणभार्यः । सौवश्वभार्यः । ( ८४१ ) स्वाङ्गाच्चेतः ६ | ३ | ४ || स्त्राङ्गाद्यः ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात् किम् । पटुभार्यः कषायो गैरिको धातुविशेषः तेन रक्ता काषायी 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोप:, आदिवृद्धि, टिड्ढाणज्' इति ङीप् । काषायकन्थ इति । पुंवत्त्वे ङीपो निवृतिः । अत्राणः तद्धितस्य रक्तार्थकत्वात् न पुंवत्स्त्वनिषेधः । विकारे त्विति । विकाराधे विद्यमानस्य तद्धितस्य न पुंवत्वनिषेध इत्यर्थः । हैमीति । हेम्नो विकारभूतेत्यर्थः । 'अनुदात्तादेश्च' इत्यञ्, टिलोपः, आदिवृद्धिः, 'टिड्ढ' इति ङीप्, हैमीतिरूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्वे डीपो निवृत्तिः । अत्रानस्तद्धितस्य विकारार्थकत्वान्न दुवत्त्वनिषेधः । स्यादेतत् । व्याकरणमधीते वेत्ति वा स्त्री वैयाकरणी, 'तदधीते तद्वेद' इत्यण् तद्धितः । 'यस्येति च' इत्यकारलोपः । अणो णित्त्वात् तन्निमित्तिकायाः यकाराकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या प्राप्तायाः वृद्धेः 'न य्वाभ्याम्' इति निषेधः । यकारात् प्रागैकारागमश्च, 'टिड्ढाणञ्' इति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री 'अत इज्' इति इञोऽपवादः शिवायण, 'यस्येति च' । इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेः "न य्वाभ्याम्” इति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे डीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अनोभयत्रापि आदिवृद्धेः 'न य्वाभ्याम् इति निषेधेऽपि अणः तद्धितस्य णिस्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह- वृद्धि प्रति फलोपधानाभावादिह पुंवदिति । प्रतीत्यनन्तरं निमित्तस्य तद्धितस्येति शेषः । अणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं तात्कालिकसाहित्यं तदभावादित्यर्थः । 'वृद्धेस्तद्धितस्य' इत्येतावत्युक्तेऽपि निमितत्वसम्बन्धे वृद्धेरिति षष्टीमाश्रित्य ' वृद्धिनिमित्ततद्धितस्य' इत्यर्थलाभे सति निमितग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धि प्रति अण्प्रत्ययः फलोपहितमेव निमित्तम् । तथापि वृद्धिशब्देन विहितां वृद्धि प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिfe गृत इत्यत्रापि इदमेह निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्दे .. न्दुशेखरे द्रष्टव्यः ।
स्वानाच्चेतः । इत इति च्छेदः । तदाह - स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति । सुशोभनाः केशाः यस्याः सा सुकेशी 'स्वाङ्गाच्चोपसर्जनात्' इति ङीष् । 'स्त्रियः
For Private and Personal Use Only
५८१
Page #591
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
-
ईतः किम् । अकेशभार्यः । 'अमानिनीति वक्तव्यम्' ( वा ३९३२) सुकेशमा. निनी । (८४२) जातेश्च ६।३।४१॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीना समूहो हास्तिकमित्यत्र 'भस्याढे' ( वा ३९२८ ) इति तु भवत्येव । (८४३) सङ्ख्ययाव्य. यासन्नादूराधिकसङ्ख्याः सङ्ख्येये २।२।२५॥ सङ्ख्ययार्थया सङ्ख्यया अव्ययादयः समस्यन्ते स बहुव्रीहिः। दशाना समीपे ये सन्ति ते उपदशाः । पुंवत्' इति प्राप्तस्य निषेधः । पटुभार्य इति । पद्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः । किन्तु पंवत्त्वे 'वोतो गुणवचनात्' इति कीषो निवृत्ति. रिति भावः । अकेशभार्य इति । अविद्यमानाः केशाः यस्याः सा अकेशा 'नमोऽस्त्यः
र्थानाम्' इति बहुव्रीहिः । विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष् , 'सहनविद्यमान' इति निषेधात् । अतष्टावेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वे. ऽपि ईकाराभावानपुंवत्त्वनिषेधः । किन्तु पुंवत्त्वे टापो निवृत्तिरिति भावः। अमानिनीति । स्वाङ्गाच्चेति निषेधः मानिन्शब्दे परतः न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेशी मन्यत इत्यर्थे 'मनश्च' इति णिनिः. उपधावृद्धिः उपपदसमासः, सुब्लुक् , पुवत्त्वे ङीषो निवृत्तिरिति भावः । जातेश्च । ईत इति अस्वरितत्वान्नानुव. तत इत्यभिप्रेत्याह-जातेः परो यः स्त्रीप्रत्यय इति । शूद्राभार्य इति । 'शुद्धा चामहत्पूर्वा' इति जातिलक्षणडीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीमार्य इति । मुंवत्त्वनिषेधात् न शाङ्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्र 'अचित्तहस्ति' इति ठकि हस्तिनीशब्दस्य 'भस्याटे' इति कथं पुंवत्त्वं 'जातेश्च इति' निषेधादित्यत आह-सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । 'भस्याढे इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् ।।
सङ्ख्यया । शेषग्रहणम् 'अनेकमन्यपदार्थ' इति च निवृत्ते । बहुव्रीहिरित्यनुवर्तते । 'सुप्सुपा' इति च । सडयेये इत्येतत्सवययेत्यत्रान्वेति । सङ्ख्यया परिच्छेद्यं सङ्खयेय. म् , तत्रार्थे विद्यमानया सङ्घययेति लभ्यते । सङ्घयाशब्दश्चायं न स्वरूपपरः, किन्तु एकादिशतान्तशब्दपरः। तदाह-सङ्ख्येयार्थया सङख्ययेति । एकादिशब्देन सुबन्तेने. त्यर्थः । अव्ययादय इति । अव्यय आसन्न अदूर अधिक सङ्ख्या एते सुबन्ता इत्यर्थः । अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किन्तु एकादिशब्दपर एव । अत्रेदमवधेयम्विंशतः प्रागेकादिशब्दाः सङ्खयेयेषु वर्तन्ते विशेष्यलिङ्गाश्च । दशादयो नित्यबहुवच. नान्ताः। विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः सहन्यायां सत्य ये च वर्तन्ते नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यथा विशतिर्बाह्मणाः, ब्राह्मणानां विंशतिरिति । यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुववने स्तः । यथा गवां द्वे विंशती इति, चत्वारिं.
For Private and Personal Use Only
Page #592
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५८३
नव एकादश वेत्यर्थः । बहुव्रीही सख्येये-( सू ८५१) इति वक्ष्यमाणो डच् । (४४) ति विशतेर्डिति ६।४।१४२॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः। द्वौ शदिति गम्यते । गवां तिस्रो विंशतय इति, षष्टिरिति गम्यते ।
'विशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्ख्ययोः।
सङ्ख्याथें द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।' इत्यमरः । अत्राव्ययस्योदाहरति-दशानां समीपे ये सन्ति ते उपदशा इति। उपश. ब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते । दशसमीप वर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाभावादप्रथमान्तत्वाच्च 'अनेकमन्य. पदार्थे इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवतिनो गवादय इत्यर्थभ्रमं वारयति-नवैकादश वेत्यर्थ इति । सामीप्यमिह दशशब्दार्थगतदशत्वापेक्षम् , एकार्थीभावबलात् । तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवतिसङ्ख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशन्शब्दात् डचि 'नस्तद्धिते' इति टिलोप इति भावः । । ___ आसन्नशब्दस्य विंशतिशब्देन षष्ट्यन्तेन समासे डचि कृते टेः' इति इकारमात्रस्य लोपे प्राप्ते आह-ति विंशतेडिति । तीति लुप्तषष्ठीकम् । 'भस्य' इत्यधिकृतम् । 'अल्लोपोऽनः' इत्यस्माल्लोप इत्यनुवर्तते । तदाह-विंशतेमस्येति । 'अलोऽन्त्यस्या इति न भवति, 'नानर्थकेऽलोऽन्त्यविधिः' इत्युक्तः। आसन्नविंशा इति । विंशतिस
ख्यासन्नसङ्ख्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दः अदन्तः । 'उत्तरपदत्वे चापदादिविधौ प्रतिषेषः' इति प्रत्ययलक्षणाभावेनापदत्वात् । अथादूरशब्दस्योदाहरति-अदूरत्रिंशा इति। त्रिंशतः अदूरा इति विग्रहः। त्रिशत्सख्यायाः अदूरस
यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति-अधिकचत्वारिंशा इति । चत्वा. रिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः। सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति-द्वौ वा त्रयो या द्वित्रा इति । वाथें बहुव्रीहिः द्वित्र्यन्यतरा इत्यर्थः। डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचित् द्वावानयति, तदा कथं बहुवचनमिति चेत् , अत्र भाष्ये 'अनिश्चये बहुवचन प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा कार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थितिः। तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दानियमेन पञ्चानामुपस्थितिरित्यपि समाहितम् । नच वार्थप्रा. धान्यात् 'अनेकमन्यपदाथेंइत्येवात्र सिद्धमिति वाच्यम् , 'शेषाद्विभाषा' इति कब
For Private and Personal Use Only
Page #593
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५८४
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
1
वा त्रयो वा द्वित्राः । द्विरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः । ( ८४५) दिङ्नामान्यन्तराले २|२|२६|| दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याश्च पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्रयाश्च कौबेर्याश्वान्तरालं दिक् । (८४६) तत्र तेनेदमिति सरूपे २।२।२७ सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भावार्थत्वात् । स हि कप् 'अनेकमन्यपदार्थे इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह - द्विरावृत्ता दश द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्या कदशत्ववन्त इत्यर्थः । फ. लितमाह - विंशतिरित्यर्थं इति ।
दिङ्नामानि । नामानीत्यनन्तरं सुबन्तानि परस्परमिति शेषः । प्राग्बदिति । सम स्यन्ते स च बहुव्रीहिरित्यर्थः । नामानीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरतिदक्षिणस्याश्चेति दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यद्वा अन्तरालमिह दिगेव गृह्यते । 'सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वम्' इति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय वत्त्वं भवति, अत एव भाष्यात् । ननु दिशोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह- नामग्रहणादिति । दिक्षु रूढाः शब्दाः दिङ्नामानीत्यनेन विवक्षिताः । ऐन्द्रीशब्दः कौबेरीशब्दश्चेन्द्रसम्बन्धात् कुबे रसम्बन्धाश्च प्रवृत्तो यौगिक एव न रूढ इति भावः । तत्र तेन । समास इति, बहुव्री. हिरिति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे विवक्षिते । ग्रहणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । तेन इत्यनेन तु तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तं पदविशेषणम् । ग्रहणविषये इति प्रहरणविषये इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति । इदम् इत्यर्थनिर्देशः । युद्धं प्रवृत्तमिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्याहार्यम् । तदाह - सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्यते अस्मिन्निति ग्रहणम्, केशादि, अधिकरणे ल्युट् तत् विषयः वाच्यं ययोस्ते, ग्रहणविषये, ग्रहणवाचके इति यावत् । प्रहरविषये इति । प्रयिते अनेनेति प्रहरणं दण्डादि तत् विषयः वाच्यं ययोस्ते प्रहरणवि. ये प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्येति । इदं युद्धं प्रवृत्तमित्यर्थे इति । इदमिति सामान्यार्थनिर्देशः । युद्धमिति विशेषनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु ग्रहणविषये
*
For Private and Personal Use Only
-
Page #594
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते। 'अन्ये. षामपि दृश्यते' (सू ३५३९) दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रोही पूर्वपदान्तस्य दीर्घः । इसमासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठा. दव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं सुद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि। (८४७) मोगुणः ६४।
प्रहरणविषये इत्यध्याहारे किं प्रमाणमित्यत आह-इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽर्य बहुव्रीहिर्भवतीत्यर्थः।
अन्येषामपि दृश्यते । अनुवर्तते इति । 'ठूलोपे' इत्यत इति शेषः । 'नहिवृतिवृषि' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दी| दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्कयाह-कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति । बहुव्रोहा चेत् कर्मव्यतिहारे एवं पूर्वपदान्तस्यैव दीर्घ इत्यर्थः । तेन तुराषाडित्यादौ दीर्घा निर्बाधः। दृशिग्रहणादयमों लभ्य. ते। वक्ष्यत इति । 'इच्कर्मव्यतिहारे' इति सूत्रेणेति शेषः । तिष्ठद्गुप्रभृतिष्विति । वृत्ति. ग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र अव्ययीभावः इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति । 'अव्ययीभावश्च' इत्यनेनेति शेषः । 'अव्ययादाप्सुपः' इति सुब्लुकू तत्फलमिति भावः। गृहीत्वेति । परस्परमिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात् समानकर्तृकत्त्वाभावात् कमिह क्त्वाप्रत्यय इति वा. च्यम् , गृहीत्वेत्यनन्तरं स्थितयोरित्यध्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशेष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलि. तम् । केशाकेशीति । केशेषु केशेष्वित्यनयोहणाधन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् पूर्वपदस्य दीर्घः, इच्समासान्तः । 'यस्येति च' इत्यकारलोपः। अव्ययत्वासुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽयं बहुव्रीहिसमासः अप्र. थमान्तार्थश्च ।
दण्डैश्चेति । अस्य दण्डैः सः, तस्य दण्डैरयमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाधन्तर्भावेन स. मासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच् , 'यस्येति च' इति अकार. लोपः । अव्ययत्वात् सुब्लुक । मुष्टीमुष्टिति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमिः त्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्टया मुष्टया इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्तस्य आत्वमपाणिनीयमेव । ओर्गुणः । मोः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तवि.
For Private and Personal Use Only
Page #595
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
१४६॥ उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः। बाहूबाहवि । 'ओरोत्' इति वक्तव्ये गुणोक्तिः 'सज्ञापूर्वको विधिरनित्यः' ( प ९४ ) इति ज्ञापयितुम् । तेन स्वायम्भुवम् इत्यादि सिद्धम् । सरूपे इति किम् । हलेन मुखलेन । (८४८) तेन सहेति तुल्ययोगे २।२२८॥ तुल्ययोगे वर्तमानं सह इत्येतत्तृतीयान्तेन प्राग्वत् । (४६) वोपसर्जनस्य ६।३।२॥ बहुव्रीहेरवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः । (५०) प्रकृत्याशिषि ६३1८३॥ सहशब्दः प्रकृत्या धिः । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह-उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। समासः, सु. ब्लुक , पूर्वपदस्य दीर्घः, इच् । 'यस्येति च' इति बाधित्वा ओर्गुणः, भवादेशः। अ. व्ययत्वात् सुपो लुक् । ननु गुणः उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवात् 'ओरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आहओरोत् इति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दूर्वारमिति वाच्यम् , विधेयसमर्पक पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नच 'ओत्' इति 'तपरः तत्का. लस्या संज्ञेति वाच्यम् , विधीयमानत्वादेव तत्कालत्वसिद्धया तकारस्य उच्चारणा. र्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण , स्वायम्भुवः, संज्ञापूर्वकत्वे. नानित्यत्वादोर्गुणाभावे उवङ्, आदिवृद्धिरिति भावः । स्वायम्भुवमिति पाठे तस्ये. दमित्यण । हलेन मुसलेनैति । अत्र असरूपत्वात् हलामुसलीति न भवतीति भावः।
तेन सहेति तुल्ययोगे । तुल्ययोगे इति । युगपत्कालिकक्रियायोगे इत्यर्थः। तृतीयान्ते. नेति । तेनेत्यनेन तल्लाभादिति भावः । प्राग्वदिति । समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थे कबभावार्थ चेदम् । वोपसर्जनस्य। उत्तरपदे इत्यधिकृतम् । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युप. सर्जनः, मत्वर्थे अर्शमाघच् । उत्तरपदाक्षिप्तसमासो विशेष्यम्। उपसर्जनवतः समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चिदवयवः उपसर्जनमेव । तथापि साम
ादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति ल. ब्धम् । अवयवषष्टयेषा तदाह-बहुव्रीहेरवयवस्येत्यादिना। बहुव्रीहेरिति किम् । सह. युद्ध्वा । 'राजनि युधिकृमः', 'सहे च' इति क्वनिप् । उपपदसमासः । अबहुवीयवय. वस्य सहस्य सत्वं न । सपुत्र इति । सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति । इतिशब्दादिदं लभ्यते । 'विभाषा सपूर्वस्या इत्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाभावेऽपि सहस्य सः। प्रकृत्या
For Private and Personal Use Only
Page #596
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता ।
स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय, सहामात्याय । ' अगोवत्सहलेष्विति वाच्यम्' ( वा ३९९० ) सुगवे । सवत्साय । सहलाय । ( ८५१) बहुव्रीहौ सङ्ख्येये डजबहुगणात् ५।४।७३ ॥ सख्येये यो बहुव्रीहिस्तस्माड्डच्स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः । 'सङ्ख्यायास्तत्पुरुषस्य वाच्यः । ( वा ३३४८ ) निर्गतानि त्रिंशतो निर्खिशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः । ( ८५२) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्वच् ||४|११३ ॥ व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्य -
५८७
शिषि । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह - सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति याचत् । स्वस्तीति । भूयादिति शेषः । सहपुत्रायेति । तेन सहेति समासे कृते, आशीर्योगान्न सभावः । सहामात्यायेति । श्रगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति । राज्ञे स्वस्तीति शेषः ।
1
I
अथ बहुव्रीहावसाधारणसमासान्तानाह - बहुव्रीहौ । सख्येये यो बहुव्रीहिरिति । 'सख्ययाव्यय' इति विहित इति शेषः । तस्मादिति । बहुवीहाविति पञ्चम्यर्थे सप्तमीति भावः । उच्स्यात् इति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः । 'सख्ययाव्यय' इति बहुव्रीहिः । सुबलुक् । उपदशन्शदाड्डचि 'नस्तद्धिते' इति टिलोपः । उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तोति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति सङ्ख्या' इति सङ्ख्यास्वात् 'सङ्ख्ययाव्यय' इति समासः । अबहुगणात् इति निषेधान्न डच् । ननु उप गणाः इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह-अत्र स्वरे विशेष इति । डचि सति 'चित' इति अन्तोदात्तत्वं स्यादित्यर्थः । सङ्ख्याया इति । सङ्ख्यान्ततत्पुरुषस्य समासान्तो डच् वक्तव्य इत्यर्थः । निस्त्रिंशानीति । 'निरादय —क्रान्त' इति तत्पुरुषः, डच, 'टेः' इति टिलोपः । त्रिंशतोऽधिकानीति यावत् । निस्त्रिंश इति । समासादि पूर्ववत् । त्रिंशदधिकाङ्गुलिरित्यर्थः । न च गवां विंशतिगोविंशतिरित्यत्रातिप्रसङ्गः शङ्कयः, अव्ययादेः इति विशेषणादिति भाष्ये स्पष्टम् ।
काधिक विंशतिरेकविंशतिरित्यत्र 'सङ्ख्यायाव्यय' इति समासे सति 'बहुव्रीहौ सख्येये' इति डच् शङ्कयः, अन्यत्राधिकलोपादिति वार्तिकादित्यास्तां तावत् ।
बहुव्रीहौ । व्यत्ययेनेति । सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे, 'व्यत्ययो बहुलम्' इति छन्दसि वचनादित्यर्थः । 'छन्दोवत्सूत्राणि भवन्ति' इति भाष्यम् । 'बहुवीहा' विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह - स्वाङ्गनाचीति । सक्थ्यच्यन्तादिति । बहुब्रीहि विशे
For Private and Personal Use Only
Page #597
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८८
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
न्ताद्बहुव्रीहेः षच्स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घेसक्थः । जलजाक्षी । 'स्वाङ्गात्' किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । ' अक्ष्णोऽदर्शनात् ' ( सू ९४४ ) इत्यच् । (८५३) अङ्गुलेर्दारुणि ५|४|११४ ॥ अङ्गुल्यन्ताद्बहुव्रीहेः बच्स्याद्दारुण्यर्थे । पश्च अङ्गुलयो यस्य तत्पश्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्याः द्वयङ्गुल! यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेः ' ( सू ७८६ ) इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः । (८५४) द्वित्रिभ्यां ष मूर्ध्नः ५|४|११५ ॥ आभ्यां मूर्ध्नः षः स्याद्वहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः | 'नेतुर्नक्षत्रे अब्बतव्यः' (वा ३३६०) मृगो नेता यासां ताः मृगनेत्राः रात्रयः । पुष्यनेत्राः । ( ८५५) अन्तर्बहिर्म्या लोम्नः पणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति । समासान्तस्तद्धितश्चेतिं ज्ञेयम् । दीर्घसक्थ इति । षच् 'यस्येति च' इति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे पचि 'नस्तद्धिते' इति टिलोपः । षित्त्वात् ङीष् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी सक्थिसदृशावीषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोः 'अद्रवं मूर्तिमत्स्वाङ्गम्' इत्यादिस्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह-स्थूलाक्षेति । स्थूलानि अक्षाणि पर्वग्रन्थयो यस्या इति बहुबीहिः । अस्वाङ्गत्वादिह न जिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आहश्रदणोऽदर्शनादित्यजिति । षचि तु विश्वलक्षणङीष् स्यादिति भावः । अङ्गुलेर्दारुणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात् तदन्तविधिरित्यभिप्रेत्याह - अङ्गुल्यन्तादिति । पञ्चाङ्गुलं दाविति । षचि 'यस्येति च' इति इकारलोपः । ननु दारुणः कथं अङ्गुलय इत्यत आह- अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशाः अवयवाः यस्येति विग्रहः । धान्येति । कुसूलादिस्थितधान्याद्याकर्षक मिति यावत् । उच्यत इति । लक्षणयेति शेषः । द्व्यङ्गुलेति । ' प्रमाणे द्वयसच' इति विहितस्य मात्रचः 'द्विगोनित्यम्' इति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हि द्वयङ्गुलिरिति स्यादित्यत आह-तद्धितार्थ इति । षचि तु ङीष् स्यादिति भावः ।
I
।
द्वित्रिभ्यान् । षेति लुप्त प्रथमाकं पदम् । द्विमूर्धं इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । श्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । ' नस्तद्धिते' इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतुरिति । नक्षत्रे विद्यमानो यो नेतृशब्दः तदन्ताद्बहुव्रीहेरप् वक्तव्य इत्यर्थः । नेता नायकः । मृगो नेतेति । मृग:मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि बोध्यम् । मृगनेत्रा इति । मृगने
I
For Private and Personal Use Only
Page #598
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता।
पृ8
५.४।११७॥ आभ्यो लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः। (१६) मनासिकायाः संज्ञायां नसं चास्थूलात् ४।५।११८॥ नासिकान्ताबहुव्रीहेरच्स्यानासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् । (५७) पूर्वपदात्स. झायामगः ॥४३॥ पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । दुरिव नासिका यस्य द्रुणमः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । 'अगयनादिभ्यः' (सू १४५२) इति निपातनाण्णस्वाभावमाश्रित्य अगः इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः । 'खुरख. राभ्यो वा नस्' ( वा ३३६३)। खुरणाः खरणाः । 'पक्षेऽजपोष्यते' । खुरणसः। तृशब्दादप , कारस्य यण, रेफः, टाप । पुष्यनेत्रा इति । पुष्यो नेता यासामिति विग्रहः । अन्तर्बहिर्त्यां च लोम्नः। अन्तर्लोन इति । अन्तः लोमानि यस्येति विग्रहः, अप, टिलोपः । एवं बहिलोमः । अन्नासिकायाः। अच् इति च्छेदः । नालिकाया इत्यस्य बहुव्रीहेविशेषणत्वात् तदन्तविधिमभिप्रेत्याह-नासिकान्तादिति । नसमित्यन. न्तरं प्राप्नोतीत्यध्याहार्यम् । उपस्थितत्वान्नासिकाशब्द इति लभ्यते । तदाहनासिकाशब्दश्च नसं प्राप्नोतीति ।
पूर्वपदात् । 'रषाभ्याम्' इत्यनुवृत्तम्। पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते। 'रषाभ्या. म्। इत्यनेन लब्धो रेफः षश्च प्रत्येकमन्वेति तदाह-पूर्वपदस्थान्निमित्तादिति । रेफष. कारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्प. रस्य नेति यावत् । तदाह -नतु गकारव्यवधाने इति । अनेन 'अट्कुप्वाइनुम्व्यवायेऽपि इत्यनुवृत्तिः सूचिता। अन्यथा अग इत्यस्य वैयर्थ्य स्यात । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष हवेत्यर्थः । द्रणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति । 'ऋवर्णात्' इति वातिकस्याप्यत्रानुवृस्या णत्वं प्राप्तं गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनमिति विग्रहप्रदर्शनं चिन्त्यम् , वाक्येन सज्ञानवगमात् । नच रघुनाथ इत्यादौ सज्ञायां णत्वं शङ्यम् , णत्वेन चेत्सज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे सज्ञात्वभङ्गापत्तेनं णत्वम् । अत एव 'भृतोऽसज्ञायां तु सूत्रभाष्ये 'य एते सज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते सज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्सना गम्यते' इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहुवीही सज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्रत्ययानुवृत्तिनिवृ. त्यर्थम् । खुरणा इति । खुराविव नासिके यस्येति विग्रहः । नसादेशः । 'पूर्वपदासज्ञायाम्' इति णत्वम् । 'अत्वसन्तस्य' इति दीर्घः । खरणा इति। खर.
For Private and Personal Use Only
Page #599
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६०
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
खरणसः । (८५८) उपसर्गाच ५|४|११६ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असज्ञार्थमिदं वचनम् । उन्नता नासिका यस्य सः उन्नसः । उपसर्गादनोत्परः । इति सूत्रम् । तद्भक्त्वा भाष्यकार आह(५) उपसर्गाद्बहुलम् ८|४|२८|| उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णःस्याद्बहुलम् । प्रणसः । ' वेर्गो वक्तव्यः' ( वा ३३६५ ) । विगता नासिका यस्य विप्रः । 'ख्यश्च' ( वा ३३६६ ) । विख्यः । कथं तर्हि 'विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् । (८६०) सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ५|४|१२० ॥ एते बहुत्री
रूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिका इति खरनासिक इति च न भवतीत्याह-पक्षे अजपीष्यते इति । अच्प्रत्ययसहितः नसादेश इत्यर्थः । भाष्ये त्विदं न यते ।
उपसर्गाच्च । नन्वम्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह- असञ्ज्ञार्थ - मिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हि 'नश्च धातुस्थो' इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । 'रणाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्वेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् । 'प्रण आषि तारिषत्' इत्याद्युदाहरणम्, अनोत्परः किम् ? 'प्र नो मुनतम् अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भक्त्वेति । 'अनोत्परः' इत्यपनीय तत्स्थाने बहुलमिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमा ह - उपसर्गाद्बहुलम् । निमित्तादिति । रेफषकारात्मकादित्यर्थः । ' उपसर्गादनोत्परः इति यथाश्रुते तु 'प्रणो नय' इत्यादावव्याप्तिः, 'प्र न - पूषा' इत्यादावतिव्याप्तिचेति भावः । प्रयस इति । प्रगता नासिका यस्येति विग्रहः । ' उपसर्गाच्च' इत्यच् नासिकाया नस् । ' उपसर्गाद्बहुलम्' इति णत्वमिति भावः ।
वेरिति । वेः परो यो नासिकाशब्दः सः ग्रा देशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य प्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते । ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति - कथं तद्दति । समाधत्ते - विगतयेति । विगता नासिका । विनासिका प्रादिसमासः । अबहुव्रीहिस्वात् न ग्रादेशः । किन्तु टायां 'पद्दन्' इति नसादेशे विनसेति तृतीयान्तं रूपम् । उपलक्षितेत्यध्याहार्यमिति भावः ।
For Private and Personal Use Only
Page #600
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता ।.
५६१
हयोऽच्प्रत्ययान्ता निपात्यन्ते। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽ श्रयोऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपदः। अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः । (८६१) नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ५। ४॥१२१॥ अच्स्यात् । अहल:-अहलिः । असक्थः-असक्थिः । एवं दुःसुभ्याम् । शक्त्योः इति पाठान्तरम् । अशक्तः-अशक्तिः। (८६२) नित्यमसिच्प्रजामेधयोः ५।४।१२२॥ नन्दुःसुभ्यः इत्येव । अप्रजाः । दुष्प्रजाः। सुप्रजाः ।
-
-
सुप्रात। सुप्रात इति । अच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः। सुश्व इति । अच, पूर्ववहिलोपः । सुदिव इति । शोभनं दिवा यस्येति।विग्रहः । दिवेत्याकारान्तमव्ययम् । 'अव्ययानां भमात्रे टिलोप:' इति टिलोपः । शारिकुक्ष इति । शारिः पक्षिवि. शेषः । अचि, 'यस्येति च' इति इकारलोपः । चतस्रोऽप्रय इति । कोणा इत्यर्थः । अचि, 'यस्येति च' इति इकारलोपः । एण्या इवेति । एणी मृगी। अजपद इति । अजः छागः, तस्येव पादावस्येति विग्रहः । एणीपदादिषु अचू । निपातनात् पादः पत् । नन्दुस्सुभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-अच् स्यादिति । अहलः अहलिरिति । अविद्यमानः हलिः यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः। तदन्तादचि यस्येति च' इति इकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् , तथापि अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तत्रिवृत्त्यर्थमिदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तसमासान्तत्वाभावादन न कप । असक्थः, असक्थिरिति । अवि. द्यमानं सक्थि यस्येति विग्रहः । एवं दुस्सुभ्यामिति । दुईल., दुर्हलिः । दुस्सक्था, दु. स्मक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचि. च्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः।
नित्यमसिच् । नन्दुस्सुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तः स्यात् , स तद्धित इत्यर्थः । असिचः चकार इत् , इकार उच्चारणार्थः। अन्यतरस्यामित्यनुवृत्तिनिवृत्त्यर्थे नित्यग्रह. णम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । 'नमोऽस्त्यर्थानाम्' इति समासः। आसचि 'यस्ये. ति च' इत्याकारलोपादप्रजाशब्दात् सुबुत्पत्तिः। सौ तु 'अत्वसन्तस्य' इति दीर्घः । 'हल्ड्याप' इति सुलोपः। यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् , तथापि सिच्यभत्वेन आकारलोपाभावादप्रजामशब्दात् सुबुत्पत्ती, प्रथमैकवचने अप्रजाः इति रूपसिद्धावपि अप्रजसाविति न स्यात् । किन्तु अप्रजासावित्यादि स्यात् । तस्मा.
For Private and Personal Use Only
Page #601
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
अमेधाः । दुर्मेधाः । सुमेधाः । (८६३) धर्मादनिकेवलात् ५।४ । १२४ ॥ केव लात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्स्यात् । कल्याणधर्मा 1 केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीद न केवलं पूर्वपदम्, किंतु मध्यमत्वादापेक्षिकम् । 'सन्दिग्धसाध्यधर्मा इत्यादी तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च परमस्वधर्मा इत्यपि साध्वेव । निवृत्तिधर्मा,
दकारोच्चारणं भत्वसम्पादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति वि. ग्रह । 'प्रादिभ्यो धातुजस्य' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य' इव पत्वम् । सुप्रजा इति । शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । श्रमेधा इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् तेनाल्पमेधसः इत्यादि सिध्यतीत्यप्याहुः ।
1
1
"
धर्मादनिकेवलात् । पूर्वपदादित्यध्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह - केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रातत्वं केवल पूर्वत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचि 'यस्येति च' इत्यकारलोपः । परम इति । परमः स्वः धर्मो यस्येति बहुवीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याहस्वशब्दो हीह न केवलं पूर्वपदतिति । किं त्विति । किं तु स्वशब्दः धर्मपदापेक्षया पूर्वत्वापूर्वपदं न तु केवलं, मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः । इदं च 'इजादेः' इति सूत्रभाष्ये स्पष्टम् । एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् । 'सर्वनामसङ्ख्ययोरुपसङ्ख्यानम्' इति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति नन्वेवं सति सन्दिग्धः साध्यः धर्मो यस्य स सन्दिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि सन्दिग्धेति केवलं पूर्वपदं धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दः, तस्य तु न पूर्वपदत्वम्, मध्यमपदत्वादित्यत आहसन्दिग्धेति । सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः । सन्दिग्धसाध्यः धर्मो यस्येति कर्मधारयगर्भो बहुवीहिः । एवं च । सन्दिग्धसाध्यशब्दस्य केवल पूर्वपदत्वात् तत्रानिच् निर्बाध इति भावः। एवं चेति । उक्तरीत्या परमश्चासौ स्वश्च परमस्वः धर्मो यस्येति कर्मधारयाश्रयणे तु केवल पूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । । निवृत्तीति । निवृत्तिः । धर्मोयस्येति, अनुच्छित्तिः धर्मा यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वात् यथायोग्यमनिजिति
1
For Private and Personal Use Only
Page #602
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६३
अनुच्छित्तिधर्मा इत्यादिवत् । पूर्वपदं तु बहुव्रीहिणा आक्षिप्यते। (६४) जम्भासुहरिततृणलोमेभ्यः ।४।१२५॥ जम्भा इति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो अम्भोऽस्य सुजम्मा । हरितजम्भा। तृणं भक्ष्य यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा। सोमजम्भा। स्वादिभ्यः किम् । पतितजम्भः । (८६५) दक्षिणेर्मा लुब्धयोगे ५।४।१२६॥ दक्षिणे ईमें व्रणं यस्य दक्षिणेर्मा भृगः । व्याधेन कृतव्रण इत्यर्थः । (८६६) इच्कर्मव्यतिहारे ५।४। १२७॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः। केशाकेशि । मुस. लामुसलि। (६७) द्विदण्ड्यादिभ्यश्च ५।४।१२८॥ तादयें चतुर्थेषा । एषां सिद्धयर्थमिच्प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति । (६८) प्रसंभ्यां जानुनो ः ५४ भावः । नन्विह सूत्रे पूर्वपदशब्दस्याश्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह-पूर्वपदं विति । ___ जम्मा सुहरित। जम्भेति नकारान्तं पदम् । तदाह-जम्भेति कृतसमासान्तमिति । अनिजन्तमित्यर्थः। सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः तदन्तात् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः। जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्राः जम्माः दन्ताः यस्येति विग्रहः । सोमः सोमलता वा, सैव जम्भः भक्ष्यं यस्येति विग्रहः। पतितजम्भ इति । पतिताः जम्भाः दन्ताः यस्येति विग्रहः । दक्षिणेर्मा । लुब्धो व्याधः, तद्योगे 'दक्षिणेर्मा इत्यनिष्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईमें यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहव्रीहिनिपातनात् । अनिचि यस्येति च इत्यकारलोपे दक्षिणेमेति रूपम् । लुब्ध. शब्दं विवृण्वन्नाह-व्याधेनेति । रोगादिना व्रणे तु दक्षिणेमः इत्येवेति भावः । इच्कमव्यतिहारे । समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्डयादिभ्यश्च । द्विदण्डयादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशक्य नेयं पञ्चमीत्याह-तादर्थ्य चतुर्युषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभाषेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विद. ण्डीति । दण्डादण्डीतिवत् प्रक्रियो। कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्ती
बा०३८
For Private and Personal Use Only
Page #603
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
989
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
१२६॥ आभ्यां परयोजनुशब्दयोर्जुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । स्वञ्जुः । (८६६) ऊर्ध्वाद्विभाषा ५|४ | १३०॥ ऊर्ध्वजुः । कर्ध्वजानुः । (८७०) धनुषा ५|४| १३२ || धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । द्विधन्वा । शार्ङ्गधन्वा (८१) वा सज्ञायाम् ५|४|१३३ ॥ शतधन्वा -- शतधनुः । (६७२) जायाया निङ् ४|४|१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् । (८७३) लोपो व्योर्वलि ६ |१|६६ ॥ वकारयकारयोर्लोपः स्याद्वलि । पुंवद्भावः । दुबतिजया अस्य युवजानिः । ( ८७४) गन्धस्येदुत्पूतिसुसुरभिभ्यः ५।४।
1
ति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च ।
प्रसंभ्यां । जानुशब्दयोरिति । प्र सम् इति पूर्वपदद्वित्वात उत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । जानुन इत्युक्ते तु 'प्रत्ययः, परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसम्भवात् ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिदें. शः । तदाह-— शुरादेश इति । प्रशुरिति । 'प्रादिभ्यो धातुजस्य' इति समासः । सशुरिति । सङ्गते जानुनी यस्येति विग्रहः । ऊर्ध्वाद्विभाषा । ऊर्ध्वशब्दात् परो यो जानुशब्दः तस्य ज्ञुरादेशो वा स्यात् । बहुव्रीहावित्यर्थः । ऊर्ध्वशुरिति । ऊध्वें 'जानुनी यस्येति विग्रहः । धनुषश्च । 'ऊधसोऽनङ्' इति पूर्वसूत्रं स्त्रीप्रत्ययाधिकारे व्याख्यातम् । तस्मादन ङित्यनुवर्तते । तदाह - अनङादेशइति । ( डित्वादन्तादेशः । ' प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ) ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । डकार इत । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति । शृङ्गस्येदं शार्ङ्ग 'तस्येदम्' इत्यण, तत् धनुर्यस्येति विग्रहः । समासे शार्ङ्गधनुशब्दे सकारस्यानङ, ङकार इत्, अकार उच्चारणार्थः, उकारस्य यणिति भावः । महिम्नस्तवे 'स्वलावण्याशं - साधृतधनुषम्' इति प्रयोगस्त्वार्थः । वा सज्ञायाम् । 'धनुषश्च' इत्युक्तः अनङ्सज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपा - ख्याने प्रसिद्धः ।
1
जायाया निङ् । आदेश इति । 'प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि हित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि । व्य् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । तदाहवकारयकारयोरिति । पुंवद्भाव इति । 'स्त्रियाः पुंवत्' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निड् । डकार इत्, 'लोपो व्योः' इति यकारलोपः । युवतिशब्दस्य वत्त्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् ।
For Private and Personal Use Only
motote
Page #604
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५४५
wwwne
१३५॥ एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः। सुरभिगन्धिः । 'गन्धस्येत्त्वे तदेकान्तग्रहणम्' ( वा ३३६८) । एकान्तः एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह सु शोभनाः गन्धाः द्रव्याण्यस्य सुगन्ध आपणः । (es५) मल्पाख्यायाम् ५।४।१३६॥ सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घृतगन्धि 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः।' इति विश्वः। (७६) उपमानाञ्च ५॥
गन्धस्य इत् इति च्छेदः । एभ्य इति । उत् , पूति, सु, सुरभि एतेभ्य इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात् 'आदेः परस्य' इति न भवति । उद्गन्धिरिति । उद्तो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दः असुरभौ। पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धिरिति । सुरभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम्।
तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्तः एकदेश इव प्रतीयमान इत्यर्थः । अन गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशक्य एकान्तशब्दः एकदेशवद. विभक्त लाक्षणिक इत्याह-एकान्तः एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात् सलिलाच्च द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति। सु इत्यस्य व्याख्यानं शोभमा इति । गन्धा इति । गन्धवन्त इत्यर्थः । 'गुणवचनेभ्यो मतुपो लुगिष्टः इति लुक । द्रव्याणीति । चन्दनादीनीत्यर्थः । गन्धा इत्यस्य विशे. ध्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात पुंस्त्वं युज्यते ।
'गन्धस्तु सौरभे नृत्ये गन्धके गलेशयोः।
स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः।' इति कोशात् । सुगन्ध आपण इति। अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्या विशेष्यभूतापणापेक्षया पृथक् लक्ष्यमाणत्वादित्त्वं नेति भावः । अल्पाख्यायाम् । अल्प. वचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्यात् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धः यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वकत्वाभावादेकान्तत्वाभावाचाप्राप्ते वचनमिदम् । व्यधिकरणप. दानामपि कचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । धृतगन्धीति । घृतस्य गन्धः लेशः यस्मिनिति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह-गन्धो गन्धक इति । उपमानाच्च । उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽ.
For Private and Personal Use Only
Page #605
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
सिद्धान्तकौमुदी
[ बहुप्रोहिसमास
४|१३७॥ पद्मस्येव गन्धोऽस्य पद्मगन्धिः । (८७७) पादस्य लोपोऽहस्त्या. दिभ्यः ५४|१३८॥ हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्यैव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः। (८७) कुम्भपदीषु च ५।४।१३६॥ कुम्भपद्यादिषु पादस्य लोपो लोप च निपात्यते स्त्रियाम् । 'पादः पत्' (सू ४१४ ) कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः। (८७४) सङ्ख्या . सुपूर्वस्य ५।४।१४०॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । (550) वयसि दन्तस्य दतृ ५।४।१४१॥ सङ्ख्यासुपूर्वस्य दन्तस्य, दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोडन् । सुदन् न्तादेशः स्यात् बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसम्बन्धिगन्धसदृशे लाक्षणिकम् । 'सप्तम्युपमा. नपूर्वपदस्य' इति समासः। ___ पादस्य लोपः। अहस्त्यादिभ्य इति च्छेदः। उपमानादित्यनुवर्तते । तदाहहस्त्यादिवर्जितादिति । 'आदेः परस्य' इत्यप्रवृत्तये आह-समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यथा अनुक्तप्तमासान्तत्वात् कप प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह-स्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य' इति समासः। कुम्भपदीषु च। कुम्भपदीविति बहुवचननिर्देशात् गणपाठाच्च कुम्भपधादिग्रहणमिति भावः । ङीप चेति । 'पादोऽन्य. तरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्त्यादिभ्यः' इति लोपे सिद्धे तदनुवादेन नित्यं डीबर्थ वचनम् । सङख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे-पादस्येति । उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः। : वयसि दन्तस्य दतृ । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः। शिशुत्वं गम्यते । दन्तस्य दनादेशः। ऋकार इत् । उगित्त्वान्नुम् । सुलोपः। संयोगान्तलोपः । तस्यासिद्धत्वादुपधादी? न । चतुर्दन्निति । चत्वारो दन्ता यस्येति विग्रहः । दनादि पूर्ववत् । षोडन्निति । षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । 'षष उत्स्वामिति ष्टुत्वोत्वे । सुदन्निति । सुशोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयो.
For Private and Personal Use Only
Page #606
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५७
सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तो नटः । (८७१) स्त्रियां सज्ञा. याम् ५।४।१४३॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती। फाल. दती । सम्ज्ञायाम् किम् । समदन्ती। (२) विभाषा श्यावारोकाभ्याम् ५।४।१४४॥ दन्तस्य दतृ स्थाबहुव्रीहौ । श्यावदन्-श्यावदन्तः, अरोकदन् अरोकदन्तः। (३) अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ५।४।१४५॥ एभ्यो दन्तस्य दतृ वा । कुड्मलाग्दन्-कुड्मलाप्रदन्तः । (८८४) ककुदस्याव. स्थायां लोपः ५।४।१४६॥ अजातककुत् । पूर्णककुत् । (E८५) त्रिककुत्पर्वते ५४।१४७॥ त्रीणि ककुदान्यस्य त्रिककुत् । सञ्जषा पर्वतविशेषस्य । त्रिककुदोऽन्यः। (६) उद्विभ्यां काकुदस्य ५४।१४८॥ लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु । (८७) पूर्णाद्विभाषा ५।४।१४६॥ पूर्णका.
विशेषावगतये समस्तस्य निवेशः । सुदतीति । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दनादेशः। 'उगितश्च' इति डीप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विद. न्तत्वेन वयोविशेषानवगतिरिति भावः। स्त्रियां सम्शायाम् । शेषपूरणेन सूत्रं व्याः चष्टे-दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । सज्ञाविशेषाविमौ। समदन्तीति । समा दन्ता यस्या इति विग्रहः । 'नासिकोदर' इति डीए । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । श्याव. दनिति । श्यावा धूम्रा दन्ताः यस्येति विग्रहः । 'श्यावः स्यात् कपिशो धूम्रः' इत्यमरः । अरोकदन्निति । अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त । अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य सः अग्रान्तः इत्यभिप्रेत्योदाहरति-कुडमलाग्रद. निति । कुड्मलानां मुकुलानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन शुद्धदन्तः । शुभ्रदन् शुभ्रदन्तः वृषदन्-वृषदन्तः । वराहदन्-वराहदन्तः। .
ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्यात् बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति। अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः। त्रिककुत् पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककुदिति कृताकारलोपो निपात्यते। त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः । उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्यात् बहुवीहावित्यर्थः। उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्द व्याचष्टे-काकुदं ताल्विति । पूर्णाद्विभाषा। पूर्णात् परस्य काकुदस्य लोपो वा स्यादि
For Private and Personal Use Only
Page #607
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
y8
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
कुत्-पूर्णकाकुदः । (EER) मुहद्दुहृदो मित्रामित्रयोः ५।४।१५०॥ सुदुभ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुहे. दयः। उम्प्रभृतिभ्यः कप ५।४।१५१॥ व्यूढोरस्कः प्रियसर्पिष्कः । इह पुमान् , अनड्वान् , पयः, नौः, लक्ष्मीः इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु 'शेषाद्विभाषा' ( सू ८९१ ) इति विकल्पेन कप् । द्विपुमान् विपु. स्कः । 'अर्थानमः' (ग १४९) । अनर्थकम् । नञः किम् । अपार्थम् अपार्थकम् । (E) इनः स्त्रियाम् ५।४।१५२॥ बहुदण्डिका नगरी। 'अनिनस्मन्प्रहमान्य. र्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' ( प १७ ) बहुवारिग्मका । स्त्रियाम् किम्। बहुदण्डी बहुदण्डिको ग्रामः। (१) शेषाद्विभाषा ५।४।१५४॥ अनुक्क.
स्यर्थः । पूर्ण काकुई यस्येति विग्रहः । सुहृद्दुहृदौ । यथासङ्ख्यमभिप्रेत्योदाहरतिसुहृन्मित्रमिति । सु शोभनं हृदयं यस्येति विग्रहः ।
उरःप्रभृतिभ्यः कम् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्सज्ञा । व्यूढोरस्क इति। न्यूढं विशालम् उरः वक्षः यस्येति विग्रहः । का । 'सोऽपदादौ इति सत्त्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिः यस्येति विग्रहः । कप् । 'इणः षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य सः द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह-इहेति। गणे अविभक्ति. कानामेव पाठः। इह तु केषाञ्चिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति । 'सम्पुकानाम्' इति सः। अर्थान्नज इति । गणसूत्रम् । नत्र परो योऽर्थः शब्दस्तदन्तात् बहुवीहेः कप स्यादिति तदर्थः। अनर्थकमिति । अविधमानोऽर्थो यस्येति विग्रहः । अपार्थम्-अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नपूर्वकत्वाभावात् न नित्यः कबिति भावः। इनः स्त्रियाम् । इन्नन्तात् कप स्यात् बहुवीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवः दण्डिनः यस्याम् इति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्मी । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः। नकारादिकार उच्चारणार्थः । तदि. तत्वात् गकारस्य नेत्सज्ञा, चकारस्य कुत्वम् , जश्त्वम् , वाग्ग्मीति रूपम् । बहवो चाग्ग्मिनो यस्यामिति विग्रहः। अत्रेन अनर्थकत्वेऽपि 'अनिनस्मन्' इति वचनात्तद. न्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी बहुदण्डिको ग्राम इति । बहवः दण्डिनः यस्मिनिवि विग्रहः । अन्न समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । .. शेषाद्विभाषा। इतः पूर्व येभ्यः समासान्ता विहिताः तेभ्योऽन्यः शेषः । तदाह
For Private and Personal Use Only
Page #608
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
988
-
-
समासान्ताच्छेषाधिकारस्थावहुव्रीहे: कन्वा स्यात् । महायशस्क:-महायशाः। अनुक्तइत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः। तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । (EB२) मापोऽन्यतरस्याम् ७४३१५॥ कप्यावन्तस्य हस्वो वा स्यात् । बहुमालाकः, बहु. मालकः । कबभावे बहुमालः । (६६३) न सज्शायाम् ५४१५५॥ 'शेषात्' (सू ८९१) इति प्राप्तः कन्न स्मात्सम्ज्ञायाम् । विश्वे देवा अस्य विश्वदेवः । (28) ईयसश्च ५।४।१५६॥ ईयसन्तोसरपदाथ कप् । बहवः श्रेयांसोऽस्य अनुक्तसमासान्तादिति । शेषाधिकारस्थादिति । शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति । महत् यशः यस्येति च विग्रहः । 'आन्महत:' इत्यारवे, कपि, 'सोऽपदादौ इति सत्वम् । महायशा इति । कबभावे 'अत्वसन्तस्य' इति दीर्घः । व्याघ्रपादिति । 'पादस्य लोपोऽहस्त्यादिभ्यः' इत्युक्तसमासान्तोऽयम्। स्थानिद्वारा लोपल्यापि समासान्तत्वात् । सुगन्धिरिति । 'गन्धस्येदुत्पूति' इति कृतसमासान्तोऽयम् । प्रियपथ इति । 'ऋक्पू' इति कृतसमासान्तोऽयम् । उपबहव इति । 'सङ्ख्ययाव्यय' इति बहुव्रीहिरयं , शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपि 'दिङ्नामान्यन्तराले' इति बहुवीहिः, न शेषाधिकारस्थः । सपुत्र इति । 'तेन सह' इत्ययमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह-तन्त्रादिनेति । आदिना आवृत्तिसङ्ग्रहः। एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चारितात् शब्दात् आवृत्त्या बोध इति बोध्यम् । 'श्वेतो धावति' इत्यादौ सकृदुच्चारणेऽपि ( भाष्ये ) 'श्वा इतो धावति, श्वेतगुणको धावति इत्येवमनेकार्थबोधदर्शनादिति भावः। आपोऽन्यतस्याम् । कपीति । 'न कपि' इत्यतस्तदनुवृत्तेरिति भावः । श्रावन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । हस्वो बेति । 'शदप्रां हस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । न कपिः इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति । बढयो माला यस्येति विग्रहः । हस्वपक्षे बहुमालक इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र 'स्त्रियाः पुंवत्' इति पुंवत्वम् ।।
न संशायाम् । शेषादिति प्राप्त इति । 'अनन्तरस्या इति न्यायात् 'शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, नतु व्यवहितस्य 'नवृतश्च' इत्यादिकप इति भावः । विश्वे देवा अस्येति । अत्र सज्ञायां समासस्य नित्यत्वात् लोकिकविग्रहप्रदर्शनं चिन्त्यमेव । ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईय. सन्तत्वादाह-ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत इति भावः । न कविति । 'न सब्ज्ञेयसोः' इति वक्तव्ये पृथग्योगकरणात् नित्यस्य वैकल्पिकस्य च
For Private and Personal Use Only
Page #609
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६००
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
बहुश्रेयान् । 'गोस्त्रियोः- (सू ६५६) इति ह्रस्वरवे प्राप्ते । 'ईयसो बहुव्रीहे. नैति वाच्यम्' (वा ६९६ ) । बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । भतिश्रेयसिः। (४५) वन्दिते भ्रातुः५।४।१५७॥ पूजितेऽर्थे यो भ्रातृशब्द. स्तदन्तान कप्स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता 'न पूजनात्' (सू ९५४ ) इति निषेधस्तु 'बहुव्रीही सक्थ्यक्ष्णोः-(सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः । (४६) नाडीतन्योः स्वाङ्गे ५४। १५३॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कन्न स्यात् । वहुनाडिः कायः । बहुतन्त्रीग्रीवा । बहुतन्त्रीधमनी । स्त्रीप्रत्ययान्तत्वाभावाद्धस्वो न। स्वाले किम् । बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा । (68) निष्प्रवाणिश्च ५।४।१६०॥ कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवा. कपोऽयं निषेध इति भावः । श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'आद्गुणः' इति गुणः । बहुश्रेया. निति । शैषिकः कनिषिध्यते । हस्वत्वे प्राप्ते इति । बलयः श्रेयस्यो यस्येति बहुव्री. हिः। तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात् 'गोस्त्रियोः' इति हस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्तात् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य हस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति । 'नयतव' इति नित्यः कबिह निषिध्यते, लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्वीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहु. जीहः किमिति । 'ईयसो बहुब्रीहेः' इत्यत्रेति शेषः । अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः।।
बन्दिते भ्रातुः । पूजितेऽर्थे इति । 'वदि अभिवादनस्तुत्योः' इत्युभयार्थकवादिधातो. रिह उभयसाधारणपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति । 'नयुतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति । सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि 'नघतश्च' इति प्राप्तस्य कपो निषेधः । ननु 'न पूजनात्' इत्येव निषेधे सिद्धे किमर्थमित्यत आह-न पूजनादिति । प्रागेवेति । एवं च 'नवृतश्च' इत्यादिकपः तेन निषेधाप्रासौ इदं वचनमिति भावः । नाडीतन्त्र्योः स्वाङ्गे । बहुनाडि: काय हति । प्राणिस्थत्वात् स्वाङ्गत्वसूचनाय काय इति विशेष्यम् । उपसर्जनहस्वः । 'नतश्च' इति प्राप्तः कप न भवति । बहुतन्त्रीविति । बहस्तन्त्र्यो यस्या इति विग्रहः । वीणा. तन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह-बहुतन्त्रीधर्मनीति। बहुतन्त्रीशब्दे 'गोस्त्रियोः' इति हस्वमाशङ्कयाह-स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितस्ततन्त्रीभ्य ई.' इत्यौणादिकस्य स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । 'वे.
For Private and Personal Use Only
Page #610
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता |
ण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्य: । ( - ) सप्तमीविशेषणे बहुव्रीहौ २२ ३५ ॥ सप्तम्यन्तं विशेषणं च बहुव्रीहो पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । चित्रगुः । 'सर्वनाम - 'सङ्ख्ययोरुपसंख्यानम्' ( वा १४१९ ) सर्वश्वेतः । त्रिशुक्लः । 'मिथोऽनयोः समासे सख्या पूम् शब्दपरविप्रतिषेधात् ' ( वा ५०४४) । द्वयन्यः । ' सख्याया अल्पी - तन्तुसन्ताने' इत्यस्मात् प्रपूर्वीत् 'करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । 'पूर्वपदात् सञ्ज्ञायाम्' इति णत्वम् । समाप्तवान इति । समाप्तं वानं वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।
६०१
1
"
· सप्तमी विशेषणे । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभा या सप्तमीति तदन्तग्रहणम् । तदाह - सप्तम्यन्तमिति । कण्ठेकाल इति । कण्ठे तिष्ठतीति कण्ठेस्थः स कालो यस्येति । विग्रहः । सुपीति योगविभागात् कः । 'सप्तम्युपमानपूर्वपदस्य' इति बहुव्रीहिसमासः, स्थशब्दलोपश्च इति 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् | 'अमूर्धमस्तकात्' इति सप्तम्या अलुक् । श्रत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदम् तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिकरणपदबहुबीहिज्ञापकम् । किञ्च विशेषत्वादेव सिद्धे किंवा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य कण्ठे इत्यस्या. धिकरणत्वं तस्य च कालरूपे उत्तरपदायें उपसङ्क्रमः, तदा कण्ठे इत्यस्याप्रथमान्तत्वात् बहुव्रीहेरप्रसक्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणात् अप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेन 'सच्छास्त्रजन्माहि विवेकलाभ:' इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमा निर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः ।
सर्वनामसङ्ख्ययोरिति । बहुब्रीहौ पूर्वनिपातस्येति शेषः । सर्वंश्वेत इति । सर्वः श्वेतः यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्यभावे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सवशब्दस्यैव पूर्वनिपातः, उपसर्जनवेsपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सख्यात्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्लः इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ भन्यौ यस्य द्वयन्य इति बहुant सर्वनामसङ्ख्ययोरन्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह- मिथोऽ`नयोरिति । सर्वनामसङ्ख्ययोरित्यर्थः । सङ्ख्या पूर्वमिति । प्रयोज्येति शेषः । शब्दप रेति । एकस्मिन्नेव सूत्रे सर्वनामसङ्ख्ययोः समासोपात्तत्वेऽपि सर्वनामसख्याश-:
For Private and Personal Use Only
Page #611
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
यस्याः' (वा १४१५)। द्वित्राः । द्वन्द्वेऽपि । द्वादश । 'वा प्रियस्य' (वा १४२०)। गुडप्रियः, प्रियगुडः । 'गड्वादेः परा सप्तमी' (वा १४२१)। गडकण्ठः । क्वचिन । वहेगडुः । (8) निष्ठा २२२॥३६॥ निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृत. कृत्यः 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' ( वा १४२२) । सारणानग्धी । मासजाता । सुखजाता प्रायिकं चेदम् । कृतकटः । पीतोदकः। (१००) वाऽहि. ताग्ल्यादिषु २॥२॥३७॥ आहितामिः । अग्न्याहितः । भाकृतिगणोऽयम् । 'प्रह
ब्दयोः सख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तरित्यर्थः । सङ्ख्यापा अल्पीयस्या इति । न्यूनाधिकसख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्व प्रयोग इति वक्तव्यमित्यर्थः। द्वित्रा इति, द्वौ वा यो ति विग्रहे 'सङ्ख्ययाव्यया हति बहुव्रीहिः। ननु 'द्वन्द्वे घि' इत्यतः द्वन्द्वे इत्युनुवृत्तौ 'अल्पान्तरम्' इति सूत्रभाष्येऽस्य वार्तिकस्य पाठात् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत माह-द्वन्देऽपीति । हदच वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तत इत्यर्थः । द्वादशैति । द्वौ च दश च इति द्वन्द्वः। सत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । तदस्मिन्नधिकमिति दशान्ताड्डः' इति सूत्रभाष्ये सहस्राणां शतम् इत्यथें शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति । बहुवीही पूर्व प्रयोगो वक्तव्य इत्यर्थः । गड्वादेः परा सप्तमीति । बहुव्रीही योज्येति वक्तव्यमिति शेषः । गडु. कण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मो सगोलः । ( अस
ज्ञात्वात् 'हलदन्तात्' इत्यलुक न ) । कचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः स्कन्धः तस्मिम् गडुर्यस्येति विग्रहः ।
निष्ठा । निष्ठान्तमिति । 'तक्तवतू निष्ठा' इति वक्ष्यति। तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दत्वात् विशेषणत्वे कामचारात् अन्यतरस्य पूर्व निपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति । 'जातिकालसुखा. दिभ्योऽनाच्छादनात् क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जाति. पूर्वस्योदाहरणमाह-सारङ्गजग्धोति । सारङ्ग:-हरिणः, जग्धः-भक्षितः यया इति विग्रहः। 'अस्वाङ्गपूर्वपदाद्वा' इति ङीष् । कालपूर्वस्योदाहरति-मासजातेति । मासः जातः यस्या इति विग्रहः । टाप । सुखपूर्वस्योदाहरति-सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवान शरणम् । कृतकट इति । कृतः कटः येनेति विग्रहः। अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति । पीतम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । वाहि. ताग्न्यादिषु । निष्ठायाः पूर्व प्रयोग इति शेषः। आहिताग्निरिति । आहिसा: आधानेन
For Private and Personal Use Only
Page #612
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
६०३
रणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५) । अस्युद्यतः। दण्डपाणिः । क्वचिन्न । विवृत्तासिः।
इति बहुव्रीहिसमासप्रकरणम् ।
अथ द्वन्द्वसमासप्रकरणम् ॥ २०॥ (६०१) चार्थे द्वन्द्वः २।२।२९॥ अनेक सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्वार्थाः। परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्याचयः। मिलितानामन्वये इत.
संस्कृताः अग्नयः येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति-अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति-दण्ड. पाणिरिति । दण्डः पाणौ यस्षेति विग्रहः । 'निष्ठा' इत्यस्य 'सप्तमीविशेषणे' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असियेनेति विग्रहः। एवञ्जातीयान्याहिताग्नशादित्वकल्पनया समाधेयानीत्याहुः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
वालमनोरमायां बहुव्रीहिसमासनिरूपणम् ।
अथ द्वन्द्वसमासनिरूपणम् -चार्थे द्वन्द्वः। 'सुबामन्त्रिते' इत्यतः सुबिति, 'अनेकमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिक. तम् । तदाह-अनेकमित्यादिना। कश्चार्थ इत्यत आह-समुच्चयेति । 'चान्वाचयस. माहारेतरेतरसमुच्चये' इत्यमरः। तत्र समुच्चयं निर्वक्ति-परस्परेति । एकस्मिन्निति । एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रयममन्वयः, तदनन्तरम. न्यस्यान्वयो यत्र, तत्र समुच्चयः चार्थ इत्यर्थः । यथा-ईश्वर गुरुच भजस्व इति । तत्र हि चशब्दयोगात् गुरोः ईश्वरसापेक्षत्वम् , न त्वीश्वरस्य गुरुसापेक्षत्वम् , तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवञ्च ईश्वरं च भजस्व गुरुं च भजस्व इति वाक्यद्वयं पर्यवस्यति । अथान्वाचर्य लक्षयति-अन्यतरस्येति। यत्रान्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः ।
For Private and Personal Use Only
Page #613
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०४
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
रेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्व इति समुच्चये, भिक्षामट गां चानय इत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । सब्ज्ञापरिभाषम् । अनेको के तृपोतृनेटोद्वातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोना.
यथा - भिक्षामट गां चानय इति । 'अट गतौ' । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः सङ्गता चेत् तामप्यानय, नतु गवानयने ऐदम्पर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति - मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र तत्रेतरेतरयोगः परस्परसाहचर्य चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति--समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा सन्ज्ञापरिभाषयोः समूहः सज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यथा धवखदिरौ छिन्द्वीति । समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् । यथा सञ्ज्ञापरिभाषमिति । तयोः समूह इति गम्यते । सज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् ।
तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईश्वरं गुरुं च भजस्वति । समुच्चयोदाहरणमिदम्। भिक्षामट गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इत्यत्रोक्तरीत्या ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्परमन्वयाभावादसामर्थ्यम् । मिक्षामट गां चानय इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरेतरयोगसमा. हारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति- धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति- सम्झेति । सञ्ज्ञा च परिभाषा च तयोः समाहार इति विग्रहः । समाहारस्यै. कत्वादेकवचनम् | 'स नपुंसकम्' इति नपुंसकत्वम् । ननु 'चायें द्वन्द्वः' इत्यत्र 'सुप्सु - पा' इत्यनुवृस्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्व्यथेत्यत आह-अनैको. क्तेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । ' आनकृतो द्वन्द्व' इति नेष्टृशब्दस्यैव उत्तरपदपरक-स्वात् आनङ्; नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होतापोतानेष्टोद्वावारः इति कथमित्यत
For Private and Personal Use Only
Page #614
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
६०५
-
-
-
तारः । (६०२) राजदन्तादिषु परम् २।२।३१॥ एषु पूर्वप्रयोगाहं परं स्यात् । दन्तानां राजा राजदन्तः । 'धर्मादिष्वनियमः' ( वा १४१८ ) अर्थधर्मों-धर्मार्थों दम्पती-जम्पती-जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते। भाकृतिगणोऽयम् । (१०३) द्वन्द्वे घि २।२।३२॥ द्वन्द्वे घिसम्झं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ। 'अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे (वा १४१०) हरिगुरुहरा:-हरिहरगुरवः । (४०४) मजाद्यदन्तम् २।२।३३॥ इदं द्वन्द्वे पूर्व आह-द्वयोरिति । होता च पोता चेति द्वयोर्द्वन्द्वः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोर्द्वन्द्वः । नेष्ट्रशब्दस्यानङ् । ततः होतापोतारौ च नेष्टोदा. तारौ चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्दे उत्तरपदे होतापोतृशब्दस्य आनहित्यर्थः । आनङि डकार इत् । डित्त्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्व. तिर्नी विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोदातृशब्दे आद्गुणश्च । : राजदन्तादिषु परम् । 'उपसर्जनं पूर्वम्' इत्यनुवर्तते । तदाह-एष्विति । राजदन्ता. दिग्वित्यर्थः । पूर्वप्रयोगार्ह मित्यतः प्राक् उपसर्जनमिति शेषः। राजदन्त इति । दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोपसर्जनत्वेऽपि परनिपातः । इह गणे राजदन्तावणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयः द्वन्द्वाश्च पठिताः अतो द्वन्द्वप्रकरणे तदु. पन्यासः । विष्वक्सेनार्जुनावित्यत्र 'अजाद्यदन्तम्' इत्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते, परनिपातः । धर्मादिष्वनियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमः वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यहित. त्वेऽपि परनिपातश्च । प्राकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः । द्वन्दे घि । पूर्वमित्यनुवर्तते । तदाह-पूर्व स्यादिति । हरिहराविति । हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहरगुरवः इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातः स्यादि. त्यत आह-अनेकेति । अनेकस्य घिसञ्जकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसन्ज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः। इदम् 'अल्पान्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावत् आकृति पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते, सकृच्छ्रुतत्वात् । न तु प्रति. व्यक्ति, तथा सति प्रतिव्यक्तयावृत्तिप्रसङ्गात् । ततश्च अनेकधिसज्ञकसमवाये एकस्य घिसम्ज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहरगुरव इति । हरगुरुशब्दयोन नियम इति भावः ।
For Private and Personal Use Only
Page #615
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्वन्द्वसमास
स्यात् । ईशकृष्णो । बहुम्वनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः । 'ध्यन्तादजाद्य. दन्तं विप्रतिषेधेन' (वा १४२६ ) इन्दाग्नी (8०५)अल्पान्तरम् २।२।३४॥ शिवकेशवो । "ऋतुनक्षत्राणां समानराणामानुपूव्र्येण ( वा १४२१) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणाम् किम् । प्रोप्मवसन्तौ । 'लघ्वक्षरं पूर्वम्' (वा १४१३) कुश काशम् । 'अभ्यर्हित च' ( वा १४१२ )। तापसपर्वतौ 'वर्णानामानुपूर्येण ( वा १४१५ ) ब्राह्मणक्षत्रियविट्छुद्राः । 'भ्रातुायसः' (वा
अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वेऽप्यजादित्वाभावान्न पूर्वनिपातः। बहुवनियम इति । वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र पित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह-प्यन्तादिति । घ्यन्तशब्देन 'द्वन्द्वे घि' इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी। विप्रतिषेधसूत्रेण 'द्वन्द्व घि' इत्येतत् बाधित्वा 'अजाद्यन्तम्' इति प्रवर्तते इत्यर्थः । अल्पाच्तरम् । अल्पः अल्पसहन्यः अच् यस्य तदल्पाच्, तदेवाल्पाच्तरम् । अत एव निपातनात् स्वाथें तरप, कुत्वाभावश्च । अल्पसङ्ख्याच्कपदं द्वन्द्वे पूर्व प्रयोज्यमिः स्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तु 'द्विवचनविभज्या इत्यतिशयाथें तरप्स्यात् , तदा धवखदिरपलाशाः इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरप इति स्थितम् । ___ ऋतुनक्षत्राणामिति । समानसङ्ख्याकानां, ऋतूनां नक्षत्राणां च द्वन्द्व आनुपूव्येण क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः। हेमन्तशिशिरवसन्ता इति । त्रयाणामृतूनामानुपू] लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि। ग्रीष्मवसन्ताविति । विषमाक्षरत्वान वसन्तस्य पूर्वनिपातः । किन्तु, अल्पाच्त्वात् ग्रीष्मस्य पूर्वनिपातः । लध्वक्षरं पूर्वम् । लघु अक्षरमच यस्य तत् द्वन्द्वे पूर्व प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यहितं चेति । श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः । तापसपर्वताविति । पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदाहृतम् । गर्भधारणपोषाभ्यां पितुर्माता गरी. यसी' इत्यादिस्मृतेरिति तदाशयः । वर्णानामानुपूयेणेति । एषां क्रमेण पूर्वनिपातः । 'ब्रह्मक्षत्रियविद्छूद्रा वर्णाः' इत्यमरः । तेषामानुपूयं तु 'प्रजापतिरकामयत प्रजाये. येति, स मुखतखिवृतं निरमिमीत' इत्यादितैत्तिरीयब्राह्मणादिसिद्धम् । भ्रातुायसः इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः । अत्र द्वन्द्वे घि' 'अजायन्तम्' इति विधिद्वयम् 'अल्पान्तरम्' लघ्वक्षरं पूर्वम्', ऋतुनक्षत्राणाम्', 'अभ्यर्हितं ' 'भ्रातुायसः' इति विधिभिः परत्वात् बाध्यते । भाष्ये तु सर्वत एवाहित पूर्वनिपातमितिः
For Private and Personal Use Only
Page #616
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६०७
-
१४१६ ) युधिष्ठिरार्जुनौ । (१०६) बन्दश्च प्राणितूर्यसेनानानाम् ॥४॥२॥ एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दशिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्ध नियमार्थ प्रकरणम् । प्राण्यादीनां समाहार एव यथा स्यात् । (50) अनुवादे चरणानाम् २।४॥३॥ चरणानो द्वन्द्वः एकव. रस्यासिद्धस्योपन्यासे 'स्थेणोलुंगीति वक्तव्यम्। (१५-३५-१५-३६)। उदगात्कण्ठ. मतान्तरं स्थितम् ।
द्वन्द्वश्व प्राणि । प्राणितूर्य सेनाङ्गानीति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाण: अनशब्दः प्रत्येकं सम्बध्यते इत्येभिप्रेत्य आह-एषामिति । प्राण्यङ्गानां सूर्या झानां सेनाडानां चेत्यर्थः । द्वन्द्व इति । समाहारद्वन्द्वः । इत्यर्थः। 'द्विगुरेकवचनम्। इति पूर्वसूत्रे 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकस्यात्राप्यनुवृत्तः । एकवदिति । एकवचनमित्यनुवर्तते । एक वकीत्येकवचनम् । कर्तरि ल्युट सामान्याभिप्राय नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः। अत्र समाहारे एकव. त्वं 'स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्वात् प्राण्य. गोदाहरणमिदम् । अथ तूर्याङ्गछन्द्वे उदाहरति-मार्दङ्गिकपाणविकमिति । मृदङ्गापणव. शब्दौ वाद्यविशेषपरौ। इह तु तद्वादनेऽपि वर्तते । मृदङ्गवादन शिल्पमस्येत्यर्थे 'शिल्पम्' इति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादे. कवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् । 'स नपुंसकम्। इति नपुंसकत्वम् । सेनाङ्गद्वन्द्व उदाहरति-रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः। पपादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेनावयवत्वादेकवत्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह-समाहारस्यैकत्वादिति । समाहार एवेति । न वितरेतरयोगः। एषां द्वन्द्वनियमार्थे सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहार एवेति नियमार्थानि । नचेतरेतरयोगद्वन्द्वे एषामेकत्त्वविधानार्थमिदं सूत्रमस्तु । तथाच पाणिपादः इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यम् , 'समाहारग्रहणं कर्तव्यम् इति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समा. हारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । नच रथिकमार्दगिकावित्यादावतिप्रसङ्गः शङ्कया, प्राण्यङ्गानां परस्परद्वन्द्व एकवत् , तूर्याङ्गानां परस्परद्वन्द्व एकवत् , सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् ।।
अनुवादै चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषाश्चरणाः । तद्वा. चिनां परस्परद्वन्द्वः एकवदित्यर्थः। अनुवाद इत्येतद्वयाचष्टे-सिद्धस्योपन्यासे इति । अवगतार्थस्य प्रतिपादने ।इत्यर्थः। स्थेणोरिति । लुङीति प्रत्येकमन्वयाभिप्रायमेक
For Private and Personal Use Only
Page #617
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०८
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
कालापम्, प्रत्यष्ठात्कठकौथुमम् । ( 8०८) अध्वर्युक्रतुरनपुंसकम् २४|४| यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्व - मेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ, सामवेदे विहितौ । अनपुंसकम् किम् । राजसुयवाजपेये । अर्धचांदी । (६०६) अध्ययनतोऽविप्रकृष्टाख्यानाम् २ | ४|५|| अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्वः एकवत् । पदकक्रम
वचनम् । लुङन्ते स्थाधातौ लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां इन्द्रः एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इण्धातोर्लुडि रूपम् । कठकालापमिति । क ेन प्रोक्तमधीयते इति कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य 'कठचरकात्' इति लुक् । ततोऽध्ये तृप्रत्ययस्य 'प्रोक्ताल्लुकू इति लुक् । कलापिना प्रोक्तमधीयये इति कालापाः । प्रोक्तार्थे 'कलापिनोऽण् 'सब्रह्मचारिपीठसर्पि' इत्यादिना टिलोपः । ततोऽध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात् स्थाधातोलुङि रूपम् । कठकौथुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयते इति कौथुमाः । प्रोक्तेऽर्थे 'तेन प्रोक्तम्' इत्यण् । 'सब्रह्मचारि' इत्यनेन टिलोपः । ततोsध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठाः कालापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्केतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन् कठकालापाः । लुङि किम् अतिष्ठन् कठकालापाः ।
"
1
अध्वर्युक्रतुः । अध्वर्यु शब्दोऽत्राध्वर्युकर्म विधायकयजुर्वेदपरः । तदाह-यजुर्वेदे इति ॥ श्रर्काश्वमेधमिति । अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितऋतू । अर्कस्य चाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह- सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह - अर्धर्चादी इति । अध्ययनतः । अविप्रकृ शख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह - अध्ययनेन प्रत्यासन्नेति । सन्निकृष्टेत्यर्थः । पदकक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः । ' क्रमादिभ्यो वुन् । पदकानां क्रमकाणां च समाहार इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यध्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्, 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तद्ध्येतृत्वे तु न
For Private and Personal Use Only
Page #618
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता ।
६०8
कम् । (१०) जातिरप्राणिनाम् २।४॥६॥ प्राणिवर्जजातिवाचिनो द्वन्द्वः एकवत्। धानाशष्कुलि । प्राणिनां तु, विटछूद्राः । द्रव्यजातीयानामेव । नेह। रूपरसौ। गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु, बदरामलकानि । (४११) विशिष्टलिङ्गो नदीदेशोऽग्रामाः।४७॥ ग्रामवर्जनदीजातिरिति भावः । जातिरप्राणिनाम् । जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा, जातिवाचिनामित्यर्थः । धानाशष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवत्त्वम् , नपुंसकत्वाद्धस्व इति भावः । विट्छुद्रा इति । विशश्च शूद्राश्चेति विग्रहः। द्रव्यजातीयानामेवेति । अप्राणिनामिति पर्युदासे सति नमिवयुक्तन्यायादिदं लभ्यत इति भावः। रूपरसाविति । गुणगतजातिवचनावेतौ । गमनाकुम्चने इति क्रियागतजातिविशेषवाचिनावेतौ।।
ननु बदर्याः फलानि बदराणि, आमलक्याः फलान्यामलकानि 'फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजा. तिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं बदरामलकानीति कथं रूपद्वयम् 'जातिरप्राणिनाम्' इत्येकवत्त्वस्य नित्यत्वादित्यत आहजातिप्राधान्ये इति । व्यक्तिविशेषानादरेण सकलतत्तव्यक्त्यनुस्यूतजातिविवक्षाया. मित्यर्थः। घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः। जातेश्च निराश्रयाया उपस्थित्यसम्भवात् आश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात् कृत्स्नाप्युपस्थिता। तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्त. मानकृत्स्नव्यक्तीनां च क्रियान्वयासम्भवात् व्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं तत्तज्जात्याश्रयसकलतत्तद्वयक्तिबोधकत्वात्मकम् । घटाः शुक्लाः इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवशाद्वयक्तिवि. शेषानेव जातिरुपस्थापयतीति जातेरप्राधान्यम् , जात्याश्रयसकलव्यक्त्यनुपस्थापकत्वादिति तस्यादितः इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्व. जात्या आमलकत्वजात्या चाविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमि. त्येकवद्भावः । द्रव्यविशेषेति । आरण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वा. मलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्रा. म्याणां व्यक्तीनामनुपस्थितेः तयोर्जात्योरप्राधान्यात नायमेकवद्भाव इत्यर्थः । क्षीरोदके सम्पृक्ते इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः ।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः । अग्रामा इति च्छेदः । व्यत्यनेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुः भेदे वर्तते-विशेषणं विशेष्येणेत्यादौ यथा। विशिष्टं लिङ्ग येषामिति विग्रहः । तथा च ग्रामवाचकभिन्नाः भिन्नलिङ्गकाः ये नदीवाचिनः ये देशवाचि.
बा०३६
For Private and Personal Use Only
Page #619
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्वन्द्वसमास
देशवाचिन मिन्नलिझानां समाहारे द्वन्द्वः एकवत्स्यात् । उस्यश्च इरावती च उद्ध्येरावति । मजा च शोणश्च गङ्गाशोणम् । कुरवश्व कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानाम् किम् । गङ्गायमुने। मद्रकेकयाः। अप्रामाः किम् । जाम्बवं नगरम् । शाकिनी प्रामः । जाम्बवशालू किन्यो। (8१२) क्षुद्रजन्तवः ॥ एषां समाहारे एव द्वन्दः एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः । (8१३) येषां च विरोधः शाश्वतिकः २।४॥ एषां प्राग्वत् । अहिनकु. लम् । गोव्याघ्रम् , काकोलूकम् इत्यादौ परत्वात् 'विभाषा वृक्षमृग'-(सू ९१६) इति प्राप्तं चकारेण बाध्यते । (११४) शूद्राणामनिरवसितानाम् २।४।१०॥
नश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते । तदाह-ग्रामवर्जेति। समाहारे द्वन्द्व इति । एकत्त्वविधेः फलाभिप्रायमेतत् , अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात् । उद्धयश्चेति । उद्धयो नाम नदविशेषः, हरावती नाम काचिन्नदी। तयोर्नदीविशेषवाचकत्वादेकत्त्वम् । नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वासम्भवादिति भावः । जाम्बवशालूकिन्थाविति । 'अप्रामाः' इत्य. नेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वे नगरपामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः । क्षुद्रजन्तवः । एतेषां द्वन्द्वः एकवदि. त्यर्थः । फलितमाह-एषां समाहारे एव द्वन्द्व इति। यूकालिक्षमिति । यूकाश्च लिक्षा. श्चेति विग्रहः । केशबहुले शिरःप्रदेशे स्वेदजाः जन्तुविशेषाः यूकाः, लिक्षाश्च प्रसि. द्धाः । एकवत्वं नपुंसकहस्वत्वं च । श्रा नकुलादिति । 'नकुलपर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः। . येषां च । शेषपूरणेन सूत्रं व्याचष्टे-एषां प्राग्वदिति । समाहारद्वन्द्वः ।एकवदि. त्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते । ततो भवाथें ठन् । निपातनात् अव्ययानां भमात्रे टिलोपः, 'इसुसुक्तान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः। विरोधो वैरम् , नतु सहानवस्थितिः। तेन छायातपावित्यत्र न भवति । देवासुराः इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात्। अमृतादिप्रयुक्ताः कादा. चित्क एव हि तेषां विरोधः, अमृतमथनादिकाले तेषां विरोधाभावात् । ननु 'विभाषा वृक्षमृग' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य सावत् गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य अहि. नकुलमित्यवकाशः । गोव्याचं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्व. क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्ख्याह-गोव्याघ्रमिति । चकारेणेति । येषां चेति चका.
For Private and Personal Use Only
Page #620
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
-
-
www.
अबहिष्कृतानां शूद्राणां प्राग्वत । तक्षायस्कारम् । पात्राद्वहिष्कृतानां तु चण्डाल. मृतपाः । (8१५) गवाश्वप्रभृतीनि च ॥४॥११॥ यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि । (१६) विभाषा वृक्षमृगतृणधान्य. व्यानपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥१२॥ वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव प्रहणम्' (वा ५१८) प्लक्षन्यग्रोधम्-प्लक्षम्यग्रोधाः । रुरुपृषतम्-रुरुपृषताः ।
रेणेत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
शूद्राणाम् । अनिरवसितशब्दं व्याचष्टे-प्रबहिष्कृतानामिति । 'यैर्भुक्तं पानं क्षारो. दकप्रक्षालनेन संस्कारेणापि न शुध्यति ते निरवसिताः चण्डालादयः । येस्तु भुक्त पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः' इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, अनिरवसितानामिति लिङ्गात्। प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः। तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः। अनिर. वसितानामित्यस्य प्रयोजनमाह-पात्रादिति । चण्डालमृतपा इति । एतदभुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति अत एव भाष्याद्विशेयम् । धर्मशास्त्रेषु च प्रसिद्धमे. तत् । गवाश्वप्रभृतीनि च । यथा गणे पठितानि तथैव साधूनीत्यर्थः। गवाश्वमिति । गावाचाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्ष' इति पशुद्वन्द्वत्वात् विकल्प प्राप्ते नित्योऽयं विधिः । अत्र सर्वत्र विभाषा' इति प्रकृतिभावे पूर्वरूपे च गो अश्वं गोऽश्वमिति नैकवत्त्वनियमः, यथोच्चारितानीत्युक्तेः गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु 'यथोच्चारितं द्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दामीदासमिति । अत्रैकवत्त्वनियमः । 'पुमान् स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवाविकं. गवैडकमित्यादि वृत्तौ स्पष्टम् ।
विभाषा वृक्ष । द्वन्द्व इत्यनुवृत्तम् । एकापि षष्ठीविषयभेदात् भिद्यते । वृक्षादिसमानामवयवत्वेनान्वयः-वृक्षादीनां द्वन्द्व इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । अचवडवादियुगलत्रयस्य त्वभेदेनान्वये-अश्ववडव, पूर्वापर, अधरोत्तर इत्यात्मको द्वन्द्व इति । तदाह-वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादा. विति । वृक्षविशेषवाचिनां, तृणविशेषवाविना, धान्यविशेषवाचिनां, पशुविशेषवाचिनां चेत्यर्थः । स्वं रूपम्। इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नार्य विधिरिति फलितम् । किं तु 'जातिरप्राणिनाम्' इति नित्यमेवैकत्त्वम् । तत्र वृक्षायवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति-प्लक्षेति । लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति-रुरुपृषतमिति । रुवश्च पृष.
For Private and Personal Use Only
Page #621
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
-
कुशकाशम्-कुशकाशाः। ब्रोहियवम्-व्रीहियवाः । दधिघृतम्-दधिघृते । गोम. हिषम्-गोमहिषाः । शुकबकम्-शुकबकाः । अश्ववडवम्-अश्ववडवो। पूर्वापरम्पूर्वापरे। अधरोत्तरम्-अधरोत्तरे । 'फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानो बहुप्रकृतिरेव द्वन्द्वः एकवदिति वाच्यम्' (वा १५४० )। बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम् (सू ९१०) इत्येकवद्भावः । नेह, बदरामलके, रथिकाश्वारोही, प्लक्षन्यग्रोधावित्यादि । 'विभाषा. वृक्ष(सू ९१६ ) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनाम्' (सू० ९१०) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते
ताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति-कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति-ब्रीहीति । ब्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरतिदधीति । दधि च घृतं चेति विग्रहः। पशुद्वन्द्वमुदाहरति-गोमहिषमिति । गावाच महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति-शुकेति । शुकाश्च बकाश्चेति विग्रहः । अश्ववडवादिद्वन्द्वमुदाहरति-अश्ववडवमिति । अश्वाश्च वडवाश्चेति विग्रहः । 'पूर्व. वदश्ववडवौ' इति अश्ववडवादित्यत्र पूर्वपदवत् पुंलिङ्गता।
फलसेनैति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि' इत्यादि. सूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एकवत् भवति, नत्वेक. द्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति-बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वात् 'जातिरप्राणिनाम्' इत्येकवत्त्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजनमाह-नेहेति । बदरामलके इति। बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाभावान्न 'जातिरप्राणिनाम्' इत्ये. कवत्त्वम् । रथिकाश्वारोहाविति। अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपि 'विभाषा वृक्ष' इत्येकवत्त्वं न । इत्यादीति । रुरुपृषतो, अत्र मृगद्वन्द्वत्वेऽपि नैकवत्त्वम् । हंसचक्रवाकौ, अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूका. लिक्षे, अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ, अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्वम् । कुशकाशी, अन्न तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् ।
ननु 'चार्थे द्वन्द्वः' इत्यनेनेतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात् 'विभाषा वृक्ष' इति सूत्रं व्यर्थमित्याशङ्कयाह-विभाषेत्यादिविकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं दधिधृतम् इत्येतेषु 'जातिरप्राणिनाम्' इति नित्यविहितैकवत्त्वानित्यत्वार्थमप्राणि
For Private and Personal Use Only
Page #622
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
'मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थ मृगशकुनिग्रहणम् । एवं पूर्वापरम् , अधरोत्तरम् इत्यपि। अश्वव. डवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवौ' (स
क्षादिग्रहणमित्यर्थः। नन्वेवमपि पशुग्रहणं व्यर्थम् , तदुदाहरणे गोमहिषमित्यत्र 'जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्याप्राप्त्या तन्निवृत्त्यर्थत्वायोगादित्यत आह-पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वात् नित्ये प्राप्ते इति । विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थम् , तदुदाहरणे रुरुपृषतं शुकबकमित्यादौ 'जातिरप्राणिनाम्" इति एकवत्त्वस्य सेनाङ्गानिवन्धनकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाभावेन 'चाथै द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धरित्यत आह-मृगांणां मृगैरेवेत्यादि मृगशकुनिग्रग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह उभयत्र इतरेतरयोगे समाहारे च 'चाय'इति द्वन्द्वः । यथा-रुरुपृषातं, रुरुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च 'चार्थे। इति द्वन्द्वः । यथाशुकबकम् , शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयो. गद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा-रुरुशुका इति । एतादृशनियमार्थ मृग. शकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणं च व्यर्थम् , 'चार्थे। इत्येव सिद्धेः । 'जातिरप्राणिनाम्' इत्यादिनित्यैकवत्त्वस्य तत्र अप्रवृत्त्या तन्निवृत्त्यर्थत्वास. म्मवादित्यत आह-एवं पूर्वापरं अधरोत्तरम् इत्यपीति । यथा मृगशकुनिग्रहणं मृगै. रेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरश. ब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्त. रावित्यादा इतरेतरयोग एवेति नियमार्थ पूर्वापरग्रहणम् अधरोत्तरगहणं चेत्यर्थः ।
ननु अश्ववडवग्रहणं व्यर्थम् , सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकदावविकल्पसिद्धे. रित्यत आह-प्रश्ववडवेति। नपुंसकत्वविकल्पार्थमित्यर्थः। ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम् । तथाच पशुद्वन्द्वत्वात् एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवञ्च समाहारद्वन्द्वपक्षे 'स नपुंसकम्' इति नपुंसकत्वम्, इतरेतर. योगे तुनेति नपुंसकत्वविकल्पस्य सिद्धत्वात् अश्ववडवग्रहणं व्यर्थमेवेत्यत आहअन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपि 'स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्वपदश्ववडवौ इति पुस्त्वं स्यात् । नपुंसकविधौ तु तत्सा. मात् समाहारद्वन्द्वपक्षे 'पूर्ववदश्ववडवौ' इत्येतत् बाधित्वा नपुंसकत्वं भवत्येव । 'अधिकारप्राधपूर्ववदश्वेत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः ।
For Private and Personal Use Only
Page #623
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
"
८१३ ) इति स्यात् । ( ६१७) विप्रतिषिद्धं चानधिकरणवाचि २४|१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम्-शीतोष्णे । वैकल्पिकः समाहारद्वन्दः 'चार्थे' ( सू ९०१ ) इति सूत्रेण प्राप्तः सः विरुद्धार्थाना यदि भवति तद्रव्यवाचिनामेवेति । नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धम् किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव । ( 8१८ ) न दधिपयमादीनि २|४|१४॥ एतानि नैकवःस्युः । दधिपयसी । इध्माबर्हिषी। निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ।
•
विप्रतिषिद्धं च । विभाषा इत्यनुवर्तते । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरण द्रव्यम् | अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह - विरुद्धार्थानामिति । गोत्वाश्वत्वं, गोत्वा
वे सुखदुःखं सुखदुःखे इत्याद्युदाहरणम् । ननु 'चायें' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवस्त्वविकल्पसिद्धेः इदं व्यर्थम् । नच 'जातिरप्राणिनाम्' इति नित्ये प्राप्ते विकल्पार्थमिति वाच्यम्, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह-- वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनि यमेनेत्यर्थः -- शीतोष्णे उदके स्त इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वात् न समा. हारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खड्गः नन्दकः, शङ्खस्तु पाचजन्यः, तयोरेकत्र विष्णौ सहावस्थानात् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषि
1
ग्रहणाभावे 'चायें' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात् । विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्वश्चेत् तर्हि अद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्राविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि 'चायें' इति कदाचित् समाहारद्वन्द्वः, कदाचित् इतरेतरयोगद्वन्द्वश्च भवत्येव । तदाह- इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति ।
न पियादीनि । तानि नैकवत् स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः । 'जातिरप्राणिनाम्' इति नित्यमेकवस्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इमं च बहिश्चेति विग्रहः । दीर्घ इति । इध्मशब्दस्येति शेषः । ऋक्समासे इति । ऋक् च साम चेति विग्रहः । 'अचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक् च मनइचेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्व एवेति
For Private and Personal Use Only
Page #624
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६१५
(88) भधिकरणैतावत्वे च २४॥१५॥ द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः । (४२०) विभाषा समीपे २।४॥१६॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एव इत्येवंरूपो नियमो वा स्यात् । उपदशम् , दन्तोष्ठम् । उपदशाः, दन्तोष्ठाः। (६२१) मानतोद्वन्द्वे ६३।२५॥
नियमप्रक्रमेऽपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमल्याप्राप्तेः । किन्त्वेकवत्त्वस्यैव । तथाच 'चायें। इति समाहारद्वन्द्वस्य निषेधः फलति । भधिकर. पैतावरवे च । अधिकरणं द्रव्यं, तस्य एतावत्त्वमियत्ताविशेषः । तदाह-द्रव्यसङ्ख्या. वगमे इति। समस्यमानपदार्थस्येयत्ताविशेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । ब्रह्मप्रजापती इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतल्या. प्रवृत्तेरेकवत्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकामात् प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति। दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम् , न तु समाहारद्वन्द्वः। समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् 'उपमितं व्याघ्रादिभिः' इति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युपगमात् । ततश्चात्रैकवदेवेति नियमाभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । बदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठाः इतीतरेतरयोगद्वन्द्वो न स्यात् , 'द्वन्द्वश्च प्राणितूर्य' इति तन्निषेधात् । तथाच वाक्यमेव स्यात् । किञ्च समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनासामर्थ्यादेवाप्राप्तेः । अतः एकवदिति नियमो न स्यादित्येव व्याख्येयम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वानिवृत्तिफलकस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमार्यो स्पष्टम् ।
विभाषा समीपे। अधिकरणैतावत्त्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परि. च्छिन्ने सतीत्यर्थः । फलितमाह-अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थेऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समान. लिङ्गवचनत्वादव्ययीभावस्यैवानुप्रयोगः इति भाष्यम् । अत एवोपदशं दन्तोष्ठेने. त्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्य. दन्तोष्ठसमूहाएकादशत्वसङ्ख्यदन्तोष्ठसमूहः इति वा बोधः। उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः ।
For Private and Personal Use Only
Page #625
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्वन्द्वसमास
विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनन स्यादुत्तरपदे परे । होतापोतारौ। होतृपोतृनेष्टोद्गातारः। मातापितरौ । 'पुत्रेऽन्यतरस्याम्' (सू ९८०) इत्यतो मण्डूकप्लत्या 'पुत्रे' इत्यनुवृत्तेः पितापुत्रौ। (६२२) देवताद्वन्द्वे च ६।३।२६॥ इहोत्तरपदे परे आनङ् । मित्रावरुणौ । 'वायुशब्दप्रयोगे प्रतिषेधः' (वा ३९०५)। अग्निवायू-वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेद ब्रह्मप्रजापती इत्यादौ नानछ । एतद्धि नैकहविर्भागित्वेन श्रुतम् , नापि लोके
नव एकादश वेत्यर्थः । बहुव्रीहेरेवाबानुप्रयोगः समानलिङ्गवचनत्वात् इति भाष्यम् । .. पानद्धृतो द्वन्द्वे। विद्यायोनिसम्बन्धवाचिनामिति । विद्यासम्बन्धवाचिनां योनिसम्ब न्धवाचिनां चेत्यर्थः । ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋतः' इत्येकवचनम् । अदन्तसर्वावयवकानामि. त्यर्थः। ऋत इत्यनुवर्तमाने पुनः ऋत इत्युक्तिः एतदथेति भावः । उत्तरपदे परे इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोताराविति । होता च पोता चेति वि. ग्रहः । विद्याद्वारकैकयज्ञत्विक्त्वकृतः सम्बन्धः । आनङि डकार इत्, अकार उच्चार• णार्थः, 'डिच्च' इत्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्त्यर्थ इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य पोतृशब्दस्य च नाना , नेष्टुशब्देन व्यवधानात् उत्त. रपदपरकत्वाभावात् । तथाच नेष्टुशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्ट्रशब्दस्याऽऽनङदर्शनात् । अथ योनिसबन्धमुदाहरति-मातापितराविति । पितृपितामहाः इत्यादौ तु नानङ् । ऋदन्तसर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह-पुत्रेऽन्यतरस्यामिति । 'ऋतो विद्यायोनिसम्बन्धेभ्यः इत्यत्र 'विभाषा स्वस्पत्योः' इत्यत्र च मध्यऽसम्बन्धादाह--मण्डूकेति । अनुवृतेरिति । नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम् , दन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात् ।
देवताद्वन्द्वे च । मित्रावरुणाविति । इह दन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः। ननु पूर्वसूत्रात् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्यः। एतदिति । एतत् ब्रह्मप्रजापतियुगलं हविर्भागि. त्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम् , 'वेदे ये सहनिपनिर्दिष्टाः इत्येव भाष्ये दर्शनात् , लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेश्वरावित्या.
For Private and Personal Use Only
Page #626
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६१७
प्रसिद्ध साहचर्यम् । (8२३) ईदग्नेः सोमवरुणयोः ६।३।२७॥ देवता द्वन्द्वे इत्येव । (२४) अग्नेः स्तुत्स्तोमसोमाः ॥३२॥ अग्नेः परेषा. मेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः। अग्नीषोमौ । अग्नीवरुणौ । (६२५) इद्वद्धौ ६३॥२८॥ वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणो देवते अस्य आग्निवारुणम् । 'देवताद्वन्द्वे च' (सू १२३९) इत्युभयपदवृद्धिः। भलौकिके विप्रहवाक्ये आ. नमीत्वं च बाधित्वा इत् । वृद्धौ किम् । भाग्नेन्द्रः । 'नेन्द्रस्य परस्य (सू१२४०)
दावतिप्रसङ्गाच्च । ईदग्नेः । इत्येवेति । देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्यात् देवताद्वन्द्वे इत्यर्थः । आनडोऽपवादः। अग्नेः स्तुत्। स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठ्यर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठ्येकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । 'समासेऽङ्गन्ले' इत्यतः समासे इत्यनुवर्तते । तदाह-अग्नेः परेषामिति । षः स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यनुवृत्तेरिति भावः। 'सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । ऋतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य संस्थाविशेषस्य च नाम । अग्नीषो. माविति । अग्निश्च सोमश्चेति विग्रहः। ईत्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्वम् । देवताद्वन्द्वे किम् । अग्नि म कश्चित् , सोमो नाम कश्चित् । अग्निसोमौ । अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम् , अग्नेर्दीर्घात् सोमस्य इष्यते' इति वातिकात् ।
इवृद्धौ । अग्नेरिति देवताद्वन्द्वे इति चातुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदासम्भवात् । तदाह-वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्सज्ञा। नापि तपरकरणम् , विधीयमानत्वादेव सवर्णाग्राहकत्वात् । अग्नामरुताविति । अग्निश्च मरुच्चेति विग्रहः । 'देवताद्वन्द्वे च' इत्या. नङ् । आग्निमारुतं कर्मेति । 'साऽस्य देवता' इत्यम् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नीवरुणाविति । 'इदग्नेः' इतीत्त्वम् । आग्निवारुणमिति । 'साऽस्य देवता' इत्यण । ननु तद्धितेष्वचामादेः' इत्यादरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आह-देवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिर्व्यर्थ इत्यत आह-आनङमीत्त्वं च बाधित्वेति । आग्निमारुतमित्यत्रानङः आग्निवारुणमित्यत्र ईत्त्वस्य च बाधनार्थमग्नेरिकारस्य पुनरिकारविधानमित्यर्थः ।
ननु 'समर्थानां प्रथमावा' इत्यत्र परिनिष्ठितात् 'तद्धितोत्पत्तिरिति वक्ष्यते । तथा व अग्नामारुतौ देवते अस्येति, अग्नीवरुणो देवते अस्येति च विग्रह अग्नामरुच्छ.
For Private and Personal Use Only
Page #627
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
इत्युत्तरपदवृद्धिप्रतिषेधः । 'विष्णौ न' ( वा ३९०९)। भाग्नावैष्णवम् । (२६) दिवो द्यावा ६३।२६॥ देवताद्वन्द्व उत्तरपदे । द्यावाभूमी । द्यावाशामे । (8२७) दिवसश्च पृथिव्याम् ६।३।३०॥ दिवः इत्येव, चाहयावा । आदेशेऽकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । योश्च पृथिवी च दिवस्पृथि.
ब्दात् अग्नीवरुणशब्दाच्च आनडीत्त्वाभ्यां परिनिष्ठितात् देवतावन्द्वात् 'साऽस्य देव. ता' इत्यण तद्धितः उत्पद्यते । ततस्तनिमित्तकोभयपदवृद्धिः । ततः 'इवृद्धौ इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोपत्तेः प्रागेव प्रवृत्तयोरानडीत्त्वयोः कथम् 'इदू. वृद्धौ इत्यनेन बाधः ? युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये-'भुक्तवन्तं प्रति मा भुक्था इत्युक्ते, कि तेन कृतं स्यात्' इति । अत आहअलौकिके विग्रहवाक्ये इति । अग्नि मरुत भौ देवते अस्येति, अग्नि वरुण औ देवते अ. स्येति च तद्धितालौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्त्वं नास्ति, तद्धिताभावात् । तथाप्यु. त्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः । श्राग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ। देवताद्वन्द्वे च' इत्यानङ् आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः । 'साऽस्य देवता' इत्यम् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाभावात् 'इवृद्धौ' इति नेति भावः । 'देवताइन्छे च' इत्युभयपदवृद्धिमाशङ्कयाह-नेन्द्रस्येति । विष्णौ नेति। विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । श्राग्नावैष्णवमिति । अग्निश्च विष्णुश्च अग्नाविष्णू । 'देवताद्वन्द्वे च' इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे 'साऽस्य देवता' इत्यम्। आमावैष्णवं हविः । देवताद्वन्द्वे च' इत्युभयपदवृद्धिः। इत्त्वाभावादानडेव ।
दिवो द्यावा। शेषपूरणेन सूत्रं व्याचष्टे-देवताद्वन्द्वे इति । द्यावाभूमी इति । योश्च भूमिश्चेति विग्रहः। द्यावाक्षामे इति । 'द्यावाक्षामा रुक्मो अन्तर्विभाति' इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । धौश्च क्षामा चेति विग्रहः। क्षामाशब्दो भूमिपर्यायः वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठयास्तु 'सुपां सुलु' इति डादेशः, 'देव. ताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् । दिवसश्च पृथिव्याम् । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह-चादिति । तथाच दिवशब्दस्य दिवसादेशः पावादेशश्च स्यात् पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः। दिवस्पृथिव्याः इत्यत्र सकारा. दकारस्याश्रवणादिवसादेशस्य सकारान्तत्वावश्यम्भावात् आदेशे सकारादकारोच्चा. रणस्य किं प्रयोजनमित्यत आह-आदेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो
For Private and Personal Use Only
Page #628
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० 1
बालमनोरमासहिता ।
व्यौ - द्यावापृथिव्यौ । 'छन्दसि दृष्टानुविधिः' । ' द्यावा चिदस्मै पृथिवी । 'दिवस्पृथिव्योररतिः' इत्यत्र पदकाराः विसर्ग पठन्ति । ( 8२८) उषा सोषसः ६ |३|३१|| उषस्शब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् । (२६) मातरपितरावुद्दीचाम् ६|३|३२|| मातरपितरौ । उदोचाम् किम् । मातापितरौ । ( ९३०) द्वन्द्वाच्चुदषहान्तात्समाहारे ५|४|१०६ ॥ चवर्गान्ताद्दषहान्ताथ द्वन्द्वाच् स्यात्समाहारे । वाक्च त्वक्च वाक्त्ववम् | त्वक्लजम् । शमीदृषदम् । वाक्तित्वषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्छरदो ॥ इति द्वन्द्वसमास प्रकरणम् ।
म:' इति रुत्वं नेति भावः । ननु 'द्यावा चिदस्मै पृथिवी सन्तमेते' इत्यत्र दिवशब्दपृथिवीशब्दयोः कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्य. नेन व्यवहितत्वादित्यत आह- छन्दसि दृष्टातुविधिरिति । भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यथा दृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति ॥ 'दिवस्पृथिव्योः' इत्यवग्रहे विसर्ग पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठख्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितम् अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् ।
उषासोषसः । उषा सामूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितरावुदीचाम् । उदीचां मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशब्दस्यारङादेशो निपात्यते । मातापितराविति । अरङभात्रे 'आनङ्कृतः' इत्यानङ् | द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहसखिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । वाक्चचमिति । वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाच्च वर्गान्तत्वादृच् । एवं त्वक्त्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति । शमी च दृबच्चेति विग्रहः । दकारान्तत्वादृच् । वाक्त्विष मिति । वाक्च त्विट् चेति विग्रहः । षान्तत्वादृच्, जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्छरदाविति । प्रावृटू च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ।
"
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां द्वन्द्वसमासप्रकरणं समाप्तम् ।
For Private and Personal Use Only
६१६
·
Page #629
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२०
सिद्धान्तकौमुदी
अथैकशेषप्रकरणम् ॥ २१ ॥
अथैकशेषः वः । 'सरूपाणाम् -' ( सू १८८ ) रामौ रामा: । 'विरूपाणामपि समानार्थानाम् ' ( वा ७४७ ) । वक्रदण्ड कुटिलदण्डश्व बक्रदण्डी कुटिलदण्डौ । (३१) वृद्धो यूना तल्लक्षणश्चेदेव विशेषः १/२२६५ ॥ यूना सहोकौ गोत्रं शिष्यते, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्ययणश्च गार्ग्यौं । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गंगा
[ एकशेष
1
अथैकशेषो निरूप्यते - तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभतेअथैकशेष इति । निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्व व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह- सरूपाणामिति । तदुदाहरणमपि स्मारयति - रामौ रामाः इति । विरूपाणामिति । 'सरूपाणाम्' इत्यनेन सूत्रेणार्थभेदेऽपि शब्देकरूप्ये एकशेषः उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थेक्यात् अन्यतरः शिष्यत इति भावः । वृद्धो यूना । रूपतोऽर्थतश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति । 'जीवति तु वंश्ये युवा' इति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः । सहोक्ताविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देन 'अपत्य पौत्रप्रभृति गोत्रम्' इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च 'गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम्, अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिक गोत्र* विवाक्षतमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घञन्तमनुवर्तत इति भावः । तरलक्षण इति । सः गोत्रप्रत्ययः युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रहः । विशेषः वैलक्षण्यम् । तथाव गोत्रयुवप्रत्ययान्तयोर्विशेषः वैरूप्यम्, तल्लक्षइचेत् गोत्रयुवप्रत्ययनिमित्तकरचेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः । तदाह - गोत्रयुवेति । कृत्स्नमिति । एवकारलभ्यमिदम् ।
1
1
-
1
1
गार्ग्यश्चेति । गर्गस्य गौत्रापत्यं गार्ग्यः । गर्गादिभ्यो यज् । गार्ग्यायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गार्ग्यायणः । 'यञिञोश्व' इति फक् । गार्ग्यविति । अत्र गार्ग्यशब्दस्य गार्ग्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गार्ग्यशब्दः शिष्यत इति भावः । गर्गगार्ग्यायणाविति । गर्गश्च गार्ग्ययणश्चेति विग्रहः । अत्र गर्गशब्दस्य गार्ग्यायणशब्दस्य च युवप्रत्ययमाश्रकृत वैरूप्येsपि गोत्रप्रत्ययान्तत्वाभावान्नैकशेष इति भावः । गर्गगार्ग्याविति । अत्र गर्गशब्दस्य गार्ग्यशब्दस्य च गोत्रप्रत्ययमात्रकृत वैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यते,
For Private and Personal Use Only
Page #630
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१ ]
बालमनोरमासहिता ।
यौं । तरुलक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नम् किम् । गावा रस्यायनी (४३२) स्त्री वश्च ११२२६६ ॥ यूना सहोकौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्ययणीच गर्गाः । ' अस्त्रियाम्' इत्यनुवर्तमाने ‘यञञोश्च' ( सू ११०८ ) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी । ( ३३) यूना सहोक्त्यभावादिति भावः । भागवित्तिभागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । 'वृद्धा सौवीरेषु' इति ठक् । अत्र भागवित्तिशब्दस्य भागवित्तिकशब्दस्य चन गोत्र युवप्रत्ययमात्रकृलं वैरूप्यम्, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागवित्तिशब्दो न शिष्यत इति भावः । गार्ग्य वात्स्यायनाविति । गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः गर्गादित्वाद्यञ् । वत्सस्थापत्यं युवा वात्स्यायनः । 'यत्रिञोश्च' इति फक् । गार्ग्यश्च वात्स्यायनंश्चेति विग्रहः । अत्र गार्ग्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम्, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्यय मात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यत इति भावः ।
स्त्री पुंवच्च । वृद्धो यूनेत्यनुवर्तते । वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाहयूना सह वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति । तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गाग चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियजन्तात् 'यजश्च' इति ङोपू । गार्ग्य. यणौ चेति । गर्गाद्यनन्तात् यून्यपत्ये 'यञिञोश्च' इति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् ।
६२१
यि कुतो न श्रूयत इत्यत आह-अस्त्रियामितीति । उपलक्षणमिदम् | 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः एतेन पुंवदित्यस्य प्रयोजनमुक्तम् । गार्गी च गार्ग्ययणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वात् यत्रो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम्गार्ग्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह - दाक्षी चेति । दक्षस्य गौत्रापत्यं स्त्री दाक्षी । 'अत इञ्' इतीजन्तात् 'इतो मनुष्यजातेः' इति ङीष । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः । 'यजिजोवचेति फक् । दाक्षी च दाक्षायणश्चेति विग्रहे दाक्षीशब्द शिष्यते । तस्य पुंवे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने दाक्षी इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गार्गी च वारल्या
For Private and Personal Use Only
•
Page #631
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२
सिद्धान्तकौमुदी
[एकशेष
पुमान् स्त्रिया शश६७॥ स्त्रिया सहोक्तौ पुमाञ्छिष्यते, तल्लक्षण एक विशेषश्चेत् । हंसी च हंसश्च हसौ। (६३४) भ्रातृपुत्रौ स्वसूदुहितृभ्याम् शशः ॥ भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्री (१३५) नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् शश६६॥ अक्लीबेन पहोतो क्लीबं शिष्यते, तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी। शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि । (६३६) पिता मात्रा १२।७०॥ मात्रा सहोतो पिता वा शिष्यते। माता च पिता
यनश्चेत्यत्र न भवति ।
पुमान्स्त्रिया । तल्लक्षण एवेति । 'वृद्धो यूना' इत्यस्तदनुवृत्तेरिति भावः । हंसी चेति । अन पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते । स्त्रीत्वपुंस्त्वकृतवैरूप्यादेव 'सरूपाणाम्' इत्यस्याप्राप्तिः। मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवा. चकमातृशब्दयोस्तु नायमेकशेषः । एकविभक्तौ सरूपाणामित्यनुवत्य एकविभक्तो सरूपाणां स्त्रीत्वपुंस्त्वेतरकुतवैरूप्यरहितानामित्याश्रयणात् । इह च मातरावित्यत्र 'अप्तृन्' इति दीर्घतदभावाभ्यामपि वैरूप्यात् । अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् । भ्रातृपुत्रौ । स्वसदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपुत्रौ शिष्येते। स्वरूप. तोऽपि वरूप्यादप्राप्तौ वचनम् । नपुंसकम् । अन्यतरस्याग्रहणम् एकवदित्यनेनैवा. न्वेति, आनन्तर्यात् , नत्वेकशेषेणेत्याह-तच्चेति । तल्लक्षण एवेति । नपुंसकत्वान. पुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्ल: पटः शुक्ला शाटी शुक्लं वस्त्रमिति । पटशब्द. समभिव्याहारात् शुक्लशब्दः पुंलिङ्गः, शाटीशब्दसमभिव्याहारात् स्त्रीलिङ्गः, वनश. ब्दसमभिव्याहारे तु मपुंसकलिङ्गः, 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्य. मरोक्तेरिति भावः । तच्च सा च इदं च तत् । अयं च इयं च इदं च इदम् । शुक्लव शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच्च भवन्ति । तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाभावे रूपाणि न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वात् एकवदिति व्यर्थमिति वाच्यम् , अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओदनश्च मोदनं च तयोः समाहारे ओदनमिति न भवति । ओदनशब्दो यर्ध. र्चादिः । ओदनश्च ओदन चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न अनभिधानात् । एवञ्च क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमानस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं चाश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् ।।
पिता मात्रा । 'पुमान् स्त्रिया' इत्यत्र सरूपाणामित्यनुवृत्तेरप्रासाविदं वचन विक.
For Private and Personal Use Only
Page #632
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१]
बालमनोरमासहिता ।
६२३
-
-
च पितरौ-मातापितरौ वा । (१३७) श्वशुरः श्वश्रवा १२७१॥ श्वश्र्वा सहोतो श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ-वधूश्वशुरौ वा । (६३) त्यदादीनि सर्वैनित्यम् २७२॥ सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । 'त्यदादीनी मिथः सहोतो यत्परं तच्छिष्यते' (वा ८०१)। स च यश्च यौ, (सा च या च ये )। 'पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्च तौ। 'त्यदादितः शेषे पुष. पुंसकतो लिङ्गवचनानि' (वा ७९९)। सा च देवदत्तश्च तौ । तच्च देवदत्तव यज्ञदत्ता च तानि । पुनपुंसकयोस्तु परत्वानपुंसक शिष्यते। तच्च देवदत्तश्च ते । 'मद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' (वा ८००)। कुक्कुटमयूर्याषिमे । रूपाय च । मातापितराविति । "पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृत्या. मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'मानतः' इत्यानङ् । श्वशुरः श्वश्वा । श्वश्रूश्वशुराविति । श्वश्र्वा अपि मातृतुल्यत्वोक्तेरभ्यर्हितत्वम् । श्वश्रः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः । इह तल्लक्षणमहणानुवृत्तिः स्पष्टार्था, 'श्वशुरः श्ववा' इति शब्दग्रहणात्। त्यदादीनि । सर्वैरिति । त्यदादिभिरितश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तदेवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदा. दीनां मिथ इति । भाष्ये स्थितमेतत् । यत् परमिति । त्यदादिगणे यत् परं पठितं तच्छि. यत इत्यर्थः, शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्व पाठात् परत्वात् स एव शिष्यते इति भावः । पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वमपि शिष्यत इति भावः । अत्र 'द्विपर्यन्तानाम्' इति न भवति । अहं च भवांश्चावामिति भाष्योक्तः । त्यदादित इति । आधादित्वात् षष्ठयथें तसिः। त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच नपुंसकं तद्वशेन लिङ्ग प्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाक्षायामात्य. दादीन्येव सम्बध्यन्ते। सा च देवदत्तश्च ताविति । अत्र तच्छन्दः शिष्यते समभिव्या. हृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुनपुंसकयोरिति । सहोक्ताविति शेषः । परत्वादिति । पुनपुंसकतो लिङ्गवचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः। - अद्वन्द्वति । द्वन्द्वतत्पुरुषविशेषणानां ।त्यदादीनां स्त्रीशेषे 'त्यदादितः शेषे पुनपुंस'कतो लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः। द्वन्द्व उदाहरति-कुक्कुटमयूर्याविमे इति । अयं च इयं च हमे इत्यत्र 'त्यदादितः शेषे इति पुंलिङ्गत्वं न भवति, किन्तु विशेष्य.
For Private and Personal Use Only
Page #633
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[एकशेष
मयूरीकुक्कुटविमौ । तच्च सा च अर्धपिप्पल्यौ ते। (३९) ग्राम्यपशुसङ्घ बतरुणेषु स्त्री ॥२॥७३॥ एषु सहविवक्षायां स्त्री शिष्यते । 'पुमान् स्त्रिया' (सू ९३३ ) इत्यस्यापवादः। गावः इमाः। ग्राम्य इति किम् । रुरव इमे । निघ्नतव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वात् उभयमपि विशेष्यम् । तथापि परवलिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्यम् । न च भयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, 'पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुंनपुंसकतः लिङ्गाविधेः प्रसक्तिः कथमिति वाच्यम् , 'परवल्लिङ्गम्। इति हि द्वन्द्वतत्पुरुषयोः परव. लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गामिति भाष्यकैयटयोः स्थितम् । ततश्च 'कुक्कुटमयूर्या विमे' इति उदाहरणे-अयं च इर्य च इति विग्रहे 'पुमान स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य 'त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचि. न्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते तत्तु प्रकृतानुपयुक्तम् , अत्र मयू. रीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वा. प्रसक्त्या तत्र 'त्यदादितः शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेन 'अद्वन्द्वतत्पुरुषविशेषणा. नाम्' इति निषेधस्यानुपयोगात्। . तत्पुरुषे उदाहरति-तच्चेति । पिप्पल्या अर्धम् अर्धपिप्पली । 'अर्ध नपुंसकम्। इति तत्पुरुषः। अर्धपिप्पली च पिप्पल्यधं च अर्धपिप्पल्यो। तज्ञ सा च ते। तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सेति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र 'पुमान स्त्रिया' इत्यस्य नैव प्रसक्तिः। किन्तु 'नपंसकमनपुंसकेनैकवत्' इति नपुंसक शिष्टम् । तत्र 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य स्त्रीलिङ्गत्तया तद्विशेषणस्यापि 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे इति नपुंसकत्वं प्राप्त निषिध्यते । एवञ्च ते इति स्त्रीलिङ्ग-मेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः । तथाप्यर्धपिप्पल्यस्ताः इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।
ग्राम्यपशु । एष्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घवित्यर्थः। इह अनसकेनेत्यनुवर्तनादाह-पुमान् स्त्रियेत्यस्यापवाद इति । गौश्च गौश्च गौश्च इति लिड़ास्त्रीलिङ्गषु गोशब्देषु सहविवक्षितेषु 'पुमान् स्त्रिया' इत्येतवाधित्वा स्त्री शिष्यत इति भावः। ननु स्त्रीशेषे शेषे वा न कोऽपि रूपभेद इत्यत आह-इमा इति । अनु. प्रयोगे रूपभेदः फलमिति भावः। 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः इति भाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः कृष्णाख्यो मृगः। अग्राम्यपशु
For Private and Personal Use Only
Page #634
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१]
बालमनोरमासहिता।
पशुप्रहणं किम् । ब्राह्मणा इमे । सधेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे । 'अनेकश फेष्विति वाच्यम्' (वा ८०५)। अश्वा इमे । इह सर्व.
कशेषे कृतेऽनेकसुबन्ताभाषावन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्ये. स्यन्तोदात्तः प्राण्यत्वादेकवद्भावश्च न । पन्थानौ पन्थानः इत्यादी समासान्तो न ।
इत्यैकशेषप्रकरणम् ॥ स्वान्न स्त्री शिष्यते। किन्तु 'पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुंलिङ्गत्वमेव । ब्राह्मणा इमे इति । ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान्न स्त्री शिष्यते। किन्तु 'पुमान् स्त्रिया' इत्येकशेषः । अन्यथा ब्राह्मण्यः इमा इति स्यात् । एतौ गावाविति । स्त्रीलिङ्गलियोः सहोतो असङ्घत्वान्न स्त्री शिष्यते। सधशब्दो हि बहूनां समुदाये धर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरि. ग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साच इति विग्रहः। तरुणत्वान्न स्त्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगः स्यात् । अनेकशफेग्विति वाव्यमिति । वार्तिकमिदम् । एकशफा अचादयः, तेषां सहोक्तौ ग्राम्यपश्चिति न भवति। अश्वा इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः ।।
ननु 'सरूपाणाम्' इति सूत्रे 'तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषः स्यादित्यत आह-इहेति । इहोदाहृतेषु एकशेषविषयेषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते स्वेकशेषेऽनेकाभावात् द्वन्द्वो नेत्यर्थः। द्वन्द्वसमासे एकशेष इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह-तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तोदात्तः स्यात् , प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणि' इत्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौपन्थानः, पथिभ्याम् पथिभिः इत्यादौ 'अक्पू' इत्यप्रत्ययः समासान्त. स्यादिति भावः। नचात्र 'इतोऽत्सर्वनाम' इति सर्वनामस्थाने परेऽकारविधाना. ल्लिङ्गात् समासान्तः सुपरिहः। 'इतोऽत्' इत्युक्तेऽपि सावित्यनुवर्त्य पन्था इति सिद्धरिति वाच्यम्, 'पथो विभाषा' इति समासान्ताभावे अपन्थानावित्यादौ 'इतोऽत्' इति।सूत्रस्य सावकाशत्वात् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायाम् एकशेषप्रकरणं समाप्तम् । बा०४०
For Private and Personal Use Only
Page #635
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
सिद्धान्तकौमुदी
[सर्वसमासशेष
अथ सर्वसमासशेषप्रकरणम् ॥ २२ ॥ कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। परार्याभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितवा. त्साधुलौकिकः । प्रयोगानोऽसाधुरलौकिकः । यथा राज्ञः पुरुषः, राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा। समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि 'सह सुपा'
अथ प्रसङ्गात् सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते-कृत्तद्धितेति । कृदन्ताः तद्धितघटिताः समासा एकशेषाः सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह-परार्थाभिधानं वृत्तिरिति । 'समर्थः पदविधिः' इति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रह. वाक्यावयवपदार्थेभ्यः परः अन्यः योऽयं विशिष्टैकार्थः तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टै. कार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्च 'समर्थः पदविधिः' इति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव, 'सुप्सुपा' इत्यनुवयं समासविधानात् , सुबन्तात्तद्धितोत्पत्तेः वक्ष्यमाणत्वात् । कृतामपि केषाञ्चित् 'कर्मण्यण' इति उपपदनिमित्तकानां पदविधित्वमस्त्येव । 'सुप आत्मनः क्यच्' इत्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेः द्वन्द्वविषये तद्विधा. नात् एकार्थीभावोऽस्त्येव इति मञ्जूषादौ विस्तरः। वृत्त्यर्थावबोधकमिति। यद्यपि वृत्तावेव समुदायशक्त्या विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम् । तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् ।
परिनिष्ठितत्त्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानह इति । व्याकरणसंस्कृ. तत्वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति । लौकिकविग्रहवाक्यमिति शेषः । राजन् + अस् पुरुष सु इति । अलौकिकविग्रहवाक्यमिति शेषः । अविग्रहो नित्यसमास इति । लौकिकविग्रहवाक्यरहित इत्यर्थः, समासस्य नित्यत्वा. दिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्य. समास इत्यर्थः। सज्ञाविषयसमासे तु वाक्येन सज्ञानवगमेऽपि वृत्तिघटकपदः ज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाभावात् गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति । प्रायस् इत्यव्यय बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुविध्यप्रवाद इत्यर्थः। कुत इत्यत आह
For Private and Personal Use Only
Page #636
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २२ ]
बालमनोरमासहिता ।
( सू ६४९) इति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधा नस्तत्पुरुषः, अन्य पदार्थ प्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राची वादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गम् इत्याद्यव्ययीभावे, अतिमालादौ तत्पुरुषे द्वित्राः इत्यादिबहुव्रीहौ, दन्तोष्ठम् इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगु: । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् । किं च -
६२७
सुप सुपा तिचा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥
सुप सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः । धातुना,
I
श्रब्ययीभावेति । बहिर्भूतानामपीति । समासानामिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्य इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चेत्यनन्तरं श्रुतमभावादिति पदम् अव्ययी • भावे इत्यनन्तरं तत्पुरुषे इत्यनन्तरं बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मत्तगङ्गं देशः, लोहितगङ्ग देशः, इत्यव्ययीभावे. ऽन्यपदार्थप्रधानतया पूर्वपदार्थप्रधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्रधान्याभावादित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थ प्राधान्याभावादित्यर्थः । दन्तोष्ठमित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थ प्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति । 'तत्पु रुषः समानाधिकरणः कर्मधारयः' इत्युक्तेरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः । 'सङ्ख्यापूर्वी द्विगुः' इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । ' अनेकमभ्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्ववि धावप्यनुवृत्तेरिति भावः । क्वचिदेवेति । द्वयहजात इत्यादावित्यर्थः । इत्युक्तमिति । भाष्यादाविति शेषः ।
किन्चेति । अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङ. न्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षडूविधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति । सुपां तिडेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । 'सह सुपा' इत्यत्र सहेति योगविभागात् परीति सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुषां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । 'उपपदमति' इति कुम्भस्येति षष्ठ्यन्तस्य कारेति प्रातिपदिकेन समासः
For Private and Personal Use Only
Page #637
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२८
सिद्धान्तकौमुदी
[ सर्वसमासान्त
कटः | अजस्रम् | तिखां तिङा, पिबतखादता । खादतमोदता । तिङी सुपा । कृन्त विचक्षणेति यस्य क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ।
इति सर्वसमासशेषप्रकरणम् ।
अथ सर्वसमासान्तप्रकरणम् ॥ २३ ॥
(४०) ऋक्पूरब्धूः पथामानक्षे |४| ४ || अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात्, अक्षे या धूस्तदन्तस्य तु न ।
1
'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इत्युक्तेरिति भावः । धातुनैति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति । 'क्विश्वचिप्रच्छ्या यतस्तुकट जुश्रीणां दीर्वोऽसम्प्रसारणं च' इति वार्तिकेन 'प्रु गतौ' इति धातुना समासो निपातितः, ननु तिङन्तेनोपपदसमास इति भ्रमितव्यम्, विविधाविह सप्तमी निर्देशाभावेन उपपदत्वाभावात्, अथ सुपां धातुनोदाहरणान्तरमाह - श्रजस्रमिति । 'नमिकम्पिस्म्यजसक मिहिंसदीपो रः' इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङां सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्दीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-रहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिडां सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम्, उभयत्रापि सुनिटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तिडेत्यनेन सुबन्त पूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः ।
I
इति श्रीवासुदेवदीक्षितविदूषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सर्व समासशेषप्रकरणं समाप्तम् ।
·
अथ सर्वसमाससाधारणसमासान्ता निरूप्यन्ते - ऋक्पूरब्धूः । छेद इति । सूत्रे अ इति लुप्त प्रथमान्तनिर्देश इति भावः । 'समासान्ता' इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह - ऋगायन्तस्येति । ऋक्, पुर्, अप्, धुर्, पथिन् एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । श्रक्षे या धूरिति ।
For Private and Personal Use Only
Page #638
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
६२६
अर्धर्चः । अनृचगहृवृचावध्येतर्येव । नेह, अनुक्साम । बब्रुक्सूक्तम् । विष्णोः पूर्विष्णुपुरम् । क्लीवत्वं लोकात् । विमलापं सरः । ( ६४१ ) यन्तरुपसर्गेभ्योSप ईत् ६ | ३ | ४७ अप इति कृतसमासान्तस्यानुकरणम् । षध्यर्थे प्रथमा । एम्योsपस्य ईत्स्यात् । द्वयोर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । 'समापो देवयजन' मिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह स्वप् स्वपी । 'अवर्णान्ताद्वा' ( वा ५०४५) । प्रेपम् । परे
I
अक्षसम्बन्धिनी या धूरित्यर्थः । सूत्रे सम्बन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धुशब्देनैव सम्बध्यते, अन्यैरसम्भवादिति भावः । श्रर्ध इति । चोऽर्धमिति विग्रहः । 'अर्ध' नपुंसकम्' इति समासः । अकारः समासान्तः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबहूवृचावध्येतयैवेति । अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजुरध्येता । बहवः ऋचः यस्येति बहुवृचः ऋक्छाखी इत्युदाहरणम् । अध्येतयेंवेति नियमस्य प्रयोजनमाह - नेहेति । अनृक्सामेति । अविद्यमानाः ऋचः यस्मिन्निति । विग्रहः । ऋच्यनध्यूढं प्रजापतेर्हृदयं साम । बहूवृक्सूक्तमिति । बहवो ऋचः यस्मिन्निति विग्रहः । अथ पुर्शब्दान्तस्योदाहरति - विष्णोरिति । ननु पुरशब्दस्य स्त्रीत्वात् 'परवल्लिङ्गम्' इति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आह— क्लीबरवं लोकादिति । अथापशब्दान्तस्योदाहरति - विमलापं सर इति । विमलाः आपः यस्मिन्निति विग्रहः ।
-
द्वयन्तरूप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर उपसर्ग एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याशब्दस्येत्यर्थः । तस्यादिति । 'आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोःपार्श्वयोर्गताः आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्र-त्ययः, ईत्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति । प्रतिकूलाः आपो यस्मिन्निति विग्रहः । उपसर्गात् परत्वात् ईत्वम् । समीपमिति । सङ्गताः आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात् परत्वाभावात् ईत्त्वं नेति भावः । देवा इज्यन्ते अस्मिन्निति देवयजनं यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्वं नेत्युक्त्वा समापं नाम देवयजननित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः, 'समीपसमृद्धि' इति निर्देशात्, समीपमिति भाष्ये उदाहरणाच्च । स्वबिति । शोभना आपो यस्येति विग्रहः । 'न पूजनात्' इति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्वं न । स्वपी इति । प्रथमाद्वि
For Private and Personal Use Only
Page #639
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
सिद्धान्तकौमुदी
। सर्वसमासान्त
पम् । प्रापम् । परापम् । (६४२) ऊदनोदेशे ६३॥८॥ अनोः परस्यापस्य ऊत्स्थाद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथः, रम्यपथो देशः। (१४३) अच्प्रत्यन्ववपूर्वात्मामलोम्नः ५।४।७५॥ एतत्पूर्वा. त्सामलोमान्तात्समासादच्स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । 'कृष्णोदक्पाण्डुसङ्ख्यापूर्वायाः भूमेरजिष्यते' (वा ५०४६) कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः । 'सङ्ख्याया
-
वचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात् परस्यापल्य ईत्त्वं वा वक्तव्यमि. त्यर्थः । प्रेपम् प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपम् । परापमिति । परागता आपो यस्येति विग्रहः । ऊदनोर्देशे । ईत्त्वस्यापवादः । ऊत् स्यादिति । 'आदेः परस्य' इति ज्ञेयम् । अनूपो देश इति । अनुकूलाः आपः यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । अनूपः इत्यत्र ऊपोऽवग्रहणार्थ दीर्घोच्चारणमिात भाष्यम् । बवृचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्णन्ति । तदेवं, 'ऋपू' इति सूत्र. गतः अप्शब्दः प्रपञ्चितः। अथ धूशब्दान्तस्योदाहरति-राजधुरेति । राज्ञो धूरिति विग्रहः । धूशब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः । 'परवल्लिङ्गम् इति स्त्री. त्वम् । टाप । अक्षे विति । अक्षसम्बन्धिनी या धूस्तदन्तात् अकारप्रत्ययो न। अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्यायं धूः । अनेन 'अक्ष समासाथें धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाले पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवं 'ऋक्पू:' इति सूत्रे धूशब्दः प्रपञ्चितः। अथ पथिन्शब्दस्योदाहरति-सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । सखिपथ इति पाठे तु सख्युः पन्थाः इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।
अच्प्रत्यन्वव । एतत्पूर्वादिति । प्रति, अनु, अव एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच, 'नस्तद्धिते' इति टिलोपः। अनुसाममिति । अनुगतं सामेति विग्रहः । अच, टिलोपः। अवसाममिति । अवकृष्टं सामेति विग्रहः । अच, टिलोपः। प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वत्राच्, टिलोपः । कृष्णोदगिति । नेदं वार्तिकम् । किं त्वच्प्रत्येत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य, तिस्त्रो भूमयः यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । सङ्ख्याया इति । इदमव्यजिति
For Private and Personal Use Only
Page #640
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
६३१
नदीगोदावरीभ्यां च ' ( वा ५०४७ ) । पञ्चनदम् । खप्तगोदावरम् । अच् इति योगविभागादन्यत्रापि । पद्मनाभः । (१४४) अक्ष्णोऽदर्शनात् ||४|७६ ॥ अचक्षुः पर्यायादक्ष्णोऽच्स्यात्समासान्तः । गवामक्षीव गवाक्षः । (६४५) भचतुर.. विचतुरसुचतुरस्त्रीपुसधेन्वनडुहक् सामवाङ्मनसाक्षिभ्रुवदार गवोर्व
ष्ठवपदष्ठीवनन्दिवरात्रिदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषढ्यायुषयुषजुषजातो क्षमहोक्षवृद्धोक्षो पशुनगोवा: ५।४।७७ । एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य अचतुरः । विचतुरः । सुचतुरः । 'युपाभ्यां चतुरोऽजिष्यते' (वा ३३५१) । त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे | वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्व योगविभागमूलकमेव । सङ्ख्यायाः परो यो नदीशब्दः गोदावरीशब्दश्व ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि 'यस्येति च' इति लोपः । 'नाव्ययीभावात्' इत्यम् । अन्यत्रापीति । अजिति शेषः । पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु योगविभागस्य भाष्येऽदर्श - नात् पृषोदरादित्वमेवोचितम् । अणोऽदर्शनात् । आदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं चक्षुः । करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह - अचक्षुः पर्यायादिति । गवामक्षीवेति । अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते मुख्यवृत्त्या चक्षुर्वाचकत्वाभावादच् । पुंस्त्वं लोकात् । श्रचतुर । श्राद्यास्त्रयों बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् ।
I
1
चतुर इति । 'नञोऽत्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति । सुशोभनानि चत्वारि यस्येति विप्रहः । 'न पूजनात' इति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः । 'सङ्ख्ययाव्ययासन्न' इति बहुवीहिः । 'बहुवीहौ सङ्ख्येये डच्' इति उच बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च वेत्यर्थः । सङ्घययाव्यय' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः ।। अच् । स्त्रीपुमांसाविति न भवति । धेन्वनडुहाविति । धेनुश्च अनड्वांश्चेति विग्रहः । अच् । धेन्वनडवाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति ॥ ऋच
For Private and Personal Use Only
Page #641
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
सिद्धान्तकौमुदी
[ सर्वसमाधान्त
दारगवम् । अरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाहिलोपः। पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्कन्दिवम् । रात्री च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीही तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह। निःश्रेया.
साम चेति विग्रहः । अच, टिलोपः । ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति। अक्षिभ्रवमिति । अन् 'प्राण्यङ्गत्वादेकवत्त्वम् । अक्षि इति न भवति । दारगवमिति । समाहारद्वन्द्वादच । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वा. देकवत्त्वम् । उरू सक्थिनी । अष्ठीवन्तौ जानुनी । 'सक्थि क्लीवे पुमानूरू:' इति, 'जानूरुपर्वाष्ठीवदस्त्रियाम्' इति चामरः । नन्वडित्वादनान्तत्वाञ्च कथं टिलोप इत्यत आह-निपातनाटिलोप इति । पदष्ठीवमिति । पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्य. ङ्गत्वादेकवत्त्वम् । नन्वभत्वात् कथमिह पादशब्दस्य पद्भाव इत्यत आह-निपातना. दिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तन्दिवेति द्वन्द्वादच । 'यस्येति च' इत्याकारलोपः, 'अव्ययीभावश्च' इत्यव्ययत्वम् , नपुंसकत्वं च। 'ना. व्ययीभावात्' इत्यम्भावः । मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेन्तित्वं निपात्यत इत्यर्थः । 'यस्येति च' इति आकारलोपः, अम्भावश्च ।
अहदिवमिति । द्वन्द्वे कृते सुब्लुकि, लुका लुप्ते प्रत्ययलक्षणं नेति प्रत्ययलक्षणा. भावात् 'रोऽसुपिइति रत्वम् , अच्, 'यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह द्वन्द्वः । अहव्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि 'विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत आह-वीप्सायां द्वन्द्वो निपात्यत इति । 'नित्यवीप्सयोः' इति वीप्सायां द्विवंचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरि. त्यज्य इत्यस्वपदविग्रहः । रजः धूलिः । साकल्ये सहशब्दस्य रजशब्देनाव्ययीभावः। 'अव्ययीभावे चाकाले' इति सहशब्दस्य सभाकः । अच् । अव्ययीभाव इति । भाष्ये तथावचनात् अव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कज मिति । रजोभिः परागैः सहेति विग्रहः 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्या इति सहस्य सः । बहुव्रीहित्वात् नाच । निःश्रयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भा. प्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वानाच् इति भावः ।
For Private and Personal Use Only
Page #642
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता।
-
न्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्ययुषम् । ततस्त्रयः कर्मधारयाः। जातोक्षः । महोक्षः। वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे वा गोष्ठश्वः । (५६) ब्रह्मास्तिभ्यां वर्चसः ५।४।७॥ अचस्यात् । ब्रह्मवर्च. सम् । हस्तिवर्चसम् । 'पल्यराजभ्यां चेति वक्तव्यम्' ( वा ३३५२)। पल्यवचसम् । राजवर्चसम् । (१७) भवसमन्धेभ्यस्तमसः ५४७६॥ अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम् । पचायच् । अन्धं तमोऽन्धतमसम् ।
-
प्रयसश्च' इति निषेधान का। पुरुषायुषमिति । षष्ठीसमासात् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । द्वयायुषम् . व्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । तद्धिताथेंइति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । कग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः। ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोक्ष इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन् शब्दे टिलोपः। महोक्ष इति । महां. श्चासावुक्षा चेति विग्रहः । 'आन्महतः' इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति । वृद्धश्चासावुक्षा चेति विग्रहः । अचि टिलोपः। उपशुनमिति । अव्ययीभावादच , तथा भाष्यात् । नन्वत्र 'नस्तद्धिते' इति टिलोपः कुतो न स्यात् । 'अतद्धिते' इति पर्युदासात् 'श्वयुवमघोनामतद्धिते' इति कथं वा सम्प्रसारणं स्यादित्यत आह-टिलोपाभावः सम्प्रसारणं च निपात्यत इति । गोष्ठश्व इति । सप्तमीसमासादजिति भाष्यम् । अत एव भाष्यात् सप्तमीसमासः । टिलोपः । 'अतद्धिते' इति निषेधान सम्प्रसारणम् । षष्ठीतत्पुरुषे तु गोष्ठावा। ___ ब्रह्म । शेषपूरणेन सूत्रं व्याचष्टे-अच्स्यादिति । ब्रह्मवर्चसमिति। ब्रह्मणो वर्च इति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्च इति विग्रहः । पल्यराजभ्यामिति । आभ्यां परो यो वर्चशब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसं तद. हति पल्यः, मांसभोजीत्यर्थः । तस्य वर्च इति विग्रहः । राजवर्चसमिति। राज्ञां वर्च इति विग्रहः । अवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमशब्दस्तस्मा. दच्स्यादित्यर्थः । अवतमसमिति । अवहीन तम इति विग्रहः । प्रादिसमासः। सन्तमसमिति । सन्ततं तमः इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टयपघाते चुरादिः, दृष्टिं प्रतिबध्नातीत्यर्थः । पचायजिति । 'नन्दिग्रहिपचादिभ्यो ल्युणि. न्यचः' इति । पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः फलति । गाढस्यैव तमसः दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मः
For Private and Personal Use Only
Page #643
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सर्वसमासान्त
(४८) श्वसो वसीयः श्रेयसः पा४|०॥ वसुशब्दः प्रशस्तवाचो। तत ईयसुनि वसीयः । श्वसशब्दः उत्तरपदार्थप्रशंसामाशीविषयमाह। मयूरव्यं सकादि. त्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् । (888) मन्ववतप्ताद्रहसः पाथा ॥ अनुरहसम् । अवरहसम् । तप्तरहसम् । (8५०) प्रतेरुरसः सप्तमी. स्थात् ५।४॥२॥ उरसि प्रति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । (५१) अनुगवमायामे ५।४।८३॥ एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य
धारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेयशब्दश्च तस्मादत् स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति । 'यं कामयेत वसीयान् स्यात्' इत्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपदे' इती. यसुनि, 'तुरिष्ठेमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयशब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची।।तथापि प्रकृते शब्दशक्तिस्वाभावादुत्तरप. दार्थभूतां प्रशंसाम् आशीविषयं द्योतयतीत्यर्थः । आशिषो विषयः आशीविषयः तमिति षष्ठीसमासः। प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वात् न स्त्रीलि. झता। एवञ्च श्वस्शब्दः उत्तरपदार्थगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि श्वलशब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावात् कथं विशेषणसमास इत्यत आह-मयूरेति । तथाचाशीलिडादिप्रयोग एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति-इवोवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः। श्वःश्रेयस. मिति। अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयसुन् , प्रशस्यस्य श्रः, 'प्रकृत्यै. काच्' इति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयस् इति रूपम् । श्वसशब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । 'श्वःश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि सम्बध्यते-वोवसीयसं ते भूयात् , श्वःश्रेयसं ते भूयादिति ।
अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः । उभयत्र प्रादिसमासः । तप्तरहस. मिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति ससमो. स्थम् । सप्तम्यर्थयोतकात् प्रतेः परो यः उरशब्दः तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्य 'अव्ययं विभक्ति' इत्यादिनाऽव्ययीभाव इति भावः । अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्वे घोत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति । अनु.
For Private and Personal Use Only
Page #644
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
चायामः' ( सू ६७० ) इति समासः । (५२) द्विस्तावा त्रिस्तावा वेदिः । ५।४।८४॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वा अश्वमेधादौ तत्रेदं निपातनम् । वेदिः इति किम् । द्विस्तावती त्रिस्तावती रज्जुः । (५३) उपसर्गाध्वनः ५४८५॥ प्रगतोऽध्वानं प्राध्वो रथः । (५४) न पूजनात् ५ |४| ६६ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । 'स्वतिभ्यामेव ' ( वा ३३४६ ) । नेह | परमराजः ।
६३५
गोशब्दादचि अवादेश इति भावः । यस्य चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोदेर्घ्यसदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः ।
द्विस्तावा । यावती प्रकृताविति । यतः अङ्गकलापस्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः तत्राम्नाताङ्गकलापानामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु 'सर्व सोमक्रतूनामग्निष्टोमः प्रकृतिः' इति । तस्मिन् । अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च 'त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरची पत्रिंशत् प्राची चतुर्विंशतिः पुरस्तात्तर' इति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्य ततो द्विगुणित त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु 'अष्टाविंशत्यूनं पदसहस्रं महावेदिः' इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अग्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति, तत्र आश्वमेधिकवेद्यामभिधेयायां द्विस्तातितिावेति च भवतीत्यर्थः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्' इति द्विशब्दात क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम्। तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्यादे' इति पुंवत्वे डीपो निवृत्तौ प्रत्ययस्याडित्वेऽपि प्रकृतेर्ना - तत्वाभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेः अच्प्रस्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दः तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः ।
न पूजनात् । परेभ्य इत्यध्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाहपूजनार्थादिति । 'पूजायां स्वतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्योदाहरतिसुराजेति । सुशोभनो राजेति प्रादिसमासः । श्रतिराजेति । पूज्यो राजेत्यर्थः । उभयश्रापि 'राजाहरूलखिभ्यः' इति टच् न भवति । स्वतिभ्यामेवेति । स्वतिभ्यां परो यो
For Private and Personal Use Only
Page #645
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सर्वसमासान्त
पूजनात् किम् । गामतिकान्तोऽतिगवः । 'बहुव्रीही सक्थ्यक्ष्णो:--' (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः। (५५) किमः क्षेपे । ५४७०॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः । (५६) नअस्तत्पुरुषात् ५।४।७१॥ समासान्तो न। अराजा। असखा । तत्पुरुषात् किम् । अधुरं शकटम् । (५७) पथो विभाषा ५ । ४ । ७२ ॥ नम्पूर्वात्पथो वा समासान्तः । अपथम्-अपन्थाः । तत्पुरुषात् इत्येव । अपथो देशः । अपथं वर्तते।
इति सर्वसमासान्तप्रकरणम् ।
-
राजन शब्दः तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः । नेहेति । निषेध इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः' इति . समासः । अतेः पूजनार्थकत्वाभावात् न टचो निषेधः । एवं परमराज इत्यत्रापि । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम्' इति वार्तिकार्थसङ्ग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु शोभने सक्थिनी यस्य, सु शोभने अक्षिणी यस्येति च विग्रहः । 'बहु. वीही सक्थ्यक्ष्णोः' इति षच् । किमः क्षेपे । किंराजा । किंसखेति । इह 'राजाहस्सखि. भ्यः' इति टच न भवति । 'कि क्षेपे' इति समासः । किंराजः किंसखः इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः । निन्दानवगमात् न टचो निषेधः ।
नमस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्टे-समासान्तो नेति । नम्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नम्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् 'ऋक्पू:' इति समासान्तस्य न निषेधः। पथो विभाषा। पथ इति । पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नन्तत्पुरुषः । 'ऋक्प:' इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः। 'पथः सङ्ख्याव्ययादेः इति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवे. त्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात् 'ऋकपूर इत्यप्रत्ययस्य पाक्षिकोऽपि न निषेधः । अपथं वर्तते इति । अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वात् 'ऋक्पू:' इत्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः।। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् ।
For Private and Personal Use Only
Page #646
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता।
-
अथालुक्समासप्रकरणम् ।। २४॥ (५८) अलुगुत्तरपदे ६।३।१ ॥ अलुगधिकारः प्रागानः, उत्तरपदा. धिकारस्त्वापादसमाप्तेः । (848) पञ्चम्याः स्तोकादिभ्यः ६॥३॥२॥ एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तरपदे किम् । निष्क्रान्तः स्तोकानिस्स्तोकः । 'ब्राह्मणाच्छंसिन उपसङ्ख्यानम्' (वा ३८७८) । ब्राह्मणे विहितानि शस्त्राण्युपचाराद्ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चमी उपसङ्ख्यानादेव । (६०) भोज:.. अथालुक्समासो निरूप्यते -अलुगुत्तरपदे । नायं विधिः, राजपुरुष इत्यादावति. प्रसङ्गात् , 'पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किन्तु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्यत आह-अलुगधिकारः प्रागानङ इति । 'आनङतः इत्यतः प्रागित्यर्थः । उत्तरपदेति षष्ठस्य तृतीये पादे आद्यमिदं सूत्रम्। इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकाररा इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरपदशब्दः समासचरमावयवे रूढः, पदे इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः । 'स्तोकान्तिकदरार्थकृच्छाणि क्तेन इति समासः । अत्र पञ्चम्या अलुक । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः विप्रकृष्टादागतः, कृच्छ्रादागतः। निस्स्तोक इति। 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुक् न । स्तोकान्मुक्तः इत्यादौ समासप्रयोजन तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगाभावश्च । किञ्च, स्तोकान्मुक्तस्यापत्यं स्तोकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्ती, स्तोकान्मुक्ताः इति द्विबहुववनान्तैन समासः, अनभिधानादिति भाष्ये स्पष्टम् ।
ब्राह्मणाच्छंसिन उपसङ्ख्यानमिति । पञ्चम्या अलुक् इति शेषः । नानु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राह्मणशब्देनोच्यन्ते, कर्मचोदना ब्राह्मणानि इति कल्पसूत्रात् , शेषे ब्राह्मणशब्दः' इति मन्त्रभिन्नवेदभागे ब्राह्मणशछदस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राह्मणभागस्य न कापि शंसनं विहितम्ऋचा शंसति निविदः शंसति' इति श्रुतिष्वित्यत आह-ब्राह्मणे इति । शस्त्राणीति । ऋचा निविदां च सधः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चन्या अलुगुपसल्यानबलादेव द्वितीयाथे पञ्चमीत्यर्थः । प्रोजस् । ओजल, सहस,
For Private and Personal Use Only
Page #647
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अलुक्ससमास
-
सहोऽम्भस्तमसस्तृतीयायाः ६।३।३ ॥ ओजसाकृतमित्यादि । 'अञ्जस उपसङ्ख्यानम्' ( वा ३८८०) । अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । पुंसा. नुजो जनुषान्ध इति च' (वा ३८८१)। यस्याप्रजः पुमान्स पुंसानुजः। जनु. षान्धो जात्यन्धः । (४६१) मनसः संशायाम् ६३।४॥ मनसागुप्ता । (६६२) माझानि च ६।३।५ ॥ मनसः इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी । (६६३) आत्मनश्च ६॥३॥६॥ आत्मनस्तृतीयाया अलुक्स्यात् । 'पूरण इति वक्तव्यम्' (वा ३८८२)। पुरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्म.
अम्भस् , तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादोति । सहसाकृतम् , अम्भसाकृतम् । तमसावृत्तम् । तमोवृत. मिति तु असाध्वेव । शेषषष्ठया वा समासः । अअस उपसङ्खथानमिति । अञ्जशब्दात् तृतीयाया अलुक उपसन्यानमित्यर्थः । अन्जसाकृतमिति । अञ्जशब्दः आर्जवे वर्तते. यथा क्षेत्रज्ञोऽजसा नयतीत्यादौ तथा दर्शनात् । तदाह-आर्जवेनैति । पुंसानुजः । तृतीयाया अलुकि साधुरिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति । 'जनुर्जननजन्मानि' इत्यमरः । जनुषा जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह-जात्यन्ध इति । ब्राह्मण्यादिजातितुल्यान्ध्यवानि. त्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।
मनसः सन्शायाम् । मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्याश्चित् सम्झयम् । असञ्ज्ञायां तु मनोगुप्ता । आशायिनि च । मनस इत्येवेति । अनु. वर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यात् आज्ञायिनि परे इत्यर्थः । असज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाज्ञायीति । 'सुप्यजातौ इति णिनिः । 'आतो युक्चिण्कृतोः' इति युक । अत्र सूत्रभाष्ये 'आत्मनश्च पूरणे उपसङ्ख्यानम्। इति वार्तिकं पटितम् । तत्रात्मनश्चेत्यंशं व्याख्यातं पृथगुपादत्ते-आत्मनश्चेति । चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह-प्रात्मनस्तृतीयाया अलुगिति । उत्तरपदे परे हति शेषः । पूरण इति वक्तव्यमिति । नात्र पूरणशब्दो गृह्यते । किन्तु स्व. रितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् 'प्रत्ययग्रहणे' इति तदन्तविधिरित्य. भिप्रेत्याह-पूरणप्रत्ययान्ते इति । आत्मनापञ्चम इति । आत्मा पञ्चम इत्यर्थः । प्रकृत्या दित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया। किरोतिक्रियान्तर्भावेण तस्याः तृतीया तत्कृता' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु सङ्कर्षणप्रक्षुम्नानिरुद्धास्त्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्ते
For Private and Personal Use Only
Page #648
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता ।
૧૭
नापञ्चमः ।
'जनार्दनस्त्वात्मचतुर्थ एव इति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् । (६६४) वैयाकरणाख्यायां चतुर्थ्याः ६।३।७ ॥ आत्मनः इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थी । चतुर्थी इति योग. विभागात्समासः । (६५) परस्य च ६ ३८ ॥ परस्मैपदम् । परस्मैभाषा । (६६) हलदन्तात्सप्तम्याः संज्ञायाम् ६।३।९ || हलन्ताददन्ताच्च सप्तम्या अलुक्संज्ञायाम् | त्वचिसारः । ( 8६७) गवियुधिभ्यां स्थिरः ||६५ ॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवोति वचनादेवालुक् । ति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः - जनार्दनस्त्वात्मचतुर्थ एवेति । तत्र तृतीयाया अलुकि आत्मनाचतुर्थं इति भवितव्यमित्यत आह- जनार्दन - स्त्विति । बहुव्रीहिरिति । आत्मा चतुर्थो यस्येति विग्रहे बहुब्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः । तदिदं भाष्ये स्पष्टम् ।
वैयाकरणाख्यायाम् । आत्मन इत्येवेति । अनुवर्तत एवेत्यर्थः । न च 'आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यम् । 'सोऽपदादौ' इति सूत्रे पठितस्य 'काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्ष:' इति सूत्रेऽनुवृत्तिवदुपपतेः । व्याकरणे भवा वैयाकरणी सा चासावाख्या च वैयाकरणाख्यातस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनैभाषेति । पूर्वाचार्यकृतमात्मनेपदस्य सज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थे चतुर्थीति । तथा चात्मने इत्यस्यात्मार्थमित्यर्थः । आत्मगामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादयें चतुर्थ्याः, समास इत्यत आह-चतुर्थीति योगविभागादिति । पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम् । परस्य च । वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या अलुगित्यर्थः । इलदन्तात् । स्वचिसार इति । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । 'वंशे त्वक्सारकर्मारत्वचिसार तृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति - युधिष्ठिर इति । अत्र 'अजिरशिशिर स्थिर' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः । तत्र 'आदेशप्रत्यययोः' इति पत्वस्य 'सात्पदाद्यो:' इति निषेधे प्राप्ते इदमारभ्यते -गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठ्यर्थं । 'सदेः साडः सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह — श्राभ्यामिति । ननु 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया अवादेशात् पूर्वमेव बेलुकि प्रवृत्ते हलन्तत्वाभावात् कथमि
For Private and Personal Use Only
Page #649
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४०
सिद्धान्तकौमुदी
[अलुक्समास
युधिष्ठिरः । अरण्येतलिकाः । अत्र 'संज्ञायाम्। (सू ५२१) इति सप्तमीसमासः । 'हृद्युभ्यां च ( वा ३८८५)। हृदिस्पृक् दिविस्मृक् । (8६) कारनाम्नि च प्राचां हलादौ ६।३।१०॥ प्राची देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेदेति । कारनाम्नि किम् । अभ्याहित. पशुः । कारादन्यस्यैतदेयस्य नाम । प्राचाम् किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात् किम् । नयाँ दोहो नदोदोहः । (88) मध्याद्गुरो ६।३।११ ॥ मध्ये गुरुः । 'अन्ताच' ( वा ३८९०)। अन्तेगुरुः । (७०) अमूर्धमस्तकात्स्वाङ्गादकामे ॥३॥१२॥ कण्ठेकालः । उरसिलोमा। अमू. धमस्तकात् किम् । मूशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः । (१७१) बन्धे च विभाषा ६।३।१३॥ हलदन्तात्सप्तम्या अलुक् । हालुगित्यत आह-अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे विपि युधशब्दात् सप्तम्येकवचनम् । हलन्तत्वादलुक् , षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति-अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात् कथं तेन सप्तमीसमास इत्यत आहअत्र सञ्ज्ञायामिति । युद्भ्यां चेति । हृच्छब्दात् दिवशब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असज्ञार्थमिदम् । हृदिस्पृगिति । 'पहन्' इति ङौ हृदयस्य हृदादेशः, हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्धि. धानबलादेव कर्मणि सप्तमीति भाष्यम् । 'अमूर्धमस्तकात्' इत्यनेन त्वलुक् न सिध्यति, तत्र सज्ञायामित्यनुवृत्तेः। ___ कारनाम्नि । यत् कारनामेति । राजपाद्यो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः। नियमार्थमिति । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव, कारनाम्नि हला. दौ चेत् पाचामेव, प्राचां कारनाम्नि चेत् हलादावेवेति नियमत्रयार्थमित्यर्थः। अविकटोरण इति । अविशब्दात् सङ्घाते कटच् , उरणो मेषः । नथामिति । नद्युत्तारणे तात्कालिको दोहः करः । मध्याद्गुरौ। गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक् स्यात् गुरौ परे इत्यर्थः। अमूर्धमस्त. कात् । मूर्धमस्तकशब्दवजितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र सज्ञायामित्यनुवर्तते । अत एव 'हृद्युभ्यां च' इत्यत्र हृदूग्रहणमर्थवत् । कण्ठे काल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एवं ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः। बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे
For Private and Personal Use Only
Page #650
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-प्रकरणम् २४ ]
बालमनोरमासहिता ।
प्रा
इस्तेबन्धः- इस्तबन्ध । इलदन्त इति किम् । गुप्तिबन्धः । ( ७२ ) तत्पुरुषे कृति बहुलम् | ६|३|१४ ॥ स्तम्बेरमः - ( स्तम्बरमः ) कर्णेअप : - ( कर्णजपः ) । क्वचिन्न । कुरुचरः । (६७३) प्रावृट्छ्रत्कालदिवां जे ६ ३ १५ षिणः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः । ( ६७४) विभाषा वर्षक्षरशरवरात् ६|३|१६ || एभ्यः सप्तम्या अलुग्जे । वर्षेजः - वर्षजः क्षरेजः-क्षरजः । शरेजः-शरजः । वरेजः - वरजः। (७५) घकालतनेषु कालनाम्नः ६|३ | १७ || सप्तम्या विभाषया लुक्स्यात् । घ - पूर्वाह्णेतरे - पूर्वाहृतरे । पूर्वात पूर्वाह्णतमे । काळ - पूर्वाह्णेकाले - पूर्वाह्नकाले । तन पूर्वाह्णेतने- पूर्वाहृतने(१७६) शयवासवासिष्वकालात् ६।३।१८ ॥ खेशयः - खशयः । ग्रामे •
1
·
६४१
- प्रामवासः । प्रामेवासी - ग्रामवासी । 'हलदन्तात्' इत्येव । भूमिशयः । 'अपो योनियन्मतुषु' ( वा ३८७६ ) अप्सु योनिरूत्पत्तिर्यस्य सोऽप्सुयोनिः । इलदन्तादिति । इस्तेबन्ध इति । सज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति सम्बध्यते, बन्ध इति घञन्तम्, अन्यत्र तु 'नेन्सिद्ध' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति । तत्पुरुषे सप्तम्या बहुलमलुक् स्यात् कृदन्ते उत्तरपदे सञ्ज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमः हस्ती । कर्णेजप इति । कर्णे जपति परदोषमुपांश्वाविष्करोतीति कर्णेजपः पिशुनः । 'स्तम्बकर्णयो रमिजपोः' इत्यच् । उपपदसमासः । कचिन्नेति । बहुलग्रहणादिति भावः । कुरुचर इति । 'चरेष्टः' इत्यधिकरणे उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम्, तथापि बहुलग्रहणादेव सिद्धे 'हलदन्तात्' इति नानुवर्तनीयमिति भावः ।
1
1
1
-
I
प्रावृट्रत् । प्रावृद्, शरत्, काल, दिव् एषां सप्तम्या अलुक् स्यात् जशब्दे परे सन्ज्ञायामित्यर्थः । ननु 'हलदन्तात्' इत्येव सिद्धे किमर्थमिदमित्यत आह- पूर्वस्यैवायं प्रपञ्च इति । विस्तर इत्यर्थः । विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे – एम्यस्स - तम्या इति । घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टे - सप्तम्या इति । घेति । घे परे उदाहरणसूचनमिदम् । तरप्तमपौ घः । पूर्वाह्णेतरे इति । अतिशायने सप्तम्यन्तात् तरप्तपौ । अत एव तत्तद्विभक्त्यन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्नाले इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तेनेति । उदाहरणसूचनमिदम् । पूर्वाह्णेतने इति । 'विभाषा पूर्वाह्नापराद्वाभ्याम्’ इति ट्युट्युलौ तुट् च । शयवास । शय, वास, वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽशब्दाव
1
बा० ४१
For Private and Personal Use Only
Page #651
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
सिद्धान्तकौमुदी
[अलुक्समास
अप्सु भवः अप्सव्यः । अप्सुमन्तावाज्यभागौ। (७७) नेन्सिद्धबध्नातिषु च ६।३।१६॥ इमन्तादिषु सप्तम्या अलुम । स्थण्डिलशायी। साङ्काश्यसिद्धः । चक्रबद्धः । (8) स्थे च भाषायाम् ६।३।२०॥ सप्तम्या अलग्न । सम. स्थः। भाषायाम् किम् । कृष्णोऽस्या खरेष्ठः । (७६) षष्ठ्या माक्रोशे । ६३।२१ । चौरस्यकुलम् । आकोशे किम् । ब्राह्मणकुलम् । 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' (वा ३८९७ ) वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः। 'आमु. ध्यायणामुष्यपुत्रिकामुष्यकुलिकेति च' (वा ३८९८-३८९९) अमुन्यापत्यमामुध्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः भामुष्यपुत्रिका । मनोज्ञादित्वाबुञ् । एवमामुष्यकुलिका। 'देवानाम्प्रिय इति च मूर्ख ( वा ३९००) सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वात् । मोर्गुणः 'वान्तो यि इत्यवादेशः। अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तो, आज्यभागाविति कर्मविशेषो । नेन्सिद्धबध्नादिषु च। चक्रबद्ध इति । साधनं कृता इति कान्तेन सप्तम्यन्तस्य समासः। स्थे च भाषायाम् । 'अनन्तरस्य' इति न्यायात् 'तत्पुरुषे कृति' इत्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये 'सप्तम्युपमानपूर्वपदस्य' इति वातिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तु 'अमूर्धमस्तकात्' इत्यस्याप्ययं निषेधः स्यात्तहि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् । षष्ठया आक्रोशे । अलुगुत्तरपदे इति शेषः । आक्रोशो निन्दा । वाग्दिक । वाक् , दिक् , पश्यत् एतेभ्यः परस्याः षष्ट्या अलुक् स्यात् युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । ! अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पश्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी। प्रामुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । ___ अमुष्येति । अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्' इति फकि आयनादेशे आदि. वृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे आमुष्यायण इति रूपमित्यर्थः । अमुष्य पुत्रः इति विग्रहे षष्ठीसमासे षष्ठया अलुकि अमुष्यपुत्रशब्दः । अमुष्यपुत्रस्य भाव इत्यर्थे 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुनि अकादेशे पुत्रशब्दात् सुपो लुकि आदिवृद्धौ स्त्रीत्वाहापि 'प्रत्ययस्थात्' इतीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठया अलुकि अमुष्यकुलशब्दावुजादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् । मूर्खः अज्ञः । विव क्रीडायाम् । देवाः क्रीडासक्ताः मूर्खाः तेषां प्रियोऽपि मूर्ख एव, मूर्खप्रियस्या
For Private and Personal Use Only
Page #652
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता ।
अन्यत्र देवप्रियः । ' शेपपुच्छलाभूलेषु शुनः ( वा ३९०१ ) शुनःशेपः । शुनः पुच्छः । शुनोलाङ्गूलः । 'दिवसश्च दासे' ( वा ३९०२ ) दिवोदासः । (250) पुत्रेऽन्यतरस्याम् ६।३।२२ || षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याःपुत्रः दासीपुत्रः । निन्दायाम् किम् । ब्राह्मणीपुत्रः । (६८१) ऋतो विद्यायेानिसम्बन्धेभ्यः ६।३।२३ || विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तात्षष्ठया अलुक् । होतुरन्तेवासी होतुः पुत्रः । पितुरन्तेवासी पितुः पुत्रः । 'विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्' ( वा ३९०३) । नेह होतृधनम् । (६८२) विभाषा स्वसृपत्योः ६|३|२४|| ऋदन्ताषष्ठया अलुग्वा स्वसृपत्योः परयोः । ( ६-३) मातुः पितुभ्यमन्यतरस्याम् ८|३|८५ ॥ आभ्यां स्वसुः सस्य षो वा स्यात्सवयं मूर्खत्वादिति 'अजेर्वी' इत्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठया अलुगिति शेषः । सज्ञायामिति भाष्यम् । शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः । ( मेट्रो मेहनशेफसी' ) । शेफशब्दोऽप्यस्ति, 'शेफाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषाणां सञ्ज्ञा एताः । दिवश्च दासे इति । वार्तिकम् । षष्ट्या अलुगिति शेषः । दिवोदास इति । कश्चिद्राजषरयम् । पुत्रेऽन्यतरस्याम् । निन्दायामिति । आक्रोशे इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् ' आनङ्कृतः' इत्यत्र भाष्ये ।
1
"
ऋतो विद्या । एकत्वे बहुवचनम् । तदाह-विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्ता दिति । अलुक् स्यादिति । उत्तरपदे परत इति शेषः । विद्यासम्बन्धवाचिनमुदाहरतिहोतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दः विद्यासम्बन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासम्बन्धवाचिनः उदाहरणान्तरमिदम् । अथ योनिसम्बन्धवाचिनमुदाहरति- पितुरन्तेवासीति पितुःपुत्र इति च । ननु होतृधनं पितृधनमित्यत्राप्यलुक् स्यादित्यत आह - विद्यायोनिसम्बन्धेभ्यः तत्पूर्वोत्तरपदग्रहणमिति । विद्यायोनिसम्बन्धेभ्यः इत्यत्र विद्यासम्बन्धयोनिसम्बन्धवाचिनोः पूर्वोत्तरपदयोः ग्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचित्वं विवक्षितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्या - सम्बन्धयोनिसम्बन्धान्यतरवाचित्वाभावात् न षष्ट्या अलुगिति भावः । अन्यतरसम्बन्धवाचित्वस्य विवक्षितत्वादेव होतुः पुत्र इत्यादि सिद्धम् । विभाषा स्वसृपत्योः । ऋदन्तादिति । विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुकपक्षे विशेषमाह - मातुः पितुभ्यमन्यतरस्याम् । 'मातृपितृभ्यां स्वसा' इति
For Private and Personal Use Only
६४३
Page #653
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
(समासाश्रयविधि
wwwwww
www
मासे । मातुःष्वसा-मातुःस्वसा । पितुःष्वसा-पितुःस्वसा । लुक्पक्षे तु । (१८४) मातृपितृभ्यां स्वसा ३४॥ आभ्यो परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु। मातुःस्वसा । पितुःस्वसा ।
इत्यलुक्समासप्रकरणम् ।
अथ समासाश्रयविधिप्रकरणम् ॥२५॥ (५) घरूपकल्पचेलब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो हस्वः ६३॥४३॥ भाषितपुंस्कायो की तदन्तस्यानेकाचो ह्रस्वः स्याद्धरूपकल्पप्प्रत्ययेषु पूर्वसूत्रात् स्वसेत्यनुवर्तते । षष्टयर्थे प्रथमा। 'सहे. साडस्सः' इति सूत्रात् स इति षष्ट्यन्तं पदमनुवर्तते। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह-आभ्यामिति । मातुः पितुरिति षष्ट्यन्ताभ्यामित्यर्थः । समासे इति । 'समासेऽङ्गुलेः सङ्गः' इत्यत. स्तदनुवृत्तेरिति भावः। मातुःष्वसा पितुःश्वसेति अलुकि षत्वे रूपम् । मातुः स्वसा पितुः स्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे विति । विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा। स्वसुरिति । सूत्रे षष्ठयथें प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्ययसकारत्वाभावादप्राप्ते विधिरयम् । षत्वविधौ समासग्रहणानुवृत्तः फलं दर्शयति-असमासे विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां अलुक्समासप्रकरणं समाप्तम् ।
अथ समासाश्रयविधिः निरूप्यते-घरूप । उत्तरपदे इत्यधिकृतं चेलडादिष्वन्वेति, नतु धरूपकल्पेषु, घशब्दवाच्यतरसमपोः रूपप्कल्पपोश्च प्रत्ययत्वात्। नच तदन्तग्रहणे सति तेषूत्तरपदत्वं सम्भवतीति वाच्यम् 'हृदयस्य हल्लेख' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्ये उक्तत्वात् । 'स्त्रियाः पुंवत्' इत्यतो भाषि. तपुंस्कादित्यनुवृत्तम् । ड्य इति तदन्तग्रहणं, केवलस्यानेकाच्त्वाभावात् । तदाहभाषितपुंस्काथो की इति । एतदर्थमेव स्त्रियाः पुंवत्' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिनं स्यात्, असम्भवात् । नहि डीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात् अनूडिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाभावा.
For Private and Personal Use Only
Page #654
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्म. णिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रा इत्यादि । ब्रूञः पचाद्यचि वच्यादेश गुणयोरभावोऽपि निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः ‘कुत्सितानि कुत्सनैः' ( सू ७३२ ) इति समासः । ङयः किम् । दत्तातरा । भाषितपुंस्कात् किम् । आमलकीतरा । कुवलीतरा । ( ६-६) नद्याः शेषस्यान्यतरस्याम् ६|३|४४ ॥ अयन्तनद्यः ङयन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धूतरा-ब्रह्मबन्धुतरा । स्त्रितरा - स्त्रीतरा । 'कृन्नद्या न' ( वा ३९३८ ) । लक्ष्मीतरा । (७) उगितश्च ६।३।४५ ॥ उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हस्वाभावपक्षे तु तसिलादिषु -' ( सू ८३६ )
પૃ
दिति वाच्यम्, तत्र 'स्त्रिया' इत्यस्वरितत्वात् स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणतरा | ब्राह्मणितमेति । अतिशायने तरप्तमपौ । नच ' तसिलादिषु' इति पुंवत्वेन डीपो निवृत्तिः शङ्कया, 'जातेश्व' इति निषेधात् । ब्राह्मणिरूपेति । प्रशंसायां रूपप् । ब्राह्मणिकल्पेति । 'ईषदसमाप्तौ' इति कल्पप् । ब्राह्मणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्वात् ङीप् । इत्यादीति । ब्राह्मणिमता । ब्राह्मणिहता । ब्रून इति । धातोरचि कृते 'ब्रुवो वचिः' इति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलब्रुवगोत्रमतहता इत्युत्तर. पदानि कुत्सनवाचीनीति कृत्वा 'कुत्सितानि कुत्सनैः' इति कर्मधारय इत्यर्थः । आमलकीतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावेन न ह्रस्व इति भावः । ननु 'न पदान्त' इति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात् कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह - कुवलीतरेति । वृक्षविशेषे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तु 'कर्कन्धूर्बदरी कोली घोण्टा कुबल फेनिले' इति नपुंसकत्वमाह ।
नद्याः शेषस्यान्यतरस्याम् । उक्तादन्यः शेषः । व्यन्तस्यानेकाच इति पूर्वसूत्रे स्थितम्, तदन्यत्वं च अनेकाचो ड्यन्तत्वाभावे व्यन्तस्यानेकाच्त्वाभावेऽपि सम्भ. वति । तदाह - अयन्तनद्याः ङयन्तस्यैकाचश्चेति । 'ऊड़तः' इति ब्रह्मबन्धुशब्दः ऊङन्तः । भाषितपुंस्कस्येति तु नेहानुवर्तत इत्यभिप्रेत्योदाहरति — स्त्रितरेति । कृन्नद्या नैति । कृदन्ता या नदी तस्या ह्रस्वो नेति वाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेर्मुट् च इति औणादिके प्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च । विदुषितरेति । 'विदेः शतुर्वसुः इति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाचत्वात्
I
For Private and Personal Use Only
Page #655
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
सिद्धान्तकौमुदी
[समासाश्रयविधि
इति पुंवत् । विद्वत्तरा । वृत्त्यादिषु विदुषीतरा इत्यप्युदाहृतम् । तन्निर्मूलम् । (E) हृदयस्य हल्लेखयदण्लासेषु ६।३।५०॥ हृदयं लिखतीति हल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हलासः । लेख-इत्यणन्तस्य ग्रहणम् । घनि तु हृदयलेखः । लेखग्रहणं ज्ञापकम् 'उतरपदाधिकारे तदन्तविधिर्नास्ति' (प २६) इति । (858) वा शोकषयरोगेषु ॥३॥५१॥ हृच्छोकः-हृदयशोकः । सौहार्यम्-सौहृदय्यम् । हृद्रोगः-हृदयरोगः । हृदयशब्दपर्यायो हृच्छन्दोऽप्यस्ति। तेन सिद्धे प्रपश्चार्थमिदम्। (880) पादस्य पदाज्यातिगोपहतेषु ॥३॥५२॥ एषूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां पादे च' ( उ ५७०-५७१) इती प्रत्ययः । अजेयंभावो निपातनात् । पदगः । पदोपहतः। (88१) पद्यत्यतदर्थे ६३१५३॥ पादस्य
-
नद्याः शेषत्वस्याप्राप्तेरिदमिति भावः । विद्वत्तरेति। पुंवत्त्वे छीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुरित्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्त्वं न वक्तव्यम्' इति वृत्तिः। परन्तु वचनमिदं भाष्यादृष्टत्वादुपेक्ष्यमिति भावः। अत्रो. गितः परा या नदीति मूलं वर्णयोरेव नदीसझेति मताभिप्रायकम् ।। ___ हृदयस्य । लेख, यत्, अग्, लास एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिख. तीति हल्लेखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति । 'हृदयस्य प्रियः' इति यत्प्रत्य. यः । हामिति । 'तस्येदम् इत्यण, हृदादेशः । हृल्लास इति । घान्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राचः। व्याख्यानादिति तत्त्वम् । तहि लेखग्रहणमेव व्यर्थम् , अणैव सिद्धरित्यत आह-शापकमिति । ज्ञाप्यांशमाहउत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पग्रहणे तदन्तविध्यभावः । वा शोक । सौहार्यमिति । ब्राह्मणादित्वात् भावे व्यजि 'हृद्भगसिन्ध्वन्ते' इत्युभयपदवृद्धिः। सौहृदय्यमिति । भावे व्यजि हृच्छब्दत्वाभावात् आदिवृद्धौ 'यस्येति च' इति लोपे रूपमिति भावः । पादस्य पद। पद इति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत इत्येतेष्वित्यर्थः । अदन्त इति। उत्तरसूत्रे पदिति हलन्तस्य ग्रहणा. दिति भावः । अजतीति । 'अज गतिक्षेपणयोः पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ । अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च हण् स्यादिति तदर्थः। अजीत्यस्य 'अजेय॑घनपोः' इति वीभावमाशङ्कयाह-अजेयंभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः । 'गमश्च, अन्तात्य. न्ताध्वदूरपारसर्वानन्तेषु ः' इति सूत्रस्थेन 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन
For Private and Personal Use Only
Page #656
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
~
पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । 'पादार्घाभ्यां च' (सू २०९३ ) इति यत् । 'इके चरतावुपसख्यानम्' ( वा ३९५८ )। पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् । (४२) हिमकाषिहतिषु च ६३५४॥ पद्धिमम् । पत्काषी। पद्धतिः । (88३) ऋचः शे ६३५५॥ ऋचः पादस्य पत्स्याच्छे परे। गायत्री पच्छः शंसति । पादंपादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति । (858) वा घोषमिश्रशब्देषु ६॥३॥५६॥ पादस्य पत् । पद्धोषः-पादघोषः । पन्मिश्रः-पादमिश्रः । पच्छन्दः-पादशब्दः । 'निष्के चेति वाच्यम्' (वा ३९५९) । पत्रिका पादनिष्कः । (884) उदकस्योदः संज्ञायाम् ६।३।५७॥ उदमेघः। 'उत्तरपदस्य चेति वक्तव्यम्' ( वा ३९६९ ) । क्षीरोदः। (६) पेषवासवाहन
गमधातोर्ड। तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः। दकारान्तादेशे तु पर इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे पदुपहत इति स्यात् । पद्यत्यतदर्थे । पद्यति अतदर्थे इतिच्छेदः । पद्य इति । 'विध्यत्यधनुषा' इति यत्प्रत्ययः। • पाद्यमिति । 'पादार्घाभ्यां च' इति ताइव्यं यत्प्रत्ययः। इके चरताविति । चरत्वर्थे विहितस्य ष्ठनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः । हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ इति णिनिः । पद्धतिरिति । हन्यते इति हतिः। कर्मणि तिन् । पादाभ्यां हतिरिति विग्रहः । 'कर्तृकरणे कृता' इति समासः । ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्योदाह. रति-पच्छ इति । 'सङ्ख्यैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । 'तद्धितश्चा. सर्वविभक्तिः' इत्यव्ययत्वम् , नत्विह लोमादिशस्य ग्रहणम् , लोमादौ पादशब्दस्य पाठाभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यपरिमाणविशेष सुवर्णादिकं पाद पादं ददातीत्यर्थः। वा घोष । शेषपूरणेन सूत्रं व्याचष्टे - पादस्य पदिति । निष्के चेति । पादस्य पदिति शेषः। ___उदकस्योदः। उदकशब्दस्य उद इत्यादेशः स्यात् उत्तरपदे सज्ञायामित्यर्थः । उद. मेघ इति । उदकपूर्णमेघसादृश्यात् कस्यचिदियं सज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उदः इत्यादेशः स्यात् सज्ञायामित्यर्थः । क्षीरोद इति । क्षीरम् उदकस्थानीयं यस्येति विग्रहः। क्षीरोदं सरः इति त्वसाध्वेव, असञ्ज्ञात्वात् । पेवास। पेष.
For Private and Personal Use Only
Page #657
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४८
सिद्धान्तकौमुदी
[ समासाश्रयविधि
धिषु च ६|३|५८ ॥ उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् । ( ६६७) एकहलादौ पूरयितव्येऽन्यतरस्याम् ६१३३५६॥ उदकुम्भः-- उदककुम्भः । एक — इति किम् । उदकस्थाली । पूरयितथ्ये इति किम् । उदकपर्वतः । (EE) मन्थोदनसक्तु बिन्दुवज्रभारहार वीवधगाहेषु च ६ |३|६०॥ उदमन्थः -- उदकमन्थः, उदौदनः - उदकौदनः इत्यादि । ( SMS ) इको ह्रस्वोऽङ्यो गालवस्य ६।३।६१ ॥ इगन्तस्यावथन्तस्य ह्रस्वो वा स्यादुत्तरपदे | प्रामणिपुत्रः - ग्रामणीपुत्रः । इकः किम् । रमापतिः । अढ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्याम् इत्यनुवृत्तेः । 'इयत्ङुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३९६३ ) श्रीमदः । भ्रूभङ्गः । शुक्लोभावः । 'अनूकुंसादीनामिति वक्तव्यम्' ( वा ३९६४ ) भ्रुकुंसः - मिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परतः उदकशब्दस्य उदः स्यादित्यर्थः । असज्ञार्थं वचनम् । उदपेष पिनष्टोति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः इति णमुल् । कषादिषु यथाविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । ऊदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकं धीयतेऽस्मिन्निति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । असज्ञात्वरूफोरणाय घटः इति विशेष्यम् । समुद्रे स्विति । तत्र उदधिशब्दस्य सञ्ज्ञात्वेन 'उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः । एकहलादौ । हलत्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणार्ह कुम्भादि । असंयुक्तहलादौ पूरयितव्य. वाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यथः । मन्थौदन । उदकस्य उदादेशो वेति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्ध: - उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसम्पृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि सक्तवः । उदौदनःउदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः उदकसक्तवः । उदबिन्दवःउदकबिन्दवः । उदवज्रः- उदकवजः । उदभारः उदकभारः । उदहारः- उदकहारः । उदवीवधः - उदकवीवधः । उदगाहः - उदकगाहः । वीवधस्तु जलाथाहरणयोग्यः उभयतः शिक्यः स्कन्धवाह्यः काष्ठविशेषः ।
1
इको ह्रस्वः । अड्य इति च्छेदः । ग्रामणीपुत्र इति । कर्मधारयः षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह- श्रन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तद्हणामित्यर्थः । श्रीमदः । भ्रूभङ्ग इति । श्रोभ्रूशब्दौ अजादिप्रत्यये परे इयविति भावः । शुक्लीभाव इति । अभूततद्भावे विप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । 'वो'
For Private and Personal Use Only
Page #658
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
भ्रूकुंसः । भ्रुकुटि : भ्रुकुटि: । ' अकारोऽनेन विधीयते' इति व्याख्यान्तरम् । कुंसः भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः 6ः । भ्रुवः कुटिः कौटिल्यम् । (२०००) एक तद्धिते च ६ |३|६२ ॥ एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् । (२००१) ङयापोः सञ्ज्ञाछन्दसोर्बहुलम् ६|३|६३॥ रेवतिपुत्रः । अजक्षीरम् । (१००२) त्वे च ६ |३|६४ ॥ स्वप्रत्यये स्यापोर्वा ह्रस्वः । अजत्वम् - अजात्वम् । रोहिणित्वम् - रोहिणीश्वम् । (२००३) प्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ६|१|१३॥ यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे । (१००४) सम्प्रसारणस्य६ । ३ | १३६ ॥ सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमु
ત
इति दीर्घः । ' ऊर्यादिच्विडाचश्च' इति निपातत्वादव्ययत्वमिति भावः । श्रभ्रूकुंसादी नामिति । भ्रूशब्दस्य उवङ्भावितया हस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारो - नेति । 'अ भ्रूकुंसादोनाम्' इति वार्तिके अ इति लुप्तप्रथमार्कं पृथक्पदम् । तथा च कुंसादीनामवयवः यो भ्रूशब्दः तस्य अकारः अन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । अवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः । 'अकुंसश्च भ्रकुंसश्च भ्रूकुंसश्चेति नर्तकः' इत्यमरः, 'भ्रकुटिकुटि कुटिः स्त्रियाम्' इति च । एक तद्धिते च । एकेति लुप्तषष्ठीकम् । तदाह - एकशब्दस्येति । स्त्रीप्रत्ययान्तस्येति शेषः, अन्यथा हृस्वविधिवैयर्थ्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकस्याः श्रागतम् एकरूप्यमिति । ' हेतु मनुष्येभ्योऽन्यतरस्यां रूप्यः' । एकचीरमिति । एकस्याः क्षीरमिति विग्रहः ।
.
ङयापोः । उत्तरपदे ह्रस्वः स्यादिति शेषः । रेवतिपुत्र इति । कस्यचित्सञ्ज्ञेयम् । अथ छन्दस्युदाहरति--अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । 'परमं वा एतत्पयो यदजक्षीरम्' इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे - वप्रत्यये ङयापोर्वा ह्रस्व इति । अत्रं रोहिणीत्वमिति । सञ्ज्ञात्वाभावात् छन्दस्येवायमिति वृत्तिः । अनुत्तरपदार्थ वचनम् ।
ष्यङः सम्प्रसारणम् । प्रत्ययग्रहणपरिभाषया व्यङ इति तदन्तग्रहणम् । तदाहष्यङन्तस्य पूर्वपदस्येति । तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वप दलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधि कारेण पूर्वपदमाक्षिप्यते । सम्प्रसारणस्य दीर्घ इति । 'ठूलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्याया:
For Private and Personal Use Only
Page #659
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
सिद्धान्तकौमुदी
[समासाश्रयविधि
दगन्ध्यायाः पुत्रः कौमुदगन्धोपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया हम्वो न । 'स्त्रीप्रत्यये चानुपसर्जने न’ ( प २७) इति तदादिनियमप्रतिषेधात् परमकारीषगन्धीपुत्रः । उपसर्जने तदादिनियमान्नेह । अतिकारीषगन्ध्यपुत्रः ।
पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य सः कुमुदगन्धिः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः, कुमुदगन्ध. शब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदग. न्धेरपत्यं स्त्री इत्यर्थे तस्यापत्यमित्यण् । 'अणिजोरनार्षयोः' इति तस्य ध्यादेशः । 'यस्येति च' इति इकारलोपः । आदिवृद्धिः। यश्चाए । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्यापुत्र इति स्थिते व्यः सम्प्रसारणेन यकारस्य इकारः। तस्य तदुत्तराकारस्य च 'सम्प्रसारणाच्च' इति पूर्वरूपेण इकारे 'सम्प्रसारणस्यः इति दीघे कौमुदगन्धीपुत्र इति रूप. मिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, सम्प्रसारणात् पूर्वस्य हलः सम्प्र. सारणनिमित्तनिरूपिताजावयवत्वाभावात् । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको हस्वोऽड्यो गालवस्य' इति पाक्षिकं हस्व. माशड्याह-व्यवस्थितविभाषया हस्वो नेति । अत्र तु व्याख्यानमेव शरणम् ।।
स्यादेतत् । करीषं गोमहिषादिपुरीषम् , करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीष. गन्ध्या, तस्याः पुत्र, परमकारीषगन्धीपुत्रः इत्यत्रापि व्यङः सम्प्रसारणं, तस्य दीर्घश्चेति स्थितिः। अत्र सम्प्रसारणं दुर्लभम् । व्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य व्यङन्तत्वाभावात्प्रत्ययग्रहणे यस्मात्स विहि. तस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह-स्त्रीप्रत्यये चेति । व्यङः स्त्रियां विहित. त्वात् स स्त्रीप्रत्ययः। ततश्च 'स्त्रीप्रत्यये चानुपसर्जने न इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यन्त एवेति तत्र सम्प्रसारणे दीधे च परमकारीषगन्धोपुत्र इति रूपमिति भावः । इयं परिभाषा 'व्यः सम्प्रसारणम्' इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह-उपसर्जने विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, 'अत्यादयः' इति समासे, उपसर्जनहस्वः । तस्य पुत्रः अतिकारोषगन्ध्यपुत्रः। अत्र 'वीप्रत्यये तदादिनियमो न इति निषेधो न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तः। ष्यत्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वात् अतिकारीषगन्ध्यशब्दो नैव व्यङन्त इति न सम्प्रसारणमिति भावः ।
For Private and Personal Use Only
Page #660
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५] बालमनोरमासहिता।
६५१
aad (१००५) वन्धुनि बहुवाहौ ६।१।१४॥ बन्धुशब्दे उत्तरपदे ध्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रोही इति किम् । कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः । क्लोबनिदेशस्तु शब्दस्वरूपापेक्षया 'मातमातृकमातृषु वा' ( वा ३४४९) कारीषगन्धोमातः-कारीषगन्ध्यामातः । कारीषगन्धीमातृक:-कारीषगन्ध्यामातृकः । कारीषगन्धोमाता-कारीषगन्ध्यामाता। अत एव निपातनान्मातृशब्दस्य मातजादेशः। 'नयतश्व' (सू ८३३) इति कबिकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारीषगन्ध्यामाता। चित्त्वसामाञ्चित्स्वरो बहुब्रीहिस्वरं बाधते । (१००६) इष्टकेषीकामालानां चिततूलभारिषु ॥३॥६५॥ इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुजेषीकतूलम् । मालभारी । उत्पलमालभारी। (१००७) कारे सत्यागदस्य ६।३।७०॥ मुम्स्यात् । सत्यङ्कारः । अगदङ्कारः । 'अस्तोश्चेति वक्तव्यम्' (वा
बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति अत्र पत्युत्तरपदत्वाभावात् तत्पुरुषत्वाभावाञ्च पूर्वेण न प्राप्तिः । मातम्मातृकमातृषु वेति । वार्तिकमिदम् । मातच् , मातृक, मातृ एषु परेषु व्यङः सम्प्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति-कारीषगन्धीमातः कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः, अदन्तमेतत् । मातृके दाहरतिकारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति । 'नघृतश्च' इति कए । मातृशब्दे उदाह. सति-कारीषगन्धीमाता कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं, 'नतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्यत आह-अत एवेति । बहुव्रीहावेवेदमिति । 'बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह-चिस्वसामर्थ्यादिति ।
इष्टकेषीका। उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदं इष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्रावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् 'पदाङ्गाधिकारे तस्य तदन्तस्य च' इति वचनेन वा तेषां ग्रहणम् । 'इको हस्वः' इत्यतः ह्रस्व इत्यनुवर्तते । तदाह-इष्टकादीनां तदन्तानां चेति । इष्टकचित. मिति । इष्टकादिभिश्चितमिति विग्रहः । 'कर्तृकरणे कृता' इति समासः । तदन्तविधेः प्रयोजनमाह-पक्केष्टकचितमिति । इषीकतूलमिति। इषीकायास्तूलमिति विग्रहः। तुलमप्र, शष्पमित्यन्ये । मुजषीकतूलमिति । मुझेषोकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातो' इति णिनिः । ( सूत्रे ) हारिध्विति पाठान्तरम् ।
कारे सत्यागदस्य । शेषपूरणेन सूत्रं व्याचष्टे-मुम् स्यादिति । 'अद्विषत्' इत्यतस्त
For Private and Personal Use Only
Page #661
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[समासाश्रयविधि
३९७३ ) । अस्तुङ्कार । 'धेनोव्यायाम्। (वा ३९७५) । धेनुम्भव्या। लोकस्य पृणे' ( वा ३९५६ )। लोकम्पृणः । पृणः इति मूलविभुजादित्वात्कः । 'इत्येऽनभ्याशस्य' (वा ३९७७ )। अनभ्याशमित्यः। दूरतः परिहर्तव्य इत्यर्थः । 'भ्राष्ट्राग्न्योरिन्धे ( वा ३९७८ ) भ्राष्ट्रमिन्धः। अग्निमिन्धः । 'गिलेऽगिलस्य' (वा ३९७९)। तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः । 'गिलगिले च' (वा ३९८०)। तिमिङ्गिलगिलः । 'उष्णभद्रयोः करणे ( वा ३९८१)। उष्ण
दनुवृत्तेरिति भावः। सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यकार इति । भावे घम् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगदकार इति । गदो रोगः तस्याऽ. भावः अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तः। अगदस्य कार इत्यर्थः । अस्तोश्चेति । कारे मुमिति शेषः । अस्तुङ्कार इति । अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । मुम् वक्तव्य इति शेषः । धेनुम्भव्येति । नवप्रसवात्प्रागियमुक्तिः। भविष्यन्ती धेनुरित्यर्थः। 'भव्यगेय' इति कर्तरि निपातनात् कृत्यप्रत्ययः । धेनुश्चासौ भव्या चेति विग्रहः। मयूरव्यंसकादित्वात् भव्याशब्दस्य परनिपातः । लोकस्य पृणे इति । मुम्वक्तव्य इति शेषः । ननु लोकं पृणतीति विग्रहे कर्मण्यणि लघूपधगुणे रपरत्वे पर्णम् इति स्यादित्यत आह-पृण इति मूलाविभुजादित्वात् क इति । इत्येऽनभ्याशस्येति । मुम् वक्तव्य इति शेषः। अनभ्याशमित्य इति । अभ्याशः समीपम् , अनभ्याशं दूर, द्वितायान्तमिदम् । इण्धातोः प्रापणार्थकात् 'एतिस्तुशास्! इत्यादिना क्यप, 'गम्यादीनामुपसङ्ख्यानम्। इति द्वितीयासमासः। सुब्लुकि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थे मनसि निधायाह-दूरतः परिहर्तव्य इति । भ्राष्टाग्न्योरिन्धे इति । मुम् वक्तव्य इति शेषः। भ्राष्ट्रमिन्ध इति। भ्राष्ट्र धानादिभर्जनाह पात्रम् , तत् इन्द्धे तापयतीति भ्राष्ट्रभिन्ध, कर्मण्यणि उपपदसमासः। सुब्लुकि, मुम् । अग्निमिन्ध इति । अग्निं प्रज्वलयतीत्यर्थः । गिलेऽगिलस्येति । अगिलस्येति च्छेदः । गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः । तिमिलिल इति । 'ग निगरणे'। तिमिर्मत्स्यविशेषः । तं गिलतीति मलविभुजादित्वात् कः । 'ऋत इद्धातोः' इति इत्त्वे रप. रत्वे 'अचि विभाषा' इति लत्वम् , उपपदसमासः। सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्यविशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिझिलगिल इति। गिलं गिलतीति गिलगिलः, तिमीनां गिलगिल इति विग्रहः । सम्बन्धसामान्ये षष्ठी। तिमिषु गिलगिल इति निर्धारणसप्तमी वा । 'सज्ञायाम् इति सप्तमीसमासः । उष्णभद्रयोः करणे इति । मुम् वाच्य इत्यर्थः। उष्णङ्करणम् , भद्रकरणमिति षष्ठीसमासः।
For Private and Personal Use Only
Page #662
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता।
६५३
ङ्करणम् । भद्रकरणम् । (१००८) रात्रेः कृति विभाषा ६३७२॥ कृदन्ते परे । रात्रिश्चर:-रात्रिचरः । रात्रिमट:-रात्र्यटः । आखिदर्थमिदं सूत्रम् । खिति तु 'अरुद्विषत्-- (सू २९४२ ) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः । (१००४) सहस्य सः सज्ञायाम् ६।३।७॥ उत्तरपदे । सपलाशम् । 'सज्ञायाम्। किम् । सहयुध्वा । (१०१०) ग्रन्थान्ताधिके च ६३७६॥ अनयोरर्थयोः सहस्य सः स्यादुत्तरपदे । समुहुर्त ज्योतिषमधीते । सद्रोणा खारी। (१०११) द्वितीये चानुपाख्ये ६।३।८०॥ अनुमेये द्वितोये सहस्य सः स्यात् ।. सराक्ष
रात्रेः कृति विभाषा । अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे तदन्तग्रहणम्' इति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतः असम्भवात् तदन्तविधिरित्यभिप्रेत्य आह-कृदन्ते परे इति। रात्रेमुम् वा स्यादित्यर्थः। रात्रिश्चरः रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमट:-राज्यट इति । सुप्युपपदे मूलविभुजादित्वात् कः । उपपदसमासः। सुब्लुक् पक्षे मुम् । ननु रात्रि. म्मन्यः इत्यत्रापि मुम्विकल्पः स्यादित्यत आह-अखिदर्थमिदं सूत्रमिति । खिति स्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन 'अरुद्विषदजन्तस्य' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रात्रिम्मन्य इति । 'आत्ममाने खश्च इति खश् । खशः शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वानित्यं मुमिति भावः ।।
सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । 'वोपसर्जनस्य' इत्यस्यापवादः । सपलाशमिति । 'तेन सह' इति बहुव्रीहिः । वनविशेषस्य सम्जेयम् । सहयुध्वेति । 'सहे च' इति कनिम् । असम्झा. त्वान्न सभावः । ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति । विद्यमानस्येति शेषः । समुहूर्त मिति । मुहूर्त विधिपरग्रन्थपर्यन्तं ज्योतिः शास्त्रमधीत इत्यर्थः। अन्तवचने अव्ययीभावः । 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते समावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति। द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनः समासः सभावश्च । द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उप. लभ्यते इत्युपाख्यम् , प्रत्यक्षम् , तदन्यदनुपाख्यम् , अनुमेयमिति यावत । तदाहअनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीका निशेति । 'तेन सह' इति बहुव्रीहिः । 'नवृतश्च' इति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः। तदाह
For Private and Personal Use Only
Page #663
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
सिद्धान्तकौमुदी
[समासाश्रयविधि
सीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयानुमीयते । (१०१२) सामा. नस्य च्छन्दस्यमूर्धप्रभृत्युदकेषु ६३४॥ समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । 'अनु भ्राता सगभ्यः । अनु सखा सयूथ्यः। यो नः सनुत्यः।" 'तत्र भवः' इत्यर्थे 'सगर्भसयूथसनुतायत्' (सू ३४६०)। अमूर्धादिषु किम् । समानमूर्धा । समानप्रभृतयः । समानोदकोः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधयं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽस्ति । सदृशः सख्या ससखीति यथा। तेनायमस्वपदविग्रहो बहुव्रीहिः।
राक्षसी साक्षादिति ।
समानस्य । नतु मूर्धादिष्विति। मूर्धन् , प्रभृति, उदर्क एषु परेषु नेत्यर्थः । सगर्म्य इति । समाने गमें भव इत्यर्थः । सयूथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समाने नुते भव इत्यर्थः । सर्वत्र 'तद्धितार्थ इति समासे समानस्य सभावः । समानमूर्धेति । समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति । समानः प्रभृतिराधव. यवो येषामिति विग्रहः । ममानोदर्का इति । समानः उदकः येषामिति विग्रहः । तैत्ति. रीये 'सजू-तुभिः, सर्विधाभिः, सर्वसुभिः, सजूरुद्रैः, सजूरादित्यैः, सजू विश्वदेवैः सजूदेवैः सजूदेवर्वयोनाधेरग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा' इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजू-तुभिः, सजूविधा. भिरित्ययम् आद्यवयवः सजूदेंवैवयोनार्धरित्यन्तावयवश्व समानः, सर्वसुभिः इत्या. दिपञ्चानाम् एकैकस्य कमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-समानस्येति योगो विमज्यत इति । तथाच समानस्य सः स्यादिति वाक्यान्तरं सम्पद्यते । तत्र छन्दसीत्य. भावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः । सपक्ष इति । समानः पक्षो यस्येति विग्रहः । साधर्म्यमिति । समानो धर्मो यस्य सः सधर्मा, समानस्य सभावः । तस्य भावः साधर्म्यम् । ब्राह्मणादित्वात् व्यञ् । सजातीयमिति । समाना जातिर्यस्य इति विग्रहः । समानस्य सभावः । 'जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति । सग्राम इत्यादि सङ्ग्रहः । योगविभागस्य भाष्यादृष्टत्वात् युक्त्यन्तरमाह-अथवेति । तेनेति । तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः । तथाच 'वोपसर्जनस्यः इति सहस्य सभाव इति भावः । ननु तहि समानः पक्षः यस्य इति कथं विग्रहः सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह-अस्वपद इति । वृत्तावेव सहशब्दः सहशवचन इति भावः।
For Private and Personal Use Only
Page #664
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता ।
६५५
-
समानः पक्षोऽस्येत्यादि । (१०१३) ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥३॥५॥ एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि । (२०१४) चरणे ब्रह्मचारिणि ।। ८६॥ ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याचरणे समानत्वेन गम्यमाने। चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थ व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानस्य सः, सब्रह्मचारी । (१०१५) तीर्थ ये ६।३।७॥ तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः । एकगुरुकः। 'समानतीर्थे वासी (सू ___ ज्योतिर्जपनद। अच्छन्दोऽर्थे वचनमिदम् । सज्योतिरिति । समान ज्योतिर्यस्येति विग्रहः । एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, स. स्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि । समानस्येति स इति चानुवर्तते । उत्तरपदे इत्यधिकृतम् । तदाह-ब्रह्मचारिण्युत्तरपदै समानस्य सः स्यादिति । चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरणे विद्यमानस्येत्यर्थः। फलितमाहचरणे समानत्वेन गम्यमाने इति । तत्र चरणपदं व्याचष्टे-चरणः शाखेति । वैदिकप्रसि. द्धिरेवान मूलम् । ब्रह्मचारिपदं निर्वस्तुमाह-ब्रह्म वेद इति । 'वेदस्तत्त्वं तपो ब्रह्म इत्यमरः । तच्चरणार्थमिति । तस्य वेदस्य चरणम् अध्ययनं तच्चरणं व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तच्चरतीति । तत् प्रतं चरति अनुतिछतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थः । 'सुप्यजातौ इति णिनिः। समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वं च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थं व्रत. चारीति फलितोऽर्थः । भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेणिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यत इत्युक्तम् । ___तीर्थे ये । यशब्दात् अकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । 'यस्मिन् विधिः' इति तदादिविधिः । तदाह-यादी प्रत्यये इति । नात्र यप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते। 'समानतीथें वासी' इति समानतीर्थशब्दात् कृतसमासादेव वासीति तद्धिताथै यप्रत्ययविधानात् । सच यप्रत्ययः अन्तरङ्गे समावे कृते एव भवति । 'समर्थानां प्रथमाद्वा' इति सूत्रेण परिनि. ष्टितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतः यप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत माह-विवक्षिते इति । सतीर्थ्य इति । समाने तीथे वासीत्यर्थः । अत्र सामीप्ये सप्तमी। समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ । तदाह-एकगुरुक इति । तद्धितार्थे समा.
For Private and Personal Use Only
Page #665
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
सिद्धान्तकौमुदी
[समासाश्रयविधि
१६५८.) इति यस्प्रत्ययः । (१०१६) विभाषोदरे ६३८॥ यादी प्रत्यये विवक्षिते इत्येव । सोदयः-समानोदयः। (१०१७) द्वग्दशवतुषु ६३॥ सरक् सहशः। 'दृक्षे चेति वक्तव्यम्' (वा ३९९२) सदृक्षः। वतुरुत्तरार्थः । (१०१०)इटिमोरीश्की ६।३।०॥ दृग्शवतुषु इदम ईश् किमः की स्यात् । ईडक्-ईदृशः। कीदृक्-कीदृशः । वतूदाहरणं वक्ष्यते । 'दृक्षे चेति वक्तव्यम्' (वा ३९९२ ) ईदृशः। कोदक्षः । 'भा सर्वनाम्नः' (सू ४३०)। 'रक्षेचा (वा ३९९२) तादृक्-तादृशः । तावान्-तादृक्षः । दीर्घः मत्वोत्वे । अमूदृश:समुहक्-अमूदृक्षः । (१०१६) समासेऽङ्गुले सङ्गः ॥३०॥ अङ्गुलिशब्दासमस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः। (१०२०) भीरोः स्थानम् ।३।८१॥ भीरुशब्दास्थानस्य सस्य मूर्धन्यः स्या
समासे । भीरुष्टानम् । असमासे तु भीरोः स्थानम् । (१०२१) ज्योतिरायुषः - स्तोमः ॥३॥८॥ आभ्यां स्तोमस्य सस्य मूर्धन्यः समासे । ज्योतिष्ष्टोमः ।
'सप्रवृत्तये तद्धितं दर्शयति-समानेति। "निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्य. मरः । विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः। इत्येवेति । अनुवर्तत एवेत्यर्थः।
दृग्दृशवतुषु । समानस्य स इति शेषः । सदृक् सदृश इति । समानो दृश्यते इत्यर्थे 'समानान्ययोश्च' इति दृशेः छिन् कञ् च । दृक्षे चेति । समानस्य सत्वमिति शेषः। सदृक्ष इति । 'क्सोऽपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसम्भवादिति भावः । इदंकिमोरोश्की । ईश् की इति द्वे पदे । इदृक् ईदृश इति । इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्को । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोः इश्की वक्तव्यौ इति शेषः । आ सर्वनाम्न इति । आइति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः' इति विन्को । तदो दकारस्य आत्वे सवर्ण. दीर्घः। तावानिति । तत् परिमाणमस्येति विग्रहे 'यत्तदेतेभ्यः' इति वतुप । तादृक्ष इति । तदिव दृश्यते इति विग्रहः। अमूहगित्यत्र प्रक्रियां दर्शयति-दीर्घ इति । अदसः आत्त्वे कृते सवर्णदीर्घः । ततः ऊत्त्वमत्वे इत्यर्थः । म सेरिति व्याख्यानेऽपि अकारेण आकारस्यापि ग्रहणात् ऊत्त्वमत्वे । ___ समासेऽङ्गुलेः सङ्गः । भीरो स्थानम् । ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम् अग्ले: • सङ्गः, भीरोः स्थानम् , ज्योतिषः स्तोमः, आयुषः स्तोमः इत्याद्यर्थे प्रत्यासत्त्या
For Private and Personal Use Only
Page #666
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
६५७
आयुष्ष्टोमः । समासे किम् । ज्योतिषः स्तोमः । (१०२२) सुषामादिषु च । ३8॥ सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा। सुषन्धिः । (१०२३) एति सज्ञायामगात् ॥ (ग १८२) सस्य मूर्धन्यः। हरिषेणः । एति किम् हरिसक्थम् । सज्ञायाम् किम् । पृथुसेनः । अगकारात् किम् । विष्व. क्सेनः । इण्कोः इत्येव । सर्वसेनः । (१०२४) नक्षत्राद्वा ।३।१००॥ (ग १८३)। एति सस्य सम्ज्ञायामगकारान्मूर्धन्यो वा। रोहिणीषेणः-रोहिणीसेनः । अगकारात् किम् । शतभिषक्सेनः। आकृतिगणोऽयम् । (१०२५) अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितीत्सुकोतिकारकरागच्छेषु ६॥३॥६॥ अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठी-इत्यादि किम् । अन्यस्यान्येन वाशीरन्याशीः। 'कारके छे च नायं निषेधः' (वा ५०४८) । अन्यस्य कारकोऽन्यत्कारकः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः। ( १०२६) मर्थे विभाषा ६।३।१०॥ अन्यदर्थः । अन्याथः । (१०२७) कोः कत्तत्पुरुषेऽचि ३।३।१०१॥ अजा. दावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदनम् । तत्पुरुषे किम् कूष्ट्रो राजा।
तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तध्वनयन् प्रत्युदाहरति-अङ्गुलेः सङ्ग इत्यादि । नेह 'इण्कोः ' इत्यनुवर्तते, व्याख्यानात् । सुषामादिषु च । स्पष्टम् । एति सम्शायामगात् । एकारे परे सस्य षः स्यादित्यर्थः। नक्षत्राद्वा । स्पष्टम् ।
अषष्ठयतृतीयास्थस्य । अषष्ठयाम् अतृतीयायां च परतस्तिष्ठतीति अषष्ठयतृती. यास्थः तस्य अषष्ठीतृतीयान्तस्येत्यर्थः। अषष्ठीतृतीयास्थस्येत्येव सिद्धे नज्दयोपादानं स्पष्टार्थम् । आशीरादिष्विति । आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । 'अषष्ठ्यतृतीयास्थस्य' इति निषेधः कारकच्छयो स्तीत्यर्थः । भाष्योक्तमिदम् । अर्थे विभा. षा। अन्यस्य दुगिति शेषः । ___ कोः कत्तत्पुरुषेऽचि । कत् इति च्छेदः । शेषपूरणेन सूत्रं व्याचष्टे-आजादावुत्तरपदे इति । कदश्वः कदन्नमिति । 'कुगति' इति समासः । कूष्टो राजेति । कुत्सित: उष्टो
बा०४२
For Private and Personal Use Only
Page #667
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ समासाश्रयविधि
-
'त्रौ च ( वा ३९९८)। कुत्सितात्रयः कत्रयः। (१०२८) रथवदयोश्च । ३।१०२॥ कद्रथः । कद्वदः । (१०२६) तृणे च जातो ६।३।१०३॥ कत्तणम् । (२०३०) का पथ्यक्षयोः ६।३।१०४॥ कापथम् । काक्षः । अक्षशब्देन तत्पु. रुषः, अक्षिशब्देन बहुव्रीहिर्वा । (१०३१) ईषदर्थे ६।३।१०५॥ ईषजलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः । (१०३२) विभाषा पुरुषे ६।३। १०६॥ कापुरुषः-कुपुरुषः। अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधानि. त्यमेव । ईषत्पुरुषः कापुरुषः । (१०३३) कवं चोष्णे ६।३।१०७॥ उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम्-कोष्णम्-कदुष्णम् । (१०३४) पृषोदरादीनि यथोपदिष्टम् ६।३।१०४॥ पृषोदरप्रकाराणि शिष्टयथोच्चरितानि यस्येति बहुव्रीहित्वात् न कदादेशः । त्रौ चेतित्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याजादित्वाभावात् वचनम् । रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति । 'कुगति' इति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः । तृणे च जातौ । तृणशब्दे कोः कस्यात् जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिवि. शेषोऽयम् । 'अस्वी कुशं कुथो दर्भः पवित्रमथ कत्तणम्' इत्यमरः ।
का पथ्यक्षयोः। पथिन् , अक्ष अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति। कुत्सितः पन्था इति विग्रहः । 'कुगति' इति समासः । 'ऋक्पू:' इत्य. प्रत्ययः । 'पथः सङ्ख्याव्ययादेः इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काशब्दे समासं दर्शयति-पक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहे 'कुगति' इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति वि. ग्रहे 'बहवीही सक्थ्यक्ष्णोः' इति जित्यर्थः। ईषदर्थे । ईषदथें विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः। ईषज्जलं काजलमिति । ईषत् जलमिति विग्रहे 'कुगति' इति समासः । नित्यसमासत्वात् अस्वपदविग्रहप्रदर्शनम् । कुत्सितः आम्लः काम्लः इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति कदादेशमाशङ्कयाह-अजादावपीति । विभाषा पहले। कोः का इत्यादेश इति शेषः। अप्राप्तविभाषेति । ननु कोः ईषदर्थकत्वे सति ईषदथें। इति नित्ये कादेशे प्राप्ते विकल्पसम्भव इत्यत आह-ईषदर्थे होति । वृत्त्यनुसारेणे. दमुक्तम् , पूर्व विप्रतिषेधस्य भाष्यानुक्तत्वात् । कवं चोष्णे । कवं का च वेति । विभाषे. त्यनुवृत्तरिति भावः। उभयाभावे कदादेशः। तथाच रूपत्रयम् । तदाह-कोष्णम्कवोष्णम्-कदुष्णमिति।
प्रपोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्यादर्शनात् यथोपदिष्टपदस्य वैयर्थ्याच्च । किन्तु प्रकारवाची तदाह-पृषोदरप्रकाराणीति ।
For Private and Personal Use Only
Page #668
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
-
-
तथैव साधूनि स्युः । पृषदुदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः। उत्तरपदादेश्च लत्वम् ।
__ 'भवेद्वर्णागमासः सिंहो वर्णविपर्ययात् ।
गूढोऽत्मा वर्णविकृतवर्णनाशात्पृषोदरम् ।' 'दिक्छन्देभ्यस्तीरस्य तारभावो वा' (वा ३९९९ ) दक्षिणतारम्-दक्षिणतीरम् । उत्तरतारम्-उत्तरतीरम् । 'दुरो दाशनाशदभध्ये घूत्वमुत्तरपदादेः ष्टुत्वं च (वा ४००१) दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडमः । खल् त्रिभ्यः । दम्भेनेलोपो निपात्यते । दुःखेन
-
प्रकारा सादृश्य, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्रा. गृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः। भावे क्तः। उपदिष्टमुपदेशः उच्चा. रणं, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्ययाहार्यम् , तथाच फलितमाह-शिष्टैर्यथोच्चारितानि तथैव साधुनोति । शिष्टास्तु शब्दतत्त्वसाक्षाकारवन्तः योगिन इति भाष्यकैयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः' इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वोदेशः । वाहकशब्दः उत्तरपदं तदादेवकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमाद्धंस इति । हसधातोः पचायचि अनुस्वारागमे हंस इति रूपमित्यर्थः । हनधातोरचि सगागमे 'नश्चापदान्तस्य' इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्यया. दिति । 'हिसि हिंसायाम्' इत्यतः पचायचि इदित्त्वान्नुम् । 'नश्च' इत्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुता । तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढः आत्मा यस्येति बहुवीही उत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः। वर्णनाशात्पृषोदरमिति । पृषत् उदरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः ।
दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । । इदमपि वार्तिकम् । दुर इत्यस्य दाश, नाश, दम, ध्य इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वं च वक्तव्यमि. त्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । दाशेः दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुरनाश इति स्थिते रेफस्य उत्त्वं सवर्णदीर्घः नाशेर्नका. रस्य ष्टुत्वेन णत्वम् । दूढम इति। दुर् दम इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेदकारस्य ष्टुत्वेन डकारः। खल त्रिभ्य इति । 'दाश्च दाने 'णश अदर्शने ण्यन्तः, 'दभ हिंसायाम्' इति त्रिभ्यः धातुभ्यः 'ईषदूदुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु
For Private and Personal Use Only
Page #669
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[समासाश्रयविधि
ध्यायतीति दूढ्यः । 'आतश्च-' (सू २८९८) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः। सदेरधिकरणे डट् । आकृतिग. णोऽयम् । (१०३५ ) संहितायाम् ६३।११४॥ अधिकारोऽयम् । (६०३६) कर्णे लक्षणस्थाविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्नुवस्वस्ति. कस्य ६।३।११५॥ कर्णशब्दे परे लक्षणवाचकस्य दीघः। द्विगुणाकर्णः । लक्षण. स्य किम् । शोभन कर्णः । अविष्टादीनाम् किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः । (१०३७) नहिवृतिवृषिव्यधिरुचिसहितनिषु को ६।३।११६॥ क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावट । मर्मावित् । नीरुक् ।
डित्परकत्वाभावात् कथमिह 'अनिदिताम्' इति नलोप इत्यत आह-दम्भेर्नलोपो निपात्यत इति । दूढय इति । दुर् ध्यः इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्। 'आतश्योपसर्गे' इति कप्रत्यये 'आदेच उपदेशे इति आत्त्वे 'आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः। सदेरिति । सद्धातो रधिकरणेऽर्थे डटि डित्त्वसामर्थ्यादभस्यापि टेलोपे स इति रूपम् । ब्रवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिङ्' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्य इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनी. त्यस्यैव प्रपञ्चः । आकृतिगणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमनाः इत्यादिसङ्ग्रहः। ___ संहितायाम् । सुगमम् । कर्णे लक्षणस्य । दीर्घविधिः, 'ठूलोपे' इत्यतस्तदनुवृत्तः । यत्पशूनां स्वामिविशेषसम्बन्धज्ञानार्थ दात्रशूलचक्राद्याकारचिह्न क्रियते तल्लक्षण. शब्देन विवक्षितम् । तेन लम्बकर्णः इत्यादौ नातिप्रसङ्गः। द्विगुणाकर्ण इति। द्विगुण. रेखौ को यस्येति विग्रहः। अष्टकर्ण इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इत्यादित्यर्थः । अष्टसङ्ख्याकरेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति। 'णह बन्धने' णो नः' सम्पदादित्वात्कर्मणि विप् । उपनह्यते इत्युपानत् । पूर्वपदस्य दीर्घः। 'नहो धः'। निवर्तते इति नीवृत् । 'वृतु वर्तने कर्तरि किप , दीर्घः । प्रवर्षतीति प्रावृट् । 'वृषु सेचने' विप् , दीर्घः। मर्माणि विध्यतीति मर्मावित् । बिप्, 'अहिज्या' इति सम्प्रसारणम् । उपपदसमासः, सुब्लुक् , नलोपः, दीर्घः । निरोचत इति नीरुक्, 'रुच दीसौ किप, दीर्घः। ऋति सहते इति ऋतीषट् । 'षह मर्षणे किप, दीर्घः, 'हो ढ' 'सात्पदायोः' इति षत्वनिषेधे प्राप्ते 'पूर्वपदात्' इति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे । परितनोतीति परीतत् । 'तनु विस्तारे किम् , 'गमः का' इत्यत्र
For Private and Personal Use Only
Page #670
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
अभीरुक् । ऋतीषट् । परीतत् । कौ इति किम् । परिणहनम् । 'विभाषा पुरुषे (सू १०३२ ) इत्यतो मण्डूकप्लुत्या विभाषा अनुवर्तते। सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् । (१०३८) वनगियोः सञ्ज्ञायां कोटरांकशुलुकादीनाम् ६३।११७॥ कोटरादीनां वने परे, किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्मज्ञायाम् । (१०३६) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः मा४४॥ वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः। इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एव इति किम् । गमादीनामित्युपसङ्ख्यानात् अनुनासिकलोपः । तुक् , दीर्घः । अथ पटुरुक् , तिग्मरुगित्यादौ दीर्घमाशङ्कयाह-विभाषेति । पटुरुगिति। पटु रोचत इति विग्रहः। उभ. यत्र कर्तरि विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाभावान्न दीर्घः । व्यवस्थितविभाषाश्रयणे व्याख्यानमेव शरणम् ।
वनगिर्योः। वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ तावादी येषामिति विग्रहः । कोटरादीनां किंशुलुकादीनां चेति लभ्यते । यथासङ्ख्यमन्वयः । तदाह-कोटरादीनामित्यादिना । पुरगावणमित्युदाहरणानि वक्ष्यन्ते । तत्र णत्वविधि दर्शयति-वनं पुरगा। वनमिति षष्ठयथें प्रथमा इत्यभिप्रेत्याह-वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः, 'रषाभ्याम्' इत्यतो णो नः इत्य. नुवृत्तेः । सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वात् 'अकुप्वा इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वात् एभ्य एति कथं नियमलाभ इत्यत आह-इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः। ततः किमित्यत आह-तेषामिति । णत्वविधौ तावत्पुरगादि. शब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां सज्ञायामेव वनगिर्योरिति विहितः । एवञ्च एतेषामसज्ञायां दीर्घाभावात् सज्ञायामेव 'वनं पुरगाइति णत्व. विधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य 'पूर्वपदात्मज्ञायामगः इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः सम्पद्यत इत्यर्थः।
अग्रेशब्दस्य विति । णत्वविधौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्व
For Private and Personal Use Only
Page #671
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६२
सिद्धान्तकौमुदी
[ समासाश्रयविधि
असिपत्रवनम् । वनस्याप्रे अग्रेवणम् । राजन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः । (१०४०) वले ६|३|११८ ॥ वलप्रत्यये परे दीर्घः स्यात्सञ्ज्ञायाम् । कृषीवलः । (२०४६) मतौ बह्वचोऽनजिरादीनाम् ६|३|११४॥ अमरावती । अनजिरादीनाम् किम् | अजिरवती । बह्वचः किम् । व्रीहिमती | सञ्ज्ञायाम् इत्येव । नेह । वलयवती । ( १०४२) शरादीनां च ६|३|१२०॥ शरावती । (२०४३) इको वहेऽपीलोः ६|३| १२१॥ इगन्तस्य दीर्घः स्याद्वदे । ऋषीवहम् । कपीवहम् । इकः किम् । पिण्डचम् | अपीलोः किम् | पीलुवहम् । 'अपील्वादीनामिति वाच्यम्' ( वा ४००५ ) दारुवम् । (२०५४) उपसर्गस्य घञ्यमनुष्ये बहुलम् ||३ | १२२॥ उपसर्गस्य बहुलं दीर्घः स्यादुद्घञन्ते परे, न तु मनुष्ये । परीपाकः - परिपाकः । विध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्यासञ्ज्ञात्वादिति भावः । न च पुरगा. वणशब्दे गकारव्यवधानात् 'पूर्वपदात्सञ्ज्ञायाम्' इत्यस्य प्राप्तयसम्भवात् अत्र अपू
त्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम् अग इति हि पञ्चमी । गकारान्तात्पूपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयम् आकारान्त एव न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तया पूर्वपदात्सञ्ज्ञायाम्' इत्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयः नरकविशेषाणां सज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र सञ्ज्ञात्वेऽपि 'पूर्वपदात्सञ्ज्ञायाम्' इति णत्वं न भवति । एभ्य एवेति नियमादिति भावः । श्रग्रेवणमिति । वनशब्दस्य षष्टयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हि 'सुपो धातु' इति सप्तम्या अपि 'लुकू स्यादित्यत आह- राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थं प्राधान्यात्सप्तमी स्यादित्यत आह- प्रातिपदिकेति । सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह- किंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् ।
वले । कृषीवल इति । कृषिरस्यास्तीति विग्रहे 'रजः कृष्यासुति' इत्यादिना वलच् । मतौ । मतुप्प्रत्यये परे बहुचो दीर्घः स्यात्सञ्ज्ञायां, न त्वजिरादीनामित्यर्थः । श्रमरावतीति । इन्द्रनगर्याः सञ्ज्ञेयम् । अमराः अस्यां सन्तीति विग्रहः । 'मादुपधायाश्च' 'इति 'सज्ञायां' इति वा मस्य वः । श्रजिरवतीति । नदीविशेषस्य सज्ञेयम् । वलयवतीति । अनजिरादित्त्रेऽप्यसञ्ज्ञात्वान्न दीर्घ इति भावः । शरादीनां च । मतौ दीर्घः सज्ञायामिति शेषः | अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शराः अस्यां सन्ती. ति विग्रह: । नदीविशेषस्य नाम । इको वहेऽपीलोः । अपीलोरिति च्छेदः । इगन्तस्येति ।
For Private and Personal Use Only
Page #672
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५] बालमनोरमासहिता। %30अमनुष्ये किम् । निषादः । (१०४५) इका काशे ६।३।१२६॥ इगन्तस्योपपसर्गस्य दीर्घः स्यात्काशे। नीकाशः । इकः किम् । प्रकाशः (१०४६) मष्टन: सज्ञायाम् ६।३।१२५॥ उत्तरपदे दीर्घः। अष्टापदम् । सज्ञायाम् किम् । अष्टपुत्रः। (१०४७) चितः कपि ६।३।१२७॥ एकचितीकः । द्विचितीकः । (१०४८) नरे सञ्ज्ञायाम् ॥१२॥ विश्वानरः। (१०४४) मित्रे वर्षों ६।३।१३०॥ विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः । 'शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः' (वा ५०४९ ) श्वादन्त इत्यादि । (१०५०) प्रनिरन्तःशरक्षुप्लक्षाम्रकार्यखदिरपीयूक्षाभ्योऽसञ्ज्ञाया. मपि ॥ एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कायॆवणम् । इह पात्परपूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घ, उपधावृद्धिः । 'चजोः कु घिण्ण्यतोः' इति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिवि शेषः । निषीदत्यस्मिन् पापमिति निषादः । 'हलव' इत्यधिकरणे घञ्। दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारः द्वारम् , तत्स्थत्वात् मनुष्ये गौणः । इकः काशे । नीकाश इति । पचायजन्तत्वात् पूर्वेण न प्राप्तिः। ___ अष्टनः सव्शायाम् । शेषपूरणेन सूत्रं व्याचष्टे-उत्तरपदै दीर्घ इति । अष्टापदमिति । सज्ञात्वमन्वेषणीयम् । चितेः कपि । दीर्घ इति शेषः । एकचितीक इति । अग्न्याख्यस्थण्डिलविशेष इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कए। द्विचितीक इति। चिती यस्येति विग्रहः । नरे सज्ञायाम् । विश्वस्य दीर्घ इति शेषः । विश्व. स्य वसुराटोः' इति पूर्वसूत्रात् विश्वस्यस्यनुवर्तते । मित्रे चर्षों । मित्रशदे परे विश्वस्य दीर्घः स्यात् । ऋषौ वाच्ये इत्यर्थः । शुनो दन्तेति । श्वनशब्दस्य दन्तादिषु परतः दीर्घ इत्यर्थः। श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमासः। दीर्धान्त एव दंष्ट्राशब्दो वातिके पठ्यत इति केचित् । हस्वान्त इत्यन्ये । श्वादंष्टः । बहुव्रीहिरयम् । श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम् , श्वापदः । श्वपुच्छ. मवनामितमित्यसाध्वेव । प्रनिरन्तः। एभ्य इति । प्र, निर , अन्तर्, शर, इक्षु, प्लक्ष, आम्र, कायॆ, खदिर, पीयूक्षा इत्येतेभ्य इत्यर्थः । वनस्येति । 'वनं पुरगा' इत्यतः तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमा. सः। इहेति । कायॆवणमित्यत्र षकारात्परत्वेन गत्वम् , नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन काश्यति तालव्यशकारम. ध्यपाठः अप्रामाणिक इति सूचितम् । तथा सति निमित्ताभावात् णत्वासम्म. वात् , अकुप्वाभिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वासम्भवात् ।
For Private and Personal Use Only
Page #673
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
समासाश्रयविधि
-
-
स्वाण्णत्वम् । (१०५१) विभाषौषधिवनस्पतिभ्यः ४६॥ एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम्-दूर्वावनम् । शिरीषवणम्-शिरीषवनम् । 'द्वयच्च्य. उभ्यामेवा ( वा ४९८४ ) नेह । देवदारुवनम् । 'इरिकादिभ्यः प्रतिषेधो वक्तव्यः' (वा ४९८५)। इरिकावनम् । मिरिकावनम् । तिमिरावनम् । (१०५२) वाहनमाहितात् ८४८॥ आरोप्य यदुह्यते तद्वाचिस्थानिमित्तात्परस्य वाहननका. रस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेल्युटि वृद्धिरिहैव सूत्रे निपातनात् । (१०५३) पानं देशे माह पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। सुरापाणाः प्राच्याः । पीयत इति पानम् । निर्वणं, अन्तर्वणं, शरवणम् , इक्षुवणम् , प्लक्षवणं, आम्रवर्ण, कार्यवणं, खदिरवणं, पीयूक्षावणम् ।
विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति-दूर्वावणमिति । 'ओषध्यः फलपाका. न्ताः' इत्यमरः । अथ वनस्पतिभ्यः उदाहरति-शिरीषवणमिति । यद्यपि यः पुष्पैविना फलति स एव उदुम्बरादिर्वनस्पतिः. 'वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः' इत्युक्तेः । शिरीषवृक्षश्वायं पुष्पफलवानेव न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्य विवक्षितम् । अत एव 'लुपि युक्तवद्वयक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक । द्वथ च्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य गत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् । वाहने आधीयते वह · नाय यत् , नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह-प्रारोप्येति । निमित्ता. दिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्ये. त्यर्थः । अनेन सूत्रे वाहनमिति षष्ठयथें प्रथमेति सुचितम् । इक्षुवाहणमिति । इक्षवा हि वहनाय परैरारोप्यन्ते, नतु स्वयमेवाराढुं शक्नुवन्ति इति तेषामाहितत्वं बोध्यम् । आरोपितेक्षुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति । ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्नाहितत्वमिति भावः। यदि कदाचित् अन्येन वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहन, तदा प्रत्युः दाहरणमिति मनसि निधायाह-इन्द्रस्वामिकमिति । ननु वहेः करणे ल्युटि कथमुपधा. दीर्घः, णित्प्रत्ययपरकत्वाभावादित्यत आह-वहेर्युटिति ।
पानं देशे। पानमिति षष्ठयथें प्रथमेत्यभिप्रेत्याह-पानस्येति । उशीनरा इति ।
For Private and Personal Use Only
Page #674
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
कर्मणि ल्युट् । ( १०५४) वा भावकरणयोः ८|४|१०|| पानस्य इत्येव । क्षीरपानम् - क्षीरपाणम् । 'गिरिनद्यादीनां वा' ( वा ४९८९ ) गिरिनदी - गिरिणदी । चक्रनितम्बा- चक्रणितम्बा । (२०५५) प्रातिपदिकान्तनुम्विभक्तिषु च ८|४|११|| पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते - माषवापिणौ । नुमि- त्रीहिवापाणि विभक्तौ माषवापेण । पक्षे माषवापिनावित्यादि । 'उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्' ( वा ४९९० ) नेह |
६६५
देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावल्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह- पीयते इति । वा भावकरणयोः । इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानम् - क्षीरपाणामिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनित्रेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः । प्रातिपदिकान्त । पूर्वपदस्थादिति । 'पूर्वपदात्सज्ञायाम्' इत्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । 'वा भावकरणयोः' इत्यतस्तदनुवृतेरिति भावः । प्रातिपदिकान्ते इति । उदाहरणं वक्ष्यत इति शेषः । माषवापि - खाविति । माषान् वपते इति विग्रहः, 'बहुलमाभीक्ष्ण्ये' इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिनुशब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमीति । उदाहियत इति शेषः । व्रीहिवापाणीति । कृषीवल कुलानीति शेषः । व्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् 'जशसोशिश: ' 'नपुंसकस्य झलचः' इति नुमि 'सर्वनामस्थाने च' इति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्ताविति । उदाहियते इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति । णत्वाभावपक्षे माषवापिनौ, माषवापानि, मावापेन इत्युदाहार्यमिति भावः ।
ननु गर्गाणां भगिनी गगंभगिनीत्यत्र ङीष्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वात् नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह- उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम् । तच्च प्रातिपदिकस्यैव, विशेचणम् नतु तदन्तस्य नापि नुम्विभक्त्योः, असम्भवादिति भावः । हेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रह
For Private and Personal Use Only
Page #675
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[समासाश्रयविधि
गर्गाणां भगिनी गर्गभगिनी। अत एव नुम्प्रहणं कृतम् । अगस्य नुम्विधानात्त. अतो हि नुम् । न तूत्तरपदस्य । किञ्च 'प्रहिण्वन्' इत्यादौ हिवेमो णस्वार्थमपि नुम्ग्रहणम् । प्रेन्वनम् इत्यादौ तु क्षुभ्नादित्वान्न । 'युवादेन' ( वा ४९९९ )। रम्ययूना। परिपक्कानि । 'एकाजुत्तरपदे णः' (सू ३०७)। नित्यम् इत्युक्तम् । णेऽपि तदन्तम् ईकार एव, नतु नकारः अतो न तस्येदं पाक्षिकं गत्वमिति भावः । प्रातिपदिकल्योत्तरपदत्वविशेषणं सूत्रकारस्य सम्मतमित्याह-अत एवेति । प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्राकारेण कृतं नुम्ग्रहणमर्थवत् , अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह-अगस्येति । 'नपुंसकस्य झलच" इति नुम्विधौ अङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्वना. मस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सर्वनामस्थान प्रति माषवापशब्दोऽ गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवावयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् 'प्रातिपदि. कान्त' इत्यनेन णत्वविकल्पस्याप्राप्तौ नुम्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वविशेषणाभावे तु माषवापशब्दान्तावयवस्य नुमः माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात् 'प्रातिपदिकान्त' इत्येव सिद्धे नुम्ग्रहणं व्यर्थ स्यादित्यर्थः। तदेवं प्रातिप. दिकस्य उत्तरपदत्वविशेषणे नुम्ग्रहणं लिङ्गामिति स्थितम् ।।
वस्तुतस्तु नेदं लिङ्गमित्याह-किंच प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहण. मिति । किंचेति विशेषप्रदर्शने । 'हवि प्रीणने' भ्वादिः, इदित्त्वात् नुम् , लटः शत्रा. देशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तेस्तदर्थ नु. म्ग्रहणमावश्यकम् । अतः उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुम्ग्रहणं लिङ्ग स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः। ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपदत्वम् 'गतिकारकोपपदानां कृभिः सह समा. सवचनम् इति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत् , न-उत्तरपदशब्दस्य समा. सचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ' इदित्त्वान्नुम् । ल्युटि अना. देशः। प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह-प्रेन्वनमिति ।
युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्चासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपकानीति । इह नुमो नका. रस्य 'प्रातिपदिकान्त' इति विकल्प बाधित्वा 'कुमति च' इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वानिषिध्यते । एकाजुत्तरपदे णः। अजन्तस्त्रीलिङ्गे पुन शब्दनिरूपणे
For Private and Personal Use Only
Page #676
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा । (१०५६) कुमति च ८|४|१३|| कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणो । हरिकामाणि । हरिकामेण । ( १०५७) पदव्यवायेऽपि ८|४|३८|| पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । 'अतद्धित व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते । नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । इरिमाणीति । मनेर्ण्यन्तात् 'क्विप् च' इति किपि 'गतिकारकोपपदानाम्' इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वात् ङीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वात् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । उदाह्रियत इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पाधातोः 'आतोऽनुपसर्गे कः' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाजश्शसोश्शिः । अजन्तलक्षणो नुम् दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाहियत इति शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह - रम्यविणेति । विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । नचात्र 'पदव्यवायेऽपि' इति निषेधः शङ्कयः । किमिह प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य 'सुप्तिङन्तम्' इति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः 'स्वादिषु' इति पदत्वम् । नाद्यः । 'उत्तपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीयः । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य, तृतीयाविभक्तेः समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूशब्दमात्रस्य पदत्वाभावात् 'पदव्यवायेऽपि' इति निषेधाभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत् ' पदव्यवायेऽपि ' इत्यत्रानुपदमेव वक्ष्यते ।
I
कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् । पदव्यवायेऽपि । पदेन व्यवधाने इति । पदेनेत्यनन्तरं निमित्तकार्यिणोरिति शेषः । न स्यादिति । 'न भाभूपूकमिगमि' इत्यतस्तदनुवृत्तेरिति भावः । माषकुम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानात् न णत्वम् । चतुरङ्गयोगनैति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्ग सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकायिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं बोध्यम् ।
For Private and Personal Use Only
६६७
Page #677
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६८
सिद्धान्तकौमुदी
[ समासाश्रयविधि
इति वाच्यम्' ( वा ५०१५ ) | आर्द्रगोमयेण । शुष्कगोमयेण । ( १०५८) कुस्तुम्बुरुणि जातिः ६ । १ । १४३ ॥ अत्र सुन्निपात्यते । कुस्तुम्बुरुर्धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः । (१०५१) अपरस्पराः क्रियासातत्ये ६ | १ | १४४ ॥ सुन्निपात्यते । अपरस्पराः साथ गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रिया - इति किम् । अपर
'उत्तरपदे चापदादिविधौ प्रतिषेधः" इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एव 'न लुमताङ्गस्य' इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यं भाक्त्वमस्तीति तस्य अन्तर्वर्तिनों विभक्तिमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च 'कुमति च' इति सूत्रे भाष्ये माषाणां कुम्भः माषकुम्भः माषकुम्भस्य वापो माषकुम्भवापः तेन माषकुम्भवापेनेत्यत्र ' पदव्यवायेऽपि' इति निषेधप्रवृत्तये 'प्रातिपदिकान्त' इति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणा इत्यत्र वि इत्युत्तरखण्डस्य कार्यभाक्त्वाभावात् 'उत्तरपदत्वे चापदादिविधा' इति प्रत्ययलक्षण निषेधस्याप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेन पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यादिति वाच्यम्, पदे परे यत्पदं तेन व्यवाये णत्वं नेत्यर्थस्यव भाष्यसम्मतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति । रम्यविणेत्यत्र च विशब्दस्यान्तर्वर्तिविभक्त्या पदत्वेऽपि तस्य पदपरकत्वाभावान्न णत्वनिषेधः । एतेन पुनर्भणामित्यत्रापि णत्वं निर्बाधम् ।
1
अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधाने अयं निषेधः, नतु तद्धितपरकपदेनेत्यर्थः । श्रर्द्रगोमयेणेति । गोः पुरीषं गोमयं 'गोश्च पुरीषे' इति गोशब्दात् षष्टयन्तात् मयट् तद्धितः तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् आर्द्र गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दः मयटि पदम् । तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अट्कुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । पात्परस्योदाहरणम् । भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ 'सुट् कात्पूर्वः' इत्यतः' सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बुरूणि । श्रश्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुटुको निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः । क्लीवत्वमतन्त्रमिति । अविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरुणीति । धान्याकजातिवाचकत्वाभावात् न सुडिति भावः । तदाह- कुत्सितानि तिन्दुकीफलानीत्यर्थ इति । तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः ।
I
For Private and Personal Use Only
Page #678
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता।
६६६
परा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः । (२०६०) गोष्पदं सेवितासेवितप्रमाणेषु ६१।१४५॥ सुट सस्य षत्वं च निपात्यते। गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवित-इत्यादि किम् । गोः पदं गोपदम् । (१०६२) प्रास्पदं प्रतिष्ठायाम् ६१३१४६॥ आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रतिष्टायाम् इति किम् । म पदात् आपदम् । (आपदापदम् )। (२०६२) आश्चर्यमनित्ये ६१।१४७॥ अद्भुते सुट् । माश्चर्य यदि स भुजीत । अनित्ये किम् । आचर्य कर्म शोभनम् । (१०६३) वर्चस्केऽवस्करः ६।१।१४८॥ कुत्सितं वर्गों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यव. स्करः । वर्चस्के किम् । अवकरः । (१०६४) अपस्करो रथाङ्गम् ६।१।१४४॥ अपकरोऽन्यः । (१०६५) विकिरः शकुनो वा ६१५०॥ पक्षे विकिरः । "वावचनेनैव सुडविकल्पे सिद्धे विकिरप्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्। __ अपरस्पराः क्रियासातत्ये । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसम्मवात् नम्पूर्वकमुदाहरति-अगोष्पदानीति । गवां सञ्चरो यत्र नैव सम्भवति तत्रापि सुडिति भावः । गोष्पदमात्र क्षेत्रमिति । क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतः गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः। प्रास्पदं प्रतिष्ठायाम् । आत्मेति । आत्मयापन शरीरसंरक्षणं, तदर्थ यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः। श्रापदादापदमिति । आ पदादिति विग्रहे अव्ययीभावे आपदमिति भवतीत्यर्थः। आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये । अद्भुते गम्ये आपूर्वकस्य चरेः सुट् । 'चरेराडि चागुरौ' इति यत् । अनित्यग्रहणपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह-अद्भुते सुडिति । तने आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसङ्ग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्त्र सिध्येत् । वर्चस्केऽवस्करः ।
'मूत्रं प्रस्त्राव उच्चारावस्करौ शमलं शकृत् ।
गूथं पुरीष वर्चस्कमस्त्री विष्ठाविशौ स्त्रियाम् ॥' इत्यमरः । अपरकरो। 'स्याद्रथाङ्गमपस्करः' इत्यमरः। 'चक्रं रथाङ्गम्' इति च । विष्किरः । विकिरतीति विकिरः। 'कृ विक्षेपे 'इगुपधज्ञा' इति कः । शकुनौ गम्ये सुड्वा, परि. निविभ्यः इति षत्वम् । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः ।
वा वचनेनैवेति । वृत्तिग्रन्थे 'विष्किरः शकुनौ विकिरो वा' इति सूत्रपाठः । तत्र
For Private and Personal Use Only
Page #679
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७०
सिद्धान्तकौमुदी
[ समासाश्रय विधि
1
इति वृत्तिः । तन्न । भाष्यविरोधात् । ( १०६६) प्रतिष्कशश्च कशेः ६ | १ | १५२ ॥ 'कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते ष च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम् । प्रतिगतः कश प्रतिशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ब्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न । ( १०६७) प्रस्कण्वहरिश्चन्द्रावृषी ६ |२| १५३ ॥ हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः । (१०६६) मस्करमस्कारणौ वेणुपरिव्राजकयोः । ६ | १|१५४ || मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । वेणु - इति किम् । मकरो ग्राहः । मकरी समुद्रः । (१०६६) कास्तीराजस्तुन्दे नगरे ६।१।१५५॥ ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् | अजस्येव तुन्दमस्यैति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् । ( १०७०) का. रस्करो वृक्षः ६/१/१५६ ॥ ( ग १५३ ) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु । ( १०७१ ) पारस्करप्रभृतीनि च सञ्ज्ञायाम् ६| १ | १५७ ॥ एतानि ससुट्कानि निपात्यन्ते नाम्नि | पारस्करः । किष्किन्धा | 'तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलो
वाग्रहणादेव सुविकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हि 'विष्किरः शकुनौ वा' इति सूत्रं पठित्वा वाग्रहणेन सुविकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि 'विकिर वैश्वदेविकम्' इत्यत्र दर्शनादिति भावः । प्रतिष्कशश्च कशैः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोः निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सु स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गर्मि प्रत्येव प्रतिरुपसर्गः, ततु कशि प्रति, 'यत्क्रियायुक्ताः प्रादयः' इति नियमादित्यर्थः । प्रस्कण्वहरिश्चन्द्रावृषी । श्रमन्त्रार्थमिति । मन्त्रे तु 'स्वाच्चन्द्रोत्तरपदे मन्त्रे' इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणौ । यथासङ्ख्यमन्वय: । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे । कास्तीरशब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः । कारं करोतीति विग्रहः । 'कृनो हेतुताच्छील्ये' इति टः । पारस्करप्रभृतीनि च । पारस्कर इति । पारं करोतीति विग्रहः । पूर्वव । किष्किन्धेति ।
For Private and Personal Use Only
Page #680
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २६ ]
बालमनोरमासहिता ।
पश्च' ( वा ३७१३ ) | तात्पूर्वं चर्चेन दकारो बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपस्योस्तु सुट् । चोरदेवतयोः इति समुदायोपाधिः । तस्करः । बृहस्पतिः । ' प्रायस्य चित्तिचित्तयो:' (वा ३७१४) प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ।
इति समासाश्रयविधिप्रकरणम् ॥
अथ तद्विताधिकारप्रकरणम् ॥ २६ ॥ अथापत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।
(१०७२) समर्थानां प्रथमाद्वा४/१/६२॥ इदं पदत्रयमधिक्रियते । ‘प्राग्दिशः-' ( सू १९४७ ) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकिं किमपि वानरसैन्यं धत्ते इति किष्किन्धा । 'आतोऽनुपसर्गे कः' । टापू, 1 निपातनात् किमो द्वित्वम् । मलोपः, सुट्, षत्वं च । रूढशब्दा एते कथञ्चिदव्युत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः । तद्वृहतोरिति । पारस्करादिगणसूत्रमेतत् । तदूशब्दे तकारस्यान्त्यस्याभावादाह - तात्पूर्वमिति । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् चौर्य करोतीति विग्रहः । 'कृञो हेतुताच्छील्ये' इति टः । बृहस्पतिरिति बृहती वाक् तस्याः पतिः इति विग्रहः । 'कुक्कुट्यादीनामण्डादिष्विति पुंवस्वम्, तलोपः सुट् । 'वाग्वि बृहती तस्या एष पतिः' इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः । 'प्रायः पापं विजानीयाच्चित्तं यस्य विशोधनम्' इति स्मृतिः । वनस्पतिरिति । वनस्य पतिरिति विग्रहः । श्राकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् ।
1
1
इति श्रीवासुदेवदीक्षित विदुषा । विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् ।
६७१
For Private and Personal Use Only
तदेवं समासप्रपञ्चं निरूप्य तद्धितप्रकरणमारभते - समर्थानां प्रथमाद्वा । विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह - इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह - प्राग्दिश इति यावदिति । 'प्राग्दशो विभक्तिः' इति सूत्रम् उत्तरावधिरित्यर्थः । 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यं च 'तस्यापत्यम्' इत्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये
1
Page #681
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
सिद्धान्तकौमुदी
[अपत्याधिकार
कार्यत्वमिति यावत् । (१०७३) प्राग्दीव्यतोऽण ४१॥३॥ 'तेन दीव्यति-' (सू १५५० ) इत्यतः प्रागणधिक्रियते। (१०७४) अश्वपत्यादिभ्यश्च ४।१ ८४॥ एभ्योऽणस्यात्प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः (१०७५) तद्धितेवचामादेः ७।२।११७॥ निति णिति च तद्धिते परेऽचामादरचो वृद्धिः स्यात् । (१०७६) किति च ७।२।११॥ किति तद्धिते च तथा । अश्वपतेरपत्या.
प्रथमोच्चारितादित्यर्थः। 'समर्थात्प्रथमावा' इति सुवचम् । केचित्तु बहुवचनवलाद. नेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवञ्च 'प्राग्दिशः' इत्यादिषु स्वार्थिकप्रत्ययवि. धिषु नास्य प्रवृत्तिरिति लभ्यते इत्याहुः । ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया 'समर्थः पदविधिः' इति परिभाषयैव एकार्थीभावरूपसा. मर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह-सामर्थ्य परिनिष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वं च कार्योत्पादनयोग्यत्वम् । शब्दस्य च कार्यमर्थ. प्रतिपादनमेव । तच्छतत्वं च कृतेष्वेवं सन्धिकार्येषु सम्भवति। तथाच कृतसन्धि. कार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह-कृतसन्धिकार्यत्वमिति यावदिति । __ प्राग्दीव्यतोऽण् । 'तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थदीव्यतिशब्दै. कदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्वटितं तत्सूत्रं लक्ष्यते । तदाह-तेन दीव्यतीत्यतः प्रागणधिक्रियते इति । तथाच तस्यापत्यमित्याधुत्तरसूत्रेषु केवलमर्थनिदेशपरेषु विधेयप्रत्ययविशेषासंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते । कस्माद्भवतीत्याकाङ्क्षायां 'समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राणिति नोपतिष्टते, अणित्यस्यौत्सर्गिकतया वैशेषिकेण इमादिना बाधात् । अश्वपत्तादिभ्यश्च । चकारात् 'प्राग्दीव्यतोऽण' इत्यनुकृष्यते । तदाह-एभ्योऽण स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति । दीव्यतः प्राक् प्राग्दीव्यत् 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः। 'झयः' इति टच तु न, तस्य पाक्षि. कत्वात् । प्राग्दीव्यति भवाः प्राग्दीव्यतीयाः । वृद्धाच्छः । 'अव्ययास्य' इति तु न, अव्ययीभावस्याव्ययत्वे 'लुङमुखस्वरोपचाराः प्रयोजनम्। इति परिगण. नात् । अत एव 'अव्ययानां भमात्रे टिलोपः' इत्यपि न भवति । ननु 'प्राग्दीव्यतोऽण इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह-वक्ष्यमाणस्येति । 'दित्यदित्यादित्यपत्यु. त्तरपदाण्ण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । 'तद्धितेष्वचामादेः' । 'अचो णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अवामिति निर्धारणषष्ठी। तदाह-नितीति । किति च । तथेति । अचामादरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपयुक्तमाप व्याख्यासाकर्याय इहोपन्यस्तम् । अपत्या
For Private and Personal Use Only
Page #682
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २६ ]
बालमनोरमासहिता ।
६७३
याश्वपतम् । गाणपतम् । 'गाणपत्यो मन्त्र' इति तु प्रामादिकमेव । ( १०७७) दित्यदित्यादित्य पत्युत्तरपदाण्ण्यः ४|१| ८५ ॥ दिव्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । 'यमाच्च' इति काशिकायाम् । याम्यः । 'पृथिव्या जाओ' (वा २५५४) । पार्थिवा पार्थिवी । 'देवानी' ( वा २५५५ ) । दैव्यम् - दैवम् । 'बहिषष्टिलोपो
दीति । आदिना समूहाचर्थसङ्ग्रहः । श्राश्वपतमिति । अम्बपतेरणि आदिवृद्धौ 'यस्येति च' इति इकारलोपः । गाणपतमिति । अश्वपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादा बातमित्यर्थः । गणपतिक्षेत्रपत्यादीनामश्वपत्यादिगणे पाठस्य वृतौ दर्शनादिति भावः ।
दित्यदित्यादित्य । दित्यादिभ्य इति । दिति, अदिति, आदित्य एतेभ्य इत्यर्थः । पत्युत्तरपदादिति । पतिः उत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्वति । प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । श्रणोऽपवाद इति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । दितेर्ण्यप्रत्ययः । 'चुटू' इति णकार इत्, आदिवृद्धिः, 'यस्येति च' इति इकारलोपः । श्रदितेः श्रादित्यस्य वेति । अपत्यादीति शेषः । श्रादित्य इति । जाताथर्थे ण्ये आदिवृद्धौ 'यस्येति च' इति लोपे आदित्य इति रूपम् । आदित्यशब्दात् ण्ये आदिवृद्धौ 'यस्येति च' इति लोपे 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावे लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वात् 'आपत्यस्य च' इति योगेन । अदितेरपत्ये ण्ये आदित्यशब्दात्पुनरपत्ये ण्ये 'आपत्यस्य च' इति यलोपः । प्राजापत्य इति । पत्युत्तरपदात् प्रजापतिशदात् ये आदिवृद्ध 'यस्येति च' इति लोपः । दैतेया इति त्वसाध्येव । साधुत्वनद्वाजाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति । भाष्ये त्विदं न दृइयत इति भावः । याम्य इति । यमस्यापत्यादीति विग्रहः ।
I
1
1
पृथिव्या नाञाविति । अश्व अभ् च वक्तव्यावित्यर्थः । पार्थिवेति । पृथिव्या अपत्यादीति विग्रहः । प्रत्यये 'चुटू' इति नकार इत्, आदिवृद्धिः, 'यस्येति च' इति लोपः । खियामदन्तत्वाद्दाप् । पार्थिवीति । अनि 'टिटूढाणम्' इति ङीप् । अप्रत्ययस्यैव विधौ ङीप् न स्यात् । अन एव विधौ टाप् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दात् यज् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम् - दैवमिति । देवस्यापत्यादीति
बा० ४३
For Private and Personal Use Only
Page #683
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
सिद्धान्तकौमुदी
[ अपत्याधिकार
-
यम् च' (वा २५५६) बायः । 'ईकक्च' (वा २५५७) बाहीकः । 'स्थाम्नोऽकार: (वा २५५९) । अश्वत्थामा । पृषोदरादित्वात्सस्य तः । 'भवायें तु लुग्वाच्यः' (वा २८८२)। अश्वस्थामा। 'लोम्नोऽपत्येषु बहुष्वकारः' (वा २५६०)। बाहादीमोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषु किम् । औडुलोमिः। 'सर्वत्र गोरजादिप्रसङ्गे यत् । ( वा २५६१)। गव्यम् । अजादिप्रसङ्गे किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् , गोमयम् । (१०७०) उत्सादिभ्योऽञ् श६॥
-
विग्रहः । यति अभि य आदिवृद्धौ 'यस्येति च इति लोपः । बहिष इति । बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयेष्वर्थेषु यम् , प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्य इति । बहिर्भवः इत्यादिविग्रहः । यमि टिलोपे आदिवृद्धिः । 'अव्ययानां भमात्रे टिलोप' इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भवः मारातीयः इत्यादि सिध्यति । ईका चेति । बहिष ईकक च स्यात् प्रकृते. टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपे 'किति च' इत्या. दिवृद्धिः। स्थाम्न इति। स्थामन्शब्दात् अकारप्रत्ययः प्राग्दीव्यतीयेष्वथेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति । अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यं तत्र जातः इत्यादिविग्रहः। प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात् तदन्तविधिः । अश्वस्थामन्शब्दादकारप्रत्यये 'नस्तद्धित' इति टिलोपः। अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह-पृषोदरादित्वादिति । भवार्थे तु लुग्वाच्य इति । अकारप्रत्ययस्येति शेषः । लोम्न इति । लोमन्शब्दाबहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः। बाह्वादीन इति । बाह्रादित्वप्रयुक्तस्य होऽपवाद इत्यर्थः। उडुलोमा इति । उनि नक्षत्राणीव लोमानि यस्य सः उडुलोमा, तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासम्भवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अन्नापत्यबहुत्वाभावादका. रप्रत्ययो न। किन्तु बाह्वादित्वादिभि टिलाप इति भावः।
सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं सर्वऋग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसने सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं गोरागतमित्यादि विग्रहः । अणप. वादो यत् । गोरूप्यम्-गोमय मिति । 'हेतुमनुष्येभ्योऽन्यतरस्याम्' इति रूप्य इत्यर्थः । 'मयड्वैतयोः' इति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः । सत्सादिभ्योऽभ् । प्राग्दीव्यतीयेष्वथेष्विति शेषः । अणिजापवादः । 'दृष्टं सामा
For Private and Personal Use Only
Page #684
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७] .
बालमनोरमासहिता।
६७५
श्रोत्सः । 'अग्निकलिभ्यो ढरवक्तव्यः' (वा २६८९)। अग्नेरपत्यादि आग्नेयम् । कालेयम् ।
इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः।
अथापत्याधिकारप्रकरणम् ॥ २७॥ ( १०७६) स्त्रीपुंसाभ्यां ननौ भवनात् ४१॥७॥ 'धान्यानो भवने- (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्या क्रमानमत्री स्तः । बैणः । पोस्नः। वत्यथै न । 'स्त्री पुंवञ्च (सू ९३२ ) इति ज्ञापकात् । स्त्रीवत् पुंवत् ।
इति सूत्रभाष्ये 'सर्वत्राभिकलिभ्यां ठरवक्तव्यः' इति वार्तिकं पठितम् । दृष्टं सामेत्यथें ततोऽन्येष्वप्यथेषु ढरवक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघवात्प्राग्दी. व्यतीयेष्वेवेदं वार्तिकं पठति-अग्निकलिभ्यामिति । अपत्यादीति । अग्निदेवता अस्य इत्यादिसङ्ग्रहः । आग्नेयम् कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति. च' इति लोपः।
इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।
अथापत्याधिकारी निरूप्यते । स्त्रीसाभ्याम् । भवनशब्देन 'धान्यानां भवने क्षेत्रे खम्' इति सूत्रं विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागित्यनुवृत्तम् । तदाह-धान्या. नामिति । स्त्री साभ्यामिति । 'अचतुर' इत्यच् । स्त्रीशब्दात् पुस्शब्दाच्चेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यम् स्त्रीषु भवः, स्त्रीणां समूहः इत्यादिविग्रहः । न , वृद्धिः, णत्व. म् । पौंस्न इति । सोऽपत्यम् , पुसि भवः, पुंसां समूहः इत्यादिविग्रहः। पुंस्शब्दात् स्ननि 'स्वादिषु' इति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः। प्रत्ययसकारस्तु जयते, उभाभ्यामपि नन्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलेोपे पुनः इति स्यादिति भावः । वत्यर्थे नेति । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययो वक्ष्यते । तस्याथें स्त्रीपुंसाभ्यां नमस्नो न भवत इत्यर्थः। कुत इत्यत आह-'स्त्री पुंवच्चे'ति शापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्यादिति भावः। न च पुवदिति निर्देशः पुंस्शब्दाद्वत्यर्थं स्नमभावं ज्ञापयेत् , नतु स्त्रीशब्दानअभावमपीति वाच्यम् , नम्स्नओरेकसूत्रोपात्ततया वत्यथें स्मनभावे ज्ञापिते सति स्त्रीशब्दानअभावस्यापि लामात ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्ये योगापेक्षं ज्ञापकम्' इति ।
For Private and Personal Use Only
Page #685
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
सिद्धान्तकौमुदी
[अपत्याधिकार
(१००) द्विगोल्गनपत्ये ४।१॥८॥ द्विगोनिमित्तं यस्तद्धितोऽजादिरनपस्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। द्विगोनिमित्तम् इति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । अनपत्ये किम् । द्वयोर्मित्रयोरपत्यं द्वैमित्रिः । (१०८१) गोत्रेऽलुगचि ४१॥ अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुस्यात् । गर्गाणां छात्राः । 'वृद्धाच्छः' (सू १३३७ ) ( १०ः२) श्रापत्यस्य
द्विगो गनपत्ये । द्विगोरिति हेतुत्वसम्बन्धे षष्ठी । लुक्श्रवणात् प्रत्ययस्येत्युपस्थि. तम्, प्रत्ययादर्शनस्यैव लुकत्वात् । तथाच द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते। द्विगुनिमित्तश्च प्रत्ययः तद्धित एव भवति, तद्धिताथें विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तेः प्राग्दीव्यती. यत्वं तद्धितविशेषणम् । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रे अचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच्च षष्टया विपरिणतं तद्धितविशेषणम् । तदाह-द्विगोनिमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण , तद्धितार्थे द्विगुः, अणो लुक् । प्रत्ययलक्षणाभावानादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणो लुकि निष्पन्नात् पञ्चकपालशब्दात् 'तस्येदम्' इत्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुङ्न भवति, अणो द्विगुनिमित्तत्वाभावादिति भावः । पञ्चगर्ग रूप्यमिति । पञ्चभ्यो गर्गेभ्यः आगतमित्यर्थे 'हेतुमनुष्येभ्यः इति रूप्यप्रत्ययः । तद्धितार्थ इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावात् न लुगिति भावः । द्वैमित्रिरिति । अत्र 'अत इञ्' इति इओऽपत्यार्थकत्वान्न लुगिति भावः । न च तिम्रो विद्या अधीयान स्त्रैविधः इत्यत्राप्यणो लुक् स्यादिति वाच्यम् , त्र्यवयवा विद्या त्रिविद्या । शाकपाथिवादिः । त्रिविद्यामधीते त्रैविध इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात्। प्राग्दीव्यतीयस्येति किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम्। ___ गोत्रेऽलुगचि । अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तः प्रत्ययाधिकाराच्च प्रा. ग्दीव्यतीये प्रत्यये इति लब्धम् । अचीति तद्विशेषणं तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादावित्यादिना। गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्ये. त्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमागोदाहरणविग्रहप्रदर्शनमिदम् । गर्गस्य गोत्रापत्यं गायः । 'गर्गादिभ्यो यम् । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यनि कृते तस्य 'योश्च' इति लुकि गर्गा इति भवति । वृद्धाच्छ इति । गाय॑शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशा,
For Private and Personal Use Only
Page #686
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
६७७
च तद्धितेनाति ६ |४| १५१ ॥ हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे, न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् । गर्गेभ्यो हितं गर्गीयम् । अचि किम् । गर्गेभ्यः आगतं गर्गरूप्यम् । ( १०८३) यूनि लुक् ४|१|६०॥ अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लौचुकायनः । तस्य च्छात्त्रोऽपि
तस्मिन्भविष्यति अजादा परे 'यञञोश्च' इति प्राप्तो लुङ् न भवति । तथाच गार्ग्य
इति स्थिते 'यस्येति च' इति यजोऽकारस्य लोपे गाग्यं ईय इति स्थिते परिशिटस्य यत्रो यकारस्य लोपमाह - श्रापत्यस्य च । अनातीति च्छेदः । 'ढे लोपोऽकद्याः" इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य' इत्यतो य इति षष्ठयन्तमनुवर्तते । 'हलस्तद्वितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह - हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यत्रो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोप-स्वाभीयत्वेऽपि नासिद्धत्वम्, आरम्भसामर्थ्यात् । 'हलस्तद्धितस्य' इति यलोपः स्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति । 'तस्मै हितम्' इति गार्ग्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे 'यजञोश्च' इति यजो लुग्भवत्येवेति नादिवृद्धिरिति भावः । गर्गरूप्यमिति । 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यमः अलुङ्न । यदि तु अजादौ प्राग्दीव्यतीये परे इति व्याख्यायेत, तर्हि गाग्यंशब्दाच्छे तस्य ईयादेशे : कृते अलुग्विधिः प्रवर्तेत नतु ततः प्राक् । एवञ्च छप्रवृत्तेः प्राकू 'यजजोश्च' इति यत्रो लुकि कृते आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धत्वाभावात् ततः छो न स्यात् । अणि सति गार्गाः छात्राः इत्येव स्यात् । आजादौ प्रत्यये विवक्षिते इति व्याख्याने छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव यनि अलुग्विधेः प्रवृत्तौ यजन्तस्य वृद्धत्वात् छा निर्बाधः । यलोपविधौ आपत्यस्येति किम् सङ्काशेन निर्वृत्तं नगरं साङ्काश्यं 'सङ्काशादिभ्यो ण्यः' ततो भवार्थे 'धन्वयोपधात्' इति वुञ् । साङ्काश्यकः । तद्धिते किम्, गायें गार्ग्ययोः । अनातीति किम्, गार्ग्यायणः ।
तु
"
I
यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह-अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम् 'अत इज्' इति इञः प्राप्तेरित्यत आह- वक्ष्यमाण इति । 'प्राचामवृद्धात् फिन् बहुलम्' इत्यनेनेति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूप
1
For Private and Personal Use Only
Page #687
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७८
सिद्धान्तकौमुदी
[अपत्याधिकार
ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न । (१०८४ ) पैलादिभ्यश्च । ४५॥ एभ्यो युवप्रत्ययस्य लुक् । 'पीलाया वा (सू ११२१) इत्यण् । तस्मात् 'अणो वचः' (सू ११००) इति फिञ् । तस्य लुक् । पैलः पिता पुत्रश्च । 'तद्राजा. चाणः' (ग २१) 'यज्मगध' इत्यण्णन्तादाङ्गशब्दात् 'अणो द्वयचः' (सू ११८०) इति फिनो लुक् । आजः पिता पुत्रश्च (१०८५) इञः प्राचाम् ॥४॥६०॥ गोत्रे य इञ् तदन्तायुवप्रत्ययस्य लुक्स्यात् तच्चेगोत्रं प्राचां भवति । पनागारस्य
मिति भावः। तत इति । ग्लुचुकायनेरपत्यार्थे 'तस्यापत्यम्' इत्यणि आदिवृद्धौ 'यस्येति च इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । तस्येति । ग्लोचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याणो लुकि ग्लौचुकायन इत्येव रूपमित्यर्थः । ननु युवापत्याणः 'यस्येति च इति लोपेनैव छात्राथें ग्लौचुकायन इति रूपसिद्धे. स्तस्य लुग्विधिरनर्थक इत्यत आह-अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युव. प्रत्ययस्याणो लुकि आदिवृद्धेनिवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाभावात् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्वैतीयोको युवप्रत्ययलुगनुक्रम्यते।
पैलादिभ्यश्च । 'ण्यक्षत्रियाः इत्यतो यूनि लुक् इत्यनुवर्तते । तदाह-एभ्यो युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थे 'स्त्रीभ्यो ढक इति ढकं बाधित्वा पीलाया वा' इत्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् 'अणो द्वयचः" इति फिन इत्यर्थः। पीलाया गोत्रापत्यस्यापत्यं पोलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफि प्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोनापत्ये युवापत्ये च पलशब्द इत्याह-पैलः पिता पुत्रश्चेति । यूनः पिता युवा चेत्यर्थः । 'तद्रा. जाच्चाणः' इति पैलादिगणसूत्रम् । तद्वाजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः ।
घन्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा आङ्गः। तस्य गोत्रापत्यमप्याङ्गः । 'द्वयमगध' इत्यण् । तस्यापत्यं युवाप्याज एव । 'अणो द्वयः' इति फिम् । तस्यानेन लुक् । इनः प्राचाम् । इजः इति पञ्चमी। प्रत्ययत्वात्तदन्तग्रहणम् । 'ण्यक्षनिय इत्यतो यूनि लुगित्यनुवर्तते । इमन्तात्परस्य युवप्रत्ययस्य लुगि. त्यर्थः । अर्थादिलो गोत्रार्थकत्वं लभ्यते । तदाह-गोत्रे य इञ् तदन्तायुवप्रत्ययस्य लुगिति । प्राचाम् इति गोत्रविशेषणम् , न तु विकल्पार्थम् व्याख्यानात् । तदाहतच्चेद्गोत्रं प्राचां भवतीति । प्रान्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो
For Private and Personal Use Only
Page #688
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
६७४
अपत्यम् । 'अत इञ् (सू १०९५) 'यमिओश्च' ( सू० ११०३) इति फक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता। दाक्षायणः पुत्रः । (१०८६) न तौल्वलिभ्यः २।४६१॥ तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् , पूर्वेण प्राप्तः । तुत्वलः । तत इजि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्रः। (१०७)फफिनोरन्यतरस्याम्॥११॥'यूनि लुक् (सू १०८३) इति नित्ये लुकि प्राप्ते विकल्पार्थ सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्याय.
-
नाम कश्चित् , तस्य गोत्रापत्यमित्यर्थे 'अत इन्' इति इमि पानागारिः। पाया. गारेरपत्यं युवेत्यर्थे पानागारिशब्दात् 'यमियोश्च' इति फक् । तस्यानेन लुक् । एवा पत्रागारस्य गोत्रापत्ये युवापत्ये च पानागारिरित्येव रूपमित्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता। दाक्षायणः पुत्र इति। दक्षस्य गोत्रापत्यं दाक्षिः, अत इन् । तस्यापत्यं युवा दाक्षायणः । 'यजियोश्च इति फक् । तस्य लुक् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थकादिनः परत्वम् ।
न तौल्वलिभ्यः । बहुवचनात्तौरवल्यादीनां ग्रहणमित्याह-तौलल्यादिभ्यः पर. स्येति । पूर्वेणेति । 'इञ्ः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित्। तस्य गोत्रापत्य तौल्वलिः । अत इन् । तस्यापत्यं युवा तौलवलायनः । 'यमिनोश्च' इति फक् । 'इनः प्राचाम्' इति लुङ्नेत्यर्थः ।
अथ प्रकृतं चातुर्थिक लुग्विधिमनुसरति । फक्फिोरन्यतरस्याम् । यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तते इत्यर्थः । 'यूनि लुक' इत्युक्तो लुक् फक्फिनो स्यादित्यर्थः । तदाह-पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्य कात्यः । गर्गादित्वाद्यन् । तस्यापत्यं युवा कात्यायनः । 'यभित्रोच' इति फक्। कात्यायनस्य छात्राः इत्यथें तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः। तस्य ईयादेशः । अत्र छात्रार्थ. कच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य ईय इति स्थिते 'यस्येति च। इत्यकारलोपे 'आपत्यस्य च इति यलोपे कातीया इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्यति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ्। इति हलपवादः शिवाथणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थे 'अमो द्वयचः इति फिजि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेः छात्राः इत्यथें 'तस्येदम्' इत्यनुवृत्तो 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । यास्का. यनीया इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफिनो लुकि 'यस्येति च इति अकारलोपे यास्कीया इति रूपमित्यर्थः ।
For Private and Personal Use Only
Page #689
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८०
सिद्धान्तकौमुदी
[अपत्याधिकार
नीयाः। यस्कत्यापत्यं यास्कः शिवायण । तस्यापत्यं युवा यास्कायनिः । 'अणो धचः' (सू ११८० ) इति फिञ् । तस्य छात्राः यास्कीया:-यास्कायनीयाः। (१०८) तस्यापत्यम् ४१॥२॥ षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्का वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यमोपगवः । आदिवृद्धिरन्त्योपधावृद्वी बाधते ।
तस्यापत्यम् । तद्धिता इति, प्रत्ययः, परश्च इति चाधिकृतम् । तच्छब्दः सर्वनाम तया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाडायां 'समर्थानां प्रथमाद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छन्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् । 'घकालतनेषु कालनाम्नः इति तरतमसनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तेापितत्वात् सुप्शिरस्कात्प्रा. तिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिते पदे उपस्थितत्वात् षष्ठयेव गृह्यते । ततश्च षष्ठयन्तादिति फलति । सामर्थ्य कृतसन्धिकार्यत्वमित्युक्तमेव ।। तदाह-षष्ठयन्तात्कृतसन्धेरिति । 'समर्थः पदविधिः' इति परिभाषया लब्धमाहसमर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः। सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनां पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण' इत्याद्या औत्सर्गिका इत्यर्थः । वक्ष्यमाणाश्चेति । 'अत इज्' इत्याधा वैशेषिका इत्यर्थः। वा स्युरिति । 'सम
नां प्रथमाद्वा' इत्यधिकृतत्वादिति भावः । 'अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तर. सूत्रव्याख्यावसरे अपत्यशब्दो व्याख्यास्यते।
औपगव इति। उपगोरणि आदिवृद्धिः। मोर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लामात् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणा. त्परत्वात् 'अचो णिति' इति वृद्धिः स्यात् , ओर्गुणस्य पशव्य इत्यादौ चरितार्थ. त्वात् । कृते च गुणे अवादेशे सति 'अत उपधायाः इति वृद्धिदैनिवारा । त्वष्ट्रपयं स्वाष्ट्रः, मघवतोऽपत्यं माघवतः इत्यादौ गुणाप्रसक्या अन्त्योपधावृद्धयोनिर्वाध. त्वाच्च । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यम् , विप्रतिषेधे हि परस्य पूर्वबाधकता। नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसम्भवात् । नाप्य. न्त्योपधावृद्ध्योरपवादः आदिवृद्धिरिति वक्तुं शक्यम् , सुश्रुतोऽपत्यं सौश्रुतः इत्यादौ अन्त्योपधावृष्योरप्राप्तयोरप्यादिवृद्धः प्रवृत्तेः । तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह-आदिवृद्धिरिति । 'अचो मिणति' इत्यन्त्यवृद्धिम् 'अत उप. या इत्युपधावृद्धि च आदिवृद्धिर्बाधते इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादि. स्वादिन् , 'अनुशतिकादीनां च' इत्युभयोः पदयोरादिवृद्धिः । पुष्करसदशब्दस्य अनुशतिकादौ पाठात् । तत्र यथादिवृद्धिरन्त्योपधावृद्धी न बाघेत, तदा आदि.
For Private and Personal Use Only
Page #690
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम्
बालमनोरमासहिता |
'तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
उत्सगः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥' ( वा २५८१ - २५८४) वृद्धया उपधावृद्धया च पौष्करसादेः सिद्धत्वात् अनुशतिकादी पुष्करसच्छन्दपाठोऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात् सत्यपि सम्भवे बाधनं भवति इति विज्ञायत इति भाष्ये स्पष्टम् ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
1
६-१
I
तस्येदमित्यपत्येऽपीत्यादि । इलोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थ:तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यविधानं व्यर्थमित्याक्षेपः । नच 'अत इम्' इत्याद्युत्तरसूत्रार्थ: 'तस्यापत्यम्' इत्यावश्यकमिति वाच्यम् । एवं हि सति 'तस्यापत्यमत इन्' इत्येकमेव सूत्रमस्तु । तथा च 'तस्यापत्यम्' इति पृथक्सूत्रप्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते - बाधनार्थं कृतं भवेदिति । 'तस्येदम्' इत्यणं बाधित्वा 'वृद्धा. च्छः इति छः अपत्ये प्राप्तः, तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रं कृतमित्यर्थः । ननु 'वृद्धाच्छः' इति सूत्रं शेषाधिकारस्थम्, अपत्यादिचतुर्थ्यन्तेभ्योऽन्यः शेषः । तथाच अपत्यार्थस्य शेषाधिकारस्यत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसकेस्तद्वाधनार्थत्वं 'तस्यापत्यम्' इत्यस्य कथमित्यत आह- उत्सर्गः शेष एवासाविति । उत्सु• ज्यते अदन्त बाह्वादिप्रकृतिभ्यो वियुज्यत इत्युत्सर्गः । कर्मणि घञ् । अदन्त बाह्वा दिभिन्नप्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेपतुर्हि 'तस्यापत्यमत इज्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त बाह्वादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात् तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छ स्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्' इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वात् छल्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह-वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद् वृद्धानि, तेभ्यः छप्रत्ययबाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रमित्यर्थः । ननु 'तस्येदम्' इत्यणि इदन्त्वेन बोधः । ' तस्याप. त्यम्' इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्, 'तस्येदमित्यपत्येऽपि' इत्याक्षेप एवायमनुपपन्न इति चेत् न - एतद्वार्तिकभाष्यप्रामाण्येन 'तस्येदम्' इति इदंशब्देन अपत्यस्य हृदन्त्वेन ग्रहणाभावविज्ञानात । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् ।
For Private and Personal Use Only
Page #691
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
सिद्धान्तकौमुदी
[अपत्याधिकार
योगविभागस्तु । भानोरपत्यं मानवः । कृतसन्धेः किम् । सौस्थितिः। अकृतव्यूहपरिभाषया साबुस्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात् किम् । अपत्यवाचकास्पष्टयर्थे मा भूत् । वाग्रहणाद्वाक्यमपि। 'दैवयज्ञि-'
कृप्तमन्धेः किमिति । 'समर्थानां प्रथमाद्वा' इत्यधिकारसूत्रस्थसमर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थ मिति प्रश्नः । सौस्थितिरिति । सु शोभनः उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः सूत्थितस्यापत्यं सौस्थितिः, अत इन्, सुब्लुक् , आदिवृद्धिः, 'यस्येति च इत्यकारलोपः। कृतसन्धेरित्यभावे तु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीधे कृते तदुत्तरमेव इन्प्रत्यय उचितः, परादन्तरङ्गस्य बलवस्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आहअकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्ध्यपेक्षया अन्तरङ्गोऽपि सवर्णदीर्घः अकृतव्यूहपरिभाषया आदिवृद्धः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घात्प्रागेवादिवृद्धौ मावादेशे सावुत्थिति. रिति स्यादित्यर्थः । न च इनि सति कृते सवर्णदीधे ऊकारस्य जायमानया वृद्धया सवर्णदीर्घनिमित्तस्य कस्यचिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् , यदि सवर्णदीर्थो न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृद्धया औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृ. तव्यूहपरिभाषायाः प्रवृत्तरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव, भाष्ये क्वाप्यव्यवहृतत्वात् , प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परं कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्ग बलीयः इत्युक्त्वा सौत्थितिरित्यत्र परामष्यादिवृद्धि बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने सु उत्थित इति स्थिते परत्वावृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसङ्गतिः स्पष्टैव। सेदुष इत्यादौ अकृतव्यूहपरिभाषाफल. स्यान्यथासिद्धिस्तु तत्र तत्र प्रपश्चितैवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः। ___ वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययविधानात् इह च अपत्यस्य तच्छब्दवाच्यो. पगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्या. दिवारणाय सामर्थ्यमेकार्थीभावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः । प्रथमादित्युक्ती तुतस्यापत्यम्' इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तात् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वामहणाभावे हि तद्धितस्य नित्यत्वादुपगोरप.
For Private and Personal Use Only
Page #692
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
६८३
( सू० १२०१) इति सूत्रा 'दन्यतरस्या' ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान्छीष् । औपगवी । अश्वपतः । दैत्यः । औत्सः । स्त्रैण: । पौनः । (१०८६) मपत्यं पौत्रप्रभृति गोत्रम् ४|१| १६२ || अपत्यत्वेन विवक्षितं पौत्रादि गोत्रस स्यात् । ( १०६०) जीवति तु वंश्ये युवा ४ । १ । १६३॥ वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसब्ज्ञमेव, न तु गोत्रसंज्ञम् । ( १०१२ ) भ्रातरि
त्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । नच तद्धितानां पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निर्वाध इति वाच्यम्, 'अपवादेन मुक्ते उत्सगा न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह- देवयज्ञीति । सूत्रादिति । जातित्वादिति । अपत्यार्थ काणन्तस्य औपगवशब्दस्य 'गोत्रं च चरणैः सह' इति जातित्वात् छीषित्यर्थः । श्राश्वपत इति । अश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा 'अश्वपत्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रह: । 'दित्यदिति' इति ण्यः अणपवादः । श्रौत्स इति । उत्सः कश्चित् तस्यापत्यमिति विग्रहः । 'उत्सादिम्योऽञ्' इत्यज् इजाद्यपवादः । स्वरे विशेषः । स्त्रणः । पौरन इति । स्त्रिया अपत्यं पुंसोऽपत्यमिति विग्रहः । 'स्त्रीपुंसाभ्याम्' इति ननमौ अणोऽपवादः ।
,
अपत्यम् । अपत्याधिकारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह- अपत्यत्वेन विवक्षितमिति । एवञ्च पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसञ्ज्ञेति भावः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।' इति कोशतः गोत्रशब्दस्य सन्ततिवाचकत्वात् पुत्रस्यापि गोत्रत्वे प्राप्ते पौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननु 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ॥
इत्यादिकोशात् अपत्यशब्दस्य पुत्र एव रूढत्वात् कथम् 'अपत्यं पौत्रप्रभृति' इति सामानाधिकरण्यमिति चेत्, मैवम् - अपत्यशब्दो हि नात्मजपर्यायः, किन्तु पुत्रपौत्रादिसन्ततिपर्यायः, न पतन्ति नरके पितरो येन तदपत्यमिति पक्तिविंशति' इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारताद जरत्काछुपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वात् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यम्' यस्य यः पौत्रादिः तस्य तद्गोत्रमिति व्याख्यानादित्यलम् |
जीवति । वंशः उत्पादकपित्रादिपरम्परा तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह-वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौ
1
For Private and Personal Use Only
Page #693
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
mainamainama
च ज्यायसि ४।९।१६४॥ ज्येष्ठे भ्रातरि जीवति कनीयांश्चतुर्थादियुवसम्ज्ञश्च स्यात् । (१०४२) वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ४।१।१६५॥ भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्य जीवदेव युवसझं वा स्यात् । एक जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरनिर्देश उमयोत्कर्षार्थः । स्थानेन वयसा चोत्कृष्ट पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गाग्र्यो वा। स्थविर-इति किम् । स्थानवयोन्यूने
अप्रभृति इत्यनुवृत्तं ष या विपरिणम्यत इति भावः । यदपत्यमिति । 'तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः। तदाह-युक्संशमे. वेति । तेन एकसज्ञाधिकारबहिर्भावेऽपि गोत्रसज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसम्ज्ञया सह गोत्रसज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलकुः कश्चित् , तस्य गोत्रापत्य शालङ्किः । इन् । पैलादिगणे शाल. होति पाठात् प्रकृतेः शलादेशश्च ।। शालङ्करपत्यं युवापि शालङ्किरेव । 'यजिजोश्च' इति फक् । 'पैलादिभ्यश्च' इति तस्य लुक् । शालङ्केयूनः छात्रा इत्यथें 'इजश्व' इत्यणि शालका इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । पीलाया वा' इत्यम् । पैलस्यापत्यं युवापि पैल एव । 'अणो द्वयचः' इति फिन । 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनः छात्रा इत्यथें वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसज्ञयोः समावेशे तु गोत्रेऽलुगचि' इति फक्फिोः अलुक् प्रसज्येतेत्यलम् ।
भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह-ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।। पौत्रप्रभृतीत्यनुवृत्तं षष्ठया विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेपत्यमित्यर्थः । फलितमाह-चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसम्क्षार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे-पौत्रप्रभृतेरपत्यं जीवदेव युवसशं वा स्यादिति । सपिण्डास्तु स्वयम् , पिता, पितामहः, प्रतितामहः तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृवंशेऽपीत्यादि धर्मशा. स्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सतम्यन्तेऽन्वेति । अत्रत्यं तु जीवतिपदं तिङन्तम् अपत्येऽन्वेति-यदपत्यं जीवति तावसज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृते. स्पत्यं जीवदेव युवसम्झं वा स्यादिति फलितम् । एकमिति । अनत्यमित्यर्थः । द्विती. वमिति । अनुवर्तमानमित्यर्थः। उभयोरिति । द्वित्वसम्बन्धे षष्ठी। उभयहेतुकोत्कर्ष. वाचकस्तरबित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानतः उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति सन्निहितत्वान्मा.
For Private and Personal Use Only
Page #694
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
६५.
गाय एव । जीवति इति किम् । मृते मृतो वा गार्य एव । 'वृद्धस्य च पूजाया. मिति वाच्यम्' (वा २६५४)। गोत्रस्यैव वृद्धसम्जा प्राचाम् । गोत्रस्य युव. सम्ज्ञा पूजायो गम्यमानायाम् । तत्रभवान्गाायणः । पूजा-इति किम् । गाग्यः । 'यूनश्च कुत्सायो गोत्रसज्ञेति वाच्यम्। (वा २६५१) । गार्यो जात्मः । कुत्साइति किम् । गाायणः । (२०६३) एको गोत्रे ॥१३॥ गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमोपगवः । गायः । नाडायनः ।
तामहनातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतियस्य किं प्रयोजनमिति प्रश्नः। मृते मृतो वा गार्य एवेति । मृते सपिण्डे चतुर्थो गाग्र्य एव । मृतश्च चतुर्थो गार्य एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपद विवृजोति-गोत्रस्यैव वृद्धसम्झा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्ती. त्यर्थः। तथाच वार्तिकस्य फलितमर्थमाह-गोत्रस्य युवसज्ञा पूजायां गम्यमानाया. मिति । उदाहरति-तत्रभवान् गाायण इति । तत्रभवानिति पूज्यवाची, युवसञ्ज्ञका. नामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा। तां गोत्रप्रभृतिस्तृतीयोऽपि मन्यते । अत्र युवसज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः। गायों जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम्।। ___एको गोत्रे । सङ्ख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धस्वात् एक एवेति गम्यते। अपत्याधिकारात्प्रत्ययाधिकाराच्च अपत्यप्रत्यय इति तद्विशेष्यलाभः । तदाह-गोत्र एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोबापत्ये 'तस्यापत्यम्। इत्यम् । गाये इति । गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यज । नाडायन इति । नखस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् । गोत्र एक एव प्रत्ययः स्यादित्येबोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिप्रत्ययो न निवायेत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वायेंत । अतोऽपत्यग्रहणमित्याहः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेत् , मैवम्-अपत्यशब्दोहि पुत्र एव रूढः इत्येक पक्षः । पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत् 'अपत्यं पोत्रप्रभृति' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुम्प्रत्यपत्यत्वाभावात् 'तस्यापत्यम्' इत्यण न सम्भवति । सतश्च उपगुपुत्रे वाच्ये 'तस्यापत्यम्' इत्यणा औपगवशब्दे व्युत्पादिते सति औपग. चल्यापत्ये वस्तुतः उपगोः तृतीये गोत्रे विवक्षिते औपगवशन्दात् 'अत इञ्' इति इजि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगोस्तृतीये विव.
For Private and Personal Use Only
Page #695
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
-
'गोत्रे स्वैकोनसङ्खयाना प्रत्ययानां परम्परा। क्षिते उपगोरण औपगवादिजिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात्। तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमि प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादि. त्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतः अणेव, न त्विज् , अदन्तत्वाभावात् , विहिते च तस्मिन् औपगवादिनपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुं तत्पुत्रं च प्रत्यपत्यत्वाभावात् पौत्रं प्रत्येवापत्यत्वादोपगवि. सन्दात् 'यजिनोश्च' इति फकि प्रकृतित्रयादनिष्टा औपगवायन इति प्रत्ययत्रयमाला स्यात्। उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिनि औपगवायनिः इत्येवं प्रकृतिचतुष्टायात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दात् फकि
औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः। तदेवं फगिजोः परम्प. राणां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतम. निष्टप्रत्ययाः स्युः। ___ अत्र तृतीयप्रभृति कस्मिंश्चिद्वोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् ‘एको गोत्रे' इत्यणेव भवति, नतु इजादि। यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणः तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषु 'तस्यापत्यम्' इत्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्त. रापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययः अनिष्टः प्रसज्येत । एवमुप. गोश्चतुर्थे विवक्षिते सिधेऽपि उपगोरणि औवगवे, तस्मादिभि औपगविः, तस्मात्फकि औपगवायना, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोमूलप्रकृतेरणिष्ट एव । इन्फको तु प्रत्ययावनिष्टौ । तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकः अनिष्ट. प्रत्ययः तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रया प्रयः प्रत्ययाः। षष्ठे प्रकृतिचतुष्टयात् चत्वारः प्रत्ययाः इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः तत्र ‘एको गोत्रे इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्थादिति। तत्रापि प्रथमातिक्रमे कारणाभावान्मूलप्र. कृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूने एकशब्दः प्रथमपर्यायः । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुखे भवो मुख्यः प्रथमः । 'एकोऽन्याथें प्रधाने च प्रथमे केवले तथा । इति कोशान्तरम् । तथाच मूलप्रकृतेरेव गोन्ने विवक्षिते स्वयोग्यप्रत्य. यलाभ इति व्याख्यान्तरम् । गोने एकः प्रथमः एवशब्दः प्रत्ययोत्पादक इति ।
तदेतत्सर्वे श्लोकद्वयेन सगृहाति-गोत्रे स्वैकोनेति । अत्र प्रथमश्लोकान्ते श्रुतं
For Private and Personal Use Only
Page #696
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
६७
-
यद्वा स्वद्वानसख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥' पितुरेवापत्यमिति पक्षे छुपगोस्तृतीये वाच्य औपगवादिस्यात् । चतुर्थे त्वजी. वज्ज्येष्ठे मृतवश्य वा औपगवेः फक् । इत्थं फगियोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः। पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽप्यण्णन्तादिनपि स्यात् । ततश्चतुर्थे फगिति फगिनोः पर. म्परायां शततमे गोत्रेऽष्टनवतेरनिष्प्रत्ययाः स्युः। अतो नियमार्थमिदं सूत्रम् । 'प्रसज्यते' इत्येतत्पदं पूर्वाधे परम्परेत्यनन्तरमपि सम्बध्यते । तत्र स्वं गोत्रं मूल. पुरुषोपरवपेक्षया यत्सख्याकं तदपेक्षया एकोनसङ्ख्याकानां अनिष्टप्रत्ययानां पर. म्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यती. त्यर्थः । यद्वति । स्वं गोत्रं तत् मूलपुरुषोपरवपेक्षया यत्सङ्ख्याकं तदपेक्षया न्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह-अपत्यमित्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिपति । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिपतीति भावः। तद्धान्य इति । तस्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः, तदर्थमिदमित्यर्थः। तथोत्तरमिति । 'गोत्राचून्यस्त्रियाम्। इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयतिपितुरेवेत्यादिना। औपगवादिन स्यादिति । 'अत इञ्' इत्यनेनेति शेषः। औपगवादेव इञ् स्यात् , न तु उपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाभावादिति भावः । चतुथें त्वित्यतः पूर्वम् उपगोरिति शेषः । अजीवज्ज्येष्ठे इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्य 'भ्रातरि च ज्यायसि' इति युवसनया गोत्रत्वं बाध्येतेति भावः। मृतवंश्ये इति । मृतः वंश्यो यस्येति विग्रहः । वंश्ये जीवति त 'जीवति तु वंश्ये युवा' इति युवसज्ञया गोत्रत्वं बाध्येतेति भावः। औपगवेः फगिति। 'यजिजोश' इत्यनेनेति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः। अथापत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्च. यति-पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात् 'अपत्यं पौत्रप्रभृति' इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति। तृतीयादीनामप्यपत्यत्वेन तत्र 'तस्यापत्यम्' इत्यणो निर्बाधत्वादिति भावः। तत इति । इजन्तादित्यर्थः । अष्टनवतेरिति । प्रकृतिभ्यः इति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवति
For Private and Personal Use Only
Page #697
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
सिद्धान्तकौमुदी
[अपत्याधिकार
-
%3D
एवमुत्तरसूत्रेऽप्यूयम्।। (१०६४) गोत्राचून्यस्त्रियाम् ४१॥४४॥ यून्यपत्यै गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात् , स्त्रियां तु न युवसम्ज्ञा। गर्गस्य युवापत्यं
रिति शेषः । नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथ. मपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियमा गाग्यशब्दस्ये.
स्य सिद्धावपि गर्गादिजि ततः फिजित्येवं प्रत्ययपरम्पराप्यनिष्टा प्राप्नोतीति निय. मार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः। एवमुत्तरसूत्रेऽप्यूयमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते। ___ गोत्राधून्यस्त्रियाम् । गर्गस्य गोत्रं गायः, गर्गस्य तृतीयः । गर्गादिभ्यः' इति गोत्रे यन् । गार्यस्य तृतीयः स गर्गस्य पञ्चमो युवापत्य, तस्मिन्बुबोधयिषिते गार्यशब्दात् गोत्रप्रत्ययान्तात् 'यजिजोश्च इति फकि गायण इति रूपमिष्यते । तथा षष्टादिष्वपि युवापत्येषु गार्यायण इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यधपि सुलभमेव, गर्गात्तृतीयं गायें प्रति पञ्चमादीनामप्य. पत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अनन्तरापत्ये इजि गागिः तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गागें: फकि गार्गायण इत्यपि स्यात्। तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावात् यजभावे इजि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गः फकि गार्गायण इति स्यात् । गोत्रप्रत्ययान्तादेव गार्ग्यशब्दात् गर्गस्य पञ्चमाधपत्ये यूनि फकि गायिग इत्येवेष्यते । तदर्थ गोत्रप्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते-गोत्राधूनीति । तदाह-यून्यपत्ये गोत्रप्रत्ययान्तादेवेति। नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्तात् युवप्रत्ययान्ताच्चेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् । नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विध्यर्थमेवेदं स्यात् , नतु नियमार्थामति वाच्यम् , पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः ।
स्त्रियां तु न युवसझेति । इह अस्त्रियामति योगो विभज्यते । यूनीत्यनुवर्तते। उभयमपि प्रथमया विपरिणम्यते । तथाच स्त्री उक्तयुवसज्ञिका नेति फलितमिति भावः । नच नीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलाभादिति वाच्यम् , पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । नच 'एका गोत्रे इति नियमात्तनिवृत्तिः सम्भवतीति वाच्यम् , युवसज्ञया गोत्रसज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियां न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् , गोत्र. प्रत्ययेन युक्त्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गाग्र्य-' शब्दात् गोत्र यजन्तात्फकि गाग्र्यायण इति रूपमित्यर्थः। स्त्रियां युवसम्ज्ञानिषेधस्य
For Private and Personal Use Only
Page #698
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः । ( १०६५ ) मत इञ् ४।१।६५॥ अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठयन्तादिष्स्यादपत्येऽर्थे । दाक्षिः । (१०६६) बाह्वादिभ्यश्च ४|१|१६|| बाहविः । श्रडुलोमिः । आकृतिगणोऽयम् । ( १०६७) सुधातुरकङ् च ४|१|६७॥ चादिन | सुधातुरपत्यं सौधातकिः । 'व्यासवरुडनिषादचण्डालविम्बानां चेति वक्तव्यम्' ( वा २६११ ) | ( १०४८ ) न य्वापदान्ताभ्यां पूर्वौ तु ताभ्यामैच् | ७|३|३॥ पदान्ताभ्यां यकारवका
a
६८६
प्रयोजनं दर्शयति- त्रियामिति । पचमादियुवतीनां युवसम्ज्ञाविरहेण गोत्रत्वात् । 'एको गोत्रे' इति नियमाद्गार्गीत्येव भवति नतु गार्ग्यायणीति रूपमित्यर्थः । स्त्रीभन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसज्ञया गोत्रसञ्ज्ञाया बाधात् 'एको गोत्रे ' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः ।
•
इञ् । प्रातिपदिकादित्यधिकृतम् अता विशेष्यते, तदन्तविधिः । तदाहदन्तं यत्प्रातिपदिकमिति । 'तस्यापत्यम्' इत्यनुवृत्तं 'समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितो. त्यत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठयेव विवक्षिता । तथाच षष्ठ्यन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठयमतम् प्रत्यय ग्रहणपरिभाषया प्रकृतिप्रत्यय समुदायस्यैव लाभात् । तथापि प्रातिपदि कप्रकृतिक षष्ठ्यन्तादित्यर्थो विवक्षितः । सदाह - तत्प्रकृतिका स्पष्ठयन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ्, आदिवृद्धिः, 'यस्येति च' इत्यकारलोपः । 'प्रदी यतां दाशरथाय मैथिली' इति त्वार्षमिति 'तस्यापत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्तौ तु अदन्तास्षष्ठयन्तादिति लभ्येत । तथाच दक्षयोरपत्यं दाक्षि"रिति न सिध्येदिति भावः । बाह्रादिभ्यश्च । अपत्ये इजिति शेषः । बाहविरिति । बाहुनीम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य बाहविर्गार्ग्यगौतमौ ' इत्याश्वलायनसूत्रे दर्शनात्। बाहोरपत्यमिति विग्रहः । इनि, ओर्गुणः । श्रौडलोमिरिति । उडुलोम्नोऽपस्थमिति विग्रहः । इजि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावादप्राप्तिः । सुधातुरकङ् च । चादिनिति । सुधातृशब्दात्षष्ठ्यन्तादपत्येऽर्थे इम्प्रत्ययः, प्रकृतेर कडा देशइवेत्यर्थः । अकडो कार इत्, अकार उच्चारणार्थः । ङिच्चेत्यन्तादेशः । तदाह - सौधातकिरिति । व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब एभ्यश्च इम प्रकृतेरका देश इत्यर्थः ।
न वाभ्याम् | य् च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थः ।
बा० ४४
For Private and Personal Use Only
Page #699
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
सिद्धान्तकौमुदी
[ अपत्याधिकार
राभ्यां परस्य न वृद्धिः । किं तु ताभ्यां पूर्वी क्रमादैचावागमो स्तः। वैयासकिः । वारुडकिः इत्यादि । (१०) गोत्रे कुजादिभ्यः उफञ् ४१८॥(११००) वातफेओरस्त्रियाम् ५।३।११३॥ वातवाचिभ्यः स्फअन्तेभ्यश्च स्वार्थे भ्यः स्यात् न तु स्त्रियाम् । कोजायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । प्राध्नायन्यः । स्त्रिया कोजायनी । गोत्रत्वेन जातित्वान्छीष । अनन्तरापत्ये कौजिः । (११०१)
तदाह-यकारवकाराभ्यामिति । परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति । मृजेर्वृद्धिरि. त्यतस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थ इत्याह-किन्त्विति । तान्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः। तेन आगमत्वं लभ्यते। तदाह-ऐचावागमाविति । ऐच प्रत्याहारः। यथासङ्ख्यं यकारात्पूर्व ऐकास, वकारा. त्पूर्व औकारः। वैयासकिरिति । वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभज. तीति वेदव्यासः, कर्मण्यम् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः। प्रकृतेरकडादेशः । अत्र यकाः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति । किन्तु यकारात्पूर्वः ऐकारः आगमः वैयासकिरिति रूपम् । स्वचस्यापत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्वं औकारः । नच ऐचो वृद्धयपवादत्वादेव वृद्धयभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् , यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धः निषेधः तत्रव ऐजागमाविति विषयनिर्देशार्थत्वात्। तेन दाध्यश्विरित्यादौ न। वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धरेव । तेन द्वे अशीती भृतो व्याशीतिक इत्यत्र 'सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः, नैषा. दकिः, चाण्डालकिः, बैम्बकिः ।
गोत्रे कुञ्ज । स्पष्टम् । इजोऽपवादः। उफनि चनावितौ। बातच्फोः । वातश्च फञ्च इति द्वन्द्वाद्वयत्ययेन पञ्चम्यथें षष्ठी। तदाह-जातवाचिभ्य इति । स्वार्थे व्यः स्यादिति । 'पूगाभ्योऽग्रामणीपूर्वात्' इत्यतः ज्यः इत्यनुवर्तते । स च स्वार्थिकः, 'ध्यादयः प्राग्वुनः" इति स्वार्थिकेषु परिगणनादिति भावः । कौआयन्य इति । कुञ्जस्य गोत्रापत्यमिति विग्रहः । उफनि चावितौ आयन्नादेशः, आदिवृद्धिः, ततो भ्यः, अकार इत्, 'यस्येति च' इत्यकारलोपः । तद्राजत्वादिति । 'ध्यादयस्तद्राजा' इति वचनादिति भावः। लुग्वक्ष्यते इति । 'तद्वाजस्य बहुषुः इत्यनेनेति शेषः । बाध्नायन्य इति । बध्नस्य गोत्रापत्यमिति विग्रहः । फलादि पूर्ववत् । ज्यविधावस्त्रियामित्यस्य प्रयोजनमाह-स्त्रियां कौआयनीति । कुञ्जस्यापत्यं स्त्री इति विग्रहः । स्त्रीत्वादिह न प्रत्यय इति भावः । अदन्तत्वादिह टापमाशङ्कयाह-गोत्रत्वेनेति । कृते तु ज्यप्रत्यये
For Private and Personal Use Only
Page #700
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
६६१
नडादिभ्यः फक १६ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः । ( ११०२) हरितादिभ्योऽनः४।१।१००॥ एभ्योऽअन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः । (११०३) यभित्रोश्व ११०१ ॥ गोत्रे यो यनिजौ तदन्तात्फक्स्यात् । 'अनाति' इत्युक्तेः 'आपत्यस्य-(सू१०८२) इति यलोपो न। गाायणः । दाक्षायणः । ( ११०४) शरदच्छुनकदर्भादुभृगुवत्साग्रायणेषु ४।१।१०२॥ गोत्रे फक् । अभिजोरपवादः । मायौ बिदादी । शारद्वतायनो भार्गवश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् , शोनकोऽन्यः । दार्भायणः भारायणश्चेत् , दार्भिरन्यः। (१९०५) द्रोणपर्वत. जीवन्तादन्यतरस्याम् ४।१।१०३॥ एभ्यो गोत्रे फवा द्रौणायनः-द्रौणिः । पार्वतायन:-पार्वतिः । जैवन्तायन:-जैवन्तिः । अमादिरिह द्रोणः। अश्वत्थायोपधत्वान्जातिलक्षणीषभावे टाप् स्यादिति भावः। फञ्चिधौ गोत्रग्रहणस्य प्रयोजनमाह-अनन्तरापत्ये कौजिरिति ।
नडादिभ्यः फक् । इजोऽपवादः । अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्रत्वाभावात् फगभावे इनवेत्यर्थः । 'हरितादिभ्योऽः' इत्यादि स्पष्टम् । यभिओश्च । गोत्रे इत्यधिकृतं यजिनोविशेषणम् , नतु विधेयस्य फकः, व्याख्यानात्। तदाह-गोत्रे यौ यनिमाविति । सामान्ययम् । न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, 'एको गोत्रे इति नियमात् । अनातीति । गर्गस्य गोत्रं गाग्यः । गर्गादित्वाध । गाय॑स्यापत्वं युवेत्यर्थे यजन्तात् फकि आयनादेशे अनातीति पर्युदासात् 'अपत्यस्य च इति यलोपाभावे णत्वे गाायण इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिा, अत इज , दाक्षेरपत्यं युवा दाक्षायणः, इसन्तात्फक् । गोत्रे किम् । सुतगमस्यादूर. भवा इत्यर्थे 'सुतङ्गमादिभ्य इञ्' इति इमि सौतङ्गामेरपत्ये न फक् । शरद्वच्छनक । शेषपूरणेन सूत्रं व्याचष्टे-गोत्रे फगिति । श्राद्यौ विदादी इति । शरद्वच्छुनकशब्दौ बिदादी । अतः तदुभयविषये अनपवाद इत्यर्थः । दर्भविषये त्विजोऽपवाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादिस्वादिन् । प्राग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् । द्रोणपर्वत । अनादिरिति । अश्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः, तदपेक्षया अन्य एवायं अनादिोण इत्यर्थः । अश्व. स्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाम्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं 'बाहादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् ।
For Private and Personal Use Only
Page #701
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६२
सिद्धान्तकौमुदी
[अपत्याधिकार
म्न्यनन्तरे तूपचारात् । (११०६) अनुष्यानन्तये विदादिभ्योऽञ् ४१॥ १.४॥ एभ्योऽम् गोत्रे, ये स्वत्रानुषयः (पुत्रादयः) तेभ्य अनन्तरे । सूत्रे स्वायें ध्यम् । बिदस्य गोत्रापत्यं बैदः। अनन्तरो बैदिः । बाहादेराकृतिगणस्वादिम् । पुत्रस्यापत्यं पौत्रः । दौहित्रः । ( ११०७ ) गर्गादिभ्यो यञ् ४।२। १०५॥ गोत्रे इत्येव । गायः । वात्स्यः । ( १९०%) योश्च ।४।६४॥ गोत्रे यद्यअन्तममन्तं च तदवयवयोरेतयोलक्स्यात्तरकृते बहुस्खे, न तु त्रियाम् । गर्गाः । वस्थाः । बिदाः । उर्वाः। तस्कृते इति किम् । प्रियगाग्योः । स्त्रियां तु गाय
अनुष्यानन्तये । अनृषीति लुसपञ्चमीकम् । बिदादिभ्योऽम् इति द्विरावर्तते तथाच 'अनुष्यानन्तये विदादिभ्योऽम्' इति कृत्स्नमेकं वाक्यम् । विदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे । एभ्योऽञ् गोत्रे इति । गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । भत्र प्रथम वाक्यं कृत्स्नसूत्रं ब्याचष्टे-ये खिति । अनृषिभ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षार्थः। बिदादौ हि ऋषयः अनुषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्ये अमिति फलितमिति भावः । ननु आनन्तयें इति श्रवणादनन्तर इति कथमित्यत आह-सूत्रे स्वार्थे ध्यमिति । अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बंद इति । बिदस्य ऋषित्वात्ततो गोत्र एवानिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अतन्तरापत्ये अअभावे इअपवादः ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आह-बाह्रादेरिति । बिदादिगणस्थादनृषेरनन्तरापत्ये अञमुदाहरति-पौत्रः दौहित्र इति । पुत्रस्यानन्तरापत्यमिति दुहितुरनन्तरापत्यमिति च विग्रहः । । यथायथमणिजो. रपवादः अञ्।
गर्गादिभ्यो यञ् । गार्ग्यः। वात्स्य इति । गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्राप. त्यमिति च विग्रहः । रामो जामदग्न्यः, पाराशयों व्यासः इत्यादौ तु अनन्तराम्पत्ये गोत्रत्वारोपायनित्याहुः । योश्च । द्वितीयचतुर्थंपादे इदं सूत्रम् । न विदं चातु. थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्वाजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येतिवर्जमनुवर्तते । 'ज्यक्षस्त्रिया इत्यतो लुगिति 'यस्कादिभ्यो गोत्रे इत्यतो गोत्रे इति च। तदाह-गोत्रे यदिति । एतयोरिति । यमजोरित्यर्थः । प्रत्ययादर्शनस्यैव लक्त्वादिति भावः। तस्कृते इति । याप्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति । गर्गल्यापत्यानीत्यादिविग्रहः । प्रियगार्या इति । प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यमर्थगतबहुस्वाभावान्न लगिति भावः ।
For Private and Personal Use Only
Page #702
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्ररणम् २७]
बालमनोरमासहिता।
नियः । गोत्रे किम् । द्वैप्याः। श्रोत्साः । प्रवराध्यायप्रसिदमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः । (१९०४) मधुबभ्रुवोर्ब्राह्मणकोशिकयोः ४१॥ १०६॥ गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकर्षिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठासिदेऽपि नियमार्थमिदम् । गार्गादिपाठफलं तु लोहितादिकार्यम्। बाभ्रव्यायणी। (१९१० ) कपिबोधादाङ्गिरसे ४।। १०७॥ गोत्रे यस्यात् । काप्यः । बौध्यः । अनागिरसे किम् । कापेयः । बौधिः। (११११) वतण्डाश्च ४।१।१०८॥ आङ्गिरसे इत्येव । वातण्ड्यः । अनागिरसे तु गर्गादौ शिवादौ च पाठाद्यमणी । वातण्ड्यः-वातण्डः । (१:१२) लुलियाम् ४११०६॥ 'वतण्डाच' (सू ११११) इति विहितस्य लुकस्यात्स्त्रियाम् । शाई. देप्या इति । द्वीपे भवा इत्यर्थः । 'द्वीपादनुसमुद्रम्' इति यम् । मौरसा इति । उत्से भवा इत्यर्थः । 'उत्सादिभ्योऽम्' इहोभयत्रापि यमजोर्गोत्रवाचित्वाभावान लुगिति भावः । ननु पौत्राः दौहित्राः इत्यत्राप्यनृषिविदादिलक्षणानो लुक् स्यात् । नच तस्यानन्तरापस्थयाचित्वाद्वोत्रवाधित्वाभावान लुगिति वाच्यम् , 'यूनि लुक इति सूत्रमाध्ये अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते इति सिद्धान्तित्वादित्यत आह-प्रवरेति । 'कश्यपोऽनिर्भरद्वाजो विद्यामिथोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः॥ तेषां यदपत्यं तद्रोत्रमित्याचक्षते' इति । बोधायनीयादिप्रवराध्यायप्रसिद्धाः भार्गवादय एवेह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकल्य गोत्रस्य ग्रहणमिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः । एव पौत्रा दाहित्राः इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवाचित्वाभावान्नलुगिति स्थितम् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।। ___ मधुबघ्वोः ब्राह्मणकौशिकयोः । शेषपूरणेन सूत्र व्याचष्टे-गोत्रे यअिति । मधुशब्दाभ्रशदाच्च गोत्रापत्ये या स्यात् ब्राह्मणे कौशिके च यथासङख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिगंर्गाद्यन्तर्गण इति भावः। बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियजि बाभ्रव्यशब्दात् 'सर्वत्र लोहिता. दिकतन्तेभ्यः' इति ष्फः । आयन्नादेशः, पित्त्वात् डीषिति भावः। कपिबोधादागिरसे। गोत्रे यत्र स्यादिति । शेषपूरणमिदम् । कपिशब्दावोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः। कापेय इति । अन्न गोत्रस्य अनाङ्गिरसत्वात् यत्रभावे 'इत. शानिनः' इति ढक् । बौधिरिति। अत्राप्यनाङ्गिरसत्वात् यजमावे ऋष्यणं बाधित्वा बाहादित्वादिमिति भावः। कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थ ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः । वतण्डाछ। वतण्डस्य गर्गादौ शिवादौ च पाठात् यत्रणोः प्राप्तयोराङ्गिरसे
For Private and Personal Use Only
Page #703
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६४
सिद्धान्तकौमुदी
[अपत्याधिकार
-
%3A
रवादित्वान्छोन् । वतण्डो । अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात्ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ध्यङ् न। (१९१३) अश्वादिभ्यः फा ४।१।११०॥ गोत्रे । आश्वायनः । 'पुंसि जाते' ( ग सू ६९) पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् । जाताया अपत्यं जातेयः । (१११४) भागते ४।२।१११॥ गोत्रे फन् । भार्गायणस्वैगतः । भार्गिरन्यः । (१९१५) शिवादिभ्योऽण.४।२।११२॥ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः। पक्षे तिकादित्वाल्फिन । गासायनिः। शुभ्रादित्वा. ड्ढक् । गाङ्गेयः । (१९१६) मवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ४।६।११३॥ अवृद्धेभ्यो नदीमानुषीनामभ्योऽण्स्यात् । ढकोऽपवादः । यामुनः । नार्मदः चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम् । वासवदत्तेयः । नदी
योवेति नियमार्थमिदम् । लुक् स्त्रियाम् । वतण्डाच्चेति विहितस्येति । यज इति शेषः । वतण्डीति । वतण्डस्य गोत्रापत्यं स्त्री आङ्गिरसीति विग्रहः । यनो लुकि आदिवृद्धि. निवृत्तौ कीनिति भावः । वातण्डयायनीति । यमि आदिकृद्धौ लोहितादिलक्षणः ष्फः, षित्वात् निषिति मावः । 'वतण्डाच' इति विहितस्येत्यस्य प्रयोजनमाह-अणि तु वातण्डीति । शिवादित्वादणि गोत्रत्वेन जातित्वाजातिलक्षणे डीषि तस्याणो वतण्डाद्विहितत्वेऽपि 'वतण्डाच्च' इति विहितत्वाभावान्न लुगिति भावः। ननु वतण्डादणि तस्य 'अणिजोरनार्षयोः इति वक्ष्यमाणः व्यङ स्यादित्यत आह-ऋषित्वादिति । ___ अश्वादिभ्यः । गोत्रे इति । शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । श्राश्वायन इति । अश्वस्य गोत्रापत्यमिति विग्रहः । इनपवादः फञ् । सि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति। पुंसि विद्यमानो यो जातशब्दः तस्माद्वोत्रे फजित्यर्थः। जातेय इति । 'स्त्रीभ्यो ढक्' । भर्गावैगर्ते । इदमपि गणसूत्रम् । त्रिगर्तो नाम भर्गस्य पुत्रः । तस्यापत्यं गतः । ऋष्यण । तस्मिन्गोत्रे भर्गात् फन् । शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोः तथोक्तत्वादिति भावः । 'यूनि लुक्' इति सूत्रस्य भाष्यकैयट. योस्तु गोत्रसज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् । अवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु अवृद्धेभ्यो नदीमानुषीनामभ्यः इत्येव सूत्रयितुमुचितमिति व्याचष्टे- प्रवृद्धेभ्य इत्यादि । ननु 'तस्यापत्यम्' इत्येव सिद्धे किमर्थमि. दमित्यत आह-ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री। तस्या अपत्यमिति विग्रहः । वृद्धसम्मकत्वाद.
For Private and Personal Use Only
Page #704
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
इत्यादि किम् । वैनतेयः। तनामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः । (११९७ ) ऋग्यन्धकवृष्णिकुरुभ्यश्च ४।१।११४॥ ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः। आनिरुद्धः । शौरिः इति तु बाह्रादित्वात् । कुरुभ्यः, नाकुलः साहदेवः। इन एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः। (१९१८) मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः ४।१।११५॥ सङ्ख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादप्रत्ययश्च । द्वैमातुरः। षामातुरः । साम्मातुरः । भाद्रमातुरः ।
-
भावे ठगिति भावः। वैनतेय इति । विनताया अपत्यमिति विग्रहः। विनता नाम, गरुखमाता, सा न मानुषी, नापि नदीति भावः। शौमनेय इति । शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः। · ऋष्यन्धक । प्रलीनाः वेदाः तपोबलवशात यान् अर्षन्ति प्राप्नुवन्ति ते ऋषयः । तथाच तैत्तिरीये श्रुतम् -'अजान्ह वै पृश्नीस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानषत् , त ऋषयोऽभवन् , तहषीणामृषित्वम्' इति । अजाः नित्याः, पृश्नयः शुक्लाः शुद्धाः इति यावत् । तान् तपस्यमानान् तपश्चरतः स्वयम्भु अनादि ब्रह्म वेदः अभ्यानर्षत्। 'ऋष गतौ आभिमुख्येन प्राप्नोत्। ते वेदस्य अर्षणात् ऋषिशब्दवाच्याः अभव. निति वेदभाष्यम्। 'सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातः स्वयम्भुवा।। ' इति पुराणेषु प्रसिद्धम् । कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थे स्पष्टमेतत् । तदाह-ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादि. वंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः अन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । होऽपवादः। ऋषिभ्य उदाहरति-वासिष्ठः वैश्वामित्र इति । अन्धकेभ्य इति। अन्धकवंश्यवाचिभ्यः उदाहियते इत्यर्थः । श्वाफल्क इति। श्वफलकस्यापत्यमिति विग्रहः । वृष्णिभ्य इति । वृष्णिवंध्यवाचिभ्य उदाहियत इत्यर्थः । वासुदेव इति । वसु. देवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चित् वृष्णिवंश्यः । तस्यापत्यं शौरिः कथम् , अण्प्रसङ्गादित्यत आहशौरिरिति विति। बाह्वादित्वादित्यनन्तरम् हा समाधेयमिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्यः उदाहियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्चानिज इति ढकि आत्रेय इति कथम् , ऋष्यणा इज इव ढकोऽपि बाधौ. चित्यादित्यत माह-इन इवेति । न तु ढकः इत्यर्थः ।
मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः। द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । 'तद्धि.
For Private and Personal Use Only
Page #705
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
भादेशार्थ वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुन । सङ्ख्या इति किम् । सौमात्रः। शुभ्रादित्वात् द्वैमात्रेयः। (१९१६) कल्यायाः कनीन च ४१।११६॥ ढकोऽपवादोऽण , तत्सन्नियोगेन कनीना. देशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः । (१९२०) विका नशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ४२११७॥ अपत्येऽण । वैकर्णो वात्स्यः । वैकणिरन्यः । शौलो भारद्वाजः । शौझिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गा' इत्यावन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शौशयः । (११२१) पीलाया वा ४।१।११८॥ तन्नामिकाणं बाधित्वा 'द्वयचः' (सू ११२४ ) इति
सार्थ' इति समासः । अण, ऋकारस्योकारः, रपरत्वम् । एवं पाण्मातुरः साम्मातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण, उत् , रपरत्वम् । भाद्र. मातुर इति । भद्रा चासो माता चेति विग्रहः । अणादि पूर्ववत् । ननु 'तस्यापत्यम्" इत्येव सिद्धे अण्विधियर्थ एवेत्यत आह-आदेशार्थ वचनमिति । उदादेशस्य अण्सनियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुम्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह-स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोग्य सङ्ख्यासम्भद्रपूर्वाया इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः। सौमात्र इति । सुमातुरपस्य. मित्यर्थे 'तस्यापत्यम्' इत्यण। सङ्ख्यासम्भद्रपूर्वत्वाभावात् नायमण , उत्त्वमपि तत्मन्नियोगशिष्टत्वान्नेति भावः। ननु द्वैमात्रेयः इति कथम् , सङ्ख्यापूर्वकतया अणः उत्त्वस्य च दुर्वारत्वादिस्यत आह-शुभ्रादित्वादिति । 'शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः ) । कन्यायाः कनीन च । कनीनेति लुप्तप्रथमाकम् । ढक इति । 'स्त्रीभ्यो ढक्' इति विहितस्येत्यर्थः। कनीनादेशश्चेति ।। प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनस्वात् पुंसंयोगाभावात् कथमपत्यसम्बन्ध इत्यत आह-अनूढाया इति। अलब्धविवाहाया इत्यर्थः। एतच्च भाष्ये स्पष्टम्।
विकर्ण । वत्सादिशब्देस्तद्वंश्या विवक्षिताः। विकर्ण, शुङ्ग, छगल एभ्योऽण स्यात् , वत्सवंश्ये भरद्वाजवंश्ये अत्रिवंश्ये चापत्ये इत्यर्थः। एतेन वत्सादीनां मूलपुरुषत्वात् विकर्णादीन्प्रत्यपत्यत्वासम्भव इति निरस्तम्। विकर्णादिभ्यो वात्स्या. दिष्वेव ऋष्यण इति नियमार्थ सूत्रम् । पीलाया वा। अपत्येऽणिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकामिति । वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको
For Private and Personal Use Only
Page #706
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
६६७
-
-
ढकि प्राप्ते पक्षेऽविधीयते । पीलाया अपत्यं पैल:-पैलेयः। (११२२) ढक्च मण्डूकात् ५११११६॥ चादण् । पक्षे इस । माण्डूकेयः-माण्डूका-माण्डूकिः । ( ११२३) स्त्रीभ्यो ढक ४।१।१२०॥ स्त्रीप्रत्ययान्तेभ्यो ढक्स्यात् । वैनतेयः। बाहादित्वारसौमित्रिः। शिवादित्वात्सापत्नः । ( १९२४) वचः ४९१२१॥ द्वयचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु 'तस्येदम्' (सू १५०० ) इत्यण । ( ११२५ ) इतश्चानिनः ४।१।१२२॥ इकारान्तात् द्वथचोऽपत्ये ढक्स्यात् , न स्विजन्तात् । दौलेयः । नैधेयः । आत्रेयः। (११२६) शुभ्रादिभ्यश्च ४।१।१२३ ॥ ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । (११२७) विकर्णकुषीतकात्काश्यपे ४।१।१२४॥ अपत्ये ढक् । वैकर्णेयः। कोषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः। (११२८) भ्रवो वुक्च ४।२।१२५॥ चाड्ढक् । नौवेयः । (११२६) प्रवाहणस्य ढे ७॥२८॥ प्रवाहणशब्दस्योत्तरबाधा स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढक् भवत्येवेति वाच्यम् , महाविभाषया अपवादे निषिद्धे उत्सगों न प्रवर्तत इति ज्ञापनात् । अन्यथा शेवः शैविरित्यादिः स्यात् । ढक च मण्डूकात्। मण्डूको नाम ऋषिः । पक्षे इभिति। पूर्व सूत्राद्वाग्रहणानुवृत्तरिति भावः । स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चा. तुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचकाः, व्याख्यानादित्याह-स्त्रीप्रत्ययान्तेभ्य इति । विमता नाम गरुडमाता, तस्याः अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत् कामिक्षत्रियः, तस्यापत्यं स्त्री दरत् । 'द्वयभ्मगध' इत्यण । 'अतश्च' इति तस्य लुक् । तस्या अपत्य दारदः। अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वा. भावान्न ढक । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न हति कथं, ठक्प्रसङ्गादित्यत आह-बालादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् । द्वयचः। ननु 'स्त्रीभ्यो ढक्' इत्येव सिद्धे किमर्थमिदमित्यत आह-तन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः। ननु पृथाया अपत्यं पार्थ इति कथम् , तन्नामिकाणं बाधित्वा 'द्वयचः' इति ढक्प्रसङ्गादित्यत माह-पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाणित्यन्ये।
इतश्चानिञः। अस्त्रीप्रत्ययान्तार्थमिदम् । दुलि निधिश्च कश्चित् । आत्रेय इति । भत्रिः प्रसिद्धः। परत्वादयमृष्यणमपि बाधत इति भावः। शुभ्रादिभ्यश्च । ढक स्यादिति । शेषपूरणम् । इजाद्यपवादः। शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः । विकर्णकुषीतकात्काश्यपे। अपत्ये ढगिति । शेषपूरणम् । काश्यप एवेति नियमार्थ शुभ्रादिभ्यः पृथक् पाठः । भुवो वुक् च । चाढगिति । भ्रूशब्दादपत्ये ढक् स्यात प्रकृ
For Private and Personal Use Only
Page #707
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
सिद्धान्तकौमुदी
[अपत्याधिकार
पदस्याचामादरचो वृद्धिः, पूर्वपदस्य तु वा ढे परे। प्रवाहणस्यापत्यं प्रावाहणेयः प्रवाहणेयः । (१९३०) तत्प्रत्ययस्य च ७।३।२६॥ ढप्रत्ययान्तस्य प्रवाहण. स्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा। प्रवाहणेयस्यापत्यम् प्रावाहणेयिःप्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यते इति सूत्रारम्भः। ( १९३१) कल्याण्यादीनामिनङ् ४।१।१२६॥ एषामिनका. देशः स्यात् , ढक्च । काल्याणिनेयः, बान्धकिनेयः। (१९३२) कुलटाया वा ४।१।१२७॥ इनमात्र विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कोलटिनेयः-कौल. टेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः 'क्षुद्राभ्यो तेवुगागमश्च । बुकि वकार इत् । उकार उच्चारणार्थः। कित्त्वादन्तावयवः । भौवेय इति । भूर्नाम काचित् , तस्या अपत्यमिति विग्रहः । ढकि एयादेशे प्रकृतेषु कि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धो आवादेशे भ्रावेय इति स्यात्।।
प्रवाहणस्य ढे । उत्तरपदस्येत्यधिकृतम् । तद्धितेष्वचामादेः' इत्यतः अचामादेरित्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति च । तदाह-प्रवाहणशम्दस्येति । प्रावाहणेयः-प्रवाहणेय इति । शुभ्रादित्वात् ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आका. रस्य वृद्धः फलं तु प्रवाहणेयीभार्य इत्यत्र 'वृद्धिनिमित्तस्य चा इति पुंवत्त्वप्रतिषेध एव । तत्प्रत्ययस्य च । पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह-ढप्रत्ययान्तस्येति । प्रावाहणेयिः प्रवाहणेयिरिति । शुभ्रादिढगन्तादिन् । ननु पूर्वसूत्रेणैव सिद्धत्वादिदं व्यर्थमित्यत आह-बाह्येति । ढक्प्रत्ययान्तात् बहिर्भूतो य इञ् तन्निमित्ता तद्धितेष्वचामादेः' इति नित्या आदिवृद्धिः। ढाश्रये. णेति । ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वसूत्रविहितेन बाधितुं न शक्यते, भिन्ननिमित्तकत्वादित्यर्थः। पूर्वसूत्रं हि केवलढप्रत्ययान्ते ढप्र. त्ययं परनिमित्तत्वेनाश्रित्य प्रवृत्तं, ढनिमित्तामादिवृद्धि बाधत इति युक्तं, न स्वि
प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम् । अतस्तस्या अपि बाधनार्थमिदं सूत्रमि. त्यर्थः । इदं वृद्धिविधिद्वयमपि शुभ्रादिभ्यश्च इत्यत्रैव वक्तुं युक्तम् ।
कल्याण्यादीनामिना। इनङि डकार इत् । काल्याणिनेय इति । कल्याण्या अपत्य. मिति विग्रहः । बान्धकिनेय इति। बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते । तेभ्यो ढक् सिद्ध एव । इनमेव तु विधीयते । कुलटाया वा। इनङमात्रमिति । व्याख्यानादिति भावः। पूर्वेणैवेति । 'स्त्रीभ्यो ठक्' इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा। शकन्ध्वादित्वात्पररूपम् । अत्रेति । 'कुलटाया
For Private and Personal Use Only
Page #708
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता ।
६६४
वा' (स् १९३७ ) इति पक्षे दक् । कोलटेरः । (१९६३) हद्भगसिम्वन्ते पूर्वपदस्य च ७।३।१६॥ हृदाद्यन्ते पूर्वोत्तरपदयोरचामादरचो वृद्धिचिंति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः। सत्तुप्रधानाः सिन्धवः सक्तुसिन्धवः। तेषु भवः साक्तुसैन्धवः । (१९३४ ) चटकाया पेरक ४।१।१२८॥ 'चटकादिति वाच्यम्' (वा २६२४ ) । लिङ्गविशिष्टपरि. भाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः । 'स्त्रियामपत्ये लुग्व. तव्यः' (वा २६२५) तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् । (१९३५) गोधाया दुक ४।२।१२६॥ गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः । (११३६) मारगुदीचाम् ४।१।१३०॥ गौधारः । रका सिद्धे आकारोचारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः। (११३७ ) क्षुद्राभ्यो वा ४।१।१३१॥ अाहीनाः शीलहीनाश्च क्षुदाः ताभ्यो वा ढ़क् । पक्षे ढक ।
वा' इति सूत्रे इत्यर्थः । पक्षे गिति । द्गपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया कि ढकारस्य एयादेशे 'लोपो व्योः' इति यकारलोप इति भावः । हृद्भग। हृदाद्यन्त इति । हृत् , भग, सिन्धु एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह-पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः। सौभागिनेय इति । कल्याण्यादित्वात् ढकि इनकि उभयपदादिवृद्धिरिति भावः । एतत्प्रसङ्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्रावे अञ्। उत्तरपदादिवद्धयभावश्छान्दसः। सिन्धव इति । अश्वा इत्यर्थः।
चटकाया ऐरक् । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गानिदेंशात् पुंलिङ्गान्न स्यादित्यत आह-चटकादिति। सूत्रे चटकाया इत्यपनीय चटका. दिति वाच्यमित्यर्थः। तर्हि स्त्रीलिङ्गान्न स्यादत आह-लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथं जातित्वात् ङीष्प्रसङ्गादित्यत आह-अजादित्वादिति । गोधाया ढक। गौधेर इति । गोधाया अपत्यमिति विग्रहः । द्रकि ढकारस्य एयादेशे 'लोपो व्यो" इति यलोपः कित्वादादिवृद्धिरिति भावः । आरगुदीचाम् । गोधाया आस्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न भूयेतेति भावः । पण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । लुद्राभ्यो वा । अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति ।
For Private and Personal Use Only
Page #709
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७००
सिद्धान्तकौमुदी
[अपत्याधिकार
काणेरः-काणेयः । दासेरः-दासेयः। (१९३०) पितृष्वसुश्छण ४।१।१३२।। अणोऽपवादः । पैतृध्वनीयः । (१९३६) ढकि लोपः ४।१।१३३॥ पितृष्वसुरन्त्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृण्वसेयः (११४०) मातृवसुश्च ४।१११३४॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वतीयःमातृभ्वसेयः । (११४१) चतुष्पाद्भयो ढ॥११३५॥ (११४२) ढे लोपो ऽकवाः ६४।१४७॥ कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे। काम. पडलेयः । कमण्डलुशन्दश्चतुष्पाजातिविशेषे । (१९४३) गृष्ट्यादिभ्यश्च ४११॥ १३६॥ एभ्यो ढन स्यात् । अण्डकोरपवादः । गायः । मित्रयोरपत्यम् , ऋष्यणि प्राप्त ढा । (११४४ ) केकय मित्रयुप्रलयानां यादेरियः ७।३।२॥ एषा सवृत्तहीना इत्यर्थः । यथेष्टपुरुषसञ्चारिण्य इति यावत् । 'मनियतपुरका अङ्गहीना वा क्षुद्रा इति भाष्यम् । पितृष्वसुश्छण। पैतृष्वत्रीय इति । पितृष्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे आदिवृद्धिः । सकाराहकारस्य यण् । ढकि लोपः । पितृष्वसु. रित्यनुवर्तते । अलोऽन्त्यपरिभाषया अन्त्यस्य लोपः। तदाह-पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह-श्रत एवेति । शुभ्रादित्वात् ढगित्यन्ये । पैतृष्वसेय इति । 'ढकि अन्त्यस्य ऋका. रस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । मातृष्वसुश्च । चकाराच्छण ढकि लोपश्चानुकृष्यते । तदाह-पितृष्वसूर्यदुक्तमिति। ___ चतुष्पाद्भयो ठञ्। चतुष्पादः पशवः । तद्विशेषवाचिभ्यः अपत्ये ढनित्यर्थः । ढे लोपोऽकद्र वाः। भस्येत्यधिकृतम् ‘ओर्गुणः' इत्यतः ओरिति षष्टयन्तेनानुवृत्तेन विशे. ष्यते । तदन्तविधिः। तदाह-कद्रूभिन्नस्येति । 'अलोऽन्त्यस्या इत्यन्त्यलोपः। ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि एयादेशे आदिवृद्धो उकारलोपः। ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथम. पत्ययोगः, तत्राह-कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एव 'कमण्डलुपदे आदधीत' इति बचब्राह्मणं सङ्गच्छत इति भावः । गृष्ट्यादिभ्यश्च । अण्डकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्त्रयु एते गृष्ट्यादयः । मन्त्र अन्त्ययोः ऋषित्वा. दण प्राप्तः । अन्येभ्यस्तु 'इतश्चानिनः' इति ढक् प्राप्तः इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरेव । ततश्च चतुष्पाभ्यः' इत्यनेन न प्राप्तिः । केकय. मित्रयु । तद्धितेष्वचामादेः' इत्यतस्तद्धितग्रहणमनुवर्तते । 'अचोणिति' 'किति च' इत्यतः णितीति, कितीति च । तदाह-एषामिति । आदेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी। 'जनपदशब्दात्' इत्यञ् मैत्रीयकया श्लाघते,
For Private and Personal Use Only
Page #710
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
यकारादेरियादेशः स्यात् ञिति णिति किति च तद्धिते परे । इति इयादेशे प्राप्ते । (१२४५) दाण्डिनायन हास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैश्वाकमैत्रेयहिरण्मयानि ६ |४| १७४ ॥ एतानि निपाश्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयी ( ११४६ ) यस्कादिभ्यो गोत्रे २ |४| ६३ ॥ एभ्योऽपत्य प्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । मित्रयवः ।
७०१
मित्रयोर्भाव इत्यर्थे 'गोत्रचरणात्' इति वुञ् । प्रलयादागतं प्रालेयम् । अणू । अत्र सर्वत्र यादेरियादेशः इत्युदाहरणानि । प्राप्ते इति । मित्रयोरपत्ये ढनि एयादेशे मिश्रयु एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति . प्राप्ते सतीत्यर्थः ।
दांण्डिनायन । एतानि निपात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थः उपचारादथव । तमधीते आधर्वणिकः । वसन्तादित्वात् ठक् । निपातनान्न टिलोपः । जिह्मा शिनोऽपत्यं जैह्माशिनेयः । शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात्' इति फिञ् । निपातनान्न टिलोपः । भ्रूणहन्,
वन् एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचिण्णलो " -इत्यनेनैव तकारः सिद्ध इति शङ्खयम् धातोः कार्यमुच्यमानं तस्प्रत्यये भवति' इति परिभाषया 'हस्तः' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्य परिभाषायां ज्ञापकमिति 'मृजेर्वृद्धि:' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादन् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादो लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोर्लोपः । इति युलोप इति । मित्रयु एय । इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीति 'टिड्ढाणञ्' इति ङीप् ।
1
यस्कादिभ्यो गोत्रे । नेदं सूत्रमपत्याधिकारस्थम्, किन्तु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्, 'अपत्याधिकादारादन्यत्र लौकिकमेव गोत्रं गृह्यते' इति 'यूनि लुक्' 'स्त्रीपुंसाभ्याम् इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । 'व्यक्षस्त्रियार्ष' इत्यतो लुगित्यनुवर्तते । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजवर्जमनुवर्तते । तदाह - एम्योऽवश्य प्रत्ययस्येति । मित्रयव इति ।
For Private and Personal Use Only
Page #711
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०२
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ अपत्याधिकार
(१९४७) मत्रिभृगुकुत्सवसिष्ठ गोतमाङ्गिराभ्यश्च २|४|६६ ॥ एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । (१९४८) बह्वच इञः प्राच्यभरतेषु २|४|६६ ॥ बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पनागाराः । युधिष्ठिराः । ( ११४६ ) न गोपवनादिभ्यः २|४| ६७ ॥ एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैभवाः । (१९५०) तिककितवादिभ्यो द्वन्द्वे २|४|६|| एभ्यो गोत्र प्रत्ययस्य बहुत्वे लुक्स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च । 'तिकादिभ्यः फिल्' ( सू ११७८) तस्य लुक् । तिककितवाः । (११५१) उपकादिभ्योऽम्यतरस्यामद्वन्द्वे २|४| ६|| एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च [ औपकायनाच कामकायनाश्च । 'नडादिभ्यः फक्' (सू ११०१) तस्य लुक् उपकलमकाः - औपकायनलामकायनाः ] । भ्राष्ट्रककापिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । [ उपकाः - औप कायनाः ] । लमकाः – लामकायनाः । ( ११५२ ) आगस्त्य कौ.
P
1
मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्ट्यादिढको लुकि आदिवृद्धिनिवृत्तिः । श्रत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह-एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रे : 'इतश्चानिजः' इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यम् afras | लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः । प्राच्ये उदाहरति-- पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इजो लुक् । भरतगोत्रे उदाहरति-युधि - ष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्रादित्वात् इञ् । तस्य लुक् । अबहुत्वे तु यौधिष्ठिरः I
गोपवनादिभ्यः । विदाद्यन्तर्गणोऽयमिति । ततश्च अञः ! 'यजञोश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । द्वन्द्वे इति सप्तमीनिर्देशात् पदद्वयादपि फिजो लुकू । उपकादिभ्यो । चकारमध्याहृत्याह-द्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद् द्वन्द्वग्रहणाननुवृस्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव नच द्वन्द्वे नेति निषेध एव किं न स्यादिति वाच्यम्, द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति-भ्रष्टककपिष्ठला इति । इजो वा लुक् । अद्वन्द्वे उदाहरति - लमकाः लामकायना इति । अश्वादिओ लुग्विकल्पः । उपकाः औपकायनाः इत्याद्याप्युदाहार्यम् । श्रागस्त्य ।
For Private and Personal Use Only
Page #712
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
fusन्ययोरगस्ति कुण्डिनच २|४|७० ॥ एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक्स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासङ्गम् अगस्ति कुण्डि • नच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः । ( ११५३ ) राजश्वशुराद्यत् ४|४|१३७॥ 'राज्ञो जातावेवेति वाच्यम्' ( वा २६२७ ) ( ११५४) ये चा भावकर्मणोः ६ |४| १६८ ॥ यादौ तद्धिते परेऽन्प्रकृत्या स्यान तु भावकर्मणोः । राजन्यः। श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पलो राजनः । ( ११५५) मन् ६ ४|१६७॥ अणि अन् प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम् । राज्ञः कर्म भावो वा राज्यम् । ( ११५६ ) संयोगादिश्व ६ |४|१६६ ॥ इन् प्रकृत्या स्यादनि परे । चक्रिणोऽपत्यं चाक्रिणः । ( ११५७ ) न पूर्वोऽपत्येऽवर्मणः ६४ १७० ॥ मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः । ' वा हितनाम्न इति अगस्तयः । कुण्डिना इति । अगस्त्यशब्दाहृष्यणो लुक् । प्रकृतेर गस्त्यादेशः । कौण्डिन्य शब्दो गर्गादियजन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च । 'यस्कादिभ्यो गोत्रे' इत्यारभ्य ‘आगस्त्यकौण्डिन्ययोः' इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम् ।
राजश्वशुराद्यत् । राजन्शब्दात् श्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिनोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । अनिति पूर्वसूत्रमनुवर्तते । 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह-यादाविति । राजन्य इति । क्षत्रियात क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्र त्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति । क्षत्रियात् शूद्रायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते । श्रन् । 'इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते । 'प्रकृत्यैकाच' इत्यतः प्रकृ त्येति च । तदाह - अणीति । राज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् । टिलोपः । संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्' इत्यतश्च तदनुवृत्तेरिति भावः । चक्रिणोऽपत्यं चाक्रिण इति । 'इनण्यपत्ये' इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौवन इति । सुत्वनोऽपत्यमिति विग्रहः । पूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । मणः आपत्यत्वाभावात्प्रकृतिभावः । वा हितमान इति । 'न मपूर्वः' इति
I
1
For Private and Personal Use Only
७०.३
Page #713
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Gog
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अपत्याधिकार
वाच्यम्' ( वा ४२१५ ) । हितनाम्नोऽपत्यं हैतनाम: - हैतनामनः । (११५८ ) ब्राह्मो जातौ ६ |४| १७१ ॥ योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते ऽनपत्येऽणि ब्राह्मं हविः । ततो जातौ । अपत्ये जातावणि ब्रह्मणटिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् । ब्राह्मी ओषधिः । ( ११५६ ) श्रौक्षमन. पत्ये ६|४|१७३॥ अनि टिलोपो निपात्यते । औक्षम् पदम् । अनपत्ये किम् । उक्ष्णोऽपत्यमौक्ष्णः । ( ११६० ) पूर्वहन्धृतराशामणि ६ । ४ । १३५ ॥ षपूर्वो योऽन् तस्य हनादेश्च भस्यातो कोपोऽणि । औक्ष्णः । ताक्ष्णः । प्रणध्नः । धृतरानोऽपत्यं धार्तराज्ञः । षपूर्व- इति किम् । साम्नोऽपस्य सामनः । अनि किम् । क्षण्यः । (११६१) क्षत्त्राद्धः ४|४|१३८ ॥ क्षस्त्रियः । जातौ इत्येव । क्षात्र
प्रतिषेध इति शेषः ।
ब्राह्मो जाती । ब्रह्मन्दशब्दादपत्ये अणि 'न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातवेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्येत्, 'न मपूर्वः" इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किञ्च ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिध्येत्, न मपूर्व इति प्रकृतिभाव: निषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपा सम्भवात् । अत आह- योगविभाग इति । ब्राह्मः इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येs णीत्यनुवर्तते । तदाह-- ब्राह्म इति निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपयेsणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति- ब्राह्म हविरिति । ब्रह्मा देवता अस्येति विग्रहः । 'सास्य देवता' इत्यण् । ततो जाताविति । ततः ब्राह्म इति सूत्रात्पृथगेव जाताविति सूत्रं कर्तव्यमित्यर्थः । इह 'न मपूर्वोऽपत्येऽवर्मणः इति सूत्रादपत्ये इति 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति चानुवर्तते । तदाह - प्रपस्ये जाताविति । ब्राह्मण इति । ब्रह्मणः सकाशात्सज्यतीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः । श्रौक्षम्। शेषपूरणेन सूत्रं व्याचष्टे - अणि टिलोपो निपात्यते इति । 'अनू' इति प्रकृतिभावापवाद इति भावः । श्रक्षमिति । टिलोपे रूपम् । श्रौक्ष्ण इति । अपत्येऽणि टिलोपाभावे अल्लोप इति भावः । ननु प्रकृतिभावादल्लोपो न स्यादत आह- पूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते । भस्येत्यधिकृतम् । तदाह-- षपूर्व इति । तादग इति । 'तक्ष्णोऽण उपसङ्ख्यानम्' इति कारिलक्षणण्यस्यापवादोऽण् । ताक्षण्य इति । 'सेनान्तलक्षण तारिभ्यश्च' इति ण्यः ।
I
. क्षत्त्रादधः । अपत्ये इति शेषः । क्षत्रिय इति । घस्य इयादेशे 'यस्मेति च' इत्या
For Private and Personal Use Only
Page #714
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता ।
रन्यः । (११६२) कुलात्खः ४|४|१३६ ॥ कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः । ( ११६३ ) अपूर्व दादन्यतरस्यां
ov
----
ढक ४|४|१४०॥ कुलात् इत्येव । पक्षे खः । कुल्यः — कौलेयकः—— कुलीनः । पदग्रहणं किम् । बहुकुल्यः -- बाहुकुलेयकः - बहुकुलीनः । (१९६४) महाकुलाद ४|४|१५१ ॥ अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुछ: माहाकुलीनः — महाकुलीनः । (११६५) दुष्कुलाड्ढक् ४।१।१४२ ॥ पूर्ववत्पक्षे खः । दौष्कुलेय: - दुष्कुलीनः । (१९६६) स्वसुइछः ४।१।१४३॥ स्वस्रीयः । (१६७) भ्रातुर्यच्व ४|१|१४४ ॥ चाच्छः । अणोऽपवादः । भ्रातृ-- भ्रात्रीयः । (१९६८) व्यम्पत्ने ४|१|१४ ॥ ॥ भ्रातुर्व्यन् स्यादपत्ये, प्रकृतिप्रत्यय समुदायेन शत्रौ वाच्ये । भ्रातृम्यः शत्रुः । 'पाप्मना भ्रातृव्यैण' इति तूपचारात् । (१९६६) रेवत्यादिभ्यष्ठकू ४ | १ | १४६ ॥ ( ११७० ) ठस्येकः
?
कारलोपः । क्षास्त्रिरन्य इति । क्षत्त्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः । अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ' इति तदन्तविधिनिषेधात् आढ्यकुलीन इति कथमित्यत आह - तदन्तादपीति । श्राढ्यकुलीन इति । आढ्य कुलशब्दात्कर्मधारयात्खः । कुले आढ्यत्वप्रतीतिरत्र फलम् । कुलीन शब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । पूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहि• हितात् कुलादपत्ये ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकजोर भावपक्षे इत्यर्थः । बहुकुल्य इति । 'विभाषा सुपः' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वात् यढकखा भवन्त्येवेत्यर्थः । महाकुलादन्खनौ । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेः पीलाया वा' इत्यत्रोक्तत्वापूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह - पक्षे ख इति । तथा सति आदिवृद्धि - ति भावः । दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । स्वसुइछः । अपत्ये इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुर्व्यच्च । तकार : 'तित्स्वरितम्' इति स्वरार्थ इति बोध्यम् । व्यन् सपत्ने । श्रपत्ये इति । प्रत्ययेनापत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुः इति भाष्ये स्पष्टम् । ननु 'पाप्मना भ्रातृव्येण' इति कथम्, पाप्मनोऽपत्यत्वाभावादित्यत आह- पाप्मना भ्रातृव्येण इति तूपचारादिति । हिंसक स्वगुणयोगालाक्षणिक इत्यर्थः ।
रेवत्यादिभ्यष्ठक् । अपत्ये इति शेषः || ढगापवादः । 'ठस्येकः । अङ्गस्येत्यधिकृर्त
बा० ४५
For Private and Personal Use Only
Page #715
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०६
सिद्धान्तकौमुदी
[ अपत्याधिकार
७३।५०॥ मात्परस्य ठस्येकादेशः स्यात् । रैवतिकः । (१९७१) गोत्रस्त्रियाः कुत्सने ण च ४।१।१४७ ॥ गोत्रं या स्त्री तद्वाचकाच्छन्दाण्णठको स्तः कुत्सा. याम् । सामर्थ्याथूनि । गार्या अपत्यं गार्ग:-गार्गिको वा जाल्मः। 'भस्याटे तद्धिते' इति पुंवद्भावागाग्यशब्दाण्णठको । 'यस्य- ( स ३११) इति लोपः। 'भापत्यस्य-' (स १०८२) इति यलोपः । (१९७२) वृद्धाट्ठक सौवीरेषु बहुलम् ४।११४८॥ सुवीरदेशोद्भवाः सौवीराः। वृद्धात्सौवीरगोत्राथूनि बहुलं
पञ्चम्या विपरिणम्यते । तदाह-प्रङ्गात्पस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्याः अपत्यमिति विग्रहः। कि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इका अदन्त आदेशः । अङ्गात्किम् , कर्मठः इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गासम्बन्धिठस्येति व्याख्याने कर्मठः इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठल्य इकादेशमाशय अङ्गसज्ञानिमित्तं यष्ठकारस्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्ययः इति विज्ञायते । 'ठस्येति सङ्घातग्रहणम्' इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे उकि अकार उच्चारणार्थो न भवति, सङ्घात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम्। __ गोत्रस्त्रियाः । ण इति लुप्तप्रथमाकम् । चात् ठगनुकृष्यते। तदाह-गोत्रं या स्त्री इत्यादिना। सामर्थ्यादिति। 'एको गोत्रे इति नियमादिति भावः। गाग्यो अपत्यमिति । गर्ग: स्य गोत्रापत्यं स्त्री गार्गी । 'गर्गादिभ्यः' यञ् । 'यश्च' इति डीए । 'यस्येति च इ. त्यकारलोपः । 'हलस्तद्धितस्या इति यकारलोपः। गााः अपत्यं युवेति विग्रहः। पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् यद्यपि णप्रत्यये ठक इकादेशे च 'यस्येति । लोपे गार्गः गार्गिकः इति सिध्यति । तथापि वस्तुस्थितिमाह-पुंवद्भावादिति । 'भस्याटे' इति पुंवत्त्वे सति डीपो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गायः शब्दाण्णठकावित्यर्थः । नच 'वृद्धिनिमित्तस्य च' इति पुंवत्त्वनिषेधः शङ्कयः, सौत्रस्यै. वायं निषेधः न तु 'भस्याटे' इति वार्तिकस्येत्युक्तत्वात् । 'भस्याढे इत्यस्य तखिते विवक्षिते प्रवृत्तिमभ्युपगम्य गायशब्दादित्युक्तम् । तच्च समूहाधिकारे 'भिक्षादिभ्योऽण' इत्यत्र स्फुटीभविष्यति । स्त्रियाः किम् , औपगवस्यापत्यं युवा औपगविः। प्रकरणादिगम्या कुत्सा । गोत्रेति किम् , कारिफेयः । णस्य णित्त्वं तु ग्गुलु. चुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्धयर्थम् ।
वृद्धाक्सौवीरेषु । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेष. गम् । तदाह-वृद्धादिति । 'वृद्धिर्यस्याचामादिः' इति वृद्धिसम्ज्ञकादित्यर्थः । ठग्ग्रहणं
For Private and Personal Use Only
Page #716
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
७०७
ठक्स्यात्कृत्सायाम् । भागवित्तेः,भागवित्तिकः। पक्षे फन । भागवित्तायनः। (११७३) फेछ च ४।१।१४६॥ फिजन्तात्सौवीरगोत्रादपत्ये छः ठक्च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः। तिकादित्वास्फिन् । तस्यापत्यं यामुन्दायनीयःयामुन्दायनिकः । कुत्सने किम् । यामुन्दायनिः। औत्सर्गिकस्याणो 'ज्यक्षस्त्रियः-' (सू १२७६ ) इति लुक् । सौवीर इति किम् । तैकायनिः। (१९७४) फाण्टा. हुतिमिमताभ्यां णफिौ ४।१।१५०॥ सौवीरेषु। नेह यथासङ्ख्यम् । अ. पान्तरस्य परनिपाताल्लिङ्गात् इति वृत्तिकारः। भाष्ये तु यथासङ्ख्यमेव इति स्थितम् । फाण्टाहृतः-फाण्टाहृतायनिः । मैमतः-मैमतायनिः। (१९७५) कुर्वादिभ्यो ण्यः ४।१।१५१॥ अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः। 'सम्राजः क्षस्त्रिये? ( ग सू ७५)। साम्राज्यः । साम्राजोऽन्यः। (१९७६) सेनान्तलक्षणकारिभ्यश्च ४।२।१५२॥ एभ्यो ण्यः । 'एति सज्ञायाम्-' (सू १०२३ ) इति सस्य षः । हारिषेण्यः। लाक्षण्यः। कारिः शिल्पी, तस्मात् तान्तुवाय्यः । णस्य अनुवृत्तिनिवृत्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यंभागवित्तिः, तस्यापत्यं युवेत्यर्थे ठकि इकादेशे।भागवित्तिक इति रूपमित्यर्थः । पक्षे फगिति । 'यजिजोश्च इत्यनेनेति शेषः । फेश्छ च । छेति लुप्तप्रथमाकम् । यमुन्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति। यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठमभावे 'तस्यापत्यम्' इत्यण । 'ण्यक्षस्त्रियार्ष' इति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे 'तस्यापत्यम्' इत्यण । 'ण्यक्षस्त्रिया इति तस्य लुगिति भावः । फाण्टाहृति । सौवीरेविति। शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहतिः, अत इन् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रा. दिति न सम्बध्यते, व्याख्यानाद्वोत्रत्वाभावाच्चेति भावः ।
कुर्वादिभ्यो ण्यः । अपत्ये इति । शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्याः ब्राह्मणा इति । कुरु म कश्चिदूब्राह्मणः । तस्यापत्यानीति विग्रहः। ण्यप्रत्यये ओर्गुणे अवादेशः, आदिवृद्धिः। यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वात् बहुषु लुकि कुरवः क्षत्रियाः इति भवति । एतत्सूचनार्थमेव बहुवचनं ब्राह्मणा इति विशेष्यं चोदाहतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । अपत्ये इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त । एभ्य इति । सेनान्तलक्षणकारिम्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति। हरिषेणो नाम कश्चित् ।
For Private and Personal Use Only
Page #717
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अपत्याधिकार
कौम्भक (यः । नापित्यः । ( ११७७ ) उदीचामि ४|१| १५३ ॥ हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिमेव । नापितायनिः । - तक्ष्णोऽण उपसङ्ख्यानम् । ( वा २५४० ) ' षपूर्व - ( सू ११६० ) इत्यनोऽका. रलोपः। ताक्ष्णः । पक्षे ताक्षण्यः । ( ११७८) तिकादिभ्यः फिञ् ४। १ । १५४ ॥ - तैकायनिः । ( १७६ ) कौसल्यकार्मार्थाभ्यां च ४।१।१५५॥ अपत्यै फिल् । इञोऽपवादः । परमप्रकृतेरेवाय मिष्यते । प्रत्ययसन्नियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कार्मारस्यापत्यं कार्मार्यायणिः । 'छागवृषयो-रपि' ( वा २६४३ ) । छाभ्यायनिः । वार्ष्यायणिः । ( ११८० ) अणो द्व्यचः ४|१|१५६॥ अपत्ये फिल् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् । दाक्षायणः । द्वयचः किम् । औपगवः । [' त्यदादीन। फिञ्वा वाच्यः' (वा ५०५०) ।
'एति सञ्ज्ञायाम्' इति षत्वम् । तस्यासिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति । लक्षणमस्यास्तीति लक्षणः, अर्श आद्यच् तस्यापत्यमिति विग्रहः । कारिपर्द व्याचष्टे – कारिः शिल्पीति । तस्मादिति । कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापितस्यापत्यमिति विग्रहः ।
उदीचामिन् । सेनान्तलक्षणकारिभ्यः इञ् स्यादुदीचां मते इत्यर्थः । नापितात्तु परत्वात् फिञवेति । उदीचां वृद्धादित्यनेनेति शेषः । तक्ष्णोऽण उपसङ्ख्यानमिति । उदीचां मते इति शेषः । ताण इति । अणि प्रकृतिभावान्न टिलोपः । 'अल्लोपस्तु 'षपूर्वहन् ' इति वचनाद्भवति । - पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । 'ये चाभावकर्मणोः" इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् । इजोऽपवादः । तैकायनिरिति । फिजि आयन्नादेशः । कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ् तस्य युट् चेति वक्तव्यमित्यर्थः । श्रणो द्वयचः । अपत्ये फिनिति । शेषपूरणमिदम् । द्वयचः अण्प्रस्यान्तादपत्ये फिजित्यर्थः । कायणिरिति । कर्तुः छात्रः कार्यः, 'तस्येदम्' इत्यण् । कस्यापत्यं कायणि: । फिजि आयन्नादेशे णत्वम् । दाक्षायण इति । दक्षस्यापत्यं दाक्षिः । अत इञ् । दाक्षेरपत्यं दाक्षायणः । 'यजिजोश्च' इति फक् । अण्णन्तत्वाभा वान्न फिजिति भावः । औपगविरिति । उपगोर्गोत्रापत्यमौपगवः । तस्यापत्यमौपगविः युवा | द्वयत्वाभावान्न फिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठात् ण्य एवेति बोध्यम् । 'त्यदादीनां फिञ्या वाच्यः | त्यादायनिः स्यादः । इति कचित् पुस्तके
1
For Private and Personal Use Only
Page #718
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
त्यादायनिः- त्यादः ] । ( ११८१ ) उदीच वृद्धाद्गोत्रात् ४।१।१५७ ॥ आम्रागुप्तायनिः । प्राचां तु आम्रगुप्तिः । वृद्धात् किम् । दाक्षिः । अगोत्रात् किम् । औपगवः । ( ११८२ ) वाकिनादीनां कुकूच ४|१|६५८ ॥ अपत्ये किम्वा । वाकिनस्यापत्यं वाकिन कायनिः -- वाकिनिः । (१९८३) पुत्रान्तादन्यतरस्याम् ४|११५६॥ अस्माद्वा फिम्सिद्ध:, तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रिकाय णि:- गार्गीपुत्रायणिः - गार्गी पुत्रिः । ( ११८३) प्राचामवृद्धात्फिल्ब - हुलम् ४|१|१६० || ग्लुचुकायनिः । (१९८५) मनोजतावध्यतौ षुकब ४|१|१६१॥ समुदायार्थो जातिः । मानुषः - मनुष्यः । (१९८६) जनपदशब्दात्क्षत्रियादञ् ४|१|१६६ ॥ जनपदक्षस्त्रिययोर्वाचकादञ् स्यादपत्ये । 'दाण्डिनायन' ( सू ११४५ ) इति सूत्रे निपातनाट्टिलोपः । ऐनाकः । ऐक्वाकी |
"
eted | तत्तु प्रामादिकम् 'त्यदादीनि च' इति त्यदादीनां वृद्धत्वात् 'उदीचां वृद्धात् इत्येव सिद्धेः, भाष्ये अस्य वार्तिकस्य अदर्शनाच्च ।
७०६
1
उदीचां वृद्धादगोत्रात् । वृद्धसञ्ज्ञकात् अगोत्रप्रत्ययान्तात्फिञ् स्यात् उदीचां मते इत्यर्थः । म्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । मते इति शेषः । आम्रगुप्तिः । अत इञ् । श्रपगविरिति । उपगोगोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगवः । औपगवस्य गोत्रत्वात्ततो यूनि फिजभावे इवेति मावः । वाकिनादीनाम् | शेषपूरणेन सूत्रं व्याचष्टे - अपत्ये फिब्वेति । चकारादुदीचामिति फिमिति चानुवर्तते इति भावः । तथा च वाकिनादिम्य: फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम् । पुत्रान्तादन्यतरस्याम् । स्पष्टम् । प्राचामवृद्धात् । अवृद्धसंज्ञकात् अपत्ये बहुलं फिनू स्यादित्यर्थः । प्राचां ग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुलग्रहणान्नेह दाक्षिः । मनोर्जातौ । मनुशब्दात् अभ् यत् एतौ प्रत्ययौ स्तः, तयोः परयोः मनुशब्दस्य षुगागमश्च प्रकृतिप्रत्यय समुदायेन जातौ गम्यायामित्यर्थः । तदाह – समुदायार्थो जातिरिति । नात्रापत्यप्रहणं सम्बध्यत इति भावः । अन्यथा मानुषा इत्यन्त्र 'यजजोश्च'इति लुक् स्यादिति बोध्यम् ।
जनपदशब्दात् । जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्त्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह-जनपदक्षस्त्रिययोरिति । ऐदवाक इति । इक्ष्वा कुर्नाम देशः, राजा च । तस्य राज्ञोऽपत्यमिति विग्रहे अजू, अणोऽपवादः । स्वरे विशेषः । ओर्गुणं बाधित्वा 'दाण्डिनायन' इति सूत्रे निपातनादुकारस्य टेर्लोपः । ऐत्रा
For Private and Personal Use Only
Page #719
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१०
सिद्धान्तकौमुदी
[अपत्याधिकार
'क्षत्रिय समानशब्दाजनपदात्तस्य राजन्यपत्यवत्' (वा २६६९)। तद्राजमाच. क्षाणस्तद्राज इत्यन्वर्थसज्ञासामर्थ्यात् । पञ्चालानां राजा पाश्चालः। 'पूरोरण्व. तव्यः' ( वा २६७० ) पौरवः। 'पाण्डोडर्यण' (वा २६७१ ) पाडयः । (११७) साल्वेयगान्धारिभ्यां च ४११६७n आभ्यामपत्येऽम् । 'वृद्धत्-- (सू ११८९) इति व्यडोऽपवादः । साल्वेयः। गान्धारः । तस्य राजन्यध्येवम् । ( ११८८) धम्मगधकलिङ्गसूरमसादण ४।१।१६८॥ अनोऽपवादः । यच् । आङ्गः । वाङ्गः । सौमः । मागधः । कालिगः। सौरमसः । तस्य राजन्यप्येवम् । (११४) वृद्धत्कोसलाजादाज्यङ् ४।१।१६४॥ वृद्धात् ।
-
काविति । बहुवचने तु लुग्वक्ष्यत इति भावः । क्षत्रियसमानेति । क्षत्रियवाचकशब्देन समानशब्दो जनपदवाचका, तस्मात् षष्ठयन्तात् राजन्यर्थ अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्र सिद्धार्थकथनपरमित्याह-तद्राजमिति । 'जनपदशब्दादित्यादि. विहितानामजादीनां तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानां तद्वाजत्वं तद्बाचकत्वाद्गौणम् । एवंच तद्राजवाचकास्तद्राजाः इत्यन्वर्थसंज्ञैषा, नतु टिधुभादिवदवयवार्थरहिता । तथाच अनादिप्रत्ययानां तद्राजसंज्ञकानां राजवाचकत्वमपि विज्ञायत इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति ।। बहुवचनान्त. मिद देशविशेषनाम, भाष्ये तथैव प्रयोगदर्शनात् । 'द्वयभ्मगध' इत्यत्र भाष्ये 'नेपो नाम जनपदः' इति दर्शनादेशवाचिनोऽप्येकवचनमिति ज्ञेयम्। जनपदशब्दादिति किम् । द्रुह्योरपत्यं द्रौह्यवः । अणेव, तद्राजत्वाभावाद्बहुत्वे न लुक् । द्रौद्यवाः । क्षस्त्रियादिति किम् । पञ्चालो नाम कश्चिद्ब्राह्मणः । तस्यापत्यं पाञ्चालिः । वैदेहिः ।
परोरणिति । पूरुशब्दस्य जनपदवाचित्वाभावात्प्राग्दीव्यतीये अणि सिद्धे तद्वाजसंज्ञार्थे वचनम् । देशवाचित्वे तु 'यमगध' इत्येव सिद्धम् । पाण्डोडर्यणिति । वाच्य इति शेषः । इह श्वेतगुणवाचिनो युधिष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम् , जनपदादित्युक्तेः तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाडय इति । पाण्डोरपत्यं पाण्डु देशस्य राजा वेत्यर्थः । साल्वेय । ननु साल्धेयगान्धारिशब्दौ अव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ । ताभ्याम् जनपदशब्दादिनि सिढे किमर्थमिदमित्यत आह-वृद्धेदिति व्यङोऽपवाद इति । ब्यन्मगध । अञोऽपवाद इति । जनपदशब्दादिति विहितस्यानोऽपवाद इत्यर्थः । द्वयजिति । उदाहियते इति शेषः । अङ्ग, वङ्ग, सुह्म इत्येते व्यवः देशक्षत्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति 'विग्रहः । वृद्धेस्कोसलाजादाम्ध्यङ्। जनपदक्षस्त्रियोभयवाचकावृसंज्ञकात हवन्तात्
For Private and Personal Use Only
Page #720
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
७११
आम्बष्ठयः। सौवीर्यः । इत् । आवन्त्यः। कौन्त्यः। कौसल्यः । अजादस्यापत्यमाजाद्यः । (१९६०) कुरुनादिभ्यो ण्यः ४।१।१७०॥ कौरव्यः । नैषध्यः । 'म नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् । (११९१ ) साल्वाव. यवप्रत्यग्रथकलकूटाश्मकादि ४११७१॥ साल्वो जनपदस्तदवयवा उदु. मरादयस्तेभ्यः प्रत्यप्रथादिभ्यस्त्रिभ्यश्च इञ् । अनोऽपवादः । औदुम्बरिः । प्रात्यप्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् । (१९६२) ते तद्राजाः ४।१।१७२॥ अनादय एतत्सज्ञाः स्युः । (१९६३) तद्राजस्य बहुषु तेने. वास्त्रियाम् २।४॥६२॥ बहुध्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुत्वे, न तु स्त्रियाम् । इक्ष्वाकवः, पञ्चालाः इत्यादि । कथं तर्हि 'कौरव्याः पशवः'तस्यामेव कोसलात् अजादाच्चापत्ये भ्यरित्यर्थः । बृद्धादिति । उदाहियते इत्यर्थः । आम्बष्ठ्यः सौवीर्य इति । आम्बष्ठसौवीरशब्दो जनपदक्षत्रियोभयवाचकौ । इदिति । इदन्तोदाहर
सूचनमिदम् । आवन्स्य इति । अवन्तिशब्दो देशे राजनि च । कौसल्य इति । कोसलशब्दो देशे राजनि च । अजादस्यापत्यमिति । राजवाचकस्वे विग्रहोऽयम् । देशवाचकत्वे तु अजादानां राजेति विग्रहः ।
कुरुनादिभ्यो ण्यः । कुरुशब्दात् नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये रा. जनि च ण्यः स्यादित्यर्थः।। कौरव्य इति । कुरोरपत्यं कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति । तस्येदमित्यनेनेति शेषः । साल्वावयव । उदुम्बरादय इति।
'उदुम्बरास्तिलखला मद्रकारायुगन्धराः ।
भूलिताः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः। 'द्वयमगध' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहोताः।
ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याधारभ्य विहिता अमादयः परामृश्यन्ते तदाह-प्रादय इति।। तद्राजस्य । 'ण्यक्षत्प्रियार्ष इत्यतो लुगित्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे इत्यध्याहार्यः । तदाह-बहुष्विति । तदर्थकृतबहुस्वे इति । अादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वालो येषां ते प्रियवाङ्गाः इत्यत्र बहुत्वस्यान्यपदार्थगतत्वात् वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थवि. शिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति । तथापि अन्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः पश्नाला इति । 'जनपदशब्दात इति विहितस्य अनो लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति । अङ्गाः वङ्काः
For Private and Personal Use Only
Page #721
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
सिद्धान्तकौमुदी
[अपत्याधिकार
रघोः पाण्डयाः' इति च । कौरव्ये पाण्डये च साधव इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये' 'निरुण्यमाना यदुभिः कथञ्चित्' इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया। (१९६४) कम्बोजाल्लुक ४११७३॥ अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजो। 'कम्बोजादिभ्य इति वक्तव्यम्' (वा २६७४ )। चौलः । शकः । द्वयलक्षस्याणो लुक । केरलः । यवनः। अञो लुक् । 'कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिला. दिभ्योऽणी' (सू १४७३) इत्यण् । ( ११४५) स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ४।१११७४॥ तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती। कुरूः । (१९६६) अतश्व ४।१।१७५॥ तद्राजस्याकारस्य स्त्रियाँ लुक्स्यात् । शूरसेनी। मद्री। इत्यादि बोध्यम् । कथं तहाँति । कौरव्या इत्यत्र ण्यप्रत्ययस्य पाण्ड्य इत्यत्र ड्यण्प्रत्य. यस्य च तद्वाजतया बहुषु लुकप्रसङ्गादित्यर्थः । साधव इतीति । कौरव्यशब्दात् पाड्या शब्दाच 'तत्र साधुः इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राज. त्वाभावान्न लुगित्यर्थः । ननु रघुयदुशब्दयोर्जनपदवावित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति - रधूणामिति । लक्षणयेति । प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः। लक्षणाबीज तु रघुयदुसमानवृत्तिकत्वं बोध्यम् ।
कम्बोजाल्लुक् । तदाजा इत्यनुवृत्तं षष्ठया विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थ सूत्रम् । तदाह-कम्बोजः। कम्बोजाविति । जनपदशब्दाः दिति विहितस्य अमो लुक् । चोलः शक इति । चोलशको देशविशेषौ राजविशेषौ च । द्वयजलक्षणस्येति । 'द्वयभ्मगध' इति विहितस्येत्यर्थः। केरल इति । केरलयवनशब्दो देशराजोभयवाचिनौ । अझो लुगिति । जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथं, लुक्प्रसङ्गादित्यत आह-कम्बोजाः समरे इति । दीर्घगठे स्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः। श्रभिजन इति । यत्र पूर्वरुषितं सोड भिजनः इत्यो वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः । नियामवन्ति । अवन्ती कुन्तीति । भवन्तेः कुन्तेश्चापत्यं स्त्री राजी वेति विग्रहः । 'वृद्ध. कोसल' इति भ्योऽनेन लुकि 'इतो मनुष्यजाते.' इति ङीष् । कुरूरिति । 'कुरुनादिभ्यः' इति ण्यस्य लुक् । अतश्च । तद्राजस्याकारस्येति । अत इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनोति। अमओ लुकि प्रत्ययलक्षणमाश्रित्या अपत्यप्रत्ययान्तत्वेन जातित्वात् डीए । 'न लुमता' इति निषेधस्तु न, डीविधेतकार्यवाभावात् । एवं मद्री।
For Private and Personal Use Only
Page #722
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
७१३
कथं 'मादीसुतौ इति 'ह्रस्व एव पाठ" इति हरदत्तः। भर्गादित्वं वा कल्प्यम् । (१९६७)न प्राच्यभर्गादियौधेयादिभ्यः ४।११७६॥ एभ्यस्तद्राजस्य न लुक् । पाञ्चाली। वैदर्भी। माङ्गी । वाङ्गी । मागधी । एते प्राच्याः । भार्गी । कारूशी। कैकेयी। केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे डोष् । युधा शुका आभ्या 'झ्यचः' ( सू ११२४ ) इति ढक् । ततः स्वार्थे 'पादियौधेयादिभ्योऽणनी' ( सू २०७० ) इत्यन् । 'शारिवायत्रः-' (सू ५२७ ) इति दीन् । 'भतश्च' ( स ११९६ ) इति लुकि तु ढगन्तत्वान्गप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयो। शौकयो। (११४ ) मणिोरनापयोगुरूपोत्तमयोः प्यङ गोत्रे ४।१।१७८॥ त्र्यादीनामन्त्य मुत्तमं, तस्य समीपमुपोत्तमम् । गोत्रे यावणियो विहितावनार्षों तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ध्यादेशः स्यात् ।
-
न प्राच्य । एभ्य इति । प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्चेत्यर्थः । एते प्राच्या इति । क्षत्रिया इति शेषः । यथाथयं अनः अणश्च लुक् । भर्गादीनुदाहरति-भागी, कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत् 'पुंयोगादाख्यायाम्' इत्यत्रीकम् । अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह-युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाणं बाधित्वा 'द्वचः' इति डकि एयादेशे 'यस्येति च' इत्यकारलोपे आदिवृद्धिः । यौधेयशब्दात् शौक्रेयशब्दाच 'पर्यादियौधेयादिभ्योऽणौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अनि 'यस्येति च इत्यकारलोपे 'शारवाधमः इति डीनि यौधेयी शौक्रेयीति रूपमिति भावः । नन्वत्र 'मतश्च' इति अनो लुकि सत्यपि 'टिड्ढ' इति डीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत आह-अतश्चेति लुकि स्विति । उदात्तनिवृत्तीति । 'अनुदातस्य च यत्रोदात्तलोपः इत्यनेन डीबुदात्तः स्यात् । सिद्धान्ते त्वजन्तत्वात् डीनि, आधुदात्तत्वमिति भावः। __ अणिो । व्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तम. मिति । सामीप्येऽव्ययीभाव इति भावः । गुरु उपोत्तमम् उत्तमसमीपति ययोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरितिलभ्यते । 'अणिमो" इत्यनेन प्रत्ययग्रहणपरिभाषया अणिजन्त. योहणम् । गोत्रे इत्येतत् अणिकोरन्वेति । ऋषेरविहितौ अनार्षों । इदमपि अणिमोविशेषणम् । स्त्रियामित्यधिकृतम् । तदाह-गोत्रे यावणिसावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः । ननु अणिमन्तयोः ध्यादेशोऽयमनेका:
For Private and Personal Use Only
Page #723
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१४
सिद्धान्तकौमुदी
[अपत्याधिकार
'निर्दिश्यमानस्यादेशा भवन्ति' ( प १३) इत्यणिजोरेव । षडावितो। 'यश्चाप (सू ५२८) । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या। वाराया । अनायोः किम् । वासिष्ठी। वैश्वामित्रो। गुरूपोत्तमयोः किम् । औपगवी । जातिलक्षणो जीम् । गोत्रे किम् । अहिच्छत्रे जाता आहिच्छत्त्री । (११88) गोत्रावयवात् ४ा। ७॥ गोत्राचयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिोः स्त्रियां ध्या
ल्त्वात् सर्वादेशः स्यादित्यत आह-निर्दिश्यमानस्येति । तथा च अणिजोरेवायमादेश इति भावः । 'डिच्च' इत्यन्तादेश इति तु न युक्तम् , डिस्वस्य व्यङः सम्प्रसारणम्' इत्यादौ चरितार्थत्वात्।
कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् । 'यस्येति च' इति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरु गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचानुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यम् , 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधानस्यादोषत्वात् । नाणि परे अव्यवहितो गुरुः क्वचिदस्ति । एवञ्च गुरुपोत्तम प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अणः व्यङादेशे 'यडश्चा' इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इसन्तस्योदाहरतिवाराह्येति । वराहस्यापत्यं स्त्रीति विग्रहः, अत इञ् , अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः । रेफादाकार उत्तमसमीपवर्ती गुरुः । इनः इकारस्य व्यङादेशः, चाबिति भावः । पासिष्ठी वैश्वामित्रीति । ऋष्यणन्तावेतौ । औपगवीति । अणन्तत्वेऽपि गुरूपो. त्तमत्वाभावान व्यङ् । जोतिलक्षण इति। 'गोत्रं च चरणैः सह' इति जातित्वम् ।
आहिच्छत्रीति । जाताथै अणयं, नतु गोत्र इति न ष्य। नच ष्यप्रत्यय एव कुतो न विधीयते इति वाच्यम् , तथा सति उदमेयस्यापत्यं स्त्री इति विग्रहे अत इजिष्यकि चापि औदमेय्या, तस्या अपत्यं औदमेयेय इति न सिध्येत् , अस्यापत्यप्रत्ययत्वा. भावेन यलोपाप्राप्तेरिति स्पष्टं भाष्ये । : गोत्रावयवात् । गोत्रावयवशब्दं ध्याचष्टे-गोत्रावयत्रा गोत्राभिमता इति । गोत्रं कुलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः। कुलव्यपदेशकृत इति यावत् । तदाह-कुलाख्या इति । कुलम् आख्यायते व्यपदिश्यते आभिरित कुलाख्याः । कुलनामानीत्यर्थः। पुणिकादिशब्देहि कुलं व्यपदिश्यते-पुणिकाः वयं, भुणिकाः वयमित्यादि । अवपूर्वकात् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्या
For Private and Personal Use Only
Page #724
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
७१५
3
देशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या। भौणिक्या । ( १२०० ) कौड्यादिभ्यश्च ४।१।०॥ स्त्रियां ध्यप्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिअन्तार्थश्वारम्भः । क्रौडया । व्याडया । गौकक्ष्या। 'सूत युवत्याम्' (ग सू० ५५) सूत्या । 'भोज क्षस्त्रिये' ( ग सू ५६ ) । भोज्या । (१२०१) देवयशिशौचि. वृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ४।१।१॥ एभ्यश्चतुभ्यः ध्यङ्वा । अगोत्रार्थमिदम् , गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे 'इतो मनुष्य-' (सू ५२० ) इति डोष् । दैवयत्या-देवयज्ञी । इत्यादि ।
___ इत्यपत्याधिकारप्रकरणम् ॥
त्यर्थकात् पचायचि अवयवशब्दः। कुलस्यावयवः प्रख्यापकशब्दः कुलावयच इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह-अगुरूपोत्तमार्थ इति । गोत्रादवयुतं मिश्रितम् अनन्तरापत्यं तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ्च पूर्वसूत्रे अपत्याधिकारबहिभतेऽपि पारिभाषिकमेव गोत्रं गृह्यत इति भाष्यस्वरसः । पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इमन्तात् व्यङि चाए। एवं भौणिक्या। मनुष्यनामत्वे तनामिकाणः व्यङ् ।
क्रौडयादिभ्यश्च । 'प्रत्ययविधिः' इति भाष्योक्तं पक्षान्तरमाश्रित्याह-व्यङप्रत्यय इति । पूर्वेण सिद्ध किमर्थमिदमित्यत आह-अगुरूपोत्तमार्थोऽनणिजन्तार्थश्चेति । क्रौव्ये. ति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इमन्तात्ष्यङ्, चाप । इह 'त्र्यादीनामन्त्य. मुत्तमम् इत्युक्तेने गुरूपोत्तमत्त्वम् । मनुष्यनामत्वे त्वम्। गोकक्ष्यशब्दो गर्गादियअन्तः। तस्य अनणिअन्तत्वेऽपि व्यङ् । सूत युवत्यामिति । गणसूत्रमिदम् । सूतशब्दो युक्त्यां ष्यहं लभत इत्यर्थः । सूत्येति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्रिये । इदमपि गणसूत्रम् । दैवयज्ञि । अगोत्रार्थमिति । अनन्तरापत्याथमित्यर्थः। प्रवर्तते इति । विकल्प इति शेषः । पक्षे इति । व्यङभावपक्षे इत्यर्थः । दैबयशीति । देवयज्ञल्या. पत्यं स्त्रीति विग्रहे अत इअन्तात् ष्यविकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्रीशौचिवृक्ष्या-शौचिवृक्षी । सत्यमुग्रः निपातनान्मुम् । सत्यमुग्रस्यापत्यं स्त्री सात्यमु. ग्रया सात्यमुग्री । काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् । काण्डविद्धस्यापत्यं स्त्री काण्डेविद्धया-काण्डेविद्धी । कण्ठेविद्धीति पाठान्तरम् । कण्ठे विढं वेधो यस्य, तस्यापत्यम् , कण्ठेविद्धिः।
इत्यपत्याधिकारप्रकरणम् ।
For Private and Personal Use Only
Page #725
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्थिक
अथ तद्धिते चातुरर्थिकप्रकरणम् ॥ २८॥ (१२०२) तेन रक्तं रागात् ४।२।१॥ रज्यतेऽनेनेति रागः, कषायेण रक्तं वस्त्रं काषायम् । माजिष्ठम् । रागात् किम् । देवदत्तेन रक्तं वस्त्रम् । (१२०३) लाक्षारोचनाटक २॥ लाक्षिकः रौचनिकः । 'शकलकर्दमाभ्यामुपसङ्ख्यानम् ।' (वा २६७९) शाकलिकः । कार्दमिकः । 'आभ्यामणपि' इति वृत्तिः । शाकलः । कार्दमः । 'नील्या अन्' ( वा २६८०) नील्या रकं नीलम् । 'पीता. स्कन्' ( वा २६८१)। पीतकम् । 'हरिदामहारजनाभ्यामञ्' (वा २६८२) । हारिद्रम् । महारजनम् । (१२०४ ) नक्षत्रेण युक्तः कालः ४।२।३॥ पुष्येण युक्तं पौषमहः । पौषी रात्रिः । (१२०५ ) लुबविशेषे । ४ ॥ पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ।
अथ तद्धितचातुरथिंकप्रकरणं निरूप्यते । तेन रक्तं रागात् । रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यथें रज्जेः करणे घनि कृते 'घमि च भावकरणयोः' इति नलोपे 'चजोः कुधिण्यतोः' इति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः। तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति । तेनेति सामान्यनिर्देशः। तथाच तेन रक्तं वर्णान्तरं प्राप्तमित्यर्थे रागात् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः, 'प्राग्दीव्यातो. ऽण्' इत्यधिकारात् । कषायेणेति । कषायो धातुविशेषः रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः । माजिष्ठमिति । मञ्जिष्ठा नाम रञ्जनद्रव्यविशेषः । लाक्षारोचनाट्ठक । अणोऽपवादः। लाक्षिक इति । पट इति शेषः । लाक्षया रक्त इति विग्रहः । रोचनिक इति । ( गो ) रोचनया रक्त इति विग्रहः । शाकलिक इति । शकलं रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतदृष्टम् । नील्या अनिति । वक्तव्य इति शेषः । अणो. अपवादः । नीली ओषधिधिशेषः। 'पीतात्कन्। अणोऽपवादः। पीतं हरितालकादि द्रव्यम् । हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा। महारजन नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।
नक्षत्रेण । अस्मिन्नथें प्रथमोच्चारितात् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषम् अहरिति । पुष्यशब्दादणि 'तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः। पौषी रात्रिरिति । पुष्ययुक्तचन्द्रमसा युक्त. त्यर्थः । अणि यलोपे 'टिड्ढ' इति की । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रमाः । लुबविशेषे । षष्टिदण्डेति । षष्टिघटिकापरिच्छिन्ने
For Private and Personal Use Only
Page #726
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७१७
-
कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषी' इति । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्री. भ्यः' (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुब्नेति ज्ञापितस्वात् । श्रवणशब्दात्तु अत एव लुप् युकवद्भावाभावश्च । भवाधकान्यपि निपातनानि । श्रावणी । (१२०६) सञ्ज्ञायां श्रवणाश्वत्थाभ्याम् ॥२५॥ विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः। अश्वत्थो मुहूर्तः। सम्ज्ञायाम् किम् । श्रावणी । भाश्वत्थी। (१२०७ ) द्वन्द्वाच्छः ४।२।६॥ नक्षत्र द्वन्द्वायुक्ते काले छः स्याद्विशेषे सत्यसति च। तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः। (१२०%) दृष्टं साम
-
काले एकैकस्मिन् एकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः। तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः महर्वा रात्रिवेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति । अग्रेस्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् , इह तु अधिकरणशक्तिविनिर्मुक्त: अहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । महारात्रिवेंति विशेषानवगमादणो लुप् । कथं तहीति । पौर्णमास्याः षष्टिदण्डात्मिकाया भवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते-विभाषेति । फा. ल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्या नक्षत्रयुक्तायां 'लुबविशेष' इत्ययं लुप नेति ज्ञापितत्वात् पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह-श्रवणशब्दावत एव लुबिति । श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननु 'कृत्तिका श्रवणः पुष्यः चिन्नास्वात्योर्यदन्तरम् ।' इत्यादा श्वणशब्दस्य पुलिअत्वदर्शनेन तस्मादणो लुपि कृते 'लुपि युक्तवद्वयक्तिवचने' इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह-युक्तवद्भावाभावश्चेति । निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह-अबाधकान्यपि निपातनानीति । इयं परि. भाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि' इत्युक्तम् ।
सम्झायाम् । श्रवणाश्वत्थाभ्यां परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्सम्ज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्धे किमर्थमिदमित्यत आह-विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः । विभाषा फाल्गुनीश्र. वणा' इति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वात् अपौर्णमास्यामपि युक्तव. दावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्प. टम् । अश्वत्यो मुहूर्त इति । अश्वत्थो नाम अश्विनी नक्षत्रम् । तेन युक्तः अश्वत्थः मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः । द्वन्द्वाच्छः। तिष्यपुनर्वसवीयमहरिति । तिष्यश्च पुनबंसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छल्य ईयादेशे ओर्गुणः। राधा
For Private and Personal Use Only
Page #727
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
सिद्धान्तकौमुदी
[ चातुरर्थिक
४| २|७|| तेनेत्येव । वसिष्ठेन दृष्टं वासिष्टं साम । ' अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः' ( वा·२६९० ) । उशनसा दृष्टमोशनम् - ओशनसम् । ( १२०६ ) कलेर्ट क ४|२|८|| ( वा २६८९ ) । कलिना दृष्टं कालेयं साम । ( १२१० ) वामदेवा डुडु ४|२|| || वामदेवेन दृष्टं साम वामदेव्यम् ।
"
'सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ । ग्रहणं माडतदर्थे भूद्वामदेव्यस्य नष्स्वरे ॥'
इति भाष्यम् । ( १२११ ) परिवृतो रथ: ४।२।१० ॥ वस्त्रैः परिवृतो वानो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न - छात्रैः परिवृतो रथः । ( १२१२ ) पाण्डुकम्बलादिनिः ४|२|११|| पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बल
I
नुराधीया रात्रिरिति । राधेति विशाखा नक्षत्रमुच्यते । राधा व अनूराधाश्च राधानूराधाः तद्युक्ता रात्रिरित्यर्थः । दृष्टं साम । तेनेत्येवेति । अनुवर्तत एवेत्यर्थः । तेन दृष्टं सामेत्यर्थं तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थे इति । 'दृष्टं साम' इत्यर्थे यः अण् सः द्वेित्यर्थः । श्रशनमिति । अणि टिलोपपक्षे रूपम् । कलेक् । वामदेवाड्डयड्डयौ । वामदेव्यमिति । ङित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननु 'यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम् - ययतोरेव विधौ 'ययतोश्चातदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधौ अनयोर्ग्रहणं स्यात्, तदभावार्थ डित्करणम् | डित्करणे सति तु स्वरविधावनयोर्न ग्रहणम्, 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम्' इति परिभाषया 'तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य' इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाच अवामदेव्यमित्यत्रायं स्वरो न भवति । एतत्सङ्ग्राहक भाष्यस्थं श्लोकं पठति - सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । 'यस्य' इति लोपेन सिद्धे ययतौ किमर्थं saौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे नजाश्रयस्वरविधौ तदर्थं 'ययतोवातदर्थे' इति सूत्रे अनयोर्यड्डययोर्ग्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः
1
परिवृतो रथः । तेनेत्यनुवर्तते । तेन परिवृतो रथः इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथः इत्यत्रापि स्यादित्यत आह-समन्ताद्वेष्टितः परिवृत इत्युच्यत इति । रथस्य समन्तादाच्छादनार्थ यद्वखादिकं स्थावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणमिति वार्तिकात्। पाण्डुकम्बलादिनिः । तेनेति परिवृतो य इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु 'अत इनिठनौ
1
For Private and Personal Use Only
Page #728
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
७१६
शब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्ध वचनमणो निवृ. त्यर्थम् । (१२१३ ) द्वैपवैयाघ्राद ४।२।१२॥ द्वीपिनो विकारो द्वैषम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः । (१२१४ ) कौमारापूर्ववचने ४।२।१३॥ कौमार इत्यविभक्तिको निर्देशः। अपूर्वत्वे निपातनमिदम् । अपूर्व पति कुमारी पतिरुपपन्नः कौमारः। यद्वा। अपूर्वपतिः कुमारी पतिमुपपना कौमारी भार्या । (१२१५ ) तत्रोधृतममत्रेभ्यः ४॥२॥१४॥ शरावे उद्धृतः, शाराव ओदनः। उदरतिरिहोद्धरणपूर्वके निधाने वर्तते। तेन सप्तमी । उद्धृत्य निहित इत्यर्थः । (१२१६) स्थण्डिलाच्छयितरि व्रते ४।२।२५॥ तत्र इत्येव । समुदायेन चेतं गम्यते । स्थिण्डिले शेते स्थाण्डिलो भिक्षुः । (१२२७) संस्कृतं भक्षाः ४।२।१६॥ सप्तम्यन्तादण्स्यात्संस्कृतेऽर्थे, यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्र
-
इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह-प्रणो निवृत्त्यर्थमिति । द्वैपवैया. घ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्तात् द्वैपशब्दाद्वैयाघ्रशब्दाच परिवृतो रथ इत्यर्थे अन स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः। द्वीपिन इति । द्वीपि व्याघ्रः, तस्य विकारा चौत्यर्थ 'प्रणिरजतादिभ्यः इाज द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अनि 'न य्वाभ्याम्' इत्यैच् । तेन परि. वृतो वैयाघ्र इति भावः । कौमारापूर्ववचने । तेनेति परिवृतो स्थ इति च निवृत्तम् । अविभक्तिक इति । लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह-अपूर्व त्वे निपातनमिदमिति । न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्व पति. मपपन्नेत्यथें प्रथमान्तात्कुमारीशब्दादञ् स्यादित्यन्योऽर्थः। आधे उदाहरति-- अपूर्वपति मिति । द्वितीये उदाहरति-यद्वेत्यादि। आये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । ___ तत्रोद्धृतम् । तत्रोदूस्तमित्यथें अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्या. दित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथक्करणे शरोवस्यापादानत्वात् कथं सप्तमीत्यत आह-उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' इत्यतः प्राक् तत्रेत्यनुवर्तते ।। स्थण्डिलाच्छयितरि । स्थण्डिलशब्दात्सप्तम्यन्तात् व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः । संस्कृतं भक्षः। भक्ष्यन्त इति भक्षाः, कर्मणि घन् । तत्रे. त्यनुवर्तते । तदाह-सप्तम्यन्तादिति । एकवचन बहुवचनं च सामान्याभिप्रायम् , 'जात्याख्यायामेकस्मिन्बहुवचनम्। इत्युक्तरित्यभिप्रेत्याह-यत्संस्कृतं भक्षाश्चेत्ते स्यु.
For Private and Personal Use Only
Page #729
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२०
सिद्धान्तकौमुदी
[चातुरर्थिक
संस्कृताः, भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोगशः। ((२१८) शलोखाद्यत् ॥२॥१७॥ अणोऽपवादः । शूले संस्कृतं शल्यं मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतमुख्यम् । (१२१९) दध्नष्ठा ४।२।१४॥ दनि संस्कृतं दाधिकम् । (१२२०) उदश्वितोऽन्यतरस्याम् ४।२।१६॥ ठक्स्यात् । पक्षे. ऽण् (१२२१) इसुसुक्तान्तात्कः ॥३॥५१॥ इस् उस् उक् त् एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्क:औदश्वितः । इसुस्रोः प्रतिपदोक्तयोग्रहणान्नेह । आशिषा चरत्याशिषिकः। उषा चरति औषिकः । 'दोष उपसङ्ख्यानम्' (वा ५०५१) दोा चरति दौष्कः। (१२२२) क्षीराडूढञ् ४।२।२०॥ अत्र संस्कृतम् इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षरेयी । (१२२३) साम्मिन्पौर्णमासीति रिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति । तद्धितार्थ' इति समासः । भक्षा इति किम् । पुष्पपुटे संस्कृतं वस्त्रम् । शूलोखाद्यत् । समाहारद्व. न्द्वात्पञ्चमी । तत्रेति संस्कृतं भक्षा इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच्च 'संस्कृतं भक्षाः' इत्यर्थे यत् स्यादित्यर्थः । उखा पात्रविशेष इति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । दध्नष्ठक । सप्तम्यन्ताधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक स्यादित्यर्थः। अणोऽपवादः। दाधिकमिति । ठकि हकादेशे 'यस्येति च इति इकारलोपः। इह दधिन अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरि. त्यत्र तु 'संस्कृतम्' इति तृतीयान्तात् ठग्वक्ष्यते ।
उदश्वितोऽन्यतरस्याम् । ठक् स्यादिति । शेषपूरणमिदम् । उक्तविषये उदश्विच्छ. ब्दाग्वा स्यादत्यर्थः । इसुमुक्तान्तात् कः। इसुसुक्ताः अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः। ठस्य कः स्यादिति । ठकि ककार इत् , अकार उच्चारः णार्थः, ठकारस्य शिष्टस्य ककारः आदेश इति 'ठस्येकः' इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणम्-वर्धते इति । 'टु ओ शिव गतिवृद्धयोः' इति धातुरिह वृद्धयर्थक इति भावः । उदश्विदिति । किपि तुक् । 'उदकस्योदः सज्ञायाम्' इत्युदादेशः । 'तकं झुदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्' इत्यमरः । प्रतिपदोक्तयोरिति । इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्का, धानुष्क इति । आशिषिक इति । चरतीति उक् । शासुधातोः विपि 'आशासः कौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनां च' इत्युभयत्र षत्वम् । दोष इति । दोषशब्दात् ठस्य कः स्यादि. त्यर्थः । दौष्क इति । तरतीति ठक् । क्षीराढन । क्षैरेयीति । क्षीर संस्कृता यवागूर.
For Private and Personal Use Only
Page #730
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता |
४/२/२१ ॥ इतिशब्दात् 'सज्ञायाम्' इति लभ्यते । पौषो पौर्णमास्यस्मिन्पौषो मासः । ( १२२४ ) श्राग्रहायण्यश्वत्थाठ्ठकू ४ | २|२२|| अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । 'पूर्वपदात्सञ्ज्ञायाम् -' (सू. ८५७) इति णत्वम् । आप्रहायणी पौर्णमास्यस्मिन्ना प्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमा - स्यश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वस्थिकः । ( १२२५ ) विभाषा फाल्गुनीश्रवणाकार्तिकी चैत्रीभ्यः ४ | २|२३|| एभ्यष्ठग्वा । पक्षेऽण् । फागुनिकः -- फाल्गुनो वा मासः । श्रावणिकः - श्रावणः । कार्तिकिकः - कार्तिकः । चै. त्रिकः- चैत्रः ः । ( १२२६ ) साऽस्य देवता ४|२| २४|| इन्द्रो देवता अस्यैति ऐन्द्रं हविः । पाशुपतम् । बाह्रैस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता,
७२१
स्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात्, यवाग्वाः पेयस्वेन खाद्यत्वाभावात् ।
• सास्मिन्पौर्णमासीति । तन इति, संस्कृतं भक्षाः इति च निवृत्तम् । सा पौर्णमासी अस्मिन्नित्यर्थं प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौर्णमासी, सा यास्मन्मासे स पौषो मासः । पौषीशब्दादणि 'यस्येति च' इति ईकारलोपः । एवं मवाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्सः माघो मासः । तथा फाल्गुन इत्यादि । सञ्ज्ञायां किम् । पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे । आग्रहायण्यश्वत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच्च ठक् स्यादित्यर्थः । अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः । ' संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री' इत्यमरः । यस्या ऊर्ध्वं संवत्सरस्या. रम्भः सा पौर्णमासी आग्रहायणीत्यर्थः । तहि आग्रहायणेति स्यादित्यत आहप्राश देरिति । 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ' इति ङीबित्यर्थः । श्रश्वत्थेनेति । अश्विनी नक्षत्रेणेत्यर्थः । अश्वत्थ इति । नक्षत्राणः 'लुबविशेषे' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकी चैत्रीभ्यः' इति निर्देशेन पौर्णमास्यां 'लुबविशेषे इत्यस्याप्रवृत्तेरुक्तत्वात् कथमिह लुबित्यत आह-निपातनात्पौर्णमास्यामपि लुति । तथाच पौर्णमास्यां लुप् नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्' इत्युक्ताविषये इति शेषः । फाल्गुनिकःफाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः ।
1
I
साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्याद्यनु
बा० ४६
For Private and Personal Use Only
Page #731
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्षिक
मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वत्राग्नि--(वा २६८९) इति ढक् । (१२२७) कस्येत् ४।२।२५॥ कशब्दस्यदादेशः स्यात्प्रत्ययसनियोगेन । 'यस्य- (सू ३११) इति लोपास्पर• त्वादादिवृद्धिः। को ब्रह्मा देवता अस्य कायं हविः । श्रीदेवता अस्य श्रायम् । (१२२८) शुक्राद्धन् २।२६॥ शुक्रियम् । (१२२९) मपोनप्पांनप्तृभ्यां
पपत्रमित्यत आह-त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतेति । हविश्शेषमृत्विग्भ्यो ददाति, विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेदेवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्य. मानहविस्साध्यः अस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति । 'अग्निमीडे पुरोहितम्' इत्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशि. टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति। इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननु 'अग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथं देवतातद्धितः। अत्र अग्ने. हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाभावादित्यत आह-आग्नेयो वै इति । शैषिकेऽर्थे इति । शेषे इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्नि म यो देवता. जातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः । कस्येत् । प्रत्ययसन्नियोगेनेति । 'साऽस्य देवता' इति विहिते कशब्दादण्प्रत्यये परे तत्सन्नियोगेन प्रकृते. रिकारोऽन्तादेश इत्यर्थः । तथाच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इति स्थिते 'यस्येति च इति इकारलाप. माशड्याह-यस्येति लोपात्परत्वादादिवृद्धिरिति । कशब्दस्य विवरणम् ब्रह्मेति । यद्य. प्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थितिकथनमिः दम् । तस्य प्रयोजनमाह-श्रीदेवता अस्य श्रायं हविरिति । ___ अत्रेदमवधेयम् । 'कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येक पक्षः। सर्वादिगणपठितस्य किंशब्दस्य षष्ट्येकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे 'कायानुबहि' इति प्रैषः इति निर्विवादम् , सर्वादिगणबहिर्मतत्वेन स्मै. भावासम्भवात्। द्वितीयपक्षे तु किशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मभावः, अन्वर्थसज्ञाबलेन एकार्थवृत्तः सज्ञाशब्दस्य सर्वनामत्वाभावात् । तथाच कायानुब्रूहीत्येव प्रेषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वनामत्वात् 'कस्मा अनुब्रूहि' इत्येव सम्प्रेष इति भाष्ये प्रपञ्चितम् । एवञ्च विष्णुसहस्त्र. नामसु विश्वं विष्णुः इति, ‘एको नैका सवः कः किं यत्तत्पदमनुत्तमम् ।। इति च पठितविश्वादिशब्देष्वप्ययं न्यायस्तुल्यः । तथाच विश्वस्मै नमः, विश्वाय नमः इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् । शुक्राद्धन्। 'साऽस्य देवता' इत्यथें इति
For Private and Personal Use Only
Page #732
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र
.२०]
बासमोरमासहिता।
७२३
घः ४।२।२७॥ अपोनत्रियम्-अनिप्त्रियम् । अपोनपात् अपानपाच देवता । प्रत्ययसभियोगेन तूक्तं रूपं निपात्यते । अत एव अपोनपाते-अपानपातेऽनुब्रूहीति प्रेषः । (१२३०) छ च ४२२८॥ योगविभागो यथासङ्खयनिवृत्यर्थः । अपो. नप्त्रीयम्-अपानप्त्रीयम् । (छप्रकरणे पैशाक्षीपुत्रादिभ्य उपसङ्ख्यानम्' (वा २७०१) पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् )। 'शतरुद्राद्धश्च' (वा २७०२ )। चाच्छः । शतं रुद्राः देवता अस्य शतरुद्रियम्-शतरुद्रीयम् । घच्छयोविधानसाम•
र्थ्यात् 'द्विगो गनपत्ये' (सू १०८०) इनि न लुक् । (१२३१) महेन्द्राद्धाणौ चाRIRE॥ चाच्छः। महेन्द्रियम् हविः, माहेन्द्रम् । महेन्द्रीयम् । (१२३२) सोमायण ॥२॥३०॥ सौम्यम् । टित्त्वान्डोप् । सौमी ऋक् । (१२३३) वा. यवृतुपित्रुषसो यत् ॥२॥३१॥ वायव्यम् । एवम् ऋतव्यम् । (१२३४) रीतः ७१४॥२७॥ अकृद्यकारेऽसार्वधातुके यकारे च्चौ च परे ऋदन्ताङ्गस्य रोका
शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः । अपोनप्त्र पान्नप्तृभ्यां घः । प्रत्ययसनियोगेनैति। घप्रत्ययसन्नियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपानपाच्छ. ब्दस्य अपात्रपतृभावश्च निपात्यत इत्यर्थः। अत एवेति । घप्रत्ययसाबियोगेनैव उक्तादेशविधेरित्यर्थः। अत्र घप्रत्ययाभावात्रोक्तादेशाविति भावः। छ च। उक्तविषये छोऽपीत्यर्थः । ननु अपोनन्त्रपानप्तृभ्यां घच्छौ इत्येवास्तु । तत्राह-योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णबिन्दवीयमिति। तार्णबिन्दुः देवता अस्येति विग्रहः। शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेशः । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र तद्धितार्थ' इति द्विगुसमासः । द्विगोल्गनपत्ये इति लुकमाराड्याह-घच्छयोरिति । ___ महेन्द्राद्घाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः । घस्य इयादेशः। माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति। छस्य ईयादेशः । सौमायण। सौग्य. मिति । सोमो देवता अस्येति विग्रहः । रित्त्वस्य प्रयोजनमाह-टिस्वान्डीबिति । सौमीति । सोमो देवता अस्या ऋचः इति विग्रहः। डीपि 'हलस्तद्धितस्य इति यलोपः। वावृतुपित्रुषसो यत्। वायु, ऋतु, पितृ, उपस् एभ्यः यदित्यर्थः । वायव्यमिति । वायुदेवता अस्येति विग्रहः । यति ओर्गुणः । 'वान्तो थि' इत्यवादेशः । एवम् ऋतव्यमिति । ऋतुः देवता अस्येति विग्रहः । रीकृतः। अङ्गस्येत्यधिकृतम् ऋता विशेष्यते । तदन्तविधिः । 'अनङ् यि क्छिति' इत्यतः यि इत्यनुवर्तते । 'अकृत्सार्वधातुकयोः' इत्यतः अकृत्सार्वधातुकयोरिति । 'च्चौ च' इति सूत्रं च तदाह-अकृ.
For Private and Personal Use Only
Page #733
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-७२४
सिवान्तकौमुदी
[चातुरर्थिक
देशः स्यात् । 'यस्येति च' (सू ३११)। पित्र्यम् । उषस्यम् । ( १२३५) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोपतिगृहमेधाच्छ च ॥२॥ ३२॥ वायत् । द्यावापृथिवीयम्-द्यावापृथिव्यम् । शुनासीरीयम्-शुनासीर्यम् । (१२३६) अग्नेझैंक ४॥२॥३३॥ आग्नेयम् । (१२३७ ) कालेभ्यो भववत् ४॥२॥३४॥ मासिकम् । प्रावृषेण्यम् । (१२३८) महाराजप्रोष्ठपदाटूठन ४।२।३५॥ माहाराजिकम् । प्रौष्ठपदिकम् । (१२३६) देवताद्वन्द्वे च त्यादिना। पित्र्यमिति । पितरः देवता अस्येति विग्रहः। यति पितृशब्दस्य रोङ् । 'डिच्च इत्यन्तादेशः। 'यस्येति च' इति ईकारलोपः। क्यचि पित्रीयतीत्यादौ 'अडकायें कृते पुनर्नाङ्गकार्यम्' इति वचनात् 'अकृत्सावधातुकयोः' इति दीधे अप्राप्ते ईकारो। च्चारणम् । उपस्यमिति । उषः देवता अस्येति विग्रहः। भत्वेन पदत्वाभावात् सका. रस्य न रुत्वादि। ____ द्यावापृथिवी। धावापृथिवी, शुनासीर, मरुत्वत् , अग्नीषोम, वास्तोष्पति, गृह. मेध एतेभ्यः छो यच्च स्यादित्यर्थः । अणः पत्युत्तरपदण्यस्य चापवादः। द्यावापृधिवीयम् द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्र 'यस्येति च इति लोपः। शुनासोरीयमिति । शुनो वायुः, सीरः, आदित्यः, शुनश्च सीरश्च शुनासीरौ। 'देवताद्वन्द्वे च' इत्यानह। शुनासीरावस्य स्त इति शुना. सीरः । 'वाय्वादित्यवानिन्द्रो विवक्षितः' इति वेदभाष्ये भट्टभास्करः। शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम् मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयम् । अग्नीषोम्यम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः। निपा. तनादलुक् षत्वं च । 'रुद्रः खलु वै वास्तोष्पतिः' इति ब्राह्मणम् । अमरस्तु इन्दपर्यायेषु 'वास्तोष्पतिः सुरपतिः' इत्याह । वास्तोष्पतिदेवता अस्य वास्तोष्पतीयं, वास्तो. ष्पत्यम् । गृहमेधो देवता अस्य गृहमेधीयम् गृहमेध्यम् । अग्नेर्डक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम् । 'सर्वत्राग्निकलिभ्याम्' इति वचनात् । कालेभ्यो भववत् । कालवाचिभ्यो भवेऽथें येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते 'साऽस्य देवता' इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति । मासो देवता अस्येति विग्रहः । कालान् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाढुन्। माहाराजिकमिति । महाराजो वैश्रवणः, सः देवता अस्येति विग्रहः। प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्त: 'साऽस्य देवता' इत्यधिकारः। ___अथ प्रासनिकम् । देवताद्वन्द्वे च । 'मृजेवृद्धिः' इत्यतो वृद्धिरित्यनुवर्तते । 'अचो णिति' इत्यतः णितीति, 'किति च' इति सूत्रं चानुवर्तते । तद्धितेष्वचामादे'
For Private and Personal Use Only
Page #734
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
७३/२१ ॥ अत्र पूर्वोत्तरपदयोरायचो वृद्धिः स्यात् निति णिति किति च परे । आग्निमारुतम् । ( १२४० ) नेन्द्रस्य परस्य ७|३|२२|| परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः । ( १२४२) दीर्घाच्च वरुणस्य ७|३|२३|| दीर्घात् परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात् किम् । अग्निवारुणम् । अग्निवारुणीमन ड्वाहीमालभेत । 'तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्' (वा २७०६) नावयज्ञिकः कालः । पाकयज्ञिकः । ' 'पूर्णमासादण्व'कव्यः' (वा २७०७)। पूर्णो मासोऽस्यां वर्तत इति पौर्णमासो तिथिः । ( १२४२) पितृव्यमातुलमातामहपितामहाः ४ २/३६ ॥ एते निपात्यन्ते । 'पितुत्रों
७२५
इत्यतः अचामादेरिति 'हृगसिन्धवन्ते पूर्वपदस्य च' इत्यतः पूर्वपदस्येति, 'उत्तरपदस्य च' इति सूत्रं चानुवर्तते । तदाह- अत्रेत्यादिना । श्रग्निमारुतमिति । अग्निव Revatadt 'देवताद्वन्द्वे च' इत्यानङ । अग्नामरुतौ देवता अस्य आग्निमा. रुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनडं बाधित्वा 'इवृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य । 'देवताद्वन्द्वे च' इत्युक्ता उभयपदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति । चरुरिति शेषः । तैत्तिरीये 'सौमेन्द्र श्यामाकं चरुम्' इति छान्दसम् । दीर्घाच्च वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौदेवता अस्येति विग्रहे इन्द्रः । अनङ् । इन्द्रावरुणशब्दादणि दीर्घाकारात्परत्वात् वरुणस्य नादिवृद्धिः । अग्निवारुणमिति । 'इवृद्धौ' इत्यग्नेन बाधित्वा दीपरत्वाभावानिषेधाभावे सति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम् । अथ प्रकृतम् ।
तदस्मिन्निति । 'महाराजप्रोष्ठपदाट्ठञ्' इति सूत्रे वार्तिकमिदम् । तदस्मिन्वर्तते इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यः उञः उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति । नवयज्ञः नूतनधान्यद्रव्यको यज्ञः आग्रयणाख्यः सः यस्मिन्काले वर्तते सः नावयज्ञिकः । आग्रयणकालः इति यावत् । पाकयज्ञिक इति । पाकयज्ञः औपासनाग्निसाध्यः पार्वणस्थालीपाकादिः सः यस्मिन्काले वर्तते सः पाकयज्ञिकः । पूर्णमासादिति । तदस्मिन्वर्तते इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति। मासश्चन्द्रमाः पूर्णश्चासौ मासश्च पूर्णमासः पूर्णचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणि 'टिड्ढाणञ्' इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः । तस्येयमित्यर्थे 'तस्येदम्' इत्यणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अयं साधुरिति भावः ।
पितृव्यमातुल । कस्मिन् अर्थे किं निपात्यते इत्यत आह- पितुर्भ्रातरि व्यदिस्या
For Private and Personal Use Only
Page #735
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२६
सिद्धान्तकौमुदी
[ चातुरर्थिक
तर व्यत्' ( वा २७०८ ) । पितुर्भ्राता पितृव्यः । 'मातुर्डेलिच ( बा १७०८ ) मातुर्भ्राता मातुलः । 'मातृपितृभ्यां पितरि डामहच्' ( वा २७०९ ) । मातु पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिच्च' ( वा २७१० ) । मातामही । पितामही । 'अवे ग्धे सोढदूसमरीसचो वक्तव्याः' ( वा २७१२ ) । सकारपाठसामर्थ्यान्न षः । अविसोढम् | अविषूसम् | अविषरीसम् । 'तिलान्नि*फलात्पिञ्जपेजौ' ( वा २७१३ ) तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । 'पि छन्दसि डिच्च' ( वा २७१४ ) तिहिपञ्जः । ( १२४३ ) तस्य समूहः ४|२|३७|| काकानी समूहः काकम् । नाकम् । ( १२४४ ) भिक्षादिभ्योऽण ४|२|३८|| भिक्षाणां समूहो भैक्षम् । गर्मिणीनां समूहो गार्भिणम् । इह 'भस्याढे - दिना । मातुल इति । मातृशब्दात् डुलचि 'टे:' इति टिलोपः । मातामह इति । मातृशब्दात् महच टिलोपः । एवं पितामहः । मातरि षिच्चेति । मातृपितृभ्यां मातरि डामहच्, स च विद्भवतीत्यर्थः । षित्त्वस्य फलं ङोषित्याह-मातामही पितामहीति । श्रवेरिति । अवेर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशङ्कयाह - सकारपाठसामर्थ्यान्न ष इति । अन्यथा पोढ इत्येवोपदिशेदिति भावः । तिलादिति । तिलशब्दः ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दः निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकाः ।
I
I
1
तस्य समूहः । 'इनित्रकटयचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्पठ्यन्तात्प्राग्दीव्यतीयाः अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनो'कू' इत्याद्यपवादविषयं परिहृत्योदाहरति- काकम् बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र 'अचित्त-' हस्ति' इति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परथ, आद्युदात्तश्च इति इकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवजंम्' इति शिष्टस्यानुदात्तत्वे गर्भिनुशब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्य 'अनु. दात्तौ सुष्पितौ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽयं 'अनु. दात्तादेरज्' इति वक्ष्यमाणे अभि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम् । अनि तु पज्नत्यादिर्नित्यम्' इत्याद्युदात्तमिति स्वरे विशेषः । अणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति- इह भस्येति । गर्भिणीशब्दादणि सति 'भस्यादे' इति पुंवत्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः ।
1
For Private and Personal Use Only
Page #736
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
इति पुंवद्भावे कृते । ( १२४५ ) इनण्यनपत्ये ६ |४| १६४ ॥ अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' ( सू ६७९ ) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरनि यौवतम् । ( १२४६ ) गोत्रोोट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुञ् ४।२|३६|| एभ्यः समूद्दे वुश्रू स्यात् । लौकिकमिह गोत्रं, तथ्यापत्यमाश्रम् । (१२४७) युवोरनाको ७|१|१|| युवु एतयोरनुनासिकयोः क्रमात् अन अफ एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । ओक्षकमित्यादि । 'आपत्यस्य च ' ( सू १०८२ )
इनण्यनपश्ये । इन् अणीति छेदः । प्रकृत्येति । 'प्रकृत्यैकाच' इत्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अघि तु प्रकृतिभावाप्रवृत्तेः टिलोपः स्यादिति भावः । यौवनमिति । 'कनिन्युवृषितक्षि' इत्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणायुदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्वादनि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याढे' इति पुंवत्रे तिप्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाट्टिलोपाभावे यौवनमिति रूपम् | अजि तु प्रकृतिभावस्याप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याढे तद्धिते' इत्यस्य अतद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्वरणादात्तत्वादनुदात्तादित्वाभावादजभावे 'तस्य समूहः' इत्यणि प्रकृतिभावा । लोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्य कैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिश्यं युवच्छन्दः । ततः उगिलक्षण : पुंस्त्रेन निवृत्तौ युवच्छन्दादनुदात्तादेरजि यौवतमिति रूपमिति भावः ।
७२७
गोत्रोष्ट्र | एभ्यइति । गोत्र उक्षन्, उष्ट्र, उरभ्र, राजन् राजन्य, राजपुत्र, वत्स, मनुष्य, अज एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिक गोत्रं किमित्यत आह- तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादिकृत्स्नापत्यमित्यर्थः । 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु पारिभाषिकं गोत्रमिष्यते' इति 'स्त्रीपुंसाभ्याम् इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह- यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासि कयोः किम् ऊर्जायुः | ग्लुचुकायनोनामिति । 'प्राचामवृद्धात' इति ग्लुचुक शब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष् समूद्दे वुञ् । अकादेशः, आदिवृद्धिः, 'यस्येति च' इतीकारलोपः । श्रौक्षकमिति । उक्ष्गां समूहः इति विग्रहः । वुन्, अकादेशः,
I
1
"
For Private and Personal Use Only
,
Page #737
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२
सिद्धान्तकौमुदी
[ चातुरर्थिक
इति यलोपे प्राप्ते 'प्रकृत्या के राजन्यमनुष्ययुवानः ' । (वा ४२१४) राजन्यकम् । मानुष्यकम् । 'वृद्धाच्चेति वक्तव्यम् । ( वा २७१६ ) वार्द्धकम् । ( १२४= ) केदाराद्यश्च ४|२|४०|| चावुञ् । कैदार्यम्- कैदारकम् । 'गणिकाया यमिति वक्तव्यम्' ( वा २७१९ ) गाणिक्यम् । ( १२४६ ) ठकवचिनश्च ४२ ४१ ॥ चारकेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् । ( १२५० ) ब्राह्म
1
णमाजववाडवाद्यन् ४ २ ४२|| ब्राह्मण्यम् | माणव्यम् । वाडव्यम् । 'पृष्ठादुप. सङ्ख्यानम्' ( वा २७२० ) पृष्ठयः (षडहः) । ( १२५१ ) ग्रामजनबन्धुभ्य.. स्तल ४|२|४३|| प्रामता । जनता । बन्धुता । 'गजसहायाभ्यां चेति वक्तव्यम्' ( वा २७२१ ) गजता । सहायता । 'अह्नः खः क्रतो' ( वा २७२२ - २७२३ ) । टिलोपः, आदिवृद्धिः । उष्ट्राणां समूहः इति विग्रहः, औष्ट्रकम् । उरभ्राः मेषाः तेषां समूहः, औरभ्रकम् । राजकम् - राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दादबुजि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्या के राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वावुञ् । प्रकृतिभावान्न टिलोपः । 'वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते, नतु 'वृद्धिर्यस्याचामादिः इति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाहवार्द्धकमिति । वृद्धानां समूहः इति विग्रहः ।
केदाराद्यञ् च । कैदार्यम्- कैदारकमिति । केदाराणां समूह इति विग्रहः । गणिकाया यञ् । यञ्ग्रहणात् वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः । ठञ् कवचिनश्च। केदारादपीति । कवचिन् शब्दात् केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ञ्, इकादेशे टिलोपः । ब्राह्मणमाणववाडवान् । ब्राह्मण्यमित्यादि । ब्राह्मणानां माणवानां वाड्वानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् | 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यः तेन सिध्यति माणवः ।' इति 'मनोर्जातावज्यतौ षुक्च' इति सूत्रे भाष्यम् । पृष्ठा दिति यन इति शेषः । पृष्ठथः षढह इति । षष्ण अह्नां समाहारः षढहा, समाहारे द्विगु: । 'राजाहस्सखिभ्यः' इति टचि टिलोपः । रथन्तरबृहद्वैरूपवैराजज्ञाकर रैखताख्यानि षट् पृष्टाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि तेषां समूहः इति विग्रहः । ग्रामजन | समूह इत्येव ग्रामतेत्यादि । ग्रामाणां जनानां बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् 'तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसुश्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः । भह्नः खः
1
For Private and Personal Use Only
Page #738
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डि कादित्वादञ् । ‘अहृष्टखोरेव' ( सू ७८९ ) इति नियमाट्टिलोपो न । 'स् वक्तव्यः' ( वा २७२४ ) । ( १२५२ ) सिति च १|४|१६|| सिति परे पूर्व पदस्रब्ज्ञं स्यात् । अभत्वादोर्गुणो न । पशूनां समूहः पार्श्वम् । (१२५३ ) मनुदात्तादेर ४|२| ४४ || कापोतम् मायूरम् । ( १२५४) खण्डिकादिभ्यश्च ४|२|४५॥ अञ्स्यात् । खण्डिकानां समूहः खाण्डिकम् । ( १२५५ ) चरणेभ्यो धर्मवत् ४|२|४६|| काठकम् । छान्दोग्यम् । ( १२५६ ) मचित्तहस्तिनो
७२६
1
1
तौति । वार्तिकमिदम् । तौ वर्तमानात् अहन्शब्दात् समूहेऽथं खप्रत्ययो वाच्य इत्यर्थः । श्रहीन इति । अहशब्देन सौत्यान्यहानि । विवक्षितानि । तेषां समूहः इति विग्रहः । अहन्शब्दात् खः, ईनादेशः । 'अह्नष्टखोरेव इति टिलोप इति भावः । फलित माह - अहर्गणेति । श्रह्न इति । अह्नां समूह इति विग्रहः । इह कत्वप्रतीतेर्न ख इति भावः । 'अचित्तहस्तिवेनोः' इति ठकमाशङ्कयाह - इहेति । 'खण्डिकादिभ्यश्च' इत्यमित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याणि विहितस्यात्रासम्भवाट्टिलोपः स्यादित्यत आह- श्रष्टखोरेवेतीति । टिलोपाभावे सति 'अल्लोपोनः' इत्यकारलोपे आहः इति रूपमिति भावः । पर्वा खमिति । अणोऽपवादः । पशुशब्दः उकारान्त स्त्रीलिङ्ग: पाइर्वगतास्थिवाची । तस्मात् णसि ओर्गुणे प्राप्ते - सिति च । 'सुप्तिङन्तं पदम्' इत्यतः पदमित्यनुवर्तते । तदाह - सिति परे पूर्व पदसन्ज्ञमिति । सकारः इत् यस्य सः सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिद्धे भसज्ञापवादोऽयम् । श्रभस्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः । पशूनां समूहः पार्श्वमिति । पर्शु अ इति स्थिते 'इकोऽसव' इति शाकल्यहस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति भावः ।
1
श्रनुदात्तादेरञ् । समूह इत्येव । कापोतम् । मायूरमिति । 'लघावन्ते द्वयोश्च बहुषो गुरु' इति कपोतमयूरशब्दौ मध्योदात्ताविति । भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे--ञ् स्यादिति । समूहे इति शेषः । आबुदात्तार्थमिदम् । चरणेभ्यो धर्मवत् । चरणाः शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्वुञ् इति धर्मे वक्ष्यमाणो वुञ समूहेऽपि भवति । छान्दोग्यमिति । छन्दोगाः सामशाखिनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकबहवृचनटात् व्य इति धर्मे वक्ष्यमाणो व्यः समूहे ऽपि भवति । श्रचित्तहस्ति । अचित्ताः अप्राणिनः
For Private and Personal Use Only
Page #739
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३०
सिद्धान्तकौमुदी
[ चातुरर्थिक
ष्ठकू | ४|२|४७ || साक्तुकम् । हास्तिकम् । धैनुकम् । ( १२५७ ) केशाश्वायछावन्यतरस्याम् ४ | २|४८ ॥ पक्षे ठगणौ । कैश्यम् — कैशिकम् । अ श्वीयम्-आश्वम् । ( १२५८ ) पाशादिभ्यो यः ४ |२| ४६ ॥ पाश्या । तृष्या । धूम्या | वन्या । वात्या । ( १२५६ ) खलगोरथात् ४ । २ । ५०५ खल्या । गव्या । रथ्या । ( १२६० ) इनित्रकटय चश्च ४ २ ५१ ॥ खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या | 'खलादिभ्य इनिर्वक्तव्यः' ( वा २७३५) । डाकिनी । कुटुम्बिनी | आकृतिगणोऽयम् । ( ( २६१) विषयो देशे ४|२| २ || षष्ठयन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः
1
I
तद्वाचिभ्यः, हस्तिशब्दात् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । ' इसुसुक्कान्तात्कः' इत्युकः परत्वात् ठस्य कः । आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक्, इकः, टिलोपः, आदिवृद्धिः । धेनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । आदिवृद्धिः । केशाश्वाभ्याम् । समूह इत्येव । केशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्षे इति । केशाared 'अति' इति ठक् । अचात् छाभावे अणित्यर्थः । कैश्यम् कैशिकमिति । केशानां समूह इति विग्रहः । क्रमेण यष्ठकौ । श्रश्वीयम् श्रश्वमिति । क्रमेण छाणौ पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां तृणानां धूमानां वनानां वातामां च समूह इति विग्रहः । स्त्रीत्वं लोकात् । खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गन्या रथ्येति । खलानां गवां । रथानां च समूह इति विग्रहः । यद्यपि पाशादिष्वेव एषां पाठो युक्तः । तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः । इनित्रकटयत्वश्च । स्युरिति । इनि त्र कथ्यच् एते स्युरित्यर्थः । खलिनीति । खलानां समूह इति विग्रह: । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्ङीप् । गोत्रेति । गवां समूह इति विग्रह: । गोशब्दात् त्रः । लोकात् टापू । रथकट्येति । स्थानां समूह इति विग्रहः । कयचि ककारस्य नेवम्, अतद्धित इत्युक्तेः । स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वक्तव्यः इति । 'इनित्रकवचश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकय्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः" इति पृथक्कर्तव्यमित्यर्थः ।
1
विषयो देशे । समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोवारितात् षष्ठ्यन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह - षष्ठन्तादिति । विषयशब्द व्याचष्टे – अत्यन्तपरिशोलितेऽर्थे इति । देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह - स चेदिति । सः अत्यन्तपरिशोलितो.
For Private and Personal Use Only
Page #740
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ 1
बालमनोरमासहिता ।
शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः । ( १२६२ ) राजन्यादिभ्यो चु ४२५३॥ राजन्यकः । ( १२१३ ) भौरिक्याचेषुकार्यादिभ्यो विTera ४२५४ | भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । ( १२६४ ) सोऽस्यादिरिति च्छन्दसः प्राथेषु ४|२||५|| अण् । पङ्किरादिरस्येति पाङ्कः प्रगाथः । 'स्वार्थ उपसख्यानमू' ( वा २०४४ ) । त्रिष्टुबेव त्रैस्टुभम् । (१२६५) सङ्ग्रामे प्रयोजन
७३१
1
ऽर्थो देशइवेदित्यर्थः । एवं च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलि - तम् । विषयशब्दो ह्ययं कचित् ग्रामसमूहात्मके जनपदे वर्तते । तद्यथा - सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा चक्षुर्विषयो रूपमिति । क्वचिदन्यत्रावृतौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यन्त्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽनुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थं देशग्र. हणम् । शिनीनां विषयो देश इति । अत्यन्तपरिचितो देश इत्यर्थः । देवदत्तस्य विषय इति । अत्यन्तपरिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमात् न प्रत्यय इति भावः । विषय इति किम् । देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य गृहमित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम्, जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थं राजन्यादिभ्यः षष्ठ्यन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याचेषु । भौरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च षष्ठ्यन्तेभ्यः यथाक्रमं विधल, भक्तल, एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थं । भौरिकिविधमिति । भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति । भौलिकोमां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारलाय • नभक्तमिति । सारसायानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् ।
सोऽस्यादिः । ऋग्द्वयमाम्नातं पादावृत्त्या ऋत्रयं सम्पद्यते । स च सम्प्रगाध इति छन्दोगसूत्रे बहुवृचसूत्रे च प्रसिद्धम् । षष्ठयेकवचनस्थाने सप्तमीबहुवचनमार्थम् । सोsस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकात् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः । पङ्क्तिरादिरिति । षङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रगाथस्य सः पाक्तः प्रगाथः इत्युच्यते इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थे अणादिप्रत्ययस्योपसङ्ख्यानमित्यर्थः । त्रैष्टुभमिति ।
For Private and Personal Use Only
Page #741
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७३२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ चातुरर्थिक
यादुभ्यः ४|६|५६ ॥ 'सोऽस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य सङ्ग्रामस्य भारतः । (१२६६) तदस्यां प्रहर णमिति क्रीडायां णः ४ २५७ ॥ दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा । (१२६५) घञः सास्यां क्रियेति सः ४|२|५८ || घञन्तात्क्रियावा. चिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे नप्रत्ययः स्यात् । घञः इति कृदुप्रहणाद्गतिकारकपूर्वस्यापि प्रणम् । (१२६८) श्येनतिलस्य पाते में ६ | ३|७१ ॥ श्येन तिल एतयोर्मुमागमः स्यात् प्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोsert वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । इयैनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । (१२६६) तदधीते तद्वेद ४२५६॥ व्याकरणमधीते वेद वा वैयाकरण: । ( १२७० ) क्लीत्वं लोकात् । सङ्ग्रामे । अनुवर्तते इति । तथाच सङ्ग्राम इति सप्तम्यन्तं षष्ठा विपरिणतम् अस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सङ्ग्रा
I
योद्धार इत्यर्थे प्रयोजनयोदूष्टवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः । तदस्याम् । तत् अस्यां क्रीडायां प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकात् णप्रत्ययः स्यादित्यर्थः । प्रयिते अनेनेति प्रहरणम् आयुधम् । दाण्डेति । अणि तु ङीप् स्या दिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः । घञः सास्याम् । अस्यामित्यनन्तरं मृगयायामित्यादि स्त्रीलिङ्गविशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनः जः स्यादित्यर्थः । फलितमाह - घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते थे । मुमागमः इति । 'अरुद्विषत्' इत्यतः तदनुवृत्तेरिति भावः । ञप्रत्यये इति । अप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनम्पातेति । श्येनपातशब्दात् घञन्तात् ञः । यद्यपि पातशब्द एवं घञन्तः तथापि कृद्रग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथाच श्येनपातशब्दस्यादिवृद्धिः । तैलम्पाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन क्रीडायामिति नानुवर्तते इति सूचितम् । तदस्यामिति । प्रकृते पुनरस्यामिति ग्रहणात् ।
1
I
तदधीते । तदधीते इत्यर्थे तद्वे तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयर्थ्यात् । यथाचैतत्तथा
For Private and Personal Use Only
Page #742
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता।
७३३
-
ऋतूक्थादिसूत्रान्ताक ४।२।६०॥ ऋतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि, तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः वाज. पेयिकः उक्थं सामविशेषः । तल्लक्षणपरो प्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा शैक्षिकः । 'मुख्यार्थातूक्थशब्दाळेगणौ नेष्येते'। न्यायम्-नैयायिकः । वृत्तिम्-वार्तिकः । लोकायतम्-लौकायतिकः इत्यादि । 'सूत्रान्तात्त्वकल्पादेरेवेष्यते' (वा २७४)। साङ्महसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः। 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्' (वा २७४१) वायसविधिकः गोलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः । 'अङ्गशत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम्' (वा २७४५)। आगाविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या । ताम. अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणि 'नय्याभ्याम्। इत्यैजागमः। ऋतूक्थादि । 'तदधीते तद्वेद' इत्यर्थयोः ऋतु, उक्थादि, सूत्रान्त एभ्यः उक् स्यादित्यर्थः । ऋतुविशेषवाचिनामेवेति । न तु ऋतुशब्दस्यैवेत्यर्थः । अन्यथा उक्या. दिगण एवं क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमध्ययनम् । अक्षर. ग्रहणात्मकत्वाभावादित्यत आह-तेभ्य इति । अग्निष्टोमादिशब्दाः ऋतुविशेषेषु मुख्याः। तत्प्रतिपादकान्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः अग्निटोमादिशब्देभ्यः वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्येतरीत्यर्थः । श्राग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीते इति वार्थः। उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दात् ठगित्याह-उक्थं सामविशेष इति । 'अग्निष्टोमस्तोत्रात्परं यत्साम गोयते' इति वृत्तिकदुक्तरिति भावः। भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिनः उक्थशब्दात्तु न ठक् , तस्मिन्निषिद्धे तदधोते इत्यण च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितात् न्यायादिशब्दात् ठकमुदाहरति-न्यायमिति । अधीते वेत्ति वेति शेषः । नैयायिक इति । उकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः। वात्तिक इति । उकि आदिवृद्धौ रपरत्वम् । सामहसूत्रिक इति । समाहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । श्रङ्गेति । अन, क्षत्र, धर्म, त्रि एतत्पूर्वकाद्विद्यान्तात् समासात् ठक् नेत्यर्थः । ततश्च अणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यात्रिविद्या इति न विग्रहः, 'दिक्सख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद तद्धितार्थे
For Private and Personal Use Only
Page #743
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिदान्तकौमुदी
[चातुर्थिक
धोते वेद वा वियः । 'पाख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा २७४६) यव. क्रीतमधिकृत्य कृतमाख्यानमुपचाराधवक्रीतम् , तदधीते वेति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । 'अधिकृत्य कृते प्रन्थे। (सू १४६७) 'इत्यर्थे वृद्धाच्छः' (सू १३३७)। तस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । 'सर्वादेः मादेश्च लुग्वक्तव्यः' (वा २७४८)। सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवातिकः । 'द्विगोर्ख'-(सू १०८० ) इति लुक् । द्वितन्त्रः । इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः' (वा २७४९-२५५०) पूर्वपदिकः । उत्तरपदिकः । शतपथिकः-शतपथिकी । षष्टिपथिक:-षष्टिपथिकी । (१२७१) क्रमादिभ्यो
द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोलुंगनपत्ये' इति लुगापत्तेः । तिमृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्वाध एव ।
आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण एभ्यश्च उक्तेऽर्थे ठग्वकव्य इत्यर्थः । तत्र आख्यानशब्देन आख्यायिकाशब्देन च आख्यानविशेषवाचिनः आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहासपुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः । 'आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्! इत्यमरः । 'इतिहासः पुरावृत्तम्। इति च। .
'सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च ।।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ।' तत्र आख्यानादुदाहरति-यवक्रीतमिति । आख्यायिकाया उदाहरति-वासवदतामिति। लुग्वक्तव्य इति । उक्तप्रत्ययस्येति शेषः । सर्ववेद इति । अणो लुकि आदि. वृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः। सवार्तिक इति वार्तिकेन सह सवातिकम् । तेन सह इति बहुव्रीहिः । 'वोपसर्जनस्य' इति सभावः । सवातिक सूत्रमधीते इत्यर्थः। द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थं तद्धितार्थे द्विगुनिमित्तस्वा. दणो लुकि आदिवृद्धयभावे द्वितन्त्र इति रूपमित्यर्थः । इकन् पदोत्तरपदादिति । पदशब्दः उत्तरपदं यस्य सः पदोत्तरपदः तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः पि. कन्पथ इति । शतशब्दात् षष्टिशब्दाच्च परा यः पथिन्शब्दः तस्मात् उक्तेऽर्थे षिकन्. प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेति वेत्यर्थः। एवमत्तरपति कः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते घेति वेस्पा शतपथिकीति । पित्त्वात् नीषिति भावः । एवं षष्टिपथिकः । षष्टिपक्लिोति ।
For Private and Personal Use Only
Page #744
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
७३.
-
वुन् ४।२।६१॥ क्रमकः । क्रम पद शिक्षा मीमांसा । क्रमादिः (१२२७) अनु. ब्राह्मणादिनिः ॥२।६२॥ तदधीते तद्वेद' (सू १२६९ ) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं, तदधीतेऽनुब्राह्मणी । मत्वर्थीयनैव सिद्धेऽण्याधनाथमिदम् । (१२७३) वसन्तादिभ्यष्ठक ४।२।६३॥ वासन्तिकः । अपर्वाणमधीते भाथ. वैणिकः । 'दाण्डिनायन- (सू ११४५) इति सूत्रे निपातनाहिलोपो न (१२७४) प्रोक्ताल्लुक ४।१।४६॥ प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लक्स्यात् । पणनं पणः । 'घजथे कविधानम्' इति कः । सोऽस्यास्तीति पणी। तस्य गोत्रा. पत्यं पाणिनः। (१२७५) गाथिविदथिकेशिगणिपणितश्च ६४१६५॥ एतेऽणि प्रकृत्या स्युः । इति हिलोपो न । ततो यून्यपत्ये इज। पणिनिः । ___ क्रमादिभ्यो वुन् । तदधीते तद्वेद इत्यर्थे इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसकः इत्युदाहरणानि । अनुब्राह्मणादिनिः । शेषपूरणेन सूत्रं व्या. चष्टे-तदधीते तद्वदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथाच नकारस्योपदेशेऽन्त्यत्वाभावान्नेत्सज्ञा । ननु 'अत इनिठनौ इति मत्वर्थे इनिनैव सिद्धत्वादिदं ब्यर्थमित्यत आह-अण्वाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्ठक् । 'तदधीते तद्वेद' इत्येव । वासन्तिक इति । वसन्तवर्णनपरग्रन्थो वस. न्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदः लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य 'ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कयाह-दाण्डिनायनेति । वान्तसंयो. गपूर्वकत्वात्तु नाल्लोपः। ___ अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह-प्रोक्तार्थ. केति । पणनं पण इति । स्तुतिरित्यर्थः । ननु 'हलव' इति घनि उपधावृद्धिः स्यादि. त्यत आह-अर्थे इति । पणोति । 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति । षणिनो गोत्रापत्ये तस्यापत्यमित्यणि पाणिन इति रूपमित्यर्थः । अत्र अणः अपत्य. त्वात्तस्मिन् परे 'इनण्यनपत्ये' इति प्रकृतिभावाभावाहिलोपे प्राप्ते । गाथिविदथि । 'इनण्यनपत्ये इत्यतः अणीत्यनुवर्तते । 'प्रकृत्यकाच्' इत्यतः प्रकृत्येति च । तदाह -- एतेऽणि प्रकृत्या म्युरिति । गाथिन् , विदथिन् , केशिन , गणिन् , पणिन् एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिः पणी। तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दात् गोत्राणन्तात् अत इजि पाणिनिरिति रूप
For Private and Personal Use Only
Page #745
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्थिक
(१२७६) ण्यक्षत्रियार्षभितो यूनि लुगणिोः स४५८॥ ण्यप्रत्ययान्ताक्षस्त्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्तात् जितश्च परयोर्युवाभिधायि. नोरणियो क्स्यात् । कौरव्यः पिता। कौरव्यः पुत्रः । श्वाफरकः पिता । श्वा. फल्कः पुत्रः। वासिष्ठः पिता । वासिष्ठः पुत्रः। तैकायनिः पिता। तेकायनिः पुत्रः । एभ्यः किम् । शिवायण। कोहडः पिता । तत इम् । कौडहिः पुत्रः । यूनि किम् । वामरथ्यस्य च्छात्राः वामरथाः । इत्यणो लुक्तु न भवति । आप्र.
मित्यर्थः । पाणिनशब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इन् न सम्भवति, 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थापत्ये यूनि पणिनशब्दादनन्तरापत्यप्रत्ययान्तादिश् सम्भ. वति, गोत्राबून्यस्त्रियाम्' इति यून्यपत्ये। गोत्रप्रत्ययान्तादेवापत्यप्रत्ययनियमात् । अतः गोत्राण्प्रत्ययान्तात् पाणिनशब्दानि इम्प्रत्यय इत्युक्तमिति बोध्यम् । ___ अत्र इजो लुकमाशङ्कितुमाह-ज्य क्षत्रियार्ष। ण्यादयः स गोत्रप्रत्यया एवं गृह्यन्ते 'गोत्रानि इत्युक्तेः। तदाह-गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाह. रति-कौरव्य इति । कुरोः गोत्रापत्यं कौरव्यः । कुर्वादिभ्यो ण्यः। कौरव्यस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति-इवाफल्क इति । श्वफल्कस्य गोत्रापत्यं श्वाफल्कः । 'ऋष्यन्धक' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे अत इज् । तस्यानेन लुक् । आर्षप्रत्ययस्योदाहरति-वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण । वासिष्ठस्यापत्यं युवेत्यर्थे इम्। तस्यानेन लुक् । जित उदाहरति-तैकायनिरिति । तिकस्य गोत्रापत्यं तैकायनिः । तिकादिभ्यः फिन् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण । तस्यानेन लुक् । वामरथ्यस्येति । वाम. रथस्य गोत्रापत्यं वांमरथ्यः । कुर्वादिभ्यो ण्यः । वामरथ्यस्य छात्रा इत्यर्थे 'कण्वादिभ्यो गोत्रे' इति छापवादः अण, तस्यानेन लुङ् न भवति, तस्य युवार्थक स्वाभावादिति भावः।
इत्यणो लुक्तु न भवतीति । 'ण्यक्षत्रिय' इति सूत्रेण पाणिनिरित्यत्र ( अणः परस्य ) इजो लुङ्न भवतीत्यर्थः । कुत इत्यत आह-आर्षग्रहणेनेति । पाणिनिशब्दे पणिन्शब्दा. दण्प्रत्य यस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वामावान्न ततः परस्य इजो लुगिति भावः। न च पणिन्शब्दागोत्रापत्ये 'ऋष्यन्धक' इत्यणेव कुतो न स्यादिति वाच्यम् , यत्र औसगिकस्य अणः इादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थम् ऋष्यण प्रवृत्तः । वस्तुतस्तु 'वान्यस्मिन्सपिण्डे' इति सूत्रभाष्ये अत्रिश. ब्दात् 'इतश्चानिजः इति ढकि आत्रेयशब्दादिलो 'ण्यक्षत्रियार्ष' इति लुगित्युक्तत्वा.
For Private and Personal Use Only
Page #746
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
७३७
हृणेन प्रतिपदोक्तस्य ऋष्यण एवं ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । ‘वृद्धाच्छ:' ( सू १३३७ ) । 'इञश्च' ( सू १३३३ ) इत्यण् तु न । गोत्रे य इव् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः पः । पाणिनीया । ( १२७७) सूत्राच्च कोपधात् ४/२/६५ ॥ सूत्रवा चिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थ आरम्भः । अष्टा वध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीयते विदन्ति वा अष्टकाः । 'सख्या प्रकृतिकादिति वाच्यम्' | नेह | माहावार्तिकः । कालापकः । ( १२७= )
दिदमुपेक्ष्यम् | 'ण्यक्षत्रिय' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । पणिन् शब्दः, तदपत्ये पाणिनशब्दश्व न ऋषिवाचकौ । अतः औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितत् । पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थ 'तेन प्रोक्तम्' इत्यर्ण बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन जन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह - इञश्चेत्यण् तु नेति । पाणिनिशब्दे इज् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसञ्ज्ञया गोत्रसज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्यते इति उपरिष्टात् 'इञश्च' इति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति तस्य लुगिति भावः । ननु असत्यपि अध्येतृवेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह-स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितृप्रत्ययस्यानो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तः टापू च सिध्यति । तदाह-पाणिनीयः पाणिनीयेति ।
सूत्राच्च कोपधात् । ककारोपधादित्यनन्तरं परस्येति । शेषः । ननु 'प्रोक्ताल्लुक ' इत्येव सिद्धे किमर्थमिदमित्यत आह- श्रप्रोकार्य आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति । तदस्य परिमाणमित्यधिकारे 'महख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु' इति 'सङ्ख्याया अतिशदन्ताया: कनू' इति च सूत्ररूपेऽर्थे कन् । श्रष्टका इति । अष्टकशब्दादध्यतृवेदितृप्रत्ययस्य अनेन लुक, कोपधात्सूवाचिनः परत्वादिति भावः । सङ्ख्याप्रकृतिकादिति । 'सूत्राच्च कोपधात्' इति लुक् सडख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावातिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिक अत्र अणो न लुक् ।
बा० ४७
For Private and Personal Use Only
Page #747
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३%
सिद्धान्तकौमुदी
[चातुरर्थिक
छन्दोब्राह्मणानि च तद्विषयाणि ४।२।६६॥ छन्दांसि ब्राह्मणानि च प्रोक्त. प्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः। तस्य 'कठचरकात्(स १४८७ ) इति लुक् । ततोऽण् । तस्य 'प्रोकालुक्' ( सू १२७४ )।
-
__ अथ चातुरर्थिकाः। (१२७४) तदस्मिन्नस्तीति देशे तन्नाम्नि ४।२।६७ ॥ उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः। (१२८०) तेन निवृत्तम् ४।२।६८ ॥ कुशा. म्बेन निर्वृत्ता कौशाम्बी नगरी। (१२८१) तस्य निवासः ४ । २।६६ ॥
छन्दोब्राह्मणानि । छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषां द्वन्द्वः । वेद इति यावत्, मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात्। 'प्रोक्ताल्लुक्' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह-छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतवेदितृप्रत्यया विव. क्षिताः । तैविषयः भविनाभावः येषां तानि तद्विषयाणि । 'षिञ् बन्धने विशिष्य स यो बन्धः विषयः, अविनाभाव इति यावत् । अध्येतवेदितृप्रत्ययसंयुक्तान्येव स्यु. रित्यर्थः । फलितमाह-अध्येतवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवत् अध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्तमधीयते इत्यर्थे कठा इत्युदाहरणमिति भावः । तदुपपादयति-वैशम्पायनेति । कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यणपवादः वैशम्पायनान्तेवासिभ्यश्च' इति णिनिरित्यर्थः । तस्येति । णिनेः 'कठचरकाल्लुक इत्यनेन लुगित्यर्थः । एवञ्च कठेन प्रोक्तो वेदभागः कठ इति स्थि. तम् । ततोऽणिति । तस्मात् लुप्तप्रोक्तप्रत्ययकात् कठशब्दात् तदधीते इति अणित्यर्थः। तस्य प्रोक्ताल्लुगिति। तस्याध्येत्रणः 'प्रोक्ताल्लुक' इति लुगित्यर्थः । तथाच कठेन प्राक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तपत्ययान्तस्येति भावः। ___ अथ चातुर्राथकान् प्रत्ययान वस्तुमुपक्रमते । तदस्मिन्नस्तीति । तदस्मिन्नस्तीत्यर्थ प्रथमोच्चारितात्प्रन्थमान्तादणादयः स्युः । प्रत्ययान्तेन प्रकृतिनामके देशे गम्ये इत्यर्थः । प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोऽपवादः । तेन निवृत्तम् । देशे तन्नाम्नीत्यनुव. तते । तेन निवृत्तमित्यर्थ तृतीयान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः। तस्य निवासः । तन्नाम्नि देशे इत्येव । तस्य निवासः इत्यर्थे षष्ट्यन्तादणादयः स्युः तन्ना
For Private and Personal Use Only
Page #748
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७३8
शिबीनां निवासो देशः शैषः। (१२८२) अदूरभवश्व ४।२। ७० ॥ विदि. शाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुर्थिकस्त्वं सिध्यति । (१२८३) मोरञ् ।। २ । ७१ ॥ अणोऽपवादः । कक्षतु-काक्षतवम् । नयास्तु परत्वान्मतुप् । इक्षुमती । (१२८४) मतोश्च बह्वजङ्गात् ४।२ । ७२ ॥ बह्वच् आङ्गं यस्य मतुपस्तदन्तादम् । नाण् । सैन्ध्रकावतम् । बह्वच् इति किम् । आहिमतम् । अङ्गप्रहणं बह्वच् इति तद्विशेषण यथा स्यात् मत्वन्तविशेषणं मा भूत् । (१२८५) बह्वचः कूपेषु ४।२।७३॥ भणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः । (१२८६) उदक्व विपा. शः४।२।७४॥ विपाशः उत्तरे कूले ये कूपास्तेष्वम् । अबह्वज भारम्भः । दन्तेन निवृत्तो दान्तः कूपः । उदक् किम् । दक्षिणतः कूपेवणेव । (१२८७) सङ्कलादिभ्यश्च ४।२। ७५ ॥ कूपेषु इति निवृत्तम् । सङ्कलेन निवृत्तं साङ्कलम् । पौष्कलम् । (१२८८) स्त्रीषु सौवीरसाल्वप्राक्षु ४ । २ । ७६ ॥ स्त्रीलिङ्गध्वेषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निवृत्ता दात्तामित्री नगरी। म्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारण. मित्याहुः । अदूरभवश्च । तस्येति तन्नाम्नि देशे इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ट्यन्तादणायः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह-चकारेणेति । अदूरभवः इति विध्यनन्तरं प्रागुक्तास्त्रयोऽर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः । किमर्थमित्यत आह-तेनेति । अन्यथा संनिहितत्वात् अदूरभव इत्येव उत्त. रविधिष्वनुवर्ततेति भावः । चातुरर्थिकत्वमिति । चतुरयों भव इत्यर्थे द्विगोरध्यात्मा. दित्वाट्टक् । तद्धितार्थद्विगौ तु, 'द्विगोलुंगनपत्ये' इति लुक् स्यात । केचित्तु चतुर्णी सूत्राणामर्थाश्चतुराः, तत्र भवाश्चातुरथिका इत्याहुः । ओरन् । 'तदस्मिनास्ति' इत्यादिषु चतुर्वथेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद स्यात् , अणोऽपवादः । अनधिकारः 'सुवास्त्वादिभ्योऽण' इति यावत् । काक्षतवमिति । कक्षतुरस्मिन्नस्ती. त्यादि विग्रहः । मतोश्च । सैध्रकावतामिति । सिध्रकावानस्मिनस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः। श्राहिमतमिति। अहिमानस्मिन्नस्तीत्यादयोऽर्थाः। अहिशब्दस्य द्वयकत्वादन नेति भावः । ___बचः कूपेषु । बह्वचः प्रातिपदिकात् अञ् चतुयथेषु अणोऽपवादः । दीर्घवस्त्रेण निवृत्तः कूपः दैर्घवरत्रः । उदक्च विपाशः। उत्तरे कूले इति । विपाशशब्दः शका. रान्तो नदीविशेषवाची। सङ्कलादिग्यश्च । निर्वत्तमिति । ध्याख्यानादिति भावः । अणोऽपवादा पौष्कलमिति । पुष्कलेन निवृत्तमिति विग्रहः । स्त्रीषु सौवीर । सौवीरे इति ।
For Private and Personal Use Only
Page #749
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४०
सिद्धान्तकौमुदी
[चातुरर्थिक
-
साल्वे, वैधूमाग्नी। प्राचि, माकन्दी । (१२८) सुवास्त्वादिभ्योऽण् । ४।२।७७ । अोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ण-वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी । (१२४०) रोणी ४।२।८ ॥ रोणीशब्दात्तदन्ताचाण । कूपानोऽपवादः। रौणः । आजकरौणः । (१२९१) को. पधाच्च ४ । २ । ७६ || अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । काकवाकवम् । त्रैशङ्कवम् । (१२४२) कुछ कठजिलसेनिरढण्ययफक्फित्रिभयकाठकोऽरीहणकृशाश्वर्य कुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबल. पक्षणसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ४ । २ । ० ॥ सप्तदशभ्यः गणेभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ्। भरीहणेन निवृत्त. उदाहरणं वक्ष्यत इति शेषः । दात्तामित्री नगरीति । 'टिड्ड' इति ङीप् । साल्वे इति । उदाहियत इति शेषः। वैधूमाग्नीति । विधूमाग्निना निवृत्तेत्यर्थः । अनि डीप। प्राचीति । प्राचि देशे उदाहयत इत्यर्थः । माकन्दीति । माकन्देन निर्वत्तेत्यर्थः।।
सुवास्त्वादिभ्योऽण । अञ इति । ओरजित्यस्यापवाद इत्यर्थः। सौवास्तवमिति । अणि ओर्गुणः । वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननु 'ओरज्' इत्येव सिद्धे पुनर्वि. धिसामर्थ्यादेव तदननवृत्तो अणि सिद्धे पुनरग्रहणं व्यर्थमित्यत आह-अण्ग्रहणमिति रोणी । लुप्तपञ्चमीकमिदम् । तदन्तादिति । 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्यः यविधावपि तदन्तविधिरिति भावः । रौण इति । रोण्या निर्वत्तः कूप इत्यर्थः । आजकरोण इति । अजकरोण्या निवृत्त इत्यर्थः । अणि 'यस्य' इति इकारलोपः। कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति ॥ कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः, आदिवृद्धौ उपरत्वम् । शङ्कवमिति । त्रिशकुना निर्वृत्तः कूपः इत्यर्थः।
वुच्छण् । वुज छण , क, ठच , इल, स, इनि, र, ढ, ण्य, य, फक , फिञ् , इम, ज्य, कक् , ठक् एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् । अरोहण, कृशाच, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन् , सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन, वराह, कुमुद एतेषां सप्तदशानां द्वन्द्वः । एते आदयः येषामिति बहुव्रीहेः पञ्चमीबहुव. चनम् । यथासङ्ख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभा. वस्तु इकारान्तत्वभ्रमनिरासाय। द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणा. दिषु प्रत्येकमन्वयः । तथाच अरीणादिभ्यो वुञ् , कृशाचादिभ्यः छण् इत्येवं सप्तदश वाक्यानि सम्पन्नानि । तदाह-सप्तदशभ्य इति । अरोहणादिसप्तदश. गणेभ्यः वुनादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरर्थ्यामिति । तदस्मिन्नस्तीति
For Private and Personal Use Only
Page #750
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७४१
मारीहणकम् । कृशाश्वादिभ्यश्छण् । काश्विीयम् । ऋश्यादिभ्यः कः। ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः। प्रेक्षी। अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्य ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । 'पथः पन्थ च' ( ग सू ७९) पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ्। सौतङ्गमिः । प्रगद्यादिभ्यो व्यः । प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक । कौमुदिकः । (१२६३) जनपदे लुप् ४।२।१॥ जनपदे वाच्ये चातुर. र्थिकस्य लुप्स्यात् । (१२६४) लुपि युक्तवद्यक्तिवचने १।२। ५१ ॥ लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । (१२४५) तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३ ॥ युक्तवद्वचनं न कर्तव्यम् । संज्ञान प्रमाणत्वात् । (१२६६) लुब्योगाप्रख्यानात् ।। २।५४ ॥ लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।
देशे तन्नाम्नि 'तेन निवृत्तम्' 'तस्य निवांसः' 'अदूरभवश्च' इति चतुर्वथेषु प्रथमो. च्चारितात्तद्विभक्त्यन्तात् यथायोगं प्रत्ययाः इति फलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुराः अन्वयः । प्रक्षीति । प्रेक्षते इति प्रेक्षा, तेन निवृत्तमित्यर्थः। प्रेक्षया निर्वत्तमिति वा । पथःपन्थ च इति । पक्षादि. गणसूत्रमिदम् । पान्थायन इति । पथो अदूरभव इत्यर्थः । .. जनपदे लुप् । चातुरर्थिकस्येति । प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दः युक्तः, व्यक्तिः लिङ्ग, वचनं सङ्ख्येति पूर्वाचार्यसङ्केतः । तदाह-लुपि सति प्रकृ. तिवल्लिङ्गनवचने स्त इति । लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्र. कृतेर्यल्लिङ्गवचनं ते एव लपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । पञ्चालसञ्ज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । 'तस्य निवासः' इति विहितल्याणः 'जनपदे लुप्' इति लुपि प्रकृतिवत् बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम् अङ्गानां वङ्गानां कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे । तदशिष्यम् । यथा दाराः इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपा. र्थस्य भानम् , तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वा. र्थस्य लोकव्यवहारादेव भानं सम्भवति, न तु तदेशे शास्त्रव्यापारापेक्षेति भावः ।
For Private and Personal Use Only
Page #751
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४२
सिद्धान्तकौमुदी
[चातुरर्थिक
-
(१२६७) योगप्रमाणे च तदभावेऽदर्शनं स्यात् १ । २।५५ ॥ यदि हि योगस्यावयवार्यस्येदं बोषकं स्यात्तदा तदभावे न दृश्येत । (१२४८) प्रधा. नप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् १ । २।५६ ॥ 'प्रत्ययाः प्रधानम्' इत्येवंरूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धः। (१२४६) कालोपसर्जने च तुल्यम् १ । २ । ५७ ॥ अतीतायाः रात्रेः पश्चार्धेनागा. मिन्याः पूर्वाद्धेन च सहितो दिवसोऽद्यतनः, विशेषणमुपसजनम् , इत्यादि पूवाचार्यैः परिभाषितम् । तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धः। (१३००) विशेषणानां चाजातेः१।२।५२॥ लुबर्थस्य विशेषणानामपि तद्वलित वचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः। गोदी रमणीयो । अजातेः सज्ञानामिति । लोकव्यवहाराणामित्यर्थः । एवं च लुबपि न विधेय इत्याह-लुब्योगा. प्रख्यानात् । अशिष्यमित्यनुवृत्तं पुंलिङ्गन विपरिणतं लुबित्यनन्तरं सम्बध्यते । तदाह-लुबपि न कर्तव्य इति । योगः अवयवार्थः तस्य अप्रख्यानात् अप्रतीतेरित्यर्थः । तदाह-अवयवेति । नहि पञ्चालागवङ्गादिसम्बन्धित्वेन पञ्चालाः अङ्गाः वङ्गाः इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः । प्रत्ययस्वीकारे बाधकमाहयोगप्रमाणे च । पञ्चालाङ्गवङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापकत्वे सति तदभावे पञ्चालाङ्गादिक्षत्रिय सम्बन्धाभावे सम्प्रति शूद्रादिराजके जनपदे पञ्चालादि. शब्दो न प्रयुज्येत, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा: जनपदविशेषेषु केवल. रूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति ।
अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निरावष्टे-प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति । प्रकृत्यर्थ प्रति प्रत्ययार्थः प्रधान विशेष्यम् , प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः। कालोपसर्जने च। कालश्च उपसर्जनं चेति समाहारद्वन्द्वात् विषयसप्तमी अशिष्यमित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचन विशदयन् व्याचष्टे- अतीताया इत्यादिना। विशेषणानां चाजातेः । कस्य विशेषणानामित्याका
क्षायां लुबित्यनुवृत्तं षष्ठ्या विपरिणतं सम्बध्यते, लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह-लुबर्थस्येति । तद्वदिति । प्रकृतिवदित्यर्थः । 'लुपि युक्तवव्यक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषण. स्यापि रमणीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदो रमणीयाविति । गोदयोनिवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवत् द्विव.
For Private and Personal Use Only
Page #752
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
किम् । पञ्चाला जनपद: : गोदौ प्रामः । ' हरीतक्यादिषु व्यक्तिः' ( वा ७१५ ) हरीतक्याः फलानि हरीतक्यः । 'खलतिकादिषु वचनम् ' ( वा ७१६ ) । खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः ' ( वा ७१७ ) मनुष्यलक्षणे लुमर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः । (१३०१) वरणादिभ्यश्च ४ । २ । ८२ ॥ अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः । (१३०२) शर्कराया वा४ २२३॥ अस्माचातुरर्थिकस्य वा लुप्स्यात् । (१३०३) ठक्छौ च ४ २६४ ॥ शर्कराया एतौ स्तः । कुमुदादो वराहादौ च पाठसामर्थ्यास्पक्षे ठच्कको । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् ।
७४३
चनम् । पञ्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवत् द्विचनम् । हरीतक्यादिषु व्यक्तिरिति । वार्तिकमिदम् । लुपि लिङ्ग प्रकृतिवद्भवति । न तु वचनमिति शेषः । हरीतक्याः फलानि हरीतक्य इति । 'हरीतक्यादिभ्यश्च' इति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः । खलतिकादिषु वचनम् । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति नतु लिङ्गमित्यर्थः । खलतिकं वनानीति । 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिकमिदम् । मनुष्यलक्षणे इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गचचनप्रतिषेध इत्यर्थः । चञ्चा श्रभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा | 'वे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्' इति कनः 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वम् नतु तद्विशेषस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ।
"
For Private and Personal Use Only
-
1
अथ प्रकृतमारभते । वरणादिभ्यश्च । 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणेव सिद्धे किमर्थमिदमित्यत आह- जनपदार्थ आरम्भ इति । वरणानामिति । वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं पूजार्थं वा बहुवचनम् । वरणानामदूरभवं नगरं चरणाः । अत्र लुप्तप्रत्ययान्तस्य वरेणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्ग बहुवचनं च । शर्कराया वा । लुबित्यनुवर्तते । प्रत्यासत्या चातुरर्थिकस्येति लभ्यते । तदाह - श्रस्मादिति । ठक्छौ च । शर्कराया इत्यनुवर्तते । तदाह - शर्कराया एतौ स्त इति । ठच्ककाविति । कुमुदादित्वात् ठच्, वराहादित्वात् कक् इति विवेकः । वाग्रह
Page #753
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४४
सिद्धान्तकौमुदी
[चातुरर्थिक
तस्य लुम्विकल्पः । षड् रूपाणि। शर्करा-शार्करम्-शारिकम्-शर्वरीयम्-शर्करिकम्-शार्करकम् । (१३०४) नद्यां मतुप ४ । २ । ८५ ॥ चातुरर्थिकः । इक्षु. मती। (१३०५) मध्वादिभ्यश्च ४ । २ । ८६ ॥ मतुप्स्याच्चातुरर्थिकः । मधु: मान् । मनद्यर्थ आरम्भः । (१३०६) कुमुदनडवेतसेभ्यो ड्रमतुपाशा कुमुद्वान् । नड्वान् । वेतस्वान् । आययोः 'झयः' ( सू १८९८ ) इति, अन्त्ये 'मादुपधया:-' (सू १८९७ ) इति वक्ष्यमाणेन कः। 'महिषाच्चेति वक्तव्यम्' (वा २५६१ ) महिष्मानाम देशः । (१३०७) नडशादाड्ड्व लच ४।२। ऐति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयादिति भावः । शर्करे ति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । ठकि रूपम् । शरीयमिति । छे रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करक मिति । ककि रूपम् । शर्कराः सन्त्यस्मिन् इत्यर्थः, शर्कराभिः निर्वृत्तमिति वा। __ नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षुमतीति । मतुपि उपावितौ। इक्षवः सन्त्यस्मिन् इत्यर्थः । मधवादिभ्यच्च । शेषपूरणेन सूत्रं व्याचष्टे-मतुप् स्याच्चातुर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आहअनद्यर्थ इति । कुमुदनड । कुमुद नड वेतस एतेभ्यः ड्मतुप् स्यादित्यर्थः । डकास उपौ च इतः । अयं मत्वर्थ एवेति 'न पदान्त' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वा. निति । कुमुदाः अस्मिन् सन्तीति विग्रहः । ड्मतुपि डित्त्वात् टिलोपः । नड्वानिति । नडाः अस्मिन् सन्तीति विग्रहः । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । वेतत्वानिति । वेतसाः अस्मिन् सन्तीति विग्रहः । श्राद्ययोरिति । कुमुदच्छब्दे नड्वच्छब्दे च 'झया' इति मतुपो मस्य वकारः । वेतस्वच्छब्दे तु 'मादुपधायाः' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झया' इत्यस्यासिद्धत्वात् 'मादप. धायाः' इत्येव न्याय्यम् , 'प्रकरणे प्रकरणमसिद्धम् , नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्यासिद्धत्वम्' इत्यस्य उपसर्गादसमासे' इति सूत्रभाष्ये दूषित. त्वात् । वेतस्वानित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्त्वात्। 'न पदान्त' इति निषेधस्तु न, पदे अन्त हति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परप्रदस्थाजादेश. स्यैव तन्निषेधप्रवृत्तेर्भाष्याभ्युपगतत्वात् 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न. पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पद. चरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः। महिषाच्चेत्यनन्तरं तु ड्मतुबिति शेषः । महिष्मानिति । महिषाः अस्मिन् सन्तीति विग्रहः । डित्त्वाहिलोपः। अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । प्रत्यये भाषायां
For Private and Personal Use Only
Page #754
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
८८ || नड्वलः | 'शादो जम्बालघासयोः' इत्यमरः । शाइल: । ( १३०८) शिखाया वलच् ४ । २ । ८६ ॥ शिखावलम् । (१३०६) उत्करादिभ्यश्छः। । ४ । २ । ६० ॥ उत्करीयः । (१३१०) नडादीनां कुक्च ४ । २ । ६१ ॥ नङकीयम् । 'क्रुञ्चा ह्रस्वत्वं च ' (ग सू ८० ) । क्रुञ्चकीयः । 'तक्षन्नलोपश्च ' (ग सू ८१ ) तक्षकीयः । (१३११) बिल्वकादिभ्यश्लस्य लुकू६|४|१५३॥ नाद्यन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्तद्धिते परे । बिरुवा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वैत्रकीयाः – वैत्रकाः । छस्य किम् । छमा त्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत् । अन्यथा 'सन्नियोगशिष्टानाम् ' ( प ८७) इति कुगति निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् । इति तद्धिते चातुरर्थिकप्रकरणम् ।
G8q
I
नित्यम् इति तु न । तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति । नडशादावलच् । नड्वल इति । ङित्त्वाट्टिलोपः । शादल इति । शादाः अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । 'नडप्राये नड्वान्नड्वल इत्य. पि' इत्यमरः । ' शाद्वल: शादहरिते' इति च । शिखाया वलच् । निर्वृत्ताद्यर्थं सूत्रं देशे तन्नाम्नि अणो बाधनार्थं च । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं तु अदेशेऽपि शिखावलः इति रूपार्थम् । उत्करादिभ्यइन्द्रः । चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽयम् | उत्करेण निर्वृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडाशैनां कुक्च । नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुकू च । कुञ्चाहस्वत्वं चेति । नडादिगणसूत्रम् । क्रञ्चाशब्दाच्छः प्रकृतेः कुकू, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति । क्रुञ्चा] अस्मिन् सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गणसूत्रम् । तक्षन्शब्दात् छः कुक्, नकारस्य लोपश्च ।
I
बिल्वकादिभ्यश्वस्य लुकू । षाष्ठमिदं सूत्रम् । बिल्वकादीति नडाद्यन्तर्गत बिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धिते इति । 'आपत्यस्य च तद्धिते' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति । 'नडादीनां कुक्कू च' इति छः । प्रकृतेः कुक् च । तस्यां भवाः, बैल्वका इति । बिल्वकीयाशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वेत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृतेः कुकू च इति भावः । वैत्रका इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दात् अणि छस्य लुगिति भावः । ह्रस्य किमिति । एभ्यः परस्य छस्यैव सम्भव इति प्रश्नः । संनियोगेति । 'संनियोग शिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । 'ढे लोपोsaद्रवाः' इत्यतो लोप इत्यनुवृत्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह
1
For Private and Personal Use Only
Page #755
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते शैषिक
अथ तद्धिते शैषिकप्रकरणम् ॥ २९ ॥ (१३१२) शेषे ४ । २ । १२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, त. त्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दाणेदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुभिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दश रक्षः । 'शेषे' इति लक्षणं चाधिकारश्च । 'तस्य विकारः' इत्यतः प्रापछेषाधिकारः । (१३१३) राष्ट्रावारपाराद्धखौ ।२। ६३ ॥ आभ्या क्रमाद्धखौ स्तः शेषे । राष्ट्रियः। अवारपारीणः । अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्। लुग्ग्रहणं सर्वलोपार्थमिति प्रत्ययादर्शनस्यैव लुक्शब्दार्थत्वात् कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह-लोपो हीति । लोपविधी, 'सूर्यतिष्य' इत्यतः य उपधायाः इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईय. स्य उपधाभूतो यो यकारः तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । य उपधायाः इत्यनुवृत्तौ तु 'आदेः परस्य' इति ईकारस्यैव लोपः स्यादिति भावः ।
इति तद्धिते चातुरर्थिकप्रकरणम् ।
अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति 'प्राग्दीव्यतोऽण्' इत्यादिसाधारणाः प्रत्यया इत्यर्थः । चतुभिरिति । अश्वादिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतु. दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । लक्षणमिति । प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तर. सूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः। अधिकारत्वे तु उत्तरसूत्रेष्वेवानुत्तिलाभा. दिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः, स्वरितत्वा. दिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नव उत्तरसू. श्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधि. कारो व्यर्थ इति वाच्यम् , 'तस्येदम्' इत्यादावपत्यादिचतुर्थ्यन्तार्थानां ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्' इत्येव अणादिसिद्धः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यम् , शषिकान्मतुबर्थीयात्' इत्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्यायपि न शेषः, 'इदंविशेषा ह्येते अपत्यं समूहो विकारो निवासः' इति भाष्यात् । प्रपञ्चित चैतत् तस्यापत्यम्' इत्यत्र 'तस्येदमित्यपत्येऽपि इत्यादिश्लोकवार्तिकव्याख्यावसरे।
राष्टावारपाराद्घखौ । प्राभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति राष्ट्रे जातः भवः इत्यादिरों यथायथं बोध्यः । घस्य इयः । अवारपारीण इति। खस्य
For Private and Personal Use Only
Page #756
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
ग्राम्यः
I
( वा २७७१ - २७७२ ) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयन्ता प्रत्यया उच्यन्ते । तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते । (१३१४) ग्रामाद्यखञौ ४ । २ । ६४ प्रामीणः । ( २३१५) कल्यादिभ्यो ढकञ् ४ । २ । ६५ ॥ कुत्सितात्रयः कत्त्रयः । तत्र जातादिः कास्त्रेयकः । नागरेयकः । ग्रामात् इत्यनुवृत्तेप्रमेयकः । (१३१६) कुलकुक्षिप्रीवाभ्यः श्वास्यलङ्कारेषु ४ । २ । ६६ ॥ कौलेयकः वा । कौलोsन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । मैवोऽन्यः । (१३१७) नद्यादिभ्यो ढक् ४ । २ । ६७ ॥ नादेयम् । माहेयम् । वाराण सेयम् । (१३१ ) दक्षिणापश्चात्पुरसस्त्यकू ४ । २ । ६८ ॥ दक्षिणा ईनादेशः, णत्वम् । अवारपाराद्विगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारम्य 'विभाषा पूर्वाह्नापराद्वाभ्याम्' इत्यन्तैः सूत्रैः राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेSथें प्रत्ययाविहिताः । तस्यापत्यमित्यादिवदर्थ विशेषास्तु न निर्दिश्यन्ते । यत्किञ्चिद्विभक्त्यन्तेभ्यः राष्ट्रादिप्रकृतिविशेषेभ्यः घादयः ट्युट्युलन्ताः प्रत्ययाः स्युः, 'समर्थानां प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह - छह प्रकृती. त्यादिना । राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनाम् अर्थ विशेषविभक्तिविशेषाकाङ्क्षायां, 'तत्र जातः' इत्यादिसूत्राणां च केवलमर्थ विशेष निर्देशपराणां 'समर्थानाम्' इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षाय परस्परमेकवाक्यत्वे सति तत्र जातः इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यः राष्ट्रादिशब्देभ्यो घादया ट्युट्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्रान्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखनौ । ग्राम्य इति । प्रत्यये 'यस्येति च' इति लोपः । ग्रामीण इति । खञ इनादेशः, णत्वम् । कल्यादिभ्यो ढकञ् । कस्त्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः । 'श्रौ च' इति कोः कदादेशः । कात्रेयक इति । ढकन्, ढकारस्य एयादेशः 'लोपोः व्योः' इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दात् ढकनपि लभ्यते इत्यर्थः । कुलकुक्षि । कुलाच्छुनि, कुक्षेः असौ, ग्रीवाया। अलङ्कारे ढकञित्यर्थः । कौलेयकः श्वेति । कुले जातादिरिति विग्रहः । कौक्षेय कोऽसिरिति । कुक्षौ कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयव इति । ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् । माहेयमिति । मही
1
For Private and Personal Use Only
७४७
--
4
Page #757
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४८
सिद्धान्तकौमुदी
[तद्धिते शैषिक
इत्याजन्तमव्ययम् । दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः । (१३१६) कापि. श्याप्रुफक ४ । २ । 88 || कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । (१३२०) रङ्कोरमनुष्येऽण्च ४।२। १०० ॥ चारष्फक् । राङ्कयो गौः। राङ्कवायणः । अमनुष्ये इति किम् । रावको मनुष्यः । (१३२१) धुप्रागप्रागुदक्प्रतीचो यत् ४ । २।१०१॥ दिव्यम् । प्राच्यम् । अपा. च्यम् । उदीच्यम् । प्रतीच्यम् । (१३२२) कन्थायाष्ठक् ४ । २ । १०२॥ कान्थिकः। (१३२३) वर्णों वुक ४।२।१०३ ॥ वर्गुसमोपदेशो वणुः । तद्विषयार्थवाचिकन्याश ब्दावुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम्' । (१३२४) अव्ययायप४।२। १०४ ॥ 'अमेहक्कतसित्रेभ्य एव' (वा २७७९ )। 'अमान्तिकसहार्थयोः' । अमात्यः । इहत्यः । क्वत्यः। ततस्त्यः । तत्रत्यः । परिगणनम् किम् । उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानो भमात्रे टि भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः । दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्यत इति भावः । दक्षिणा, प. श्वात् , पुरस् एभ्योऽव्ययेभ्यो जाताधर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्याष्ष्फक । कापिश्याः फक् इति छेदः । कापिशीशब्दात् ष्फ स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । पित्त्वात ङीष् । रङ्कोरमनुष्येऽण् च । रङ्कोरण स्यात् चात् ष्फक् । राङ्कयो गौरिति । रङ्कुर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान फगणी । किन्तु 'मनुष्यतत्स्थयोः' इति वक्ष्यमाणो वुञ् अकादेशः । रावको मनुष्यः इति त्वपपाठः ।
धुप्रागप्राक् । दिव् , प्राञ्च् , अपाञ्च् , उदञ्च् , प्रत्यञ्च् एभ्यो यत्स्या दित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः। दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्य. मिति । प्राचि प्रदेशे जातादीत्यर्थः। तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्' इति नलोपे 'अचः' इत्यकारलोपे 'चौ इति दीधे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति। अत्र 'उद ईत्' इति ईत्त्वं विशेषः । प्रतोच्यमिति । प्राच्यवद्रूपम् । कन्थायाष्टक् । तिर्यक्स्यूतबहुवस्नखण्डसमूहः कन्या। देशविशेष इत्यन्ये । वर्णों वुक् । वर्गुसमीपेति । वर्गुर्नाम सिन्धुनदः, तस्यादूरभव इत्य) सुवास्त्वादित्वादित्वादणो 'जनपदे लुप्' इति लुप् । तथाच वणुसमीपदेशो वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत् । अव्ययात्यप । अमेहेति । अमा, इह, व तसि, त्र एभ्य एव अव्ययेभ्यः त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति । उपरिष्टादित्यव्ययस्य
For Private and Personal Use Only
Page #758
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७४8
-
.ma....n.narwww.www.winni
लोपः। (वा ४१८७ ) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरा. तीयः । शाश्वतीयः । 'त्यब्नेधुंव इति वक्तव्यम्। (वा २७४०)। नित्यः । 'निसो गते' (वा २७८१) (१३२१) ह्रस्वात्तादो तद्धिते ८।३ । १०२ ॥ ह्रस्वा. दिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः। 'अरण्याण्णः' (वा २७८२ )। आरण्याः सुमनसः । 'दूरादेत्यः (वा २७८३) दूरेत्यः । 'उत्तरादाहञ्' (वा २७७४ ) । औत्तराहः । (१३२६) ऐषमोद्यश्व. सोऽन्यतरस्याम् ।। २ । १०५ ॥ एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणो व्युट्युलोऐषमस्त्यम्-ऐषमस्तनम् । यस्त्यम्-यस्तनम् । श्वस्त्यम्-श्वस्तनम् । पक्षे शौव. परिगणितेष्वनन्तर्भावात् न त्यप् , अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह-अव्ययानामिति । वातिकमिदम् । भमात्रे इति । कात्स्न्ये मात्रशब्दः । कृत्वस्य भस्याव्ययस्य टेलोपः। 'नस्तद्धिते' इत्याधुपाधि पेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह-अनि. त्योऽयमिति । त्यब्नेरिति । नि इत्यव्ययात् त्यप् स्याध्रुवे गम्ये इत्यर्थः । 'नियतं भवं नित्यम्' इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्या वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । ह्रस्वात्तादौ । इण्कोरित्यतः इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः सः इति षष्टयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इति च । तदाह-हस्वादिण इति । निष्टय इति । त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः।।
अरण्याण्ण इति । वक्तव्य इति शेषः । श्रारण्याः सुमनस इति । 'स्त्रियः समनसः पुष्पम्' इत्यमरः । अरण्ये भवा इत्यथें णप्रत्यये टापि आरण्या इति रूपम् । अणि तु डीप स्यादिति भावः । दूरादेत्य इति । वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वार्थः । दूरादित्यव्ययात् एत्यप्रत्यये अव्ययानां भमात्रे इति टिलोपः। उत्तरादाहमिति । वाच्य इति शेषः । औत्तराह इति । उत्तरस्मादागतः उत्तरस्मिन् भव इति वार्थः । औत्तर इति त्वसाधु । ऐषमोद्यः। एभ्य इति । ऐषमस् , यस् , श्वस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरम्प्राहे.प्रगेऽव्ययेभ्यष्टयुटयुलौ तुटच' इत्य. नेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमि. त्यर्थः । 'परुत्परायेषमोऽब्दे पूर्वे पूर्वतरे यति ।' इत्यमरः । ऐषमस्तनमिति । ट्युट्यलौ वा । टावितो, बोरनादेशः, तस्य तु , ट इत् , उकार उच्चारणार्थः, टित्त्वादाधव. यवः । प्रस्त्यं-ह्य स्तनमिति । ह्यम् इत्यव्ययं गतेऽति । तत्र भवमित्यर्थः । श्वस्त्यम्श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः । 'यो गतेऽनागतेऽकि
For Private and Personal Use Only
Page #759
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५०
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
स्तिकं वक्ष्यते । (१३२७) तीररूपोत्तरपदादयौ ४।२। १०६ ॥ यथासङ्ख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूपान्तात् इति नोक्तम् । बहुचपूर्वान्मा भूत् । बाहुरूपम् । (२३२८) दिक्पूर्वापदादसंज्ञायां घः४।२।१०७॥ अणोऽपवादः । पौवंशालः । असंज्ञायाम् किम् । संज्ञा. भूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्या भवः पूर्वेषुकामशमः । 'प्राचा प्रामनग. राणाम्' (सू १४००) इत्युत्तरपदवृद्धिः । (१३२६) मद्रेभ्योऽञ् ४ा२।१०८ दिक्पूर्वपदात् इत्येव । 'दिशोऽमद्राणाम्। (सू १३९९ ) इति मद्रपदासादादि. वृद्धिः। पौर्वमद्रः । आपरमद्रः। (१३३०) उदीच्यग्रामाच बदचोऽन्तो. दात्तात् ४ । २ । १०६ ॥ अञ् स्यात् । शैवपुरम् । (१३३१) प्रस्थोत्तर पदपलद्यादिकोपधादण ४ । २ । ११० । माहिकिप्रस्थः । पालदः । नेली. नकः । (१३३२) कण्वादिभ्यो गोत्रे ४।२। १११ ॥ एभ्यो गोत्रप्रत्यया
श्वः' इत्यमरः । पक्षे इति । 'श्वसस्तुट् च' इति उनि तस्य इकादेशे तुडागमे 'द्वारा. दीनां च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः।
तीररूप । तीरोत्तरपदात् रूपोत्तरपदाच्च क्रमादयश्चेत्यर्थः । काकतीरमिति । ककतीरे भवमित्यर्थः । पाल्बलतीरमिति । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति। शिव. रूपे भवमित्यर्थः । रूप्योत्तरपदेति क्वचित्पाठः। तथा सति ज्यप्रत्यये 'यस्येति चा इत्यकारलोपे द्वियकारं रूपम् । बाहुरूपमिति । 'विभाषा सुपो बहुच पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाभावान्न ज्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असज्ञाभूतात् दिक्पूर्वपदकात् नः स्यादित्यर्थः। पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे 'तद्धितार्थ' इति समासात् जः । मद्रेभ्योञ्। इत्येवेति । दिक्पूर्वात् मद्रशब्दादमित्यर्थः । पर्युदासादिति। उत्तरपदवृद्धः पर्युदासे सति आदि. वृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्वेषु भव इत्यर्थः । उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः। तत्र भव. मित्यर्थः । समासस्येत्यन्तोदात्त: शिवपुरशब्दः । बह्वचः किम् । ध्वनी ( ङीषन्तो) नाम उत्तरदेशे ग्रामविशेषः । तत्र भवः ध्वाजः । अन्तोदात्तात्किम् । शार्करीधानम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानात् मध्योदात्तोऽयम् ।
प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच्च अणित्यर्थः। पलदिः आ. दिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अमोऽपवादः। माहिकिप्रस्थ इति । महि. किंप्रस्थनाम्नि ग्रामे भव इत्यर्थः। पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः।
For Private and Personal Use Only
Page #760
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
૫૧
`न्तेभ्योऽण्यस्यात् । कण्वो गर्गादिः । काण्ण्यस्य छात्राः काण्वाः । (१३३३) इञश्च ४ । २ । १२२ ॥ गोत्रे य इम् तदन्तादण्स्यात् । दाक्षाः । गोत्रे किम् । सोतङ्गमेरिदं सौतमीयम् । गोत्रमिह शास्त्रीयं, न तु लौकिकम् । तेनेह न । पाणिनीयम् । (१३३४) न द्व्यचः प्राच्यभरतेषु ४ । २ । ११६ ॥ 'इन' ( सू १३३३ ) इत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यत्वेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् । (१३३५) वृद्धिर्यस्याचामादिस्तबृद्धम् १ | १ | ७३ ॥ यस्य समुदायस्याचो मध्ये आदिवृद्धिस्तद्वृद्धसंज्ञं स्यात् । (१३३६) त्यदादीनि च १ । १ । ७४ ॥ वृद्धसंज्ञानि स्युः । (१३३७) वृद्धाच्छः ४ । २ । ११४ ॥ शालीयः । मालीयः । तदीयः । (१३३८) एङ प्राचां देशे १।११७५ ॥ एड् यस्याचामादिस्तद्वृद्धसंज्ञं वा
1
I
नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः । कण्वादिभ्यो गोत्रे । काव्यस्येति । कण्वस्य गोत्रापत्यं काण्व्यः । गर्गादियञ् । काण्व्यस्य छात्रा इत्यर्थे अनेन छापवादोsr | 'यस्येति च' इत्यकारलोपः । 'आपत्यस्य च' इति यकारलोपः काण्वा इति रूपम् । इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः । अत इञ् । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः । 'सुतङ्गमादिभ्य इज्’ सौतङ्गमेरिदमित्यर्थं वृद्धात् छः, न त्वण्, इजो गोत्रार्थकत्वाभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तः । तथापि ह सूत्रयेsपि शास्त्रीयमेव गोत्रं गृह्यते, 'यूनि लुक्' इति सूत्रभाष्ये तथोक्कत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्येदं पाणिनीयम् । वृद्धात् छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः । न द्वयचः । प्राच्येषु ( परेषु ) भरतेषु च गोत्रेषु विद्यमानादिनन्तात् द्वयचोऽण् न भवतीत्यर्थः । इञश्चेश्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्रौष्ठीया इति । प्रोष्ठस्य गोत्रापत्यं प्रौष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः । लिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्रः इत्यत्र 'इञः प्राचाम्' इति भरतेभ्यो लुड् न भवति ।
I
वृद्धिर्यस्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धस्वं सिध्यति । व्यपदेशिवत्वेन ज्ञाशब्दस्यापि वृद्धत्वम् । त्यदादीनिच । शेषपूरणेन सूत्रं व्याचष्टे - वृद्धसम्ज्ञानि स्युरिति । आदेरचो वृद्धिसञ्ज्ञकत्वाभावादारम्भः । वृद्धाच्छः । वृद्धसज्ञकात् छः स्यात् जातादिष्वर्थेषु । अणोऽपवादः । शालीय इति । शालायां जात इत्यादिरर्थः । एवं तदीयः । एङ् प्राचां देशे । देशविशेषनाम्नश्वेदेङादिरेव वृद्ध
For Private and Personal Use Only
Page #761
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
G૫૨
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
स्यादेशाभिधाने। एगीपचनीयः। गोनीयः। भोजकटीयः । पक्षेऽणि ऐणीपचनः, गौनदः, भौजकटः । एड् किम् । आहिच्छत्रः । कान्यकुब्जः । 'वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' ( वा ५७६ )। देवदत्तः-देवदत्तीयः । (१३३६) भव. तष्ठक्छसी ४।२।११५ ॥ वृद्धाद्भवत एतौ स्तः। भावत्कः । जश्त्वम् । भवदीयः । वृद्धात् इत्यनुवृत्तेः शत्रन्तादणेव । भावतः । (१३५०) काश्यादि। भ्यष्ठञिठौ ४ । २। ११६ ॥ इकार उच्चारणार्थः । काशिकी-काशिका । बैदिकी-बैदिका । 'आपदादिपूर्वपदात् कालान्तात्' ( ग सू ७४ )। आपदादिरा. कृतिगणः । आपत्कालिकी-आपत्कालिका । (१३४१) वाहीकग्रामेभ्यश्च । ४।२।११७ ॥ माहीकग्रामवाचिभ्यो वृद्धभ्यष्टबिठौ स्तः। छस्यापवादः । कास्तीरं नाम बाहीकग्रामः । कास्तीरिकी-कास्तीरिका । (१३४२) विभाषोशी. नरेषु ४।२।११८॥ एषु ये प्रामास्तद्वाचिभ्यो वृद्धभ्यष्ठनिठौ वा स्तः । सौदर्शनिकी-सौदर्शनिका-सौदर्शनीया । (१३४३) मोशे ठञ् ४।२।११४॥ सज्ञक इति नियमार्थमिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् । न त्वा. धुनिकसङ्केतितत्वमेव । तेन घटीयमित्यादि सिद्धम् । भवतष्ठक्छ सौ। भावक इति । 'इसुसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधारकर्य जश्त्वमित्यत आह-जश्त्वमिति । 'सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत इति कथमण्प्रत्ययः, 'त्यदादीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह-वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषु 'भातेर्ड. वतुः' इति डवत्वन्तस्यैव पाठादिति भावः । ___ काश्यादिभ्यष्ठन्मिठौ । ठञ् मिठ इति प्रत्ययौ स्तः । जिठप्रत्यये नि इति समुदा. यस्य 'आदिनिटुडवः' इति इत्सज्ञायां प्रयोजनाभावात् लकार एव इत् , तस्य जि. स्वरः प्रयोजनम् । ठन एव विधौ तु ङीपू स्यात् , टाप न स्यात् । नन्वेवं सति हठ. प्रत्यये ठस्य इकादेशो न स्यात् । अङ्गात्परत्वाभावादित्यत आह-इकार उच्चारणार्थ इति । काशिकीति । काश्यां जातादिरित्यर्थः । ठमन्तात् डीप । काशिकेति । मिठप्रत्यये इकादेशे टाप् । बैदिकी वैदिकेति । बेदिर्देशविशेषः । आपदादिपूर्वपदाकान्तादिति । गणसूत्रम् । उािवित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्का. लिकी आपत्कालिकेति । उनि डीप , जिठे टाप् । बाहीकग्रामेभ्यश्च । बाहीकाख्याः के. चिद्ग्रामाः तद्विशेषवाचिभ्य इत्यर्थः । तदाह-वाहीकग्रामवाचिभ्य इति । विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिदेशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । तदाह-एषु ये ग्रामा इति । उशीनरेषु ये ग्रामास्तविशेषवाचिभ्यः इत्यर्थः । सौदर्शनो
For Private and Personal Use Only
Page #762
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
उवर्णान्ताद्देशवाचिनष्ठम् । निषादकर्षः । नैषाद-कर्षुकः । 'केऽण:' ( सू ८३४ ) इति ह्रस्वः । देशे किम् । पटोइछात्राः पाटवाः । ञिठं व्यावर्तयितुं ठष्प्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्षुकः । (१३४४) वृद्धात्प्राचाम् ४ । २ । १२० ॥ प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह | मल्लवास्तु माल्लवास्तवः । ( २३४५) धन्वयोपत्राद्वञ् ४ । २ । १२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दो वुष्णादि - ( सू १२९२ ) सूत्रेण ण्यान्तो । साङ्काश्यकः । काम्पिल्यकः । ( १३४६) प्रस्थपुरवहाताच्च ४|२||२२|| एतदन्तादूद्ध | देशवाचिनो वुष्स्यात् । छस्यापवादः । माकाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रार्धम् । प्राग्देशे तूत. रेण सिद्धम् । (१३४७) रोपधेतोः प्राचाम् ४।२।१२३॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाद्वुञ्स्यात् । पाटलिपुत्रकः । ईतः काकन्दकः । (१३४ =) जनपदतदवध्योश्च ४ |२| १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुस्यात् । आदर्शकः । त्रैगर्तकः । (१३४६ ) मवृद्धादपि बहुवचनविषयात् नाम उशीनरदेशे कश्चिद्मामः । सौदर्शनीया । ठञिठयोरभावे वृद्धाच्छः । श्रदेंशे ॐ । निषादकर्षरिति । कश्चिदूग्राम इति शेषः । नैषादकर्षक इति । उगन्तात्परत्वाद् कादेशः । वृद्धात्प्राचाम् । 'ओदेंशे ठन्' इत्यनुवर्तते । प्राचामिति देशविशेषणम्, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह - प्रादेशेत्या• दिना । श्राढकजनुक इति । आढकजम्बूर्नाम कश्चिग्रामः । तत्र भव इत्यर्थः | उगन्तास्परत्वात् ठस्य कः । 'केऽणः' इति ह्रस्वः । एवं शाकजम्बुकः । मल्लवास्त्विति । कश्चित् प्राच्यो ग्राम इति शेषः ।
७५३
1
धन्वयोपधादवुञ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व मरूप्रदेशः 'aarat Herrarat' इत्यमरः । आष्टकं नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरूप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः । प्रस्थपुरवद्दान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम्, नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह- पुरान्तेति । रोपधेतोः प्राचाम् । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति देशविशेषगम् । तदाह - रोपधादित्यादिना । ईत इति । उदाहियत इति शेषः । काकन्दक इति ।
1
बा० ४८
For Private and Personal Use Only
Page #763
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५४
सिद्धान्तकौमुदी
[तद्धिते शैषिक
४॥२॥१२५॥ अवृद्धावृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिका.
वुझस्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात् , आङ्गकः । अवृ द्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात् , दार्वकः । वृद्धाज्जनपदावधेः, कालरक्षकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः । तासु भवो वार्तनः। (१३५०) कच्छाग्निवक्त्रवतॊत्तर. पदात् ४।२।१२६॥ देशवाचिनो वृद्धादवृद्धाच्च वुश्स्यात् । दारुकच्छकः । का. ण्डामकः । सैन्धुवक्त्रकः । बाहुवर्तकः । (१३५१) धूमादिभ्यश्च ४।२।१२७॥ देशवाचिभ्यो वुन् । धौमकः । तैर्थकः । (२३५२) नगरात्कुत्सनप्रावीण्ययोः ४।२।१२८॥ नगरशब्दातस्यात्कुत्सने प्रावीण्ये च गम्ये। नागरकश्चौरः शिल्पी वा । कुत्सन-इति किम् । नागराः ब्राह्मणाः । (१३५३) भरण्यान्मनुष्ये ४॥२॥ १२६॥ वुञ् 'भरण्याण्णः' (वा २७८२ ) इत्यस्यापवादः । 'पथ्यध्यायन्यायवि. हारमनुष्यहस्तिध्विति वाच्यम्' (वा २८१९ )। आरण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । 'वा गोमयेषु' (वा २८२०)। अरण्यका
आरण्याः वा गोमयाः । (१३५४) विभाषा कुरुयुगन्धराभ्याम् ॥२॥१३०॥ काकन्दी नाम देशः, तत्र भव इत्यर्थः । जनपदतदवध्योश्च । श्रादर्शक इति । आदर्शों नाम जनपदः । तत्र भव इत्यर्थः । विगतो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्वोत्तरपदाच्छं बाधितुमिह तदवधिग्रहणम् । तदाहत्रैगर्तक इति । अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति। उदाहियत इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यः जनपदः कस्यचिज्जनपद. स्यावधिः । वृद्धाज्जनपदादिति । उदाहियत इति शेषः। दार्वक इति । दार्वा इति बहुवचनान्तो जनपदविशेष वर्तते । तत्र भव इत्यर्थः। कालअरक इति । कलारेषु भवं इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्त्र, वर्त एतदुत्तरपदादित्यर्थः। शेषपूरणेन सूत्र व्याचष्टे-देशवाचिन इति । छाणोरपवादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्निक इति । काण्डाग्नी भव इत्यर्थः । अकादेशे 'यस्येति च' इति इकारलोपः। सैन्धुवक्त्रक इति । सिन्धुवक्त्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवतें भव इत्यर्थः । धूमादिभ्यश्च । देशवाचिभ्यो वुजिति शेषपूरणम् । नगरात्कुत्सन। नागराः ब्राह्मणा इति । कत्त्र्यादिषु महिष्मतीसाहचर्येण सज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् । 'प्राचां ग्रामनगराणाम्' इति सूत्रभाष्ये, नागरा इत्युदाहरणात् । अरण्यान्मनुष्ये । आरण्यक इति । पन्थाः अध्यायः न्यायः विहार मनुष्यः हस्ती वा । वा गोम
For Private and Personal Use Only
Page #764
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७५५
हुन् । कौरवकः कौरवः । यौगन्धरकः-यौगन्धरः । (१३५५) मद्रवृज्योः कन् ४।२।१३१॥ जनपदवुजोऽपवादः। मद्रेषु जातो मद्रकः । वृजिकः (१३५६) कोपधादण् ४।२।१३२॥ माहिषिकः । (१३५७) कच्छादिभ्यश्च ४।२।१३३॥ देशवाचिभ्योऽण् । वुजादेरपवादः । काच्छः । सैन्धवः । (१३५८) मनुष्यतस्थयोर्वज ४।२।१३४॥ कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुः ध्यः । काच्छकं हसितम् । मनुष्य-इति किम् । काच्छो गौः। (१३५४) अपदातो साल्वात् ४।२१३५॥ साल्वशब्दस्य कच्छादित्वावुनि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिव्रजति । (१३६०) गोयवाग्वोश्च ४।२।१३६॥ साल्वाचुन । कच्छाद्यणोऽपवादः । सा. स्वको गौः । साल्विका यवागूः । साल्वमन्यत् । (१३६१) गर्तोत्तरपदाच्छा ४।२।१३७॥ देशे । अणोऽपवादः। वृकगीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरा. सार्थम् । (१३६२) गहादिभ्यश्च ४।२।१३८॥ छः स्यात् । गहीयः । 'मुखपा
वतसोर्लोपश्च' ( ग सू ७८ )। मुखतीयम् । पार्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यता ज्ञापयितुमिदम् । 'कुग्जनस्य परस्य च' ( ग सू ८९)। जनकीयम् । परकीयम् । 'देवस्य च' (ग सू ९०) । देवकोयम् । 'स्वस्य च' स्वकीयम् । येष्विति । वातिकमिदम् । विभाषा कुरू । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम् 'अवृद्धादपि' इति नित्यं प्राप्ते विकल्पः । ___ मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः। जगपदवुनोऽपवादः । कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः । 'प्रस्थोत्तरपद' इत्या. दिना सिद्धे जनपदवुबाधनार्थमिदम् । कच्छादिभ्यश्च । काच्छ इति । अन्न वुञोऽपवादोऽण् । सैन्धव इति । ओदेशे ठजोऽपवादः। मनुष्यतत्स्थयोञ्। कच्छादिभ्य इत्यनु. वर्तते । तदाह-कच्छाहीति । अपदातौ साल्वात् । नियमार्थमिति । साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः । __ गर्वोत्तरपदाच्छः । देशे इति । शेषपूरणम् । देशवाचिन इति यावत्। वृकगीयमिति । वृकगों नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगतशब्दस्य देशवाचित्वाभावात् गर्वोत्तरपदात् इति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आहउत्तरपद ग्रहणमिति । गहादिभ्यश्च गहीय इति । गहो देशविशेषः । मुखपाश्र्वेति । गहादि. गणसूत्रम् । मुखपाश्वेति लुप्तषष्ठीकं पदम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः। असम्भवादन जनपदस्येति न सम्बध्यते। कुग्जनस्येति । गणसूत्रमिदम् । जनशब्दस्य।
For Private and Personal Use Only
Page #765
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५६
सिद्धान्तकौमुदी
[तद्धिते शैषिक
“वेणुकादिभ्यश्छण्वाच्यः ( ग सू ९१)। वैणुकीयम् । वैत्रकोयम् । औत्तरपदकोयम् । (१३६३) प्राचां कटादेः४।२।२३॥ प्राग्देशवाचिनः कटादेश्छः स्यात्। अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् । (१३६४) राक्षः क च ४।२।१४०॥ वृद्धत्वाच्छे सिद्ध तत्सनियोगेन कादेशमात्रं विधीयते राज. कीयम् । (१३६५) वृद्धादकेकान्तखोपधात् ४।२।१४१॥ 'अक' 'इक' एतदन्तात्खोपधाच्च वृद्धाशवाचिनः छः स्यात् । ब्राह्मणको नाम जनपदः यत्र ब्राह्यणा मायुधजीविनः, तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः। (१३६६) कन्थापलदनगरग्रामहृदोत्तरपदात् ४।२।१४२॥ कन्यादिपश्वकोत्तरपदाशवाचिनो वृद्धाच्छः स्यात् । ठमिठादेरपवादः । दाक्षिकन्यीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिप्रामीयम् । दाक्षिहदीयम् । (१३६७) एर्वताश्च ४२११४३॥ पर्वतीयः। (१३६८) विभाषाऽमनुष्ये ४।२।१४४॥ मनुष्यभिन्नेऽथे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि-पार्वतानि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः। (१३५६) कृकणपर्णाद्भारद्वाजे ४।२। १४५॥ भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् कार्कणम् । पार्णम् ॥ (१३७०) युष्मदस्मदोरन्यतरस्यां खजच ४॥३॥१॥ चाच्छः । पक्षेऽण् । युवयोः युष्माकं वा अयं युष्मदीयः । अस्मदीयः। (१३७१) परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् । चात्कुक् छश्च । 'देवाघमनौ' इत्यस्यापवादः । दैवानुग्रह इति भाष्यप्रयोगादेवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रस्यानित्यत्वात् । स्वीयम् । प्राचा कटादेः । कटनगरीयमिति । कट. नगरो नाम प्राच्यो देशः । राज्ञः क च । राजन्शब्दात् छः स्यात्, ककारश्चान्तादेशः । वृद्धादकेकान्तखोपधात् । ब्राह्मणकीय इति । कोपधाणोऽपवादः छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः। तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधागप. वादः । आयोमुखीय इति । 'बाहीकग्रामेभ्यश्च' इति उजिठयोरपवादः छः। कन्यापलद । ठबिठादेरपवाद इति । नगरान्ते रोपधेतो' इति वुमोऽपवादः । इतरत्र 'बाहीकग्रामे. भ्यश्च' इति उमिठयोरपवाद इति विवेकः । पर्वताच्च । इत्यादि स्पष्टम् ।
युष्मदस्मदोरन्यतरस्यां खञ् च । युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् 'त्य. दादीनि सर्वेनित्यम्' इत्येकशेषो न भवति । पञ्चम्यथें षष्ठी। युष्मच्छब्दादरमच्छ. दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः । चाच्छः । गर्वोत्तरपदादित्यधिकृतः छः चका.
For Private and Personal Use Only
Page #766
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९] बालमनोरमासहिता।
७५७
mmmmmmmmmm तस्मिन्नणि च युष्माकास्माको ४।३२॥ युष्मदस्मदोरेतावादेशौ स्तः, ख. ध्यणि च । यौष्माकीणः । भास्माकीनः । यौष्माकः । आस्माकः । (१३७२) तवकममकावेकवचने ४३।३। एकार्थवाचिनोर्युष्मदस्मदोस्तवकममको स्तः खभ्यणि च । तावकीन:-तावकः । मामकीन:-मामकः । छे तु । (१३७३) प्रत्ययोत्तरपदयोश्च ७।२।२८॥ मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु, स्वत्पुत्रः । मत्पुत्रः । (१३७४) अर्धाद्यत् ४।३।४॥ अर्थ्यः । (१३७५) परावरधमोत्तमपूर्वाञ्च ४॥३५॥ पराय॑म् । अवरायम् । अधमार्यम् । उत्तमार्यम् । (१३७६) दि. रेण समुच्चीयत इत्यर्थः । पक्षेऽणिति । अन्यतरस्यांग्रहणादिति भावः । अत्र 'युष्मदस्मदो" इति योगो विभज्यते। आभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । आभ्यां खनच भवतीत्यर्थः। अन्यतरस्यामिति योगान्तरम् । माभ्यां छखजौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासङ्ख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति । द्विवचनान्ताबहुवचनान्ताच्च छः ईयादेशः । सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थै कत्वे विभक्तेलुसत्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति । आवयोरस्माकं वा अयमित्यर्थः । अथ खभि अणि च विशेषमाहतस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खन तच्छब्देन परामृश्यते । तदाह-खभि अणि चेति। अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यम् , न तु परनिमित्तयोः, तस्मिन्नणि इति व्यस्तनिदेशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खन् , ईना. देशः, युष्माकादेशः, आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अय. मिति विग्रहः । अणि उदाहरति-यौष्माकः आस्माक इति । तवकममको । एकवचने इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम् -उक्तिः एकवचनम् । एकस्योक्तो व्याप्रियमाणयोरिति लभ्यते। तदाह-एकार्थवाचिनोरिति । छे विति। एकार्थवृत्तयो. विशेषो वक्ष्यत इति शेषः । प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम् । तदाह-मपर्यन्तयोरित्यादि । त्वदीयः मदोय इति । छे सुब्लुकि तवममयोनिवृत्ती मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्रः इत्युदाहरणम् ।
अर्धाद्यत् । अयं इति । अधे जातादिरित्यर्थः । 'सपूर्वपदाटज वाच्यः' इति वार्तिक भाष्ये स्थितम् । बालेयाधिकः । परावर । अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठ्यवकारमध्यः । दिक्पूर्वपदाम् च । अर्धादित्येव परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव,
For Private and Personal Use Only
Page #767
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५८
सिद्धान्तकौमुदी [तद्धिते शैषिकक्पूर्वपदाञ्च ४।३।६॥ चाद्यत् । पौवोर्धिकम्-पूर्वाय॑म् । (१३७७) ग्राम जनपदेकदेशादञ्ठौ ४।३७॥ ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादठौ स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाःपौर्वाधिकाः । प्रामस्य पूर्वस्मिन्नधैं भवाः इति तद्धितार्थे समासः । ठग्रहणं स्पष्टाः थम् । अचेत्युक्ते यतोऽप्यनुकर्षः सम्भाव्येत । (१३७८) मध्यान्मः ४३८॥ मध्यमः । (१३७६) असाम्प्रतिके ४॥३॥8॥ मध्यशब्दादकारप्रत्ययः स्यात्सा. म्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः । (१३८०) द्वीपादनुलमुद्रं यञ् ४।३।१०॥ समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्वीपशब्दाद्यञ् स्यात् । द्वैप्यम्-द्वैप्या। (१३-१) कालाञ् ४।३।११॥ कालवाचिभ्यष्टञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायम्प्रातिकः । पौन:पुनिकः । कथं तर्हि, शावरस्य तमसो निषिद्धये' इति कालिदासः । 'अनुदि. तौषसरागा' इति भारविः । समानकालीनं, प्राक्कालीनमित्यादि च । 'अपभ्रंशा विशिष्य विहितत्वात् । ग्रामजनपद । ननु अञ् चेत्येतावतैव चकाराट्ठजोऽनुकर्षसिद्धेः ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह-प्रन, चेत्युक्त इत्यादि । मध्यान्मः । स्पष्टम् । असाम्प्रतिके । अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह-मध्यशब्दादित्यादि । सम्प्रतीत्यव्ययम् उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये 'अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रः न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः। सम्प्रतिशब्दात् स्वार्थे विनयादित्वाछकि सा. म्प्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु साम्प्रतमित्यपि भवति । 'एतर्हि सम्पति' इति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् । द्वीपादनु । अनुसमुद्र. मिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम् , विद्यमानादित्यध्याहा. र्यम् । तदाह-समुद्रस्य समीपे इति । द्वैप्येति । 'यजश्च' इति डीप तु न, अनपत्याधि. कारस्थात् नेति तन्निषेधात् । ___ कालाठ्ठञ् । 'कालशब्दस्यैव न ग्रहणम् । किन्तु कालशब्दस्य कालविशेषवाच. कानां च ग्रहणम्' इति 'तदस्य परिमाणम्' 'सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम् । तदाह-कालवाचिभ्य इति । सायंप्रातिकः पौनः पुनिक इति । 'अव्ययानां भमात्रे' इति टिलोपः । 'सायञ्चिरम्' इति ट्युटयुलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । शार्वरिकस्येति भाव्यमिति भावः । अनुदितौष. सेति । औषसिकेति भाव्यमिति भावः । समानेति । समानकालिकं प्राक्कालिकमिति
For Private and Personal Use Only
Page #768
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता |
एवैते ' इति प्रामाणिकाः । ' तत्र जातः ' ( सू १३९३ ) इति यावत्का लाधिकारः । (१३८२) श्राद्धे शरदः ४ | ३ | १२|| ठञ स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् । (१३८३) विभाषा रोगातयोः ४।३।१३॥ शारदिक:- शारदो वा रोगः आतपो वा । एतयोः किम् । शारदं दधि । (१३८४) निशाग्रदोषाभ्यां च ४।३।१४॥ वा ठञ् स्यात् । नैशिकम् - नैशम् । प्रादोषिकम् - प्रादोषम् । (१३८५) श्वसस्तुट् च ४ | ३ | १५ || श्वशब्दाट्ठञ् वा स्यात् । तस्य तुडागमश्च । (१३८६) द्वारादीनां च ७|३ | ४ || द्वार, स्वर, ( स्वाध्याय, स्वप्राम ) । स्वस्ति, स्वर्, रूफ्यकृत्, स्वादु, मृदु, श्वस, श्वन्, स्व एषो न वृद्धिरेजागमश्च । शौवस्तिकम् । (१३८७) सन्धिवेला तु नक्षत्रेभ्योऽण् ४।३॥ ६ ॥ सन्धिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्व कालवृत्तिभ्योऽण्स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । प्रेमम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्या, त्रयोदशी, चतु देशी, पौणमासी, प्रतिपत् । 'सवंत्सरात्फलपर्वणो:' (ग सू ९२ ) । 'सांवत्सर
व्यल्कश,
1
७५६
भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादि एतेऽपि शब्दाः अव्युत्पन्नाः, पृषोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः । श्राद्धे शरदः। ठञ् स्यादिति । शेषपूरणमिदम् । ननु 'काला इत्येव सिद्ध किमर्थमिदमित्यत आह - ऋण इति । 'सन्धिवेला द्यूतु नक्षत्रेभ्योऽण्” इति वक्ष्यमा - णस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छदस्य संवत्सरवा - चित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपर्योः । उजिति शरद इति चानुवर्तते । शारदं दधीति । ऋत्वणिति भावः । निशाप्रदोषाभ्यां च । वा ठञ् स्यादिति । शेषपूरणम् । 'काला' इति नित्यं प्राप्ते विकल्पोऽयम् । श्वसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनां च । 'न य्वाभ्याम्' इति सूत्रं पदान्ताभ्यामितिवर्जमनुवर्तते, 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । तदाहएषां न वृद्धिरैजागमश्चेति । द्वारादीनां नादिवृद्धिः, किन्तु यकारवकाराभ्यां पूर्वी ऐजामौत इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वात् 'न य्वाभ्यां पदान्ताभ्याम् ' इत्यप्राप्ते वचनमिदम् | शौवस्तिकमिति । बस् इत्यव्ययात् जाताद्यर्थे ठञ इकादेशे तुडागमे वकारात्पूर्वमै जागमेन औकारः । अकारस्य न वृद्धिः ।
1
For Private and Personal Use Only
-
सन्धिवेला । कालवृत्तिभ्य इति । 'कालाट्ठञ' इत्यतस्तदनुवृत्तेरिति भावः । ठजोउपवादः । तेषमिति । तिष्ये भवादीत्यर्थः । 'तिष्यपुष्ययार्नक्षत्राणि' इति यलोपः । तिष्ये जातः इत्यर्थे 'श्रविष्ठाफल्गुनी' इति लुग्वक्ष्यते । सन्धिवेलादिगणं पठति
Page #769
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
सिद्धान्तकौमुदी
[तद्धिते शैषिक
फलं, पर्व वा। सांवत्सरिकमन्यत् । (१३८८) प्रावृष एण्यः ४।३।१॥ प्रावृषेण्यः । (१३-8) वर्षाभ्यष्ठक ४३१८॥ वर्षासु साधु वार्षिक वासः । 'कालात्याधुपुष्प्यत्पच्यमानेषु' (सू १४१८ ) इति साध्वथें । (१३६०) सर्वप्राण्च तलोपश्च ४।३।२२॥ हेमन्तादण्स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वम् । हैमनम्-हैमन्तम् । (१३६१) सायंचिरंप्राद्देप्रगेऽव्ययेभ्यष्ट्युटयु. लौ तुट च ४।३।२३॥ सायमित्यादिभ्यश्चतुर्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुरथुलो स्तः तयोस्तुट् च । तुटः प्रागनादेशः 'अनद्यतने'- (सू २१८५) इत्यादि.
सन्धिवेलेत्यादि । संवत्सरात्फलपर्वणोरिति । गणसूत्रमिदम् । प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृट् वर्षतुः । तत्र भवादिरित्यर्थः । जाते तु ठप वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्ठक् । तृतीयों वर्षाशब्दो नित्यं बहुवच. नान्तः, 'अप्सुमनःसमासिकतावर्षाणां बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । 'स्त्रियां प्रावृट स्त्रियां भूम्नि वर्षाः' इत्यमरः।। वर्षाशब्दाज्जाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति । हितकारीत्यर्थः । ननु तत्र साधुः' इति साध्वधिकारस्य शेषाधिकारबहि. भैतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह-कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः । सर्वत्राण्च । छन्दसीत्य. नुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः । 'हेमन्ताच्च' इति पूर्वसूत्रात् हेम. न्तादित्यनुवर्तते । तदाह-हेमन्तादित्यादिना । ननु 'सर्वत्राण तलोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह-चकारादिति । हैमनमिति । हेमन्तेत्यत्र तकारात्प्राक् नका. रस्यानुस्वारपरसवर्णी स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृतिभावान टिलोपः । तकारस्यैवालोप इति पक्षे तु अकारस्य 'यस्येति च। इति लोपे तस्य आभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति ।
त्वणि रूपम् । अन्न न तलोपः, तस्य एतत्सुत्रप्रतिपदोक्ताणा सन्नियोगशिष्टत्वादिति भावः।
सायञ्चिरम् । चतुर्थ्य इति । सायं चिरं प्राहे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति। 'कालाञ्' इत्यतस्तदनुवृत्तरिति भावः । तयोरिति । ट्युट्यलोरित्यर्थः । ननु सायन्तनमित्यादौ कथं योरनादेशः । 'युवोरनाको' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोरनाको विधीयते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न सम्भवति । न च तदागमास्तद्ग्रहणेन गृह्यन्ते' इति न्यायेन त्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधमिति वाच्यम् , 'निर्दिश्यमा नस्यादेशा भवन्ति' इति परिभाषया योरेवाऽनादेशप्राप्तेः तस्य च तुटा व्यवहित
For Private and Personal Use Only
Page #770
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमा सहिता ।
७६१
निर्देशात् । सायन्तनम् । चिरन्तनम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राहेत. नम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यस्नो वक्तव्यः' ( वा २८४२ ) । चिरत्नम् । परुत्नम् । परारित्नम् । 'अप्रादिपश्चाड्डिमच्' ( वा २८४४ ) । अप्रिमम् | आदिमम् । पश्चिमम् । 'अन्ताच्च' ( वा २८४५) अन्तिमम् । (१३६२) विभाषा पूर्वाह्नापराह्नाभ्याम् ४|३|२४|| आभ्यां टटलो वा स्तः, तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । 'घकालतनेषु' ( सू ९७५ ) । इत्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् | पौर्वाह्निकम् | आपराह्निकम् । (१३६३) तत्र जातः ४।३।२५ ॥ सप्तमीसमर्थाज्जातइत्यर्थे ऽणादयो घादयश्च स्युः । स्रुध्ने जातः स्रौघ्नः । औत्सः । त्वादङ्गात्परत्वाभावादित्यत आह-तुटः प्रागनादेशे इति । कुत इत्यत आह- श्रनद्य • तनै इत्यादिनिर्देशादिति । आदिना 'घकालतनेषु' इत्यत्र तनेति ग्राह्यम् । सायन्तनमिति । 'षो अन्तकर्मणि' इति धातोर्घजि सायशब्दो दिवसावसाने रूढः । तस्माट्युट्युलौ, तयोरनादेशे तु प्रकृतेर्मान्तत्वं निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययं, तस्याव्ययत्वादेव ट्युट्युलौ सिद्धौ । चिरन्तनमिति । अत्रापि प्रकृतेर्मान्तत्वं निपात्यते । अस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पाठः अप्रामाणिक इति गम्यते । प्राह्णेतनमिति । प्रातः सोढोऽस्येति विग्रहः, 'तदस्य सोढम्' इत्यर्थस्य निर्देक्ष्यमाणत्वात् । प्राहेजातः इयद्यर्थे तु 'घकालतनेषु' इति अलुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति । प्रगच्छतीति प्रगः, तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमेदन्तं प्रातरित्यर्थ तस्य स्वव्ययत्वादेव सिद्धम् । अव्ययेभ्य उदाहरति - दोषातनमिति । दोषेस्याकारातमव्ययं रात्रौ । दिवातनमिति । दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति । चिर, परतू परारि एम्य: त्नप्रत्यय इत्यर्थः । चिरत्नमिति । ट्युट्युलोरेव प्राप्तयोर्वचनम् । नप्रत्ययपक्षे मान्तत्वं न भवति, ट्युथ्युरभ्यां तस्य सन्नियोगशिष्टत्वात् । पददिति परारीति चाव्ययं पूर्वस्मिन पूर्वतरे च वत्सरे क्रमाद्वर्तते । श्रग्रादीति । वार्तिकमिदम् । आदि, पश्चात् एभ्यः डिमच् स्यादित्यर्थः । पश्चिम मिति । 'अव्ययानां भमात्रे' इति टिलोपः । श्रन्ताच्च । इदमपि वार्तिकम् ।
"
"
अग्र,
,
विभाषा पूर्वाह्न । पक्षे ठञिति । तथा सति न तु तस्य युट्युभ्यां सन्नियोगशिष्टत्वादिति भावः । । तदेवं 'राष्ट्रावार' इत्यारभ्य एतदन्तैः सूत्रः राष्ट्रादिप्रकृतिवि. शेषेभ्यः घादयः प्रत्ययविशेषाः अनुक्रान्ताः ।
अथ तेषां प्रत्ययानामर्थं विशेषान् प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः । सप्तमीसमर्थादिति । सप्तम्यन्तात्कृतसन्धेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्त
For Private and Personal Use Only
Page #771
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
' सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
राष्ट्रियः । अवारपारीणः इत्यादि । (१३६४) प्रावृषष्ठप ४।३।२६॥ एण्य. स्यापवादः । प्राषि जातः प्रावृषिकः । (१३९५) सज्ञायां शरदो वुञ् ४। ३॥२७॥ ऋत्वणोऽपवादः । शारदकाः दर्भविशेषाः मुद्गविशेषाश्च । (१३६६) उत्तरपदस्य ७।३।१०॥ अधिकारोऽयम् । हनस्तः- (सू २५७४ ) इत्यस्मात्प्राक् । (१३६७) अवयवाहतोः ७।३।११॥ अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे। पूर्ववार्षिकः । अपरहैमनः । अवयवात् किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोर्वृद्धिमद्वि. धाववयवानाम्। (वा ५६०) इति तदन्तविधिः पूर्वत्र । इह तुन, अवयवत्वाभावात् । स्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणादय इति। अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति । 'राष्ट्रावारपार' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् । ठपः पित्त्वम् । 'अनुदात्तो सुप्पितौ' इति स्वरार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवं च 'प्रावृष एण्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति । सब्ज्ञायां शरदो वुञ्। सज्ञायामित्येतत् 'कृतलब्धक्रीत' इत्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः । उत्तरपदस्य । अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि । अवयवादृतोः। पूर्वपदादिति । परस्येति शेषः । ऋतुवाचिन इति । ' उत्तरपदस्येति शेषः । पूर्ववार्षिक इति । ऋतुविशेषे वर्षाशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्व पूर्ववर्षाः, तत्र जात इत्यर्थः। 'पूर्वापराघरोत्तरम्' इत्येकदेशिस. मासः । अपरहैमन इति । हेमन्तस्यापरम् अपरहेमन्तः। तत्र जातादिरित्यर्थः । एकदेशिसमासः । 'सर्वत्राण्च तलोपश्च' इत्यम् , तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति । 'तद्धितार्थे' इति समासः। आदिवृद्धिरेव न तूत्तरपदादिवृद्धिः, पूर्वपदस्य अवयववृत्तित्वाभावात्। - ननु कथमिह 'वर्षाभ्यष्ठक्' इति ठक् , प्रत्ययविधौ तदन्तविधिप्रतिषेधात् , तत्राह-ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थितात् ऋतुवाचकात् वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन 'येन विधिः' इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः। तथाच पूर्ववार्षिक इत्यत्र पूर्वहैमन इत्यत्र चोदाहरणे 'वर्षाभ्यष्ठक्' इति ठक् , 'सर्वत्राण च तलो. पश्च' इत्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति समानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववर्षिक इत्यत्र 'काला ' इति ठनत्र, नतु ठक् , स्वरे वि. शेषः । पौवं हेमन्तिक इत्यत्रापि ठजेवेति भावः ।
For Private and Personal Use Only
Page #772
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
-
(१३९८) सुसर्वार्धाजनपदस्य ७।३।१२॥ उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाश्चालकः । अर्धपाञ्चलकः । 'जनपदतदवथ्यो-- (सू १३४८ ) इति वुन् । सुसर्वार्धदिक्छन्देभ्यो जनपदस्य' (वा ५५९) इति तदन्तविधिः । (१३६६) दिशो. ऽमद्राणाम् ॥३॥१३॥ दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाश्चालकः । दिशः किम् । पूर्वपष्चालानामयं पौर्वपन्चालः । अमद्राणाम् किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः । (१४००) प्रावां ग्रामनगराणाम् ॥३॥१४॥ दिशः परेषां ग्राम. काचिनो नगरवाचिनो चाहानामवयवस्य च वृद्धिः। पूर्वेषुकामशम्या भवः पूर्वेषु. कामशमः । नगरे-पूर्वपाटलिपुत्रकः । (१४०१) पूर्वाह्नापराह्ना मूलप्रदोषा. वस्करावुन् ४।३।२८॥ पूर्वाह्नकः । अपराह्नकः । आद्रेकः । मूलकः । प्रदो
सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति । 'जनपदतदवध्योः' इत्यनुवृत्तो अवृद्धादपि बहुवचनविषयादिति बुजित्यर्थः । ननु 'अवृद्धादपि' इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह-सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द एभ्यः परस्य जनपदवाचिनः उपरि प्रत्ययविधौ तदन्तविधिरित्या र्थकेन 'येन विधिः' इति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः । दिशोऽमद्राणाम् । अमदाणामिति च्छेदः । दिग्वाचकादिति । परस्येति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति । आदेरिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्व. शब्दः कालवाचीति भावः । पौर्वमद्र इति । 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसर्वार्धदिशो जनपदस्यामद्राणाम्' इत्येकसूत्रमेवास्त्वित्यत आह-योगविभाग उत्तरार्थ इति । 'प्राचा ग्रामनगराणाम्' इत्युत्तरसूत्रे दिश एव सम्बन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपी. त्येके । प्राचां ग्रामनगरा गाम् । दिश इति । दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगर. वाचिनश्च तेषामवयवस्यादेव॒द्धिः स्यादित्यर्थः । पूर्वेषुकामशम्यामिति । 'दिक्संख्ये संज्ञायाम्' इति समासः । अण् । संज्ञात्वात् 'दिक्पूर्वपदात्' इति जो न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति । उदा. हरणसूचनम् । पूर्वपाटलिपुत्रक इति । "पूर्वापरप्रथम' इति समासः । 'अवृद्धा. दपि' इति वुञ्। यद्यपि पाटलीपुत्रशब्दे उत्तरपदे आदिवृद्धिरेव । तथापि पूर्वपदस्य वृद्धिनिवृत्तिः फलम् ।
पूर्वाहापराह्म । पूर्वाहकः अपराहकः इति । पूर्वाहे अपराहे च जात इत्यर्थः । 'विभाषा पूर्वाद्वापराह्वाभ्याम्' इत्यस्यापवादः । ट्युटयुलोः ठञश्च विकल्पस्तु जाताद
For Private and Personal Use Only
Page #773
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
सिद्धान्तकौमुदी
[तद्धिते शैषिक
~
~
~
षकः । अवस्करकः । (१४०२) पथः पन्थ च ४।३।२६॥ पथि जातः पन्धकः। (१४०३) आमावास्यायो वा ४३३०॥ अमावास्यकः-अमावास्यः। (१४०४) म च ४।३।३१॥ अमावास्यः । (१४०५) सिन्ध्वपकराभ्यां कन् ४।३।३२॥ सिन्धुकः । कच्छाद्यणि मनुष्यवुनि च प्राप्ते । अपकारकः । औत्सनिकेऽणि प्राप्ते । (१४०६) मणौ च ४।३।३३॥ क्रमास्तः । सैन्धवः । श्रापकरः । (१४०७) श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तवि. शाखाषाढाबहुलाल्लुक ४।३।३४। एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् । (१४०८) लुक्तद्धितलुकि शरा४। तद्धितलुकि सत्युपसजनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्टः । फल्गुनः इत्यादि । 'चित्रान्यार्थे सावकाश इति भावः । आर्द्रकः मूलक इति। आर्द्रायां मूले च जात इत्यर्थः । ऋत्वणोऽपवादः । प्रदोषक इति । 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति । औत्सगिकस्याणोऽपवादः। पथः पन्थ च। पथिन्शब्दात् वुन् स्यात् प्रकृतेः पन्थादेशश्च । अमावास्याया वा । वुनिति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेश. विकृतन्यायादमावस्याशब्दादप्ययं विधिः । अ च । अ इति लुप्तप्रथमाकम् । अमा. वास्याशब्दादकारप्रत्ययोऽपीत्यर्थः । आदिवृद्धयभावः प्रयोजनम् । सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति । 'कच्छादिम्यश्छ' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुमि च प्राप्ते अयं कन्विधिरित्यर्थः । अपकरक इति । अप. करे जात इत्यर्थः । अणि प्राप्ते इति। कन्विधिरिति शेषः । अणौ च । क्रमात् स्त इति । सिन्ध्वपकराभ्यामिति शेषः।
अविष्ठा। एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जाताथैति । प्रकरणलभ्यमिदम् । स्वाति. सब्दः हस्वान्त इति कैयटहरदत्तौ । दीर्धान्त इति 'अत सातत्यगमने' इति धातो माधवः । कृत्तिकावाचिबहुलाशब्दष्टावन्तः । समाहारद्वन्द्वे हस्वनिर्देशः । लुक् तद्धित. लुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति । 'गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम् , नतु शास्त्रीयम् , असम्भवादिति भावः । फल्गुन इति । फल्गुन्यो जात इत्यर्थः । अणो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातः अनुराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एव. मऽपि । 'अनुराधान् हविषा वर्धयन्तः' इत्यादौ छान्दसं पुंस्त्वम् । स्वास्यां जातः स्वातिः । तिष्ये जातः तिष्यः । पुनर्वस्वोर्जातः पुनर्वसुः । हस्ते जातो हस्तः। विशा
For Private and Personal Use Only
Page #774
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७६५
रेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्' (वा २८५७ ) । चित्रायां जाता चित्रा। रेवती रोहिणी आभ्या 'लुक्तद्धितलुकि' इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्जीष् । 'फल्गुन्यषाढाभ्यां टानौ वक्तव्यो' (वा २८५८) । स्त्रियामित्येव । फल्गुनी। अषाढा । 'श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५९ ) अस्त्रियामपि । श्राविष्टीयः । आषाढीयः। (१४०४) जे प्रोष्ठपदानाम् ७३।१८। प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे निति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । जे इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशा. सर्यायोऽपि, गृह्यते । भाद्रपादः । (१४१०) स्थानान्तगोशालखरशालाच्च ४॥३॥३५॥ एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालंः । खरशालः । विभाषा सेना- (सू ८२८ ) इति नपुंसकत्वे ह्रस्वत्वम् । खयोर्जात विशाखः । अषाढासु जातः अषाढः । बहुलासु जातः बहुलः । चित्रेति। चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति । जातायां नक्षत्राणो लुकि सति प्रकृतेर्गोरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्जीए । ननु रेवती नक्षत्रे रोहिणी नक्षत्रे इति गौरादौ पाठादिह जाताथवृत्तिभ्यां कथं जीषित्यत आह-आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः । परस्य स्त्रीत्वविशिष्टजातार्थ. प्रत्ययस्येति शेषः। प्राकृतिगणत्वादिति । स्त्रीत्वविशिष्टजाताथवृत्त्योरनयोः। पिप्प. स्यादौ निवेशे भाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, अषाढा इत्याभ्यां क्रमात् टः अन् च स्त्रीत्वविशिष्टजाताथें वक्त व्यामित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः टप्रत्ययः । 'यस्येतिच' इति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वात् डीप । अषाढेति । अषाढासु जाते. त्यर्थः । नक्षत्राणोऽपवादः अन् 'यस्येति च' इत्याकारलोपः। जाता) स्त्रीत्वे टाप । 'श्रविष्ठाफल्गुनी' इत्यादिना टानोलक् तु । न, विधानसामर्थ्यात् । छण्वक्तव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यांदस्यापि न लुक् । अस्नियामपीति । अन्न स्त्रियामति न सम्बध्यते, भाष्ये तथोदाहरणादिति भावः । श्राबिष्ठीय इति । श्रविष्ठासु जात इत्यर्थः । छम् , ईयः, 'यस्येति च' इत्याकारलोपः। णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः । ___ जे प्रोष्ठपदानाम् । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाहप्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह-जातार्थे इति। प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह-बहुवचनेति । भद्रपाद इति । भाद्रपदासु जात इत्यर्थः । स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल एतेभ्य इत्यर्थः ।
For Private and Personal Use Only
Page #775
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
७६६
(१४११) वत्सशालाभिजिदश्वयुक्तभिषजो वा ४ | ३ | ३६ | एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशाळ : - वात्सशालः इत्यादि । 'जातार्थे प्रतिप्रसूतोऽण्वा द्विक्तव्यः ( वा २६९० ) । शातभिषजः - शातभिषः - शतभिषक् । (१४१२) नक्षत्रेभ्या बहुलम् ४ | ३ |३७| जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिण:- रोहिणः । (१४१३) कृतलब्धकीत कुशलाः ४ | ३ | ३८ | 'तत्र' इत्येव । स्रुध्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः । (१४१४) प्रायभवः ४ | ३ | ३६ | 'तत्र' इत्येव । स्रुध्ने प्रायेण बाहुल्येन भवति स्रौघ्नः । (१४१५) उपजानूपक पनवेष्टक ४ | ३ |४०| औपजानुकः । औपकर्णिकः । औपनीविकः । (१४१६)
1
[ तद्धिते शैषिक
-
"
गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शाला शब्दस्य स्त्रीलिङ्गत्वात् हस्वनिशोsनुपपन्न इत्यत आह-- विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित् अश्वयुज्, शतभिषज् इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जातः अभिजितः - अभि जित् । अश्वयुजोर्जातः आश्वयुजः - अश्वयुक् । शतभिषजि जातः शातभिषजः - शतभिषक् । जातार्थे इति । 'कालाटून्' इति ठञा निवर्तित औत्सर्गिको सन्धिवेलादिसूत्रेण पुनरुत्थितोडिद्वा वक्तव्य इत्यर्थः । ' दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि डित्त्वपक्षे टिलोपः । नक्षत्रेभ्यो बहुलम् । रोहि इति । रोहिण्यां जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ 'लुक् तद्धितलुकि " इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् । न हि रोहितशब्दोऽयं वर्णविशेषवाचकः, येन 'वर्णादनुदात्तात्' इति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किन्तु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्ष े इति गौरादिपाठात् ङीष् । अत एव 'रोहिणी नक्षत्रं प्रजापतिर्देवता' इत्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथा 'वर्णानां तणतिनितान्तानाम्' इति आद्युदात्तत्वं स्यादित्यलम् ।
I
"
For Private and Personal Use Only
कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृतमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । स्रौघ्न इति । औत्सगिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यण्युदाहार्यम् । प्रायभवः । तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो धादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दस्य व्याख्यानम् - बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात प्रत्याख्यातमिदं भाष्ये । उपजानूपकणें । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीकि
1
Page #776
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७६७
सम्भूते ४।३।४१। सुघ्ने सम्भवति स्रोन्नः। (१४१७) कोशाड्ढ ४।३।४२ कौशेयं वस्त्रम् । (१४१८) कालात्साधुपुष्प्यत्पच्यमानेषु ४।३।४३। हेमन्ते साधुहमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। शरदि पच्यन्ते शारदाः शालयः । (१४१६) उप्ते च ४।३।४४। हेमन्ते उप्यन्ते हैमन्ता यवाः । (१४२०) श्राश्वयुज्या वुभ् ४।३।४५। ठोऽपवादः। आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः। (१४२१) ग्रीष्मवसन्तादन्यतरस्याम् ४॥३॥४६पक्षे ऋत्वण् । प्रेमकम्-प्रेष्मम् । वासन्तकम्-वासन्तम् । (१४२२) देयमृणे ४।३। ४७। 'कालात्' इत्येव । मासे देयमृणं मासिकम् । (१४२३) कलाप्यश्वत्थय. वबुसावुन ४।२।४। यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी। तत्र देय मृणं कलापकम्। अश्वत्थत्य फलमश्वत्थः। तद्युक्तः कालोऽप्यश्वत्थः इत्येभ्यः ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययोभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । औपकणिक इति । कर्णस्य समीपमुपकर्णम् , तत्र प्रायभव इत्यर्थः। औपनीविक इति। नीवेः समीपमुपनोवि, तन्न प्रायभवः इत्यर्थः । सम्भूते । तत्रेत्येव । सप्तम्यन्तात्लम्भूतेऽर्थे अणादयो धादयश्च यथायथं स्युरित्यर्थः । सम्भवः सम्भावना । कोशाड्ढञ् कौशेयं वस्त्रमिति । कृमिविशेष. कोशस्य विकार इत्यर्थः, 'विकारे कोशाड्ढञ्' इति वातिकात्। कालात्साधुपुष्प्यत् । तत्रेत्येव । साधुः, पुष्प्यत्, पच्यमानम् इत्यर्थेषु सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । 'पुष्प विकसने' इति देवादिकात् लटः शतरि पुष्प्यदिति भवति । हैमनः प्रा. वार इति । 'सर्वत्राण च तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ' इति डीप। शारदा इत्यत्र ऋत्वण । 'तत्र भवः' इति यावत् कालादित्यनुवर्तते । उप्ते च । तत्रेत्येव कालवाचिनः सप्तम्यन्तादुप्तेऽथे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति । 'दु व बीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः । आश्वयुज्या वुञ्। तत्रोत इत्येव । सप्तम्यन्तादाश्वयुजीशब्दात् उप्तेऽथें वुज स्यादित्यर्थः । ठोऽपवाद इति । 'काला इति विहितस्येत्यर्थः। आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी आयुजी तत्रोप्ता इत्यर्थः । ग्रीष्मवसन्तात् । ग्रीष्मात् वसन्ताच्च सप्तम्यन्तादुप्ते वु वेत्यर्थः । __देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । बुमिति निवृत्तम्। सप्तम्यन्तात्का. लवाचिनः देयमित्यर्थे यथाविहितं प्रत्ययाः स्युः। तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति। 'काला' । कलाप्यश्वत्थ । कलापिन् , अश्वत्थ, यवबुस एभ्यः कालवा. चिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति । वुन् अकादेशः 'नस्तद्धिते' इति टिलोपः । अश्वत्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति
For Private and Personal Use Only
Page #777
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
सिद्धान्तकौमुदी
[तद्धिते शैषिक
यस्मिन्काले अश्वत्याः फलन्ति, तत्र देयमृणमश्वत्थकम् । यस्मिन्यवबुसमुत्पद्यते तत्र देयभृणं यवबुसकम् । (१४२४) ग्रीष्मावरसमादुवु ४३४हा ग्रीष्मे देयमृणं प्रेष्मकम् । आवरसमकम् । (१४२५) सम्वत्सराग्रहायणीभ्यां ठञ्च ४३५०। चावुन् । सांवत्सरिकम्-सांवत्सरकम् । आग्रहायणिकम्-आग्रहायणकम् । (१४२६) व्याहरति मृगः ४।३ ५१॥ कालवाचिनः सप्तम्यन्ताच्छब्दायते इत्यर्थे अणादयः स्युः, यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगःनैशिकः । (१४२७) तदस्य सोढम् ॥३५२। 'कालात्' इत्येव । निशासहचरितमध्ययनं निशा, तत्सोढमस्य नैशिकः-नैशः। (१४२८) तत्र भवः ४।३।५३॥
स्रुघ्ने भवः स्रौघ्नः । राष्ट्रियः ।(१४२९) दिगादिभ्यो यत् ४।३।५४। दिश्यम् । वर्यम् । (१४३०) शरीरावयवाच्च ४।३।५। दन्त्यम् । कण्ठयम् । (१४३१) प्राचां नगरान्ते ॥३।२४। प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादरचो वृद्धिर्मिति णिति किति च। सुमनगरे भवः सौह्मनागरः। भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः 'प्लक्षादिभ्योऽण' इति फले अणो विधा. न सामर्थ्यात् लुगभावे अश्वत्थशब्दः फले लाक्षणिक इति भावः । ग्रीष्मावरसमावुञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वा. त्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुमित्यर्थः । पावरसमकमिति । अवरासु समासु देयमृणमित्यर्थः । तद्धितार्थ इति समासः। संवत्सराग्रहायणीभ्यां ठञ् च । देयमृम. मित्यर्थे सप्तम्यन्तादिति शेषः । सन्धिवेलादिगणे 'संवत्सरात् फलपर्वणोः' इति परितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ढना बाध्यते । व्याहरति मृगः । तत्र कालादित्येव । देयमृणे इति निवृत्तम् । तदस्य सोढम् । अस्मिन्नथें प्रथमा. न्ताग्रयाविहितं प्रत्ययाः स्युः । सोढमित्यस्य अभ्यस्तमित्यर्थः । नैशिकः नेशः इति । 'निशाप्रदोषाभ्यां च' इत्यण्ठनो। ___ तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नथें ससम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः । भवन सत्ता, जननमुत्पत्तिरिति भेदः । सोध्न इति । औत्सर्गिकोऽण् । राष्टिय इति । 'राष्ट्रावार' इति घः । दिगादिभ्यो यत् । भवः इत्यथें सप्तम्यन्तेभ्य इति शेषः । दिश्यमिति । दिशि भवमित्यर्थः । शरीरावयवाच्च । भव हत्यथें सप्तम्यन्तेभ्य इति शेषः । दन्स्यमिति । दन्ते भवमित्यर्थः । 'यस्येति च' इत्यकारलोपः। एवं कण्ठ्यम् । प्राचा नगरान्ते । अङ्गस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । 'हृद्भगसिन्ध्वन्ते' इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः। प्राचां यनगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च
For Private and Personal Use Only
Page #778
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
पौण्ड्रनागरः । प्राचाम् किम् । मद्रनगरम् उदक्षु तत्र भवो माद्रनगरः । (१४३२) जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ७|३|२५॥ जाङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादरेचो वृद्धिरुत्तरपदस्य तु वा ञिति णिति किति च । कुरुजाङ्गले भवं
जङ्गलम् - कौ रुजाङ्गलम् । वैश्वधेनवम् - वैश्वधैनवम् । सौवर्णवलजम् - सौवर्णवालजम् । (१४३३) द्वतिकुक्षिकलशिवस्त्यस्त्य हेर्दञ् ४ | ३ |५६ | दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम्। वास्तेयम् । आस्तेयम् आहेयम्। (१४३४) श्रीवाभ्योऽण् च | ४ | ३ |५७ | चाड्ढञ् । ध्वयम् भैवम् । (१४३५) गम्भीराज्यः ४।३।५८। गम्भीरे भवं गाम्भीर्यम् | 'पञ्चजनादुपसंख्यानम्' (वा २८६८) पाञ्चजन्यम्। (१४३६) अव्ययीभावाच्च ४ | ३ |५| परिमुखं भवं पारिमु`ख्यम् । परिमुखादिभ्य एवेष्यते' ( वा २८६६) नेह औप कूलः । (१४३७) अन्तः पूर्वपदाट्ठञ् ४ | ३ |६० | 'अव्ययीभावात्' इत्येव । वेश्मन्यन्तर्वेश्मम् । तत्र भवमान्तवें -
७६६
अचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते इति । सुह्मनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः । मद्रनगरं उदविति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः । जङ्गलधेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु, वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति । भवमिति शेषः । कुरुजाङ्गलादिशब्दाः देशविशेषेषु । दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, बस्ति, अस्ति, अहि इत्येभ्यः सप्तम्यन्तेभ्यः इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका | कौक्षेयमिति । धूमादित्वादवुत्रि प्राप्ते ठम् । कलशिर्घटः । 'कल शिर्मथनपात्रम्' इत्यमव्याख्यातारः । 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायां धने चेति न्यासकारो हरदत्तश्च । तत्र भवः आस्तेयः | अहिः सर्पः, तत्र भवः आहेयः ।
ग्रीवाभ्योऽण् च | 'शरीरायववाच्च' इति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्घे वर्तते । तत्र उद्भूतावयवभेदसङ्घविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादण्यण्डौ स्त एव । गम्भीरान्यः । गाम्भीर्यमिति । यविधौ तु स्त्रियां 'प्राचां ष्फः तद्धितः' इति ष्फः स्यात् श्रम्ययीभावाच्च । ज्य इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगादिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्यष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । श्रपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्येऽपि परिमुखाद्यनन्तर्भावात् न यः ।
बा० ४६
For Private and Personal Use Only
Page #779
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७७०
सिद्धान्तकौमुदी
[ तद्धिते शैषिक
श्मिकम् । आन्तर्गणिकम् । 'अध्यात्मादेष्टञिष्यते' ( वा २८६९ ) अध्यात्मं भवम् आध्यात्मिकम् । (१४३८) अनुशतिकादीनां च ७।३।२०। एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् | आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः । (१४३६) देविकाशिंशपादित्यवाड़दीर्घसत्रश्रेयसामात् ७ | ३ | १ | एषां पञ्चानां वृद्धिप्राप्तावादेरचः आत् मिति णिति किति च । दाविकम् । देविकाकूले भवाः दाविकाकूलाः शालयः । शिंशपाया -विकारः शांशपश्चमसः। ' पलाशादिभ्यो वा' ( सू १५२१ ) इत्यन् । दित्यौहः इदं दात्यौहम् । दीर्घसत्त्रे भवं दार्घसत्त्रम् । श्रेयसि भवं श्रायसम् । (१४४० ) ग्रामात्पर्यनुपूर्वात् ४/३/६१ | ठञ् स्यात् । अव्ययीभावात् इत्येव । पारिप्रामिकः । अनुप्रामिकः 1. (१४४२) जिह्वामूलाङ्गुलेश्छः ४१३१६२ | जिह्वामूलीयम् । (१४४२) वर्गान्ताच्च ४ | ३ | ६३ | कवर्गीयम् । (१४४३) अशब्दे
अन्तःपूर्वपदाट्ठञ् । वेश्मनि अन्तर्वेश्ममिति । विभक्त्यर्थे अव्ययीभावः । 'अन' इति टच् । श्रन्तर्वेश्मिकमिति । ठज्, इकः, सुब्लुक्, टिलोपः आदिवृद्धिः । आन्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । श्रध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः । श्रनुशतिकादीनां च । आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह - एषामिति । श्रधिदैविकमिति । देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपदवृद्धिः आधिभौतिकमिति । भूतेष्वधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः ।
1
,
देविका । आदिवृद्धिप्रकरणे इदं सूत्रम् । रषामिति । देविका, शिशपा, दित्यवाह, दीर्घसूत्र, श्रेयस् इत्येषामित्यर्थः । वृद्धिमाप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरचः आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अजि वृद्धि:, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दास्यौहमिति । दित्यवाशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊठ्' इति सम्प्रसारणं, पूर्वरूपम् । 'एत्येधत्यूट्सु इति वृद्धिः । इकारस्य आदिवृद्ध्यपवादः आकारः । दार्घसत्रमिति । 'तस्येदम्' इत्यण् आदेरीकारस्य आकारः । श्रायसमिति । तत्र भवः इत्यणि एकारस्य आकारः । ग्रामास्पर्यनुपूर्वात् । ठञ् स्यादिति । 'अन्तः पूर्वपदात्' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलाङ्गुलेश्छः | 'शरीरावयवाच्च' इति यतोऽपवादः । वर्गान्ताच्च । कवर्गीयमिति ।
For Private and Personal Use Only
Page #780
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७७१
यत्वावन्यतरस्याम् ४।३।६४। पक्षे पूर्वेण छः । मद्वर्यः-मद्वर्गीण-मद्वर्गीयः । भशब्दे किम् । कवर्गीयो वर्णः। (१४४४ ) कर्णललाटात्कनलङ्कारे ४।३। ६५॥ कर्णिका। ललाटिका। (१४४५) तस्य व्याख्यान इति च व्या. ख्यातव्यनाम्नः ४॥३॥६६॥ सुपो व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् । (१४४६) बह्वचोऽन्तोदाचाट्ठञ् ४३।६७॥ षत्व. णत्वयोर्विधायक शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा पावणविकः । (१४३७) क्रतुयशेभ्यश्च ४३६८॥ सोमसाध्येषु यागेवेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धन उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अमिष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः। (१४५८ ) अध्यायेम्वेवर्षेः ४३॥ ऋषिकादिवगें भवमित्यर्थः । अशब्दे । वर्गान्तात् छः इति शेषः । मद्वर्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः । कर्णललाटात् । 'शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका ललाटिकेति । कणे ललाटे भवोऽलङ्कारः इत्यर्थः । स्त्रीत्वं लोकात् । टापि 'प्रत्ययस्थात्' इति इत्त्वम् ।
तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात् षष्ठयन्तात् , भव इत्यर्थे च सप्तम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । औत्सर्गिकोऽण् । तैङ इति । तिडां व्याख्यानो ग्रन्थ इत्यर्थः । कात इति । कृतां व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपत्वम् । भवाथें उदाहरतिसुप्सु भयं सौपमिति । नच तस्येदम्' 'तत्र भवः' इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् , अर्थद्वयनिर्देशस्य अपवादभूतवक्ष्यमाणठजादिविधानायावश्यकत्वा. दिति भाष्ये स्पष्टम् । वचोऽन्तोदात्ताञ् । अन्तोदात्ताद्बह्वः उक्तविषये ठञ् स्यात् । अणोऽपवादः । क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तन्यितरग्रहणं व्यर्थम् , बहुवचनेन स्वरूपग्रहणनिवृत्तरित्यत आहतत्रेति । गृह्यन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागाः वि. वक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यः, तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठमित्यर्थः । पाकयज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद. व्यकः आग्रयणाख्यः यज्ञः नवयज्ञः । ननु पूर्वसूत्रेण सिद्ध किमर्थमिदमित्यत आह
For Private and Personal Use Only
Page #781
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७२
सिद्धान्तकौमुदी
[तद्धिते शैषिक
शब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्टेन दृष्टो मन्त्रो वसिष्ठः, तस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् । (१४४१) पौरोडाशपुरोडाशातष्ठन् ४।३। ७०॥ पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततः छन् । पौरोडाशिकः । पुरोडाशिकः । (१४५०) छन्दसो यदणौ ४।३।७१॥ छन्दस्य:-छान्दसः । (१४५१) द्वयजब्राह्मणप्रथमाध्वरपुरश्चरणनामा. ख्याताठक ४।३।७२॥ द्वथचः, ऐष्टिकः। (शैषिकः ), पाशुकः । ऋतः, चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः इत्यादि । (१४५२) अणगयनादिभ्यः ४।३१७३॥ ठआदेरपवादः । आर्गयन: । औपनिषदः । वैयाकरणः । (१४५३) अनन्तोदात्तार्थ इति । वाजपेयशब्दो मध्योदात्तः तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्नि. टोमशब्दः अन्तोदात्त एव तत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठिसमासः, समासस्वरे. णान्तोदात्त एव । तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः। अध्यायेष्वेवर्षेः। वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चित् ग्रन्थविशेषोऽयम् । वासिष्ठी गिति । ऋचः अध्यायसमाख्याभावात् न ठजिति भावः।
पौरोडाश । उक्तविषये इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रः लक्ष. णया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति । पुरोडाशशब्दात ष्ठनि रूपम् । पित्त्वात् ङीष् । पौरोडाशिकी-पुरोडाशिकी। छन्दसो यदणौ । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्य-छान्दस इति । 'छन्दसां व्याख्यानः तत्र भवो वे. त्यर्थः। द्वयज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः। धजवाह्मण । द्वय , ऋत् , ब्राह्मण, ऋक प्रथम, अध्वर, पुरश्चरण, नामन् , आख्यात एभ्यः ठक् स्यात् तस्य व्याख्याने तत्र भवे च । शैषिक इति । शेषस्य व्याख्यानः तत्र भवो वेत्यर्थः । पाशुक इति । पशुया. गप्रतिपादकग्रन्थः पशुः, तस्य व्याख्यानः तत्र भवो वेत्यर्थः।। उकः परत्वात् ठस्य कः। ऋत इति । उदाहियत इत्यर्थः । चातुहोतृक इति । 'चित्तिः सुक्' इत्यादयो मन्त्राचतु:तारस्तैत्तिरीये प्रसिद्धाः। तेषां व्याख्यानः तत्र भवो वेत्यर्थः । ब्राह्मणि कः, श्राचिंक इति । ब्राह्मणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः तत्र भवो वेत्य. र्थः । इत्यादीति। प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः । अणगयनादिभ्यः। तस्य व्याख्याने तत्र भवे चेति शेषः । श्रायन इति । ऋगयनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । 'बलचोऽन्तोदात्तात्' इति उनि
For Private and Personal Use Only
Page #782
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
तत आगतः ४।३।७४ ॥ स्रुघ्नादागतः स्त्रौघ्नः । ( १४५४) ठगायस्थानेभ्यः ४ ३ ७५॥ शुल्कशालायाः आगतः । शौल्कशालिकः । ( १४५५ ) शुण्डिकादिभ्योऽणू | ४ | ३ |७६ ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डि - कादागतः शौण्डिकः कः । कार्कणः । तैर्थः । औदपानः । ( १४५६) विद्यायोनिसम्बन्धेभ्यो वुञ ४ | ३ |७७ ॥ श्रोपाध्यायकः, पैतामहकः । (१४५७) ऋत४ | ३ |७६ ॥ वुञोऽपवादः । होतृकम् । भ्रातृकम् । ( १४५८ ) पितुर्यच्च ४|३|७६॥ चाट्ठञ् । 'रीत' ( सू १२३४ ) । 'यस्येति च ' ( सू ३११ ) इति लोपः । पित्र्यम् - पैतृकम् । ( १४५६ ) गोत्रादङ्कवत् ४|३|०|| बिदेभ्यः आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । ( १४६० ) नञः शुची
७७३
प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः | 'न य्वाभ्याम्' इत्यैच् । अण्ग्रहणं तु छबाधनार्थम् । अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः ।
तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्रौघ्न इति । औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत आगतः इत्यर्थे इति शेषः । हट्टादिषु स्वामिग्राह्यो भागः आयः । स यस्मिन् गृह्यते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः । शुण्डि • कादिभ्योऽण । तत आगत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण दति । कृकणादागत इति शेषः । 'कृणपर्णाद्वारद्वाजे' इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । श्रौदपान इति । अत्र उत्सादित्वादन् प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अव स्यात् । विधायोनि । तत आगत इत्येव । श्रौपाध्यायकः, पैतामहक इति । उपाध्यायात्पितामहाच्च आगत इत्यर्थः । ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । छतृकम्, भ्रातृकमिति । उकः परत्वात् ठस्य कः । पितुर्यच्च । यति प्रक्रियां दर्शयति-रीकृत इति । गोत्रादङ्कवत् । अड़के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । विदेभ्य श्रागतमिति । विग्रहप्रदर्शनम् । अत्र 'यञञोश्च' इति बहवे अ लुकि विदेभ्य इति निर्देशः । वैदमिति । 'सङ्घाङ्गलक्षणेष्वभ्यमित्राम इत्युक्तेरजन्तादिहाप्यर्थं अणि विवक्षिते 'गोत्रेऽलुगचि' इत्यत्रो लुनिवृत्तौ बैदशब्दाण' 'द्वयब्राह्मण' इति द्वयज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यजन्तादण् । दाक्षमिति । इजन्तादण् । श्रपगत्रकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः । 'गोत्रचरणाद्ञ्' इति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यत्रिजन्तादपि स दृष्ट इति तस्याप्यत्रार्थं अतिदेशो भवति । न हि 'सङ्घाङ्क' इति
1
1
For Private and Personal Use Only
Page #783
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४
सिद्धान्तकौमुदी
[तद्धिते शैषिक.
श्वरक्षेत्रक्षकुशलनिपुणानाम् ७।३॥३०॥ ननः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा बिदादौ परे । आशौचम्-अशौचम् । आनेश्वर्यम्अनैश्वर्यम् । आक्षेत्रज्ञम्-अक्षेत्रज्ञम् । आकौशलम्-अकौशलम् । आनैपुणम्अनैपुणम् । ( १४६१ ) हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ४।३।१॥ समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्-देवदत्तम्-देवदत्तीयम् । (१४६२) मयट च ४।३।२॥ सममयम् । विषममयम् । देवदत्तमयम् । (१४६३) प्रभवति ४।३।३॥ ततः इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । (१४६४) विदूराज्य: ४॥३॥४॥ विदूरात्प्रभवति वैदूर्यो मणिः । (१४६५) तद्गच्छति पथिदूत. योः४।३।८५॥ स्रुघ्नं गच्छति स्रौनः पन्थाः दूतो वा । (१४६६) अभिनिकामति द्वारम् ४३८६॥ तत् इत्येव । घुघ्नमभिनिष्क्रामति स्रोनं कान्यकुब्जद्वारम् । (१४६७ ) मधिकृत्य कृते ग्रन्थे ४।३।८७॥ तत् इत्येव । शारीरकमधिकृत्य कृतो प्रन्थः शारीरकीयः। 'शारीरकं भाष्यम्' इति त्वभेदोप
'प्रतिपदोक्तस्याण एवात्रातिदेशः।। किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविद सूत्रम् । आशौचम्-अशौचम् इति । अशुचेरागतमित्यर्थः। तत आगत इत्यणि पूर्व पदस्यादिवृद्धिविकल्पः। उत्तरपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैश्वर्यमित्यत्र तु ब्राह्मणादित्वात् भावे व्यञ्। .
हेतुमनुष्येभ्यः। तत आगत इत्येव । हेतुभ्य उदाहरति- समादागतमित्यादि । मनुष्यवाचिन उदाहरति-देवदत्तरूप्यमिति । मयट् च । उक्तविषये इति शेषः । प्रमवति तत इत्येवेति । आगत इति तु निवृत्तम् । प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः प्रथमप्रकाशः । हिमवतः प्रभवतीति। हिमवति प्रथम प्रकाशत इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदूरान्ध्यः। ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् । तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्थाः दूतो वा, इत्यर्थः । अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमि. त्यर्थः । अधिकृत्य । तदित्येवेति । अधिकृत्य कृतो ग्रन्थः, इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीरस्यायं शारीरः जीवात्मा, तमित्यर्थः । तस्येदमि
For Private and Personal Use Only
Page #784
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७७५
चारात् । (१४६८) शिशुक्रन्दयमसमद्वन्द्वन्द्रजननादिभ्यश्छः ४।३। मा शिशूनो क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दोयः । यमस्य सभा यमसभम् । क्लीयत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् । ( १४६६) सोऽ. स्य निवासः ४॥३8॥ त्रुघ्नो निवासोऽस्य स्त्रोन्नः। (१४७०) अभिजनश्च ४।३।०॥ त्रुघ्नोऽभिजनोऽस्य खौघ्नः । यत्र स्वयं वसति स निवासः। यत्र पूर्वै. रुषितं सोऽभिजनः इति विवेकः । (१४७१ ) आयुधजीविभ्यश्छः पर्वते ४।३।११॥ पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविना ते हृद्गोलोयाः । आयुध-इति किम् । ऋशोदः पर्वतोऽभिजनो येषां ते आर्शदा द्विजाः। (१४७२) शण्डिकादिभ्यो ज्यः
३।४२॥ शण्डिकोऽभिजनोऽस्य शाण्डिक्यः। (१४७३) सिन्धुतक्षशिलादिभ्योऽणो ४।३।६३॥ सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् । स्यादुक्तेऽर्थे । सैन्धवः। तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः । (१४७३) तुदीसलातुरवमवतीकूचवाराड्ढक्छण्ढव्यकः ४।३६४तुदी अभिजनोऽस्य तौदेयः। सालातुरीयः । वामतेयः । कोचवार्यः । (१४७५) भक्तिः ४॥३५॥ 'सोऽस्य' इत्यनुवर्तते। भज्यते सेव्यत इति भक्तिः, सुनो भक्तिरस्य त्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादिएभ्यः छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थः । निपातनादिति । 'सभा राजा' इति तु नपुंसकत्वं न भवति । तत 'अमनुष्यशब्दो रूढ्या रक्षःपिशाचा. दीनाह' इत्युक्तेरिति भावः। __सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । यत्र सम्प्रत्युष्यते स निवासः इति भाष्यम् । अभिजनश्च । स इत्यनुवर्तते । पूर्ववव्याख्येयम् । यत्र पूर्फरुषितं सोऽभिजन इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः। पर्वतादिति पाठान्तरम् । अभिजनशब्दादिति । अभिजनदे. शवाचिन इत्यर्थः। आयुधजीविनोऽभिधातुमिति शेषः । सूत्रे क्रियार्थोपपदस्या इति चतुर्थी । हृद्गोल इति । पर्वतविशेषोऽयम् । ऋशोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो व्यः । सोऽभिजन इत्यर्थे प्रथमान्तेभ्यः इति शेषः । सिन्धुतक्ष । सैन्धव इति । सिन्धुदेशविशेषः अभिजनोऽस्येति विग्रहः। तुदीसलातर। तुदी, सलातुर, वर्मती, कूचवार एभ्यः प्रथमान्तेभ्यः ढक् , छण् , ढञ् , यक् एते स्युः अस्याभिजन
For Private and Personal Use Only
Page #785
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७७६
सिद्धान्तकौमुदी
[ तद्धिते शैषिक
। ( १४७६ ) अचित्ताददेशकालाट्ठक् । ४ ३६६ ॥ अपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात् किम् । देवदत्तः । आदेशात् किम् । स्रौघ्नः । अकालात् किम् । ग्रैष्मः | ( १४७७ ) महाराजाट्ठञ् ४ | ३ |६७ ॥ माहाराजिकः । (१४७८) वासुदेवार्जुनाभ्यां वुन् ४३॥ वासुदेवकः अर्जुनकः । ( १४७६ ) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ४|३६|| अणोऽपवादः । परत्वादवृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिन: भक्तिरस्य पाणिनीय: । ( १४८० ) जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ४ | ३ | १०० ॥ जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' ( सू १३४८ ) इति प्रकरणे ये प्रत्यया उक्तास्तेऽप्रातिदिश्यन्ते । अङ्गाः जनपदो भक्तिरस्य आङ्गकः । इत्यर्थे । भक्तिः अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । श्रचित्ताददेश । देशकालव्यतिरिक्तादप्राणिवाचिनः ठक् स्यादुक्तविषये । अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं वेदाः प्रमाणमितिवत् । पायसिक इति । यो भक्तिरस्येति विग्रहः । महाराजाट्ठञ् । सोऽस्य भक्तिरित्यर्थे इति शेषः । माहाराजिक इति । महाराजः भक्तिरस्येति विग्रहः । वासुदेव । सोऽस्य भक्तिरित्येव । वासुदे वक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्यमित्यर्थं 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति वार्ष्णेयत्वादणि वासुदेवशब्दात् 'गोत्रक्षत्रियाख्येभ्यो बहुलं ज्' इति जैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम् - अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किन्तु यस्मिन् समस्तं वसति यो वा समस्ते स वासुः, सचासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तंच भाष्ये- 'नैषा क्षत्रियाख्या सज्ज्ञैषा तत्र भवतः' इति । गोत्रक्षत्रिय । गोत्र. प्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविषये बहुलं वुञ् स्यादित्यर्थः । इह न पारिभा षिकं गोत्रम् | छं बाधते इति । औपगवक इत्यादाविति शेष: । ग्लुचुकाय निरिति । 'प्राचामवृद्धात्' इति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति । क्षत्रियाख्योदाहरणम् ।
1
जनपदिनाम् । बहुवचने परे ये जनपदेन समानशब्दाः जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविधाः तेषां जनपदिनां जनपदस्वामिवाचिनां जनपदवत् जनपदे इव सर्व स्यादित्यर्थः । 'जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः ते भवन्ति । प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दाल्लभ्यते । तदाह-- जनपदस्वामिवाचिनामित्यादिना । अङ्गाः जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो
For Private and Personal Use Only
Page #786
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७७७
AANNov
-
-
-
अशाः क्षत्रियाः भक्तिरस्य आजकः । जनपदिनाम् किम् । पञ्चालाः ब्राह्मणाः भक्तिरस्य पाञ्चालः । जनपदेन इति किम् । पौरवो राजा भक्तिरस्य पौरवीयः। (१४८१) तेन प्रोक्तम् ४।३।१०१ ॥ पाणिनिना प्रोक्तं पाणिनीयम् । (१४८२) तित्तिरिवरतन्तुखण्डिकोखाच्छण ४।३।१०२॥ 'छन्दोब्राह्मणानि-- (सू १२७८ ) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । (१४८३) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ४३।१०३ ॥ काश्यपेन प्रोक्तमधीयते काश्यपिनः। ( १५८४) कलापिवैशम्पायनान्तेवासिभ्यश्च जनपदः अङ्गाः, 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । सः जनपदः भक्तिरस्येत्यर्थे 'जनपदतदवध्योश्व' इति वुन्प्रत्यये आङ्गकः इति यथा, तथा अङ्गदेशस्वामिनः क्षत्रियाः अङ्गाः भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दावुनि आङ्गका इति रूपमि. त्यर्थः । पञ्चाला ब्राह्मण इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दाः। तत्रातिदे. शाभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति भावः । बहुवचने किम , एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् ? मद्राणां राजा माद्रः 'द्वय. ज्मगध' इत्यण । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति 'मद्रवृज्यो' इति कनि मादक इति सिध्यति। - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः । वृद्धाच्छः । प्रथम प्रकाशितम् प्रोक्तम् । नेह देवद. तेनाध्यापितम् । तित्तिविरतन्तु । तेन प्रोक्तमित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख एभ्यः उक्तविषये छण स्यादित्यर्थः । इत आरभ्य 'तेनैकदिक्' इतिपर्यन्तं प्रोक्त वेदे भवन्ति 'शौनकादिभ्यः छन्दसि' इति छन्दोग्रहणस्य ततः पूर्व ततः उत्तरं चापक. र्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः । किन्त्वध्ये तृवेदितृप्रत्ययशिरस्काणामेवेत्याह-छन्दोब्राह्मणानीति तद्विषयतेति । अध्येत वेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण ईयः । तैत्ति. रीयः, शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् । 'प्रोक्ताल्लु इति तस्य लुगिति भावः । वारतन्तवीयाः खाण्डिकीयाः, मौखीयाः। तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दाशब्देन च कल्पसूत्राणामपि ग्रहणम् , तेषां सर्वशाखा. गतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप । तेन प्रोक्तमित्येव । छस्यापवादः । काश्यपिन इति । काश्यपशब्दात् णिनिः । णकार इत् , नकारादिकारः उच्चारणार्थः । काश्यपिन्शब्दात् 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । ऋषिभ्यां किम् , इदानीन्तनेन काश्यपेन प्रोक्तं काश्यपीयम् ।
For Private and Personal Use Only
Page #787
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७७
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
४।३।१०४ ॥ कलाप्यन्तेवासिभ्यः-हरिगुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पा. यनान्तेवामिभ्यः-आलम्बिनः । (१४८५) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ४।३।१०५ ॥ तृतीयान्तात्प्रोक्तार्थे णिनिः , स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेब्राह्मण. कल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिता, पैङ्गी करूपः। पुराण-इति किम् । याज्ञ.
कलापि । तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यो वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । उदाहियत इति शेषः । हारिद्रविण इति । हरिदुर्नाम कलापिनः शिष्यः । ततः प्रोक्त णिनिः, मोर्गुणः, आदिवुद्धिः। हारिद्रवि. शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलपः इति चत्वारः कलापिशिष्याः। तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिन्य इति । उदाहियत इति शेषः । पालम्बिन इति । आलम्बि , कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डयः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः। तत्र आलम्बिशब्दात् अध्येत्रणः प्रोक्ते णिनिः । आलम्बिन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लक । आलम्बिनः कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्र 'आपत्यस्य' इति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण। वक्ष्यते वैशम्पायनशिष्यः कलापी । तथाच कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथरग्रहणात् । तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।
पुराणप्रोक्तेषु । 'तेन प्रोक्तम्' इति 'गिनिः' इति चानुवर्तते । मन्त्रव्यतिरिक्त. दभागा ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः। तथाभूतेषु पुरातनमुनि. प्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताणिनिः स्यादित्यर्थः । तदाह-तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिपोक्त. ब्राह्मणकल्पात्मकं चेदिति यावत् । पुराणप्रोक्तमित्येतद्व्याचष्टे-पुराणेनेति । ब्राह्मणे उदाहरति-भल्लु, भाल्लविनः इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन इति रूपमिति भावः । ब्राह्मणे उदाहरणान्तरमाह-शाट्यायन, शाट्यायनिन इति । शाट्यायनेति प्रकृतिनिर्देशः । शाट्यायनेन पुरातनमुनिना प्रोक्तान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः। कल्पे इति । उदाहियत इति शेषः । पिङ्ग-पङ्गी कल्प इति । पिङ्गेति प्रकृतनिर्देशः । पिङ्गन पुरातनमुनिना प्रोक्त इत्यर्थे जिनौ रूपम् । 'छन्दोब्राह्मणानि च तद्विषयाणि' इत्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पषु न सर्वत्र
For Private and Personal Use Only
Page #788
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
चकानि ब्राह्मणानि । आश्मरथः कल्पः । अणि 'आपत्यस्य -' ( सू १०८२ ) इति यलोपः । ( १४८६ ) शौनकादिभ्यश्छन्दसि ४ | ३ | १०६ || छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः । (१४८७ ) कठचरकाल्लुकू ४|३|१०७ ॥ आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः । ( १४८८ ) कलाविनोऽण् ४।३।१०८ ॥ कलापिना प्रोक्तमधीयते कालापाः । ' नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकीथुमितै तिलिजा जलिलाङ्गलिशिलालिशिखण्डिसुकरसद्म सुपर्वणामुपसङ्ख्यानम् ' ( वा ४१८३) इत्युपसङ्ख्य नाट्टिलोपः । (१४८६) छगलिनो ढिनुक् ४ | ३ | १०६ ॥ छगलिना प्रोक्तमधीयते छागलेयिनः । ( १४६० ) पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ४ | ३ | ११० ॥ गिनिः स्यात् । पाराशर्येण प्रोक्तं भिक्षुसूत्रम
प्रवर्तत इति 'छन्दो ब्राह्मणानि ' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति । याज्ञवल्क्येन प्रोक्तानीत्यर्थः । श्रइमरथः कल्प इति । आश्मरथ्येन प्रोक्त इत्यर्थः । यलोपः इति । यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि 'आपत्यस्य च' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः | भाष्ये तु शाट्यायनादितुल्यकालत्वात् याज्ञवल्क्यादिम्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् ।
1
कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक' इति लुक् । चरकाः इति । चरकेण प्रोक्तमधीयते इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्ताल्लुक् । कलापिनोऽण् 'तेन प्रोक्तम्' इत्येव । वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिनुशब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः । 'इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कयाह - नान्तस्येति । छगलिनो ढिनुक् । छगलिन्शब्दाविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इस उकार उच्चारणार्थः । दिन् शिव्यते । ढस्य एय्, टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य । णिनिः स्यादिति । उक्तविषये इति शेषः । मण्डूकप्लुत्या णिनिग्वानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थं च तृतीयान्ताणिनिःस्यादिति यावत् । भिक्षवः सन्न्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशर्येति । पराशरशब्दाद्गर्गादित्वात् गोत्रे यजि पाराशर्यः । व्यास त्वनन्तरापत्ये गोत्रत्वारोपाचन । तेन प्रोक्तं भिक्षुसूत्रे णिनिः, ततोsध्येतृ प्रत्य
For Private and Personal Use Only
Page #789
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
सिद्धान्तकौमुदी
[तद्धिते शैषिक
धीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। (१४६१) कर्मन्दकृशा. भ्वादिनिः ४।३।१११ ॥ "भिक्षुनटसूत्रयोः' इत्येव । कर्मन्देन प्रोक्तमधीयते कमन्दिनो भिक्षवः । कृशाश्विनो नटाः। (१४६२ ) तेनैकदिक ४।३।११२ ॥ सुदाम्ना अद्रिणा एकदिक् सौदामनी । (१४६३ ) तसिश्च ४।३।११३ ॥ स्वरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः । (१४६४ ) उरसो यच्च ४।३।११४ ॥ चात्तसिः । अणोऽपवादः । उरसा एकदिक् उरस्य:उरस्तः । (१४६५) उपशाते ४।३।११५ ॥ तेन इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् । (१४६६) कृते ग्रन्थे ४।३।११६ ॥ वररुचिना कृतो वाररुचो प्रन्थः । (१४६७) संज्ञायाम् ४।३।११७ ॥ तेन इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु । (१४४८ ) कुलालादिभ्यो वु ४।३।१९८॥ तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् । (१४६४) क्षुद्राभ्रमरवटरपादपादञ् ४।३।११६ ॥ तेन कृते संज्ञायाम् । क्षुद्राभिः
-
यस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दात् नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द। कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः ।
तेनेकदिक् । सहाथें तृतीया । एकादिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणि 'अन्' इति प्रकृतिभावान टिलोपः । तसिश्च । 'तेनैकदिक इत्यर्थे तृतीयन्तात्तसिश्च स्थादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति । 'स्वरादि. निपातमव्ययम्' इति प्रकरणे 'तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादयः' इति परि. गणने तसेः पाठादित्यर्थः । उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञात प्रथमज्ञातम् । कृते ग्रन्थे। तेन कृतो ग्रन्थः इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सन्शायाम् । तेनेत्येवेति । तेन कृतमित्यर्थे सज्ञायां तृतीयान्ताग्रथाविहितं प्रत्ययाः स्युरित्यर्थः । ग्रन्थे इति नानुवर्तते । तदाह-अग्रन्थार्थमिति । कुलालादिभ्यो धुन् । तेन कृते सज्ञायामिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः । क्षुद्राअमर । तेन कृते सज्ञायामिति शेषपूरणम् । क्षुद्रा मधुमक्षिकाः ।
For Private and Personal Use Only
Page #790
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७१
कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् । (१५०० ) तस्येदम् ४।३। १२० ॥ उपगोरिदमौपगवम् । 'वहेस्तुरणिट च' (वा २९१०) । संवोढुः स्वं सांवहित्रम् । 'अग्नीधः शरणे २ण भत्वं च (वा २९११) । अग्निमिन्द्धे अग्नीत् तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः । 'समिधामाधाने षेण्यण्' (वा २९१२) । सामिधेन्यो मन्त्रः-सामिधेनी ऋक्। (१५०१ ) रथाद्यत् ४।३।१२१ ॥ रथ्यं चक्रम् । (१५०२) पत्रपूर्वाद ४।३।१२२ ॥ पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् । (१५०३) पत्राध्धयुपरिषदश्च ४।३।
___ तस्येदम् । इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्ययाः राष्ट्रापारेत्यादिभिः विशिष्य विहिताः पादयश्च प्रत्यया यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्व विशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमिति 'तस्या. पत्यम्। इत्यत्रोक्तम् । वस्तुरणिट चेति । वातिकमिदम् । तुरिति तृन्तृचोः सामान्येन ग्रहणम् । बहधातोविहितः यः तृप्रत्ययः तस्मादण स्यात् । तृप्रत्ययस्य इडागमश्च । तत्र अण पूर्वेण सिद्धः इविध्यर्थमनूयते । संवोढुः स्वमिति । विग्रहप्रदर्शनम् । वहेस्तृच् तन् वा । वहेरनुदात्तत्त्वात् 'एकाच उपदेशे' इति नेट । ढत्वधत्वष्टुत्वदलोपाः । सहि. वहोरोदवर्णस्य' इत्योत्त्वम् । सांवत्रिमिति । ढत्वादीनामसिद्धत्वादलौकिक एवं विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधः शरणे रण भस्वं चेति । वार्तिकमिदम् । शरणमित्यर्थे अग्नीच्छब्दात् षष्ठ्यन्तादण् , तस्मिन्परे भत्वं च वक्त. व्यमित्यर्थः। शरणं गृहम् । अग्निमिन्द्धे अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः विप् 'अनिदिताम्' इति नलोपः । श्रामोध्रमिति । सोमे महावेदेरुत्तराधै पञ्चारत्निचतु. रश्रस्थानविशेषसज्ञेयम् । भत्वान जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये एतद्वै यज्ञस्यापराजितं यदाग्नीध्रमित्यादावायुदात्तत्वं तु 'आग्नीध्रसाधारणादज वक्तव्यः' इति स्वाधिके अभि बोध्यम् । नन्वेबम् 'आग्नीध्रः प्रत्याश्राबयेत, इस्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह-तात्स्थ्यादिति । आग्नीध्राख्यदे. शस्थत्वात् ऋत्विग्विशेष आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्रः इत्यर्थे षष्ठयन्तात् समिच्छब्दात् षेन्यप्र. त्ययो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह-सामिधेनी ऋगिति । सामिधेन्यशब्दात डीए 'हलस्तद्धितस्य' इति यलोपः । ___ रथाद्यत् । तस्येदम्' इत्येव । रथ्यं चक्रमिति । 'रथाद्रथाङ्ग इति वचनाचक्रमिति विशेष्यम् । पत्रपूर्वादअ । रथादित्येव । पत्रं वाहनमिति । 'पत्रं वाहनपक्षयोः' इति
For Private and Personal Use Only
Page #791
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
-
-
१२३ ॥ अन् । 'पत्राद्वाह्ये (वा २९०८)। अश्वस्येदं वहनीयमाश्वम् । आध्व. येवम् । पारिषदम् । (१५०४ ) हलसीराक ४।३।१२४ ॥ शालिकम् । सैरिकम् । (१५०५) द्वन्द्वादुवुन्वैरमैथुनिकयोः ४।३।१२५ ॥ काकोलू किका । कुत्सकुशिकिका । 'वैरे देवासुरादिभ्यः प्रतिषेधः' ( वा २९१४)। देवा. सुरम् । (१५०६ ) गोत्रचरणावुन ४।३।१२६ ॥ औपगवकम् । 'चर. णादर्माम्नाययोरिति वक्तव्यम्' (वा २९१३ ) । काठकम् । (१५०७ ) सवा
लक्षणेष्वञ्यञिञामण ४।३।१२७ ॥ घोषप्रहणमपि कर्तव्यम्' (वा २९१५) । अञ् । वैदः । सङ्घोऽको घोषो वा बैदं लक्षणम् । यञ् , गार्ग:गार्गम् । इञ् दाक्षः-दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् । कोशः । पत्राध्वर्युपरिषदश्च । अमिति । शेषपूरणम् । पत्त्रादिति । पत्राद्वाह्य एवेति वक्तव्यमित्यर्थः । आश्वमिति । पत्रेत्यर्थग्रहणमिति भावः। श्राध्वर्यवं पारिषदमिति । अध्वयोरिदं, परिषद इदमिति विग्रहः । हलसीराट । तस्येदमित्येव । हालिकन् । सरिकमिति। हलस्येदं, सीरस्येदमिति विग्रहः । द्वन्द्वावुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्तात् वुन स्यादित्यर्थः। काकोलूकिकेति । काकोलूकस्य वैरमिःत्यर्थः। वुनि स्त्रीत्वं लोकात् । कुत्सकुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः । बुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वावुन । स्त्रीत्वं लोकात् । वैरे देवानुरेति । वार्तिकमिदम् । देवासुरमिति । देवासुरयोरमित्यर्थः । वुनभावे अण् । मैथुनिकायां तु देवासुरिकेत्येव । 'द्वन्द्वे देवासुर' इति त्वपपाठः, अत्र भाष्ये वैरे इत्येव वातिकपाठात् । 'शिशुक्रन्द' इति सूत्रभाष्ये तु ।'द्वन्द्वे देवासुरादि. भ्यः प्रतिषेधः' इति पठितम् , दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुरावधिकृत्य कृतमाख्यानमित्यर्थः । गोत्र चरणावुन । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्ठयन्तादिदमित्यर्थे बुजित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरति-औपगवकमिति । औपगवस्येदमित्यर्थः । वस्तुतस्तु औवगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ् विहितः सः धर्मे आम्नाये च वाच्ये भवति नान्यत्रेत्यर्थः । काठकामति । कठेन प्रोक्तमधीयते कठाः, तेषां धर्मः आम्नायो वेत्यर्थः आम्नायो वेदाभ्यासः ।
सङ्घाङ्क । अजन्तात् , यजन्तात् , इसन्ताच्च सङ्घ अङ्के लक्षणे च इदन्त्वेन विव. क्षिते अणित्यर्थः । छस्यापवादः। घोषेति । 'सङ्घाङ्कलक्षणघोषेषु' इति सूत्रं कर्तव्य. मित्यर्थः । तथाच तिनः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम् । गार्ग इति । सङ्घः अङ्को घोषो वेति शेषः । गार्गमिति । लक्षणमिति शेषः । एवं दाक्षो, दा -
For Private and Personal Use Only
Page #792
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७८३
(१५०८) शाकलाद्वा ४।३।१२८ ॥ अण्वोक्तेऽथे । पक्षे चरणत्वाबुन् । शकलेन प्रोक्तमधीयते शाकलाः, तेषां सङ्घोऽको घोषो वा शाकल:-शाकलकः । लक्षणे क्लीबता । (१५०६) छन्दोगे क्थिकयाशिकबहवृचनटायः ४।३।१२ ॥ छन्दोगानो धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाहच्यम् । नाट्यम् । 'चरणाद्धर्माम्नाययोः' (वा २९१३) इत्युक्तम् । तत्साहचर्यान्नटशब्दादपि तयोरेव । (१५१० ) न दण्डमाणवा. न्तेवासिषु ४।३।१३० ॥ दण्डप्रधाना माणवा दण्डमाणवाः तेषु शिष्येषु च वुध्न स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा। (१५११) वतिकादिभ्य. श्छ: ४।३।१३१ ॥ तस्येदमित्यर्थे । वुजोऽपवादः । रैवतिकीयम् । बैजवापीयम् । (१५१२ ) कौपिञ्जलाहास्तिपदादण ४।३।१३२ ॥ (वा २९१८ )। कुपिजलस्यापत्यम् । इहैव निपातनादण् । तदन्तात्पुनरण् । कौपि
मित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह-परम्प. रेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैंदी विद्या । 'घोष आभीरपल्ली स्यात्' इत्यमरः । शाकलाद्वा । शाकले नैति । शकलशब्दा. प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणात्' इति धर्माम्नाययो. qोऽपवादः भण् । तदभावे वुन् । छन्दोगौक्थिक । सध्यादयो निवृत्ताः छन्दोगादीनां चरणत्वात् । धर्माम्नाययोरिति सम्बध्यते । छन्दोग, औक्थिक, याज्ञिक, बहवृच, नट एभ्यो धर्म आम्नाये च इदन्त्वेन विवक्षिते व्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययोः कथमन्वय इत्याशते-चरणाद्धर्माम्नाययोरित्युक्तमिति । यद्यपीति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यानटशब्दा. दपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः । न दण्ड। दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्र. त्वलक्षणो वुञ् न भवति, किन्त्वौत्सर्गिकोऽणेव ।
रैवतिकादिभ्यश्छः । तस्येदमित्यर्थे इति । शेषपूरणम् । वम इति । गोत्रत्वलक्षणवुमोऽपवाद इत्यर्थः। रेवतिकीयमिति । रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्ठक । वतिकस्येदमिति विग्रहः । बैजवाषेयमिति । बीजवापस्यापत्यं बैंजवापिः, तस्येदमिति विग्रहः । कौपिजलशास्तिपदादण । कुपिञ्जलस्यापत्यमित्यनन्तरं 'इत्यर्थे इति शेषः । इहेति । अस्मिन् वार्तिके कौपिञ्जलेति निर्देशात् अत इमं बाधित्वा अणित्यर्थः ।
For Private and Personal Use Only
Page #793
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते प्राग्दीव्यतीय
mmmmmmmmmmmmmmmmmmmmmmmmmmmm
जलः । गोत्रवुअोऽपवादः । हस्तिपादस्यापत्यं हास्तिपदः, तस्यायं हास्तिपदः (१५१३ ) माणिकस्येकलापश्च ४।३।१३३ ॥ अण्स्यात् । आथर्वणिकस्यायमाथर्वणो धर्म आम्नायो वा । चरणाद्वोऽपवादः ।
। इति तद्धिते शैषिकप्रकरणम् । अथ तद्धिते प्रारदीव्यतीयप्रकरणम् ॥ ३० ॥ ( १५१४ ) तस्य विकारः ४।३।१३४ ॥ 'अश्मनो विकारे टिलोपो वक्तव्यः' ( वा ४१८५)। अश्मनो विकारः आश्मः । भास्मनः। मार्तिकः ।
तदन्तादिति । अणन्तात् 'तस्येदम्' इत्यर्थे अनेन ( सूत्रेण ) पुनरणित्यर्थः। इस्तिपादस्येति । हस्तिन इव पादौ अस्येति विग्रहः, 'पादस्य लोप' इति न भवति अहस्त्या. दिभ्य इति प्रतिषेधात् । हस्तिपादस्यापत्यं हास्तिपदः । अत इज बाधित्वा अत एव निपातनादण पदावश्च हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः । गोत्र. मोऽपवादः। आथर्वणिकस्येकलोपश्च। इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति । आथर्वणिकशब्दात्तस्येदमित्यर्थे अण् स्यात् । प्रकृतेरिकस्य लोपश्चेत्यर्थः । पाथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदः अथवेत्युपचर्यते, तमधीते आथर्वणिकः । वस. न्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे 'दाण्डिनायन' इति टिलोपाभावे, आथर्वण इति रूपमित्यर्थः । धर्म आम्नायो वेति । 'चरणाद्धर्माम्ना. ययोः' इत्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्ध अण्विधिय॑र्थ इत्यत आहचरणावुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः ।
___ इति तद्धिते शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते । तस्य विकारः। विक्रियते इति विकारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मिकां विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षष्टयन्तादणादयः साधारणा वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अवमन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिमा. वापवादः । पाश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः। 'चर्मणः कोशे' इत्युपसङ्ख्यानाटिलोपः । भात्मन इति । भस्मनो विकार इत्यर्थः । अणि अनिति प्रकृतिभावान टिलोपः। मात्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽञ्' 'ओर' 'अनुदात्तादेवच' इत्यादिवक्ष्यमाणापवादविषः यभिन्नमुदाहरणम् । तत्र अश्मन् , भस्मन् , चर्मन् इति त्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्तः । नित्स्वरेणाद्यु.
For Private and Personal Use Only
Page #794
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
७५
-
(१५१५ ) अवयवे च प्राण्योषधिवृक्षेभ्यः ४।३।१३५..॥ चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्य काण्डं भस्म वा । पैप्पलम् । (१५१६) बिल्वादिभ्योऽण ४।३।१३६॥ बैल्वम् । (१५१७) कोपधाच्च ४।३।१३७॥ अण । अनोऽपवादः । त', तावम् । तैत्तिडीकम् । (१५१८) पुजतुनोः षुक्॥३।१३८॥ आभ्यामण् स्याद्विकारे, एतयोः षुगागमश्च । त्रापुषम् । जातुषम् । (१५१६) मोर ४।३।१३६॥ देवदारवम् । भाद्रदारवम् । (१५२०), अनुदात्तादेश्च ४।३।१४०॥ दाधित्थम् । कापित्यम् । (१५२१) पलाशादात्तः । भवयवे च प्राण्योषधि । प्राणिवाचिनः ओषधिवाचिनो वृक्षवाचिनश्च षश्यः न्तेभ्यः अवयवे विकारे च अणादयः उक्ताः वक्ष्यमाणाश्च प्रत्ययाः यथा: विहितं स्युः । अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरति-मायूर इति । 'लधावन्ते' इति मयूरशब्दो मध्योदात्तः । ततः 'प्राणिरजतादिभ्यः' इत्यञ् । ओषधेल्दाहरति-मौर्बमिति । मूर्वा ओषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सगिकोऽण् । 'अनुदात्तादेव' इत्यम् तु वक्ष्यमाणो न भवति, 'तृणधान्यानां च द्वयषाम्' इत्याद्युदात्तत्वात् । वृक्षस्योदाहरति-पप्पलमिति । पिप्पल: अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मध्योदात्तः पिप्पलशब्दः। 'अनुदा. त्तादेश्व' इति वक्ष्यमाणामोऽभावे औत्सर्गिकोऽण् ।
बिल्वादिभ्योऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अन् स्यादित्यर्थः । बैल्वमिति । बिल्वल्यावयवो विकारो वेत्यर्थः। बिल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कुटीर इति बिल्वादयः । तत्र गषेधुकस्य 'कोपधाच्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः । इतरेषां तु 'अनुदात्तादेश्व' इत्यनो बाधनार्थमिति कौस्तुभे विस्तरः । कोपधाच्च । मणिति शेषः । तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । त• तार्कवमिति । तर्कु इति प्रकृतिनिर्देशः। तओनाम वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः । 'ओरञ्' इत्यस्यापवादः अण् । तित्तिडीकशब्दो 'लघावन्ते' इति मध्योदात्तः । 'अनुदात्तादेश्व' इत्यत्रोऽपवादः अण् । त्रपुजतुनोः षुक् । त्रापुषम् । जातुपमिति । त्रपुणो जतुनश्च विकार इत्यर्थः । ओरन् । उवर्णादम् स्यादित्यर्थः । प्राण्यो. षधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । देवदारवम् । भाद्रदारवमिति । देवदारोभद्रदारोश्चावयवो विकारो वेत्यर्थः । 'पीतवर्थानाम्' इत्यायुदात्तावेतौ। ततश्च 'अनुदात्तादेश्व' इत्यनेन गतार्थता न । अनुदात्तादेश्च । विकारे अजिति शेषः। 'अव. यवे च' इति सूत्रमप्यत्र सम्बध्यते। दाधिस्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् । 'कपित्थे तु दधित्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्रातिपदि.
बा० ५०
For Private and Personal Use Only
Page #795
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी । तद्धिते प्राग्दीम्पतीय
दिभ्यो वा ४३१४१॥ पालाशम् । खादिरम् । कारीरम् । (१५२२) शम्याः
लञ् ४।३।१४२॥ शामीलं भस्म । विस्वान्छीष्। शामीको चुक् । (१५२३) मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ४।३।१४३॥ प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम्-आश्मनम् । 'अभक्ष्य-' इत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । (१५२४) नित्यं वृद्धशरादिभ्यः ४।३।१४४॥ आम्रमयम् । शरमयम् । 'एकाचो नित्यम्' (५०५२ ) स्वायम् । वाङ्मयम् । कथं तर्हि 'आप्यम् अम्मयम्' इति, 'तस्येदम्' (सू १५०० ) इत्यण्णन्तात्स्वार्थे ध्यम् । (१५२५) गोश्व पुरीषे ४।३।१४५॥ गोः पुरीषं गोमयम् । (१५२६) पिष्टाश्च ४।३।१४६॥ मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां 'तस्येदम्' (सू १५०० ) हत्यम् । (१५२७) सज्ञायां कन् कत्वात् फिटस्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा । अमिति शेषः । अवयवे चेत्येव । पलाशखदिरर्शिशपास्यन्दनानामनुदात्तादित्वात् नित्यं प्राप्ते इतरेषाम् अप्राप्ते विकल्पोऽयम्।
शम्याः प्लम् । शमीशब्दो गौरादिडोषन्तः । तस्मात्षष्ठयन्तादवयचे विकारे ब्लञ् स्यादित्यर्थः । षकारलकारावितौ । 'अनुदात्तादेश्व' इत्योऽपवादः। शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली भुगिति । शम्या विकार इत्यर्थः । वरुणप्रधासेषु शमीमय्यः श्रुचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयडवैतयोः । अधिकासदेव विकारावयवयोरिति सिद्धरेतयोरिति बचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयढर्थम् इति भाष्ये स्पष्टम् । तेन विल्वमयं बैल्वामित्यादि सिध्यतीत्यभिप्रेत्य आह-प्रकृतिमात्रादिति । सर्वस्याः प्रकृतरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वम् , नलोपः। पाश्मनमिति । कल्माषांविनाम कश्चिद्राजा तस्पत्न्यां वसिष्ठेनोत्पादितः अश्मकः इति । अवमन्शब्दात् स्वार्थे कप्रत्ययः, तद. भावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । 'अन्' इति प्रकृतिभावान टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे' इति टिलोपः शल्यः । तत्र पाषाण. वाचकत्वेन प्रसिद्धस्याश्मन्शब्दस्यैव ग्रहणादिति भावः । नित्यं वृद्धशर । मयडिति शेषः । उक्तविकल्पस्यापवादः । एकाचो नित्यमिति । नित्यमिति योगविभागलब्ध. मिदम् । अण्णन्तादिति । अपामिदमापम् तस्येदम् इत्यम् । ततः स्वाथें चतुर्वर्गादि. त्वात् ष्यनि आप्यमिति रूपमित्यर्थः । गोश्च पुरीधे। नित्यं मयडित्यनुवर्तते । गोममयमिति । यद्यपि पुरीषं न गोविकारो नाप्यवयवः । तथापि तस्येदमित्यर्थेऽयं प्रत्ययः। पिष्टाच्च । शेषपूरणेन सूत्र व्याघण्टे-मयट स्याद्विकारे इति । सम्शायां कन्।
For Private and Personal Use Only
Page #796
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपरकम् ३०]
बालमनोरमासहिता।
-
४॥३।१४७॥ 'पिष्टात्' इत्येव । पिस्म विकारविशेषः पिकः । 'पूपोऽपूपः पिष्ट. क: स्यात् । (१५२०) व्रीहेः पुरोडाशे ४३३१४८॥ मयट् स्यात् । बिल्खाद्य. गोऽपवादः । व्रीहिमयः पुरोगशः । ब्रहमन्यत् । (१५२६) असमायां तिलयवाभ्याम् ११३ १४६॥ तिलमयम् । यवमयम् । सम्ज्ञायो तु तैलम् । यावकः । (१५३०) तालादिभ्योऽण ४।३।१५२॥ अम्मयटोरपवादः । 'तालानुषि' (ग सू १९४ ) तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् । (१५३१) जात. स्पेभ्यः परिमाणे ४।३।१५३॥ अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः ताप. नीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयो यष्टिः । (१५३२) प्रागिरजतादिभ्योऽ४।३।१५४॥ शौकम् । बाकम् । राजतम् । (१५३३) प्रितश्च तत्प्रत्ययात् ४।३।१५५॥ जियो विकारावयव प्रत्ययः तदन्तादस्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्यम् । कापित्यम् । बिकारविशेष इति । अपूप इत्यर्थः। तदाह-पुपोऽपूप: पिष्टकः स्यादिति ।अमरकोशोऽयम्। पुरो. डाशस्तु न पिष्टकः, तस्यानपूपत्वात्। 'अतुङ्गमनपूपाकृतिमश्वशफमात्रं पुरोडाशं करोति' इति श्रुतेः । ब्राहेः पुरोडाशे । पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठ किमर्थमित्यत आह-त्रैहमन्यदिति । असज्ञायां तिलयवाभ्याम् । नित्यं मयडिति शेषः । यावक इति । यवशब्दाद्विकारे अण। ततः 'यावादिभ्यः इति स्वाथें कन्।
तालाऽदिभ्योऽण् । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति । 'नित्यं वृद्ध इति मयटोऽपवादः । ऐन्द्रायुधमिति । 'अनुदात्तादेश' इत्यमोऽपवादः, समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्यः। अणिति । शेषपूरणम् । जातरूपं सुवर्ण, तद्वाचिभ्योऽण स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह-बहुवचनादिति । हाटक इस्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरि. माणको विकार इत्यर्थः । तापनीय इति । 'नित्यं वृद्धशरादिभ्यः' इति मयटोऽपवादः । इतरत्र तु 'अनुदात्तादेश्च' इत्यमोऽपवादः । 'गुञ्जा पञ्चायमाषकः । ते षोडशाक्ष इत्यमरः । 'सुवर्णविस्तो हेम्नोऽक्षे इति च । प्राणिरजतादिभ्योऽ । शौकम् बाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थी । 'प्राणिनां कुपूर्वम्' इत्यायुदात्तत्वात् 'अनुदात्तादेश्च' इत्यमो न प्रातिः । राजतमिति । अनुदात्तादित्वादमि सिद्धे मय
बाधनाथमञ्चिधिः । जितश्च तत्प्रत्ययात् । तयोः विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह-विद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या: विकारः अवयवो वा शामीलम् । 'शम्याः ष्लम् । शामीलस्य विकारः अवयवो वेत्यर्थे आम शामीलमिति भवतीत्यर्थः । 'नित्यं वृद्ध' इति मयटोऽपवादः । दाधिस्थ
For Private and Personal Use Only
Page #797
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SEE
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ तद्धिते प्राग्दीव्यतीय
चितः किम् । बैल्वमयम् । (१५३४) क्रीतवत्परिमाणात् ४।३।१५६ ॥ 'प्राग्वइष्टक्' ( सू १५४८ ) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विद्दितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । 'एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः - शतिकः । (१५३५) उष्ट्राद्वुञ् ४।३।१५७॥ प्राण्यञोऽपवादः । औष्ट्रकः । (१५३६) उमोर्णयोर्वा ४।३।१५८ ॥ औमकम् - ओमम् और्णकम् और्णम् । अभावे यथाक्रममण | (१५३७) पण्या ढञ् ४ | ३ | १५६ ॥ ऐणेयम् । एणस्य तु ऐणम् । (१५३८ ) गोपयसोर्यत् ४ | ३ | १६० || गव्यम् । पयस्यम् । (१५३६) द्रोश्व ४३ १६१ ॥ दुर्वृक्षः, तस्य विकारोऽवयवो वा द्रव्यम् । ( १५४० ) माने वयः ४ | ३ | १६२ ॥ द्रोः इत्येव । द्रुवयम् । 'यौतवं त्रयं पाय्यमिति मानार्थकं त्रयम्' इत्यमरः । ( १५४१ ) फले लुक् ४ | ३ | १६३ ॥ विकारावयव प्रत्ययस्य लुक् स्यात्फले । आममिति । दधिस्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादन् दाधित्थस्य वि. कारो दाधित्थम्, मडपवादोऽञ् । बैल्बमयमिति । 'बिल्वादिभ्योऽण्' इति बिल्वशदादणि बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो जित्वाभावादिति भावः । भाष्ये तु 'विकारावयवप्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानात् न' इत्याश्रित्य सूत्रमिदं प्रत्याख्यातम् ।
क्रीतवत्परिमाणात् । उपाधिनेति । प्रकृत्यादिविशेषणेनेत्यर्थः । नैष्किक इति । 'अलमासे निष्कादिभ्यः' इति क्रीते ठक् । शत्यः शतिक इति । 'शताच्च ठन्यतौ' इति ta cat | उष्टावुञ् । प्राण्यन इति । 'प्राणिरजतादिभ्योऽज्' इत्यस्यापवाद इत्यर्थः । उमोर्णयोर्वा । वुजिति शेषः । श्रौमकमिति । उमा सस्यविशेषः । 'उमा ख्या'दतसा क्षुमा' इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । श्रौममिति । 'तृणधा न्यानां च' इत्युमा शब्द आद्युदात्तः ततो वुजभावे 'अनुदात्तादेश्व' इत्यनभावादौत्सगिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः । ततो बुजभावे अनुदात्तादित्वाद'जित्यर्थः । 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः । ' थूणोणें नपुंसके च' इति लिङ्गानुशासन सूत्रम् । एण्या ढञ् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः । 'यस्येति च' इति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह- - एणस्य स्विति । गोपयसोर्यत् । गत्र्यमिति । गोर्विकारोऽवयवो वेत्यर्थः । 'वान्तो यि' इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थ: । 'सर्वत्र गोरजादिप्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं 'मड्वैतयो:' इति पाक्षिकमयटो बाधनार्थम् । दोश्च । यदिति शेषः । 'एकाचो नित्यम्' इति सयटः 'मोर' इत्यस्य चापवादः । माने वयः । द्रोरित्येवेति । माने
For Private and Personal Use Only
Page #798
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३० ]
बालमनोरमासहिता ।
लक्याः फलमामलकम् । ( १५४२ ) लक्षादिभ्योऽण ४ | ३ | १६४ ॥ विधानसामर्थ्यान्न लुक् । प्लाक्षम् । ( १५४३ ) न्यग्रोधस्य च केवलस्य ७|३ | ५ || अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् । ( १५४४ ) जम्ब्वा वा ४ | ३ | १६५ ॥ जम्बूशब्दात्फलेऽण्वा स्यात् । जाम्बवम् । पक्षे ओरञ्, तस्य लुक्, जम्बु । ( १५४५) लुप् च ४।३।१६६ ॥ जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात् । 'लुपिं युक्तवत् -' ( सू १२९४ ) जम्ब्वाः फलं जम्बूः । ' फलपाकशुषामुपसङ्ख्यानम् ( वा २९४९ ) । व्रीहयः । मुद्राः | 'पुष्पमूलेषु बहुलम्' ( वा २९५० ) मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रह
उन्ह
विकारे गम्ये दुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फलें लुक् । आमलकमिति । फलितस्य वृक्षस्य फलमarat विकारश्च । तस्मिन्मयटो लुकि 'लुक्तद्धितलुकि' इति ङोषो लुक् ।
प्लक्षादिभ्योऽण । विकारे अवयवे चेति शेषः । तत्र शिग्रुकर्कन्धू शब्दयोरुवर्णान्तत्वादनि प्राप्ते प्लक्षम्यग्रोधादीनाम् अनुदात्तादित्वादनि प्राप्ते अण्विधिः । नन्वस्य फले अणो लुक् कुतो नेत्यत आह-विधानैति । न्यग्रोधस्य च केवलस्य । 'न य्वाभ्याम् इत्युत्तरसूत्रमिदम् । अस्येति । केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वम् । न्यक् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि 'न य्वाभ्याम्' इत्येव सिखम्, यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थं सूत्रम् । अव्युत्पतिपक्षे तु यकारस्य अपदान्तत्वात् विध्यर्थमेव । केवलस्य किम् । न्यग्रोधमूला: शालयः । जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अजो लुकि विशेष्यानुसारेण नपुंसकत्वात् ह्रस्व इति भावः । लुप् च । लुकैव सिद्धे लुब्विधेः फलमाह - लुपि युक्त • वदिति । जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्तवत्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वाः फलान्यपि जब्बूरेव । फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुषः, ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः । 'फले लुक्' इत्यस्यापवादः । ब्रीहय इति । व्रीह्माख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वम् नतु विशेष्यनिघ्नत्वम् । पुष्पमूलेषु । बहुलमिति । वार्तिकमिदम् । विकारा. वयवप्रत्ययस्य लुप् स्यादिति शेषः । पुष्पं मल्लिकेति । 'अथ द्वितीयं प्रागीषात्' इत्यवृत्तौ 'मादीनां च' इति फिट्सूत्रेण मध्योदात्तो मल्लिकाब्दः । ततः 'अनुदात्तादेश्व इत्यत्रो लुप् । युक्तवत्त्वास्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततः 'अनुदात्तादेश्च' इत्यजोऽनेन लुप् । युक्तवत्वात्स्त्रीत्वम् । विदारीति । जातिङीष. न्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्तादित्वादनि तस्य लुप्, युक्तवत्त्वात्स्त्री
For Private and Personal Use Only
Page #799
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
गान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्कचिल्लुक् । अशोकम् । करवीरम् । (१५४६ ) हरीतक्यादिभ्यश्च ४।३।१६७॥ एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनो लिगमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः । (१५४७) कंसीयपरशव्ययोर्यत्रो लुक्च ४।३।१६८॥ कंसीयपरशव्यशब्दाभ्यां यजनौ स्तश्छयतोश्च लुक । कंसाय हितं कंसीयम् । तस्य विकारः कास्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः ।
इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् ।
अथ तद्विते प्राग्वहतीयप्रकरणम् ॥ ३०॥ (१५४८ ) प्राग्वहतेष्ठक ४।४।१॥ तद्वहतीत्यतः प्राक् ठगधिक्रियते । 'तदाहेति माशब्दादिभ्यः उपसङ्ख्यानम्' (वा २९५१) मा शब्दं कार्षीः इति त्वम् । पाटलानीति । बिल्वादित्वादण। एवं साल्वानि । ननु अशोकस्य पुष्पम् अशोकं, करवीरस्य पुष्पं करवीरम् , इत्यत्रापि 'पुष्पमूलेषु बहुलम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह-बहुलग्रहणात् कचिल्लुगिति । तथा च युक्तवत्त्वस्याप्रवृत्तः विशेष्यनिघ्नत्वमेवेति भावः ।। ___ हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययाथें अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिकीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादमि तस्य 'फले लुक इति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधादबहुवचनम् । कंसीयपर. शव्य। अन्न यसमार्न लुक् , विधिवैयर्थ्यात् । नापि प्रकृत्योः, प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत्येकदेशयोः छयतोरिति लभ्यते । तदाह-छयतोरिति । कंसीयमिति । कसा नाम धातुर्लाहविशेषः । तस्मै हितमिति छः । कांस्यमिति । कंसीय. शब्दात् यजि छस्य .लुकि आदिवृद्धौ 'यस्येति च' इत्यकारलोपः। परशव्यमिति । 'तस्मै हितम्' इत्यधिकारे 'उगवादिभ्यो यत्' इति आर्गुणे 'वान्तो यि' इत्यवादेशः । पारशव इति । परशव्यशब्दादमि यतो लुकि ओणे पारशवः । 'हलस्तद्धि. तस्य' इति तु न, ईतीत्यनुवृत्तः। अनापत्यत्वात् 'आपत्यस्य च' इत्यपि लोपोन प्रसज्यत इति भावः। इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । .. अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते-प्राग्वहतेष्ठक्। वहतीत्येकदेशेन 'तद्वहति रथयु. गप्रासङ्गम्' इति सूत्रं परामृश्यते इत्यभिप्रेत्याह-तद्वहतीत्यत इति । तदाहेति । इति. शब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्दस्वागतहत्यादि. शब्देभ्यः ठक उपसङ्ख्यानमित्यन्वयः । तदित्यनेन वाक्यार्थी विवक्षितः । इतिश
For Private and Personal Use Only
Page #800
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
-
M
य आह स माशब्दिकः। (१५४६) स्वागतादीनां च ७३७॥ ऐज्न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्यरिकः । स्वास्यापत्यं स्वाशिः । व्यास्यापत्यं व्याङ्गिः। व्यस्थापत्यं व्याडिः। व्यवहारेण चरति व्यावहारिकः। स्वपतौ साधु स्वापतेयम् । 'भाही प्रभूतादिभ्यः' (वा २९५२) प्रभूतमाह । प्राभूतिकः । पार्याप्तिकः । 'पृच्छतो सुस्नातादिभ्यः' (वा २९५३) 'सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । 'गच्छतौ परदारादिभ्यः' (वा २९५४ ) पारदारिकः । गौरुतल्पिकः । (१५५०) तेन दीव्यति खनति ब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति । 'मा शब्दं कार्षीः इत्याहेत्याधर्थे तद्वा. क्यावयवात् 'माशब्द' इत्यादिशब्दात् ठगिति यावत् । मा शब्दं कार्षीः इति य पाह स माशब्दिक इति । शब्दं मा कार्षीरित्यन्वयः । 'माङि लुङ्' इति लोडथे लुछ । 'न माल्योगे' इत्यडागमनिषेधः । शब्दं न कुरु इत्यर्थः । अत्र आहेति बेधात्वर्थव्यक्तवचनक्रिया प्रति मा शब्द का रिति वाक्यार्थः कर्म । तद्वाक्यैकदेशः माशब्देति समुदायः। तस्मानिर्विभक्तिकादयं प्रत्ययः। न हि माशब्देति समुदायाद्विभक्ति. रस्ति । एवञ्च माशब्देति समुदायाकि माशब्दिक इति रूपम् । 'मा शब्दः कारि इति पाठे तु कारीति कर्मणि लुङ् । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माश. कदादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याउथें माशब्देत्यादिश. देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् , एवं सति 'आहो प्रभूतादिभ्यः इत्युत्तरवातिकारभ्यवैयपित्तरिति भावः। स्वागतादिगणे स्वागत, स्वध्वर इति पठितम् , तत्र विशेषमाह-स्वागतादीनां च । 'न य्वाभ्यां पदा. न्साभ्यां पूर्वी तु ताभ्यामैच' इति प्रकरणे 'कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् । 'न स्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् इति प्राप्तः ऐज़ न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्यादेत्यर्थः । ___ अथ स्वागतादिगणशेषमुदाहरति-स्वङ्गस्येति। व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यस्येति । न विद्यते डो यस्य सः अडः विगतः अडः व्यडः । स्वापतेयमिति । 'पथ्यतिथिवसतिस्वपतेर्ड' द्वारादित्वादैच् प्राप्तो निषिध्यते । श्राहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः तदिति पूर्ववार्तिकादनुवसते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाध्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । तदित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । सुखशयजशब्द इति शेषः। ततश्च 'अनुशतिकादीनां च' इति पूर्वोत्तरपदयोरादिवृद्धिरिति मावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः
For Private and Personal Use Only
Page #801
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४२
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
जयति जितम् ४।४।२॥ अक्षर्दीव्यति आक्षिकः । अभ्रया खनति आधिकः । अर्जयति माक्षिकः । अर्जितमाक्षिकम् । (१५५१ ) संस्कृतम् ४॥४॥३॥ दना संस्कृतं दाधिकम् । मारीचिकम् । (१५५२) कुलत्थकोपधादण ४।४।४॥ ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैन्तिणीकम् । (१५५३) तरति ४४५॥ उडुपेन तरति औडुपिकः। (१५५४) गोपुच्छाञ् ४४६॥ गौपुच्छिकः । (१५५५ ) नौद्यचष्ठन् ४।४।७॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । (१५५६) चरति ४४८॥ तृतीयान्ताद्गच्छतिभक्षयतीत्यर्थयोष्ठकस्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः । (१५५७) आकर्षाष्ठल् ४४॥४॥ आकर्षो निकषोपलः । आकषात् इति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्छो छ । आकर्षिकी । (१५५८) पर्यादिभ्यः ष्ठन् ४।४।१०॥ पण चरति पपिकः पर्पिको। येन पीठेन पनवश्चरन्ति स पर्पः । अश्विकः । रथिकः। (१५५) श्वगणाज उगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो गुरुस्त्री। तेन दीव्यति खनति जयति जितम् । तेन दीव्यति, तेन खनति तेन जयति, तेन जितम् इति विग्रहेषु तृतीयान्ताहगित्यर्थः । अनिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधेः। संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्तगित्यर्थः। 'संस्कृतं भक्षाः' इत्यत्र तु सप्त म्यन्तादणादिविधिः । मारीचिकमिति। मरीचिभिः संस्कृतमित्यर्थः। कुलत्थकोपधा. दण् । संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्तिणीकमिति । तिन्तिणीकेन संस्कृत. मित्यर्थः। तरति । तरतीत्यर्थे तृतीयान्तागित्यर्थः । गोपुच्छार्छन् । तरतीत्यर्थं तृतीयान्तादिति शेषः । नौद्वय चष्ठन् । उनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तर तीत्यर्थे नौशब्दात् द्वय चश्च तृतीयान्तात् ठनित्यर्थः । नाविक इति । नावा तरती. त्यर्थः । घटिक इति । घटेन तरतीत्यर्थः। बाहुका स्त्रीति । उकः परत्वात् ठस्य कः । अदन्तात्वाहा।
चरति । गच्छति भक्षयतीति । 'चर गतिभक्षणयो। इति चरधातोरर्थद्वये वृत्तरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः। आकर्षात् ल । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात ष्ठलित्यर्थः । पर्पादिभ्यः ष्ठन् । छन् इति च्छेदः । वरती. त्यर्थे तृतीयान्तेभ्य इति शेषः। पित्त्वं डीपर्थमित्याह-पपिंकीति । अश्विक इति । अश्वेन चरतीत्यर्थः । श्वगणाठन च । उक्तविषये इति शेषः । श्वगणशब्दतृतीया. न्ताच्चरतात्यर्थे उनष्ठन् च स्यादित्यर्थः । वागणिक इत्युदाहरणं वक्ष्यति । तत्र
For Private and Personal Use Only
Page #802
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०.].
बालमनोरमासहिता ।
च ४|४|११ ॥ चाष्ठन् । ( १५६० ) श्वादेरित्रि ७ ३८ ॥ ऐज्न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वार्दष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । 'इकारादाविति वाच्यम्' ( वा ४५१२ ) । श्वगणेन चरति श्वागणिक:- श्वागणिकी श्वगणिकःश्वगणिकी । ( १५६१ ) पदान्तस्यान्यतरस्याम् ७१३॥६॥ श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम् - शौवापदम् । (१५६२ ) वेतनादिभ्यो जीवति ४|४|१६ ॥ वेतनेन जीवति वैतनिकः । धानुष्कः । (१५६३) वस्नक्रयविक्रयाटून् ४|४|१३|| वस्नेन मूल्येन जीवति वास्निकः क्रमविक्रयप्रहणं · सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः क्रयिकः - विक्रयिकः । ( १५६४) मायुधाच्छ च ४|४|१४|| चाट्ठन् । आयुधेन जीवति आयुकवन्शब्दस्य द्वारादित्वादैजागमे प्राप्ते । श्वादेरिञि । 'न कर्मव्यतिहारे' इत्यतो नेस्यनुवर्तते । अङ्गस्येत्यधिकृतम् । वन्शब्दः आदिर्यस्येति विग्रहः । त्रन्शब्द पूर्वपदस्याङ्गस्य इजि परे नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादंष्ट्रिरिति । खर्दष्ट्रस्यापत्यमित्यर्थः । ननु वन्शब्द एव द्वारादौ पठ्यते नतु श्वभस्त्रशब्दः । ततश्व तस्य द्वारादित्वाभावादैजागमप्रसक्तिरेव नेत्यत आह- तदादिविधाविति । द्वारादिगणेश्वशब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वशब्दपूर्व कल्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु वहनस्येदं शौवहनं नाम नगरम् । ननु प्रकृते saraण इभावात्कथमयं निषेध इत्यत आह-इकारादाविति वाच्यमिति । इजीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इजि तु व्यपदेशिवत्वेन इकारादित्वम् । श्वागिणक इति । ठञि आदिवृद्धिः । श्वगणिक इति । ष्ठनि रूपम् । श्वगणिकीति । ठञ न्तात् 'टिड्ढाणद्वयसज्दघ्नम्मात्रच्तयष्ठक्ठञ्कष्करपः" इति ङीप् । श्वगणिति । वित्त्वात् ङीष् । प्रसङ्गादाह - पदान्तस्यान्यतरस्याम् । 'श्वादेरिजि' इत्यस्मादुत्तरं सूत्रमिदम् । पदं पदशब्दः अन्तो यस्येति विग्रहः । तदाह - पदशब्दान्तस्येति । ऐज्वेति । निषेधविकल्पे सति विधिविकल्पः फलित इति भावः । श्वापदस्येति । शुनः पदमिव पदं यस्येति विग्रहः । 'शुनो दन्तदंष्ट्रा' इत्यादिना दीर्घः । शौवापदमिति । 'तस्येदम्' इत्यण् । 'वृद्धाच्छः' इति तु न, अनभिधानादित्याहुः । अन्ये तु श्वपुच्छवहीभावे अणमाहुः ।
७६३
वेतनादिभ्यो जीवति । जीवतीत्यर्थे तृतीयान्तेभ्यः ठमिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् । वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्ना - दिभ्यः ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः । आयु.
For Private and Personal Use Only
Page #803
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
-
धीयः-आयुधिकः । (१५.५) हरत्युत्सङ्गादिभ्यः ४।४।२५॥ उत्सङ्गेन हरत्योत्सनिकः । (१५६६) भस्त्रादिभ्यः ष्ठन् ४।४।१६॥ भत्रया हरति भस्त्रिकः। विश्वात् , भस्त्रिकी। (१५६७) विभाषा विवधात् ४।४।१७॥ विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वी. वधादपि छन् । वीवधिकः, वीवधिको । विवधवीवधशब्दौ उभयतो पद्धशिक्ये स्कन्धवाद्ये काष्टे वर्तेते। (१५६८) अण कुटिलिकायाः ४४१८॥ कटिलिका व्याधाना गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः करिश्च । (१५६९) निवृत्तेऽक्षता. दिभ्यः ४४॥१६॥ अक्षयूतेन निवृत्तमाक्षतिक वैरम् । (१५७० ) मिन. त्यम् ४४॥२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृयीयान्तानिवृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पवित्रमम् । 'भावप्रत्ययान्तादिमन्वक्तव्यः' ( वा २९५९) पाकेन निवृत्तं पाकिमम् । त्यागिमम् । (१५७१) अपमित्ययाचिताभ्यां कक्कनो ४४॥२२॥ अपमित्येति स्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । धाच्छ च । जीवतीत्यर्थे तृतीयान्तात् मायुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्स. गादिभ्यः।हरतीत्यर्थे तृतीयान्तेभ्यः सत्सङ्गादिभ्यः ठक् स्यादित्यर्थः । भस्त्रादिभ्यः ष्ठन् । निति छेदः । हरतीत्यर्थे तृतीयान्तेम्यो भस्वादिभ्यः छन् स्यादित्यर्थः । षित्वादिति । छीष् इति शेषः। विभाषा विवधात् । हरतीत्यर्थे तृतोयान्तात् निति शेषः । अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात् कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दशापरनामधेयं, तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षयूतादिभ्यः। निर्वृत्तमित्यर्थे तृतीयान्ते. भ्योऽधूतादिभ्यः ठगित्यर्थः। ओमम्नित्यम् । तेन निवृत्तमित्यर्थे 'ड्वितः त्रिः' इति त्रिप्रत्ययान्तानित्यं मप्प्रत्ययः स्यादित्यर्थः । 'समर्थानां प्रथमाद्वा' इति महाविकल्पनिवृत्त्यर्थ नित्यग्रहणम् । ततश्च अस्मिन्नथें मप्प्रत्ययं विना त्रिप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविग्रहं दर्शयति-कृत्या निवृत्तमिति । अन विग्रहवाक्ये 'स्त्रियां क्तिन्' इति क्तिनन्तोऽयं कृतिशब्दः । कृत्रिममिति । 'दुकृञ् करणे इति धातोः 'डिवतः त्रिः' इति त्रिप्रत्ययान्तान्मप। पत्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । 'दुपयष् पाके' इत्यस्मास्क्त्रिप्रत्ययान्तान्मप् । इमन्व. क्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न सम्बध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति-पाकेन निवृत्तमिति । .. अपमित्ययाचिताभ्याम् । ल्यबन्तमिति । 'मे प्रणिदाने इत्यस्मात् विनिमयार्थकात
For Private and Personal Use Only
Page #804
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
७६५
याचितेन निर्वृत्तं याचितकम् । (१५७२) संसृष्टे ४।४।२२॥ दध्ना संसृष्टं दाधिकम् । ( १५७३) चूर्णादिनि ४।४।२३॥ चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः । (१५७४) लवणाल्लुक ४॥४॥२४॥ लवणेन संसृष्टो लवणः सूपः। लवणं शाकम् । (१५७५) मुद्गादण ४॥४॥२५॥ मौद्ग ओदनः । (१५७६) ग्यअनरुपसिक्ते ४।४।२६॥ ठक् । दध्ना उपसिक्तं दाधिकम् । (१५७७) भोजःसहोऽम्भसा वर्तते ४।४।२ ॥ भोजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः । आम्भसिको मत्स्यः। (५७% ) तत्प्रत्यनुपूर्वमीपतो. मकूलम् ४४८॥ द्वितीयान्तादस्माद्वर्तते इत्यस्मिन्नर्थे ठक्स्यात् । क्रियावि. शेषणत्वाद्वितीया। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः । प्रातिलोमिकः । 'उदीचां माडो व्यतिहारे' इति क्त्वाप्रत्यये गतिसमासे ल्यपि 'मयतेरिदन्यतरस्याम्' इति इत्त्वे 'हस्वस्य पिति' इति तुगागमे अपमित्येत्यव्ययम् , 'स्वातोसुन्कसुनः" इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृती. यान्तात् कक कन् च यथासङ्गन्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासम्भ. वात् प्रथमान्तादिति लभ्यते । संसृष्टे । संसृष्टमित्यर्थे तृतीयान्तात् ठक् इत्यर्थः । चूर्णादिनिः । संसृष्टमित्यर्थे तृतीयान्तादिति शेषः । लवणाल्लुक् । पूर्वसूत्रविहितस्येति शेषः । मुद्गादण् । तेन संसृष्टमित्यर्थे तृतीयान्तादिति शेषः । मौद्ग मोदन इति । मुद्गैः संसृष्ट इत्यर्थः । व्यानरुपसिक्ते। उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः उगित्यर्थः । सेचनेन मृतकरणमुपसेकः । संसृष्ट इत्येव सिद्ध नियमार्थ सूत्रम्-व्या. नवाचिभ्या उपसिक्त एवेति । तेनेह न, सूपेन संसृष्टा स्थाली ।
ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस् , अम्भस् एभ्यः तृतीयान्ते. भ्यः ठक स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः। साहसिक इति । सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः। प्राम्भसिक इति । अम्भसा हेतुना सञ्चारे व्याप्रियत इत्यर्थः । तत्प्रत्यनुपूर्व । तदिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्यः ईपलोमकूलशब्देभ्यः वर्तते इत्यर्थे ठक् स्या. दित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं द्वितीयेत्यत आह-क्रियाविशेषणत्वादिति । इदञ्च कारकनिरूपणे निरूपितम् । 'क्रियाविशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशेखरे। प्रतीपमिति । प्रतिगताः आपो यस्मिनिति बहुव्रीहिः । 'ऋक्पू:' इत्यकारः समासान्तः । 'द्वयन्तरुपसर्गभ्योऽप ईत्' इति ईत्त्वम् । अनुगताः आपो यस्मिन् तदन्वीपम् । 'ऊदनोदेशे इत्यूत्त्वं तु न, अदेशस्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ। अवयवार्थेषु तु
For Private and Personal Use Only
Page #805
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६६
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः । (१५७) परिमुखं च
४२६॥ परिमुखं वर्तते पारिमुखिकः । चात् पारिपाश्विकः। (१५८०) प्रयच्छति गह्यम् ४।४।३०॥ द्विगुणार्थ द्रव्यं द्विगुणं, तत्प्रयच्छति द्वैगुणिकः । गुणिकः वृद्धधुषिभावो वक्तव्यः' (वा २९६५)। वाईषिकः । (१५१) कुसीददशैकादशाष्ठन्ष्टचौ ४।४।३१॥ गार्थाभ्यामाभ्यामेती- स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थ द्रव्यं कुसीदं, तत्प्रयच्छतीति कुसीदिकः-कुसी. दिकी। एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समा. सान्त इहैव सूत्रे निपात्यते । दशैकादशिक:-दशैकादशिको । दर्शकादशान्प्र. यच्छतीत्युत्तमणे एवेहापि तद्धितार्थः । (१५८२) उञ्छति ।।४।३२॥ नाभिनिवेष्टव्यम् । परिमुखं च । अस्मादूद्वितीयान्तात् वर्तते इत्यथें ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्श्वमित्यस्मादपि उकि पारिपाश्विक इति भवतीत्यर्थः। पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तत इत्यर्थः । एवं पारिपाश्विकः।
प्रयच्छति गर्यम् । तदिति द्वितीयान्तमनुवर्तते। गडं प्रयच्छतीत्यर्थे द्वितीया. न्तागित्यर्थः । द्विगुणार्थ द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुण. शब्देन द्विगुणार्थ द्रव्यं विवक्षितमित्यर्थः । तस्प्रयच्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः । 'अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धक:' इत्यादिधर्मशास्त्रविरुद्धत्वादिह गीमिति भावः । वृद्धेरिति । वृद्धिशब्दात् उक्तार्थे ठकि प्रकृतेधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धषिक इति । वृद्ध्यर्थे द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यथें वृद्धिशब्दात् ठकः इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । 'वृद्धगजीवस्तु वाधुषिः' इति तु प्रमाद एव । कुसीद । गाभ्यामिति । कुसीद, दशैकादश आभ्यां द्वितीयान्ताभ्यां गार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात टन्ष्टचौ स्त इत्यर्थः। षित्त्वम् डीषर्थमित्याह-कुसोदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठचप्रकृति दशैकादशशब्द व्युत्पादयति-एकादशार्थत्वादित्यादिना। यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति/समयं कृत्वा दश निष्काः ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्काः एकादशार्थत्वात् एकादशशब्देन उपच. यन्ते । ततश्च एकादश च ते दश चेति कर्मधारये 'सङ्ख्याया अल्पीयस्याः' इति दशनशब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशाः इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्कानधिकान् ग्रहीतु दश निष्कान् अधमर्णायः प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति-दशैकादशान
For Private and Personal Use Only
Page #806
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३.]
बालमनोरमासहिता।
७६७
बदराण्युन्छति बादरिकः । (१५६३) रक्षति ४॥४॥३३॥ समान रक्षति सामाजिकः । (१५८४)शब्ददरं करोति ४।४।३४॥ शब्दं करोति शाब्दिकः । दादुरिकः । ( १५८५) पक्षिमत्स्यमृगान्हन्ति ४।४॥३५॥ 'स्वरूपस्य पर्या. याणां विशेषाणां च ग्रहणम्' ( वा ५२३)। 'मत्स्यर्यायेषु मीनस्यैव'। पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः । (१५८६) परिपन्थं च तिष्ठति ४४॥३६॥ अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । निपातनात् पन्थादेशः। परिपन्थं हन्ति पारिपप्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समा. सेऽपि उत्तमर्ण एव ऋणदातैव तद्वितार्थः प्रधानभूत इत्यर्थः।
उन्छति। तदिति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितीयान्ताहगित्यर्थः । भूम्यां निपतितस्य व्रीह्यादेः कणशः आदानमुन्छः । रक्षति । अस्मिन्नर्थे द्वितीयान्ता. दृगित्यर्थः । शब्ददर्दरं करोति । शब्दं करोति द१रं करोतीति विग्रहे द्वितीयान्ताहगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न-शब्दं करोति खरः। दार्दुरिक इति । . 'दार्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः।
दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुरम् ।" ___ इति विश्वः । इह यथायोग्यमन्वयः। पक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादि. शब्देभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैः तत्तत्स्व. रूपाणां तत्तत्पर्यायाणां तद्विशेषवाचिनां च ग्रहणमित्यर्थः, 'स्वं रूपम्' इति सूत्रभाष्ये तथोक्तरिति भावः । मीनस्यैवेति । मत्स्यपर्यायेषु मीनस्यैव ग्रहणम् , न त्वनिमिषादि. शब्दानामित्यर्थः । इदमपि 'स्वं रूपम्' इत्यत्र भाष्ये स्थितम् । पाक्षिक इति । स्वरू. पस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य । मायूरिक इति। पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकुलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिका, सारङ्गिकः इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् ।
परिपन्थं च तिष्ठति। अस्मादिति । परिपन्थशब्दादित्यर्थः । चकारात् हन्तीत्यनु. कृष्यते । तदाह-तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वे 'पञ्चम्यपापरिभिः' इति पञ्चम्याम् 'अपपरिबहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः । व्याप्य वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्दः इति सूचितम् । अव्ययीभावः प्रादि
For Private and Personal Use Only
Page #807
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी [तद्धिते प्राग्वहतीय
न्धिकः। (१५८७) माथोत्तरपदपदव्यनुपदं धावति ॥४॥३७॥ दण्डाकारो मायः पन्थाः दण्डमाथः। दण्डमाथं धावति दाण्डमाथिकः । पादविकः । भानुपदिकः । (१५८८) प्राक्रन्दा च ४४॥३८॥ अस्मास्यात् , चा ठ्ठ धावतीत्यर्थे । माकन्दं दुःखिना रोदनस्थानं धावति आकन्दिकः । (१५८४) पदोत्तरपदं गृह्णाति ४।४।३६॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः । ( १५४० ) प्रतिकण्ठार्थललामं च ४।४।४०॥ एभ्यो गृह्णात्यर्थे ठक्स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः । ( १५९१) धर्म चरति ॥४॥४॥ धार्मिकः । 'अधर्माच्चेति वक्तव्यम्' (वा २९६६)। आप. मिकः । (१५४२) प्रतिपथमेति ठंश्च ४।४।४२॥ प्रतिपथमेति प्रतिपथिकः । प्रातिपथिकः । (१५६३) समवायान्समवैति ४४४३॥ सामवायिकः । सामूहिकः । (१५.४) परिषदो ण्यः ४४४४। परिषदं समवैति पारिसमासो वेत्यपि बोध्यम् । उभयथापि क्रियाविशेषणत्वात् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति । नेदं प्रत्ययसन्नियोगेन निपातनम् । किन्तु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः । इदमेवा. भिप्रेत्य विग्रहं दर्शयति-परिपन्थं तिष्ठतीति । __ माथोत्तर । माथोत्तरपद, पदवी, अनुपद एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे उगि. त्यर्थः । माथपदं व्याचष्टे-माथः पन्था इति । मथ्यते गन्तृभिराहन्यते इति व्युत्पत्तेरिति भावः । दण्डमाथ इति । शाकपार्थिवादिः। पन्थानं धावतीति धावतेर्गत्यर्थः त्वात् सकर्मकत्वम् । पादविक इति । पदवी धावतीति विग्रहः । श्रानुपदिक इति । अनुपदं धावतीति विग्रहः। आक्रन्दाठञ् च । अस्मादिति। आक्रन्दशब्दाद्वितीयान्तादित्यर्थः । आक्रन्दन्ति अस्मिन्नित्याक्रन्दः । तदाह-प्राक्रन्दो दुःखिना रोदनस्थानमिति । पदोत्तरपदम् । पदशब्दः उत्तरपदं यस्य तस्मात् द्वितीयान्तात् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम इत्येभ्य इत्यर्थः ।
आर्थिक इति । अर्थ गृह्णातीत्यर्थः। लालामिक इति । ललाम चिह्न तगृहातीत्यर्थः । 'लिङ्ग ललामं च ललाम च' इत्यमरः । धर्म चरति । चरतीत्यर्थे द्वितीयान्तात् धर्मशब्दागित्यर्थः । अधर्माच्चेतीति । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्रा आरम्भः। प्रतिपथमेति ठंश्च । प्रतिमथमित्यव्ययीभावात् एतीत्यर्थे ठन् ठक् च स्यादित्यर्थः। प्रतिमथमिति 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'ऋक्पूः' इति समासान्तः। समवायान् समवैति । द्वितीयान्तेभ्यः सम. वायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । सम.
For Private and Personal Use Only
Page #808
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता ।
DEE
षद्यः । (१५४५) सेनाया वा ॥४४॥ यः स्यात् । पक्षे ठक् । सैन्या:सैनिकाः । (१५४६) सज्ञायां ललाटकुक्कुटयो पश्यति ४४४६॥ ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटोशब्देन तत्पाताईः स्वल्पदेशो लक्ष्यते। कोक्कटिको भिक्षुः । ( २५४७) तस्य धम्यम् ४।४।४७॥ आपणस्य धर्म्यमापणिकम् । (१५४८) मण महिन्यादिभ्यः ४४४८॥ महिण्या धय माहिषम् । याजमानम् । (१५88) ऋताऽ४४॥ या धय यात्रम् । 'नराच्चेति वक्तव्यम्' (वा २९६७ )। नरस्य धा नारी । 'विशसितुरिलो. पश्चाच्च वक्तव्यः' (वा २९६८)। विशसितुर्धय॑ वैशस्त्रम् । 'विभाजयितुर्णिकोपचाच वाच्यः' (वा २९६९)। विभाजयितुर्धर्म्य, वैभाजित्रम् । (१६००) अवक्रयः ४।४।५०॥ षष्ठयन्ताठपस्यादवक्रयेऽर्थे । आपणस्यावक्रयः भापणिकः। राजप्रायं द्रव्यमवक्रयः । (१६०१) तदस्य पण्यम् ४॥४॥५१॥ अपूपाः पण्यमस्य आपूपिकः । (१६०२) लवणाटुन ४॥४॥५२॥ लावणिकः । (१६०३) किसरादिभ्यः ष्ठन् ४।४।५३॥ किसरं पण्यमस्य किसरिकः । विस्वान्सी । किसरिको । किसर, उशीर नलद इत्यादिकिसरादयः सर्वे सुगन्धिद्रग्यविशेषवा.
वैति मेलयतीत्यर्थः। परिषदो ण्यः। द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे उगप. वादो ण्य इत्यर्थः । सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात् समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्य. र्थः । संशायाम् । ललाटकुक्कुटीशब्दाभ्यां द्वितीयान्ताभ्यां पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः। संज्ञा रूढिः, न त्वाधुनिकः सङ्केतः। लालाटिकः सेवक इति। दूरे स्थित्वा प्रमोर्ललाट पश्यति, नतु कायें प्रवर्तत इत्यर्थः । 'लालाटिकः प्रभोर्भालदर्शी कार्याक्ष. मश्च यः' इत्यमरः । कोक्कुटिक इति । कुक्कुटीपतनाह देशं पश्यतीत्यर्थः। .
तस्य धर्म्यम् । धर्मादनपेतं धर्म्यम् , आचरितुं योग्यमित्यर्थः । धयमित्य) षष्ठयन्तागित्यर्थः। अण् महिष्यादिभ्यः। षष्ठयन्तेभ्यो धर्म्यमित्यर्थे इति शेषः । अतोऽन् । ऋदन्तात्षष्ठयन्तात् धर्म्यमित्यर्थे अमित्यर्थः । नारीति । अअन्तत्वात् ही. विति भावः । इडलोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति। विशसितृशब्दादमि इटो लोपे ऋकारस्य यणि आदिवृद्धिः। वैभाजित्रमिति । विभाजयितृशब्दादनि णि. लोपः । भवक्रयः । तस्येत्यनुवर्तते । तदाह-षष्ठयन्तादिति । तदस्य पण्यम् । अस्मिन) प्रथमान्तात् ठगित्यर्थः। विक्रेतव्यं द्रव्यं पण्यम् । लवणाञ्। तदल्य पण्यमित्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः। किसरादिभ्यः ष्ठन्। तदस्य पण्यमित्येव ।
For Private and Personal Use Only
Page #809
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Goo
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते प्राग्वतीय
चिनः । ( १६०४ ) : शलालुनोऽन्यतरस्याम् ४|४|१५४॥ छन् स्यात्, पक्षे ठक् । शलालुकः —— शलालुकी । शालालुकः - शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः । ( १६०५ ) शिल्पम् ४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । ( १६०६ ) मड्डुकझर्झरादणन्यतरस्याम् ४|४|५६ ॥ मड्डुकवादनं शि. रुपमस्य माड्डुकिकः । झार्झर : - झार्झरिक: । ( १६०७ ) प्रहरणम् ४ | ४|५७ ॥ तदस्य इत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः । ( १६०८ ) परश्वघाटुश्च ४|४|५८ ॥ पारश्वधिकः । ( १६०६ ) शक्तियष्टयोरीककू ४|४| ४६॥ शाक्तीकः । याष्टीकः । ( १६१० ) श्रस्ति नास्ति दिष्टं मतिः ४|४| ६० ॥ तदस्य इत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः । ( १६११ ) शीलम् ४|४|६१॥ अपूपभक्षणं शोलमस्य आपूपिकः । ( १६१२) छत्रादिभ्यो णः ष्ठन्निति च्छेदः । तदाह - विश्वान्डोषिति । शलालुनोऽन्यतरस्याम् । इन्निति शेषः । तदस्य प्रण्यमित्येव । शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । पित्वस्य फलमाह - शलालुकीति । शिल्पम् । तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिकः इत्युदाहरणं वक्ष्यति । तत्र मृदङ्ग शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वासम्भवात् तत्राह - मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयकः इति भावः । मड्डुकझर्झरात् । तदस्य शिल्पमित्येव । पक्षे ठक् । मडडुकझर्झरौ वाद्यविशेषौ
1
प्रहरणम् । तदस्येत्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रहियतेऽनेनेति प्रहरणम्, आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः । परश्वधाट्ठञ् च । तदस्य प्रहरणमित्येव । चात् ठक् । 'परशुश्च परश्वधः' इत्यमरः । शक्तियष्टयोरीककू । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक स्यादित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मात् नास्तीत्यस्मात् दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः । 'दैवं दिष्टम्' इत्यमरः । शीलम् । अस्येत्यर्थं शोलवाचिनः प्रथमान्ताट्ठगित्यर्थः । शील स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः । छत्रादिभ्यो यः । एभ्यः प्रथमान्तेभ्यः अस्य शालमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छ शीलमलय छात्रः इत्युदाहरणं वक्ष्यति । तत्र म्रस्य शीलत्वानुपपत्तेः छत्त्रपदं गुरुदोषा
For Private and Personal Use Only
Page #810
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
८०१
४।४।६२॥ गुरोर्दोषाणामावरणं छस्त्रम् , तच्छोलमस्य छात्रः। (१६१३) कामस्ताच्छील्ये ६।४।१७२॥ कामः इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कामः । 'नस्तद्धिते' ( सू ६७९ ) इत्येव सिद्धे 'अण्कार्य ताच्छीलिके णेऽपि' । तेन चौरी तापसी इत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः । (१६१४ ) कर्माध्ययने वृत्तम् ४।४।६३॥ प्रथमान्तात्षष्ठयर्थे ठक्स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । एकमन्यवृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं, सः। (१६१५) बलपूर्वपदाट ४४६४॥ प्राग्विषये। द्वादशान्यानि कर्माण्यध्ययने वृत्ता.
वरणे गौणमित्याह-गुरोरिति । शीलमित्यर्थे छत्रादित्वात् प्रत्यये कृते। कार्मस्ता. च्छील्ये । तत् शीलं यस्य सः तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वाच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह-टिलोपो निपात्यत इति । णेऽपीत्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः। ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणकार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्याः इति विग्रहे चुरातपः शब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये डीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मण इति । 'तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इत्यस्याप्रवृत्त्या 'अन्' इति प्रकृतिभावान्न टिलोप इति भावः।
कर्माध्ययने वृत्तम् । 'तदस्य पण्यम्' इत्यतः तदस्येस्यनुवर्तते । तदस्य कर्माध्ययने वृत्तम्' इत्यथेनिर्देशः । तत्र तदित्यनेन विशेष्येण कम वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथ. मोच्चारितम् । ततश्च अस्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छब्दगम्यविशेष्य. वाचकात् प्रथमान्ताक् स्यादित्यर्थः । तदाह-प्रथमान्तादिति । वृत्तं कर्म प्रति विशे. ष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कम शब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्तमित्येतत् तदि. त्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात् तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात् , तस्य प्रथमा. निर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति-एकमन्यवृत्तमस्य । ऐकान्यिक इति । तद्धितार्थ इति समासे एकान्यशब्दालगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वच्पूर्वपदाछन् । 'तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह
बा० ५१
For Private and Personal Use Only
Page #811
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते प्राग्वहतीय
न्यस्य द्वादशान्यिकः । द्वादशापपाठाः अस्य जाता इत्यर्थः । ( १६१६ ) हितं भक्षाः ४ |४| ६५॥ अपूपभक्षणं हितमस्मै आपूपिकः । ( १११७ ) तदस्मै दी यते नियुक्तम् ४|४|६६ ॥ अग्रभोजनं नियुक्तं दीयते अस्मै आप्रभोजनिकः । ( १६१८ ) श्राणामालोदनाट्टिन् ४|४|६७ ॥ श्राणा नियुक्तं दीयतेऽस्स्मै श्राणिकः । श्राणिकी। मांसौदनग्रहणं सङ्घातविगृहीतार्थम् । मांसौदनिक:मांसिकः-ओदनिकः । ( १६१६ ) भक्तादणन्यतरस्योम् ४|४|६८ ॥ पक्षे ठक् । भक्तमस्मै नियतं दीयते भाक्तः- भाक्तिकः । ( १६२० ) तत्र नियुक्तः ४|४|१६|| आकरे नियुक्तः आकरिकः । ( १६२१) अगारान्ताट्ठन् ४|४| ७० ॥ देवागारे नियुक्तो देवागारिकः । ( १६२२ ) अध्यायिन्यदेश कालात् ४|४|१ || निषिद्धदेश कालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते इमाशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । ( १६२३ ) कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ४।४।७२ ॥ तत्र इत्येव । वंशकठिने व्यवहरति वांश
प्राग्विषये इति । द्वादशान्यिक इति । 'तद्धितार्थ' इति समासः । एवं त्रयोदशान्यिकः । नित्वादादिवृद्धिः । हितं भक्षाः । तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते, हितयोगात् । तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात् यत् हितं भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्वयाख्येयम् । अपूपभक्षयमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थं तु न ठकू, अभिधानस्वा भाव्यादिति भावः ।
तदस्मै दीयते नियुक्तम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पाठान्तरम् नियतमित्यर्थः । श्राणामांस । तदस्मै दीयते नियतमित्येव । श्राणा यवागूः । 'यवागूरु ष्णिका श्राणा विलेपी तरला च सा' इत्यमरः । टित्वं ङीबर्धम् । तदाहश्राणिकीति । सङ्घातविगृतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तर विधानमिति भावः । भक्तादणन्यतरस्याम् । तदस्मै दीयते नियतमित्येव ।
I
तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः । अधिकृतः । संरक्षणादा प्रेरित इति यावत् । आकरिक इति । आकरः रत्नाद्युद्भवस्थानम् । श्रगारातान् । तत्र नियुक्त इत्येव । नित्वान्नादिवृद्धिः । तदाह - देवागारिक इति । अध्यायिन्यदेशकालात् । निषिद्धेति । अदेशकालेत्यत्र नञ् निषिद्धे वर्तत इति भावः । श्माशानिकः । चातुर्दशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः । कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यः ठगि - -
1
1
For Private and Personal Use Only
Page #812
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१ ]
बालमनोरमासहिता ।
कठिनिकः । वंशाः वेणवः कठिनाः यस्मिन्देशे स वंशकठिनः । तस्मिन्देशे या क्रिया यथा अनुष्ठेयातां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । (१६२४) निकटे वसति ४|४|७३ ॥ नैकटिको भिक्षुः । ( १६२५ ) आवसथात् ष्ठलू ४|४|७४ || आवसथे वसति आवसथिकः । षित्वान्छीष् । आवसथिको । 'आकर्षात्पर्यादेर्भस्वादिभ्यः कुसीदसूत्राच ।
८०३
वा० ).
आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥' ( श्लो० ( वा २९५५ ) षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ इति तद्धिते ठमधिकारप्रकरणम् ।
अथ तद्विते प्राग्घितीयप्रकरणम् ॥ ३१ ॥
( १६२६ ) प्राग्धिताद्यत् ४।४।७५ ॥ ' तस्मै हितम्' ( सू १६६५ ) इत्यतः प्राग्यदधिक्रियते । ( १६२७ ) तद्वहति रथयुगप्रासङ्गम् ४|४|७६ ॥
त्यर्थः । वंशकठिनशब्दं विवृणोति - वंशा इति । व्यवहरणम् उचितक्रिया । तदाहयस्मिन्देशे इति । प्रस्तारसंस्थानशब्दौ अवयवसन्निवेशपर्यायौ । निकटे वसति । अस्मि नथें सप्तम्यन्तान्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शाखमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् । श्रवसथात्ष्ठलू । तत्र वसतीत्यर्थे आवसथात् सप्तम्यन्तात् पुलि. त्यर्थः । आवसथं गृहम् । पित्वं ङीषर्थम् । तदाह - श्रावसथिकीति । श्राकर्षादित्यादि । लोकवार्तिकमिदम्- 'प्राग्वहतेष्टक' इत्यादौ ठगिति वा ठगिति छेद इति संशयनिवृत्त्यर्थम् ' माकर्षात्लू' इति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेन 'माकर्षाष्टलू' इति सूत्रं विवक्षितम् । पर्यादिभ्यः इत्यनेन 'पर्पादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । भवादिभ्यः इत्यनेन 'भस्त्रादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ष्ठन्ष्टचौ' इति सूत्रं विवक्षितम् । आवसथादित्यनेन 'आवसथात् एल्' इति सूत्रं विवक्षितम् । किसरादेरित्यनेन 'किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकार एतैः सूत्रैविहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु 'कुसीद' इति सूत्रे प्रत्ययद्वयविधानात् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्त इति षट् षित इति कथमित्यत आह - षडितीति । षडित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । इति तद्धिते प्राग्वहतीयप्रकरणम् ॥
अथ प्राग्घितीयप्रकरणं निरूप्यते - प्राग्धितायत् । हितशब्दः तद्वटित सूत्रपरः । तदाह - तस्मै हितमिति । तद्वद्दति रथ । रथादि वहतीत्यर्थं द्वितीयान्तात् रथ युग
For Private and Personal Use Only
Page #813
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
~
~
८०४
सिद्धान्तकौमुदी [तद्धिते प्राग्घितीय% 3A रथं वहति रथ्यः । युग्यः । वत्साना दमनकाले स्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः। तं वहति प्रासजयः । (१६२८) धुरो यड्ढको ४।४७७ ॥ "हलि च' ( सू ३५४ ) इति दोघे प्राप्ते । (१६२६) न भकुछराम् ॥२॥ ७६ ॥ भस्य कुर्छरोश्चोपधायाः दीर्घो न स्यात् । धुर्यः-धौरेयः । (१६३०) खः सर्वधुरात् ४।४।७८ ॥ सर्वधुरां वहतीति सर्वधुरीणः । (१६३१ ) एकधुराल्लुक्च ४४७॥ एकधुरं वहति एकधुरीणः-एकधुरः । ( १६३२) शकटादण ४४०॥ शकटं वहति शाकटो गौः । (१६३३ ) हलसी. राहक्४|४|१॥ हलं वहति हालिकः। सैरिकः । (१६३४)संज्ञायां जन्या ४॥४२॥ जनी वधूः । तो वहन्ति प्रापयन्ति जन्याः । (१६३५) प्रासङ्ग इति त्रयात् यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यक् यत् काष्ठमीषत्प्रोतमासज्यते तद्यगम् । तद्वहतीत्यर्थः । दमनकाले इति । रथा. दिवहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवाह्ययुगे ययुगान्तरमासज्य तस्मिन्नशि. क्षिता अश्वादयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः । 'प्रासङ्गो ना युगा. युगे' इत्यमरः । धुरो यड्ढको । धुशब्दाद्वितीयान्तात् वहतीत्यर्थ यत् ढक् च स्यादित्यर्थः । यड्ढकमाविति पाठान्तरम् । हलि चेतीति । 'धुवो हिंसायाम्। भ्राजभास' इति कि । राल्लोपः' इति लोपः। अश्वादिस्कन्धवाह्यप्रदेशो युगावयवो धूः । धुर शब्दात् यति 'हलि च' इति दीघे प्राप्ते सतीत्यर्थः । न भकुर्छ राम् । 'वोरुपधाया" इत्यतः उपधाया इति दीर्घ इति चानुवर्तते । तदाह-भस्येत्यादिना। 'धूर्व हे धुर्यधौरे. यधुरीणाः इत्यमरः । खः सर्वधुरात् । सर्वा धूः सर्वधुरा 'पूर्वकाल' इति तत्पुरुषः । 'ऋक्पू:' इति समासान्तः । 'परवल्लिङ्गम्। इति स्त्रीत्वाट्टाप । इह तु शब्दस्वरूपापे. क्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दात् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः । स तु सर्वधुरीगो यो भवेत् सर्वधुरावहः' इत्य. मरः । एकधुराल्लुक च। एकधुराशब्दात् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः-एकधुरः इति । एकधुरां वहतीत्यर्थः । शकटादण् । द्वितीयान्ता. च्छकटशब्दात् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराटठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । सज्ञायां जन्याः। जनीशब्दात् द्वितीयान्तात् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनीवधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिघसिभ्यामिति जनधातोः इणि 'जनिवध्योश्च' इति वृद्धिप्रतिषेधे 'कृदिकारात् इति डीषि जनीशब्दस्य निष्पत्तेरिति भावः। 'समा स्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणं प्रापयन्तीति । वरगृहमिति शेषः। जन्या इति । जामातुर्वयस्या
For Private and Personal Use Only
Page #814
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१ ]
बालमनोरमासहिता ।
विध्यत्यधनुषा ४|४|८३ ॥ द्वितीयान्ताद्विष्यतीत्यर्थे यत्स्यात् न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पयाः शर्कराः । ( १६३६ ) धनगरां लब्धा ४|४|६४ ॥ तृनन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः । ( १६३७) अन्नाण्णः ४|४|८५ ॥ अन्नं लब्धा आन्नः । ( १६३८ ) वशं गतः ४|४| ८६ ॥ वश्यः परेच्छानुसारी । ( १६३६) पदमस्मिन्द्रश्यम् ४|४|८७ ॥ पयः कर्दमः । नातिशुष्क इत्यर्थः । (१६४० ) मूलमस्यावहि ४|४|६८ ॥ आबर्हणमाबईः उत्पाटनं, तदस्यास्तीत्याबद्द मूलमाबोह येषां ते मूल्या मुद्गाः । ( १६४२ ) संज्ञायां धेनुष्या ४४ ॥ धेनुशब्दस्य घुगागमो यप्रत्ययश्व स्वार्थे निपात्यते, संज्ञायाम् । धेनुष्या बन्धके स्थिता । ( १६४२ ) गृहपतिना
ἘΟΥ
इति शेषः । 'जन्याः स्निग्धा वरस्यये' इत्यमरः ।
विध्यत्यधनुषा । तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषः अभावः अधनुः तस्मिन्सतीत्यर्थः । अर्थाभावे नन्तत्पुरुषः । अर्थाभावे अव्ययीभावेन अयं विकल्प्यत इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र वेधने धनुः करणं न चेदित्यर्थः । पचा इति । पादशब्दाद्यति 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यत् न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम्, विध्यात्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्तः उपगुनप्तृत्वात् इत्यादौ भणादिकं न स्यात् प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा । धनशब्दात् गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह-तृन्नन्त: मेतदिति । तथाच 'न लोक' इति निषेधान्न षष्ठीति भावः । श्रन्नाण्यः । लब्धेत्यर्थे द्वितीयान्तादिति शेषः । वशं गतः । वशशब्दात् द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः । 'वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । 'वशिरण्योरुपसंख्यानम्' इत्यप् । वशं इच्छां गतः प्राप्तः, इच्छाधीन इत्यर्थः । वशधातुः छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह - परेच्छानुसारीति । पदमस्मिन्दृश्यम् । प्रथमान्तात्पदशब्दात् दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिण म्यते । मूलमस्यावहिं । श्राबणमिति । उत्पादनमित्यर्थः । उपसर्गवशात् 'बृहू उद्यमने इति धातोरुत्पाटने वृत्तिः । मूल्या मुद्रा इति । मूलतः उत्पाटनीया इत्यर्थः । संज्ञायां
1
For Private and Personal Use Only
Page #815
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०६
सिद्धान्तकौमुदी
[तद्धिते प्राग्घितीय
संयुक्त ज्यः ४।४।६० ॥ गृहपतियजमानः, तेन संयुक्तो गार्हपत्योऽग्निः । (१६४३)नौवयोधर्मविषमूलमूलसोतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ४।४।६१ ॥ नावा ताय नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मुलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् । (१६४४) धर्मपथ्यर्थन्यायादनपेते ४।४।४२ ॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । (१६४६ ) छन्दसो निमिते ४४४३ ॥ छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः। (१६४६) उरसोऽण च ४४। धेनुष्या। यप्रत्ययश्चेति । यति तु तित्स्वरः स्यादिति भावः । धेनुभ्येति । या धेनुोह. नार्थमुत्तमाय अधमणेन दीयते तस्या इयं संज्ञा। तदाह-बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्यापादपरिसमाप्तेरधिकारः। संज्ञा हि रूढिविवक्षिता। गृहपतिना। अस्मिन्नथें गृहपतिशब्दात् तृतीयान्तात् भ्यः स्यादित्यर्थः। गार्हपत्योs. ग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयाजेषु अग्निहोत्रे च गृहपतिदेवताक. होमस्य क्रियमाणत्वात् गृहपतियोगः । यद्यपि देवसूहविःषु 'अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति' इति हविहोम आहवनीये क्रियते। तथापि संज्ञाधिकारादा. हवनीये नास्य प्रयोगः।
नौवयोधर्म । नौ, वयस् , धर्म, विष, मूल, मूल, सीता तुला एभ्योऽष्टभ्यः क्रमात् तायें, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते सम्मिते चार्थ यत्स्यादित्यर्थः। तृतीयान्तेभ्यः इत्यर्थात् गम्यते । तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव सम्भवात् । अत्र मूलशब्दयोर्यथासायप्रवृत्तये नैकशेषः। अन्यथा सप्लानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यथेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति । तरीत शक्यमित्यर्थः । 'ऋहलोयत। वयसा तुल्य इति । मित्रे एवार्य प्रत्ययो नतु शत्रो, संज्ञाधिकारात् । मूलेनानाम्यमिति । पटादेरुत्पत्त्यर्थे वणिग्भिर्विनियुक्तं द्रव्यं मूलम् । तेन सह यदधिकं द्रव्यम् आनम्यते विक्रेतुः सम्मतीकरणेन लभ्यन्ते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्व द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बाध्या । सा च साम्प्रतिकी निरूढा वा। सीतयेति । सीता लागलपद्धतिः। तया समितं सङ्गतमित्यर्थः । कृष्टमिति यावत् । तुलयेति । तुला घटा, तया उन्मितमित्यर्थः। धर्मपथ्यर्थ । धर्म, पथिन् अर्थ, न्याय एभ्यः अनपेतमित्यर्थे यदित्यर्थः । औचित्या. त्पञ्चम्यन्तेभ्यः इति लभ्यते । धर्मादनपेतमिति । अप्रच्युतमित्यर्थः । पथ्यमिति । पथ: अनपेतमित्यर्थः । न्याय्यमिति । न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते । छन्दशशब्दा. त्ततीयान्तात् निर्मितेऽथें यदित्यर्थः । इच्छयेति । छन्दःशब्दः इच्छावाचीति भावः ।
For Private and Personal Use Only
Page #816
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१]
बालमनोरमासहिता ।
Cos
६४ ॥ चाद्यत् । उरसा निर्मितं पुत्रः औरसः-उरस्यः । (१६४७) हृदयस्य प्रियः ४।४।५ ॥ हृद्यो देशः । 'हृदयस्य हृल्लेख-' (सू ९८८) इति हृदा. देशः। (१६४८) बन्धने चर्षी ४४६ ॥ हृदयशब्दात्षष्ठ्यन्ताद्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः । (१६४६) मतजनहलात्करणजल्पकर्षेषु ४।४18 ॥ मतं ज्ञानं, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षों हल्यः । (१६५०) तत्र साधुः ४।४।८॥ अग्रे साधुः अग्रयः। सामसु साधुः सामन्यः । 'ये चाभावकर्मणाः' (सू ११५४ ) इति प्रकृतिभावः । कर्मण्यः । शरण्यः । (१६५१ ) प्रतिजनादिभ्यः खञ् ४४1880 प्रतिजनं साधुः प्रातिजनीनः। सांयुगीनः । सार्वजनीनः। वैश्वजनीनः । (१६५२) भक्ताण्णः ॥४॥१००॥ भक्ते साधवो भाक्ताः शालयः । (१३) परिषदो ण्यः ४।४।१०१॥ पारिषद्यः । परि. षदः इति योगविभागाण्णोऽपि । पारिषदः। [ पर्षदः इति पाठान्तरम् । पार्षदः । ] (१६५४) कथादिभ्यष्ठक ४।४।१०२॥ कथायां साधुः का. थिकः । (१६५५) गुडादिभ्यष्ठा ४४१०३॥ गुडे साधु¥डिक इक्षुः । साक्तुका यवाः। (१६५६) पथ्यतिथिवसतिस्वपते ४।४।१०४॥
-
'छन्दः पद्येऽभिलाषेच' इत्यमरः । उरसोऽण् च । तृतीयान्तानिर्मित इत्यर्थे इति शेषः । उरस्यः इति । 'अङ्गादात्सम्भवसि हृदयादधिजायसे' इति श्रुतेरिति भावः । पुत्त्र इति संज्ञाधिकाराल्लब्धम् । हृदयस्य प्रियः। षष्टयन्तात् हृदयशब्दात् प्रिय इत्यथें यत्स्यादित्यर्थः । बन्धने चर्षों । मतजनहलात्। यथासङ्ग्यम् एभ्यः एष्वर्थेषु यदिति शेषः । मतं शानमिति । मनधातोः भावे क्त इति भावः । करणं भावः साधनं वेति । कृधातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधन वा विवक्षितमित्यर्थः । मत्यमिति । ज्ञानस्य जननक्रिया जननसाधनं वेत्यर्थः । ____ तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरि. त्यर्थः । साधुरत्र प्रवीणो गृह्यते, नतु हितः, तत्र 'तस्मै हितम्' इति वक्ष्यमाणत्वात् । प्रतिजनादिभ्यः खञ् । तत्र साधुरित्येव । सप्सम्यन्तेभ्यः एभ्यः साधुरित्यर्थे खञ् स्या. दित्यर्थः । प्रातिजनीन इति । प्रतिजनमिति वीप्सायामव्ययीभावः । तत्र साधुरि. त्यर्थः । एवं वैश्वजनीनः । भक्ताण्णः। सप्तम्यन्तादस्मात् साधुरित्यर्थे इति शेषः । परिषदो ण्यः । सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति । परिषद हात प्रथमो योगः । परिषदः णः स्यादित्यर्थः । ततः 'ण्यः' इति द्वितीयो योगः। परिषदो ण्यः स्यादित्यर्थः । कथादिभ्यष्ठक् । इत्यादि स्पष्टम् । गुडादिभ्यष्ठम् । साक्तुका यवा इति ।
For Private and Personal Use Only
Page #817
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते छयविधि
पथि साधु पाथेयम्। आतिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। स्वापतेयं धनम् । (१६५७ ) सभाया यः४।४।१०५॥ सभ्यः। (१६५८) समानतीर्थे वासी ४।४।१०७॥ साधुः इति निवृत्तम् । वसतीति वासी। समाने तीर्थे गुरौ वसतीति सतीयः। (१६५६ ) समानोदरे शयित ओ चोदात्तः ४।४।१०॥ समाने उदरे शयितः स्थितः समानोदर्यो भ्राता। (१६६०) सादरायः ४।४।१०४॥ सोदयः । अर्थः प्राग्वत् ।
इति तद्धिते चतुर्थस्य चतुर्थ पादे प्राग्घितीयप्रकरणम् ।
अथ तद्धिते छयद्विधिप्रकरणम् ॥ ३२॥ (१६६१ ) प्राक् क्रीताच्छः ५।१।१॥ 'तेन क्रीतम्' (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते । (१६६२) उगवादिभ्यो यत् ५।१२॥ प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । 'नाभि नभं च' सक्तुषु साधुरित्यर्थः। गुडादित्वाट्ठन् उगन्तत्वाट्ठस्य कः। पथ्यतिथि। इत्यादि स्पष्टम् । समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्तात् वसतीत्यर्थं यत्स्यादि. त्यर्थः । वसतीति वासीति । ग्रहादेराकृतिगणवाणिनिः। तीर्थशब्दस्य विवरणं गुरा. विति । सतीर्थ्य इति । समानतीर्थशब्दाति 'तीर्थे ये' इति समानस्य सभावः । समानोदरे शयितः । समानोदरशब्दात् सप्तम्यन्तात् शयितः इत्यर्थे यत्स्यात् ओकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयं इत्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति विग्रहे 'पूर्वापरप्रथमः इत्यादिना समासाद्यति कृते तित्स्वरापवादः ओकारस्योदात्तः। 'विभाषोदरे' इति सभावे असति रूपम् । सोदराद्यः । सप्तम्यन्तात् शयित इत्यर्थे इति शेषः । तित्त्वा. भावात्प्रत्ययस्वरेणान्तोदात्तोऽयम् । 'विभाषोदरे' इति सभावः । 'अपन्यानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धम् ।
इति तद्धिते चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः। प्राक्क्रीताच्छः। क्रीतशब्दस्तखटितसूत्रपरः । तदाह-तेन क्रीतमिति । 'तेन क्रीतम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् । उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति । प्रातिपदिकविशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णः ग्रहणवर्जम्' इत्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्र प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषानुपादाने उपतिष्ठते । नाभि नभं चेति । गवादिगणसू.
For Private and Personal Use Only
Page #818
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२ ]
बालमनोरमासहिता ।
Το
(ग सू ९५ ) । नभ्योऽशः । नभ्यमञ्जनम् । रथनाभावेवेदम् । 'शुनः सम्प्रसारणं वा च दीर्घत्वम्' (ग सू९६) शून्यम् - शुन्यम् । 'ऊधसोऽनङ् च' (ग सू ९७) । ऊधन्यः । ( १६६३ ) कम्बलाच्च संज्ञायाम् ५|१|३|| यत्स्यात् । कम्ब व्यमूर्णापलशतम् । संज्ञायाम् किम् । कम्बलीया ऊर्णा । ( १६६४ ) विभाषा हविरपूपादिभ्यः ५|१|४|| आमिक्ष्यं दधि, आमिक्षयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम् - अपूपीयम् । ( १६६५ ) तस्मै हितम् । ५।१५॥ वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कभ्यं दारु । गव्यम् । हविष्यम् । ( १६६६ ) शरीरावयवाद्यत् ५|१|६ ॥ दन्त्यम् । कण्ठयम् । त्रम् | नाभिशब्दः नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते । तस्मै हितः अक्षदण्डः, स हि अनुगुणत्वात् नाभये हितः । नभ्यमञ्जनमिति । अज्जनं तैलसेकः । नाभेरञ्जने कृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते । भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह - रथनाभावेवेदमिति । शरीरावयवविशेषवाचिनाभिशदात्तु 'शरीरावयवाद्यत्' इति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः सम्प्रसारणमिति । गवादिगणसूत्रम् । श्वनुशब्दाद्यत्स्यात् प्रकृतेः सम्प्रसारणम्, तस्य सम्प्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम् - शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ्चेति । इदमपि गणसूत्रम् । ऊधरशब्दात् यत्स्यात् प्रकृतेर नङादेशश्चेत्यर्थः । आदेशे डकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । कम्ब लाच्च । कम्बलशब्दात् यस्स्यात् प्राक्क्रीतीयेष्वर्थेषु सन्ज्ञायामित्यर्थः । कम्बल्यम् ऊर्णापलशतमिति । कम्बलाय हितमित्यर्थः । विभाषा हवि । हविर्विशेषवाचिभ्यः अपुपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षेछ: आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दधिन निक्षिप्ते सति यत् घनीभूतं निष्पद्यते सा आभिक्षेत्युच्यते ।
तस्मै हितम् । अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुक् वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्ख हितमित्यर्थः । उवर्णान्ताद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविग्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः 'विभाषा हविः' इत्यत्र तु हविविशेषवाचिनामेव ग्रहणं, व्याख्यानात् । शरीरावयवा - यत् । शरीरावयवविशेषवाचकात् चतुर्थ्यन्तात् हितमित्यर्थे यत्स्यादित्यर्थः छस्याः
For Private and Personal Use Only
Page #819
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
सिद्धान्तकौमुदी
[तद्धिते छयद्विधि
'नस्नासिकायाः' (वा ३४९७ ) नस्यम् । नाभ्यम् । (१६६७ ) ये च तद्धिते ६१६१॥ यादौ तद्धिते परे शिरःशब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति । 'वा केशेषु' ( वा ३४९३ ) शीर्षेण्याः शिरस्या वा केशाः । 'अचि शीर्ष इति वाच्यम्। ( वा ३४९४)। अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् । (१६६८ ) खलयवमाष. तिलवृषब्रह्मणश्च ५.१७॥ खलाय हितं खल्यम् । यव्यम् । माध्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चादथ्या। (१६६६) मजाविभ्यां थ्यन् ५॥१॥ अजथ्या यूथिः । अविध्या । (१६७०) आत्मविश्वजनभोगोत्तरप. दात्खः ५.१४॥ (१६७१) मात्माध्वानौ खे ६।४।१६६॥ एतौ खे प्रकृ. त्या स्तः। आत्मने हितमात्मनीनम् । विश्वजनीनम् । 'कर्मधारयादेवेष्यते । पवादः । नस्यमिति । नासिकायै हितमित्यथः । 'पन्' इति नल, प्रभृतिग्रहणस्य प्रकारार्थत्वात् । भाष्ये तु 'नासिकाया यत् तस् क्षुद्रेषु नस्' इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थी । नाभिरत्र शरीरावयवः । स्थावयत्वे तु नभादेश उक्तः । ये च तद्धिते । शीर्षन्नादेश इति । 'शीर्षन् छन्दसि' इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्यः इति । शिरसे हित इत्यर्थः । शरीरावयवत्वाचति शीर्षन्नादेशे 'ये चाभावकमणोः' इति प्रकृतिभावान टिलोपः । शिरस्यतीति । शिरः आत्मनः इच्छतीत्यर्थे 'सुपः आत्मनः' इति क्यचि, 'नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षनादेशो वा स्यादित्यर्थः । प्रसङ्गादाह-अचीति । खलयव । खलादिभ्यश्चतुर्थ्यन्तेभ्यः हितमित्यर्थे यस्यादित्यर्थः। वृषशब्दोऽत्र अकारान्त एवं गृह्यते, नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन् शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची। तेन ब्रह्मणे वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र 'ये चाभावक. मणो" इति प्रकृतिभावान टिलोपः। चादथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वा. दिति भावः । अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य घित्वेऽपि 'अजाद्यदन्तम्' इत्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरिभाषया अजाशब्दादपि थ्यन् । तसिलादिष्विति पुंव. त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् ।
आत्मविश्वजन । आत्मन् , विश्वजन, भोगोत्तरपद एभ्या हितमित्यर्थे खः स्या. दित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्ते-आत्माधवानी खे। प्रकृत्या स्त इति । 'प्रकृत्यैकाच्' इत्यतस्तदनुवृत्तरिति भावः । कर्मधारयादेवेति । विश्व.
For Private and Personal Use Only
Page #820
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२]
बालमनोरमासहिता।
११
-
-
षष्ठीतत्पुरुषाद्वहुव्रीहेश्च छ एव । विश्वजनीयम् । 'पञ्चजनादुपसङ्ख्यानम्' (वा २९९६) पञ्चजनीनम् । 'सर्वजनान् खश्च' (वा २९९७)। सार्वजनिकः सर्वजनीनः । 'महाजना' (वा २९९८ )। माहाजनिकः । मातृभोगीणः । पितृभोगौणः । राजभोगीनः । 'आचार्यादणत्वं च' (ग सू १८४) आचार्यभोगीनः । (१६७२ ) सर्वपुरुषाभ्यां णढो पा॥१०॥ 'सर्वाण्णो वेति वक्तव्यम्। (वा २९९९ )। सर्वस्मै हितं सार्वम्-सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) भाष्य कारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः। पुरुषस्य वधः पौरुषेयः, 'तस्यैदम्' (सू १५०० ) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः, 'प्राणिरजतादिभ्योऽञ्' ( सू १५३२) इत्यनि प्राप्ते । समूहेऽप्यणि प्राप्ते । एका. किनोऽपि परितः पौरुषेयवृता इव' इति माघः स. २-४ । तेन कृते ग्रन्थेऽणि प्राप्ते अप्रन्थे तु प्रासादादाव प्राप्त एवेति विवेकः । (१६७३) माणवचरकाभ्यां खज जनशब्दादिति शेषः । अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनः साधारणो वैद्यादिः । विश्वो जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णाः रथकारजातिश्चेत्येते पञ्च जनाः । तेभ्यो हितमिति विग्रहः । सर्वजनाठञ् खश्चेति । वक्तव्य इति शेषः । 'समानाधिकरणादिति वक्तव्यम्' इति वार्तिकं भाष्ये स्थितम् । महाजनानिति । वक्तव्य इति शेषः । विश्वजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपद. स्योदाहरति-मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्य: शब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच असमानपदस्थ. त्वादेवात्र णत्वस्याप्रसक्तेस्तनिषेधो व्यर्थ इति वाच्यम् , मातृभोगीणादौ णत्वज्ञा. पनार्थत्वात् । सर्वपुरुषाभ्यां णढो। सर्व, पुरुष आभ्यां चतुर्थ्यन्ताभ्यां क्रमात् णढो स्तः हितमित्यर्थे इत्यर्थः । सर्वाण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात् , न हिता) इत्यर्थः । ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह-भाष्येति । अणि प्राप्ते इति । अनेन ढजिति शेषः। प्राणीति । रजतादिस्वादजि प्राप्ते अनेन ढजित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूहः इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढजित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परितः आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे कृते ग्रन्थे इत्यणि प्राप्ते, पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढजित्यर्थः।
For Private and Personal Use Only
Page #821
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते छयद्विधि
५।१।११॥ माणवाय हितं माणवीनम् । चारकीणम् । ( १६७४) तदर्थं विकृतेः प्रकृतौ ५।१।१२॥ विकृतिवाचकाच्चतुर्थ्यन्यात्तदर्थायां प्रकृती वाच्याया प्रत्ययः स्यात् । अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु । (१६७५) छदिरुपधिबले ५११३॥ छादिषेयाणि तृणानि । बालेयास्तण्डुलाः। 'उपधिशब्दात्स्वार्थे इष्यते' ( वा ३००३)। उपधीयते इत्युपधिः रथाङ्गं, तदेव औपधेयम् । (१६७६) ऋषभोपानहोयः ५.१११४॥ छस्यापवादः। आर्षेभ्यो वत्सः । औपानह्यो मुजः। चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ।
माणव। आभ्यां चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीन. मिति । मनोः कुत्सितमपत्य माणवः, 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोण स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ।' इत्यपत्याधिकारवातिकात् । माणवाय हितमिति विग्रहः। चारकोणमिति । चरतीति चरः पचायच् । ततः स्वार्थिकः कः, (चरकः) चस्काय हितमिति विग्रहः । तदर्थं विकृतेः प्रकृतौ । तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छब्देन चतुर्थ्यन्तेन विकृतिरेव प्रथम निर्दिश्यते । तथाच चतुर्थ्यन्तात् विकृतिवाचकादिति लभ्यते । तदाह-विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्व्याणि । अङ्गाराः विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इष्टका इति । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्थी इत्यर्थः । शङ्कव्यमिति । शङ्कवे इद. मिति विग्रहः । शक्वर्थमित्यर्थः। 'उगवादिभ्यः' इति यत् । छदिरुपधिबलेढम् । छदिष, उपधि, बलि एषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । एभ्यः तादर्थ्यचतुर्थ्यन्तेभ्यः प्रकृतौ वाच्यायां दजित्यर्थः । छादिषेयाणीति। छदिः तृणपटलः । तस्मै इमानीति विग्रहः । छदिरानीत्यर्थः । ढजि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः । 'करोपहारयोः पुंसि बलिः' इत्यमरः । 'भागधेयः करो बलिः' इति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाने उपधीयते प्रोतं क्रियते इत्युपधिः । 'उपसगे घोः किः' इति धाजः किप्रत्ययः । 'आतो लोप इटि च' इत्याल्लोपः । उपधिः रथाङ्गमिति। तथा भाष्या. दिति भावः।
ऋषभोपानहोयः। ऋषभ उपानह अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभशब्दा. दुपानशब्दाच्च तादर्थ्यचतुर्थ्यन्तात् प्रकृती वाच्यायां ध्यप्रत्ययः स्यादित्यर्थः । आषभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्सः ऋषभाव.
For Private and Personal Use Only
Page #822
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२ ]
बालमनोरमासहिता।
८१३
औपाना चर्म। (१६७७) चर्मणोऽञ् ५।१।१५॥ चर्मणो या विकृतिस्तद्वाचकादस्यात् । वध्रथै इदं वाधं चर्म। वारत्रं चर्म। (१६७८) तदस्य तदस्मिन्स्यादिति ५।१।१६॥ प्राकारः आसामिष्टकानां स्यात्प्राकारीयाः इष्टकाः। प्रासादीयं दारु । प्राकारोऽस्मिन्स्यात्प्राकारीयो देशः । इतिशब्दो लौकिकी विव. क्षामनुसारयति । तेने ह न । प्रासादो देवदत्तस्य स्यादिति । (१६७४) परिखा. या ढञ ५११७॥ पारिखेयी भूमिः। इति तद्धिते छयतोः पूर्णोऽविधिः। स्थाप्राप्त्यर्थ पोष्यते स एवमुच्यते । औपानह्यो मुन्ज इति । उपानहे अयमिति विप्रहः । उपानदर्थो मुझे इत्यर्थः । क्वचिद्देशे मुञ्जतृणैरुपानत् क्रियते । चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ज्य एव चर्मणोऽञ्' इत्यज परमपि पूर्व विप्रतिषेनेन बाधि. त्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः' इति सूत्रभाष्ये स्थितम् । औपानामिति । उपानदर्थ चर्मेत्यर्थः । चर्मणोऽञ् । चर्मणः इति षष्ठयन्तं विकृतावन्वेति । तदाहचर्मणो या विकृतिः तद्वाचकादिति । तादर्थ्यचतुर्थ्यन्तादिति शेषः । अञ स्यादिति । प्रकृतौ वाच्यायामिति शेषः । वध्ये इदमिति । वृधेरौणादिके ष्ट्रनि वर्धशब्दः । टित्त्वात् डीप , वर्धा चर्मरज्जुः । 'नधी वीं वरना स्यात्' इत्यमरः । वाध्य इदमिति पाठा. न्तरम् । 'वृधिवपिभ्यां रन्' इति वृधेः रनि लघूपधगुणे रपरत्वे वधंशब्दश्चर्मवाचकः, तस्माद्विकारे।अणि डीपि वार्धा रज्जुः। ___ तदस्य तदस्मिन् स्यादिति । 'तदर्थ विकृतेः प्रकृतौ' इति निवृत्तम् इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादि. त्यर्थः । स्यादित्यत्र सम्भावनेऽलमिति' इति सम्भावने लिङ् । प्राकार प्रासामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्ठी। आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति। प्राकारशब्दात्प्रथमान्तात् छः। इष्टकाः प्रत्ययार्थः। प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दाविति । प्रासादो. ऽस्य स्यादिति विग्रहः । प्रासादपर्यासमिति यावत् । प्राकारीयो देश इति । प्रायेण प्राकारोऽस्मिन्देशे सम्भाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहलत्वादिति भावः । अनेन तदर्थ विकृतेः' इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गः स्यादित्यत आह-इतिशब्दो लौकिकी विवक्षामिति । शिष्टव्यवहारमित्यर्थः । परिखाया ढम् । पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तोति वा विग्रहः । परिखायोग्येत्यर्थः । छयतो: पूर्णोऽवविरिति । 'प्राग्वतेष्ठ' इत्यारभ्यः 'द्वित्रिपूर्वादण च' इत्यन्तैः सूत्रः प्रत्ययविशेषेष्वनुक्रान्तेषु 'तेन क्रीतम्' इति पठितम् । ततश्च 'प्राक्क्रीतात्' इत्युक्तस्तेष्वपि
For Private and Personal Use Only
Page #823
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१४
सिद्धान्तकौमुदी
[तद्धिते आहीय
अथ तद्धिताहीयप्रकरणम् ॥ ३३ ॥ (१६८०) प्राग्वतेष्ठञ् ५॥१॥१८॥ 'तेन तुल्यम्-' (सू १७७८ ) इति वति वक्ष्यति । ततः प्राकठाधिक्रियते। (१६८१) आदिगोपुच्छलया. परिमाणाट्ठक् ५।१।१६॥ तदर्हति' (सू १५२८) इत्येतदभिव्याप्य ठनधिकारमध्ये ठनोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा । (१६८२) मसमासे निष्कादिभ्यः ५॥१॥२०॥ 'आर्हात्' इत्येतत् 'तेन क्रीतम्' (सू १७०२) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहीयेष्वर्येषु । नैष्किकम् । समासे तु ठमेव । (१६८३) परिमाणान्तस्यासंज्ञाशाणयोः ७।३।१७॥ उत्तरपदवृद्धिः स्यात् निदादौ । परमनैष्किकः । असंज्ञा इति सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् , प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यस. म्भवादिति भावः। इति तद्धिते छयतोरविधिः । ___ अथ अीयाः। प्राग्वतेः। वतिशब्दस्तद्धटितसूत्रपरः। तदाह-तेन तुल्यमिति । 'तेन तुल्यम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठभि. त्युपतिष्ठत इति यावत् । आदिगोपुच्छ सङ्ख्यापरिमाणाट्टक् । तदहतीति सूत्रगते अर्ह. तिशब्दे एकदेशानुकरणमति, तच्च तद्वटितसूत्रपरम् , आङभिव्याप्ती, व्याख्यानात् । तदाह-तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाश्रवणे उपतिष्ठते । अत्र सङ्खयापरिमाणयोः पृथग्ग्रहणात्सङ्ख्या न परिमाणम् । तथाच वार्तिकम्
'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः।।
आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ।' इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुजामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिमितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामवि. स्तारोच्छ्रायः, व्रीह्यादि परिच्छिद्यते तत्परिमाणं प्रस्थादि । आयामो दैर्य येन परिच्छिद्यते तत्प्रमाणम् अरत्निप्रादेशादि । सङ्ख्या तु उक्तत्रितयापेक्षया बाह्या भिन्ना एकत्वद्वित्वादोत्यर्थः । असमासे । इति यावदिति । 'तेन क्रीतम्' इत्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । श्राहीयेष्विति । 'तदर्हति' इत्येतत्पयन्तमनुः क्रान्तेषु 'तेन क्रीतम्' इत्याद्यथेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः। समासे तु ठमेवेति । परमनिष्कादिशब्दादित्यर्थः । ___ परिमाणान्तस्यासन्ज्ञाशाणयोः । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्वयाचष्टे-उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । निदादाविति । जिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण
For Private and Personal Use Only
Page #824
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता ।
,
->
किम् । पञ्च कलापाः परिमाणमस्य पाचकलापिकम् । 'तदस्य परिमाणम्' [ सू १७२३ ] इति ठम् । असमासग्रहणं ज्ञापकं भवति 'इतः प्रातदन्तविधिः" इति । तेन सुगम्यम् - यवापूप्यमित्यादि । इत ऊर्ध्वं तु 'सख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतरिष्यते तच्चालुकि (वा ३०१८ ) । पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते 'शूर्पादञ् - ( सू १६९१ ) मा भूत् । किं तु ठञ् । द्विशोपिंकम् | ( १६८४) मर्धात्परिमाणस्य पूर्वस्य तु वा ७|३|२६|| अर्धास्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः, पूर्वपदस्य तु वा ञिति णिति किति च। अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम् - आर्धद्रौणिकम् । (१६८५) नातः परस्य
८१५
क्रीत इत्यर्थः । समासत्यागभावे औत्सर्गिकष्टम् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठको प्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्, 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति निषेधात् । निष्कादीनां च विशेष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह—असमासग्रहणमिति । सुगव्यमिति । सुशोभना गौः सुगौः, 'न पूजनात्' इति निषेधात् 'गोरतद्धितलुकि' इति न टच् । 'उगवादिभ्यः' इति गोशब्दान्ताद्यत् । यवापूप्यमिति । 'विभाषा हविरपूपादिभ्यः' इत्यपूपान्तस्वाद्यत् । नन्वसमासग्रहणात् ज्ञापकात् इत ऊर्ध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि 'पारायणतुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह-छत ऊर्ध्व स्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पेण क्रीतमित्यर्थे शूर्पशब्दान्तादपि 'शूर्पादन. न्यतरस्याम्' इति अञ् स्यादित्यत आह- तच्चालुकीति । इत ऊर्ध्वं सङ्ख्या पूर्वपदानां तदन्तग्रहणमिति यदुक्तम्, तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशुर्पमिति । तद्धितार्थ' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदात् शूर्पान्तादस्मात् 'शूर्पादजन्यतरस्याम्' इति प्राप्तस्य aagri वा 'अध्यर्ध' इति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थं 'शूर्पादज्' इति न भवति । लुकि सति तदन्तग्रहणाभावादित्यर्थः । द्विशौपिंकमिति । 'तेन क्रीतम्' इति उत्रि 'परिमाणान्तस्यासम्ज्ञाशाणयोः" इत्युत्तरपदवृद्धिः । अस्य ठञो लुक् तु न भवति, तस्य द्विगुनिमित्तत्वाभावात् ।
1
I
अर्धारपरिमाणस्य । 'परिमाणान्तस्य' इत्यस्मादुत्तरमिदं सूत्रम् । अर्धद्रौणिकम् - श्रार्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किन्तु ठजेव ।
For Private and Personal Use Only
•
Page #825
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते माहीय
amanand
७३।२७ ॥ अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा जिदादौ । अर्धप्रस्थिकम्-आर्धप्रस्थिकम् । अतः किम् । आर्धकौडविकम् । तपरः किम् । अर्धखार्या भवा अर्धखारी । अर्धखारोभार्य इत्यत्र 'वृद्धिनिमित्तस्य- (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् । (१६८६) शताश्च ठन्यतावशते ५।११२१ ॥ शतेन क्रीतं शतिकम्-शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सधः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते । तेन ठन्यतौ न । किं तु कनेव । अ. समासे इत्येव । द्विशतेन क्रोतं द्विशतकम् । (१६८७) सख्याया अतिशदन्तायाः कन् ५१।२२ ॥ सङ्ख्यायाः कन्स्यादाहीयेऽथे, न तु त्यन्तशदन्तायाः। पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिनातः परस्य । परिमाणाकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिवेत्यर्थः । श्रार्ध कौडविकमिति । अर्धकुडवेन क्रीतमित्यर्थः । तेन क्रीतम्। इति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिनः आदे. रच: अकारत्वाभावान वृद्धिनिषेधः । कन्तु 'अर्धात्परिमाणस्य ' इत्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्धस्वस्येति सिद्ध. मिति प्रश्नः । अर्थखार्या भवा अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्धयभाव. पक्षे वृद्धि प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृद्धि प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव, उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्व. निषेधः । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् । शताच्च ठन्यतावशते । आहीयेष्वर्थेषु शतान्यतौ स्तः, नतु शतेऽथे इत्यर्थः । उत्तर. सूत्रप्राप्तकनोऽपवादः । शतकः सङ्घ इति । उत्तरसूत्रेण कनिति भावः । नन्विह सङ्क. स्यैव प्रत्ययार्थत्वात् कथम् 'अशते' इति निषेध इत्यत आह इहेति । प्रत्ययार्थः सहनः प्रकृत्यर्थात् शतात्परिमाणात् न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेद. स्तु काल्पनिक एवेति भावः। यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः। शाटकशतं तु प्रत्ययार्थः । एतत्सर्व भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तदनुकर्षणार्थ. त्वादिति भावः। द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् ।
सङ्ख्यायाः। तिश्च शच्च तिशतो, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगी नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीतमित्यर्थः ।
For Private and Personal Use Only
Page #826
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३]
बालमनोरमासहिता।
२७
शत्कः। (१६८८) वातोरिड़वा ५।१२२३ ॥ वत्वन्तात्कन इड्वा स्यात् । तावतिकः-तावत्कः । (१६८९) विंशतित्रशद्भयां वुन्नसंज्ञायाम् ५॥१॥ २४॥ योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असज्ञायां वुन् स्यात् । कनोऽपवादः । विशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशत्कः । (१६४०) कंसाठिन् ५१।२५ ॥ टो डीबर्थः। इकार उच्चारणार्थः । कंसिकःकंसिकी । 'अर्धाच्चेति वक्तव्यम्। ( वा ३.१८)। अधिक:-अधिकी । 'कार्षापणाष्टिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१९)। कार्षापणिक:-कार्षापणिको । प्रतिकः-प्रतिकी । (१६६१) शूदअन्यतरस्याम् ५।१।२६ ॥ शौर्पम्शोपिकम् । (१६६२) शतमानविंशतिकसहस्रवसनादण् ५।१।२७ ॥ एभ्योऽस्यात् । ठमठक्कनामपवादः । शतमानेन क्रीतं शतमानम् । बैंशतिकम् । साहनम् । वासनम् । (१६४३) अध्यधंपूर्वाद्विगोलुंगसंज्ञायाम् ५।१॥२८॥ 'तेन क्रीतम्' इति ठमष्ठस्य तकारात्परत्वात्कः । वतोरिड्वा । वतोरित्यनेन प्रत्ययन. हणपरिभाषया तदन्तं गृह्यते । कन्निति प्रथमान्तमनुवृत्तम् । 'वतो" इति पञ्चमी 'तस्मादित्युत्तरस्य' इति परिभाषया षष्ट्यन्तं प्रकल्पयति । तदाह-वस्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्यः' इति वतुप् 'बहुगणवतु' इति सङ्ख्यासज्ञायां 'सख्याया|अतिशदन्तायाः' इति कन् , तस्य इट् , टिस्वादाद्य. बयवः । विंशतित्रिंशद्भया ड्बुन्नसम्शायाम् । नन्वेकसूत्रत्वे विशत्रिंशजयां ड्नेव स्यात् , कन् तु न स्यात् । अतिशदन्ताया इति निषेधादित्यत आह-योगेति । 'विंशतित्रि. शनथाम्। इत्येक सूत्रम् । 'इबुन्नसम्ज्ञायाम्। इत्यपरमित्यर्थः । आधे व्याचष्टेप्राभ्यां कन् स्यादिति । 'सख्याया अतिशदन्तायाः' इत्यतः कन् इत्यनुवर्तत इति भावः। द्वितीयसूत्रे विंशतित्रिंशन्याम् इत्यनुवृत्तिमभिप्रेत्याह-प्रसन्शायामिति । आभ्यामिति शेषः । विशक इति । विंशत्या क्रीत इत्यर्थः । वुन् अकादेशः । 'तिवि. शतेडिति' इति तिशब्दस्य लोपः । त्रिशक इति । वुन् अकादेशः टे" इति टिलोपः । माद्यसूत्रं परिशेषात् सज्ञायामित्यभिप्रेत्याह-सम्शाया स्विति । कंसात् । इत्यादि स्पष्टम् । शूर्पादन । आहीयेष्वथेंचिति शेषः। शूर्पशब्दस्य परिमाणवाचित्वा उनि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पभे ठञ् । शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैशतिक इति । विशत्या क्रीतं विशतिकम् । सब्ज्ञाशब्दोऽयम् । विशतित्रिशयाम्' इति योगविभागात् कन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाण. विशेषस्य सज्ञा चेट्ठञ् प्राप्तः, अन्यस्य सज्ञा चेट्टक् प्राप्तः । साहस्रमिति । सहस्रेण क्रीतमिति विग्रहः । 'सङ्ख्याया अतिशदन्तायाः' इति।कन् प्राप्तः । वासन
बा० ५२
For Private and Personal Use Only
Page #827
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१८
सिद्धान्तकौमुदी
। तद्धिते आहीय
अध्यर्धपूर्वाद्विगोश्च परस्याहीयस्य लुक्स्यात् । अध्यर्धकसम् । द्विकसम् । संज्ञायां तु पाञ्चकलापिकम् । (१६६४) विभाषा कार्षापणसहस्राभ्याम् ५॥१॥२६॥ लग्वा स्यात् । अध्यर्धकार्षापणम्-अध्यर्धकार्षापणिकम् । द्विकार्षापणम्-द्विकार्षापणिकम् । औपसङ्खथानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम्-अध्यर्धसाहस्रम् । द्विसहस्रम्-द्विसाहस्रम् । (१६६५) द्वित्रि. पूर्वानिएकात् ५॥१॥३०॥ लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनि. कम्-त्रिनैष्किकम् । 'बहुपूर्वाच्चेति वक्तव्यम्' ( वा ३०२४ ) बहुनिष्कम्-बहुनैकिकम् । (१६४६) बिस्ताश्च ५।१।३१॥ द्वित्रिबहुपूर्वाद्विस्तादाहीयस्य लुग्वा स्यात् । द्विबिस्तम्-द्विवैस्तिकम् इत्यादि । (१६६७) विंशतिकात्खः ५।११३२॥ मिति । वसनेन क्रीतमिति विग्रहः । अत्र ठक् प्राप्तः ।
अध्यर्धपूर्व । अध्यर्धशब्दः पूर्वो यस्य सः अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्व. न्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह-अध्यर्धपूर्वात् द्विगोश्चेति । आहीयस्येति । प्रत्या. सत्तिलभ्यम् । अध्यर्धकंसमिति । अध्यारुढमधं यस्मिन् तत् अध्यर्धम् । 'प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धन कसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । 'सङ्ख्याया अतिशदन्तायाः' इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम् , किञ्चित्स.
याकार्य कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति । पञ्च कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । तदस्य इति ठा। सन्यासज्ञासूत्रभाष्ये तु 'अध्यधपूर्वात' इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्प, तेन क्रीतं द्विशौपिकमिति पूर्वोक्तोदाहरणे ठजो लुक् स्यादिति वाच्यम् द्विगुनिमित्तस्याहीयस्य लुगिति व्याख्यानादित्यलम् । विभाषा । लुग्वेति । आहीय. स्येति शेषः। औपसङ्ख्यानिकस्येति । 'कार्षापणाठिन् वक्तव्यः' इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्सन्नियोगशिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति । 'शतमान' इति विहितस्याणो लुक् । लुगभावे तु 'सड्डयायाः संवत्सरसहन्यस्य च' इत्युत्तरपदवृद्धिः। द्वित्रिपूर्वान्निष्कात् । लुग्वा स्यादिति । आहीयस्येति शेषः। द्विनिष्कमिति । ठजो लुक, समासाठकोऽसम्भवात् । बिस्ताच्च । आीयस्य लुग्वेति शेषः। द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः । ठनः पाक्षिको लुक् । इत्यादीति । बहुबिस्तं बहुबैस्तिकमित्युदाहार्यम् । 'बहुपूर्वाच्च' इति वातिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् ।
For Private and Personal Use Only
Page #828
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता ।
अध्यर्धपूर्वाद्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् । (१६४८ ) खार्या ईकन ५|१|३३|| अध्यर्धखारीकम् । द्विखारीकम् | 'केवलायाश्चेति वक्तव्यम्' ( वा ३०२५) खारीकम् । (१६६६) पणपाद्माषशताद्यत् ५ |१| ३४ ॥ अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह ' पादः पत् ( सू ४१४ ) इति न । 'यस्य – ' ( सू ३११ ) इति लोपस्य स्थानिवद्भावात् । 'पद्यस्य तदर्थे' ( सू ९९१ ) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र प्रहणात् । ( १७००) शाणाद्वा ५/१/३५॥ यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् - अध्यर्धशाणम् । ( १७०१ ) द्वित्रिपूर्वादण्च ५|१|३६|| शाणात् इत्येव । चाद्यत् । तेन त्रैरूप्यम् । 'परिमाणान्तस्यासंज्ञाशाणयोः' ( सू १६८३) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् - द्विशाण्यम् - दिशाणम् । इह ठञादय
८१६
विंशतिकात्खः । श्रध्यर्धपूर्वाद्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासम्भवात् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । मध्यर्थं विंशतिकीनमिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । 'विंशतित्रिंशद्वयाम्' इति योगविभागात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् । अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तते इत्यभिप्रेत्योदाहरति - श्रध्यर्धखारीकम् - द्विखारीकमिति । ' तदस्य परिमाणम्' इति ठञि तस्य च लुकि प्राप्ते ईकन् । केत्रलायाश्चेति । खार्या इति शेषः । पणपाद । अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति- मध्यर्धपण्यम् । द्विपण्यमिति । अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति । द्वाभ्यां पादाभ्यां चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति 'यस्येति च' इत्यकारलोपः । स्थानिवद्भावादिति । 'अचः परस्मिन्' इत्यनेनेति भावः । प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा । पक्षे ठमिति । आहदिति ठग्विधौ परिमाणपर्युदासाट्ठमिति भावः । तस्य लुगिति । ठञः इति भावः । अन्न अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्य अध्यधं पूर्वादुदाहरति - अध्यर्ध शाण्यम् अध्यर्धशाणमिति । यति उभो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन् विशेषमाह - द्वित्रिपूर्वादण् च । वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततकच यतोऽभावे ठञपि लभ्यते । तदाह — तेन वैरूप्यमिति । अणा यता ठजा चेत्यर्थः । अणि परिमा णान्तस्येत्युत्तरपदवृद्धि माशङ्कयाह – परिमाणान्तस्येति । ठञादयस्त्रयोदशेनि । 'प्राग्वतेः' इति ठन्, आहत' इति ठक्, 'शताच्च' इति ठन्यतौ, 'संज्ञायाः' इति कन्, 'विंश
For Private and Personal Use Only
Page #829
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
स्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाचा काङ्क्षितास्त इदानीमुच्यन्ते । ( १७०२) तेन क्रीतम् ५|१|३७|| ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् । ( १७०३ ) इहोण्याः ६ |२| ५० ॥ गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । (१७०४) तस्य निमित्तं संयोगोत्पातौ ५ | ११३८ || संयोगः सम्बन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः - सत्यो वा धनपतिसंयोगः । शत्यं - शति दक्षिणाक्षिस्पन्दनं शतस्य निमित्तमित्यर्थः । ' वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङख्यानम् ' ( वा ३०३३ ) वातस्य शमनं कोपनं वा वातिक्रम् । पैत्तिकम् । श्लैष्मिकम् । सन्निपाताच्चेति वक्तव्यम्' ( वा ३०३७ ) सान्निपातिकम् । तित्रिंशद्धयाम्' इति ड्वुन् 'कंसात्' इति टिठन्, 'शूर्पात' इत्यञ्, 'शतमान'
·
1
[ तद्धिते आहय
इत्यण्, ''विंशतिकात्खः' इति खः, 'खार्याः' इति ईन्, 'पणपाद' इति यत्, 'द्वित्रि'
हात वार्तिकक्काणू, इत्येवं त्रयोदशेत्यर्थः । समर्थविभक्तय इति । 'समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थं विशेषणीभूत प्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।
I
तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति । उदाहियत इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति । 'अगोपुच्छ' इति पर्युदासा टूट्ठगभावे औत्सर्गिकष्ट जिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः । अगोपुच्छसङ्ख्या इति पयुदासाट्ठगभावे ठञिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमि. त्यर्थः । 'अगोपुच्छसङ्ख्यापरिमाणात्' इति पर्युदासाट्ठगभावे ठमिति भावः । ठगिति । उदाह्नियत इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । 'असमासे निष्कादिभ्यः' इति ठगिति भावः । इद्गोण्याः लुकोऽपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आहयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनस्वत्वेनैव इदं सिद्धमिति वाच्यम् इत्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृत्तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एवं तृतीयान्तात्कीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् ।
•
तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठयन्तात् उनादयः स्युरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः । 'शताच्च' इति
नौ । धनपतिसंयोग इति । याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरतिशत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमि. तत्वामति भावः । उपसङ्ख्यानमिति । आह्रयस्य ठक इति शेषः । कोपनं वृद्धिः । -सन्निपाताच्चेति । 'तस्य निमित्तं संयोगोत्पातौ' इत्यर्थे ठगिति शेषः । सान्निपातिकमिति ।
For Private and Personal Use Only
Page #830
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ३३ ]
( १७०५) गोद्वयचोऽसङ्ख्यापरिमाणाश्वादेर्यत् ५|२|३६|| गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्वयचः, यशस्यः धन्यः स्वर्ग्यः । गोद्वयचः - किम् । विजयस्य वैजयिकः । असङ्ख्या - इत्यादि किम् । पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि-आश्विकम् | आश्मिकम् | 'ब्रह्मवर्चसादुपसङ्ख्यानम्—' ( वा ३०३५ ) । ब्रह्मवर्चस्यम् । ( १७०६) पुत्राच्छ च ५|१|४०| चाद्यत् । पुत्रीयः-पुत्र्यः । (१७०७) सर्वभूमिपृथिवाभ्यामण ५।१।४१ ॥ सर्वमूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते । (१७०८ ) तस्येश्वरः ५।१।४२। (१७०६) तत्र विदित इति च ५|१|४३|| सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । सन्निपातः वातपित्तश्लेष्मणां दोषाणां सङ्कर इति वैद्यके प्रसिद्धः । तस्य निमित्तं सान्निपातिकम्, ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, सन्निपातसूचकं जिह्नाका
,
I
1
यदि च । गोव्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात् द्वयचश्च षष्ठ्यन्तात् यत्प्रत्ययः स्यात् नतु सङ्ख्यायाः परिमाणात् अश्वादेश्चेत्यर्थः । ठकोऽपवादः । द्वयच इति । उदाहियत इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति । निमित्तमिति शेषः । वैजयिक इति । आयष्ठक् । पञ्चानामिति । निमित्तमिति शेषः । पञ्चकमिति । 'सहख्यायाः इति कन् । सुप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिकमिति । प्रस्थस्य निमित्तमित्यर्थः । आहदिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । खार्याईन् । श्रश्वादीति । प्रत्युदाहरणसूचनमिदम् । श्रश्विकमिति । अश्वस्य निमितमित्यर्थः । आयष्ठक् । श्राश्मिकमिति । अश्मनो निमित्तमित्यर्थः । आहयष्ठक् । 'नस्तद्धिते' इति टिलोपः । ब्रह्मवर्चसादिति । 'गोयवः' इति सूत्रे 'ब्रह्मवर्चसाच्च इति वक्तव्यमित्यर्थः । ब्रह्मवर्चस्यमिति । ब्रह्मवर्चसस्य निमित्तमित्यर्थः । पुत्राच्छ च । तस्य निमित्तमित्येव । कथं तर्हि 'आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः' इति ? नहीष्टिः संयोगः उत्पातो वा । उच्यते-संयुज्यतेऽनेनेति संयोगः । इष्टया हि पुत्रेण फलेन युज्यते यष्टा । सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी आभ्यां यथासङ्ख्यमणजौ स्तः । सार्वभौम इति । ऽपवादः अण् । पार्थिव इति । पृथिव्याः निमित्तं संयोगः उत्पातो वेत्यर्थः । स्त्रियां पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह- सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यत इति । तथाच 'अनुशतिकादीनां च इत्युभयपदवृद्धिरिति भावः ।
I
1
तस्येश्वरः । तत्र विदित इति च । सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते ।
For Private and Personal Use Only
८२१
Page #831
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सिद्धान्तकौमुदी
[तद्धिते माहीय
पार्थिवः । (१७१०) लोकसर्वलोकाट्ठा ५।१।४४॥ तत्र विदितः' इत्यर्थे लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः सार्वलौकिकः । (१७११) तस्य वापः ५.१।४५॥ उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् । (१७१२) पात्रात्ष्ठन् ५।१४६॥ पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः । (१७१३) तदस्मिन्वृद्धयायलाभशुल्कोपदा दोयते ५.१॥४७॥ वृद्धिर्दीयते इत्यादि क्रमेण प्रत्येक सम्बन्धादेकवच. नम् । पञ्च अस्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिका-शत्यः । साहस्रः। उत्तमणेन मूलातिरिक्तं प्राह्यं वृद्धिः। प्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकप्राह्य लाभः। रक्षानिवेशो राजभागः शुल्कः । उत्कोच उपदा । 'चतुर्थ्यर्थे उपसङ्ख्यानम्' ( वा ३०३६ ) । पञ्च अस्मै तस्य निमित्तं संयोगोत्पाताविति तु निवृत्तम् , पुनस्तस्येत्युक्तेः। तस्येश्वर इत्यर्थे षष्ठ्यन्तात्तत्र विदित इत्यर्थे तु सप्तम्यन्तात् अणजौ स्त इत्यर्थः। योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे तत्र विदितः इत्यस्यैवानुवृत्त्यर्थश्च । लोकसर्व । तत्र विदित इत्यर्थ इति । योगविभागसामर्थ्यात् तस्येश्वर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह-अनुशतिकादित्वादिति । तस्य वापः । अस्मिन्नथें षष्टयन्ताद्यथाविहितं टादयः स्युरित्यर्थः । प्रास्थिक मिति । प्रस्थपरिमितबीजवापयोग्य क्षेत्रमित्यर्थः । 'आत्'ि इति ठग्विधौ परिमाणप. युदासात् प्राग्वतीयष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्टक् । खारीकमिति । खार्या ईकन् । द्रोणस्य खार्याश्च वाप इत्यर्थः । पात्रात् छन् । तस्य वाप इत्येव । पात्रिकमिति । पात्रस्य वाप इत्यर्थः । पित्वं डीषर्थमित्याह-पात्रिकीति ।। __तदस्मिन् । वृद्धि, आय, लाभ, शुक्ल, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम् । ननु तर्हि दीयत इति कथमेकवचनमित्यत आह-वृद्धिदीयत इत्यादि क्रमेणेति। एवञ्च तद. स्मिन्वृद्धिर्दीयते, तदस्मिन आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुक्लो दीयते, तदस्मिन्नुपदा दीयते इत्यर्थेषु, प्रथमान्ताद्यथाविहितं टमादयः स्युरित्यर्थः । पञ्चक इति । 'सङ्ख्यायाः इति कन् । शतिकः-शत्य इति । शतमस्मिन्वृद्धिः, आयः, लाभ:, शुल्कः, उपदा वा, दीयते इति विग्रहः । 'शताच्च' इति ठन्यतौ । साहस्र इति । सहस्त्रमस्मिन्दीयते इत्यादि विग्रहः । 'शतमानसहस्र' इत्यण । रक्षानिर्वेश इति । रक्षा प्रजापरिपालनम् , तदर्थो निवेशः भृतिः रक्षानिवेशः । उत्कोच इति । मह्यं किञ्चिदत्तं चेत् तव राजद्वारेऽनुकूलो भवामीत्यादि समयं कृत्वा यद्गृह्यते, तदुत्कोच इत्युच्यत इत्यर्थः। चतुर्थ्यर्थ इति । तदस्मै वृद्धयादि दीयते इत्युपसङ्ख्यातव्यमित्यर्थः ।
For Private and Personal Use Only
Page #832
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
वृद्धयादिीयते पञ्चको देवदत्तः । 'सममब्राह्मणे दानम्' इतिवदधिकरणत्वविवक्षा वा। (१७१५) पूरणार्धाट्ठन् ५१॥४८॥ यथाक्रम उक्टिठनोरप. वादः। द्वितीयो वृद्धयादिरस्मिन्दीयते द्वितीयिकः । तृतीयिकः । भर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः। (१७१५) भागाधच्च ५॥१४॥ चाट्टन् । भागशब्दोऽपि रूपकस्या रूढः । भागो वृद्धयादिरस्मिन्दीयते भाग्य-भागि शतम् । भाग्या-भागिका विंशतिः । (१७१६) तद्धरति वहत्यावहति भारा. वंशादिभ्यः ५॥१॥५०॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिक तत्प्रकृतिकाद्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐनुमारिकः । 'भाराद्वंशादिभ्यः' इत्यस्य व्याख्यान्तरं 'भारभूतेभ्यो वंशादिभ्यः' इति । भारभूतान्वंशान्हरति वाशिकः । ऐक्षुकः । (१७१७) वस्नद्रव्याभ्यां सममब्राह्यणे इति । एवज्ञ सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धरुपसङ्ख्यानमिदं नादर्तव्यमिति भावः । पूरणार्थाटठन् । तदस्मिन् वृद्धयादि दीयते इत्यर्थे पूरणप्रत्य. यान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः । द्वितीयिकः तृतीयिक इति । आ. हादिति ठकोऽपवादष्ठन् । अधिक इति। अर्धमस्मिन्वृद्धयादि दीयते इत्यर्थः । 'अर्धा. च्चेति वक्तव्यम्' इति टिठनोऽपवादष्ठन् । ठिनि सति तु स्त्रियां डीप् स्यात् । अधिकेति । वेवेष्यते। रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूह इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्य स्यादिति भावः । रूप्यकस्याधे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्य तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः । भागाद्यच्च । तदस्मिन्वृद्धयादि दीयत इत्यर्थे भागशब्दात्प्रथमान्तायत्प्रत्ययश्च स्यादित्यर्थः । चानिति । पूर्वसूत्रादनकृष्यत इति शेषः । भागशब्दोऽपि रूप्यकस्यार्ध इति । वर्तत इति शेषः। ___तद्धरति वहति । वंशागारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्या. सम्भवात् वैयधिकरण्येनान्वयः । स च व्युत्क्रमः व्याख्यानात् । तदाह-वंशादिभ्यः पर इति । द्वितीयान्तादित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्यादिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं चौर्य वा। शकटादिना प्रापणं वह नम् । स्वसमीपं प्रापणमावहन उत्पादनं वा । वाशभारिक इति । 'आहात्' इति ठक् । अत्र पञ्चम्यन्तयोव्युत्क्रमेण वैयधिकरण्येन चान्वये प्रमाणाभावादाह-भारादशादिभ्य इत्यस्य व्याख्यान्तरमिति । भारात्परेभ्यो वंशादिभ्य इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति-भारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभूतत्वं तु भारभूतवं. शादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वया.
For Private and Personal Use Only
Page #833
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२४
सिद्धान्तकौमुदी
[ तद्धिते आहय
ठन्कनो ५/१५१ ॥ यथासङ्ख्यं स्तः । वस्नं हरति वहत्यावहति वा वस्निकः । द्रव्यकः । (२७१८) सम्भवत्यवहरति पचति ५|१|५२ ॥ प्रस्थं सम्भवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी प्रस्थमवहरति ( उपसंहरति ) पचति देत्यर्थः । तत्पचतीति द्रोणादण्च' ( वा ३०३८) । चाट्ठञ् । द्रोणं पचतीति द्रौणी - द्रौणिकी । ( १७१६ ) श्राढकाचितपात्रात्खोऽन्यतरस्याम् ५|१|५३ ॥ पक्षे ठञ् । आढकं सम्भवति अवहरति पचति वा आढकीना - आढकिकी । आचितीना-आचितिकी । पात्रीणा - पात्रिकी । ( १७२० ) द्विगोः ष्ठश्च ५|१| ५४ ॥ ' आढकाचितपात्रातू' इत्येव । आढकाद्यन्ताद्विगोः सम्भवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य 'अध्यर्ध-' ( सू १६९३ ) इति लुक् । षित्वान्ङीष् । द्वयाढकिकी— द्वयाढकीना ।
भिप्रायम् । वस्तुतो भारभूता ये वंशादयः तद्वाचिभ्य इति यावत् । वस्नद्रव्याभ्याम् । तद्धरति वहत्यावहतीत्यनुवर्तते इत्यभिप्रेत्याह - वस्नं हरतीत्यादि ।
I
सम्भवत्यवहरति । तदिति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्सम्भवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति । 'आहत' इत्यत्र परिमाणपर्युदासाटूट्ठगभावे प्राग्वतीयष्ठञ् । ननु सम्भवतीत्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं सम्भवतीति कथं द्वितीयेत्यत आह- समावेशयतीत्यर्थ इति । उपसर्गवशादिति भावः । प्रास्थिकी ब्राह्मणीति । जन्तत्वात् डीबिति भावः । अवहरतीत्येतद्व्याचष्टे - उपसंहरतीति । किञ्चिदूनमपि यथा प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः । तत् पचः तीति द्रोणादण चेति । वार्तिकमिदम् । द्वितीयान्ताद्रोणशब्दात् पचतीत्यर्थेऽण् च स्यादित्यर्थः । पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम् । चाट्ठमिति । 'आहत' इति ठग्विधौ परिमाणपर्युदासात् ठगभावे प्राग्वतेष्टजेव चकारादनुकृष्यत इति भावः । द्रौणीति । अणन्तत्वात् ङीप् । द्रौणिकीति । ठजन्तत्वात् ङीप् । श्राढकाचित | आढक आचित, पात्र एभ्यो द्वितीयान्तेभ्यः सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यथः । पते ठञति । 'आहत' इत्यतः परिमाणपर्युदासान्न ठगिति भावः । द्विगोः ष्ठंश्च । ष्ठन्खाविति । चकारेण खस्यानुकर्षादिति भावः । वा स्त इति । अन्यतरस्यामि - त्यनुवृत्तेरिति भावः । पक्षे ठमिति । 'आहत' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वात् ङीष् । दयाढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्टन्, षित्त्वात् ङीषित्यर्थः । अत्र 'न य्वाभ्याम्' इत्यैज् न, वृद्धिनिषेधसन्नियोगशिष्टत्वात् ञ्णित्किदभावेन वृद्धेरप्रसक्तः । द्वषाढकीनैति । खे
For Private and Personal Use Only
Page #834
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
८२५
'द्विगोः' (सू ४७९ ) इति जीए। द्वयाढकी। द्वयाचितिकी-द्वयाचितीना। 'अपरिमाण- (सू ४८०) इति डोनिषेधात् द्वयाचिता । द्विपात्रिकी-द्विपात्रीणा-द्विपात्री । (१७२१) कुलिजाल्लुक्खौ च ५१५५॥ कुलिजा. न्ताद्विगोः सम्भवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्टंश्च । लुगभावे ठनः श्रव. णम् । द्विकुलिजी-द्विकुलिजीना-द्विकलिजिकी-द्वैकुलिजिकी। (१७२२) सोडस्यांशवस्नभृतयः ५।१५६॥ अंशो भागः । वस्न मूल्यम् । भृतितनम् । पञ्च अंशो वस्नं मृतिर्वा अस्य पञ्चकः । (१७२३) तदस्य परिमाणम् ५।१। ५७॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः। (१७२४) सङ्ख्यायाः संहासङ्घसूत्राध्ययनेषु ५।१५८॥ पूर्वसूत्रमनुवर्तते। तत्र 'संज्ञायां स्वार्थे प्रत्ययो रूपम् । द्विगोः इति ङोप् । द्वयाढकीति । उनि 'अध्यर्ध इात तस्य लुक् । 'द्विगोः' इति लीबित्यर्थः। प्रत्ययलक्षणमाश्रित्य टमन्तलक्षणडीप तु नेति 'अपरिमाणबिस्त' इत्य. ब्रोक्तम् । 'अध्यर्ध' इति लुक ठन एव, नतु उन्खयोरपि, विधिसामर्थ्यात्। तथाचितिकी द्वयाचितीनेति । धनि खे च रूपम् । अथ द्वयाचितशब्दात् ठनो लुकि 'द्विगो इति डीपमाशङ्ख्याह-अपरिमाणेति ङीनिषेधादिति । एवं ष्ठन् ख ठञ् लुग्भिः द्विपात्रिकीत्यादि । कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह-लुक्खौ वा स्त इति । 'आहात्। इत्यत्र परिमाणपर्युदासाठ्ठगभावे प्राग्वहतीयस्य ठनः अध्यर्ध' इति नित्यं लुकि प्राप्ते लुको विकल्पविधिः। चात् ष्ठंश्चेति । तथाच ठनो लुक् खश्च ठंश्चेतित्रितयं विकल्प्यते । तत्र ठनः खस्य ठमो लुकश्चाभावे ठनः श्रवणं पर्यवस्यति । तदाहलुगभावे ठञः श्रवणमिति । द्विकुलिजोति । ठमो लुकि रूपम् । 'द्विगोः' इति डो। द्विकु. लिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वैकुलिजिकीति । ठजो लुगभावे रूपम् । परिमाणान्तस्येत्यत्र असंज्ञाशाणकुलिजानामित्युक्त!त्तरपदवृद्धिः। __ सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्षेति । सोऽस्यांशः, तदस्य वस्नम् , सास्य भृतिः, इत्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । 'सडव्यायाः' इति कन् ।
तदस्य परिमाणम् । अस्मिन्नथें प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र सङ्ख्यापि परिमाणम् । यद्यपि अगोपुच्छसयापरिमाणा'दिति पृथग्ग्रहणात् । सङ्ख्या न परि. माणम् । तथाप्यत्र परिच्छेदकत्वात् सङ्ख्यापि परिमाणम् , उत्तरसूत्रे सव्यायाः परि. माणेन विशेषणाल्लिङ्गात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । दिषष्ठया. दिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम् । सङ्खथायाः। अनुवर्तत इति । तथाच तदस्य
For Private and Personal Use Only
Page #835
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते आहय
वाच्यः' (वा ३०३९ ) । यद्वा द्वयेकयोरितिवत्सङ्ख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पश्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम् । पञ्चकमध्ययनम् । 'स्तोमे डविधिः' (वा ३०४५ ) पञ्चदश मन्त्राः परिमाण. मस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः । डप्रत्यये तिलोपः । सोमयागेषु
1
परिमाणमित्यर्थे प्रथमान्तात् सङ्ख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । पलकाः शकुनय इत्यत्र पञ्च परिमाणमेपामित्यर्थो न सम्भवति, आ दशतः सङ्ख्याः सङ्ख्येये इति पञ्चनुशब्दस्य सत्येय. वृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ एव सङ्ख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । यद्वेति । द्विशब्दस्य एकशब्दस्य च सहयवृत्तिस्येऽपि 'द्वयेकयो:' इति समासवृत्ता येकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्वयेकयो:' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृतावपि पञ्चनूशब्दस्य पञ्चत्वसङ्ख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चशब्दात् पञ्चत्वरूपपरिमाणवति प्रत्ययः उपपद्यत इत्यर्थः । तत्र संज्ञायां स्वार्थे उदाहरति- पश्चैवेति । परिमाणिनि प्रत्ययमुदाहरति - पञ्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घे इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चस्वमस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वं तु अवयवद्वारा बोध्यम् । सूत्र इति । उदाह्रियत इति शेषः । श्रष्टकं पाणिनीयमिति । सूत्रमिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वं अध्यायद्वारा सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसङ्घपरः, एकस्मिन् सूत्रे अष्टकत्वस्यासम्भवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्र - ग्रहणं व्यर्थमित्यत आह- सङ्घशब्दस्येति । पन्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति । तदस्य परिमाणमित्यर्थे सङ्ख्यावाचिन उपसङ्ख्यातव्यइति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहेतु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह - पञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदशनूशब्दात् डप्रत्यये 'डे:' इति टिलोपः । सामाधारभूत पञ्चदश मन्त्रसमूह इत्यर्थः । ननु डित्त्वाभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्डित्वं व्यर्थमित्यत आह- एकविंश इति । एकविंशतिमन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति । 'तिविंशतेर्डिति' इति टिलोप । मीमांसकास्तु पृष्ठरथन्तरादिशब्दवाच्या | प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तौमः स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसङ्ख्यात्मक परि
I
For Private and Personal Use Only
Page #836
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
२७
छन्दोगैः क्रियमाणा पृष्ठादिसंज्ञिका स्तुतिः स्तोमः। ( १७२५ ) पङ्गिविशतित्रिशच्चत्वारिंशत्पश्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ५।१५॥ एते रूढिशब्दा निपात्यन्ते । (१७२६ ) पञ्चशती वर्ग वा ५।१।६०॥ पञ्च परि. माणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः। (१७२७) त्रिशच्चत्वारिशतोळह्मणे संज्ञायां डण ५१११६२॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्म.
माणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवंच 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूत. स्तुतिसामानाधिकरण्यं पञ्चदशादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याहसोमयागेष्वित्यादि।
पङ्क्तिविंशति । रूढिशब्दा निपात्यन्त इति । तदस्य परिमाणमित्यय इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात् तिप्रत्ययः प्रकृतेष्टिलोपः, चकारस्य कु. त्वम् , अनुस्वारपरसवर्णी, पक्तिरिति रूपम् । पञ्चाक्षरा पञ्चपदा पनि इति छन्दा. शाखे । दशानां वर्ग: दशत् । 'पञ्चदशतौ वगं वा' इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सडस्येति विंशतिः । शतिप्रत्ययः प्रकृतेविन्भावः, अनुस्वारथ । अत्र सन्ग्रह. णमनुवर्तते । तथाच गवां विंशतिरिति भवति । सङ्घ सन्निोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वं च । एवं त्रिशदादावपि । 'विंश. त्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसहययोः' इति, 'तासु चानवतेः स्त्रियः' इति चामरः । त्रयो दशतः परिमाणमस्य सडल्य त्रिंशत् , शत्प्रत्ययः, प्रकृतेः बिनभावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत् , शत्प्रत्ययः। प्रकृतेः चत्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् , शत्प्रत्ययः प्रकृतेः पञ्चा. देशः । षड् दशतः परिमाणमस्य सज्यस्य षष्टिः, तिप्रत्ययः प्रकृतेः षष् , जश्त्वाभा. वश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः, तिप्रत्ययः प्रकृतेः सप्तादेशः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः, तिप्रत्ययः प्रकृतेः अशी इत्यादेशः। नव दशतः परिमाणमस्य सङ्घस्य नवतिः, तिप्रत्ययः प्रकृतेः नवादेशः । दश दशतः परि. माणमस्य सङ्घस्य शतम् , तप्रत्ययः प्रकृतेः शादेशश्च । एतत्सर्व भाष्ये स्पष्टम् । 'एतान्यव्युत्पन्नप्रातिपदिकानि' इति तु भाष्यनिष्कर्षः। पञ्चद्दशतौ। पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पञ्चद्वर्ग इति । पञ्च परिमाणमा स्येत्यर्थे पञ्चन्शब्दात् डतिप्रत्ययः । तत्र इकार उच्चारणार्थः । टेः' इति टिलोपः । दशदिति । दश प्ररिमाणमस्य वर्गस्येति विग्रहः । डति डित्त्वाहिलोपः। एतदर्थमेव डित्वम् । पक्षे इति । डत्यभावपक्षे 'सङ्ख्यायाः' इति कमित्यर्थः । त्रिशच्चत्वारिंशतोः। तदल्य परिमाणमित्यर्थे परिमाणिनि ब्राह्मणे वाच्ये त्रिंशच्चत्वारिंशद्यां डण स्यादि.
For Private and Personal Use Only
Page #837
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते आहीय
गाना शानि । चात्वारिंशानि । (१७२८) तदर्हति ५।१६३॥ लन्धुं योग्यो भवतीत्यर्थे द्वितीयान्तानादयः स्युः । श्वेतच्छत्वमर्हति श्वैतच्छत्त्रिकः । (१७२६) छेदादिभ्यो नित्यम् ५।१।६४॥ नित्यमाभीक्ष्ण्यम् । छेदं नित्यमईति छैदिको वेतसः । छिन्नप्ररूढत्वात् । 'विराग विरङ्गं च' ( ग सू ९९ ) विरागं नित्यमर्हति-वैरशिकः । (१७३०) शीर्षच्छेदाद्यच्च ५।१६५॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः-शैर्षच्छेदिकः । यहकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते (१७३१) दण्डादिभ्यो यत् ५।१।६६॥ एभ्यो यत्स्यात् । दण्डमहति दण्डयः । अयः । वध्यः। (१७३२) पात्राद्धंश्च ५।१६८॥ चाद्यत् । तदहतीत्यर्थे। पात्रियः-पात्र्यः । (१७३३) कडङ्करदक्षिणाच्छ च ॥६॥ चाद्यत् । कडं करोतीति विग्रहेऽत एव निपातनात्खच । कडङ्करं माषमुद्गादिकाष्ठमहतीति । कडङ्करोयो गौः। कडकर्यः। दक्षिणामहंतीति दक्षिणीयः-दक्षिण्यः ।
त्यर्थः । ब्राह्मणं वेदेषु मन्त्रव्यतिरिक्तो भागः। बैंशानीति । डित्त्वात् टेः' इति टिलोपः।
तदर्हति । अहंतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात्। इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह-लब्धुमिति । श्वैतच्छत्त्रिक इति । आही. यष्ठक् । छेदादिभ्यो नित्यम् । आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमहतीत्यर्थे द्वितीयान्तेभ्यः छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति । 'आत्'ि इति ठक् । 'तदहति' इत्येव सिद्धे आभीक्ष्ण्य एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटिप्रविष्टम् , किन्तु अपाक्षिकार्थकम् ‘समर्थानां प्रथमाद्वा' इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये । एवञ्च छेदादिभ्यः पाक्षिक प्रत्ययस्य तदर्हति' इत्येव सिद्धत्वात् सूत्रमेवेदं नारब्धव्यमिति फलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः । चादा. हीयष्ठक । शीर्षच्छेदाद्यच्च । चादाहीयष्ठक ननु 'शीर्षन्छन्दसि' इति छन्दस्येव शिरसः शीर्षादेशविधानात् कथमिह शीर्षादेश इत्यत आह-यटठकोरिति । दण्डादिभ्यः । यदित्यनुवर्तते तदाह-यत्स्यादिति । दण्डादिभ्यो यः इति त्वपपाठः, 'अचो यत् इति सूत्रभाष्ये तथैव दर्शनात् । अयं इति । मूल्यं पूजाविधि वाहतीत्यर्थः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । वध्य इति । वधमहतीत्यर्थः । पात्रात् घंश्च । पात्रियः पाच्य इति । पानमहतीत्यर्थः । कडङ्करदक्षिणाच्छ च। 'कड मदे कडनं कडः मदः 'घनथें कविधानम्। इति कः । खजिति । तथाच 'खित्यनव्ययस्य' इति मुमिति भावः । कडडूरं च दक्षिणा
For Private and Personal Use Only
Page #838
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३४]
बालमनोरमासहिता।
८२६
(१७३४) स्थालीबिलात् ५।११७०॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्त. ण्डुलाः स्थालीबिल्याः । पाकयोग्या इत्यर्थः । (१७३)) यशस्विग्भ्यां घखो ५।१।७१॥ यथासङ्खथं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः, आर्विजीनो यजमानः । 'यज्ञविग्भ्यां तत्कर्माहतीत्युपसङ्ख्यानम्। ( वा ३०५२ ) यज्ञियो देशः । आवि. जीनः ऋत्विक् । इत्याहीयाणां ठगादीनां द्वादशाना पूर्णोऽवधिः ।
__अथ ठअधिकारे कालाधिकारप्रकरणम् ॥ ३४॥ . अतः परं ठमेव । (१७३६) पारायणतुरायणचन्द्रायणं वर्तयति ५। ११७२॥ पारायणं वर्तयति पारायणिकश्छात्रः। तुरायणं यज्ञविशेषः। तं वर्तयति तोरायणिको यजमानः । चान्द्रायणिकः । (१७३७) संशयमापन्न: ५।१७३॥ संशयविषयीभूतोऽर्थः । सोशयिकः। (१७३८) योजनं गच्छति ५।१।७४॥ चेति समाहारद्वन्द्वात्पञ्चमी । स्थालीबिलात् । छयतावनुवर्तेते, तदहतीति च । यशस्वि. ग्भ्यां घखनौ । तदर्हतीत्येव । यज्ञम् ऋत्विजं वेति । यज्ञमहतीति यज्ञियः। ऋत्विजम. हतीत्यात्विजीन इत्यन्वयः । तत्कर्मेति । यज्ञकर्माहतीत्यर्थे यज्ञशब्दात् ऋत्विकर्मा. हतीत्यर्थे ऋत्विक्छब्दाच्च यथासङ्ख्यं घखजोरुपसङ्ख्यानमित्यर्थः । यशियो देश इति । यज्ञानुष्ठानमहतीत्यर्थः। आत्विजीन ऋस्विगिति । ऋत्विकर्तव्यं कर्माहतीत्यर्थः । यद्यपि यज्ञत्विक्छब्दस्योस्तत्कर्मणि लक्षणया सिध्यति । तथाप्यत्र प्रकरणे मुख्या. थेभ्य एवं प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति । 'प्राग्वतेः' इत्या. रभ्य तेन क्रीतम्' इत्यतः प्राक् त्रयोदश प्रत्ययाः अनुक्रान्ताः । तत्र 'प्राग्वतेः' इति उजं विना आदित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः ।
इति तद्धिते प्राग्वतीये आहीयाणां उगादीनां द्वादशानां पूर्णोऽवधिः। अथ तद्धिते प्राग्बतीये ठअधिकारे कालाधिकार: निरूप्यते-अतः परं ठमेवेति । आहीयेष्वर्थेषु प्राग्वतीयठअपवादा आ याष्ठगादयः । आहीयार्थेषु निरूपितेषु तत ऊर्ध्वं ठगादिप्रत्ययानाम् अनुत्तरसम्भवात् प्राग्वतीयः ठलेवानुवर्तत इत्यर्थः । पारायण । द्वितीयान्तेभ्यः पारायणादिशब्देभ्यः वर्तयतीत्यर्थे ठञ् स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं वेदाध्ययनम् । तद्वर्तयति आवर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नार्य प्रत्ययः, अनभिधानादिति भावः। तौरायणिको यजमान इति । ऋत्विजि नार्य प्रत्ययः, अनभिधानादिति भावः। चान्द्रायणिक इति । चान्द्रायणं वर्तयतीत्यर्थः । चान्द्रायणं कृच्छ्रबिशेषः । संशयमापन्नः । अस्मिन्नथें संशयशब्दात् द्वितीयान्ताठक स्यादित्यर्थः । अत्र आपन्न इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः । उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे सन्दे.
For Private and Personal Use Only
Page #839
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३०
सिद्धान्तकौमुदी [तद्धिते कालाधिकार
-
यौजनिकः । 'कोशशतयोजनशतयोरुपसङ्ख्यानम्' (वा ३०५५) क्रोशशतं ग. च्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमहंतीति च वक्तव्यम्। ( वा ३०५६ ) । क्रोशशतादभिगमनमहतीति क्रौशशतिको भिक्षुः । यौजनश. तिक भाचार्यः । (१७३६) पथः कन् ५।११७५॥ षो कोषर्थः । पन्थानं गच्छ. ति पथिकः । पाथिकी। (१७४०) पन्थो ण नित्यम् ५।१।७६॥ पन्थान नित्यं गच्छति । पान्थः-पान्था। (१७४१) उत्तरपथेनाहृतं च ५।१।७॥ उत्तरपथैनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसङ्ख्यानम्' ( वा ३०५७ ) । वारिपथिकम् । (१७४२) कालात् ५।१।७॥ 'युष्टादिभ्योऽण् ( सू १७६१ ) इत्यतः प्रागधिकारोऽयम् । (१७४३) तेन निवृत्तम् ५॥१७॥ अह्ना निवृत्तम् आह्निकम् । (१७४४) तमधीष्टो भृतो भूतो भावी ५.१०। अधीष्टः सत्कृत्य व्यापारितः । मृतो वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः । भावी तादृशः एवा.
ग्धरि नायं प्रत्यय इति भावः। अमरस्तु 'सांशयिकः संशयापनमानसः' इत्याह । योजनं गच्छति । द्वितीयान्तायोजनशब्दात् गच्छतीत्यर्थे ठञ् स्यादित्यर्थः । क्रोशश. सेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठज उपसङ्ख्यानमित्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी। क्रोशशतमतीत्येत्यर्थः । पथः ष्कन् । पथः कन इति छेदः। द्वितीयान्तात् पथिनशब्दात् गच्छतीत्यर्थे कन् स्यादित्यर्थः । पन्थो ण नित्यम् । पथ इत्यनुवर्तते गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्टमेव । नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात् पथिन्शब्दात् नित्यं गच्छतीत्यर्थे जप्रत्ययः स्यात् प्रकृतेः पन्थादेशश्चेत्यर्थः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । उत्तरपथेनाहृतं च । उत्तरपथशब्दात् तृतीयान्तात् आहृत. मित्यर्थे गच्छतीत्यर्थे च ठञ् स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार एतत्पूर्वात् पथिन्शब्दात् तृतीयान्तादू आहृतमिति गच्छतीति चार्थे ठजित्यर्थः । वारिपथेन गच्छति आहृतं वेत्यर्थः । जागलपथिकः, स्थालपथिक', कान्तारपथिकः। ___ कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः । तेन निवृत्तम् । तृतीयान्तानि. वृत्तमित्यर्थे ठम् स्यादित्यर्थः । आह्निकमिति । 'अष्टखोरेव' इति नियमान टिलोपः । तमधीष्टो । द्वितीयान्तात् अधीष्टादिष्वर्थेषु ठञ् स्यादित्यर्थ । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः। मासमधीष्ट इत्यादौ
For Private and Personal Use Only
Page #840
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३४]
बालमनोरमासहिता।
३१
-
नागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं मृतः मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः । (१७४५) मासाद्वयसि यत्खौ ५।११॥ मासं भूतो मास्यः-मासीनः । (१७४६) द्विगोर्यप् ५।२॥ मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः । (१७४७) षण्मा. सापण्यच्च ५॥१॥३॥ वयसि इत्येव । यबप्यनुवर्तते, चाञ्। षण्मास्यःपाण्मास्यः-पाण्मासिकः । (१७४८) मवयसि ठंश्च ५॥१॥४॥ चाण्ण्यत् । षण्मासिको व्याधिः-पाण्मास्यः । (१७४६) समायाः खः ॥५॥ समाम. धोष्टो मृतो भूतो भावी वा समीनः । (१७५०) द्विगोर्वा ५॥१॥६॥ समायाः खः इत्येव । तेन परिजय्य- (सू १७५७ ) इत्यतः प्राङनिर्वृत्तादिषु पन्चस्वर्थेषु प्रत्ययाः । द्विसमीनः-द्वैसमिकः । (१७५१) राज्यहःसंवत्सराच्च ।।७॥ द्विगोः इत्येव । द्विरात्रीणः- द्वैरात्रिकः । द्वयहीनः- द्वैयहिकः । समासान्तविधेरनि.
-
'कालाध्वनोः' इति द्वितीया । मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दात् द्वितीयान्तात् भूत इत्यर्थे यत्खनौ स्तः वयसि गम्ये इत्यर्थः । द्विगोर्यप । अनुवर्तत इति । मासान्ताद्विगोभूत इत्यर्थे,यप् स्याद्वयसि गम्ये इत्यर्थः । पण्मासाएण्यच्च । वयसीत्येवेति । षण्मासशब्दात् भूत इत्यर्थे ण्यच्च स्याद्वयसि गम्ये इत्यर्थः । अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यधपावेव स्याताम् , नतु ठअपि । इष्यते तु ठमपि । तत्राह-यबप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह-चामिति । तथाच ण्यत् यप् ठमिति त्रयः प्रत्ययाः फलिताः। अवयसि ठंश्च । षण्मासशब्दात् द्वितीयान्तान् भूते अवयसि ठन् च स्यादित्यर्थः ।
समायाः खः । मण्डूकप्लुत्या 'तमधीष्टो भृतो भूतो भावी' इति कृत्स्नमेव सूत्रम. नुवर्तते । समाशब्दाद्वितीयान्तात् अधीष्टादिष्वर्थेषु खः स्यादित्यर्थः। द्विगोर्वा । समायाः ख इत्येवेति । तथाच समान्तात् द्विगोद्वितीयान्तात् खो वा स्यात् पक्षे ठमिति फलितम् । 'अप्सुमनः समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रम् । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । 'समां समां विजायते' इति सूत्रादेकवचनम. प्यस्ति । पञ्चस्विति । तेन निर्वृत्तम् तमधीष्टो भृतो भूतो भावीति पञ्चस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाभावे प्राग्वतीयष्ठम् । राज्यहः। द्विगोरित्ये. वेति । रात्रि, अहन् संवत्सर एतदन्तात् द्विगोनिर्वृत्तादिष्वथेषु खो वा स्यादित्यर्थः । पक्षे ठञ् । द्विरात्रीण इति । द्वाभ्यां रात्रिभ्यां निवृत्तः द्वे रात्री अधीष्टो भृतो भूतो भावी वेत्यर्थः । एवमग्रेऽपि यथायोगं ज्ञेयम् । द्वयहीन इति । द्वाभ्यां अहोभ्यां
For Private and Personal Use Only
Page #841
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३२
सिद्धान्तकौमुदी
[तद्धिते कालाधिकार
त्यत्वान टच । द्विसंवत्सरीणः । ( ७५२) सङ्ख्यायाः संवत्सरसल्यस्य च ७॥१५॥ सङ्खथाया उत्तरपदस्य वृद्धिः स्यात् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भूतो द्विषाष्टिकः । परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणप्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न । (१७५३) वर्षाल्लु. क्च पाश८॥ वर्षशब्दान्ताद्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः द्विवर्षः । (१७५४) वर्षस्याभविष्यति ७।३।१६॥ उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । अधीष्ठभूतयोर.
निर्वृत्तः द्वे महनी अधीष्ट इत्यादिष्वथेंतु 'तद्धितार्थ' इति द्विगोः खः, 'अष्टखो" इति टिलोपः। समाहारद्विगोस्तु न खः, टचि कृते अहन् शब्दाभावात् । द्वैयहिक इति । 'अष्टखोरेव' इति नियमात् न टिलोपः। किन्त्वल्लोपः अह्नादेशो वा । 'न य्वाभ्याम्' इत्यैच् । ननु द्वयहीन इत्यत्र 'तद्धितार्थ' इति द्विगुसमासे कृते 'रात्र्यहः संवत्सराच्च' इति खं बाधित्वा परत्वात् 'राजाहः सखिभ्यः' इति टचि 'अह्नोऽह एतेभ्यः' इत्यहादेशे तस्य स्थानिवत्त्वेनाहन् शब्दत्वेऽपि टजन्तस्य तदभावात् 'रा.
यहः संवत्सराच्च' इति खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये व्यहीन इति स्यादि. त्यत आह-समासान्तविधेरनित्यत्वान्न टजिति । एवं चटजभावे सति नालादेशः, समा. सान्ते पर एव तद्विधानादिति भावः। 'समासान्तविधिरनित्यः' इति षष्टाध्यायस्य द्वितीये पादे 'द्वित्रिभ्यां पाहन्मूर्धसु बहुव्रीहौ' इति सूत्रभाष्ये स्पष्टम् । अथ संवत्स. रान्तस्य खे उदाहरति-द्विसंवत्सरीण इति । ठमि त्वादिवृद्धौ प्राप्तायाम् । सङ्ख्यायाः संवत्सर। आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । संवत्सरश्च सङ्ख्या चेति समाहारद्वन्द्वात् । सङ्ख्याया उत्तरपदस्येति । सङ्ख्यायाः परस्य संवत्सरस.
ङ्ख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थम् , संवत्सरस्य द्वादशमास. परिमाणतया 'परिमाणान्तस्यासज्ञाशाणयोः' इत्येव सिद्धरित्यत आह-परिमाणान्तस्येत्येवेति । वर्षाल्लुक् च । वा च लुगिति । खठजोरिति शेषः। द्विवर्षीण इति । खे रूपम् । द्विवर्ष इति । खठजोलुंकि रूपम् ।
उनि आदिवृद्धौ प्राप्तायाम् । वर्षस्याभविष्यति । आदिवृद्धिप्रकरणे उत्तरपदस्ये. त्यधिकारे इदं सूत्रम् । शेषपूरणेन तव्याचष्टे-उत्तरपदस्य वृद्धिः स्यादिति । अभवि. ष्यति यो जिदादिः तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थ वर्ज. यित्वा तदितरेषु चतुर्थेषु यस्तद्धितः तस्मिन् परे इति यावत् । द्विवार्षिक इति । द्वाभ्यां वर्षाभ्यां निवृत्तः द्वे वर्षे अधीष्टः भृतः भूतो वेत्यर्थः । अत्यन्तसंयोगे द्वितीया। द्वैवर्षिक इति । व्याधिरिति शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेवं सति
For Private and Personal Use Only
Page #842
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३४ ]
बालमनोरमासहिता।
भविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः । द्वे वर्षे अधीष्टो मृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः। 'परिमाणान्तस्यासंज्ञाशागयोः (सू १६८३ )। द्वौ कुडवो प्रयोजनमस्य द्विकोडविकः । द्वाभ्यो सुवोंभ्यां कोतं द्विसौर्णिकम् । द्विनैष्किकम् । 'असंज्ञा-' इति किम् । पञ्च कलापा: परिमाणमस्य पाञ्चकपालिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः । (१७५५) चित्तवति नित्यम् ५।१ ॥ वर्ष. शब्दान्ताद्विगोः प्रत्ययस्य नित्यं लुक्स्याच्चेतने प्रत्ययार्थे । द्विवर्षों वारकः । (१७५६) षष्टिकाः षष्ठिरात्रेण पच्यन्ते ५।१।०॥ बहुवचनमतन्त्रम् । षष्टिः को धान्यविशेषः । तृतीयान्तात्कन् रात्रशन्दलोपश्च निपात्यते । (१७५७) तेन परिजय्यलभ्यकार्यसुकरम् ५।१।६३॥ मासेन परिजय्यो जेतुं शक्यो मासि. को व्याधिः । मासेन लभ्य कार्य सुकरं वा मासिकम् । (१७५८) तदस्य ब्रह्म चर्यम् ५।१।६४॥ द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचयमस्य स मासिको ब्रह्मचारी। आर्धमासिकः । यद्वा द्वे वर्षे मधीष्टो भृतो वा कर्म करिष्यति द्विवाषिक इत्थत्र कथमुत्तरपदवृद्धिः । भवि. बत्त्वस्य प्रतीतेरित्याशङ्याह-अधीष्टभूतयोरमविष्यतीति प्रतिषेधो नेति । कुत इत्यत आह-गम्यते हि तत्र भविष्यत्तेति । अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्द. शक्त्या गम्यते । तद्धितप्रत्ययेन च तथाविधाध्येषणभरणकर्मीभूतौ प्रतीयेते । एवं. विधाध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवञ्च तत्रापि भविष्यदर्थकतद्धितपरकत्वाभावात् स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति । 'चित्तवति नित्यम्' इति वक्ष्यमाणस्तु नित्यलुक् न भवति, चित्तवतीत्येवारम्भसामर्थ्यात् नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तु द्विवार्षिक: अमनुष्य इति छिन्दन्ति । चित्तवति नित्यम् । प्रत्ययस्येति । खस्य ठमश्चेत्यर्थः । दारकः बालकः ।
षष्टिकाः । तृतीयान्तादिति । षष्टिरात्रशब्दादिति शेषः । तेन परिजय्य । निर्वृत्तादयः पश्चार्था निवृत्ताः । तेन परिजय्यम् , तेन लभ्यम् , तेन कार्यम् , तेन सुकरम् इत्य. र्थेषु तृतीयान्तानित्यर्थः। परिजय्य इत्यस्य विवरणम् जेतुं शक्य इति । तदस्य ब्रह्मचर्यम् । ननु द्वितीयान्तादिति कथम् । सूत्रे ब्रह्मचर्यविशेषणस्य तच्छब्दस्य प्रथमान्तत्वादित्यत आह - अत्यन्तेति । तथाच कालविशेषामिव्याप्तं ब्रह्मचर्यमस्येत्यर्थ कालात्प्रत्ययः । इदमर्थ प्रति ब्रह्मचर्य विशेषणम् । मासिको ब्रह्मचारीति । मासाभि.
बा० ५३
For Private and Personal Use Only
Page #843
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिद्धान्तकौमुदी [तद्धिते कालाधिकार -
प्रथमान्तादस्येत्यर्थे प्रत्ययः। मास्रोऽस्येति मासिकं ब्रह्मचर्यम् । 'महानाम्न्यादि. भ्यः षष्ठयन्तेभ्य उपसङ्ख्यानम्' (वा ३०६४) महानाम्न्यो नाम 'विदामघवन्-' इत्याद्या ऋचः। तासां ब्रह्मचर्यमस्य माहानाम्निकः। हरदत्तस्तु 'भस्याढे-- इति पुंवद्भावान्माहानामिक इत्याह । 'चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे। (वा ३०६९ ) चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि । 'अण् संज्ञायाम् । (वा ३०७० ) चतुर्घ मासेषु भवति चातुर्मासी आषाढी पौर्णमासी । अण्णन्तत्वान्छीप् । (१७५४) तस्य च दक्षिणा यज्ञाख्येभ्यः ५।१।१५॥ द्वादशाहस्य दक्षिणा द्वादशाहिकी। आख्याग्रहणादकालादपि । आमिष्टोमिकी। वाजपेयिकी ।
व्याप्तब्रह्मचर्यवानित्यर्थः । श्रार्धमासिक इति । 'अर्धात्परिमाणस्या इत्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्रह्मचारिणः प्राधान्यम् । मासाभिव्याप्तं ब्रह्मचर्य तु तद्विशेषणमिति स्थितिः। यद्वेति । सूत्रे तदिति प्रथमान्तम् । ब्रह्मचर्यमिति षष्ठ्यर्थे प्रथमा। तथाच प्रथमान्तात्कालवाचिनः अस्य ब्रह्मचर्यस्येत्यर्थे ठजित्यर्थः फलति । तदाहप्रथमान्तादिति । कालवाचिन इति शेषः । अस्येत्यर्थ इति । अस्य ब्रह्मचर्यस्येत्यर्थ इत्यर्थः । मासोऽस्येत्यनन्तरं ब्रह्मचर्यस्येति शेषः । अस्मिन्पक्षे ब्रह्मचर्यमेव प्रत्यया. र्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणमिति बोध्यम् । उपसङ्ख्यानमिति । अस्य ब्रह्म. चर्यमित्यर्थे ठन इति शेषः । माहानाम्निक इति। महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावात् 'भस्याटे' इति पुंवत्त्वं नेति भावः। हरदत्तस्त्विति । माहानाम्निकमित्येव भाष्ये उदाहृतत्वादिदमुपेक्ष्यमिति भावः । चतुर्मासाण्ण्यो यज्ञ, तत्र इति । वातिकमिदम् । तत्र भवो यज्ञः इत्यर्थे चतुर्मासशब्दा. सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः । चतुर्विति । चतुर्षु मासेषु अतीतेष्वित्यर्थः । अण् सज्ज्ञायामिति । वार्तिकमिदम् । चतुर्मासशब्दात् भवार्थे अण वाच्यः सम्ज्ञायामि. त्यर्थः । चतुधिति । फाल्गुनी पौर्णमासीमारभ्य चतुर्ष मासेष्वतीतेष्वित्यर्थः । आषा. ढीति । आषाढयाः पौर्णमास्याः चातुर्मासीति सज्ञेति भावः। नच 'तत्र भवः' इत्य. गैव सिद्धमिति वाच्यम् , 'द्विगोलुंगनपत्ये' इति लुनिवृत्त्यर्थत्वात्।। __ तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यः ठञ् स्यादित्यर्थः। द्वादशा. हस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुदशाहः। तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः । 'कालात्' इत्यधिकारसूत्रे हि यथाकथञ्चित्का. लबोधकस्य ग्रहणमिति तदस्य परिमाणम्' इति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ् न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाभावादित्यत आह-आख्याग्रहणादकालादपीति । अन्यथा यज्ञेभ्य
For Private and Personal Use Only
Page #844
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३५]
बालमनोरमासहिता।
८३५
(१७६०) तत्र च दीयते कार्य भववत् ५।१।६६॥ प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् । इति तद्धिते प्राग्वतीये ठअधिकारे कालात् इत्यधिकारः सम्पूर्णः ।
अथ ठविधिप्रकरणम् ॥ ३५ ॥ (१७६१) व्युष्टादिभ्योऽण् ५।१४४७॥ व्युष्टे दीयते कार्य वा वैयुष्टम् । न्युष्ट तीर्थ सङ्ग्राम प्रवास इत्यादि। ['अग्निपदादिभ्य उपसङ्ख्यानम् (वा३०७२) भग्निपदे दीयते कार्य वा आग्निपदम् । पैलुमूलम् । (१७६२) तेन यथाकथाघहस्ताभ्यां जयतौ ५.१ ॥ यथाकथाचेत्यव्ययसङ्घातात्तृतीयान्ताद्धस्तशब्दाच यथासङ्ख्यं णयतौ स्तः। 'अर्थाभ्यां तु यथासङ्ख्वं नेष्यते । यथाकथाच दीयते कार्य वा याथाकथाचम् । अनादरेण देयं कार्य वेत्यर्थः । हस्तेन दीयते कार्य वा हस्त्यम् । (१७६३) सम्पादिनि ५॥१॥8॥ तेन इत्येव । कर्णवेष्टकाभ्यां सम्पादि कार्गवेधकिकं मुखम् । कर्णालङ्काराभ्यामवश्यं शोभत इत्यर्थः। (१७६४) कर्मवेषात् ५।१।१०० ॥ कर्मणा सम्पादि कर्मण्यं शौर्यम् । वेषेण सम्पादी इत्येव सिद्धे आख्याग्रहणवैयादिति भावः । वस्तुतस्तु यज्ञेभ्य इत्येवोक्तो कालादित्यधिकारात् द्वादशाहादिशब्देभ्य एवं स्यात् , नतु अग्निष्टोमादिशब्देभ्यः। आ. ख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति. भाष्ये स्पष्टम् । तत्र च दीयते । तत्र दीयते तत्र कार्यमित्यर्थयोः सप्तम्यन्तात्कालवा. चिनो भववत्प्रत्ययाः स्युरित्यर्थः । प्रावृषेण्य मिति । 'प्रावृष एण्यः' इति भवार्थे विहितः इहापि भवति । शारदमिति । शरदि दीयते कार्य वेत्यर्थः । सन्धिवेलाद्यण भवे विहित इहापि भवति । इदं वृत्त्यनुरोधेन। वस्तुतस्तु तत्र कार्य दीयत इत्यर्थे यज्ञाख्येभ्यः भववत्प्रत्ययाः स्युरित्यर्थः । अग्निष्टोमे दीयते भक्तम् आग्निष्टोमिकम् । कार्यग्रहणादग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति । न ह्यग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम् । इति तद्विते प्राग्वतीये ठअधिकारे कालात् इत्यधिकारः सम्पूर्णः । ___ अथ ठविधिनिरूप्यते । व्युष्टादिभ्योऽण । तत्र च दीयते कार्यमित्यनुवर्तते । दीयते कार्य वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्यो अण् स्यात् ठजोऽपवादः । व्युष्टं प्रभा. तम् । वैयुष्टमिति । अणि 'न स्वाभ्याम् इत्यैच । तेन यथा। अर्थाभ्यामिति । प्रकृत्योःप्र. त्यययोश्च यथासङ्ख्यम् , नतु दीयते कार्यमित्यनयोरित्यर्थः, व्याख्यानादिति भावः । सम्पादिनि । तेनेत्येवेति । सम्पादः सम्पत्तिः शोभा अस्यास्तीति सम्पादी। तस्मिन्नथें तृतीयान्तागित्यर्थः । कर्मवेषाद्यत् । तृतीयान्ताकर्मन्शब्दात् वेषशब्दाच्च सम्पादिन्यथैः
For Private and Personal Use Only
Page #845
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
सिद्धान्तकौमुदी
[तद्धिते ठविधि
वेभ्यो नटः । वेषः कृत्रिम आकारः। (१७६५) तस्मै प्रभवति सन्तापादि. भ्या ५।१।१०१॥ सन्तापाय प्रभवति सान्तापिकः । सानामिकः । (१७६६) योगाद्यश्च ५।१।१०२॥ चाम् । योगाय प्रभवति योग्यः-योगिकः । (१७६७) कर्मण उकञ् ५।१।१०३॥ कर्मणे प्रभवति कार्मुकम् । (१७६८) समयस्त. दस्य प्राप्तम् ५।१।१०४॥ समयः प्राप्तोऽस्य सामयिकम् । (१७६६) ऋतो. रण पा११०५॥ ऋतुः प्राप्तोऽस्य आर्तवम् । [ 'उपवस्त्रादिभ्य उपसंख्यानम्।। उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम्। ] (१७७०) का. लाधत् ५।१।१०७॥ कालः प्राप्तोऽस्य काल्यं शीतम् । (१७७१) प्रकृष्टे ठञ् ५।१।१०८॥ कालात् इत्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽत्येति कालिक वैरम् । (१७७२) प्रयोजनम् ५।१।१०६॥ तदस्य इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च । (१७७३) विशाखाषाढादण्मन्थ. दण्डयोः ५।१।११०॥ आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरयोः । यस्यादित्यर्थः । तस्मै प्रभवति । चतुर्थ्यन्तेभ्यः सन्तापादिभ्यः प्रभवतीत्यर्थे ठम् स्यादित्यर्थः । सन्तापाय प्रभवतीति । शत्रूणां पीडायै शक्नोतीत्यर्थः । योगाद्यच्च । चतुः र्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कर्मण उकञ् । चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कामुकमिति । उकजि टिलोपः । समयस्तदस्य । तदिति प्राप्तमिति च सामान्ये नपुंस. कम् । समयः प्राप्तोऽस्येत्यथें प्रथमान्तात्समयशब्दात् ठजित्यर्थः । तदित्युत्तरार्थम् । ऋतोरण। प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तात ऋतोरणित्यर्थः । प्राविमिति । अणि ओर्गुणः, आदिवृद्धिः, रपरत्वम् । कालाधत् । तदस्य प्राप्तमित्येव । प्रथमान्ता. त्कालशब्दात् अस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्यु. त्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा । प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालान्दात् ठजित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति ।
प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्तामित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः। प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची। प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । विशाखाषाढात् । विशाखाशब्दात् आषाढशब्दाच्च प्रथमान्तात् अस्य प्रयोजनमित्यर्थे अण् स्यात् , समुदायेन मन्थे दण्डे च क्रमात् गम्ये सतीत्यर्थः । तदाह-आभ्यामिति । स्थूणामेकां निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्ज्य तयोः रज्ज्वोर्मन्थनदण्डः अर्ध्वमासज्यते । मेन रज्ज्चा भ्रामितेन दधि विलोड्यते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते ।
For Private and Personal Use Only
Page #846
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३५]
बालमनोरमासहिता ।
विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः । 'चूडादिभ्य उपसंख्या. नम्। चूडा-चौडम् । श्रद्धा-श्राद्धम् । (१७७४) अनुप्रवचनादिभ्यश्छ: ५।१११११॥ अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् । (१७७५) समापना.
सपूर्वपदात् ५।११११२ ॥ व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयः। (१७७६) ऐकागारिकट चौरे ५।३।११३॥ एकमसहायमगार प्रयोजनस्य मुमुषिषोः स ऐकागारिकश्चौरः। (१७७७) भाकालिकडावन्तवचने ५।। ११४॥ समानकालावायन्तो यस्येत्याकालिकः । समानकालस्याकाल आदेशः। भाशु विनाशीत्यर्थः । पूर्वदिने मध्याहादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । 'भाकालाटुंश्च' (वा ३०७८) भाकालिका विद्युत् ।
इति तद्धिते प्राग्वतीयस्य ठमः पूर्णोऽवधिः । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोः वैशाखशब्दः आषाढशब्दश्च रूढौ। तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रथमान्तेभ्यः अस्य प्रयोज. नमित्यर्थे अणित्यर्थः । चौडमिति । चूडा प्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्रद्धा श्राद्धमिति । श्रद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्ध. मित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची। श्रद्धाहेतुकमिति यावत् । अनुप्रवचनादि. भ्यश्छः। प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनु. प्रवचनं नाम उपनयना किञ्चित्कर्म आपलायनसूत्रे प्रसिद्धम् । समापनात्सपूर्बपदात् । सपूर्वपदात्समापनशब्दात् अस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । म्याकरणसमापनीय इति । मङ्गलाचार इति शेषः।
ऐकागारिकट चौरे । एकमगारं प्रयोजनं प्रयोजकमस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकट् इति निपात्यते । टित्त्वं डीयर्थम् । प्रयोजनमित्येव सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम्-असहायमिति । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुमुषिषोरिति । अर्ये कर्तुमिच्छोरित्यर्थः। चोरस्य हि असहायमगारमिष्टं गेहान्तरसस्वे चौर्यप्रकटनप्रसङ्गादिति भावः । चोरे किम् । एका. गारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु एकागाराच्चोरे' इत्येव सुव. चम् । प्रकृतत्वाम् सिद्ध इत्युक्तम् । आकालिकट । समानकालाविति बहुव्रीहिः । भाद्यन्ताविति । उत्पत्तिविनाशावित्यर्थः । समानकानस्येति । समानकालशब्दस्य इकप्र. त्यये परे आकालदेशो निपात्यत इत्यर्थः । ननु उत्पत्तिविनाशयोरेककालिकत्वमसम्भवपराहतमित्यत आह-प्राशु विनाशीति। लक्षणां विनैवाह-पूर्वदिने इति । आकाला;श्चेति। आकालशब्दादाधन्तवचनान्प्रत्ययश्च वक्तव्य इत्यर्थः। चात् ठञ् । आकालिका
For Private and Personal Use Only
Page #847
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३८
सिद्धान्तकौमुदी
[तद्धिते भावकर्मार्थ
-
अथ तद्धितेषु भावकर्मार्थाः ॥३६॥ (११७८) तेन तुल्यं क्रिया चेद्वतिः ५।१।११५॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेत् इति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः । (१७७६) तत्र तस्येव ५.११११६ ॥ मधुरायामिव मधुरावत्युध्ने प्राकारः। चैत्रस्येव चैत्रवन्मैत्रस्य भावः। (१७८०) तदहम् ५।११११७ ॥ विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्या अनुवर्तते । तेनेह न । राजानमर्हति छत्रम् । (१७८१) तस्य भावस्त्वतलौ ५।१।११६॥ प्रकृतिजन्यबोधे प्रकारो विद्युदिति । उनि टाप् । उनि तु ङीप्। आकालिकी । अर्थः प्राग्वत् । इति तद्धिते प्राग्वतीयस्य ठञः पूर्णोऽवधिः।।
अथ भावकर्मार्था निरूप्यन्ते । तेन तुल्यं चेद्वतिः । तुल्यमिति क्रियेत्यस्य विशे. 'षणम् । सामान्याभिप्राय नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः। तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राह्मणेन तुल्यं ब्राह्मणवदधीते इति । अत्र ब्राह्मणवदित्युदाहरणम् । ब्राह्मणेन तुल्यमधीते इति विग्रहवाक्यम् । अत्र ब्राह्मणशब्देन ब्राह्मणकर्तृकाध्ययनं लक्ष्यते। ब्राह्मणकर्तृकाध्ययन. तुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्ये इति । द्रव्यतुल्येऽपीति बोध्यम् । तेन चैत्रेण तुल्यो धनी देवदत्तः इत्यादौ न भवति। 'अयमेवं न तद्वत्' इत्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । तत्रेवेति तस्येवेति चा) सप्तम्यन्तात् षष्ठयन्ताच्च वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठ्यर्थे सप्तम्यपीति भाष्यम् । अत्र 'क्रिया चेद्' इति नानुवर्तते इत्यभिप्रत्योदाहरति-मधुरांयामिव मधुरावस्नुध्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी । तथा सति विद्यमानेति क्रियापदसापेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिदेशादिवशब्दयोगे षष्ट्यर्थे सप्तमोति भाष्यं सङ्गच्छते। मधुरासम्बन्धिप्राकारसदृशः सुघ्नस्य प्राकार इति बोधः । मैत्रम्य भाव इति । वृत्तमित्यर्थः । तदहम् । अर्हतीत्यहम् । पचायच् । तदिति कर्मणि द्वितीयान्तम् । लब्धं योग्यं भव. तीत्यर्थात् । कृद्योगलक्षणषष्टयभावस्तु आर्षः। वतिरित्यनुवर्तते । द्वितीयान्तादह . तीत्यर्थे वतिः स्यादित्यर्थः । विधिमहतीति । विधिं लब्धं योग्यं भवतीत्यर्थः । विधिव. त्पूज्यत इति । हरिरिति शेषः । विधि लब्धं योग्य हरिपूजनमित्यर्थः । विहितं प्रकार. मनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः।
तस्य भावः । षष्टयन्तादाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रा. यादावपि वृत्तेराह-प्रकृतिजन्यबोधे प्रकारो भाव इति । त्वतलप्रत्यायो यत उत्पत्स्येते
For Private and Personal Use Only
Page #848
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६ ]
बालमनोरमासहिता ।
भावः गोर्भावो गोत्वम् । गोता । 'त्वान्तं क्लीबम्' (लि १२० ) 'तलन्तं स्त्रियाम् (लि १७) । ( १७८२) आ च त्वात् ५ | १|१२० ॥ 'ब्रह्मणस्तव' इत्यतः प्राक्त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं, गुणवचनादिभ्यः कर्मणि विधानार्थं वेदम् । चकारो नभ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् - स्त्रीत्वम् - स्त्रीता । पौंस्नम् - पुंस्त्वम् - पुंस्ता । ( १७८३) न नऊपूर्वातत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसल सेभ्यः ५|१|१२१ ॥ इतः तस्मात्प्रकृतिभूतशब्दात् व्यक्तिबोधे जायमाने यत् जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा- गोशब्दाद्धि व्यक्तिबोधे जायमाने गोवं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः सम्भवति, अतीतानागतानां वर्तमानानां चानन्तत्वेन युगपदुपस्थित्यसम्भवात् गोशब्दात् प्राणित्व पशुत्वादिरूपेणापि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितर-व्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादितत्तद्धर्म पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं भावशब्देन विवक्षितमिति भाष्यकैयटयोः स्थितम् । गोर्भाव इति । गोशब्दस्य प्रवृत्तिनिमित्तमिति बोधः । स्वान्तं क्लीबं तलन्तं स्त्रियाम् इति । लिङ्गानुशासन सूत्र सिद्धमिदम् । श्रा चत्वात् । त्वतलावित्यनुवर्तते । आङ्मर्यादायाम् । तदाहब्रह्मणस्व इत्यतः प्रागिति । ननु 'तस्य भावस्त्वतलौ' इत्यतः त्वतलोरुत्तरसूत्रेष्वनुवृत्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत आह- अपवादेरिति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिविहितैरिमनिजादिभिरपवादेः समुच्चयार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्ष निर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथा 'प्राग्दीव्यतोऽण' इत्यधिकृतस्य अणः 'अत इज्' इत्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह - गुणाच नादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यमा बाधप्रसङ्ग इति भावः । नन्वेवमपि आत्वादित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थं इत्यत आहचकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्यातां, अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति । संयोगान्तलोपे 'पुमः खय्यम्परे' इति रुत्वम् । पाक्षिकाचनुनासिकानुस्वारौ, विसर्गे कृते सत्वम् । एवं पुंस्त्वम् । तत्र 'हस्वात्तादौ ' इति षत्वं तु न भवति, सवनादिषु पाठात् ।
पूर्वात् । इतः परमिति । त्वतविधेरूर्ध्वमित्यर्थः
पूर्वात् इत्युत्तरस्य प्रति
,
For Private and Personal Use Only
८३६
.
Page #849
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४०
सिद्धान्तकौमुदी
[तद्धिते भावकर्मार्थ
परं ये भावप्रत्ययास्ते नस्तत्पुरुषाल स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नम्पूर्वात् किम् बार्हस्पत्यम् । तत्पुरुषात् किम् । मास्य पटवः सन्तो. त्यपटुः तस्य भावः आपटवम् । अचतुर-इति किम् । आचतुयम् । आसनत्यम् । बालबण्यम् । आवटयम् । आयुध्यम् । आकत्यम् । भारस्यम् । मालस्यम् । (१७८४) पृथ्वादिभ्य इमनिज्वा ५.१११२२॥ वावचनमणादिसमावेशार्थम् । (१७८५) र ऋतो हलादेलघोः ६४१६१॥ हलादेलंघोकारस्य रः स्यात् इष्ठेमेयस्सु (१७८६) टेः ६४।१५५॥ भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथो
र्भावः प्रथिमा-पार्थवम् । म्रदिमा-मार्दवम् । (१७८७) वर्णद्वढादिभ्यः व्यञ्च पेध इति भाष्यादिति भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, एतान् वर्जयित्वेत्यर्थः । अपतित्वमिति । इह 'पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच्च लघुपूर्वात्' इत्यण न भवति । बाह. स्पस्यमिति । 'पत्यन्तपुरोहितादिभ्यः' इति यक् । आपटवमिति । 'इगन्ताच्च लघुपूर्वात्। इत्यण । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः ब्राह्मणादित्वात्ष्यञ् । प्रासङ्गत्यमिति । असङ्गतिशब्दात् ध्यम् । पालवण्वमिति । अलवणशब्दात व्यञ् । श्रावट्यमिति । न वटः अवटः तस्मात् ष्यम् । आयुध्यमिति । अयुधशब्दात् ष्यञ् । आकत्यमिति। अकतशब्दात् व्यञ् । पारस्यमिति । अरसशब्दात् ष्यन् । आलस्यमिति । लसतीति लसः न लसः अलसः त. स्मात् व्यञ् । पृथ्वादिभ्य इमनिज्वा । तस्य भावः इत्यनुवर्तते । पृथ्वादिभ्यः षष्ट्यन्ते. भ्यः भावे इमनिज वा स्यादित्यर्थः । ननु वाग्रहणं व्यर्थम् । 'समर्थानां प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । न च इमनिजभारे त्वतल्प्रत्ययार्थ वाग्रह. णमिति वाच्यम् । आ च त्वादित्येव तत्समावेशसिद्धरित्यत आह-वावचनमणादिसमाः वेशार्थमिति । पृथुमृदुप्रभृतिषु 'इगन्ताच्च लघुपूर्वात्' इत्यणः, चण्डखण्डादिषु गुणवचन. लक्षणव्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अनश्च औत्सगिकस्य समावेशा.
मित्यर्थः । अन्यथा महाविभाषावशादपवादेन मुक्त पुनरुत्सर्गो न प्रवर्तते इति 'पारे मध्ये षष्ट्या वा' इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलामभावे तेषां प्रवृतिर्न स्यादिति भावः।।
र तो हलादेः । र इति प्रथमान्तम् । इष्टमेयरिस्वति शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसवात आदेशः स्यात् इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः । इष्ठेमेयस्पु इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतः लोपः इति च । तदाह-टेलोप: स्यादिष्ठे मेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच, चकार इत् नकारादिकार उच्चारणार्थः । ऋकारस्य
For Private and Personal Use Only
Page #850
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६ ]
बालमनोरमासहिता।
४१
५११२३॥ चादिमनिच् । शौक्स्यम्-शुक्लिमा । दाढर्यम् । 'पृथुमृदुमृशकृशदृढपरिवढानामेव रत्वम्। ( वा ४२११)। ढिमा । षो कोषर्थः । भौचिती । यायाकामी । (१७८०) गुणवचनब्राह्मणादिभ्यः कर्मणि च ५।१।१२४॥ चाद्धा. वे । जडस्य कर्म भावो वा जाज्यम् । मूढस्य भावः कर्म वा मौव्यम् । ब्राह्मण्यम् । 'महतो नुम् च-' (वा ३०९२ ) अर्हतो भावः कर्म वा आईन्त्यम् । माहेन्ती । ब्राह्मणादिराकृतिगणः । (१७८४) यथातथायथापुरयोः पर्यायेण ७३॥३१॥ नमः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्मिदादौ । अय. २२, उकारस्य गुणं बाधित्वा टेलोपः । पार्थवमिति । इमनिजभावे 'इगन्ताच्च लघुपूर्वा! इत्यण् । प्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य :, 'टे' इति टिलोपश्च । मार्दवमिति 'इगन्ताच्च' इत्यण् । वर्णदृढादिभ्यः ष्यश्च । षष्ठयन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ज्यञ् च स्यादित्यर्थः । गुणवचनत्वादेव ष्यनि सिद्ध इमनिसमुच्चयार्थ वचनम् ।
'पृथु मृदुं भृशं चैव कृशं च दृढमेव च ।
. परिपूर्व वृढं चैव षडेतान् रविधौ स्मरेत् ॥ इति वार्तिकमर्थतः सगृह्णाति-पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्वेऽपि रभावो न । ढिमेति । दृढशब्दादिमनिचि अकारस्य ः। भ्रशिमा ऋशिमा द्रठिमा परिवढिमा । ननु वर्णहढादीनां व्यसन्तानां लोकतो नपुंसकत्वात् ष्यः पि. स्वस्य किं प्रयोजनमित्यत आह-षो डीपर्थ इति । भौचितीति । उचितशब्दात् ब्राह्मगादित्वात् ष्यनि लोकात् स्त्रीत्वम् । पित्त्वात् डीपि 'हलस्तद्धितस्या इति यलोपः । उचितस्तु न दृढादि, तद्गणे अदर्शनात् हमनिष्प्रसाच्च । अल्यैव ष्यत्र उत्तरसूत्रे अनुवृत्तेरिहैव तस्य पिस्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात् व्यभि लोकात् स्त्रीत्वे पित्वात् डी।।
गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो ब्राह्मणादिभ्याच षष्ट्यन्तेभ्यो मावे कर्मः णि च अर्थे व्यमित्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् । 'अहः प्रशंसायाम्' इति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात् ष्यन् स्यात्प्रकृतेर्नुम् चेत्यर्थः। मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकात् नपुंसकत्वं स्त्रीत्वं च। तदाह-पार्हन्त्यमार्हन्तीति । आर्हन्त्यशब्दात् डीषि 'हलस्तद्धितस्य इति यलोपः यथातथेति निपातसमुदायः । यथापुरमिति पुराशब्देन पदार्थानतिवृत्तावव्ययीभावः । इमौ शब्दौ नम्पूर्वपदौ ब्राह्मणादी। तयोः व्यभि आदिवृद्धौ विशेषमाह-यथातथायथापुरयोः पर्यायेण । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् । 'नमः शुचि' इत्यतो नम इत्यनुवर्तते । तदाह-नमः परयोरेतयोरिति । यथातथा यथा.
For Private and Personal Use Only
Page #851
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८१२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते भावकर्माथ
T: 1
थातथाभावः आयथातथ्यम्- अयाथातथ्यम् । आयथापुर्यम्-भयाथापुर्यम् । आपासमाप्तर्भावकर्माधिकारः । 'चतुर्वर्णादीनां स्वार्थे उपससंख्यानम्' (वा ३०९१) । चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैश्वर्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् | त्रैलोक्यम् । इत्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । 'सर्वादे:- ' ( वा २७४८ ) इति लुक् । स एव सार्ववैद्यः 'चतुर्वेदस्योभय पदवृद्धिश्च' (ग सू९३ ) । चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैः । चतुर्वियस्य इति पाठान्तरम् । चतुर्विद्य एव चातुर्वैयः । (१७६०) स्तेनाद्यन्नलोपश्च ५।१।१२५ ॥ न इति सङ्घातग्रहणम् । 'स्तेन चौयें' पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनात् इति योगं विभज्य स्तैन्यमिति पुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य कदाचिदुत्तरपदस्येत्यर्थः । श्रायथातथ्यमिति । यथातथेति निपातनात् व्यजि पूर्वपदस्यादिवृद्धिः । श्रयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । श्रयथापुर्थमिति । यथापुरशब्दात् ष्यत्रि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । श्रपादसमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादिभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । 'पूर्वकाल' इति समासः । लुगिति । अध्येतृप्रत्ययस्येति शेषः । स एव सार्ववैद्य इति । सववेदशब्दात् स्वार्थे ष्यमिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् । व्यजिति शेषः I चतुर्वेद इति । 'तद्धितार्थ' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याणो 'द्विगोर्लुगनपत्ये' इति लुक् । चतुर्विद्यस्येतीति । 'चतुर्वेदस्योभयपदवृद्धिश्च' इति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठन्तीत्यर्थः । चतस्रो विद्याः अधीते इत्यर्थं 'तद्धितार्थ' इति द्विगौ 'विद्यालक्षण कल्पान्ताच्च' इति ठकि 'द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुविद्यशब्दात् स्वार्थे ष्यजि उभयपदवृद्धौ चातुर्वैद्यः इति रूपमिति भावः !
स्तेनाद्यन्नलोपश्च । यदिति च्छेदः । स्तेनशब्दात् षष्ठ्यन्तात् भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नैति सङ्घातग्रहणमिति । नलोपश्चेत्यत्र नेत्यकार उच्चारणार्थो न भवति । किन्तु नकाराकारसङ्घातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दात् यत्प्रत्यये सति नेति सङ्घातस्य लोप इति भावः । नच नकारमात्र लोपेऽपि 'यस्येति च' इत्यकारलोपात् स्तेयमिति सिध्यतीति वाच्यम्, 'अचः परस्मिन्' इत्यकारलोपस्य स्थानिवत्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्घातग्रहणेऽपि 'अलोड - न्स्यस्य' इत्यकारस्यैव लोपः स्यादिति शत्रूयम्, 'यस्येति च' इत्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयर्थ्यात्, 'नानर्थकेऽलोऽन्त्यविधिः' इति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक् सूत्रम् । व्यञित्यनुवर्तते । स्तेनशब्दाद्भावे कर्मणि च
For Private and Personal Use Only
Page #852
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६]
बालमनोरमासहिता।
८४३
ध्यअन्तमपि केचिदिच्छन्ति । (१७६१) सख्युर्यः ५।१।१२६॥ सख्युर्भावः कर्म वा सख्यम् । 'दूनवणिग्भ्यो च' दूतस्य भावः कर्म वा दूत्यम् । 'वणिज्यम्-' इति काशिका । माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह । भाष्ये तु 'दूतवणिग्भ्या च' इति नास्त्येव । ब्राह्म. पादित्वाद्वाणिज्यमपि । (१७९२) कपिशात्याक् पा१।१२७॥ कापेयम् । ज्ञातेयम् । (१७६३) पत्यन्तपुरोहितादिभ्यो यक् ५।१।१२८॥ सैनाप. त्यम् । पौरोहित्यम् । 'राजासे' ( ग सू १०६ ) राजन्शब्दोऽनमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वाभ्यञ् , आधिरा-- राज्यम् । (१७६४) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ५.१११२६॥ प्राणमृज्जाति आश्वम् । औष्ट्रम् । वयोषचन कौमारम् । केशोरम् । औद्गात्रम् । ष्यमित्यर्थः । समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासज्ञाशब्दभिन्नमर्थः वच्छब्दरूपं गुणवचनसम्ज्ञकं भवतीति माकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचा. द्यजन्तस्य कृदन्तस्य गुणवचनस्वाभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रातिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततो 'यन्नलोपश्च' इति योगान्तरम् । स्तेनात इत्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्यादृष्टत्वात् योगविभागोऽयमप्रामाणिक इति भावः । सख्युर्यः । सखिशब्दात् षष्ठयन्तात् भावकर्मणोः यः स्यादित्यर्थः । दूतबणिग्भ्यां चेति । वार्तिकमिदम् । आभ्यामपि षष्ठयन्ताभ्यां भाव. कर्मणोः यत्स्यादिति वक्तव्यमित्यर्थः। नास्त्येवेति। वार्तिकत्वे तस्य भाष्ये पाठा. वश्यकत्वात् पाठस्य चाभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि इतवणिग्भ्यां भावकर्मणोः कथं यप्रत्यय इत्याशङ्कय नास्त्येव यप्रत्ययः, किन्तु ज्यावेत्याह-ब्राह्मणादित्वाद्वाणिज्यमपीति । अपिना दौत्यसङ्ग्रहः।
कपिज्ञास्योर्डक् । पञ्चम्यर्थ षष्ठी। आभ्यामपि षष्ठ्यन्ताभ्यां भावकर्मणोःढगित्यर्थः। अत्र कपिज्ञात्योः भावकर्मणोश्च न यथासख्य, व्याख्यानात् । पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठयन्तेभ्यो भावकर्मणोर्यक् स्यादित्यर्थः । राजासे इति । पुरोहि. तादिगणदिगणसूत्रमिदम् । राना असे इति च्छेदः । स इति समासस्य प्राचां संज्ञा । तदाह-राजन्शब्द इति । राज्यमिति । यकि टिलोपः । 'ये चामावकर्मणोः' इति प्रकृति. भावस्तु न, अभावकर्मणोरिति पर्युदासात् । समासे विति । अधिको राजा अधिराजः प्रादिसमासः । असे इति पर्युदासाद्यगभावे ब्राह्मगादित्वात् ष्यजि आधिराज्यमिति रूपमित्यर्थः । यक्ष्यमोः स्वरे विशेषः । प्राणभृज्जाति । प्राणभृतः-प्राणिनः, तज्जातिवाचिभ्यो वयोविशेषवाचिभ्य उद्गात्रादिभ्यश्च षष्ठ्यन्तेभ्यः भावकर्मणोः अजि.
For Private and Personal Use Only
Page #853
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते भावकर्मार्थ
1
औत्रेयम् । सौष्ठवम् । दौष्ठवम् । (१७४५) हायनान्तयुवादिभ्यो ऽण् ५।१। १३०॥ द्वैहायनम् । त्रैहायनम् | यौवनम् । स्थाविरम् । 'श्रोत्रियस्य यलोपश्च' ( बा ३०९३ ) श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञाः युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् - कौशलमित्यादि । ( १७६६) इगन्ताच्च लघुपूर्वात् ५।१।१३१ ॥ शुर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्थ्यम् । (१७६७) योपधाद्गुरुपोत्तमावुञ् ५११ । १३२॥ रामणीयकम् | आभिधानीयकम् । 'सहायाद्वा' ( वा ३०९४ ) | साहाघ्यम्—साहायकम् । (१७६८) द्वन्द्वमनोज्ञादिभ्यश्च ५|१|१३३॥ शैष्योपा
त्यर्थः । प्राणभृज्जातीति । उदाहरणसूचनम् । एवं वयोवचनेति ।
1
हायनान्त | हायनान्तेभ्यः युवादिभ्यश्च षष्ठ्यन्तेभ्यो भावकर्मणोः अणू ख्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अत्रोऽपवादः । एवं हायनमपि । यौवनमिति । अनिति प्रकृतिभावान्न टिलोपः । श्रोत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात् षष्ठ्यन्तात् भावकर्मणोः अण्, प्रकृतेर्यलोपश्चेत्यर्थः । येति सङ्घातग्रहणम् । श्रौत्रमिति । छन्दोऽधीते इत्यर्थे छन्दश्शब्दात घप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे 'यस्येति च' इत्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराकारसङ्घातस्य लोपे रेफादिकारस्य 'यस्येति च' इति लोपे श्रौत्रमिति रूपम् | यकारादकारस्य 'यस्येति च' इति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण् स्यात् । नच तस्य 'यस्येति च' इति लोपः शङ्कयः, लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । अकारलोपस्य स्थानिवत्वेन इकारान्तस्य भत्वाभावाच्च । 'श्रोत्रियस्य घलोपश्च' इत्येके पठन्ति । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्यते, व्याख्यानात् । तथा च लघुपूर्वो य इक् तदन्तात्प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोर स्यादित्यर्थः । गुणवचनेत्यादेरपवादः । कथं काव्यमिति । कविशब्दस्य लघुपूर्वं गन्त त्वात् 'गुणवचन' इति ष्यनं बाधित्वा अण्प्रसङ्गात् काव्यमिति कथमित्याक्षेपः । समा धत्ते—कविशब्दस्येति । ब्राह्मणादित्वादित्यनन्तरं व्यत्रि उपपाद्यमिति शेषः
योपधात । योपधात् गुरुपोत्तमात् प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोर्बुजित्यर्थः । रामणीयकमिति । रमणीयशब्दात् वुञ् । श्राभिधानीयकमिति । अभिधानीयशब्दाद्वुञ् । सहायाद्वेति । वुजिति शेषः । पक्षे ब्राह्मणादित्वात् ष्यञ् । इदन्तु वार्तिकं भाष्ये क्वचिन्मृग्यम् । द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वात् मनोज्ञादिभ्यश्च षष्ठ्यन्तेभ्यो वुनित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपि
I
For Private and Personal Use Only
Page #854
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६]
बालमनोरमासहिता।
४५
च्यायिका मानोलकम् । (१७६६) गोत्रचरणाच्छ्लाघात्याकारतवेतेषु ५।१।१३४॥ अस्याकारोऽधिक्षेपः । तदवेतः ते गोत्रचरणयोर्भावकर्मणी प्राप्तः अवगतवान्वा। गर्गिकया श्लाघते । गार्यत्वेन विकत्थत इत्यर्थः । गर्गिकया अत्याकुरुते । गार्गिकामवेतः । (१००) होत्राभ्यश्छ: ५।१।१३५॥ होत्राशब्दो ऋत्विग्वाची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकोयम् । मैत्रावरुणीयम् । (१८०१) ब्रह्मणस्त्वः ५।१।१३६॥ होत्राबाचिनो ब्रह्मन्शब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं चलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मस्वम्-ब्रह्मता ।
इति तद्धिते भावकमाधिकारप्रकरणम् ।।
-
'योपधात्' इत्येव सिध्यति, तथापि गोपालपशुपालिकेत्युदाहरणं बोध्यम् । गोत्रचर. णात् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्टयन्ताद्भावकर्मणोञ् स्यात् श्लाघा. दिषु विषयेब्वित्यर्थः । अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्रमित्युक्तम् । अत्याकार इत्यस्य विवरणम्-अधिक्षेप इति। तदवेत इत्येतद्विवृणोति-ते गोत्रेति । तच्छब्देन गोत्रचरणयोः भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थात् ज्ञानार्थाद्वा कतरिक्तः । ते अवेतस्तदवेत इति विप्रहः । 'द्वितीया' इति योगविभागात् समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गार्यशब्दावुनि 'आपत्यस्या इति यलोपे 'यस्येति च' इत्यकारलोपे लोकात् स्त्रीत्वे टापि 'प्रत्ययस्थात्' इति इत्त्वे गार्गिकाशब्दः । काठिकया श्लाघते इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययार्थान्वयिनः नतु प्रत्ययवाच्या इति बोध्यम् ।
होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः। ऋत्विग्विशेषवाचिभ्यः षष्ट्यन्तेभ्यः छः स्याद्भावकर्मणोरित्यर्थः। अच्छावाकीयमिति । 'आ च त्वात्' इति त्वतलोरपि सर्वत्र समावेशो बोध्यः । ब्रह्मणस्वः। होत्राभ्यः इत्युनुवृत्तमेकवचनेन विपरिणम्यते । तदाह-होत्रावाचिन इति । ऋत्विग्वाचिन इत्यर्थः। ननु ब्रह्मणो नेत्येवास्तु । ब्रह्मणश्छो न इत्यर्थलाभे सति छे निषिद्धे आ च त्वादित्यधिकारात् 'होत्राभ्यश्छः' इत्येव भावकमेणोस्त्वप्रत्ययः सिध्यतीत्यत आह-नेति वाच्ये इति । तलो बाधनार्थमिति । अधिकारवशाद्धोत्राभ्य इति भावकर्मणोः प्राप्तस्य तलो निवृत्त्या
मित्यर्थः । एतेन 'तस्य भावस्त्वतलौ' इत्यनेन ब्रह्मणः कर्मणि त्वस्याप्राप्तेस्तदर्थे त्वप्रत्ययविधानमिति न शङ्कयम् । नापि ब्रह्मणो नेत्युक्ते पूर्वसूत्रविहितानां त्वतस्छानां निषेधः स्यादित्यपि शक्यम् , शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानु. वृत्तः प्रयोजनमाह-ब्राह्मणपर्यायादिति । इति तद्धिते मावकर्मा-( नन्स्नमोर ) धिकारः ।
For Private and Personal Use Only
Page #855
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
. अथ तद्धिते पाश्चमिकप्रकरणम् ॥ ३७॥ (१८०२) धान्यानां भवने क्षेत्रे खञ् ।२।१॥ भवन्त्यस्मिनिति भव. नम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् । (१०३) व्रीहिशाल्योर्डक पा२।२॥ त्रैहेयम् । शालेयम् । (१८०४) यवयवकषष्टिकांद्यत् ५।२।३॥ यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । (१८०५) विभाषातिलमाषामाभ: शाणुभ्यः ५।२।४॥ यद्वा स्यात् । पक्षे खञ् । तिल्यम्-तैलीनम् । माध्यम्माषीणम् । उम्यम्-औमीनम् । भङ्ग यम्-भाजीनम् । अणव्यम्-आणवीनम् । (१८०६) सर्वचर्मणः कृतः खखौ पा२।५॥ असामयेऽपि निपातनात्समासः । सर्वेश्चर्मणा कृतः सर्वचर्माणः-सार्वचक्षणः। (१८०७) यथामुखसंमु.
अथ पाश्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ट्यन्तेभ्यः भवने क्षेत्रेऽर्थे खजित्यर्थः। भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपफ. तेराह-भवन्त्यस्मिन्निति भवनभिति । भूधातुरुत्पत्तिवाची। उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थान क्षेत्रम् । 'केदारः क्षेत्रम्' इत्यमरः । क्षेत्रशब्दाभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्य गृहकुसूलादि लभ्यते । अतः क्षेत्रपदम् । भवनपदाभावे तु क्षेत्रशब्देन सेतुबन्धकाश्या. दिपुण्यप्रदेशोऽपि लभ्येत । अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एवं लभ्यत इति न पौनरुक्त्यम् । श्रीहिशाल्योर्डक् । व्रीहिशब्दात् शालिशब्दाच्च षष्टयन्ताझवने क्षेत्रेऽर्थे ढगित्यर्थः । खोऽपवादः । यवयवक । यव, यवक, षष्टिक एभ्यः षष्ट्यन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः। खजोऽपवादः । धान्यानामित्यनुवृत्तेरिहापि. षष्ठयेव समर्थविभक्तिः। विभाषा तिल । तिल, माष, उमा, भङ्ग, अणु एभ्यो धान्य विशेषवाचिभ्यः षष्ठ्यन्तेभ्यो यद्वा स्यादित्यर्थः । 'उमाभङ्गो धान्यविशेषौ इति भाष्यम् । 'उमा स्यादतसी क्षुमा' इत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'ओर्गुणः 'वान्तो यि' इत्यवादेशः । सर्वचर्मणः । सर्वचर्मनशब्दात्तृतीयान्तात् चर्मणा सर्व कृतम् इत्यर्थे खखजौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयात् चर्मण्यन्वयाभावादसामर्थ्याच्चर्मणा समासास. म्भवात् कथं सर्वचर्मनूशब्दात्प्रत्यय इत्यत आह-असामर्थेऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्माण इति । 'नस्तद्धिते' इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखजी व्याख्यानात् ।
यथामुख । यथामुख, सम्मुख आभ्यां षष्ठयन्ताभ्यां दर्शन इत्यथें खः स्यादित्यर्थः। दृश्यतेऽस्मिन्निति दर्शनः आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्य
For Private and Personal Use Only
Page #856
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
खस्य दर्शनः खः ५|२|६|| मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातना - त्सादृश्येऽव्ययीभावः । समं सर्वं मुखं सम्मुखम् । समशब्दस्यान्तलोपो निपात्यते । यथासुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुखीनः । (१८०८) तत्सर्वादेः पश्यङ्गकर्मपत्रपात्र व्याप्नोति ५|२|७|| सर्वादेः पथ्यायन्ता • द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मोणः । सर्वपत्त्रीणः । सर्वपात्रीणः । (१८०६ ) भाप्रपदं प्राप्नोति ५२श८ ॥ पादस्या प्रपदं तन्मर्यादीकृत्य आप्रपदम् आप्रपदीनः पटः । ( १८१० ) अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ५|२|| अनुरायामे सादश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थळ विशेषः । तं नेयः अयानयीनः शारः । ( १-११ ) यीभावः ? 'यथाsसादृश्ये ' इति सादृश्ये तन्निषेधादित्यत आह-निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किन्तु समशब्दस्य सर्वपर्यायस्येत्याह- समं सर्वे मुख सम्मुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये सम्मुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः । तत्सर्वादिः । पथिन्, अङ्ग, कर्मन, पत्र, पात्र एषां समाहारद्वन्द्वात् पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्त. दन्तविधिः । ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तीति निषेधस्तु न, केवलानामेषां सर्वादित्वस्यासम्भवात् । तदिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थं सर्वशब्दपूर्व पदकेभ्यः पथ्यकर्मपत्र पात्रान्तेभ्यः प्रातिपदिकेभ्यो द्वितीयान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह - सर्वादेरित्यादिना । सर्वथानिति । 'ऋक्पू:' इति समासान्तः । आप्रपदम् । आप्रपदमित्यव्ययीभावात् द्वितीयान्तात्प्रा नोतीत्यर्थे खः स्यादित्यर्थः । पदस्यायं प्रपदमिति । 'पादानं प्रपदम्' इत्यमरः । आप्र पदमिति । 'आमर्यादाभिविध्योः" इत्यव्ययीभावः ।
I
Acharya Shri Kailassagarsuri Gyanmandir
·
=४७
I
अनुपदः । अनुपद सर्वान्न, अयानय एषां समाहारद्वन्द्वात् द्वितीया । बद्धा, भक्ष. यति, नेय एषां द्वन्द्वात् सप्तमी । 'तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्वद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आधे'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः । अनुपदं बद्धेति । क्रियाविशेषणत्वाद्वितीया। अनुपदीना उपानदिति । पदसम्बन्धिदेर्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । अयानय इति । ते शाराणां प्रदक्षि णपरिवर्तनम् अयः, प्रसव्यपरिवर्तनं अनयः । अयसहितः अनयः अयानयः । प्रदक्षिणप्र
For Private and Personal Use Only
Page #857
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
-
-
परोषरपरम्परपुत्रपौत्रमनुभवति ५।२।१०॥ परांश्चावराचानुभवतीति परोपरीणः। भवरस्योत्वं निपात्यते । परांश्च परतराश्वानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्रान् अनुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु भव्युत्पन्न शब्दान्तरं स्त्रीलिङ्गम् । तस्मादेव स्वार्थे ध्यजि पारम्प. यम् । कथं पारोवयवदिति । असाधुरेव । खप्रत्ययसनियोगेनैव परोवरेति निपा. तनात् । (१:१२) अवारपारात्यन्तानुकामं गामी ५॥२॥११॥ अवारपारं गामी अवारपारीणः-अवारीणः-पारीणः-पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । सव्यगामिनां यस्मिन् युग्मादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् ।
'ससहायस्य शारस्य परैर्नाक्रम्यते पदम् ।
असहायस्तु शारेण परकीयेण बाध्यते ॥' इति पतशास्त्रमर्यादा । विस्तरस्तु कैयटमनोरमादावनुसन्धेयः । तं नेय इति । तं स्थानविशेषमयानयाख्यं प्रापणीय इत्यर्थः। णी द्विकर्मकः, प्रधाने कर्मणि यत् , अप्र. धाने द्वितीया' इति भावकर्मलकारप्रक्रियायां वक्ष्यते । परोवर। परोवर, परम्पर, पुत्रपौत्र एभ्यो द्वितीयान्तेभ्यः अनुभवतीत्यर्थं खः स्यादित्यर्थः । परोवरोण इति । परे च अवरे च परावरे । ताननुभवतीत्यर्थः । अवरस्योत्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसन्नियोगेन उत्त्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्त्वं न भवति । प्रकृतेरिति । परपरतरशब्दात द्वन्द्वात्ख सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपा. त्यत इत्यर्थः । नन्बेवं सति कल्याणपरम्परेत्यादौ कथं परम्पराशब्दः? परम्परभावस्य खप्रत्ययसनियोगशिष्टत्वादित्यत आह-परम्पराशब्दस्त्विति । तस्मादेवेति । परम्परेत्यव्युत्पन्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दात् भावे वा स्वार्थे वा व्यमि अवरस्यादेहत्त्वे पारोवर्यशब्दात् मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्वस्य खप्रत्ययसन्नियोगशिष्टत्वादिति भावः । उत्त्वं दुरुपपादमेवेत्याह-प्रसाधुरेवेति । नन्वत्र परोवरेति निर्देशात् खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह-खप्रत्ययसन्नियोगेनैवेति । अत एव भाष्ये 'परांश्चावरांश्चानुभवति' इत्येव विग्रहो दशित इति भावः । ___ अवारपार । अवारपार, अत्यन्त, अनुकाम एभ्यः गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः । 'आवश्यकाधमर्ययोगिनिः" इति णिनिः । 'भविष्यति गम्यादयः इति भविष्यत्कालता। 'बहलमाभीक्ष्ण्ये इति वाणिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः। अवारपारशब्दाद्विगृहीताद्विपरीता. दपि, व्याख्यानात् । तदाह-वारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र
For Private and Personal Use Only
Page #858
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
मृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्ता । ( १८१३ ) समां समां विजायते ५|२|१२|| यलोपोऽवशिष्टविभकेरलक्च पूर्वपदे निपास्यते । समांसमीना गौः । ' समांसमीना सा यैव प्रतिवर्ष प्रसूयते' इत्यमरः । 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः' (वा ३१०० ) । समां समां विजायते । समाय समाय वा । (१८१४) अद्यश्वीनावष्टब्धे ५|२| १३ ॥ अथ श्वो वा विजायते अद्यश्वीना वडवा । आसन्न प्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति ।
८४६
भृशवाची । तदाह-भृशं गन्तेति । अनुकाममिति । कामः इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । समां समाम् । विपूर्वी जनिर्गर्भविमोचने वर्तते । विजायते गर्भम् विमुचतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोग लक्षणा द्वितीयापि न भवति । किन्तु सप्तम्येव । तत्र सप्तम्यन्तस्य समायामित्यस्य 'नित्यवीप्सयो:' इति द्विर्वचने समायां समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते - समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायात् विजायत इत्यर्थे खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात् खप्रत्ययोत्वसौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात् तदवयवयोः सप्तम्योलुकि समासमीन इति स्यात् । इष्यते तु समांसमीनेति । तत्राह - लोप इति । पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः । अवशिष्टस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः । भाष्ये तु 'यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लुक् इत्युक्तम् । ननु सर्मा समामिति निर्देशात् उत्तरपदेऽपि यकारलोपः अवशिष्टविभक्त्यंशल्य अलुक् च स्यादित्यत आह- पूर्वपदे इति । 'पूर्वपदस्य यलोपवचनम्' इति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति । पदद्वयेऽपीति शेषः । इह विभाषया कदाचित खप्रत्ययाभावे सति समाय समायां विजायत इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदशायां वाचनिक इति बोध्यम् । एतत्सर्व भाष्ये स्पष्टम् ।
1
अधरवीनाऽवष्टब्धे । अद्यश्वीनेत्यविभक्तिको निर्देशः । अवष्टब्धम् आसन्नम् 'अवाचालम्बनाविदूर्ययोः' इत्याविदूयें स्तम्भे षत्वविधानात् । अद्य श्वो वा विजायत इत्यर्थे अद्य श्वस् इति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यश्वीना वडवेति ॥ अथ वा श्वो वेति वाथें निपातनात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यश्वीनेति टाबन्तनिर्देशे तु अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमिति
५४ बा०
For Private and Personal Use Only
Page #859
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५०
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
अद्यश्वीनं मरणम् । आसन्नमित्यर्थः। (१८१५) श्रागवीनः ५२१४॥ आल्. पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते। गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स भागवीनः । (१८१६) अनुग्वलं गामी ५।२।१५॥ अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः । (१८१७) अध्वनो यत्खौ ५।२।१६॥ अध्वानमलं गच्छति अध्वन्यः-अध्वनीनः । 'ये चाभावकमणोः' (सू ११५४) 'आत्माध्वानी खे' (सू १६१) इति सूत्राभ्यां प्रकृतिभावः । (१८१०) मभ्यमि. प्राच्छ च ५।२।१७॥ चाद्यत्खौ। अभ्यमित्रीयः-अभ्यमित्र्यः-अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छत्तीत्यर्थः। (१८१६) गोष्ठात्खऽभूतपूर्व पा२।१८॥ गोष्ठो भूतपूर्वः गौष्ठीनो देशः । (१८२०) अश्वस्यैकाहगमः ५।२।१७॥ एका. हेन गम्यते इत्येकाहगमः आश्वीनोऽध्वा । (१८२१) शालीनकौपीने मष्टान स्यात् । आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृति गृहीत्वा यः कर्म करोति स कर्मकरः। अत्र गोपालो विवक्षितः। स हि प्राता गृहीत्वा आसायं चारयित्वा स्वामिनो गृहं नीत्वा प्रत्यर्पयति । तदाह-गोः प्रत्यर्पणेति । प्रागवीन इति । गोशब्दो गोप्रत्यर्पणे लाक्षणिकः । 'आइमर्यादाभिविध्योः' इत्यव्ययीभावे गोस्त्रियोग इति हस्वत्वे आगुशब्दात् खे 'ओर्गुणः' इति भावः । अनुग्वलं गामी। अनुगु इत्यवि. भक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे हस्वत्वे अनुगु. शब्दः। तस्मात् अलङ्गामीत्यर्थं खः स्यादित्यर्थः । अत्र अनुगु इत्यस्य क्रियाविशे. षणत्वात् द्वितीयैव समर्थविभक्तिरिति ।हरदत्तः। कृयोगषष्ठीत्यन्ये । अलङ्गामीत्यत्र अलंशब्दस्य विवरणं-पर्याप्तमिति क्रियाविशेषणम् । अध्वनो यत्खौ। अध्वनशब्दात् अलङ्गामीत्यर्थे यस्खौ स्त इत्यर्थः । अध्वानमलङ्गच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । अभ्यमित्राच्छ च । अमित्रः शत्रुः। तमभिमुखो भूत्वे. त्यर्थे 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मात् अल. कामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।।
गोष्टात्खन् । भूतपूर्व इति प्रकृतिविशेषणम् । भूत पूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वाथें खः स्यादिति वृत्तिकृतः। अश्वस्यैकाहगमः । अश्वशब्दात् षष्ठ्यन्तात् एकाहगम इत्यर्थे खञ् स्यादित्यर्थः। एकाहगमशब्दं व्युत्पादयति-एकाहेनेति । अस्मादेव निपातनाकर्मणि गमेरबिति भावः । 'कर्तृकरणे कृता' इति समासः । अश्वस्येति कर्तरि षष्ठी। आश्वीनोऽध्वेति । अश्वेन का एकाहेन गन्तुं शक्य इत्यर्थः । शालीन । 'शालाप्रवेशमा हत्यपृष्ट' इति, 'कृपावतरणमर्हत्यकार्यमिति चाऽर्थे शालाप्रवेशशब्दात्कृपावतरणशब्दाच्च खञ् । 'प्रवेशशब्दस्य अवतरणशब्दस्यचोत्तरपदस्य लोपे शालीनकोपीनशब्दो
For Private and Personal Use Only
Page #860
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
कार्ययोः ५ ||२०|| शाळाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यखात् वा पुरुष लिङ्गमपि, तत्सम्बन्धात्तदाच्छादनमपि । (१८२२) व्रातेन जीवति ५/२१२१ ॥ वातेन शरीरायासेन जीवती न तु बुद्धिवैभवेन स व्रातीनः । (१८२३) लाप्तपदीनं सख्यम् ५|२|२२|| सप्तभिः पदैरवाप्यते खाप्तपदीनम् । (१८२४) हैयङ्गवीनं सञ्ज्ञायाम् ५।२।२३ ॥ ह्योगो दोहस्य हियङ्गुरादेशो विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । योगोदोहस्य विकारो हैयङ्गवीनम् नवनीतम् । (१८२५) तस्य पाकमूले पोल्वादिकर्णादिभ्यः कुणब्जाहचौ ५|२|२४|| पीलून पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् । (१८२६) पक्षान्तिः प्रा२/२५॥ मूलग्रहणमात्रमनुनिपात्येते' इति भाष्यम् । श्रधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमे बार्हति यः सः शालीन इति यावत् । कूपपतनमिति । कूपावतर-णशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतन - साधनमकार्य पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कथं कौपीनशब्द: इत्यत आह- तत्साधनत्वादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्ग कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुबलिङ्गसम्बन्धात् तदाच्छादनवस्त्रखण्डे कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः । व्रातेन जीवति । व्रातशब्दात्तृतीयान्तात् जीवतीत्यर्थं खञ् स्यादित्यर्थः । नानाजाती - यानाम् अलब्धजीवनद्रव्याणां भारवहनादिकष्टकर्मजीविनां सङ्घो घातः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातम् इति भाष्यम् । तादृशसङ्घवाचिनो व्रातशब्दात् 'तस्येदम्' इत्यणि प्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाहशरीरायासेनेति ।
1
८५१
1
1
साप्तपदीनम् । सप्तपदशब्दात् तृतीयान्तादवाप्यं सख्यमित्यर्थं खनि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः । हैयङ्गवीनम् । ह्य इत्यव्ययं पूर्वेद्युरित्यर्थे । तत्रोत्पन्नो गोदोहः - गोपयः द्योगोदोहः । तस्मात् षष्ठ्यन्तात् विकारार्थं खजनादेशे प्रकृतेः हियङ्ग इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौ हैयङ्गवीनमिति भवति सज्ञायाम् इति भाष्यम् । तदाह - ह्योगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तु 'हैयङ्गवीनं घृतम्' इति दृश्यते ' तत्तु हैयङ्गवीनं स्यात् झोगोदोहोद्भवं घृतम्' इत्यमरः । तस्य पाकमूले । पाकमूले इति समाहारद्वन्द्वात्सप्तमी । पाकः: परिणामः । षष्ठयन्तेभ्यः पीत्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात् ककारस्य नेत्सञ्ज्ञा । जाहचस्तु जकारस्य प्रयोजना-
For Private and Personal Use Only
Page #861
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५२
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
वर्तते । पक्षस्य मूलं पक्षतिः । (१८२७) तेन वित्तश्चुञ्चुपवणपोपा२।२६॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिधः, तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुचुः । विद्याचणः । (१८२८) विनम्भ्यां नानाऔ नसह ५।।२७॥ असहार्थे पृथ. ग्भावे वर्तमानाभ्या स्वार्थे प्रत्ययौ। विना, नाना । (१८२8) वेः शालच्छङ्कटचौ ५।२।२८॥ क्रियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम्-विशालम् । विशङ्कटम् । (१-३०) सम्प्रोदश्च कटच ५।२।२६॥ संकटम् । प्रकटम् । उत्कटम् । चात् विकटम् । 'अलाबूतिलोमामाभ्यो रजस्युपसंख्यानम् (वा ३१०७)। अलाबूनां रजः अलाबूकटम् । 'गोष्ठजादयः स्थानादिषु पशुनामभ्यः' (वा ३१०९)। गवां स्थानं गोगोष्ठम् । 'सङ्घाते कटच्' ( वा ३११०)। अवीना भावात् नेत्सज्ञा । पक्षात्तिः। मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनि. दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः। तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठयन्तात् मूलेऽथें तिप्रत्ययः स्यादित्यर्थः। तेन वित्तः। तृतीयान्तात् वित्त इत्यर्थे चुचुपचणपो भवत इत्यर्थः । वित्तः प्रसिद्धः । चस्य नेत्सम्शेति । उपदेशे आदित्वाभा. वादिति भावः। विनम्भ्याम् । नसहेति सब्धातः पृथक्त्वे वर्तते। प्रकृतिविशेषणमि. दम् । तदाह-असहार्थे इति । तस्य विवरणं-पृथग्भावे इति । वर्तमानाभ्यामित्यनन्तरं विनम्न्यामिति शेषः । स्वार्थ इति । प्रत्ययार्थस्य अनिर्देशादिति भावः । प्रत्ययाविति । यथासङ्ख्यं नानानाविति शेषः । विनेति । वे प्रत्यये रूपम् । पृथगित्यर्थः । नानेति । नमो नाजि आदिवृद्धौ रूपम् । पृथगित्यर्थः । नसहेत्यस्य प्रत्ययार्थत्वे तु नेत्यनेन न सहेति गम्येत । एवं सति नाना न न सह, किन्तु सहैवेत्यर्थः स्यात् , द्वौ नजो प्रकृतमर्थ गमयतः' इति न्यायात इति भाष्ये स्पष्टम् । वेः शालच्छङ्कटचौ। क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययौ स्त इति यावत् । इदं च भाष्ये स्पष्टम् ।
सम्प्रोदश्च कटच । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वाथें कटच् स्यादित्यर्थः। चाद्वैरपि। सङ्कट संहतमित्यर्थः । निबिडीकृतमिति यावत् । प्रकट. मिति । प्रज्ञातमित्यर्थः । प्रकाशमिति यावत् । उत्कटमिति । उन्नतमित्यर्थः । अधिकमिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः। अलाबूतिलेति । अलाबू, तिल, उमा, भङ्गा इत्येभ्यः षष्ठयन्तेभ्यो रजसि अभिधेये कटचः उपसङ्ख्यानमित्यर्थः । विकारप्रत्ययानामपवादोऽयम् । रजः चूर्णरेणुः । गोष्ठजादय इति । पशुनामभ्यः स्थाना. दिष्वथेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थाना. दीनां चार्थानां प्रपञ्चनपराणि 'सङ्घाते कटच्' इत्यादीनि 'शाकटशाकिना' वित्य
For Private and Personal Use Only
Page #862
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७]
बालमनोरमासहिता।
८५३
सघातः अविकटः । 'विस्तारे पटच् ( वा ३११५ ) । अविपटः । 'द्वित्वे गोयुगच्' (वा ३११६ )। द्वौ वृषो वृषगोयुगम् । 'षटत्वे षङगवच् ( वा ३११७) अश्वषङ्गवम् । 'स्नेहे तैलच्' ( वा ३११८)। तिलतैलम् । सर्वपतैलम् । 'भवने क्षेत्रे शाकटशाकिनी ( वा ३११९) इक्षुशाकटम् । इक्षुशाकिनम् । (१८३१) अवात्कुटारच्च ५।२॥३०॥ चात्कटच् । अवाचीनोऽवकुटारः । अवकटः । (:८३२) नते नासिकायाः संज्ञायां टीटज्नाटभ्रटच: ५।२।३१॥ भवात् इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगामासिका अवटीटा । पुरुषोऽप्यवटीटः । (१८३:) नेबिड ज्विरीसची ५॥२॥३२॥ निविडम् । निविरीसम् । (१८३५) इनश्चिपटचिकचि च ५।२। ३३॥ नेः इत्येव । नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्या. देशौ च । 'कप्रत्ययचिकादेशौ च वक्तव्यौ' (वा ३१२१)। चिकिनम् । चिपिटम् । न्तानि षड्वातिकानि । तेषु चतुर्यु पशुनामभ्य इत्यनुवर्तते । अप्रस्तावयवः समूहः सधातः। प्रस्तावयवस्तु विस्तारः। द्विस्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः। द्वौ वृषो वृषगोयुगमिति । द्वयवयवकसघाताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थे वृषगोयुगमिति स्वभावादेकवचनं विंशतिरितित्यादिवदि. त्याहुः । एवमुष्ट्रगोयुगम् । अश्वषङ्गवम् । अवास्कुटारच्च । क्रियाविशिष्टसाधनवा. बकादयात्स्वार्थे कुटारच्च स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात् कुटारचि अवकुटार इत्यर्थः ।
नते नासिकायाः। अवादित्येवेति । अवशब्दात् नासिकाया अवनतेऽथें टीटच् , नाटच् । भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रहत्व इति धातो वे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमन मिति । प्रबत्वमित्यर्थः । ननु यदि नासिकायाः नमन. मवटी तहि अवटीटा नासिकेति कथमित्यत आह-तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः। नेबि. डबिरीसचौ । 'नते नासिकायाः सम्ज्ञायाम्' इत्यनुवर्तते । नेः नासिकाया नतेऽथे बिडच् , बिरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । निबिडा वृक्षा इति तु उपमानादित्याहुः । इनपिटच । इनच् पिटच् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । चिकचि इत्यपि चिक चि इत्यनयोः समाहारद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः । त इनचि परे चिक इत्यादेशः। तत्र अकारः उच्चारणार्थः । पिटचि तु परे चि इत्यादेशः। कप्रत्ययेति । उक्तनेः कप्रत्ययः प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्त एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेः चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेः कि
For Private and Personal Use Only
Page #863
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃષ્ઠ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते पाचमिक
·
चिक्कम् | 'क्लिन्नस्य चिल् पिल् लवास्य चक्षुषी' ( वा ३१२२ ) क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । ‘चुल् च' ( वा ३१२३ ) | चुल्लः । (१८३५) उपाधिभ्यां त्यकन्नासन्नारूढयो | ५|२|३४|| संज्ञायाम् इत्यनुवते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका । (१८३६) कर्मणि घटोऽठच् ५|२| ३५ ॥ घटत इति घटः । पचाद्यच् । कमणि घटते कर्मठः पुरुषः । (१८३७) तदस्य सञ्जातं तारकादिभ्य इतच् ५|२|३६|| तारकाः सृजाताः अस्य तारकितं नभः । आकृतिगणोऽयम् । (१८३८) प्रमाणे द्रयसज्दद्दनञ्मात्रचः ५|२|३७|| तदस्य इत्यनुवर्तते । ऊरू प्रमाणमस्य ऊरुद्वयसम् ।
1
इत्यादेशे रूपम् । चिक्कमिति । कप्रत्यये नेः चिकादेशे रूपम् । क्लिन्नस्य चिपिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल् पिल् इति समाहारद्वन्द्वत्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दात् अस्य चक्षुषी इत्यर्थं लप्रत्ययः प्रकृतेः चिल् पिल् एतावादेशौ स्त इत्यर्थः । किन्ने इति । नेत्रामयप्रयुक्तजलनिष्यन्दवती इत्यर्थः । चिल्लः पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल चेति । उक्तविषये क्लिन्नस्य आदेशश्व, लप्रत्ययसन्नियोगेन वक्तव्य इत्यर्थः ।
उपाधिभ्याम् । उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वायें त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं समीपम् । आरूढम् उच्चम् | अनुवर्तत इति । "नते नासिकायाः" इत्यस्मादिति भावः । कस्य समीपं कस्योच्चम् इत्याकाङ्क्षायां सज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह - पर्वतस्येति । उपत्यका, अचित्यकेति । स्त्रीत्वं लोकात् । अत्र ' प्रत्ययस्थात्' इति इत्वं तु न, 'त्यकनश्च' इत्युक्तः । कर्मणि घटोऽऽच्। सप्तम्यन्तात्कर्मन् ब्दात् घट इत्यर्थे अठच्यादित्यर्थः । घशब्दस्य कलशपर्यायत्वभ्रमं वारयति - कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचात्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाभावादिकादेशाभाव इति भावः । तदस्य । प्रथमान्तेभ्यस्तारकादिभ्यः अस्य तत्सञ्जातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । सञ्जातनक्षत्रमित्यर्थः । श्राकृतिगणोऽयमिति । तेन पुष्पितो वृक्षः फलित इत्यादिसङ्ग्रहः ।
प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमा नात्प्रथमान्तात् द्वयसच्, दुघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्र 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' इति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् - प्रस्थमात्र मूरुमात्रमि
For Private and Personal Use Only
Page #864
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३"]
बालमनोरमासहिता।
syų
WAVVVVM
-
ऊरुदनम् । ऊरुमात्रम् । 'प्रमाणे लः' ( वा ३१२८ ) शमः । दिष्टिः। वितस्तिः । 'द्विगोर्नित्यम्' (वा ३१२९)। द्वौ शमी प्रमाणमस्य द्विशमम् । 'प्रमाणपरिमा. गाभ्यो संख्यायाश्चापि संशये मात्रज्वक्तव्यः' ( वा ३१३३ ) शममात्रम् । प्रस्थ. मात्रम् । पञ्चमात्रम् । 'वत्वन्तात्स्वार्थे द्वयसज्मात्रची बहुलम्' ( वा ३१३४)। तावदेव तावद्वयसम् । तावन्मात्रम् । (१३६) पुरुषहस्तिभ्यामण्च ५२॥ ३८॥ पुरुषः प्रमाणमस्य पौरुषम्-पुरुषद्वयसम् । हास्तिनम्-हस्तिद्वयसम् । (१८४०) यत्तदेतेभ्यः परिमाणे वतुप ५२॥३६॥ यत्परिमाणमस्य यावान् । तावान् । एतावान् । (१८४१) किमिदम्भ्यां वो घः ५।२।४०॥ अभ्यो वतुम् त्यादि इति कैयटः । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणम् इति शब्देन्दुशेखरे विस्तरः। प्रमाणे ल इति । लुको ल इति पूर्वाचार्यशालसिद्धा सज्ज्ञा। प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेलुग्वक्तव्य इत्यर्थः । शमो दिष्टिवितस्तिरिति । शमः प्रमाणमस्येत्यादिविग्रहः । शमादयः अनूष्मानवि. शेषाः । तेभ्यो मात्रचो लुक्, इतरयोरसम्भवात् । अत्र 'आयामस्तु प्रमाणं स्यात्' इत्येव गृह्यते । एवञ्च उरुद्वयसमित्यादौ न लुक् । द्विगोनित्यमिति । प्रमाणान्ताद्विगोः परस्य द्वयसजादेनित्यं लुक् स्यादित्यर्थः। प्रमाणान्तस्य द्विगोः प्रमाणावृत्तित्वात् सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाभाचात् । द्विशममिति । तद्धिताथें द्विगुः । ततो मात्रचः अनेन लुक् । विकल्पस्याप्रकृत. त्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचः लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि सः मात्रच्न लुप्येत इति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिन: सङ्ख्यावाचिनश्च संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एवं गृह्यते, 'आयामस्तु प्रमाणं स्यात्' इति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि। शमः स्यान वेत्यादिविग्रहः । वत्व. न्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । उक्तविषये इति शेषः । चात् द्वयसजादयस्त्रयः।
यत्तदैतेभ्यः। तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम् , यद्, तद् , एतद् एभ्यः वतुप् स्यादित्यर्थः । यावानिति । यच्छ. उदावतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्याचवम् , सुः, 'उगिदचाम्' इति नुम्, 'अत्वसन्तस्य' इति दीर्घः, हल्या दिसंयोगान्तलोपौ । एवं तावान् , एतावान् । किमिदंभ्यां वो घः । तदस्य इति, परिमाणे वतुबिति चानुवर्तते । तदाहआभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम् अस्य तत्परिमागमित्यर्थे वतुप
For Private and Personal Use Only
Page #865
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
- Ammmmmmmmmmm
-
-
-
-
स्याद्वस्य च घः । कियान् । इयान् । (१८४२) किमः संख्यापरिमाणे डति च ५॥२॥४१॥ चातुप् । तस्य च वस्य घः स्यात् । का संख्या एषां ते कति कियन्तः । क्षेपे तु न । का संख्या एषां दशानाम् । (१८४३) संख्याया भवयवे तयप ५।२।४२॥ पञ्च अवयवाः अस्य पञ्चतयं दारु । (१८४४) द्वित्रिभ्यां तयस्यायज्वा ५॥२॥४३॥ द्वयम्-द्वितयम् । त्रयम्-त्रितयम् । (१६४५) उभादुदात्तो नित्यम् ५।२।४४॥ उभयशब्दात्तयप आदेशोऽयच् स्यात् , स स्यादित्यर्थः । वस्य च घ इति । वकारस्य धकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दात् वतुप् । उपावितौ। वकारस्य धकारः इयादेशः, किम् इयत् इति स्थिते 'इदङ्किमोरीश्की' इति किमः कीभावे 'यस्येति च' इति ईकारलोफे कियत्शब्दात्सौ 'उगिदचाम्' इति नुमि 'अत्वसन्तस्य' इति दीघे, हल्ड्यादिसंयो. गान्तलोपाविति भावः । इयानिति । इदंशब्दात् वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते 'इदकिमोरीश्की' इति शित्त्वादिदमः ईकारे सर्वादेशे 'यस्येति च' इति ईकारस्य लोपे इयत् इति प्रत्ययमानं शिष्यते । ततः सौ नुमादि पूर्ववत् ।
किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं परिच्छेदः । किशब्दः प्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सख्यापरिच्छेदावषयकप्रश्ने विद्यमानात् किंश. ब्दात्प्रथमान्तात् अस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः। का सङख्या एषां ते कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति, अस्येत्यनेन एकत्वस्य अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नासम्भवात् । का सहया एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तत्. व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् उक्तं च भाष्ये-'न द्वयेकयोः प्रश्नोऽस्ति' इति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दः 'डति च' इति षट्सझकत्वात् 'षड्भ्यो लुक्' इति जयशसोलुंक्' । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । सङ्ख्यापरिमाणे इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति । दशावरा परिषदित्यत्र ब्राह्मणब्रुवाणां मेलने इदं वाक्यं प्रवृत्तम् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्सात्र गम्यते,
'अवतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥" इति स्मरणात् । संङ्ख्यायाः। तदस्येत्यनुवर्तते । द्वित्र्यादसङ्ख्याका अवयवाः मस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तात् अस्यावययिन इत्यर्थे तयबित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः । द्वित्रिभ्याम् । द्वित्रिभ्यां परस्य तयपः अयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपः अयचि यस्ये.
For Private and Personal Use Only
Page #866
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
५७
चोदात्तः । उभयम् । इति तद्धिते पाश्चमिकाः ।
अथ तद्धिते मत्वर्थीयप्रकरणम् ॥ ३८॥ (१८४६) तदस्मिन्नधिकमिति दशान्ताडु: ५।४५॥ एकादश अधि. काः अस्मिन्नेकादशम् । 'शतसहस्रयोरेवेष्यते' (वा ३१४१)। नेह। एकादश अधिकाः अस्या विंशतौ । 'प्रकृतिप्रत्ययायोः समानजातीयत्वमेवेष्यते (वा ३१४०)। नेह । एकादश माषाः अधिकाः अस्मिन्सुवर्णशते। (१८४७) शदन्तविशतेश्च ५।२।४६॥ डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विशम् । (१८४८) संख्याया गुणस्य निमाने मयट ५।२।४७॥ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यवाचिनः षष्ठयथे मयट् स्यात् । यवानो द्वौ भागी
तिच' इति इकारलोपः । व्यवयवकसमुदाय इत्यर्थः । एवं त्रयम् । उभादुदात्तो नित्यम्। स चोदात्त इति । आधुदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । 'अत्र अयच्प्रत्यय एव विधीयते, न तु तयप आदेशः इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । तयप आदेश इति मूलं तु वातिकानुरोधेन । इति पाश्चमिकाः।
अथ मत्वर्थीयाः-तदस्मिन्नधिकम् । तदधिकमस्मिन् इति विग्रहे प्रथमान्तात् दशन् . शब्दान्तात् समासात् अस्मिनित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्त. विधिप्रतिषेधादन्तग्रहणम् । अत एव निर्देशात् पञ्चम्यथें सप्तमीत्याहुः । औपश्ल. रिकेऽधिकरणे सप्तमीति भाष्यम् । सामीपिकमधिकरणमिति कैयटः । एकादश माषाः अधिकाः अस्मिन्निति । अस्मादित्यर्थः । अस्मिन् उपश्लिष्टा इति वा । न च व्यपदेशि. वत्त्वेन केवलदशनशब्दादपि स्यादिति शक्यम् । 'व्यपदेशिवदावोऽप्रातिपदिकेन' इत्युक्तः । शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे । डः स्यादुक्तेऽर्थे इति । दशान्त. त्वाभावात्पूर्वणाप्राप्तिः । त्रिशं शतमिति । डे सति टेः' इति टिलोपः। विंशमिति । विंशतिः अस्मिन्नधिका इति विग्रहः । 'ति विंशतेः' इति तिशब्दस्य लोपः । अन्त. ग्रहणादेकत्रिशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् । 'विशतावप्यन्ताहणम्' इति वार्तिकात् एकविंशं शतमित्यादि सिद्धम् । मङ्खयाया गुणस्य । तदस्येत्यनुवर्तते । गुणः भागः अंशः । निमीयते क्रीयतेऽनेनेति निमान मूल्यद्रव्यम् । 'मेङ प्रणिदाने' करणे ल्युट् । तदाह- भागस्य मूल्य हत्यादि । षष्ठद्यर्थे इति । अस्येत्यर्थे हत्यर्थः । यवानां द्वौ भागी निमानमस्योदश्विद्भागस्येति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदश्वित्प्रस्थः क्रीयते यत्र तत्रेदं वाक्यं प्रयुज्यते । द्विमयमुदश्विद्यवानामित्युदाहरणम् । यवानामिति सम्बन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदश्विदित्यर्थः । द्विशब्दस्य भागवृत्तनित्यसापेक्षत्वाय.
For Private and Personal Use Only
Page #867
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
-
निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्य इति किम् । द्वौ व्रीहि. यवौ निमानमस्योदश्वितः । निमाने किम् । द्वो गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन । (१८४४) तस्य पूरणे डट् ५॥२॥४८॥ एकादशानो पूर• णः एकादशः। (१८५०) नान्तादसंख्यादेमेंट पा२।४॥ डटो मडागमः स्यात् । पञ्चानो पूरणः पञ्चमः । नान्तात् किम् । विशः। असंख्यादेः किम् । एकादशः । (१८५१) षट्कतिकतिपयचतुर्रा थुक् पा२।५१॥ एषां थुगा. गमः स्याड्डटि । षण्णा पूरणः षष्ठः । कतिथः। कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः । 'चतुरश्छयतावाद्यक्षरस्य लोपश्च' ( वा ३१५८)। तुरीयः-तुर्यः। (१८५२) बहुपूगगगसङ्घस्य तिथुक् ५।२। ५२॥ 'डटि' इत्येव । पूगसङ्घयोरसंख्यात्वेऽम्यत एव डट् । बहुतियः इत्यादि । (१८५३) वतोरिथुक ५॥२॥५३॥ डटि इत्येव । यावतियः । (१८५४) वस्ती. वानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः। द्वौ ब्रीहियवौ निमानमस्योदश्वित इति । द्वित्व. सङ्घयाविशिष्टौ व्रीहियवाराशी यौ तौ अस्य उदश्वितो निमानमित्यर्थः । अत्र उद. श्विद्यावत् , तदपेक्षया ब्रीहियवराश्योर्द्विगुणत्वं न विवक्षितम् । किन्तु राशिद्वित्व. मेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाभावान्न प्रत्ययः । __तस्य पूरणे डट् । सङ्ख्याया इत्यनुवर्तते । सङ्खयेयार्थकसङ्ख्यावाविनः षष्ठयन्ता. त्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः अवयवः, सः प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन् अनुपात्ते एकादशत्वप्सङ्ख्या न सम्पद्यते, यस्मिन्नुपाते तु सा पूर्यते सोऽव. यवः एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चानां घटानां पूरणं जलादि। नान्तादसञ्जयादेर्मट । डटो मदागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चनशब्दात् डटि तस्य मडागमे सति नलोपः। यद्यपि मटः प्रत्ययत्वेऽपि न रूपभेदः। तथापि स्वरविशेषार्थ मडागमाश्रयणमिति भाष्ये स्पष्टम् । षटकति । थुकि ककार इत्। उकार उच्चारणाथः । कित्त्वादन्त्यादच: परः । षष्ठ इति । अपदान्तत्वात् षस्य न जश्त्वम् । चतुर्थ इति । अपदान्तत्वाब रेफस्य विसर्गः । चतुर इति । वातिकमिदम् । चतुर् शब्दात् षष्ठयन्तात्पुरणे छयतौ स्तः। आयक्षरस्य लोपश्चेति । 'च' इति सङ्घातस्य लोपश्चेत्यर्थः । बहुमूगगणे । बहु, पूग, गण, सच एषां डटि तिथुगागमः स्यादित्यर्थः । ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादयः परः । इत्यादीति। पूगतिथः गणतिथः सङ्घतिथः। बतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्यात् डटीत्यर्थः । यावतिथ इति । यावतां पूरण
For Private and Personal Use Only
Page #868
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
amav
यः ।२।५४॥ डटोऽपवादः। द्वयोः पूरणः द्वितीयः। (१८५५) वेः सम्प्र. सारणं च ५२५५॥ तृतीयः। (१८५६) विशत्यादिभ्यस्तमडन्यतर. स्यम् ५२।५६॥ एभ्यो डटस्तमडागमो वा स्यात् । विशतितमः-विंशः । एक. विंशतितमः-एकविंशः। (१८५७) नित्यं शतादिमासार्धमाससंवत्सराच्च ५२१५७ शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मास. तमः । अर्धमासतमः । संवत्सरतमः । (१८५८) षष्ठयादेश्वासंख्यादेः ५॥२॥ ५८॥ षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्यः' (सू १८५६) इति विकल्प एव । एकषष्टः-एकषष्ठितमः । (१८५४) मतो छः सूक्तसाम्नोः ५२५॥ मत्वर्थे इति विग्रहः । 'बहुगणेति सङ्ख्यात्वात् 'तस्य पूरणे' इति डटि प्रकृतेरिथुक् । द्वे. स्तीयः। द्विशब्दात् षष्ठयन्तात् पूरणे तीयप्रत्ययः स्यादित्यर्थः । वेः सम्प्रसारणं च । ब्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः। तीयप्रत्यये सति रेफल्य सम्प्रसारणम् ऋकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीघंस्तु न भवति, 'ठूलोपे' इत्यतः अण इत्यनुवृत्तः।
विंशत्यादिभ्यः । तमटि टकार इत् , मकारादकार उच्चारणार्थः । अत्र 'पक्तिविशति' इति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविंशत्याद. योऽपि विप्रकर्षादिति कैयटः । एकविंशतितम इत्यत्र तु तदन्तविधिना तमडित्यो बक्ष्यते । नित्यं शतादिमासार्धमाससंवत्साराच्च । शतादिभ्यो मासात् अर्धमासात संव. सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननु 'षष्ठ्यादेश्चेत्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह-एकशततम इति । 'असहयादेः' इति पर्युदासादुत्तर. सूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सहयावाचिवा. भावात् तेभ्यो डट एवाप्रसक्तः तस्य कथं तमड्विधिरित्यत आह-मासादेरिति । मास. तम इति । मासस्य पूरणः अर्धमासादिरवयवः । अर्धमासतम इति । अर्धमासस्य परणः तिथ्यादिश्वयवः । संवत्सरतम इति । संवत्सरस्य पूरणो मासादिरवयवः । षष्ठयादेश्चा. सङ्खयादेः । असन्यापूर्वपदात् षष्ठयाः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। 'विंशत्यादिभ्यः' इति विकल्पस्यापवादः । एकषष्टः-एकषष्टितम इति । साण्यादित्वानित्यस्य तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटि 'यस्येति च' इति इकारलोपे एकषष्ट इति रूपम् । ननु केवलात् षष्ट्यादेविहितस्य दित्यतमटः सङ्ख्यादेः कथं प्रसक्तिः तमडागमविधेरप्रत्ययविधित्वेऽपि 'ग्रहणवता प्रातिपदिकेन तदन्तविधिनास्ति' इति निषेधादिति चेत्, मैवम्-असहन्यादेरिति हि इह प्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधि ज्ञापयति । तेन 'विंशत्यादिभ्यः'
For Private and Personal Use Only
Page #869
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकोयं सूक्तम् । वारवन्तीयं साम। (१८६०) अध्यायानुवाकयोलुक ५।२।६०॥ मत्वर्थस्य छस्य । अत एक ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्ड:-गर्दभा. ण्डीयः। (१८६१) विमुक्तादिभ्योऽण पा२।६॥ मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तः। दैवासुरः। (१८६२) गोषदादि. भ्यो वुन् ५।२।६२॥ मत्वर्थेऽध्यायानुवाकयोः गोषदकः । इषेत्वकः । (१८६३) तत्र कुशलः पथः ।२।६३॥ वुन् स्यात् । पथि कुशलः पथकः । (१८६४) आकर्षादिभ्यः कन् पाश६४॥ आकर्षे कुशलः आकर्षकः । आकषादिभ्यः इति रेफरहितो मुख्यः पाठः। आकषो निकषः। (१८६५) धनहिरण्याकामे इति पूर्वसूत्रम् एकविंशतितमः इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवञ्च एका. नविंशतितमः इत्यपि सिद्धम् ।
मतौ छः सूक्तसाम्नोः। मतुशब्दो मत्वर्थे लाक्षणिक इत्याह-मत्वर्थे इति। अच्छावाकीयं सूक्तमिति । अच्छावाकशब्दः अस्यास्ति अस्मिन्नस्तीति वा विग्रहः । अच्छावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दात् शब्दस्वरूपपरात् प्रथमान्ता. च्छः । वारवन्तीयं सामेति । 'अश्वं नत्वा वारवन्तमित्यस्यां च्यध्यूढमित्यर्थः। एवमस्यवामीयमित्यपि । 'अस्यवामस्ये'त्यस्य एकादेशानुकरणमस्यबामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात्सुपो न लुक् । अध्यायानुवाकयोलक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः। सूक्त. साम्नोरिति नियमादित्यत आह-अत एवेति । विधानेति । मतुप्प्रकरण एवा. स्मिन्सूत्रे कर्तव्ये अन्न प्रकरणे छस्य लुग्विधानसामर्थ्यादिति कयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु 'अध्यायानुवाकयोर्वा लुग्वक्तव्यः' इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतनामकोऽध्यायोऽनुवाको वा अन्वेष्यः । विमुक्ता. दिभ्योऽण् । वैमुक्त इति । विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । इषेत्वक इति । 'इषे. त्वा' इति शब्दयुक्त इत्यर्थः । अस्यवामीयमित्यत्रोक्तरीत्या सुपो न लुक् । ____ तत्र कृशलः पथः । वुन् स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे बुनित्यर्थः । पथक इति । अकादेशे 'नस्तद्धिते' इति टिलोपः । आकर्षादिभ्यः कन् । आकर्षक इति । यद्यपि बुनैवानुवृत्तेनेदं सिध्यति । तथापि शकुनिक इत्याधर्थ कन्ग्रहणम् । धनहिरण्याकामे । तत्रेत्यनुवर्तते । धनशब्दात् हिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये
For Private and Personal Use Only
Page #870
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
८६१
-
-
५।।६५॥ कामः इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः । (१८६६) स्वाङ्गेभ्यः प्रसिते ५॥२॥६६॥ केशेषु प्रसितः केशकः । तद्रचनायो तत्पर इत्यर्थः। (१८६७) उदाट्ठगायूने ५।२।६७॥ अविजिगीषो ठक् स्यात्कनोऽपवादः । बुभुक्षयात्यन्तापीडित उदरे प्रसितः औदरिकः । आयूने किम् । उदरका । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः । (१८६८) सस्येन परिजातः ५२२६॥ कन् स्वयते न तु ठक् । सस्यशब्दो गुणवाचो न तु धान्यवाची। शस्येन इति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः । (१८६६) अंशं हारी ५॥२॥६६॥ हारी इत्यावश्यके णिनिः । अत एव तयोगे षष्ठी न । अंशको दायादः । (१८७०) तन्त्रादचिरापहते ५।२।७०॥ तन्त्रका पटः । प्रत्यग्र इत्यर्थः। (१८७१) ब्राह्मणकोष्णिके संज्ञायाम् ५।२।७१॥ कन् स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यायादिति भावः । स्वाङ्गेभ्यः प्रसिते । तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन् स्यादित्यर्थः । प्रसितः उत्सुकः । तद्र बनायामिति । वेण्यादिग्रथने इत्यर्थः । अत्रैवार्थे अस्य साधुत्वम्, व्याख्यानादिति भावः । उदराठगाधूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दात् आद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आधुनशब्दं विवृण्वनाह-प्रविजिगी. पाविति । 'दिवोऽविजिगाषायाम्' इत्यविजिगाषायामेव दिवो निष्ठानत्वविधाना. दिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितः, नतु मल्लवधुद्धे विजिगीषयेत्यर्थः । उदरक इति । मल्ल इति शेषः। स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्तको भवति । तदाह-उदरपरिमार्जनादौ प्रसक्त इति । विजिगी. षयेति शेषः । सस्येन परिजातः । तृतीयान्तात् सस्यशब्दात्परिजात इत्यर्थे कन् स्यादि. त्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह-कन् स्वयंते नतु ठगिति । स्वरि. तत्त्वप्रतिज्ञायां तु पाणिनीयपरम्परेव प्रमाणम् । सत्यशब्दो गुणवाचीति । व्याख्यान. मेवान शरणम् । शत्येनेतीति । 'शंसु स्तुतौ' इति धातौ कर्मणि यति शस्यशब्दः स्तु. त्यपर्यायः । स्तुत्यश्च गुण एवेति भावः। परिजात इत्यस्य विवरणम् सम्बद्ध इति। ___अंश हारी। द्वितीयान्तात् अंशशब्दात् हारीत्यर्थे कन् स्यादित्यर्थः । ननु कृयो. गषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह-आवश्यके णिनिरिति । 'आवश्यकाध. मर्ण्ययोः' इत्यनेनेति शेषः । षष्ठी नेति । 'मकेनोः' इति तनिषेधादिति भावः। तन्त्रा. दचिरापहृते । तन्त्रशब्दात् पञ्चम्यन्तात् अचिरापहृतेऽर्थे कनित्यर्थः । तन्त्रं तन्तुवाय. शलाका । अचिरेण कालेन अपहृतः अचिरापहृतः। 'कालाः परिमाणिना' इति समासः। प्रत्यग्र इति । नूतन इत्यर्थः। ब्राह्यणकोष्णिके। आयुधजीविविषयब्राह्मणश
For Private and Personal Use Only
Page #871
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८६२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
nigeria ब्राह्मणाः यस्मिन्देशे सः ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अरुपान्नशब्दस्योष्णादेशो निपात्यते । (१८७२) शीतोष्णाभ्यां कारिणि ५|२|७२ || शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी । (१८७३ ) अधिकम् ५|२|७३॥ अध्यारूढशब्दात्कनुत्तरपद लोपश्च । ( १६७४) अनुकाभिकाभोकः कमिता ५|२|७४ || अन्वभिभ्यां कन्, अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभिकामयते अभिकः अभीकः । (१८५) पाइनान्विच्छति || २|७५ ॥ अनृजुरुपायः पार्श्वम्, तेनान्विच्छति पार्श्वकः । (१८७६) अयः शूलदण्डाजिनाम्यां ठक्ठ | २७६ ॥ तीक्ष्णोपायोऽयः शूलं, तेनान्विच्छति आमःशुलिकः साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः । (१८७७) तावतिथं ग्रहणमिति लुग्वा ५२७७॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं - द्विकं वा ग्रहणं ब्दात् प्रथमान्तात् अस्मिन्नित्यर्थं कन् निपात्यत इत्यर्थः । श्रल्पान्नशब्दस्येति । अल्पा नशब्दात् प्रथमान्तात् अस्मिन्नित्यर्थे कन्प्रत्ययः प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः शीतोष्णाभ्यां कारिणि । शीतमित्र शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् शीघ्रमि त्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन् स्यादित्यर्थः । यः आशु कर्तव्यानर्थान् चिरेण करोति सः शीतक उच्यते, यस्तु अनाशु कर्तव्यान् आइषेव करोति सः उष्णक उच्यत इति भाष्ये । सज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह - शीतकोऽलस इति । उष्णकः शीघ्रकारीति च । अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् । अनुकाभिक | अनुक, अभिक, अभीक एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।
पार्श्वेनान्विच्छति । तृतीयान्तात्पार्श्वशब्दात् अन्विच्छतीत्यर्थे संज्ञायां कन् स्यादित्यर्थः । अन्वेषणं मार्गणम् पाश्र्वमिव पार्श्वम् अनृजुरुपायः । ऋजूपायेन अन्वेष्टव्यान् अर्थान् यः अनृजुना उपायेनान्विच्छति सः पाश्र्वक इति भाष्यम् । तदाह - श्रनृजु. रिस्यादि । श्रयः शूलदण्डाजिनाभ्यां ठक्ठञौ । अयः शूल, दण्डाजिन आभ्यां तृतीयान्ताभ्यां अन्विच्छतीत्यर्थं संज्ञायां ठक्ठनौ स्त इत्यर्थः । अयः शूलमिव अयःशूलम् । साहस मित्यर्थः । यो मृदुनोपायेन अन्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति सः आयः शुलिक इति भाष्यम् । तदाह - तीक्ष्णोपाय इत्यादि । दण्डाजिनं दम्भ इति । दम्भार्थ - त्वाद्दण्डाजिनशब्दो दम्भे लाक्षणिक इति भावः । तावतिथम् । तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा । ग्रहणमिति भावे ल्युडन्तम् । तथाच तृतीयान्तात्पूरणप्रत्ययान्तात् ग्रहणमित्यर्थे कन् स्यात्पूरणप्रत्य
For Private and Personal Use Only
Page #872
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ३८ ]
देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यथैः । ' तावतिथेन गृह्णातीति कन्वकन्यो नित्यं च लुक्' ( वा ३१७२ ) । षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः । (१८७८) स एषां ग्रामणीः ५|२|७८ ॥ देवदत्तो मुख्यः एषां देवदत्तकाः । त्वत्काः । मत्काः । (१८७६) शृङ्खलमस्य बन्धनं करभे ५|२|७६॥ शृङ्खलकः करभः । (९८८०) उत्क उन्मनाः ५|२८० ॥ उद्गतमनस्क वृत्तेरुच्छब्दात्स्वार्थे कन् । उत्कः उत्कण्ठितः (१८८१) कालप्रयोजनाद्रोगे ५|२| १ || कालवचनात्प्रयोजनवचनाच्च कन् स्यादोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीय दिवसोऽस्य । (१८८२) तदस्मिन्नन्नं प्राये संज्ञायाम् ५ २८२॥ प्रथमान्तात्सप्तम्यर्थे कन्स्याद्यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडायस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह - कन् स्यादित्यादि । पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य लुक् । किन्तु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्तिरिति सूचितम् । इतिना लो. कानुसारित्वं गम्यते । एवं च प्रन्थविषयकमेव ग्रहणमिह फलति । तेन द्वितीयं ग्रहणं देवदत्तेन दण्डस्येत्यादौ न भवति । तावतिथेनेति । ग्रहणेऽर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात् पूरणप्रत्ययस्यैव लुगिति गम्यते नतु तदन्तस्य ।
स एषां ग्रामणीः । ग्रामणीविशेषवाचकात् शब्दात्प्रथमान्तात् अस्येत्यर्थे कन् स्यादित्यर्थः । देवदत्तो मुख्यः पषामिति । एतेन ग्रामणीशब्दो मुख्य पर्यांय इति सूचितम् । 'ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः । स्बस्काः मस्काः इति । त्वमहं वा मुख्य एषामिति विग्रहः । प्रत्ययोत्तरपदयोश्चेति त्वमौ । शृङ्गलमस्य । करभ इति षष्ठ्यर्थे सप्तमी । बन्धनमिति करणे ल्युट् । अस्य करभस्य श्रृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणात् शृङ्खलशब्दात् प्रथमान्तात् अस्य करभस्येत्यर्थे कन् स्यादित्यर्थः । शृङ्खलकः करभ इति । शृङ्गलेन बद्ध इति यावत् । करभः बाल उष्ट्रः । उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्ठितवृत्तेरित्यर्थः । कालप्रयोजनाद्रोगे । काल, प्रयोजन अनयो: समाहारद्वन्द्वः । तदाह - कालवचनात् प्रयोजनवचनाच्चेति । यथोचितविभक्त्यन्तादिति शेषः । कालशब्देनात्र कालवृत्तिः पूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्यते, न तु मासादिशब्दः, व्याख्यानात् । तदाह - द्वितीयेऽइनीति । प्रयुज्य. तेऽनेनेनि करणे ल्युटि प्रयोजनं साधनम् । कर्मणि ल्युटि तु फलम् । तदाह-प्रयोजनं कारणं रोगस्य फलं वेति । तदस्मिन्नन्नम् । प्रथमान्तादन्नवाचकात् अस्मिन्नित्यर्थे कन्
1
1
·
For Private and Personal Use Only
८६३
Page #873
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
पूपाः प्रायेणान्नमस्य गुडापूपिका पौर्णमासी । 'वटकेभ्य इनिर्वाच्यः' ( वा ३१७५ ) वटकिनी । (१८८३) कुल्माषादञ् ५।२२८३ ॥ कुल्माषाः प्रायेणानमस्यां कौल्माषी । (१८८४) श्रोत्रियं छन्दोऽधीते ५२२८४ ॥ श्रोत्रियः । वा इत्यनुवृत्तेरछान्दसः । (१८८५) श्राद्धमनेन भुक्तमिनिठनौ ५२८५ ॥ श्राद्धी । श्राद्धकः । (१८८६) पूर्वादिनिः ५|२२८६ ॥ पूर्वं कृतमनेन पूर्वां । (१८८७) - सर्वाच्च २८७ ॥ कृतपूर्वी कटम् । (१८८८) इष्टादिभ्यश्च ५|२|| इष्टमनेन इष्टी | अधीत । (१८८६) छन्दसि पारपन्थिपरिपरिणौ पर्यवस्थारि ५|२६|| लोके तु परिपन्धिशब्दो न न्याय्यः । (१८६०) मनुप
स्यात् अन्नस्य बाहुल्ये गम्ये सज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव । वटकिनीति | वटकाः प्रायेण अन्नमस्यां पौर्णमास्यामिति विग्रह: । कुल्माषादञ् । कनोऽपवादः । 'स्याद्यावकस्तु कुल्माषः चणको हरिमन्थकः' इत्यमरः । श्रोत्रियंश्छ. दोऽधीते । द्वितीयान्ताच्छन्दशब्दात् अधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपा. त्यते । अध्येत्रणोऽपवादः । वेत्यनुवृत्तेरिति । ' तावतिथम्' इति सूत्रान्मण्डूकप्लुत्येति 'शेषः । ततश्च घनभावे अध्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।
श्राद्धमनेन । प्रथमान्तात् श्राद्धशब्दात् भुक्तमनेनेत्यर्थे इनिठनौ एतौ स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । पूर्वादिनिः । अनेनेति कर्तृ तृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् उपस्थितत्वात् कृञर्थभूतं क्रियासा. मान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विप्रहे कृतमित्यादिक्रियाविशेषणात्पू
शब्दात् अनेनेत्यर्थे इनिः स्यादित्यर्थः । सपूर्वाच्च । विद्यमान पूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातिपदिकविशेषणत्वेऽपि प्रत्य: यविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् । इष्टादिभ्यश्च । इष्टादिभ्यः तृतीयान्तेभ्यः अनेनेत्यर्थे इनिः स्यादित्यर्थः । छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पयवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेशे परिपन्थिन् शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेशे परिपरिनुशब्दः । ' मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन' इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । अनुपय वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुप
For Private and Personal Use Only
Page #874
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता।
G६५
धन्वेष्टा ५।२।०॥ अनुपदमन्वेष्टा गवामनुपदी। (१८९१) साक्षाद्रष्टरि संहायाम् पा२।६१॥ साक्षाद्रष्टा साक्षी। (१८४२) क्षेत्रियच परक्षेत्रे चिकित्स्यः पा२।२॥ क्षेत्रियो व्याधिः । शरीरान्तरे चिकित्स्यः। अप्रतिकार्य इत्यर्थः । (१८४३) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ५।२।६३॥ इन्द्र आत्मा, तस्य लिङ्ग करणेन कर्तुरनुमानात् । इतिकरणं प्रकारार्थम् । इन्द्रेण दुर्जयमिन्द्रियम् । (१८६४) तदस्यास्त्यस्मिन्निति मतुप ५॥२॥४४॥ गावोऽत्यास्मिन्वा सन्ति गोमान् ।
'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ (वा ३१८३) दमित्यस्मात् अन्वेष्टरि अर्थे इमिप्रत्ययो निपात्यते । साक्षाद्दष्टरि सब्ज्ञायाम् । साक्षा. दित्यव्ययम् , इह शब्दस्वरूपपर लुसपञ्चमीकम् । साक्षादित्यव्ययात् दृष्ट्यर्थे इनि: स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः 'अव्ययानां भमात्रे इति टिलोपः।
क्षेत्रियच् । परम् अन्यत् क्षेत्र शरीरम् परक्षेत्रम् । चिकित्स्यः प्रतीकार्यः 'कितेव्याधिप्रतीकारे' इत्युक्तेः । परक्षेत्रशब्दात् सप्तम्यन्तात् चिकित्स्य इत्यर्थे घच् , परशब्दस्य लोपश्च निपात्यते । शरीरान्तरे इति । भाविनि शरीरे चिकित्स्यः, न तु वर्तमाने शरीरे इत्यर्थः । फलितमाह-अप्रतिकार्य इति । इन्द्रियम् । इन्द्रलिङ्गमित्या. घर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दात् यथायोग षष्ठीतृतीयान्तात् लिङ्गमित्या. घर्धेषु घच निपात्यत इति यावत् । इन्द्र आत्मेति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याच. क्षते' इति श्रुतेरिति भावः । तस्य लिङ्गमिति । आत्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमु. पपादयति-करणेनेति । चक्षुरादीन्द्रियं किञ्चित्कर्बधिष्ठितं भवितुमर्हति, करणत्वात् , घटकरणदण्डादिवदित्यनुमानादित्यर्थः। मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातमिन्द्रियम् । इन्द्रेण सृष्टमिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह-इतिकरणमिति । इतिशब्द इत्यर्थः। । तदस्यारत्यस्मिन्निति मतुप् । तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्तिसमाना. धिकरणात्प्रथमान्तात् अस्य अस्मिन्निति चार्थे मतुप् स्यादित्यर्थः । उपावितौ । इति शब्दो विषयविशेषलाभार्थः । तदाह-भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा बहुत्वम् यथा गोमान् , यवमान् । निन्दायां ककुदावर्तिनी कन्या। प्रशंसायां रूप
बा०५५
For Private and Personal Use Only
Page #875
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तरिते मत्वर्थीय -
(१८९५) रसादिभ्यश्च ५।२।॥ मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिकृत्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, भाव । 'गुणात्' (ग० सू० ११२)। 'एकाचः' (ग. सू. ११३ ) । स्ववान् । गुणग्रहण रसादीनां विशेषणम् । (१८४६) तसौ मत्वर्थे १।४।१६॥ तान्तसान्तौ भसंज्ञी स्तो मत्वर्थे प्रत्यये परे । 'वसोः सम्प्रसारणम्' (सू ४३५ )। विदुष्मान् ‘गुण. वचनेभ्यो मतुपो लुगिष्टः' ( वा ३१८५)। शुक्लो गुणोऽस्यास्तीति शुक्ला पटः । कृष्णः । (१८४७) मादुपधायाश्च मतोर्वोऽयवादिभ्यः दारा॥ मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु वान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्ग दण्डी छनी । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन पुरुषी दण्ड इति नास्ति । रसादिभ्य. श्व । मतुविति । शेषपूरणमिदम् । उक्तविषये इति शेषः । पूर्वेणैव सिद्धे किमर्थमिद. मित्यत आह-अन्यमस्वर्थीयेति । 'प्रत इनिठनौ' इत्यादिनिवृत्त्यथमित्यर्थः । रसा. दीन पठति-रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाच इति । गणसूत्रम् । उदाह. रति-स्ववानिति । गुणग्रहणमिति । गुणादित्येतत् रसादीनां षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणात् जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानाम् इह न ग्रहणमिति भावः । 'रसिको नटः, स्पशिकं वारि इत्या. दिप्रयोगदर्शनात् इदं सूत्रं भाष्ये प्रत्याख्यातम् । ननु विद्वच्छब्दान्मतुपि यजादि. स्वादिपरकत्वाभावेन भत्वाभावात् 'वसोः सम्प्रसारणम्' इति कथं सम्प्रसारणमि. त्यत आह-तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभि. प्रेत्याह-तान्तसाम्ताविति । तकारसकारान्तावित्यर्थः । गुणवचनैभ्य इति । वार्तिकमिदम् । गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दाः त एव गृह्यन्ते, नतु रूपादिशब्दा अपि । तेन रूपं वस्त्रमित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः। ___ मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । म् च अश्चेति समाहारद्वन्द्वात्पञ्चम्येकवचनम् । मतुष्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । मवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोः मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकरास्मिका अकारात्मिका च या उपधा ततः परस्य मतोमस्य वः स्यादित्यन्योऽर्थः। फलितमाह-मवर्णेश्यादिना। मान्ताददाहरतिकिंवानिति । किमस्यास्मिन्वास्तीति विग्रहः । एषमग्रेऽपि। अकारान्तादुदाहरति
For Private and Personal Use Only
Page #876
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
८६७.
-
यवमान् । भूमिमान् । (१८) झयः ।१०॥ झयन्तान्मतोमस्य वः स्यात्। अपदान्तखान जश्त्वम् । विद्युत्वान् । (१ ) संज्ञायाम् ।।१२॥ मतोमस्य वः स्यात् । अहीवती । मुनीवती । शरादित्वात् दीर्घः । (१६००) आसन्दीवदष्ठीवश्चक्रीवत्कक्षीवट्ठमण्वच्चमण्यती । ।२।१२॥ एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान्प्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठोभावः । अष्ठीवान् । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा। चक्रवानन्यत्र । कक्ष्यायाः सम्प्रसारणम् । कक्षीवानामषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवामन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्पत्र । (१४०१) उदन्वानुदधौ च मा२॥१३॥ उदकस्योदभावो मतावुदधौ संज्ञायां च । उदन्वान्समुद्रः ऋषिश्च । (१९०२) राजन्वान्सौराज्ये ८१२॥१४॥ राजवन्ती भूः । राजवानन्यत्र । (१९०३) प्राणिस्थादातो लजन्यतरस्याम् ५।२।६६॥ चूडालः-चूडावान् । प्राणिस्थात् किम् । शिखावान्दीपः । आतः किम् । हस्तवान् । 'प्राण्यहादेव' ( वा ३१८९)
शानवानिति । अन तपरकरणाभावादाकारस्यापि ग्रहणमिति मत्वाह-विद्यावानिति । मोपधादुवाहरति-लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति। 'तसौ मत्वर्थ' इति मत्वान्न रुत्वम् । आकारोपधादुदाहरति-भास्वानिति । अथ विद्युत्वानित्यत्र मकाराकारान्तत्वाभावान्मकाराकारोपधत्वाभावाच्च मादुपधाया इति वत्वाप्राप्ता. वाह-मयः । अपदान्तत्वादिति । 'तसौ मत्वर्थे। इति भत्वेन पदत्वबाधादिति भावः । संज्ञायाम् । अहीवतीत्यादि नदीविशेषस्य नगरीविशेषस्य वा सम्ज्ञा । शरादित्वादिति । 'शरादीनां च इति दीर्घ इत्यर्थः । आसन्दीवत् । समाहारद्वन्द्व हस्वत्वम् । निपात्यन्त इति । आसन्दीभावादिकमेवान निपात्यते वत्वं तु सम्ज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसारणमिति । निपात्यत इति शेषः । 'न सम्प्रसारणे' इति सूत्रभाष्ये तु 'कक्ष्यायाः सम्ज्ञायां मतो सम्प्रसारणं वक्तव्यम्' इत्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छब्दपाठ: अनार्ष इत्याहुः । उदन्वानुदधौ च । उदघौ सम्शायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितम् , सज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्। __ राजन्वान् सौराज्ये । सु शोभनो राजा यस्य देशस्य सः सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नथें राजन्शब्दात् मतुपि 'मादुपधायाः' इति वत्वं सिद्धम् । नलोपाभावो निपात्यते । प्राणिस्थात् । आदन्तात्प्राणिस्थवाधिनः काब्दात् मत्वर्थे लच् वा
For Private and Personal Use Only
Page #877
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
-
नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्ध अन्तोदात्तत्वे चूडालोऽसीत्यादौ 'स्वरितो वानुदाते पदादौ (सू ३६५९ ) इति स्वरितबाधनार्थश्चकारः। (१९०४) सि. ध्मादिभ्यश्च ५२७॥ लज्वा स्यात् । सिध्मलः --सिध्मवान् । अन्य. तरस्याप्रहणं मतुप्समुच्चयाय, न तु प्रत्ययविकल्पार्थम् । तेन अकारान्तेभ्य इनिठनौ न । 'वातदन्तबलललाटानामूल् च' ( ग सू ११५)। वातूलः । (१९०५) वत्सांसाभ्यां कामबले ५।२८॥ आभ्यो लच् स्याद्यथासङ्घयं कामवति बलवति चार्थे । वत्सलः। अंसलः। (१९०६) फेनादिलच्च ५।8॥ चाल्लन् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिल:-फेनल:-फेनवान् ।
स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपानवाचिनः प्राणिस्थवा. चित्वाभावात् न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचश्चित्करणं व्यर्थम् , चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धरित्यत आह-प्रत्ययस्वरेणेति । चूडालोऽमोति । तत्र असीत्येतत् 'तितिङः इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनानुदात्तस्याद्गुणस्य 'एकादेश उदात्तेन' इत्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाधनुदात्तेन सहकादेशत्वात् 'स्वरितो वाऽनुदात्ते' इत्यस्य प्रासौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । सिधमादिभ्यश्च । लज्वा स्यादिति । मत्वथें इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्यय. विकल्पार्थकम् , किन्तु मतप्प्रत्ययसमुच्चयार्थकमेव अन्यतरस्यामित्यस्याव्ययत्वेना. नेकार्थकत्वात् । ततश्च सिध्मादिभ्यः लच् मतुप् च स्यादिति लभ्यते । नचान्यतर. स्यामित्यस्यात्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप सिद्ध इति वाच्यम् , लजभावे मतुबेव भवति, नतु अत इनिठनौ इत्येतदर्थ समुच्चयविधानात् । तदाहतेनेति । सिध्मादिषु ये अकारान्ताः तेभ्य इनिठनो नेत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, निष्पाव पांसु, हनु, पाणि इत्यादयः सिध्मादिषु पठि. ताः । एवञ्च लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्यांग्रहणमुत्त. रसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, ननु रूढशब्देषु । मतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ चेति । सिध्मादिगणसूत्रमिदम् । एभ्यो लच् प्रकृतेरूङ् चादेशः । डकारस्तु आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूला, एवं दन्तुल!, बलूल:, ललाटूलः । वत्सांसाभ्यां कामबले । ल च स्या. दिति । मत्वर्थ इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह-कामवति बलवति चेति । फेनादिलच्च । मत्वथें इति शेषः । चाल्लजिति। सन्निहितत्वादिति भाकः । नन्वेवं सति मतुप नैव स्यादित्यत आह-प्रन्यतरस्यांग्रहणमिति । सिध्मादि.
For Private and Personal Use Only
Page #878
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता ।
८६६
(१९०७ ) लोमादिपामादिपिच्छादिभ्यः शनेलचः पा२।१००॥ लो. मादिभ्यः शः। लोमशः-लोमवान् । रोमशः-रोमवान् । पामादिभ्यो नः । पामनः। 'अङ्गास्कल्याणे' ( ग सू ११८)। अङ्गना। 'लक्ष्म्या अच्च' (ग सू १२१)। लक्ष्मणः । 'विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः' (वा ३१९४ ) । विषुणः । पिच्छादिभ्य इलच् । पिच्छिल:- पिच्छवान् । उरसिलः-उरस्वान् । (१९०८) प्रज्ञाश्रद्धार्चाग्यो णः ५।२।१०१॥ प्राज्ञो व्याकरणम् । प्राज्ञा । श्राद्धः। आर्चः । वृत्तेश्व' (वा ३१९५) वार्तः । (१६०8) तपः सहस्राभ्यां
सूत्रे व्याख्यातमिदम् ।
लोमादि । श, न, हलच् एते, निभ्यो गणेभ्यो यथासङ्ख्यं स्युमत्वर्थे । अङ्गात्कल्याणे इति। पामादिगणसूत्रम् । कल्याणं, सुन्दरं तद्विशेषणकादङ्गशब्दात् मत्वथें नप्रत्यय इत्यर्थः । अङ्गनेति । कल्याणानि अङ्गानि अस्याः इति विग्रहः । लक्ष्म्या अच्च' इत्यपि पामादिगणसूत्रम् । लक्ष्मीशब्दात् मत्वर्थे नप्रत्ययः स्यात् प्रकृतेरका. रोऽन्तादेशश्च । लक्ष्मण इति । लक्ष्मीरस्यास्तीति विग्रहः । नप्रत्यये प्रकृतेरकारे अन्तादेशे णत्वम् । विश्व गिति । इदमपि पामादिगणसूत्रमिति केचित् । भाष्ये तु नप्रकरणे इदं वार्तिकं पठितम् । विषु इत्यव्ययं सर्वतः इत्यर्थे । विषु अञ्चतीति विष्वङ् । सर्वतो गामीत्यर्थ इति धूर्तस्वामी । विषु इति तिर्यगर्थे हति भवस्वामी । पराङ्मुख इति भट्ठभास्करः । विषु अञ्च् इत्यस्मात् अकृतसन्धेर्मत्वर्थे नप्रत्ययः स्यात् , उत्तरपदलोपश्चेत्यर्थः । विषुण इति । विष्वङ् अस्यास्तीति लौकिकविग्रहः । विषु अन्च, इत्यलौकिकविग्रहवाक्यम् । कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दस्य उत्तरप. दस्य लोपे 'लोपो व्योः" इति यलोपे विष्ण इति स्यादिति भावः। समर्थानामित्य. स्यापवादोऽयम् । प्रशाश्रद्धार्चाभ्यो णः। प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः। प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा। स्त्रियामित्यधिकारे प्रपूर्वकात् ज्ञाधातोः 'आतश्वोपसर्ग' इति भावे अड्। प्रज्ञा अस्यास्तीति विग्रहः। उपसर्जनभूतामपि प्रज्ञानक्रियां प्रति व्याकरणस्य कर्मत्वाद्वितीया । कृयोगषष्ठी नात्र प्रवर्तते, 'कर्तृकर्मणोः कृति' इत्यत्र कृग्रहणेन तद्धितयोगे तनिषेधात् । अत्र यद्वक्तव्य तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः। 'इगुपध' इति कः । प्रज्ञाशब्दात् स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्कयम् , तथा सति स्त्रियां डीप्र. सङ्गात् । तदाह-प्राशेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्च इति । अर्चा अस्यास्तीति विग्रहः । वृत्तेश्चेति । वार्तिकमिदम् । मत्वर्थे प्रत्यय इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।
For Private and Personal Use Only
Page #879
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2७०
लिखाम्तकौमुदी
[तद्धिते मत्वर्थीय
-
विनीनी ५।२।१०२॥ विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च विद्ध पुनर्वचनमणा बाधो मा भूदिति। सहस्रात्तु ठनोऽपि बाधनार्थम् । (१९१०) अणु च ५।२।१०३॥ योगविभाग उत्तरार्थः। तापसः । साहस्रः । 'ज्योत्स्नादिभ्य उपसंख्यानम् (वा ३ १९७ )। ज्योत्स्नः। तामिस्रः । (१९१९) सिकताशर्कराभ्यां च ५।२।१०४॥ सैकतो घटः । शार्करः । (१९१२) देशे लुबिलचौ च ५।२।१०५॥ चादण्मतुप् च । सिकताः सन्स्यस्मिन्देशे सिकता:-सिकतिल:-सैकतः-सिकतावान् । एवं शर्करेत्यादि । (१९१३)
तपःसहस्राभ्याम् । विनिश्च इनिश्चेति द्वन्द्वः । मत्वर्थे इति शेषः। यथासख्य. मन्वयः । विनिप्रत्यये इनिप्रत्यये च नकारादिकारी उच्चारणार्थो। ननु नकारयोः इत्सज्ञा कुतो न स्यात् । नच प्रयोजनाभावः, नित्स्वरस्यैव फलत्वादित्यत आहविनोन्योरिकारो नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाभावान्नेत्संज्ञेति भावः । यद्यपि 'अस्मायामेधा' इत्यसन्तत्वादेव तपशब्दाद्विन्सिद्धः । 'सहस्रशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धः । तथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताद न्तलक्षणयोः विनीन्योः सामान्यविहितयोः बाधो मा भूदिति विशिष्येह तपस्सह
शब्दाभ्यां तयोः विधानम् । सहस्त्रशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते । अण् च । तपस्सहस्राभ्यां मत्वर्थ इति शेषः। ननु तपःसहस्राभ्यां विनोन्यणाहत्येकमेव सूत्रमस्तु । नच तप. सहस्राभ्यां विनीन्योयथासङ्ख्यार्थ पृथक्सूत्रकरणम् । अन्यथा त्रयोऽपि प्रत्यया द्वा. भ्यां स्युरिति वाच्यम् 'तपःसहस्त्राभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युचा. रणादेव अणः उभयसम्बन्धस्य विनीन्योर्यथासयत्वस्य च सिद्धरित्यत आह-योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्यर्थ इत्यर्थः । ज्योत्स्न इति । शुक्लपक्ष इति शेषः । ज्योत्स्ना चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिस्र इति । कृष्णपक्ष इति शेषः। तमिस्राः तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः। ज्योत्स्नादित्वादण । ___सिकताशर्कराभ्यां च । मत्वर्थे अणिति शेषः । सैकतो घट इति । सिकता भस्य स. न्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वात् घट इति विशेष्यम् । 'अप्सुमनःसमासि. कतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रात् सिकताशब्दो नित्यं बहुवचनान्तः। देशे लुबि लचौ च । पूर्वसूत्रविहितस्याणो लुप् इलच्च स्यादित्यर्थः। चादणिति । सन्नि. हितत्वादिति भावः । तहि अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेमंतुप नैव स्यादित्यत आह-मतुप् चेति । समुच्चयार्थकान्यतरस्याङ्महणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दात् नित्यं बहुवचनान्तादणो लुपि प्रातिपदिकावयवस्थात् सुपो लुकि
For Private and Personal Use Only
Page #880
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता ।
दन्त उन्नत उरच् ५।२।२०६ ॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः । (१६१४ ) ऊ. सुषमुष्कमधोः ५|२| १०७ ॥ ऊषरः । सुषिरः । मुष्कोऽण्डः मुष्करः । मधुमाधुर्यम् - मधुरः । ' रप्रकरणे खमुखकुज्जेभ्य उपसंख्यानम् ' ( वा ३१९८ ) । खरः । मुखरः । कुञ्ज हस्तिहनुः कुञ्जरः । 'नगप सुपाण्डुभ्यश्च' (वा ३१९९ ) । नगरम् | पांसुरः । पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । 'कच्छ्वा हस्वत्वं च' ( वा ३२०० ) । कच्छुरः । (१६१५) द्युदुभ्यां मा ५२ १०८ ॥ युमः । द्रुमः । (१६१६) केशाद्वोऽन्यतरस्याम् ५।२।१०६ ॥ प्रकृतेनान्यतरस्यांमइन मतुपि सिद्धे पुनर्प्रहणमिनिठनोः समावेशार्थम् । केशवः - केशी केशिकः
८७१
युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः । 'हयवरट्' इति सूत्रे 'एका च सिकता तैलदाने असमर्था' इति भाग्ये प्रयोगात् सिकताशब्दः एकवचनातोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति । दन्त उन्नत उरच् । उन्नतविशेषणकाद्दन्तशब्दात् मत्वर्थे उरच् स्यादित्यर्थः । उन्नत इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे । ऊषसुषि । ऊष, सुषि, मुष्क, मधु एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सौत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिका विशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः बिलं अस्यास्तीति विग्रहः । मधुशब्दः क्षौत्रे दव्ये माधुर्यात्मकरस विशेषे च गुणे वर्तते । तत्र रसविशेषचाचिन एवात्र ग्रहणमित्याह - मधु माधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्ण्यो वा । मुखरः शब्दं कुर्वन् । कुञ्जरो हस्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् । नगरमिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुः अस्यास्तीति विग्रहः । पाण्डुरइति । पाण्डुः शुक्लवर्णः, सः अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह- पाण्डरशब्दस्त्रिति । 'हरिणः पाण्डरः पाण्डुः' इत्यमरः । कच्छवा इति । वार्तिकमिदम् । कच्छूशब्दाद्रप्रत्ययः, प्रकृतेह्रस्वश्व अन्तादेश इत्यर्थः । कच्छुरः शुनः रोगविशेषः ।
I
1
द्युद्रभ्यां मः । 'दिव उत्' इति कृतोत्वस्य दिव्शब्दस्य छु इति निर्देशः । दिवशदात् शब्दाच्च मप्रत्ययः स्यादित्यर्थः । घुमः द्रुम इति । रूढशब्दावेतौ । केशाद्वो - ऽन्यतरस्याम् । मत्वर्थे इति शेषः । नन्विहान्यतरस्याग्रहणं व्यर्थम् समर्थानामिति वाहनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषया अपवादेन मुक्त औत्सर्गिकस्याप्रवृत्तेः 'पारेमध्ये षष्ठया वा' इत्यत्रोक्तत्वादिह मनुषोऽप्रवृत्त्यापत्तौ तत्प्रवृत्यर्थमन्यतरस्याग्रहणामति वाच्यम् । प्राणिस्थादिति सूत्रादन्यतरस्याग्रहणस्य समु
For Private and Personal Use Only
Page #881
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८७२
सिद्धान्तकौमुदी
केशवान् । 'अन्येभ्योऽपि दृश्यते' ( वा ३२१० ) । मणिवो नागविशेषः । हिरण्यवो निधिविशेषः । ‘अर्णसो लोपश्च' ( वा ५०५३) । अर्णवः । (१६१७) गाब्यजगात्संज्ञायाम् ५|२| ११० || हस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डि वम् गाण्डीवमर्जुनस्य धनुः । अजगवं पिनाकः । (१९१८) काण्डाण्डादीरमनोरचौ ५|२| १११ ॥ काण्डीरः । आण्डीरः । ( १६१६) रजःकृष्या - सुतिपरिषदो वलच् ५/२/११२ ॥ रजस्वला स्त्री । कृषीवलः । 'बले' ( सू १०४० ) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । 'पर्षत् इति पाठान्तरम् । पर्षद्वलम् । 'अन्येभ्योऽपि दृश्यते ' ( वा ३२१० ) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' ( सू १०४० ) इत्यत्र 'संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः । (१६२० ) दन्तशिखात्संज्ञायाम् ५|२|११३ ॥ दन्तावलो हस्ती | शिखावलः केकी । (१६२१) ज्योत्स्नातमिस्राश्टङ्गिणार्जस्विन्नूर्जस्वल गोमिन्म लिनमलीमसाः ५|२|११४ ॥ मत्वर्थे निपात्यन्ते । ज्योतिष उप
[ तद्धिते मत्वर्थीय
-
saयार्थकस्यानुवृत्त्यैव तत्सिद्धेरित्यत आह- प्रकृतेनेति । इनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथा 'सिष्मादिभ्यश्च' इत्यत्रेव 'मतुबेच समुच्चीयेत, नत्विनिठनाविति भावः । तथा च वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह- केशव इत्यादि । श्रनैभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः । स इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः । अर्णव इति । अर्णः जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते । गाण्ड - ' जगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणोः गाण्ड इति युगपन्निर्देशः । ख्यत्यात्परस्य' इत्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथे.' त्यर्थः । ततश्च गाण्डिशब्दात् गाण्डी शब्दात् अजगशब्दाच्च मत्वर्थे वप्रत्ययः स्या दित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः । काण्डाण्डादीरन्नोरचौ । काण्ड, आण्ड आभ्यां ईरन्, ईरच इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः । रजः कृषिः । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्यर्थे वलच् स्यादित्यर्थः । श्रासुतीवल इति । 'पुञ् अभिषत्रे आङ्पूर्वात् स्त्रियां क्तिन् । 'वले' इति दीर्घः । श्रन्येभ्योऽपीति । वार्तिकमिदम् । 'रजः कृषि' इत्यादिसूत्रोपात्तादन्येभ्योऽपि वलच् दृश्यत इत्यर्थः । भ्रातृवलः । ठूलोपे इत्यतः अण इत्यनुवृत्तेः 'वले' इति न दीर्घः' । पुत्रवल इत्यादौ 'वले' इति दीर्घमा - शङ्कयाह-वले इत्यत्रेति ।
For Private and Personal Use Only
J
दन्तशिखात्सम् ज्ञायाम् । समाहारद्वन्द्वात्पञ्चमी । दन्तशब्दात् शिखाशब्दाच मत्वर्थे वलच् स्यात्सञ्ज्ञायामित्यर्थः । ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवा
Page #882
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता।
८७३
www
धालोपो नश्च प्रत्ययः । ज्योत्स्ना। तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्व. मतन्त्रम् । तमिस्रम् । शृङ्गादिनच । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभू. दिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । 'ऊर्जाऽसुगागमः' इति वृत्तिस्तु चिन्त्या, 'ऊर्जस्वतीः' इतिवदसुन्नन्तत्वेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः । (१९२२) मत इनिठनौ ५।२।११५॥ दण्डी-दण्डिकः। (१९२३) ब्रीह्यादिभ्यश्च ५।२।११६॥ ब्रीहि-व्रीहिकः । न च सर्वेभ्यो ब्रोह्यादिभ्य इनिठनाविष्येते । किं तर्हि । 'शिखामालासंज्ञादिभ्य इनिः, 'यवखलादिभ्य इकः' (वा ३२०९) । अन्येभ्य उभयम् । (१६२४) तुन्दादिभ्यः ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्यातिष्शब्दात् नप्रत्ययः उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाभावात् षत्वनिवृत्ती ज्योत्स्नेति रूपम् । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तमस इति । तमः अस्यास्तीति विग्रहे तमस्शब्दात् रक्प्रत्ययः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः । 'तमित्रा तामसी रात्रिः' इत्यमरः । ननु तमिस्त्रा' इति स्त्रीलि
निर्देशात् तमिस्त्रं गृहमिति कथमित्यत आह-स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । निपात्यत इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो बलजिति । निपात्यत इति शेषः। ऊर्जस् इत्यसुन्नन्तं प्रातिपदिकम् । ननु 'अस्मायामेधा' इति विनिना सिद्धर्जस्विनिति निपातनं व्यर्थमित्यत आह-तेनेति । विशेषविहितेन वलचा अस्मायेति सामान्यविहितस्य विनो निवृत्तिर्मा भूदित्यतदर्थ विनो निपातनमित्यर्थः । ऊर्ज इति । उर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थः अनुपपन्नः इत्यर्थः । कुत इत्यत आह-ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र वल. प्रत्ययाभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याप्रसक्तः तत्र उर्जस् इत्यसुन्नन्तं प्रातिपदिकमवश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोः विनिवलज्मात्रनिपातनो. पपत्तेरित्यर्थः । ईमसश्चेति । मलशब्दात् निपात्यत इति शेषः । अत इनिठनौ। अद. न्तान्मत्वथें इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्यग्रहणानुवृत्तेर्मतुबपि भवति । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तो स्मृतौ इति भाष्यम्। एकाक्ष. रात् स्ववान , कृतः कारकवान् , जातेः वृक्षवान , सप्तम्यां दण्डाः अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यो कार्यिकः, तण्डुली तण्डुलिकः इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।
ब्रीयादिभ्यश्च । मत्वर्थे इनिठनौ इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् । शिखा, माला, संज्ञा, वीणा, वड़वा, बलाका, पताका, वर्मन् , शर्मन् एभ्यः इनिरेव,
For Private and Personal Use Only
Page #883
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૭૩
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
इलच्च ५।२।११७॥ चादिनिठनौ मतुप् च । तुन्दिल: -- तुन्दी - तुन्दिकः - तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि । 'स्वाताद्विवृद्धौ' (ग० सू० १२४ ) विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य स कर्णिकः - कर्णीकर्णिकः कर्णवान् । (१६२५) एकगोपूर्वानित्यम् ५।२।११८ ॥ एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः । (१६२६) शतसहस्रान्ताश्च निष्कात् ५|२| ११६ ॥ निष्कात्परो यो शतसहस्रशब्दौ तदसारप्रातिपदिकाट्ठस्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः । (१६२७) रू. पादाहतप्रशंसयोर्य ५|२| १२० || आहतं रूपमस्यास्तीति रूप्यः कार्षापणः प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहत - इति किम् । रूपवान् । 'अन्येभ्योSपि दृश्यते' (वा ३२१० ) । हिम्याः पर्वताः । गुण्याः ब्राह्मणाः । (१६२८ ) मस्मायामेधास्त्रजो विनिः ५|२|१२१ || यशस्वी - यशस्वान् । मायावी ।
1
तु नित्यर्थः । यवखति । यवखल, नौ, कुमारी एभ्यः ठनेव, न त्विनिरित्यर्थः । परिशिष्टेभ्यस्तु वीह्यादिगणपठितेभ्यः उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् । तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थ कान्यतरस्याग्रहणावृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्तादिगुणपठिताः । स्वाङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात् स्वाङ्गादिलच्, इनिठनौ मतुप् चेत्यर्थः । कपिल इति । वृद्धौ कर्णौ यस्येति विग्रहः । एकगोपूर्वान्नित्यम् । एक पूर्वात् गोपूर्वाच्च नित्यं ठञ् स्यादित्यर्थः । यद्यपि नित्यग्रहणाभावेऽपि इनिठनोर्निर्वृत्तिः सिध्यति । तथापि समुच्चयार्थ कान्यतरस्यांग्रह - णानुवृत्त्या मतुप् समुच्चीयेत । तन्निवृत्यर्थं नित्यग्रहणम् । ऐकशतिक इति । 'पूर्व काल ' इति समासः । 'सङ्ख्यायाः संवत्सर' इत्युत्तरपदवृद्धिस्तु न तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् । शतसहस्र । निष्कात् पराविति । असामथ्र्येऽपि सौत्रत्वात् । समास इति भावः ।
रूपादाहत । आहतेति भावे कः । आहतविशेषणकात् प्रशंसाविशेषणकाच्च रूपशब्दात् मत्वर्थे यप् स्यादित्यर्थः । श्रहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टः रजत सुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते । तत्स्वरूपं च स्वर्णकारकृता हनननिष्पा धमिति बोध्यम् । रूप्यो गौरिति । प्रशस्तरूपसम्पन्न इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपीति यप् दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप्, बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राह्मणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः । अस्मायामेधास्त्र जो विनिः । असित्यनेन असन्तं विवक्षितम् ।
For Private and Personal Use Only
Page #884
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमालहिता।
७५
बीह्यादिपाठादिनिठनौ । मायी, मायिकः । क्विन्नन्तत्वात्कुः । सम्बी। मामयस्योपसंख्यानं दीर्घश्च' (वा ३२१३) आमयावी । 'वृन्दाभ्यामारकन्' (वा ३२१४ )। शृङ्गारकः । वृन्दारकः । 'फलबर्हाभ्यामिनच्' (वा ३२१५)। फलिनः । बर्हिणः । 'हृदयाच्चालरन्यतरस्याम्' (वा ३२१६) । इण्ठनौ मतुः प्च । हृदयालुः-हृदयी-हृदयिका-हृदयवान् । 'शीतोष्णतृप्रेभ्यस्तदसहने- (वा ३२१५) । शीतं न सहते शोतालुः । उ गालः 'स्फायितञ्चि' (सू १७० ) इति रक् । तृपः पुरोडाशः, तं न सहते सुप्रालः । 'तृपं दुःखम्' इति माधवः । 'हिमाच्चेलुः ( वा ३२१८) । हिम न सहते हिमेलुः । 'बलादूलः' (वा ३२१९) बलं न सहते बलूलः । 'वातासमूहे च' (वा ३२२० ) । वातं न सहते वातस्य समूहो वा वातूलः । 'तपर्वमरुद्भयाम्' ( वा ३२२१)। पर्वतः । मरुत्तः । (१९२९) ऊर्णाया युस् । ५।२।१२३॥ सित्त्वात्पदत्वम् । कर्णायुः । अत्र असन्त, माया, मेधा, सज् एभ्यो विनिप्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । 'तसौ मत्व|' इति भत्वान्न रुत्वमिति भावः। यशस्वानिति । 'एकगोपूर्वात्' इति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्यामहमिह मण्डकप्लुत्या अनुवर्तते । तसो मत्वर्थे। इति सूत्रे यशस्वानिति भाष्यो. दाहरणादिति भावः । नम्वीत्यत्र 'प्रश्वः इति षत्वमाशयाह-किन्नन्तस्वा. दिति । पामयस्येति । आमयशब्दात् मत्व| विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृवृन्दाभ्या. मिति । फलबर्हाभ्यामिति । हृदयाच्चालुरन्यतरस्यामिति च । वार्तिकत्रयमिदम् । मतुप्चेति । वक्तव्य इति शेषः, भाष्ये तथोक्तत्वात्। चुटू इति चकारस्येसज्ञा। अन्यतरस्यां ग्रहणाच्चालोरभावे इनिठनौ। समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेमतुबपि । तथा. चात्र चत्वारः प्रत्ययाः । तदाह-हृदयालुरित्यादि । 'शीतोष्णतृप्रेभ्यः तम्न सहते' इति वार्तिकमर्थतः सगृहणाति-शीतेति । शीत, उष्ण, तृप एभ्यः द्वितीयान्तेभ्यः न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृपः पुरोढाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमाच्चेलुरिति । वार्तिकमिदम् । हिमशब्दात् द्वितीयान्तात् न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । वलादूल इति । तत्र सहते हत्यथें वक्तव्य इति शेषः । वातासमूहे चेति । षष्ठयन्ताद्वातशब्दात् समूहेऽथे, द्वितीयान्तात् न. सहते इत्यर्थे च, उलप्रत्ययो वाच्य हत्यर्थः । तपर्वमरुद्भयामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप वक्तव्य इत्यर्थः । तन्वक्तव्य इति वृत्तित् , हरदत्ताच । प्रौढमनोरमायां तु निस्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसम्मतं नित्यमेव स्थापितम् । रूढत्वादन्यवावर्थाभावान मतु।
For Private and Personal Use Only
Page #885
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
छन्दसि इति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अहंशुभमोः-' (सू १९४६ ) इत्यत्रैवोर्णाग्रहणं कुर्यात् । (१९३०) वाचो ग्मिनिः ५।२।१२४॥ वाग्मी । (१९३१) आल जाटचौ बहुभाषिणि ५।२।१२५॥ 'कुत्सित इति वक्तव्यम्' ( वा ३२२३)। कुत्सितं बहु भाषते वाचालः वाचाटः । यस्तु सम्यग्बहुभाषते स वाग्मीत्येव । (१६३२) स्वामिन्नैश्वर्य पा२।१२६॥ ऐश्वर्यवाचका. स्वशब्दान्मत्वर्थे आमिनच् । स्वामी । (१९३३) अर्शमादिभ्योऽच् ५।२। १२७॥ अास्यस्य विद्यन्ते अर्शसः। आकृतिगणोऽयम् । (१९३४) द्वन्द्वोप. तापगोत्प्राणिस्थादिनिः ५।२।१२॥ द्वन्द्वः । कटकवलयिनी । शङ्खनुपुरिणी । उपतापो रोगः । कुष्ठी । किलासो। गा निन्यम् । ककुदावर्ती काकता. लुकिनी । प्राणिस्थात् किम् । पुष्पफलवान्घटः। 'प्राण्यङ्गान' । पाणिपादवती । 'अतः' इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् । ___ ऊर्णाया युस् । ऊर्णायुशब्दे 'यस्येति च' इति लोपमाशाह-सित्वादिति । अनु. वर्तयन्तीति । 'बहुलं छन्दसि' इत्यस्मादिति शेषः । वाचो ग्मिनिः । वाचशब्दात मत्वर्थे रिमनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः। अतद्धित इति पयुदा. सात् गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाशब्दात् रिमनिप्रत्यये कुत्वं, जश्त्वम् । प्रत्यये गकारोचारणं तु 'प्रत्यये भाषायाम्' इत्यनुनासिकाभावार्थम् । आलजाटचौ । वाचशब्दात् आलच , आटच् एतौ मत्वथें बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु, अकुत्सितं च यो वदति तत्रापि वाग्मीति कुतो न भवतीति वाच्यम् , 'यो हि सम्यग्बहु भाषते वाग्ग्मीत्येव स भवतीति भाष्यबलेन पूर्वसूत्रस्य सम्यक् बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः । स्वामिन्नश्वयें । ऐसयें इति प्रकृतिविशेषगमित्यभिप्रेत्याह-ऐश्वर्यवाचकादिति । आमिनजिति । निपात्यत इति शेषः । स्वामीति । स्वं ऐश्वर्य', तद्वानित्यर्थः । नियन्तेति यावत् । ऐश्वर्येत्युक्तर्धनवानित्यर्थे स्वामीति नाभवति । अर्शआदिभ्योऽच् । अर्शमशब्दः आदिः एषामिति विग्रहः । अर्शस इति । अर्शः गुदरोगविशेषः । द्वन्द्वोपताप। द्वन्द्वसमासात् उपतापवा. चकात् गर्थवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनिः स्यादित्यर्थः । द्वन्द्वेति उदा. हरणसूचनम् । कटकवलयिनीति । कटकवलययोः कश्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं-रोग इति। किलासः कुष्टभेदः । गमित्यस्य विवरण-निन्द्यमिति । ककुदावर्तीति । ककुद ग्रीवाया अधस्थात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सः अस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवान शरणम् ,
For Private and Personal Use Only
Page #886
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
(१९३५) वातातीसाराभ्यां कुक्च ५२।१२६॥ चादिनिः । वातको । अतिसारकी । रोगे चायमिष्यते । नेह । वातवती गुहा । 'पिशाचाच्च' (वा ३२२४)। पिशाचको ।(१९३६) वयसि पूरणात् ५।२।१३०॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्यै। मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चम्युष्टः । ठनादिबाधनार्थमिदम् । वयसि किम् । पञ्चमवान् प्रामः । (१९३७) सुखादिभ्यश्च ५।२।१३१॥ इनिर्मत्वर्थे । सुखी। दुःखी । 'माला क्षेपे' (ग० सू ११६) माली । (१९३०) धर्मशीलवर्णान्ताच्च ५।२।१३२॥ धर्मायन्तादिनिमत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशोखी। ब्राह्मणवर्णी । (१९३६) हस्ताज्जातो ५।२।१३३॥ हस्ती । जातौ किम् । हस्तवान्पुरुषः । (१४४०) वर्णाद्ब्रह्मचारिणि ५।। १३४॥ वर्णी । (१६४१) पुष्करादिभ्यो देशे ५२।१३५॥पुष्करिणी । पभिनी। देशे किम् । पुष्करवान्करी 'बाहुरुपूर्वपदावलात्' (वा ३२२५) बाहुबली । ऊरु. बली । 'सर्वादेश्वः (वा ३२२६ ) सर्वधनी । सर्वपीजी । 'अर्थाच्चासनिहिते ( वा एवंविधवार्तिकस्य भाष्ये अदर्शनात् । अत इत्येवेति । समासान्त इति सूत्रभाष्यरीत्या मण्डकप्लुत्या तदनुवृत्तेरिति भावः। चित्र कललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाभावादिनिनेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्ध पुनरिह इनिग्रहणं किमर्थमित्यत आह-सिद्धे प्रत्यये इति । ठनादीति । आदिना मतुपः सङ्ग्रहः।
वातातीसाराभ्यां कुक्च । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत, उकार उच्चारणार्थः। कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः। अतिसारकीति । अतीसाररोगवानित्यर्थः । रोगे चायमिति । व्याख्यानादिति भावः। रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याप्रती. तेरिनिकुको नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चे. त्यर्थः । वयसि पूरणात् । 'अत इनिठनावित्येव इनिसिद्धः किमर्थमिदमित्यत आहठनादिबाधनार्थमिति । सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरव, नतु ठनित्यर्थः । माला क्षेपे इति । सुखादिगणसूत्रमिदम् । धर्मशील । धर्माचन्तादिति। धर्म, शील, वर्ण एतदन्तादिनिरेवेत्यर्थः । हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव समुदायेन जातिविशेषे गम्ये इत्यर्थः । वर्णाद्ब्रह्मचारिणी । वर्णशब्दान्मत्वर्थे इनिरव समुदायेन ब्रह्मचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः ब्राह्मणादितत्तद्वर्णोचितवसन्तादिकालमुपनयनम् , सोऽस्यास्तोति विग्रहः । पुष्करादिभ्यो देशे। पुष्करशब्दान्मत्वर्थे इनिरव स्यात् देशे गम्ये । बाहुरुपूर्वपदाबलादिति । वार्तिकमिदम् । बाहु, अरु एतत्पूर्वपदकात् बलशब्दान्तान्म.
For Private and Personal Use Only
Page #887
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७:
सिमान्तकौमुदी
[तद्धिते मत्वर्थीय
३२२७) भो । सविहिते तु अर्थवान् । 'तदन्ताम्छ' (वा ३२२८)। धान्यार्थी। हिरण्यााँ । (१९४२) बकादिभ्यो मतुबन्यतरस्याम् पा-११३६॥ बल. वान्-बली । उत्साहवान्-उत्साही। (१९४३) संज्ञायां मन्माभ्याम् ५।२ १३७॥ मन्नन्तान्मान्ताच्चेनिर्मस्वथें । मन्-प्रथिमिनी। दामिनी । म-होमिनी । सोमिनी । संज्ञायाम् किम् । सोमवान् । (१६४४) कंशंभ्यां वभयुस्तितुतयसा ५।२।१३८॥ कम् , शम् इति मान्तौ । कम् इत्युदकसुखयोः। शम् इति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्यसोः सकारः पदत्वार्थः । कंव । कम्भः । कंयुः । कतिः। कंतुः। कंतः। कंयः। शंवः । शंभः । शंयुः। शंतिः । शंतुः। शंतः। शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिको वयो। (१६४५) तुन्दिवलिवटेभः ५।१३६॥ वृद्धा नाभिस्तुन्दिः । 'मूर्धन्योपयोऽयम्' इति माधवः । तुन्दिभः। बलिभः । वटिभः। पामादित्वादलिनोऽपि ।
त्वयं इनिरेवेत्यर्थः । सर्वादश्चेति । वातिकमिदम् । इनिरेवेति शेषः । अर्थाच्चासनिहिते इति । वातिकमिदम् । असन्निहितविषयकादर्थशब्दात् इनिरेवेत्यर्थः । श्री. ति । असन्निहितः अर्थः अस्येति विग्रहः । अर्थो नास्तीति यावत् । अत्र विरोधा. दस्तीति न सम्बध्यते । अर्थोऽसन्निहितोऽस्येत्यर्थे अप्राप्त एव इनिविधीयत इति कैयटः । प्रत्ययविधौ तदन्तविधिनिषेधादाह-तदन्ताच्चेति । अर्थशब्दान्तादपि इनि. वक्तव्य इत्यर्थः । ___ बलादिभ्यो । मतुबभावपक्षे सन्निहितः इनिरित्यभिप्रेत्योदाहरति-बलवान् बलीति। संज्ञायां मन्माभ्याम् । प्रथिमिनीति । 'पृथ्वादिभ्य इमनिज्वा' इमनिजन्तः प्रथिमन्. शन्दः । अन्न मनोऽनर्थकत्वेऽपि 'अनिनस्मन्' इति तदन्तविधिना इमनिजन्तोऽपि गृह्यते । प्रथिमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणडीपि प्रथिमिनीशब्दः। दामि. नीति । दामनशब्दादिनी टिलोपे डीविति भावः । मेति । मान्तोदाहरणसुचनमिदम् । होमिनि सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ डीबिति भावः। कंशंभ्याम् । व, भ, युस , ति, तु, त, यस् , एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । मत्वथें इति शेषः । पदत्वार्थ इति । अन्यथा कम् इत्यस्मात् युप्रत्यये यप्रत्यये च कृते भत्वात् पदत्वाभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति । बहब्रीहिः । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः। तुन्दिवलि । तुन्दि, वलि, पटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्व. सर्वम् । वटिभ इति । 'वट वेष्टने' वटनं वटिः सोऽस्यास्तीति विग्रहः । महशुभमोर्युस् ।
For Private and Personal Use Only
Page #888
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९]
बालमनोरमासहिता।
298
(१९४६) महशुभमोयुस् पा२।१५०॥ 'अहम्' इति मान्तमव्ययमहङ्कारे । शुभमिति शुभे । महयुः, अहङ्कारवान् । शुभयुः, शुभान्वितः । इति मत्वर्षीयाः।
अथ तद्धिते प्राग्दिशीयप्रकरणम् ॥ ३९ ॥ (१६४७)प्राग्दिशो विभक्तिम्पा३.१॥ दिक्छन्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्ययाः विभक्तिसंज्ञाः स्युः । अथ स्वार्थिकाः प्रत्ययाः। 'समर्थानाम् इति 'प्रथमात्' इति च निवृत्तम् । 'वा' इति स्वनुवर्तत एव । (१९४८) किंसर्वनामबहुभ्यो. ऽव्यादिभ्यः ५।३२॥ किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते । (१६४६) इदम् इश ५॥३३॥ प्राग्दिशीये परे । (१९५०) एतेतौ रथोः५। ३४॥ इदंशब्दस्य 'एत' 'इत्' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः । (१९५१) एतदोऽन् ५॥३५॥ योगविभागः कर्तव्यः । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्कयाह-अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति ।
इति तद्धिते पञ्चमाध्यायस्य द्वितीयपादे मवीयप्रकरणम् । अथ पञ्चमाध्यायस्य तृतीयपाद प्राग्दिशीयप्रारणं निरूप्यते । प्राग्दिशो विभक्तिः। दि. क्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह-दिक्छन्देभ्य इत्यत इति । ।विभक्तिसंशका इति । तत्फलं तु 'न विभक्तौ तुस्माः ' इति निषेधः, स्यदायत्वम् , इदम 'उडि. दम्पदादि' इति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः। तसिलादिवर्थनिर्देशाभावात् 'अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः । निवृ. त्तमिति । अनोपपत्तिः 'समर्थानाम्' इत्यत्रोक्ता। अनुवर्तत एवेति । व्याख्यानमेवान शरणम् । किं सर्वनाम । अनुयादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाहप्राग्दिशोऽधिक्रियत इति । विधेयानिदेशादधिकारोऽयमिति भावः । किमः सर्वनामत्वे. ऽपि द्वयादिपर्युदासात् पृथग्ग्रहणम् । द्वयादिषु किंशब्दपाठस्तु त्वं च कश्च को, अहं च कश्च को, इत्यत्र 'त्यदादीनां मिथः सहोक्को' इति किमः शेषत्वार्थः । अथ वक्ष्य. माणतसिलादिप्रत्यये परे कार्यविशेषानाह-इदम इश् इत्यादिना । इदम इश् । प्राग्दि. शीये परे इति शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात् सर्वादेशः । इत इत्युदा. हरणम् । एतेतौ रथोः । इदम् इत्यनुवर्तते । एतश्च हच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । सच तयोरिति द्वन्द्वः। रेफादकार उच्चारणार्थः। रेफथकाराभ्यां प्राग्दिशीयं प्रकरणसभ्यं विशेष्यते । 'यस्मिन्विधिः' इति तदादिविधिः। तदाह-इदं शब्दस्येत्या. दिना । तन्त्र रेफादौ परे एतः, थादौ तु इदिति यथासहाय बोध्यम् । एतर्हि, इत्थम् ।
For Private and Personal Use Only
Page #889
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Eo
सिद्धान्तकौमुदी
[तद्धिते प्राग्दिशीय
एतदः एतेती स्तो रथोः। 'अन्'। एतदः इत्येव । अनेकाल्त्वात्सवोदेशः । 'नलोपः प्रातिपदिकान्तस्य' (सू २३६) (१९५२) सर्वस्य सोऽन्यतरस्यां दि ५।३।६॥ प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् । (१९५३) पञ्चम्यास्तसिल ५.३७॥ पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्वा स्यात् । (१९५५) कुतिहोः ७।२।१०४॥ किमः कुः स्यात्तादी हकारादौ च विभको परतः । कुतः कस्मात् । यतः । ततः । अतः । इतः। अमुतः । बहुतः। दूघ्या
-
-
एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतदूशब्दस्य अन् स्यादित्यर्थः प्रतीयते । एवं सति एतच्छब्दस्य अनेव स्यात् । नत्वेतेतौ । तत्राह-योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् एतेतौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एताह, इत्थम् इत्युदाहरणम् । अन्निति द्वितीय सूत्रम् । एतद इत्येवेति । रथोः इति तु नानुवर्तते इति भावः । तथाच एतद इत्यस्य अन् स्यात्प्राग्दिशीये परे इत्यर्थः फलति । अतः अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायाम् अकारोऽन्तादेशः स्यादित्यत आह-अनेकात्वादिति । नकारस्य प्रयोजनाभावात् नेत्संज्ञा, नित्स्वरस्य प्रत्ययावष यत्वादिति भावः । तहि अत इत्यादौ नकारस्य श्रवणं स्यादित्यत आह-नलोप इति । सर्वस्य सोऽन्यतरस्यां दि । दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् । 'यस्मिन्विधिः' इति तदादिविधिः । तदाह-प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् । तदेवं तसिलादिप्रत्ययेषु प्रा. ग्दिशीयेषु परेषु कतिपयान् आदेशान विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते । ___ पञ्चम्यास्तसिल । किमादिभ्य इति । किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति । 'समर्थानाम्' इत्यतो वाग्रहणस्यानुवृत्तेरिति भावः । कुतिहोः। कु इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः इत्यनुवर्तते । 'अष्टन आ' इत्यतो विभक्ताविति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः। ताभ्यां विभक्तिविशेष्यते । तदादिविधिः तदाह-किमः कुः स्यादित्यादिना । कुत इति । किशब्दात् पञ्च. म्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः । तसिलादयः प्राक् पाशपः' इत्युक्तेरव्य. यत्वम् । वेत्यनुवृत्तेः फलमाह-कस्मादिति । तिहोरित्युक्तरत्र न कुभावः । सर्वनाम्न उदाहरति-यत इति । यदशब्दात् पञ्चम्यन्तात् सुब्लुक, तसिलो विभक्तित्वात् तस्मिन्परे त्यदाधत्वं पररूपम् । एवं तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतदूशब्दात् पञ्चम्यन्तात् तसिल्, सुब्लुक्, एतदोऽन् , सर्वादेशः, नलोपः। पक्षे एतस्मादिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात् तसिल, सुब्लुक्, इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात् पञ्चम्य.
For Private and Personal Use Only
Page #890
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९ ]
बालमनोरमासहिता ।
ಬಿದ
,
देस्तु द्वाभ्याम् । (१६५५) तसेच ५|३|० ॥ किंसर्वनामबहुभ्यः परस्य तसे - स्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् । ( १६५६ ) पर्यभिभ्यां च ५|३|६|| आभ्यां तसिल् स्यात् । ' सर्वोभयार्थाभ्यामेव ' ( वा ३२४० ) । परितः सर्वत इत्यर्थः । अभितः उभयतः इत्यर्थः । ( १६५७) सप्तम्यास्त्रल् ५|३|१०|| कुत्र । यंत्र । तत्र । बहुत्र । (१४५८) इदमोहः ५|३|११|| त्रलो ऽपवादः । इशादेशः । इह । ( १६५६ ) किमोत् ५|३|१२|| वाग्रहणमपकृ. ध्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् । पक्षे । त्रल् । (१६६०) क्वाति ७।२। १०५ ॥ किमः क्कादेशः स्यादति । क । कुत्र । (१६६१) वा ह च च्छन्दसि ५|३|१३|| 'कुछ स्थः' | ' कुछ जग्मथुः । ( १६६२) एतदस्त्रतसोत्रतसौ चानुदात्तौ २|४| ३३ ॥ अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतोः
न्तात् तसिल, उत्वमत्ये च । पक्षे अमुष्मादिति भवति । बहुत इति । पक्षे बहुभ्य इति भवति । द्वयादेस्विति । सर्वनामत्वात् प्राप्तस्तसिल् द्वयादिपर्युदासान्नेत्यर्थः । तसेश्च । परस्य तसेरिति । ' प्रतियोगे पञ्चम्यास्तसिः' 'अपादाने चाहीयरुहो:' इति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल् किमर्थमित्यत आह-स्वरार्थमिति । लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वाद्यर्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वात् विभक्तित्वाभावात् त्यदाद्यत्वादिकं न स्यादित्यर्थः । पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वातिकमिदम् । परिषिञ्चति अभिषिचति इत्यादौ वाग्रहणात् पक्षे न तसिल् ।
सप्तम्या । किमादिभ्यः सप्तम्यन्तेभ्यः अद्वयादिभ्यस्त्र लित्यर्थः । कुत्र इत्यादिरूपाणि कृत इत्यादिवत् । इदमो हः । इदंशब्दात् सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः । किमोत् । अपकृष्यत इति । 'वा ह च छन्दसि' इत्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् । न विभक्ताविति निषेधस्तु न भवति, 'तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते' इति वार्तिकात् । क्वाति । क्व अतीति छेदः । क्वेति लुप्त प्रथमार्क 'क्रिमः कः' इत्यतः किम इत्यनुवर्तते । तदाह- किमः क्वेति । किंशब्दात् सप्तम्यन्तात् अत्प्रत्ययः तकार इत्, किमः कादेश इति भावः । कुत्रेति । अत्प्रत्ययाभावपक्षे त्रलि 'कु तिहोः' इति कुभावे रूपम् । केचित्तु 'किमोडत्' इत्यत्र उत्तरसूत्राद्वाग्रहणापकर्षे प्रमाणाभावात्त्रलं बाधित्वा नित्य एव अत्प्रत्ययः, कुत्रेति स्वपशब्द एवेत्याहुः । वा ह च छन्दसि । हेति लुप्तप्रथमाक्रम् । किमः सप्तम्यन्तात् हृप्रत्ययः स्यादित्यर्थः । चादत् त्रल् च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयम् । तथापि वाग्रहणस्य पूर्व सूत्रे अपकर्षज्ञानायात्र तदुपन्यासः । एतदस्त्रवसोः । 'इदमोs ५६ बा०
For Private and Personal Use Only
Page #891
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
सिद्धान्तकौमुदी
[तद्धिते प्राग्दिशीय
परतः, तो चानुदात्तौ स्तः । एतस्मिन्प्रामे सुखं वसामः। अतोऽत्राधीमहे । अतो न गन्तास्मः । (१६६३) इतराभ्योऽपि दृश्यन्ते ५।३।१४॥ पञ्चमीसप्तमीत. रविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । 'दृशिप्रहणाद्भवदादियोग एव' ( वा ३२४४ )। स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवानांप्रियः। आयुष्मान् । (१९६४) सर्वकात्यकियत्तदः काले दा ५।३।१५॥ सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् सर्वस्मिन्काले । सदा। सर्वदा। एकदा। अन्यदा । कदा। यदा। तदा । काले किम् । सर्बत्र देशे (१९६५) इदमो हिल ५।३।१६॥ सप्तम्यन्ता(काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे। (१४६६) अधुना ५।३।१७॥ इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे अधुनाप्र. त्ययः स्यात् । इश् । 'यस्य-' (सू ३११) इति लोपः। अधुना। (१.६७) दानी च ५।३॥१८॥ इदानीम् । (१९६८) तदो दा च ५।३१॥ तदान्वादेशे' इत्यस्मात् अन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह-अन्वादेशेत्यादिना । अतोऽत्रेति । एतदूशब्दात् बलि प्रकृतेरशादेशे अत्रेति रूपम् । अतो न गन्तास्म इति । एतस्माद्ग्रामादित्यर्थः । एतदूशब्दात्तसिल प्रकृतेरशादेशः । 'एतदोऽन्' इत्येव सिद्ध अनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन तसोरनुदात्तत्वं सिद्ध. मिति शङ्कयम् , लित्स्वरापवादे अशोऽनुदात्तत्वे कृते लित्स्वराप्राप्त्या प्रत्ययस्व. रेण तसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् । इतराभ्योऽपि दृश्यन्ते । पञ्चमीसप्तमीतरविभक्तिभ्योऽपोत्यर्थः। फलितमाह-पञ्चमीसप्तमीतरविभक्त्यन्तादपीति । किमा. देरिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घायुरित्याधुह्यमित्यर्थः ।
सर्वैकान्य । सप्तम्यन्तेभ्य इति । सर्वादिभ्य इति शेषः । सप्तम्या इत्येवानुवर्तते, व्याख्यानादिति भावः । सदा सर्वदेति । 'सर्वस्य सोऽन्यतरस्यां दि' इति सभावि. कल्पः । कदेति । किशब्दात् दाप्रत्यये सति तस्य 'किमः कः' इति कादेशः । इदमो हिंल । इदमः हिल् इति छेदः । एतहीति । इदम्शब्दात् हिल , 'एतेतो रथोः इत्येता. देशः । अधुना । 'इदम' इति 'सप्तम्या' इति 'काले' इति चानुवर्तते । तदाह-दम इति । इशिति । 'इदम इश' इत्येनेति शेषः । अधुनेति । इयदितिवत् प्रत्ययमानं शि. ब्यते । पठन्ति चाभियुक्ताः 'उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ॥" इति वयाकरणीमौपनिषदीं च प्रक्रियामाश्रित्य प्रवृत्तो द्वयर्थोऽयं श्लोकः । दानी
For Private and Personal Use Only
Page #892
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९]
बालमनोरमासहिता।
तदानीम् । 'तदो दावचनमर्थकं, विहितत्वात्। ( वा ३२४३ ) (१९६६) अन. द्यतने हिलन्यतरस्याम् ५३॥२१॥ कर्हि-कदा । यहि-यदा । तर्हि-तदा । एकस्मिन्काले एतर्हि । (१९७०) सद्यः परुत्परायैषमः परेघव्यद्यपूर्वारन्येधुरन्यतरेधुरितरेयुरपरेहारधरेघुरुभयेधुरुत्तरेयुः । ५।३।२२॥ एते निपात्यन्ते । 'समानस्य सभावो द्यस् चाहनि' (वा ३२४५) समानेऽहनि सद्यः । 'पूर्वपूर्वतरयोः परादेशः, उदारी च प्रत्ययौ संवत्सरे (वा ३२४६)। पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि । 'इदमः ( इश् ) समसण' प्रत्ययश्च संवत्सरे ( वा ३२४७) । अस्मिन्संवत्सरे ऐषमः । 'परस्मादेद्यव्यहनि' (व। ३२४८) । परस्मिन्नहनि परेचवि । 'इदमोऽश्भावो यश्च' (वा ३२४९) अस्मिन्नहनि अद्य । 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च ( वा ३२५० ) पूर्वस्मिन्नहनि पूर्वेद्यः । भन्यस्मिनहनि अन्येयुः । उभयोरहोरुभय द्युः । 'युश्चोभयाद्वक्तव्यः' (वा ३२५१)। उभययुः । (१९७१) प्रकारवचने थाल् ५।३।२३ ॥ प्रकारवृत्तिभ्यः किमा.
च । इदमः सप्तम्यन्तात् कालवाचिन: स्वाथें दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दात् दानींप्रत्ययः, इश् । तदो दा च। सप्तम्यन्तात्कालप्रवृत्तेः तशब्दात् दाप्रत्ययाः, दानींप्रत्ययश्च स्यादित्यर्थः। तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति । 'सर्वैकान्य' इत्यनेनेति शेषः । अनद्यतने हिल। अनद्यतनकाल. वृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्य हिल्प्रत्ययो वा स्यादित्यर्थः । पने दाप्रत्ययः । एतस्मिन्काले एतहीति । एतदूशब्दात् हिल् । 'एतद' इति योगविभागात् रेफादौ एतादेशः।
सद्य:परुत् । 'समानस्य समावो यस् चाहनि' इति भाष्यवाक्यमिदम् । अहवृत्तः समानशब्दात् सप्तम्यन्तात् धस्प्रत्ययः । समानस्य सभावश्च निपात्यत इत्य. थः । सद्यः समानेऽहनीत्यर्थः । 'पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे' इत्यपि भाष्यवाक्यम् । उच्च आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययो संवत्सरे अभिधेये । इदमः ( इश् ) समसण' इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत् , सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । 'परस्मादेवव्यहनि इत्यपि भाष्यवाक्यम् । सप्यम्यन्तात् एद्यविरिकान्तः प्रत्ययः । इदमोऽशभावो यश्च' इत्य. पि भाष्यवाक्यम् । सप्तम्यन्तात् अकारान्तो धप्रत्ययः। पूर्वान्यान्यतरेतरापराध. रोभयोत्तरेभ्य एद्युस् च' इत्यपि भाष्यवाक्यम् । प्रकारवचने थाल । पञ्चम्यथें सप्त. मीत्याह । प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको विशेषः प्रकारः। यथा बहुभिः
For Private and Personal Use Only
Page #893
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
दिभ्यस्थास्यात्स्वार्थे । तेन प्रकारेण तथा । यथा। (१६७२) इदमस्थमः ५। ३१२४॥ थालोऽपवादः । 'एतदो वाच्यः' (वा ३२३५) । अनेन एतेन वा प्रकारेण इत्थम् । (१९७३) किमश्च ५.३।२५ ॥ केन प्रकारेण कथम् ।
इति तद्धिते प्राग्दिशीय प्रकरणम् । अथ तद्धिते प्रागिवीयप्रकरणम् ॥४०॥ (१६७४) दिकछब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्व. स्ताति: ५।३।२७ ॥ सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् । (१९७५) पूर्वाधरावराणामसि पुरधवश्चैषाम्। ५।३।३६॥ एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात् , तद्योगे ऋषी क्रमात् 'पुर 'अध्' 'अ' इत्यादेशाः स्युः। (१४७६) अस्ताति च ५।३।५० ॥ अस्तातौ प्रकारैर्भुङ्क्ते इति विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्यते सर्वथेत्यादौ तदप्र. तीतेः । तेन प्रकारेणेत्यनन्तरं विशिष्ट इति शेषः । 'यथा हरिः तथा हरः' इत्यादौ यत्प्रकारवान् हरिः तत्प्रकारवान् हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेः थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चार गार्थः। मकारस्य उपदेशे अन्त्यस्वाभावान्नेत्त्वम् । यद्यपि 'न विभक्तौ' इति निषेधादेव मस्येत्त्वं न भवति। तथापि तदनित्यत्वज्ञापनार्थ मकारोच्चारणमित्याहुः । इत्थमिति । एतेतौ रथोः' इति प्रकृते. रिदमः इदादेशः । एतच्छब्दात् थमुप्रत्यये तु 'एतद' इति योगविभागात् इदादेशः । किमश्च । प्रकारवृत्तस्थमुरिति शेषः । कथमिति । 'किमः कः इति कादेशः।
इति तद्धिते प्राग्दिशीयानां विभक्तिसम्ज्ञकाना पूर्णोऽवधिः । अथ प्रागिवीयप्रकरणमारभ्यते । दिक्छब्देभ्यः । सप्तम्याधन्तेभ्य इति। सप्तमीपञ्चमीप्र. थमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः। तकारान्तः प्रत्ययः । 'सङ्ख्याया विधार्थ धा' इति सूत्रपर्यन्तमिदं सूत्रमस्यातिवर्जमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्या. नात् । पूर्वाधरावराणाम् । असीति लुप्तप्रथमाकम् । पुर अध, अव एषां द्वन्द्वात्प्रथ. माबहवचनम् । प्रस्तात्यर्थे इति । दिग्देशकालवृत्तिभ्य इत्यर्थः । प्रस्ताति च । अस्ता. तीति लुप्तसप्तमीकम् । अस्तातीति तकारान्तात् सप्तम्येकवचनं वा । 'पूर्वाधराव. राणामिति 'पुरधव' इति चानुवर्तते । तदाह-अस्ताप्ताविति । यद्यपि सूत्रक्रमे 'पूर्वाधर' इति 'अस्ताति च' इति च 'सङ्ख्याया विधार्थे' इत्यतः प्राक् पठितम् । तथापि अस्तातो पुराधादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्र
For Private and Personal Use Only
Page #894
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता ।
परे पूर्वादीनो पुरादयः म्युः। पूर्वस्याम्-पूर्वस्याः-पूर्वा वा दिक् । पुरः-पुर. स्तात् । अधः-अधस्तात् । अवः। (१९७७) विभाषाऽवरस्य ५।३।४१ ॥ भवरस्यास्तातो परेऽव: स्याद्वा। अवस्तात्-अवरस्तात् । एवं देशे काले च । दिशि रूढेभ्यः किम् । ऐन्द्रयो वसति । सप्तम्याद्यप्तेभ्यः किम् । पूर्व ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन्गुरौ वसति । 'अस्ताति च' (सू १९७६ ) इति ज्ञापकादसिरस्ताति न बाधते। (१६७८) दक्षिणोत्तराभ्यामतसुच ५।३। २८ ॥ अस्तातेरपवादः । दक्षिणतः, उत्तरतः । (1898) विभाषा परावराभ्याम् ५।३।२६ ॥ परतः। अवरतः । परस्तात् । अवरस्तात् । (१६८०) अञ्चेलक ५।३।३०॥ अञ्चत्यन्ताद्दिश्छन्दादस्ताते कस्यात् । 'लुक्तद्धितलुकि' (सू १४०८ ) । प्राच्या प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च। (१९८१) उपर्युपरिष्टात् ५।३।३१ ॥ अस्तातेविषये ऊर्वशब्दस्योपादेशः स्यात् , रिल् रिष्टातिलौ च प्रत्ययौ। उपरि-उपरिष्टाद्वा वसति, आगतो, रमणीयं वा । (१४८२) पश्चात् ५।३।३२ ॥ अपरस्य पश्वभाव आतिश्च प्रत्य. दर्शनाय 'पूर्वाधर' इत्यपि सूत्रमिहेवोपन्यस्तम् । पुर इति । पूर्वाशब्दात् असिप्र. त्ययः प्रकृतेः पुर आदेशः । पुरस्तादिति । पूर्वाशब्दात् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः । अधः, अधस्तादिति । अधरशब्दात् असिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अब इति । अवरशब्दात् असिप्रत्यये प्रकृतेः अव आदेशे रूपम् । विभाषाऽवरस्य । 'अस्ताति च' इति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह-प्रवरस्येति । एवमिति । पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । तनु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेष. विहितेन बाधः स्यादित्यत आह-प्रस्ताति चेतीत्यादि । ____ दक्षिणोत्तराभ्याम् । दिग्देशकालवृत्तिभ्यामिति शेषः । दक्षिणतः, उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु । दिग्वतित्वे तु 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वेनैव दक्षिणतः इत्यादि सिद्धमिति वाच्यम् , स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु अकारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिद्धमित्याहुः । समा. नकालीनमित्यादिवत् पुरत इति प्रामादिकमेवेति बहवः । विभाषा। अतसुजिति शेषः । पक्षे अस्तातिः । अचेलृक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषया अस्तातेलुन् । उपर्युपरिष्टात् । 'ऊर्ध्वस्य उपभावा रिलप्रत्ययो रिष्टातिल्प्रत्ययश्च' इति भाष्यम् । तदाह-अस्तातेविषये इत्यादिना । वसति, प्रागतो, रमणीयं वेति । विभक्तित्रयस्य यथा
For Private and Personal Use Only
Page #895
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
योऽस्तातेविषये । (१९८३) उत्तराधरदक्षिणादातिः ५।३।३४ ॥ उत्तरात् । अधरात् । दक्षिणात् । (१९८४) एनबन्यतरस्यामदूरेऽपञ्चम्याः ५।३। ३५ ॥ उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चमी विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः। इह केचिदुत्तरादीनननुवयं दिक्छ. ब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण प्रामम् । (१४८५) दक्षिणादाच ५३१३६ ॥ अस्तातेविषये । दक्षिणा वसति । अपञ्चम्याः इत्येव । दक्षिणादागतः । (१९८६) आहि च दूरे ५।३।३७ ॥ दक्षिणाद्रे आहि स्यात् । चादाच् । दक्षिणाहि-दक्षिणा। (१४८७) उत्तराच्च ५।३।३८॥ उत्तयहिउत्तरा। (१४८८) संख्याया विधार्थ धा ५३।४२ ॥ क्रियाप्रकाराथें वर्तमा. नात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा पञ्चधा। (2858) मधिकरणवि. चाले च ५।३।४३ ॥ द्रव्यस्य संख्यान्तरापादेन संख्याया धा स्यात् । एक राशि
सड्डयमुदाहरणम् । पश्चात् । 'अपरस्य पश्चभावः, आतिश्च प्रत्ययः' इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः । उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । एनबन्यतरस्याम् । 'अपञ्चम्या इति प्रागसेः' इति भाष्यम् । सूत्रक्रमे 'पूर्वाधर' इत्यासि वक्ष्यति । ततः प्रागित्यर्थः। उत्तरादिभ्य इति । उत्तराधर. दक्षिणादित्यनुवर्तत इति भावः । अदूरे इत्येतद्वयाचष्टे-अवध्यवधिमतोः सामीप्ये इति । 'पञ्चमी विनेति । पञ्चम्यन्तान भवतीत्यर्थः । यथास्त्रमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः। दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम् , व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः । दक्षिणादाच् । अस्तातेर्विषये इति । एतेन अदूरे इति नानुवर्तत इति सूचितम् । एवंच आच्प्रत्यये, 'उत्तराधरदक्षि. णा'दित्यातिप्रत्यये, दक्षिणोत्तराभ्याम्' इत्यतसुचि च त्रीणि रूपाणि। आहि च दूरे। दक्षिणाशब्दादिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणी. ति भावः । उत्तराच्च । आच् आहि चेति शेषः । अतपुचा आतिना च चत्वारि रूपाणि।
सङ्ख्याया विधार्थे धा। विधाशब्दस्यार्थः प्रकारः विधार्थः। 'विधा विधौ प्रकारे च' इत्यमरः । सामान्यस्य भेदको विशेष प्रकारः। स चाभिधानस्वाभावात् क्रिया. 'विषयक एवं गृह्यते । तदाह-क्रियाप्रकारेति । चतुर्धा पञ्चधेति । गच्छतोत्यादिक्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः। नवधा द्रव्यमित्यादावपि भवतीत्यादि क्रियापदमध्याहार्यम् । अधिकरणविाले च । अधिकरणं द्रव्य, तस्य विचालः विचालनं सहयान्तरापादनम् । तदाह-द्रव्यस्येति । सहयान्तरापादनं च
For Private and Personal Use Only
Page #896
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
८८७
पञ्चधा कुरु । (१६४०) एकाद्धो ध्यमुअन्यतरस्याम् ५।३।३४॥ ऐकध्यम्एकधा । (188) द्वियोश्च धमुज ५।३।४। ॥ आभ्यां 'धा' इत्यस्य धमु. अस्याद्वा। द्वैधम्-द्विधा । धम्-त्रिधा । 'धमुमन्तात्स्वार्थे डदर्शनम्' (वा ३२३० ) पथि द्वैधानि । (१९६२) एधाच्च ५।३।४६ ॥ द्वेधा । त्रेधा। (१९६३) याप्ये पाशप ५।३।१७ ॥ कुत्सितो भिषक् भिषक्पाशः । (१६६४) पूरणाद्भागे तीवादन् ५।३।४८॥ द्वितीयो भागो द्वितीयः। तृतीयः । स्वरे विशेषः। 'तीयादीकस्वार्थे वा वाच्यः' (वा २६९१)। द्वैतीयीक:-द्वितीयः । ताीयोकः-तृतीयः । 'न विद्याया। (वा २६९२ )। द्वितीया, तृतीया विद्यत्येव । (१६४५) प्रागेकादशभ्योऽछन्दसि ५।३।४६॥ पूरणप्रत्ययान्ताद्भागेऽन् । न्यूनसहन्यस्य अधिकसङ्ख्याकरणम् अधिकसहयस्य न्यूनसहन्याकरणं च । आये उदाहरति-एक राशि पञ्चधा कुर्विति। द्वितीये तु अनेकमेका कुर्वित्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते, नतु क्रिपाप्रकार इति सूत्रारम्भः । एकाद्धो ध्य मुज. न्यतरस्याम् । एकात्धः इति छेदः। धाशब्दस्य ध इति षष्ठयेकवचनम् । एकशब्दा. त्परस्य धाप्रत्ययस्य ध्यमुनादेशः स्यादित्यर्थ । ऐकध्यमिति । नच एकशब्दात् ध्य. मुश्प्रत्ययः स्वतन्त्रो विधीयताम् । नतु धाप्रत्ययस्यादेश इति वाच्यम् , तथा सति अधिकरणविचाल एव सनिहितत्वादापत्तेः। द्वित्रोश्च धमुज। षष्ठी पञ्चम्यर्थे । 'ध' इति 'अन्यतरस्यामिति चानुवर्तते । तदाह-आभ्यामिति । परस्येति शेषः । धमुञन्ता. दिति । वार्तिकमिदम् । दृशिग्रहणात् कचिदेवायम् । पथि द्वैधानीति । तृणानीति शेषः । द्वैधमित्यस्मात् डप्रत्यये टिलोपे रूपम् । नव तसिलाइयः प्राक् पाशपः' इति डप्रत्य. यान्तस्याप्यव्ययत्वं शश्यम् , स्वभावतः सत्त्ववचनत्वेनाव्ययत्वासम्भवात् 'द्वैधा. नि' इति भाष्यप्रयोगाच्च । एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्य एधाजित्या. देशः स्यादित्यर्थः । ‘पञ्चम्यास्तसिल्' इत्यारम्भ 'एधाच्च' इत्यन्तै विहितप्रत्यया. न्तानामव्ययत्वम् । याप्ये पाशप । याप्यः। कुत्सितः 'निकृष्ट प्रतिकृष्टाव रेफयाप्याव. माधमाः इत्यमरः । कुत्सिते विद्यमानात् स्वार्थे पाशप् स्यादित्यर्थः। प्रवृत्तिनिमि. त्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये स्पष्टम् ।
पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्तात् भागे विद्यमानास्वाथै अन् स्यादि. त्यर्थः । अन्विधेः प्रयोजनमाह-स्वरे विशेष इति। 'नित्यादिनित्यम्' इति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदम् 'दृष्टं साम' इति सूत्रभाष्ये स्थितम् । न विद्याया इति। वार्तिकमिदमपि तत्रव स्थितम् । विद्यावृत्तः तायप्रत्ययान्तादीका
For Private and Personal Use Only
Page #897
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदो
[तद्धिते प्रागिवीय
चतुर्थः । पञ्चमः । (१886) षष्टाष्टमाभ्यां च ५३५०॥ चादन् । षष्ठो भामः पाठः-षष्ठः । आष्टमः-अष्टमः। (१88) मानपश्वङ्गयोः कन्लुको च ५।३।५१ ॥ षष्ठाष्टमशब्दाभ्यो क्रमेण कन्लुको स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः-प्राष्टः, अष्टमः-आष्टमः। महाविभाषया सिद्धे लुग्वचनं पूर्वत्र आनी नित्याविति ज्ञापयति । (१885) एकादाकिनिच्चासहाये ५।३। ५२ ॥ चात्कन्लुको । एकाकी-एककः-एकः । (288) भूतपर्व चरट् ५।३ ५३ ॥ आढ्यो भूतपूर्व आढ्यचरः। (२०००) षष्ठया रूप्य च ५।३।५४ ॥ षष्ट्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याचरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः-- ष्णचरः। तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः। नेत्यर्थः । प्रागेकादशभ्यः। शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्तात् भागे अनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमि. त्यभिप्रेत्योदाहरति-चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्कयम् , तस्य छन्दस्यपि प्रवृत्त्यर्थत्वात् । षष्ठाष्टमाभ्यां न च । पूर्वसूत्राविषये इति शेषः । ति लुप्तप्रथमाकम् । ने आदिवृद्धिः । चादनिति । इह न यथासढयम् , व्याख्यानात् । मान. पश्वङ्गयोः । अस्य अनो वेति । अष्टमशब्दात्पूर्वसूत्रविहितस्य अप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । अप्रत्ययः अन्प्रत्ययश्चेत्यर्थः । ननु 'सम. र्थानाम्' इत्यतो वाग्रहणानुवृत्त्यैव जानोरभावे सति पश्वङ्ग अष्टमो भाग इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्कयाह-महाविभाषयेति । पूर्वत्र ति । 'षष्ठाष्टमाया अच' इति सूत्रे इत्यर्थः। एवं षष्ठाष्टमाभ्यां शब्दाभ्यां आनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः । एकादाकिनिच्चासहाये । असहायवाचकादेकशब्दा. स्वाथें आकिनिच्प्रत्ययः स्यादित्यर्थः । भूतपूर्व चरट । भूतपूर्वे वर्तमानात्प्रातिपदि. कात् स्वार्थे चरट् स्यादित्यर्थः । षष्ट्या रूप्य च। रूप्येति लुप्तप्रथमाकम् । भूतपूर्व इत्यनुवर्तते । षष्ठयन्तात् भूतपूर्वेऽर्थे इति । भूतपूर्वेऽथें विद्यमानात् षष्ठयन्तादित्यन्वयः भूतपूर्व इत्यनुवृत्तं हि श्रुतत्वात् षष्ट्या विशेषणम् । भूतपूर्व सम्बन्धे या षष्ठी तद. न्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसम्बन्धी गौरित्यर्थः। शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशय 'तसिलादयः प्राक् पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्त. र्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह- तसिलादिष्वित्यादि। शुभ्राया भूतपूर्व इति । गौरिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासम्बन्धी गौरित्यर्थः ।
For Private and Personal Use Only
Page #898
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता।
EES
(२००१ ) अतिशायने तमविष्ठनौ ५३।५५ ॥ अतिशयविशिष्टार्थवत्तेः स्वाय एतौ स्तः । अयमेषामतिशयेनाढयः माढयतमः। लघुतमो लषिष्ठः । (२००२) तिङश्च ५।३।५६॥ तिङन्तादतिशये द्योत्ये तमप्स्यात् । (२००३) तरप्तमपौ घः १११२२ ॥ एतो घसंज्ञौ स्तः । (२००४) किमेतिङव्यय. घादाम्बद्रव्यप्रकर्षे ५।४।११ ॥ किम एदन्तात्तिोऽव्ययाच्च यो घस्तदन्ता
अतिशायने । अतिपूर्वकः शीधातुरुपसर्गवशादुत्कर्षे वर्तते। उत्कर्षवचाधिक्य. फलको न्यक्कारः, नत्वाधिक्यमात्रम् , तथा च सति अकर्मकत्वापातात् । न चेष्टा. पत्तिः, तथा सति 'शुक्लमतिशेते शुक्लतः, कृष्णमतिशेते कृष्णत:' इत्यादिभाष्यविरोधात् । अतिशयिता अतिशायिनः, बाहुलकः कर्तरि ल्युट् इंति भाष्यम् । अत निपातनादीर्घः । अतिशायने इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात् प्रातिपदिकात् स्वार्थे तमप् इष्टन च स्यादित्यर्थः। फलितमाह-अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्या. पत्तौ शुक्लतरादिशब्दात् शुक्लादिगतमतिशयनमिति बोधः स्यात् । नत्वतिशयित. शुक्ल इति । तथाच शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् । अतिशायने वर्तमानादित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यात् , न तु पटवादिभ्यः । अति. शयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः। अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधु!इत्यस्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादो वक्ष्येते।। अतः परिशेषाद्वहनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढय इति । द्रव्यस्य जातेर्वा स्वतः प्रकर्षयोगो नास्ति, अन्यथा घटतम इत्याद्यापत्तेः । किन्तु गुणद्वारैव द्रव्यजात्योः प्रकर्षयोगः । तथा च आढ्यतम इत्यत्र उत्कर्षविशिष्टः आढ्यः प्रकृत्यर्थः । तमस्तु तद्योतकः । तमपि सति 'सुपो धातु' इति सुपो लुक् , 'घकालतनेषु' इति योगेन सुबन्तादेव तद्धितोत्पत्तक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभि. धानान्न भवति । 'श्रेष्टतमाय कर्मणे' इति तु छान्दसमिति भाष्ये स्पष्टम् । लविष्ठ इति । लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौ टे" इति टिलोपः । तिङश्च । अत्राप्रातिपदिकत्वादप्राप्ते वचनम् । तमप् स्यादिति । 'अजादी गुणवचना. देव' इति नियमादिष्ठन्नानुवर्तत इति भावः ।।
तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, पितो घः तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तर ज्ञापयति । तस्य आतिशायनिकरणबहि तस्य सत्त्वे तत्सङ्ग्रहणार्थ प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पान्तरम्' 'लोपश्च बलवत्तरः।
For Private and Personal Use Only
Page #899
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
दामुः स्याम तु द्रव्यप्रकर्षे । किन्तमाम् । प्राढेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः । (२००५) द्विवचनविभज्योपपदे तरबीयसुनौ ५।३।५७ ॥ द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेती स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः-लघीयान् । उदीच्याः इत्यादि सिद्धम् । किमेत्तिव्यय। आमु इति छेदः । उकार उच्चारणार्थः । किम् , एत्, ति, अव्यय एषां चतुर्णा द्वन्द्वः । 'किमेत्तिङव्ययप्रकृतिको घः' इति मध्यमप. दलोपी समासः । फलितमाह-किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किंतमामिति । अत्यन्तस्वार्थिकोऽयं तमप, नत्वतिशायने। एषामतिशयेनाढय इतिवदेषामतिशयेन क इति विग्रहस्यासम्भवात् । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । किंशब्दश्च न जात्याद्यन्यतमप्रवृत्तिनिमित्तकः । एवं चात्रातिशयस्याप्र. तीतेव्यप्रकर्षों दुरापास्त इति भावः । प्राहृतमामिति । प्राणः पूर्वाहणः । 'प्राहाप. राहमध्याह्नाः त्रिसन्ध्यम्' इत्यमरः। अतिशयिते पूर्वाहणे इत्यर्थः । पूर्वावयवगत. प्रकर्षादलः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम् । सूर्योदयादारभ्य सूर्यास्तमयावधि. कस्यैव कालस्य अहन् शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिता पाकक्रियेत्यर्थः । तिङन्तेषु क्रियाविशे. व्यकबोधस्यैव 'प्रशंसायां रूपप्' इति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एव प्रकर्षा नतु द्रव्यस्येति भावः । उच्चस्तमामिति । आशंसतीत्यध्याहार्यम् । अति. शयेन उच्चैराशंसनादिक्रियेत्यर्थः। अत्रापि क्रियाया एवं प्रकर्षो न तु दव्यस्य । उच्चैस्तमस्तरुरिति । अतिशयेन उच्चस्तरित्यर्थः । अत्र उच्चस्त्वप्रकषस्य तरौ द्रव्ये भानादाम् नेत्यर्थः। किन्तमामित्यादौ 'यस्येति च' इति लोपं परत्वात् बाधित्वा हस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन् 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुड विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् ।
द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोवंचनं द्विवचनम् । द्वयर्थप्रतिपादक मिति यावत् । न द्विवचनसंज्ञकमिह गृह्यते व्याख्यानात् । विभक्तव्यं विभज्यम् । 'ऋहलोः इति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। व्यर्थप्रतिपादके विभक्तव्य. विषयके च उपपदे सतीति फलितम् । प्रातिपदिकादिति तिक इति चानुवर्तते । सुब. न्तात्तद्धितोत्पतिरिति सिद्धान्तात्पुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते । फलित. माह-द्वयोरेकस्येत्यादिना । द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्ट स्वार्थवृत्तेः विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वाथें तरबीयसुनौ स्त इति यावत् । यद्य
For Private and Personal Use Only
Page #900
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
८१
-
प्राच्येभ्य पटुतरा:-पटोयांसः। (२००१) मजादी गुणवचनादेव ५।३। ५८॥ इष्ठन्नीयसुनौ गुणवचनादेव स्तः। प्रथिष्ठः-प्रथीयान् । नेह । पाचक. तरः-पाचकतमः । (२००७) तुश्छन्दसि । ५।३।५४ ॥ तृन्तृजन्तादिष्ठन्नी. यसुनौ स्तः । (२००८) तुरिष्ठेमेयःसु ६।४।१५४ ॥ तृशब्दस्य लोपः स्यात् एषु परेषु । अतिशयेन कर्ता करिष्ठः । दोहोयसी धेनुः । (२००४) प्रशस्यस्य प्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम् , व्याख्यानात् । अथ द्विवचनोपपदे उदाहरति-अयमनयोरिति । अत्र उपोच्चारितं पदम् उपप. दम् , नतु कृत्रिमम् , तद्धितविधौ तदसम्भवात् धात्वधिकार एव तत्प्रवृत्तेरुतत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तो तु गतार्थत्वान्नावश्यकम् । लघोयानिति । ईयसुनि नकार इत् , उकार उच्चारणार्थः, उगित्त्वान्नुम् , 'सान्त' इति दीर्घः, हल्ल्यादिसंयोगान्तलोपौ। अथ विभज्योपपदे उदाहरति-उदीच्या प्राव्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तु दन्ताः स्निग्ध. तराः इति न सिध्येत् । 'बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठः, अयं मे मध्यमः अयं मे कनीयान्' इति आद्यन्तवत्सूत्रस्थभाष्यप्रयोगात् 'नैदेशिकानां वार्ततरकाः इति तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः । अजादी । तरप्तमपौ इष्टन्नीयसुनौ चेति चत्वारः प्रत्ययाः अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः। तदाह-इष्ठन्नीयसुनाविति । पाचकतर:-पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठनीयसुनौ नेति भावः । गुणवचनादजादो एवेति विपरीतनियमव्यावृत्यर्थ एवकारः । तेन पटुतरः पटुतमः इत्यादि सिद्धम् ।
तुश्छन्दसि । तृ इत्यस्य तुरिति पञ्चम्येकवचनम् । तृ इत्यनेन तृन्तृवोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह-तृन्तृजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात् प्राप्त्यर्थमारम्भः। एवञ्च पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन् प्रत्यये कर्तृ इष्ठ इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्ते । तुरिष्ठेमेयः । तृ इत्यस्य तुरिति षष्ट्येकवचनम् । एग्विति । इष्टन् , इमन् , ईयस् इत्येतेष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्य टेः' इत्येव सिद्धेः। करिष्ठ इति । अयमनयोरतिशयेन कर्तेत्यर्थः। दोहोयसी धेनुरिति । इयमनयोरतिशयेन द्रोग्धीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे डीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताभावात् 'दादेः' इति घत्वस्य निवृत्ती उगित्त्वात् डीपि दोहोयसीति रूपम् । 'पुगन्त' इति गुणस्तु न निवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।
For Private and Personal Use Only
Page #901
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मह२
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
m
श्र: ५।३।६० ॥ अस्य श्रादेशः स्यादजाद्योः (२०१०) प्रत्येकाच ६।४। १६३ ॥ इष्टादिष्वेकाच्प्रकृत्या स्यात् । श्रे:-श्रेयान् । । २०१२) ज्य च ।।३। ६१॥ प्रशस्यस्य ज्यादेशः स्यादिष्टेयसोः । ज्येष्ठः । (२०१२) ज्यादादीयसः ६४।१६० ॥ 'आदेः परस्य' (सू ४४ ) ज्यायान् । (२०१३) वृद्धम्य च ५.३१६२ ॥ ज्यादेशः स्यादजाद्योः ज्ये४:-ज्यायान् । (२०१४) अन्तिक. बाढयोनंदसाधौ ५।६ ॥ अजाद्योः नेदिष्ठः-नेदीयान् । साधिष्ठः-साधायान् । (२०१५) स्थूल दुग्युहम्वभिप्रश्नद्राणां गणादिपरं पूर्व । च गुणः ४१६॥ एषो यणादिपरं लुप्यते, पूर्वस्य च गुण इष्टादिषु । स्थावष्ठ ।
-
। प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । अजादी इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुणवचनत्वाभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र इष्ठ, श्र ईयस्त इति स्थिते इष्ठेमेय सु विहित. टिलोपे प्राप्ते । प्रकृत्येकाच् । एकः अच् यस्येति बहुवाहिः। इष्ठादिष्विति । 'तुरिष्ठे. मेयासु' इत्यतः तदनुवृत्तरिति भावः। 'अल्लोपोऽनः, नस्तद्धिते, यस्येति च, टे:' इत्यादेरेतत्प्रकरणस्थलोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठ श्रेयानिति । अयमनयोरतिशयेन प्रशस्य इत्यर्थः । ज्य च 'ज्य' इति लुप्तप्रथमाकम् । प्रशस्यस्येति अजादी इति चानुवर्तते । तदाह - प्रशस्यस्येति ज्येष्ठ इति 'प्रकृत्यैकाच' इति प्रकृतिभावान्न टिलोपः । ईयसुनि ज्यादेशे ज्येयानिति प्राप्ते। ज्यादादी सः । ज्यात् , आत् इति छेदः । ज्यात् परस्य ईयमा आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह-प्रादेः परस्येति । वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे-ज्यादेशः स्यादजाद्योरिति । इष्टत्रीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरतिशयेन वृद्ध इत्यर्थः । अन्तिक. बादयोः । मजायोरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोरिष्ठेयसुनोः: परतः नेद, साध एतावादेशौ स्त इत्यर्थः । नेदिष्ठः नेदीयानिनि अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयानिति । अयमनयोरतिशयने बाढ इत्यर्थः । बाढो भृशः। भृ. शप्रतिज्ञ' यो ढम्' इत्यमरः । 'अतिवेलभृशात्यतिमात्रोद्दाढनिर्भरम्' इति च ।
स्थूलदूर । एषामिति । स्थूल, दूर, युवन् , हम्ब, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण आदिर्यस्येति विग्रहः । परमिति यणादीत्यस्य विशेषणम् , परभूतं यणादीत्यर्थः । लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घन. न्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्यासम्भवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृ. तेरिति भावः । स्थविष्ठ इति । स्थूलशब्ददिष्ठनि ल इत्यस्य लोपे उकारस्य गुण ओ.
For Private and Personal Use Only
Page #902
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.
४०
बालमनोरमासाहता।
८६३
-
दविष्ठः । यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्टः । एवम् ईयस । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् । हसिमा । क्षेपिमा क्षोदिमा। (२०१६) प्रियस्थिरस्फिरोरुबहुलगुम्वद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फाबहिगर्वर्षिचन्द्राघिवृन्दा: हा४१.. ॥ प्रियादोनो क्रमात्पादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राषिष्ठः । वृन्दिवः। एवमीयसुन् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात प्रेमा इत्यादि । (.०७) बहोर्लोपो कारः, अवादेश इति भावः । ओगुणस्तु न प्रवर्तते, यणादिलोपस्याभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति युवनशब्दादिष्टनि वन्नित्यस्य लोपे उकारस्य गुणे अवादेशः । परमित्यनुक्तौ यु इत्यस्यापि यणादेर्लोपः स्यात् । हसिष्ठ इति । हस्वशब्दादिष्ठनि व इत्यस्य लोपः । परमित्यनुक्तौ अत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपे इकारस्य गुणः । 'इको गुणवृद्धी' इत्युक्तेः न पकारस्य गुणः । क्षोदिष्ठ इति । क्षुद्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयस् इति । स्थवी. यान , देवीयान , यवीयान् , हसीयान, क्षेपीयान् , क्षोदीयान् । इमनिजनुवृत्तेः प्रयो. जनमाह-हम्वक्षिप्रति ।
प्रियस्थिर प्रियादीनामिति । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक एषां दशानामित्यर्थः । प्रादय इति। 'प्र, स्थ, रूफ, वर, बंहि, गर , वषि, त्रप, द्राधि, वृन्द एते दशेत्यर्थः । इष्ठादिष्विति । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठेमेयासु' इत्यतः तदनुवृत्तेरिति भावः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । आभो. यत्वेनासिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । आद्गुणः । स्थेष्ठ इति । स्थिरगब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति। स्फिरशब्दम्य इष्ठनि स्फादेशः। वरिष्ठ इति । उरुशब्दात् इष्ठनि वर आदेशः । बहिष्ठ इति बहल शब्दस्य बंहि इत्यादेशः । इकार उच्चारणार्थः । अन्यथा आभीयत्वेना. सिद्धत्वात् उच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि गर् आदेशः । वषिष्ठ इति । वृद्धशब्दस्य इष्ठनि वषिरादेशः बंहिवदिकार उच्चारणार्थः । वापिष्ठ इति । तृप्रशब्दस्य इष्ठनि अप आदेशः अदुपधः । तृपधातो. स्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः। द्रापिष्ट इति । दीर्घशब्दस्य इनि दाधिरा. देशः । बंहिवदिकार उच्चारणार्थः। वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि वृन्द आदेशः। अकार उच्चारणार्थः । एवमीयसुन्निति । प्रेयान , स्थेयान् , स्फेयान् , वरीयान् , बंही. यान् . गरीयान् , वर्षीयान् , पीयान् , द्राधीयान् , वृन्दीयान् । अत्र इमनिजनुवृत्तः प्रयोजनमाह-प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राधिमा।
For Private and Personal Use Only
Page #903
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
भू च बहोः ६४१५८ ॥ बहोः परयोरिमेयसोर्लोपः स्यादहोश्च भूरादेशः । भूमा-भूयान् । (२०१८) इष्ठस्य यिट् च ६४।१५६ ॥ बहोः परस्य इटस्य लोपः स्यात् यिडागमश्च । भूयिष्टः । (२०१६) युवाल्पयोः कनन्यतरस्याम् ५।३।६४॥ एतयोः कनादेशो वा स्यादिष्ठेयसोः। कनिष्ठः कनीयान् । पक्षे यविष्ठः अल्पिष्ठः इत्यादि । (२०२०) विन्मतालुंक ५।३।६५ ॥ विनो मतुपश्च लुक्स्यादिष्ठेयसोः । अतिशयेन स्रग्वी, स्रजिष्टः-स्रजीयान् । अतिशयेन त्वग्वान् , त्वचिष्ठः-त्वचीयान् । (२०२१) प्रशंसायाम् रूपपू ५।३।६६॥ सुबन्ता. तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । (२०२२) बहोर्लोपः। भू इति लुप्तप्रथमाकम् । इष्ठेमेयरिस्वत्यनुवृत्तम्। तत्र इष्टन उत्तरसूत्रे कार्यान्तरविधनादिह तस्य न सम्बन्धः। तदाह-बहो: परयोरिति । 'आदेः परस्य' इति प्रत्यययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात् पृथ्वादित्वादिमनिचि प्रकृतेभभावः, प्रत्ययादेरिकारस्य लोपश्च । भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । पुल्यवाचकात् बहुशब्दादीयमुनि प्रकृतेभूभावः, प्रत्ययादेरिकोरस्य लोपश्च। भूभावस्याभीयत्वेनासिद्धत्वादोर्गुणो न भवति । इष्ठस्य थिट च । लोप: स्यादिति । 'आदेः परस्य इति बोध्यम् । यिटिटकार इत्। इष्टस्यादिलोपे कृते यिडागमः। ट इत् । टित्त्वात् प्रत्ययस्याद्यवयवः । बहोभूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम्।
युवाल्पयोः । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवनशब्दादिष्ठनि स्थूलदूर' इति वनो लोपे उकारस्य गुणे अवादेशे रूपम् । अल्पिष्ठ इति। अल्पशब्दादिष्ठनि टिलोपः। इत्यादीति । यवीयान् , अल्पीयानिति रूपद्वयमादिपदग्राह्यम् । विन्मतोलक । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । स्रजिष्ठ इति । स्रग्विनशब्दादिष्ठनि विनो लुकि तन्निमित्त. पदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः । एवं स्त्रजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दा. दिष्ठनि मतुपो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः। एवं त्वची. यान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ । प्रशंसाया रूपप । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् । तिङश्च' इत्यनुवृत्तम् , प्रातिपदिकादिति च । 'घकाल' इत्यादि. लिङ्गात् सुबन्तादिति लभ्यत इति भावः । प्रशंसाविशिष्टे स्वार्थ वर्तमानात् तिङन्ता. त्सुबन्ताच्च रूपबिति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अद भाष्ये 'क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नाम' इति सिद्धान्तितम् । पचतोरूपं पच
For Private and Personal Use Only
Page #904
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
ईषदलमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७ ॥ ईषदूनो विद्वान्विद्वत्करुपः । यशस्कल्पम् । यजुष्कल्पम् । विद्वद्देश्यः। विद्वद्देशीयः । पचतिकरूपम् । (२०२३) विभाषा सुपो बहुचपुरस्तात्तु ५।३।६८ ॥ ईषदसमाप्तिविशिष्टे. ऽर्थे सुबन्ताबहुज्वा स्यात्स च प्रागेव, न तु परतः ईषदून: पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् । (२०२४) प्रकारवचने जातीयर तिरूपमित्यत्र च न द्विवचनबहुवचने । तिच द्वित्वबहुत्वयोरक्तत्वात् । एकवचनं तु उत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकात् इत्यपि भाष्ये स्पष्टम् ।।
ईषदसमाप्तौ । ईषदसमासिविशिष्टेऽर्थे विद्यमानात् सुबन्तात् स्वार्थे कल्पप्, देश्य, देशीयर् एते प्रत्ययाः स्युरित्यर्थः । विद्वत्कल्प इति । इषन्न्यूनवैदुष्यवानित्यर्थः । यशस्कल्पमिति । असम्पूर्ण यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । अस. म्पूर्ण यजुरित्यर्थः । 'इणः पा' इति षत्वम्। विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानि. त्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्र स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते। इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असम्पूर्णा पाकक्रियेत्यर्थः । पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्पः इयं गौरित्यादावपि प्रकृतिलि. गत्वं बोध्यम् । 'क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति वचनात् गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । विभाषा । ईषदसमासावित्यनुवर्तते । तदाह-ईषदसमाप्तिविशिष्ट इति प्रागेवेति । सूत्रे तुशब्दोऽव. धारणे इति भावः । बहुपटुरिति । पटुशब्दात् सुबन्तात् प्राक् बहुचि कृते प्रातिपदिका. वयवत्वात् । सुपो लुकि समुदायात् पुनः सुबुत्पत्तिः ।
नच तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्नसुविशिष्टस्य प्रातिपदि. कत्वाभावात् कथमिह लुगिति वाच्यम् , 'अर्थवत्' इत्यनेन तस्य प्रातिपदिकत्वसत्वात् पटुरित्यस्य पूर्वोत्पन्नसुष्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तस्वाभावात् प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति 'कृत्तद्धिता इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम् , पदघटितसङ्घातस्य चेत् प्रातिपदिकमंज्ञा तहि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुविशिष्टस्य कथं प्रातिपदिकत्वम् असमासत्वादिति वाच्यम् , यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्यु. पगमात् इति प्रागुक्तं न विस्मर्तव्यम् । न च 'समर्थानामिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम् , बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया 'अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति रिति सिद्धान्तात् बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वानिरवकाशत्वं
For Private and Personal Use Only
Page #905
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
-
५।३।६६ ॥ प्रकारवति चायम् , थाल् तु प्रकारमात्रे। पटुप्रकारः। पटुजातीयः (२०२५) प्रागिषात्कः ५।३।७० ॥ 'इवे प्रतिकृती' (सू २०५१) इत्यतः प्राक्काधिकारः । (२०२६) अव्ययसर्वनाम्नामकच्प्राक्टेः ५।३।७१ ॥ 'तिब्श्व' ( स २००२ ) इत्यनुवर्तते। (२०५७) कस्य च द: ५।३।७२ । कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च । (२०२८) अशाते ५।३।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । 'ओकारसकारभ. शवयम् , तेषां तिडन्ते सावकाशत्वात् इति भाष्ये स्पष्टम् । एतदभिप्रेत्याह-पटु. कल्प इति । ननु सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुग्रहणं व्यर्थमिति पृच्छतिसुपः किमिति । तिश्चेत्यनुवृत्तिनिवृत्त्यर्थ सुग्रहणम् । नच अस्वरितत्वादेव तदनुवृ. तिर्न भविष्यति इति वाच्यम् , 'अव्ययसर्वनाम्नाम्' इत्याधुत्तरसूत्रे तिश्चेत्यनुवृ. तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याहयजतिकल्पमिति । तुग्रहणं तु 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते, क्वचिदतिव. तन्ते' इति ज्ञापनार्थम् इति भाष्ये प्रपञ्चितम् ।।
प्रकारवचने । 'प्रकारवचने थाल्' इत्यतोऽस्य वैलक्षण्यमाह-प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः। थाल तु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम् , अविशेषात् । अन्यथा तथेत्यत्र सः प्रकारः इत्येवार्थ: स्यात् । नच किमा. दिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात् तज्जातीयः इत्यासिद्धिरिति वाच्यम् , 'जात्यन्ताच्छ बन्धुनि' इति तज्जात्यादिशब्दात् छप्रत्ययेनैव तज्जातीयादिसिद्धः। अत एव यथाजातोयक इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु भत्र प्रकार: भेदः, थाल्विधो सामान्यस्य भेदको विशेषः प्रकार इत्याह । वामनस्तु सादृश्यं भेदश्चेत्युभययपि प्रकार इत्याहुः।
प्रागिवात्कः । इवशब्दस्तद्धटितसूत्रपर इति मस्वाह-इवे प्रतीति । अव्ययसर्वनाम्नाम् । अनुवर्तत इति । मण्डूकप्लुत्येति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच्प्रत्यय: स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः। चकार इत् ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः । कस्य च दः। पूर्वसूत्रे 'अव्ययसर्व. नाम्नाम्' इति समासनिर्देशेऽपि एकदेशे स्वस्तित्वप्रतिज्ञाबलात् अव्ययमहणमेवात्रा. नुवर्तते । कस्य इत्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेना. व्ययस्य विशेषणात् तदन्तविधिः । तदाह-कान्ताव्ययस्येति । अकच्चेति । चकारेण तद. नुकर्षादिति भावः । एतेन अकच्सन्नियोगशिष्ट एवार्य दकारः इत्युक्तं भवति । अय. मपि प्रागिवादधिकारः। अज्ञाते । अज्ञातेऽथें विद्यमानात् सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच् स्यात् । तत्रापि ककारा.
For Private and Personal Use Only
Page #906
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
18७
NAVAJA
कारादौ सुपि सर्वनाम्नष्टेः प्रागकच , भन्यत्र तु सुबन्तस्य टेः प्रागकच् । ( वा ३२८४) युवकयोः । आवकयोः । युष्मकासु। अस्मकासु । युष्मकाभिः । अस्मकाभिः। ओकार-इत्यादि किम् । स्वयका मयका । 'अच्प्रकरणे तूष्णीमः को वक्तव्यः' (वा ३२८५) मित्त्वादन्त्यादचः परः। तूष्णीकामास्ते । 'शीले को मलोपश्च' (वा ३२८६)। तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत्. । ( २०२8) कुत्सिते ५।३।७४॥ कुत्सितोऽश्वोऽश्वकः । (२०३०) न्ताध्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वा. भिनयोऽयम् । अज्ञातोऽश्व इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्राग. कच् । सर्वके विश्वके इति ।
ननु 'अव्ययसर्वनाम्नाम्' इति सूत्रे सुपः इत्यनुत्तो सुबन्तानां सर्वनाम्नां टेः प्रामकजिति फलितम् । तथा सति युवयोः, आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिः, इत्यत्र सुबन्तानां टेः प्रागकचि युवकयोः आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिः, इति न स्युः। युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिः, इति स्युः। यदि तु सुप इत्यननुवयं प्रातिपदिकादित्येवानुवयं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् , तोह स्वयका मयकेति न स्यात् । स्वकया, मकया इति स्यादित्यत आह--प्रोकारेति । चातिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच् , अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्र. विषयकमेव, भाष्ये तथैवोदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच् , नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एव विभक्तौ परतो विहितः किमः क आदेश: साकच्कार्थः । क को के' इति भाष्यं सङ्गच्छते। त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकवि तु त्वकया मकयेति स्यादिति भावः । कां वक्तव्य इति । काम् प्रत्यय इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्यादर्शनात्। किंतु मित्त्वादागम एवायम् । तदाहमित्वादिति । अकचोऽपवादः। तूष्णकिामिति। तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः । शीले इति । इदमपि वातिकम् । तूष्णीम् इत्यव्ययात् कप्र. त्ययः स्यात् मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति हस्वो न भवति। 'अव्ययसर्वनाम्नाम्' इत्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह-पचतकीति । पचतीत्यत्र इकारात् प्रागकच् । ककारादकार उच्चारणार्थः । अन्यथा इकारात्प्राक् अकच्प्रत्यये आद्गुणे पचतके इति स्यादिति भावः । जस्पतकीति । जल्पतीत्यस्य टेः प्रागकच ,
बा०५७
For Private and Personal Use Only
Page #907
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EE
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय -
संज्ञायां कन् ५।३।७५ ॥ कुत्सिते कन्तस्यात्तदन्तेन चेत्संज्ञा गम्यते । शूदकः । राधकः । स्वरार्थ वचनम् । (२०३१ ) मनुकम्पायाम् ५।३७६ ॥ पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः । (२०३२) नीतौ च तद्युक्तात् ५।३।७७ ॥ सामदानादिरूपा नीतिः । तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः। अनेन तु परम्परासम्बन्धेऽपीति विशेषः । (२०३३) बह्वचो मनुष्यनाम्नष्ठज्वा ५।३७ ॥ पूर्वसूत्रद्वयविषये । (२०३४) घनिलचौ च ५।३।७६ ॥ तत्रैव । धकिदिति । धिक् इत्यव्ययस्य टेः प्रागकच् , कस्य दश्च । हिरकुदिति । हिरुगित्यव्ययस्य टेः प्रागकच् कस्य दश्च । . ___ कुत्सिते । येन धर्मेण कुत्स्यते वस्तु तद्धर्मयुक्तार्थाभिधायिनः प्रातिपदिकात्स्वार्थ प्रत्ययः स्यादित्यर्थः । अव्ययसर्वनाम्नान्तु टेः प्रागकच , कान्तस्याव्ययस्य दकाररश्चान्तादेश इति बोध्यम् । तिङश्चेत्यप्यनुवर्तते । श्रश्वक इति । धावनस्य असम्य. क्त्वादश्वस्य कुत्सा बोध्या। सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि । 'याप्ये पाशप' इति प्रवृत्तिनिमित्तकुत्सायामेव भवति । इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्साया. मपि इति भाष्ये स्पष्टम् । संज्ञायां कन् । कुत्सिते इत्यनुवर्तते तदाह-क्लत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् । अनुकम्पायाम् । अनुकम्पायु. कार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा दया। नीतौ च तद्युक्तात् । सामदानादिति । आदिना भेददण्डयोग्रहणम् । तद्युक्तादित्येतद्वयाचष्टे - अनुकम्पायुतादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति । दास्यन्ते इति शेषः। हन्तेत्यव्ययमनुकम्पाद्योतकम् । 'हन्त' 'हर्षेऽनुकम्पायाम्' इत्यमरः । हन्तेत्यदन्तम् । हे पुत्रेति शेषः । अनुकम्पायुक्ता धाना इत्य. र्थः । धानाशब्दात् कप्रत्यये 'केऽणः' इति हस्वे कान्तात् टापि 'अभाषितपुंस्काच्च इति विकल्पात् पक्षे इत्त्वाभावः । एहकीति । एहीति तिङन्तस्य टेः प्रागकन् । 'अव्ययसर्वनाम्नाम्' इत्यत्र तिश्चेत्यनुवृत्तेरिति भावः। अद्धकीति । अद्धीति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धेऽपीति । पुत्रः साक्षादनुकम्प्यः तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।
बह्वचो मनुष्य। ठजिति च्छेदः । पूर्वसूत्रद्वयविषये इति शेषपूरणम् । 'अनुकम्पायाम्' इति 'नीतौ चातयुक्तात्' इति च सूत्रद्वयविषये बबचो मनुष्यनाम्नः प्रातिपदिकात् ठज्वा स्यादित्यर्थः । पक्षे कः । घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । बह्वच इति पूर्वसूत्रविषये इत्यर्थः । 'अनुकम्पायाम्। इति 'नीतौ च तद्युक्तात्' इति सूचत्र •
For Private and Personal Use Only
Page #908
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता ।
88
( २०३५ ) ठाजादावूर्ध्व द्वितीयादचः ५३।३॥ अस्मिन्प्रकरणे यष्ठोऽजातिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेद्वितीयादच ऊर्ध्व सर्व लुप्यते । अनुकम्पितो देवदत्तो देविक:-देवियः-देविल:-देवदत्तकः । अनुकम्पितो वायुदत्तः वायुकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । वायुकः-पितृकः । 'चतुर्थादच ऊर्धास्य लोपो वाच्यः' ( वा ३२९६ ) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' (वा ३२९७ ) देवदत्तकः-देवकः । 'लोपः पूर्णपदस्य च' (वा ३२९८ ) । दत्तिकः-दत्तियः-दत्तिलः-दत्तकः । द्वयविषये बह्वचो मनुष्यनाम्नः घन् इलच् एतौ च प्रत्ययावित्यर्थः । ठाजादौ। अस्मि. प्रकरणे इति । अनुकम्पायां, नीतौ च इत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमि. दम् । सर्वमिति । ऊर्ध्वग्रहणादि लभ्यते। अन्यथा 'आदेः परत्या इति परिभाषया द्वितीयोच यः परः तस्यादेरेव स्यादिति भावः। 'अजिनान्तस्योत्तरपदलोपश्व' इत्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह-लुप्यत इति । देविक इति । देव. दत्तशब्दात् ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम्। देविय इति । देवदत्तशब्दात् धनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाजाद्यभावान दत्तपदलोपः। वायुक इति । वायुदत्तशब्दात् दत्तशब्दस्य लोपः। उकः परत्वात् ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्ध ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । कृत एवं ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वात् लोपे कृते. ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्कयम् , 'टस्येकः' इत्यत्र स्थान्यादशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात् सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दात उचि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः। अथ
'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च ।
अप्रत्यये तथैवेष्टाउवाल्ल इलस्य च ।" इति वक्ष्यमाणश्लोकवातिकं भक्त्वा चतुर्थादच इत्येतन्याचष्टे-चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दात् उचि दत्तशब्दस्य लोपे ठस्य इकादेशः। द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् । अनजादौ वेति वातिक. भागं व्याचष्टे-अनजादौ च विभाषा लोपो वक्तव्य इति । अनजादौ चेति पाठे विभाषेति भाष्यलब्धम् , तत्र देवदत्तको देवक हति कप्रत्यये दत्तलोपविकल्पोदाहरणात् । लोपः
For Private and Personal Use Only
Page #909
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः' (वा ३२९९ ) देवदत्तः-दत्तःदेवः । सत्यभामा-मामा-सत्या। 'उवर्णा इलस्य च (वा ३३०३)। भानुः दत्तः-भानुलः । 'ऋवर्णादपि ( वा ५०५४ ) । सवित्रियः । सवितृलः ।
'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च ।
अपत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥' ( वा ३२९६-३३००)॥ (२०३६) प्राचामुपोदेरडज्युचौ च ५। ३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच वुच् एतौ स्तः। चाद्यथाप्राप्तम् । प्राचाग्रहणं पूजार्थम् । अनुकम्पितः उपेन्द्रदत्तः उपडः-उपक:-उपियःउपिल:-उपिकः-उपेन्द्रदत्तकः । षड्पाणि । (२०३७) जातिनाम्नः कन् ५।३।८१॥ मनुष्यनाम्नः इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कनस्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । 'द्वितीयं सन्ध्यक्ष पूर्वथदस्य चेति । विभाषेति शेषः । अनजादाविति तु नात्र सम्बध्यते । तदाह-दत्तिक इत्यादि । ठचि घनि इलचि के च रूपम् । अप्रत्यये तथैवेष्ट इति वातिकमागं व्याचष्टेविनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति । दत्तः देव इति । देवदत्तशब्दात् ठाजा. दिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति । ल इति लोपस्य पूर्वाचार्यसञ्ज्ञा । उवर्णात्परस्य इलचो लोप: स्यादित्यर्थः । 'आदेः परस्य' इति इका. रस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊर्ध्व लोपः सूत्रसिद्धः अनूद्यते । ऋवर्णाद. पीति । ऋवर्णादपि परस्य इलच आदेर्लोप: स्यादित्यर्थः। सबित्रियः सवितृन इति । धनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्यादृष्टत्वादुपेक्ष्यम् । तदेवं व्या. ख्यातं बार्तिके समस्तं पठति-चतुर्थादित्यादि।
प्राचामुपादेरडज्वुचौ च । पूर्व विषये इति । 'बह्वचो मनुष्यनाम्नः' इति सूत्रविषये इत्यर्थः। चाधथाप्राप्तमिति । ठच् , धन इलच्चेत्यर्थः। ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचांग्रहणं व्यर्थमित्यत आह-प्राचांग्रहणमिति । उपड इति । उपेन्द्रदत्तशब्दात् अडचि द्वितीयं सन्ध्यक्षरमिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् । 'नेन्द्रस्य परस्या इति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारा. दिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपोन। जातिनाम्नः कन् । जातिशग्दो य इति । यः जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः । 'अनुकम्पायाम् इति 'नीतौ इति च सूत्रद्वयविहितस्यापवादः । द्वितीयं सन्ध्यक्षरं चेदिति । 'एचः
For Private and Personal Use Only
Page #910
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता।
१०१
-
चेत्तदादेर्लोपो वक्तव्यः ( वा ३३०३ )। कहोडः कहिकः । 'एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः' ( वा ३३०६ )। वागाशीदत्तः वाचिकः । कथं षडङ्गुलि. दत्तः षडिक इति । षषष्टानादिवचनासिद्धम्। ( वा ३३०७) । (२०३८) शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ५।३।८४ ॥ एषां मनुष्यनाम्ना सन्ध्यक्षराणि' इति प्राचामाचार्याणां प्रवादः। कहोड इति । ऋषिविशेषस्य नामेदम् । पत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेलोपः । नतु तदूर्ध्वस्यैव । एकाक्षरेति । व्यञ्जनसहित एकोऽच् एकाक्षरं एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशग्दो यौगिकः, नतु समासस्य चरमावयवे रूढः व्याख्यानात् । द्वितीयादच ऊवं मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्त वचनमिदम् ।
वागाशीदत्त इति । वाचि आशीः यस्य नतु मनस्येव सः वागाशीः । तेन दत्त इति विग्रहः। यद्वा आशासनमाशीः, वाचा आशीः वागाशीः। 'कर्तृकरणे कृता' इति समासः। तया वागाशिषा दत्त इति विग्रहः । वाकरणकाशासनेन दत्त इत्यर्थः। वाचिक इति । वागाशीर्दत्तशब्दात् ठचि वागित्येकाक्षरपूर्वपदास्परयोराशीर्दत्तशब्द. योर्लोपे सति अन्तर्वतिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेव पदत्वबाधानिवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात् प्राक् डावस्थायामेव उत्तरपदलोपे कर्तव्ये असिद्धत्वान्न पूर्व कुत्वादिप्रवृत्तिरित्याहुः। यद्यपि द्वितीयादच ऊर्ध्वस्य शीदत्तशब्दस्य लोपे वागा इक इति स्थिते 'यस्येति च' इत्या. कारलोपे उक्तरीत्या कुत्वजश्त्वयोः निवृत्तौ वाचिक हति सिध्यति । तथापि आका. रलोपस्य स्थानिवत्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्य अव्याघातात् कुत्वजश्त्वयोः वागिक इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकया भसज्ञया 'सुप्तिङन्तम्। इति पदसज्ञा बाध्यते, एकसज्ञाधिकारे परत्वादिति भावः । कथमिति। अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितमत्वेन पदत्वाभावात् जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊर्वस्यैव लोपः, न त्वयमुत्तरपदलोप इति वचनात् षडिक इति सिद्धमित्यर्थः । एवञ्च षडगुलिदत्तः इत्यत्र डकाराकारादूर्ध्वस्य लोपे सति डकाराकारस्य 'यस्येति च' इति लोपे सति तस्य स्थानिवत्त्वेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाव्याघाताजश्त्वं निर्वाधमिति भावः । स्पष्टं चेदं स्वादिषु' इति सूत्रे भाष्ये।
शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्थमन् एतत्पूर्वपदकानामित्यर्थः ।
For Private and Personal Use Only
Page #911
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
ठाजादौ परे तृतीयादचः सर्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवल. दत्तः शेवलिक:-शेवलियः-शेवलिलः । सुपरिकः । विशालिकः। वरुणिकः मयं. मिकः । (२०३६) अजिनान्तस्योत्तरपदलोपश्च ५।३।२ ॥ अजिनान्ता. न्मनुष्यनाम्नोऽनुकम्पायो कन् । तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः । (२०४०) मल्पे ५।३१॥ अल्पं तैलं तेलकम् । (२०४१) हम्वे ५।३।६॥ ह्रस्वो वृक्षो वृक्षकः । (२०४२) सज्ञायां कन् ५।३।८७ ॥ ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायो कन् । पूर्वस्यापवादः । वंशकः। वेणुकः । (२०४३) कुटीशमीशुण्डाभ्योरः ५३८॥ ह्रस्वा कुटी कुटीरः। शमीरः । शुण्डारः। (२०४४) कुत्वा डुपच ५।३।८8 ।। ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ।' इत्यमरः । (२०४५) कासूगोणीभ्यां ष्टरच ५।३।१०। आयुधविशेषः कोसूः। ह्रस्वा सा कासूतरी। गोणीतरी। (२०४६) वत्लोक्षाश्वर्षभेभ्यश्च तनुत्वे ।। पूर्वस्येति । 'टाजादौ' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्तशब्दात् ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः। शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तश. उदात् ठचि दत्तशब्दकोपः । विशालिक इति । विशालदत्तशब्दात् ठचि रूपम् । वरुणिक इति । वरुणदत्तात् वरुणिकः । अयमिक इति । अर्यमदत्तात् अर्यमिकः । 'अकृतसन्धीना. मेषाम् इति वातिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिकः, इत्यादि सिध्यति । अजिनान्तस्य । व्याघ्रक इति । व्यावाजिन इति कस्यचिन्मनुष्यस्य नाम । तस्मात् कनि अजिनकस्य लोपः। सिंहक इति । सिंहाजिनशब्दात् कनि अजिनस्य लोपः । अल्पे । अल्पत्वविशिष्टे वर्तमानात् यथाविहितं प्रत्ययाः स्युः । तैलकमिति। सर्वकम् उच्चकैः पचतकीत्याद्यप्युदाहार्यम् । हस्वे । हस्वत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः। अल्पत्वं महत्त्वप्रतिद्वन्द्वि, हस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः । सञ्चायां कन् । वंशक ति । हस्वस्य वेणुजातिविशेषस्य नाम । कुटीशमी । ह्रस्व इत्येव । कुटीर इति । 'स्वार्थिकाः कचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । हस्वा शमी शुण्डा चेत्यर्थः । कुत्वा डुपच । कुतुप इति । कुतूशब्दात् दुपचि डित्त्वाहिलोपः । तत्रापि कुटीरादिवत् स्त्रीत्वमपहाय पुंस्त्वमेव । तत्रामरकोश. मपि प्रमाणयति-कुतूः कृत्तीति । __कासूगोणीभ्यां ष्टरच। हस्व इत्येव । कास्तरीति । षित्त्वात् वीषिति भावः । कासुबुद्ध कुवाच्येऽस्त्रे' इति नानार्थरत्नमालायाम् । एवं गोणीतरीति । वत्सोक्ष। हस्व इति निवृत्तम् । वत्स, उक्षन् , अश्व, ऋषभ एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः
For Private and Personal Use Only
Page #912
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता ।
४०३
8 : वत्सतरः। द्वितीयं वयः प्राप्तः । उक्षतरः। अश्वतरः । ऋषभतरः। प्रवृत्तिनिमित्ततनुत्व एवायम् । (२०४७) किंयत्तको निर्धारणे द्वयोरेकस्य डतरच ५।३1४२ ॥ अनयोः कतरो वैष्णवः । यतरः । ततरः। महाविभाषया कः । यः। सः। २०४८) वा बहनां जातिपरिप्रश्ने डतमच ५।३।६३॥ बहूनां मध्ये निर्धारणे डतमज्वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे। स्यादित्यर्थः । तनुत्वं न्यूनत्वम् । वत्सः प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् उत्तखयःप्राप्त्या ज्ञेयम् । तदाह-द्वितीयं वयः प्राप्त इति । उक्षतर इति । उक्षा तरुणा बलीवदः । तारुण्यस्य तनुत्वं तृतीयवयः-प्राप्त्या ज्ञेयम् । अश्वतर इति । गभेन अश्वायामुत्पादितः अश्वतरः। अश्वतरत्वं च अश्वत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभः भारस्य वोढा। तस्य तनुत्वं भारोतहने मन्दशक्तिता तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह - प्रवृत्तिनिमित्ततनुस्ते एवायमिति । एतच्च भाष्ये स्पष्टम् ।
किंयत्तदो निर्धारणे । किम् , यत् , तत् एषां समाहारद्वन्द्वात्पञ्चमी। द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यः डतरच् स्यादित्यर्थः। अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन किंशब्दार्थः इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दात् डतरचि डिस्वाहिलोपे कतर इति भवति । एवं यश. ब्दात् तदशब्दाच्च उतरचि टिलोपे यतरः ततरः इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतरः इत्यत्र किमादिभ्यो न भवति । वा बहूनाम् । कियत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहना. मिति निर्धारणे षष्ठी । तदाह-हूनां मध्ये निरिणे डतमज्वा स्यादिति । मध्ये इत्य. नन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । जातो परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषा. मेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणम् , तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम् । असम्भवादिति वृत्तौ स्पष्टम् । अत्र वातिकम् -'किमादानां द्विबह्वथे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति पूर्व. सूत्रे द्वयोरिति' अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव इति कैयटः । तदाह-जातिपरिप्रश्ने इति प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिधानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच 'कतमः एषां पाचकः शूरो देवदत्तः' इत्यत्र क्रियागुणसञ्ज्ञाभिरपि निर्धारणे डतमच् भवति । 'एषां कतरो देवदत्तः' इत्यत्र बहूनामेकस्य निर्धारणे डताच भवति । अत एव 'प्रत्ययः' इति सूत्र. भाष्ये 'बहुष्वासीनेषु कश्चित् कञ्चित्पृच्छति कतरो देवदत्तः' इति प्रयोगः सङ्गच्छते ।
For Private and Personal Use Only
Page #913
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
-
कतमो भवतो कठः । यतमः। ततमः। वारग्रहणमकजर्थम् । एकः। सकः । महाविभाषया कः, यः, सः । किमोऽस्मिन्विषये इतरजपि । कतरः। (२०४६) एकाच्च प्राचाम् ५।३।६४॥ डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः। (२०५०) अवक्षेपणे कन् ५।३।५॥ व्याकरणकेन गर्वितः। येने. तरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुत्सिते' (सू २०२९) इत्यस्य।
इति तद्धिते प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणम् ॥४१॥ (२०५१) इवे प्रतिकृतौ ५।३।१६॥ कन्स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः । (२०५२) संज्ञायां च ५।३।१७॥ इवाथै कन् स्यात्समुदायश्चेत्संज्ञा। अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा
कतमो भवतां कठ इति । 'गोत्रं च चरणैः सह' इति कठस्य जातित्वम् । वाग्रहणम कजर्थमिति । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच 'अव्ययसर्वनाम्नाम्' इत्यस्याधिकारत्वात् तदनुवृत्त्येक सिद्ध वाग्रहणं व्यर्थमेवेति वाच्यम् , इहैव सूत्रे तदनुवृत्तिः, नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्ये 'क एतयोरर्थयोविशेषः' इति प्रयोगः सङ्गच्छते । 'तमबादयः प्रागवक्षे. पणकनो नित्याः प्रत्ययाः' इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति । 'वा बहू. नाम्। हति प्रकृतसूत्रविषयेऽपोत्यर्थः, बहुष्वासीनेषु इत्याद्यदाहृतभाष्यप्रयोगादिति भावः । एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे-डतरच डतमच्च स्यादिति। पूर्वसू. अद्वयविषये इति शेषः । 'महाविभाषयैव सिद्धे प्राचामहणं न कर्तव्यम्। इति भाष्यम् । अत एव नाकजर्थ तत् । अवक्षेपणे कन् । व्याकरणकन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितम् । किंतु अधीतं सदध्येतृकुत्साहेतुभूतगर्वमावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा, तत्कथं व्याकरणमवक्षेपणं स्यात् । 'कुत्सित' इत्यनेन गतार्थ चेदमित्यत आह-येनेतर हति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः।
। इति तद्धिते प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणं निरूष्यते । हवे प्रति कृतौ । कन् स्यादिति । 'अवक्षेपणे कन्। इत्यतः तदनुवृत्तेरिति भावः । इवार्थ:-उपमानत्वम् । तद्वति वर्तमानात्प्रातिपदि. कात्कन् स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिक तिः । अश्वक इति । प्रतिकृतेः स्त्रीऽऽपि 'स्वाथिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते इति पुंलिङ्गत्वम् । सन्यायां च । कनिति शेषः । सुमुदायश्चेदिति । प्रकृतिप्रत्ययसमु.
For Private and Personal Use Only
Page #914
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
8०५
अश्वकः । उष्ट्रकः । (२०५३) लुम्मनुष्ये ५॥३॥8॥ संज्ञायां चेति विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चच्चा तृणमयः पुमान्।। चञ्चेव मनुष्यश्चच्चा । वधिका । (२०५४) जीविकार्थे चापण्ये ५।३।88॥ जीविकार्य यदविक्रीयमाणं त. स्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानो जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते । (२०५५) देवपयादि. भ्यश्च ५।३।१००॥ कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ।
दायश्चेत्प्रकृत्यर्थसशस्य सम्शेत्यर्थः । पूर्वसूत्रेणेव सिद्ध किमर्थमिदमित्यत आहअप्रतिकृत्यर्थमारम्भ इति । तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह-अश्वसदृशस्येति। अश्वसशस्य अमनुष्यस्य कस्यचित्सम्झेषा । अचसह. शोऽयमश्वकसज्ञक इति बोधः । लुम्मनुष्ये । संशायां चेति विहितस्येति । नतु 'इवे प्रतिकृतौ इति विहितस्य, मनुष्यस्य प्रतिकृतित्वासम्भवादिति भावः । चम्चेव म. नुष्यः चञ्चा इत्युदाहरणं वक्ष्यन् चञ्चाशब्दं ज्याचष्टे-चव्या तृणमयः पुमानिति । चञ्चे. ति । चञ्चातुल्यो मनुष्योऽयं चञ्चासण्ज्ञक इत्यर्थः । वधिकेति । वधिका चर्ममयी प्रति. कृतिः । तत्तल्यो मनुष्योऽयं वधिकासज्ञक इत्यर्थः। लुपि युक्तवत्वात् स्नोत्वम् । वचनं तु विशेष्यवदेव, 'हरीतक्यादिषु व्यक्तिः' इत्युक्तेः । तेन चञ्चे इव मनुष्यो इत्यत्र चञ्चा इति न भवति ।। ___ जीविकार्थे चापण्ये । पण्यं विक्रीयमाणम् । तदाह-अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रकृतिरित्यर्थः। एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रयायाः जीविकार्थत्वमित्यत आह-देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थ प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसू. त्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थे हस्तितुल्यप्रतिकृतीः विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'सम्ज्ञायां च' इति विहितस्य नायं लुप् । किन्तु 'इवे प्रतिकृतौ इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति चाभियुक्ताः'राम सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिक् धिक् । अस्मिन्पद्ये योऽपशब्द न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिक् धिक् ॥ इति ।
अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपधादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुगू स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरि.
For Private and Personal Use Only
Page #915
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०६
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
(२०५६) बस्ते ५।३।१०१॥ इवे इत्यनुवर्तत एव । 'प्रतिकृती' इति निवृत्तम् । वस्तिरिव बास्तेयम् - बास्तेयो। (२०:७) शिलायाः ढः ५।३।०२॥ शिलेव शिलेयम् । योगविभागात् ढअपीत्येके । शैलेयम् । (२०१८) शाखा. दिभ्यो यः ५।३।१०३॥ शाखेव शाख्यः। मुख्यः। जघनमिव जघन्यः । अप्रयः । शरण्यः । (२०५४) द्रव्यं च भव्ये ५।३।१०४॥ द्रव्यम् अयं ब्राह्मणः । (२०६०) कुशाग्राच्छः ५३।१०५॥ कुशाग्रमिव कुशाग्रीया बुद्धिः । ( २०६ ) समासाच्च तद्विषयात् ५।३।१०६। इवार्थविषयात्स. त्यर्थः । 'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम्
'अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। .
इवे प्रतिकृती लोपः कनो देवपथादिषुः ॥ इति । अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजेषु देवपथादिगणपठितेषु इवे प्रतिकृतौ इति विहितस्य कनो लुबित्यर्थः । तद्राजस्यः इति सूत्रे कैयटोऽप्येतं श्लोक पपाठ। अर्चासु यथा-शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथारावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथा-कपिः गरुडः वृषभ इत्यादि । वस्तेढ । निवृत्तमिति । अस्वरितत्वादिति भावः । 'सज्ञायां च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुम्विधिषु तेषु तदनुवृत्तिरपेक्षिता। बस्तिरिवेति । 'वस्ति भेरधो द्वयोः' इत्यमरः। शिलाया ढः। इवे इत्येव । शिलेव शिलैयमिति । दध्यादोति शेषः । योगेति । शिलाया इत्येको योगः । ढजित्यनुवर्तते, इवे इति च । शैलेयमिति । मित्वादादिवृद्धिः, स्त्रियां, डीप च फलम् । ढः इति द्वितीयो योगः। शिलाया इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः । यत् इति त्वपपाठः । तैत्तिरीये 'मुख्यो भवति' इत्यादौ मुख्यशब्दस्य। आधुदात्तत्वदर्शनात् , उगवादिसूत्रमा. ज्यविरुद्धत्वाच्च ।
द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेः । यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । 'भव्य आत्मवान् । अभिप्रेतानामर्थानां पात्रभूतः, इति वृत्तिः। द्रव्यम् । अयमिति । द्रः वृक्षः, सः यथा पुष्पफलादिभाक् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा तुः कल्प. वृक्षोऽन्न विवक्षितः, स इव अभिमताथभागित्यर्थः । यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राछः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम्। कुशाग्रवत् सूक्ष्मेत्यर्थः।
समासाच्च । तच्छब्देन प्रकृतः इवार्थः परामृश्यते । तदाह-इवार्थविषयादिति । इवार्थः सादृश्यमुपमानापमेयभावात्मकम् , तद्विषयकादित्यर्थः । सादृश्यवदर्थबोध. कात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदथबोधकः,
For Private and Personal Use Only
Page #916
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
१०७
मासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमस. दृशश्चोरपमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः । (२०६२) शकरादि. तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छःस्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवाथै इति शेषः । पूगायः इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकसमस्यमानयावत्पद. कात्समासादिवाथें छः स्यादिति लभ्यते। काकतालोयो देवदत्तस्य वध इति । काक: कश्चिदकस्मात् तालवृक्षस्य मूलं गतस्तालफलपतनान्मृतः । तथैव कश्चि दवदत्तः अकस्मान्निर्जनप्रदेशे क्वचिद्गतः चोरेण हतः तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतम् अन्यत्सादृश्यं च भासते।
तथाहि-काकागमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । तालशब्दस्तु तालपत. नसहशे चोरागमने लाक्षणिकः । काकागमनसहर्श देवदत्तागमन तालपतनसहर्श चोरागमनमिति च काकतालमिति समासाद्वोधः। यद्यप्यत्र काकतालशब्दयोः मि. लितयोरेकत्रान्वयाभावात् द्वन्द्वसमासो न सम्भवति, परस्परान्वयाभावेन असाम
र्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सुप्सुपा' इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः तदाह-इह काकतालसमागमसदृ. शश्चोरसमागम इति समासार्थ इति । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समामम इत्यर्थः । तदेवंविधात्समासात् काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्र. त्ययः । तत्र समासात्मककाकतालशब्दभूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमनकृते उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तम्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह-सत्प्रयुक्त इति । तादृशतालपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरं देवदत्तवध इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतु कस्तालपतनकृतकाकमरणसदृश. श्चोरकृतो देवदत्तवध इत्येवं काकतालीयो देवदत्तवध इति समामाद्वोधः । एतदेवा. भिप्रेत्योक्तं भाष्ये 'काकागमनमिव तालपतनमिव काकतालम् । काकतालमिव काक. तालीयम्' इति । अत्र काकतालमिति इवार्थगभितकेवलद्वन्द्वात् न भवति इवान्तरार्थस्य सादृश्यान्तरस्याप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव कृपाणपतनमिव अजा कृपाणम् , तदिव अजाकृपाणीयः । अजाकृपाणसमागम पहशो देवदत्त. चोरसमागमः समासार्थः कृपाणपतनप्रयुक्ताजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्य
For Private and Personal Use Only
Page #917
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80%
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
भ्योऽण ५।३।१०७ ॥ शर्करेव शार्करम् । (२०६३) अङ्गुल्यादिभ्यष्ठक ५।३।१०॥ अङ्गुलीव पाङ्गुलिकः । भरुजेव भारुजिकः । (२०६४) एकशालायाष्ठजन्यतरस्याम् ५।३।१०४॥ एकशालाशब्दादिवाथै ठज्वा । पक्षे ठक । एकशालेव एकशालिलः-ऐकशालिकः । (२०६१) कर्कलोहितादीकक ५।३।११०॥ कर्कः शुक्लोऽश्वः। स इव कार्काकः। लौहितीकः स्फटिकः । (२०६६) पूगायोऽग्रामणीपूर्वात् ५।३।११२॥ इवार्थो निवृत्तः । नानाजातीयाः अनियतवृत्तयोऽर्थकामप्रधानाः सचाः पूगाः। तद्वाचकात्स्वार्थे ज्य: स्यात् । लोहितध्वज्यः। 'व्रातच्फजोरस्त्रियाम् (सू ११००) व्रातः। कापोतपाक्यः । फन् । कोजायन्यः । ब्राध्नायन्यः। (२०६७) आयुधजीवि सङ्घायट् बाहीकेष्वब्राह्मणराजन्यात् ५।३।११४॥ बाहीकेषु य आयु. धजीविसङ्घस्तद्वाचिनः स्वार्थे ज्यट । क्षौद्रक्यः । मालव्यः । टित्त्वान्टीप् । क्षौ. याथैः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह-अतर्कितेति ।
शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्य. तिवर्तन्ते' इति विशेष्यनिघ्नतेति भावः । अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् 'कृदिकारादक्तिनः' इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता।
भरुजेव भारुजिक इति । पूर्ववद्विशेष्यनिन्नता । एकशालायाः । पक्षे ठगिति । अन्यतर. स्यांग्रहणम् अनन्तरठकः समुच्चयार्थमिति भावः । ठज्वेत्येव सुवचम् । कर्कलोहितादीकक् । कर्कः शुक्लोऽश्व इति । अश्वपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशालोहित हवेत्यर्थः । पूगाळ्यः । इवाथों निवृत्त इति । व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः । तद्वाचकादिति । पूगेति न स्व. रूपग्रहणम , व्याख्यानात्। ग्रामणीवाचकपूर्वावयवकभिन्नात् पूगवाचकादित्यर्थः । लौ. हितध्वज्यः इति । लोहिताः ध्वजाः यस्य पूगस्य स लोहितध्वजः, स एव लौहितध्व. ज्य: । व्रातच्फमोरस्रियामिति । इदं सूत्रम् 'गोत्रे कुमादिभ्यः' इत्यत्र प्रसङ्गादुपादाय व्याख्यातम् । व्रात इति । उदाहरणसूचनमिदम् । भारोद्वहनादिशरीरायासजीवनात् ना. नाजातीयानामनियतवृत्तीनां सयो व्रातः । कापोतपाक्य इति। कपोतान् पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः स एव कापोतपाक्यः। पचेः कर्तरि घञ्, 'चजोः कु. घिण्ण्यतोः' इति कुत्वम् । फमिति । उदाहरणसूचनमिदम् । कौआजन्य इति । 'गोत्रे कुमादिभ्यः' इति उफन् । आयन्नादेशः । ततः स्वार्थे अनेन भ्यः । एवं बाध्नायन्यः ।
आयुधजीवि । वाहीकेष्विति । वाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीकदेशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति ।
For Private and Personal Use Only
Page #918
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
808
द्रको। आयुध-इति किम् । मलाः । सङ्घ-इति किम् । सम्राट् । बाहीकेषु किम् । शबराः । अब्राह्मण-इति किम् । गोपालकाः । सालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् । (२०६८) वृकाट्टेण्यण ५।३।११५॥ मायुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः। मायुध इति किम् । जातिविशेषान्मा भूत् । (२०६४) दामन्यादिभिगर्तषष्ठाच्छ: ५।३।११६॥ दामन्यादिभ्यस्त्रिगर्तषष्टेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिगर्तः षष्ठी वर्गों येषां ते त्रिगर्तषष्ठाः।
'आहुस्निगर्तषष्ठांस्तु कोण्डोपरथदाण्डकी ।
क्रौष्टुकिर्जालमानिश्च ब्राह्मगुप्तोऽथ जालकिः ॥' दामनीयः । दामनीयौ। दामनयः। औलपि, औलपीयः। त्रिगर्त, कोण्डोपरथीयः । दाण्डकीयः । (२०७०) पवादियौधेयादिभ्योऽणऔ ५।३। ११७॥ आयुधजीविसधवाचिभ्यः एभ्यः क्रमादणौ स्तः स्वार्थे । पार्शवः ।
-
-
मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनां सध्यः । स एव मालव्यः । टित्वात् डीबिति । एवं च अखियामिति नात्र सम्बध्यंत इति भावः । तद्विशेषैति । व्याख्यानादिति भावः। वृकाट्टेण्यण । वृको नाम कश्चिदायुधजीविसङ्घः । स एव वाण्यः। आ. दिवृद्धिः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाजाति. विशेषः प्रसिद्धः । तस्मान्नेत्यर्थः । दामन्यादि। दामनिः आदिर्यस्य दामन्यादिः। त्रिगर्तः षष्ठो यस्य वर्गस्य सः त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्टश्चेति समाहारद्व. न्द्वात्पञ्चमी । फलितमाह-दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्व. गाः, तत्र षष्ठस्त्रिगतः वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तपष्ठा इत्यत आह-आहुरिति । कोण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राह्मगुप्तः, जालकिः इत्येतान् त्रिगर्तषष्ठीन् आहुरित्यर्थः। जालकिरिति त्रिगर्तस्य नामान्तरम् । एतेषु षटम कौण्डोपरथब्राह्मगुप्तशब्दौ शिवायणन्तौ। शेषः इअन्तः । दामादिगणमुदाहरतिदामनीय इति । दामनिरेव दामनीयः। श्रौलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात् स्वाथें छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कोण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वाथें छः । दाण्डकीय इति । दाण्डकिशब्दात् स्वाथें छः। क्रौष्टुकीयः, जालमानीयः, ब्राह्मगुप्तीयः, जालकीयः इत्यप्युदाहार्यम् ।
पर्वादियौधेयादि । एभ्य इति । पर्यादिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव हति । पशुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वयषु 'द्वयनमगध' इत्यण । ततोऽप.
For Private and Personal Use Only
Page #919
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
|
पार्शौ । पर्शवः । यौधेयः । यौधेयो । यौधेयाः । (२०७२) अभिजिद्विदभृच्छाला च्छुखावच्हमीदुर्गावच्छ्रुपदणो यञ् ५।३ ११८ ॥ अभिजिदादिभ्योऽण्णन्तेभ्यः स्वार्थे यस्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णवत्यः । श्रीमत्यः । ( २०१५ ) ज्यादयस्तद्राजाः ५।३ | ११६ ॥ पूगाञ्ज्य:-' (सू२०६६ ) इत्यारभ्य उक्ता एतत्सज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः, कपोतपाकाः कौब्जायनाः ब्राघ्नायनाः इत्यादि । (२०७३) पादशतस्य सङ्ख्या देवीप्सायां वुन्लोपश्च
3
9
"
"
त्यसङ्घविवक्षायामनेन अणिति भावः । पर्शव इति । अपत्यसङ्घबहुत्व विवक्षायां प्रकृतस्याणोऽपि तद्राजत्वाल्लुक् 'ज्यादयस्तद्वाजाः' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थं 'द्वयचः' इति ढक् । तदन्तादपत्यसङ्घविवक्षायामनेन अञ् । जिवम् आदात्तत्व फलकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायाम् 'तद्राजस्य' इत्यत्रो लुक् । 'कितः' इत्यन्तोदात्तं फलम् । श्रभिजिद्विदभृत् । अभिजित्, विदभृत् शालावत् शिखावत् शमीवत्, ऊर्णावत् श्रुमत् एषां समाहारद्वन्द्वात् पञ्चम्या लुक् । अण इति प्रत्ययत्वात् तदन्तग्रहणम् । तदाह - श्रभिजिदादिभ्य इति । अत्र 'आयुधजीविसङ्घादिति निवृत्तम्' इति वृत्तिः । श्रभिजित्य इति । अभिजितोऽपत्यम् अभिजितः । अपत्येऽण् । अभिजित एव अभिजित्यः । वैदभृत्य इति । विदभृतोऽपत्यं वैदभृतः । स एव वैदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावस्य इति । शिखावतोऽपत्यं शैखावतः स एव शैखावत्यः । शामीवत्य इति । शमीवतोऽपत्यं शामीवतः स एव शामीवत्यः । श्रवत्य इति । ऊर्णावतोऽपत्यमौर्णावतः स एव और्णावत्यः । श्रमत्य इति । श्रमतोऽपत्यं श्रामतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यजः स्वार्थिकतया गात्रार्थकत्वादाभिजित्यस्यार्यामिति विग्रहे 'गोत्रचरणात्' इति वुजि 'आपत्यस्य च' इति यलोपे अभिजितक इति भवति । 'अपत्याणन्तेभ्य एवायं यञ् । तेन अभिजितो मुहूर्त इत्यादौ न यज्' इति भाष्ये स्पष्टम् ।
"
I
व्यादयस्तद्रागः । लोहितध्वजा इति । 'पूगात्' इति विहितस्य व्यस्य तद्राजत्वात् बहुत्वे लुक् । कपोतपाका: कौआयनाः बाध्नायनाः इति । ' व्रातच्फञोः' इति विहितस्य ज्यस्य लुक् । इत्यादीति । क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः । आयुधजीवीत टो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दामनीयौ, दाम. नयः, कौण्डोपरथाः इत्यादौ ' दामन्यादित्रिगर्तषष्टशत्' इति छस्य लुक् । पार्शवः, पार्शवौ, पर्शवः, यौधेयाः इत्यत्र पर्वादियौधेयाद्यणजोर्लुक् । अभिजित्यः आभि
1
For Private and Personal Use Only
Page #920
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
११
५४१॥ लोपवचनमनैमित्तिकस्वार्थम् । अतो न स्थानिवत् । 'पादः पत्' (सू ४१४ )। तद्धिताथै-' (सू ७२८) इति समासे कृते प्रत्ययः । वुकयं नियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम् , अन्यत्रापि दर्शनात्' (वा ३३१४ )। द्विमोदकिकाम् । (२०१४) दण्डव्यवस'. योश्च पा४:२॥ वुनस्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिको व्यवसृजति ददातीत्यर्थः । (२०७५) स्थूलादिभ्यः प्रकारवचने कन् ५४॥३॥ जातीयरोऽपवादः । स्थूलकः । अणुकः । 'चञ्चबृहतोरुपसङ्ख्या.. नम्' (वा ३३१५)। चञ्चत्कः। बृहस्कः । 'सुराया अहो' ( ग सू १३०)। जित्यौ, अभिजितः, विदभृतः इत्यादौ अभिजिद्विदभृत्यादिविहितस्य यत्रो लुगिति भावः। इति तद्धिते पञ्चमाध्यायस्य तृतीयपादः समाप्तः ।
अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः । पादशतस्य संजयादेवीप्सायां वुन् लोपश्च । पादश्च शतं चेति समाहारद्वन्द्वात् लोपापेक्षया षष्ठी। वुन्प्रत्ययापेक्षया तु सा पक्षम्यर्थे । सङ्ख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच्च वीप्साविशिष्टार्थवृत्तः स्वाथें वुन्प्रत्यय: स्यात् , प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनः अकादेशे सति 'यस्येति च इत्येव लोपसिद्ध रिह लोपविधिय॑र्थ इत्यत आह-लोपवचनमनैमित्तिकस्वार्थमिति । 'यस्येति च' इति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् पादः पत्' इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाप्रसक्तेः पदावो निर्बाध इति भावः। तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थामावात्कयमिह तद्धितार्थ इति समास इति वाच्यम् , दुनो द्योतकतया घोत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति। स्वभावादिति भावः । द्विशतिकामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथम्, पादशतभिन्न व्यावृत्त्यर्थत्वादित्यत माह-अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति-द्विमोदकिकामिति । द्वौ द्वौ मोदको ददातीतिाविग्रहः । दण्डब्यवसः योश्च वुन् म्यादिति । सड्डन्यादेः पादशतात् दण्डव्यवसगयोर्गम्ययोवून् स्यात्प्र. कृतेरन्तलोपश्चेत्यर्थः । दण्डनं दण्डः । बलात्कृत्य द्रव्यग्रहणम् । व्यवसों दानम् । नन पण सिद्ध किमर्थमिदमित्यत आह-अवीप्सार्थमिति । द्वौ पादौ दण्डित इति । बलात्कृत्य माहित इत्यर्थः ।
स्थूलादिभ्यः । प्रकारो भेदः सायं च । व्याख्यानात् । तद्वति वर्तमानाद्यथायोगं कमित्यर्थः । जातीयपरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम् । चश्नक इति । चञ्चधातुश्चलने । अचञ्चन्नपि यश्चञ्चन्निव
For Private and Personal Use Only
Page #921
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
सुरावर्णोऽहिः सुरकः । (२०७६) अनत्यन्तगतौ कात् ५|४|४ | छिनकम् । भिजकम् | अभिशकम् । ( २०७७) न सामिवचने ५|४|५|| सामिपर्याये उपपदे कान्तान्न कन् । सामिकृतम् । अधकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कम प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् । ( २०७८) बृहत्या आच्छादने ५|४|६|| कन्स्यात् । प्रावारोत्तरासौ समौ बृहतिका तथा' इत्यमरः । आच्छादने किम् । बृहती छन्दः । (२०७०) भषडक्षाशित ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः ५|४|७|| स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्निति
1
दृश्यते स चचत्कः । यथा स्पन्दमानस्वच्छजलमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा । सुराया श्रहाविति । गणसूत्रमिदम् | प्रकारवचने कन्निति शेषः । सुरायाः अहावेवेति नियमार्थमिदम् । सुरकइति । 'केऽण' इति ह्रस्वः । अनत्यन्तगतौ तात् । अत्यन्तगतिः अशेषावयवस. म्बन्धः, तदभावः अनत्यन्तगतिः, तस्यां गम्यमानायां कान्तात्कान्नत्यर्थः । छिन्नकमिति । किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः । न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वा आह- सामिपर्याये उपपदे इति । सामिकृतमिति । सामीत्यव्ययमधें । 'सामि' इति समासः । अर्ध कृतमिति । अधं कृतमिति कर्मधारयः । सामीत्यस्य क्रियाविशेषणत्वेन कारकत्वात् समुदायस्य क्तान्तत्वम्, कृदूग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यवाभिहितत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन पूर्वसूत्रविहितस्य कनोऽप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते - अनत्यन्त - गतेरिति । परिहरति- इदमेवेति । तथापीति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्ययमनत्यन्तगताविति कनः प्रतिषेधः । किं तर्हि, अत्यन्तस्वार्थिकस्य कनः । तत्र च इदमेव ज्ञापकम् | अन्यथा तद्वैयर्थ्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् | 'तमबाद्यन्तात् स्वार्थे कन् वक्तव्यः' इति वचनेन यावादित्वाद्वा स्वार्थे कना बहुतरकं सुकरतरकमित्यादि सिद्धमिति तदाशयः । बृहत्या श्राच्छादने । कन् इति शेषः । बृहत्येव बृहतिका । उत्तरीयं वासः । तदाहद्वौ प्रावारेति । अमरवाक्यमिदम् |
1
1
षडक्षा | स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्यः अध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः । अषडक्षोणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि पट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुवीहिः । 'बहुव्रीहौ सक्थ्यक्ष्णोः'
For Private and Personal Use Only
Page #922
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
६१३
-
आशित झवीनमरण्यम् । निपातनात्पूवस्य मुम् । अलं कर्मणे अलङ्कर्मीणः । अल. म्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वार्थिकाः प्रत्ययाः नित्यमिष्यन्ते' । 'तमबादयः प्राक्कनः । ज्यादयः प्राग्वुनः। आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्च' इति भाष्यम् । (२०७०) विभाषाञ्चेरदिक स्त्रियाम् ५।४।८॥ अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्ख: इति षन् । तदन्तादनेन स्वार्थ खः । द्वाभ्यामेवेति । पुरुषाभ्यामिति शेषः । आशिताः इति । 'अश भोजने' इत्यस्मादाशितः कतति ज्ञापकाकर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कमीण इति । 'पर्यादयो ग्लानाद्यर्थे। इति चतुर्थीसमासा. त्खः, टिलोपः । अलम्पुरुषोण इति । अलं पुरुषायेति विग्रहः । मातृभोगीण इत्यादा. विव अषडक्षीणादौ णत्वम् । 'पदव्यवायेऽपि' इति निषेधस्तु न, पदे परतः यत्पदं तेन व्यधाये इत्याश्रयणात् । ईश्वराधीन इति । 'यस्मादधिकम्' इति ईश्वरशब्दात्स. समी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः। 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारयति-नित्यतोऽयं ख इति । उत्तरेति । 'विभाषाम्चेः' इत्युत्तरसूत्रे 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्त्यैव सिद्ध विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आ. शिताः गावोऽस्मिन्निति, अलं कर्मण इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् , तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् ।
प्रसङ्गादाह-अन्येऽपीति । इभ्यन्त इति । भाष्यकृतेति शेषः । तमबादयः प्राक्कन इति । 'अतिशायने तमप्' इत्यारभ्य 'अवक्षेपणे कन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । व्यादयः प्राग्वुन इति । 'पूगाभ्योऽग्रामणीपूर्वात्' इत्यारभ्य 'पादशतस्य सङ्ख्यादेवीप्सायां वुन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्मयट इति । 'किमेत्तिङव्ययघादाम्' इत्यारभ्य 'तत्प्रकृतवचने मयट्' इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजाश्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तु 'जात्यन्ताच्छ बन्धुनि' इति छो लक्ष्यते । बहुवचननिर्देशात् पाश. बादयोऽपि षष्ठया रूप्य च' इत्यन्ताः गृह्यन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्याः, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आ. च्छादने' इति 'जात्यन्ताच्छ बन्धुनि' इति च सूत्रयोर्मध्यगतेन 'अषडक्ष' इति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः। 'विभाषाञ्चेः' इति उत्तरसूत्रे खविधौ विभापाग्रहणं तु तस्यापि बृहतीजात्यन्तरालतित्वाविशेषात् नित्यत्व प्राप्ते विकल्पाथेम् । अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणादिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेखरे स्थितम् । विभाषाम्चेरदिस्त्रियाम् । अदिस्त्रियामिति कर्मधारयगर्भो
५८बा०
For Private and Personal Use Only
Page #923
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
स्याद्वा स्वार्थे । प्राक्-प्राचीनम् । प्रत्यक्-प्रतीचीनम् । अवाक्-अवाचीनम् । 'नि. कृष्टप्रतिकृष्टावरेफयाप्यावमाधमा' इत्यमरः । अर्वन्तमञ्चतीति अर्वाक्-अर्वाचीनम् । अदिविस्त्रयाम् किम् । प्राची दिक् । उदीची दिक। दिग्ग्रहणम् किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणम् किम् । प्राचीनं प्रामादाम्राः । (२००१) जात्यन्ताच्छ ब. न्धुनि पा४॥ ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जाते. व्यंजकं द्रव्यं बन्धु । (२००२) स्थानान्ताद्विभाषा सस्थानेनेति चेत् ५।४। १०॥ सस्थानेन तुल्येन चेत्स्थानान्तमर्थवदित्यथः। पित्रा तुल्यः पितृस्थानीयःपितृस्थानः। संस्थानेन किम् गोस्थानम् । (२०८३) मनुगादिनष्ठक ५।४।
नञ्तत्पुरुषः । तदाह-अदिकस्त्रीवृत्तेरिति । प्रागिति । 'अञ्चे का इति लुप्तास्तात्यन्तमिदम् । प्राचि देशे इत्यर्थे प्राचीनमिति खान्तमिदं स्वभावादाधेयपरम् । स्वभा. वादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याहृतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थि. तविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना आम्राः, प्राचीना वाटी, प्राचीनं वन. मिति भवतीत्याहुः । अवन्तमञ्चतीति वक्ष्यन अर्वच्छब्द विवृणोति-निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति । अस्त्रियामित्येतावतैव प्राची दिगित्यत्रातिप्रसङ्गनिरासात्कि तेनेति प्रश्नः । अव्याप्तिपरिहारार्थमित्याह-प्राचीना ब्राह्मगीति । नेयं दिपा स्त्री, किन्तु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति । अदिशीत्येतावतैव प्राचीना ब्राह्मणीत्यत्रा. व्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह-प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभाष्ये अयं प्रयोगः स्थितः । अत्र प्राच्या दिशीत्यर्थं लुप्तास्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वात् अस्त्रीति खो भवेत्येवेति भावः।।
जात्यन्ताच्छ बन्धुनि। छेति लुप्तप्रथमाकम् । जातिशब्दान्तात् प्रातिपदिकाद्वन्धुनि वर्तमानात् स्वाथें छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राह्मणजातीय इति । ब्राह्मणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः। ब्राह्मणजातिः शोभनेति । ब्राह्मणत्वजातिरित्यर्थः । बध्यते ब्राह्मणत्वादिजातिय॑ज्यतेऽस्मिस्निति बन्धु द्रव्यम् । 'शस्वृ. स्निहि' इत्यादिना अधिकरणे उप्रत्ययः । तदाह-जातेयंअकं द्रव्यं बन्विति । आठप
यस्तु बन्धुशब्दो नेह गृह्यते, बन्धुनीति नपुंसकनिर्देशादिति भावः । स्थानान्तात् । सस्थानेनेत्यस्य विवरणं तुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणार्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्तात् छो वा स्यादित्यर्थः ।
For Private and Personal Use Only
Page #924
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१ ]
बालमनोरमासहिता।
११५
-
१३॥ अनुगदतीत्यनुगादो । स एव आनुगादिकः । (२०८४) विसारिणो मत्स्ये ५४।१६॥ अण्स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः । (२००५) सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच ५।४।१७॥ अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः सङ्ख्याशब्दात्स्वार्थे कृत्वसुच्स्यात् । पञ्चकृत्वो भुङ्क्ते । सङ्ख्यायाः किम् । भूरिवारान्भुते । (२००६) द्वित्रिचतुभ्यः सुच् ५।४।१॥ कृत्वसुचोऽपवादः। द्विभुते। त्रिः। 'रात्सस्य' (सू०२८०)। चतुः। (२०८७) एकस्य तुल्यरूपाथें वर्तमानात् स्थानान्तात् छो वा स्यादिति यावत् । पितृस्थानीय इति । स्थानं पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्य. त्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्य. त्वाप्रतीतेनच्छः । 'किमेत्तिङव्यय' इत्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् । 'अमु च च्छन्दसि' इति तु वैदिकप्रक्रियायां व्याख्यास्यते । अनुगादिनष्ठा । स्वार्थे इति शेषः । 'आमादयः प्राङ्मयटः' इत्युक्तेः ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविप्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेण च 'स्त्रियाम्। इति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते । विसारिणो मत्स्ये । 'अणिनुणः' हात पूर्वसूत्रात् अपिणत्यनुवर्तते । तदाह-अण् स्यादिति । मत्स्ये विद्यमानात् विसारिन्शब्दात् स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । 'इनण्यनपत्ये' इति प्रकृतिभावाहिलोपो न । सङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत-आभ्यावृत्तिजन्मेति । उपसर्गवशात् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कृत्वसुचि चकार इत् । उकार उच्चारणार्थः । तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनात् कृत्वोऽर्थानामव्य. यत्वम् । पञ्चकृत्वो भुङ्क्त इति । पञ्चत्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । स. ङख्यायाः किमिति । गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान् भुक्ते इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु समभिव्याहृतक्रियापर्याप्ते काले वर्तते । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं । त्वर्थादम्यते । तथा च वारशब्दोऽयं न गणनवाची। भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्यते । 'बहुगणवतुडति सङ्ख्या' इत्यत्र बहुग्रहणेन तत्प. र्यायश्व असङ्ख्यात्वबोधनात् । अतोऽत्र न कृत्वसुच् ।
द्वित्रिचतुर्थ्यः। क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत् , उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते इत्यनुषज्यते। रादिति । चतुरशब्दात् सुचि चतुर् स् इति स्थिते 'रात्सस्य' इति सकारस्य लोपे चतुरिति रूफ.
For Private and Personal Use Only
Page #925
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
सकृच्च ५|४|१६|| 'सकृदित्यादेशः स्यात्, चात्सुच् । सकृद्भुङ्क्ते । 'संयोगान्तस्य'( सू ५४ ) इति सुचो लोपः । न तु 'हरुङथाप्-' ( २५२ ) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् । (२०६८) विभाषा बहोर्धा विप्रकृष्टकाले ५|४|२०|| अविप्रकृष्ट आसन्नः । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते । आसन्न काले किम् । बहुकृत्वो मासस्य भुङ्क्ते । (२०६६) तत्प्रकृतवचने मयट् ५|४|२१|| प्राचुर्येण प्रस्तुतं प्रकृतं, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आये प्रकृतमन्नममन्नयम् । अपूपमयः । यवागूमयी । द्वितीयेऽन्नमयो यज्ञः । अपूपमयं मित्यर्थः । अत्र भुङ्क्ते इत्यनुषज्यते । एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टेसकृदित्यादेशः स्यादिति । सकृदभुङ्क्ते इति । एकशब्दात् सुच्, प्रकृतेः सकृदित्यादेशश्च । अन एकशब्दः क्रियाविशेषणम् । एकत्वविशिष्टा भुजिक्रियेत्यर्थः । स्वादु पचति इत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । एको भुङ्क्ते इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननु 'संयोगान्तस्य' इति सुचो लोप इत्यनुपपन्नम् । 'हल्ड्या भ्यः' इत्येव हि सुलोपोऽत्र युक्तः । तस्मिन् कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्यासिद्धत्वादित्यत आह- नतु हल्ङयाबितीति । सिच इवेति । अभैत्सीदित्यत्र सिचो लोप निवृत्तये हल्डाबित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात् सुग्रहणेनापि सुजयं न गृह्यत इति भावः ।
विभाषा बहोर्धाऽविप्रकृष्टकाले । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्ते हुशब्दात् धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहित कालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । 'कृत्वोऽर्थ प्रयोगे arosधिकरणे' इति दिवसात्पष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्टी इति तु नवीनाः । तत्प्रकृतवचने । तदिति प्रथमान्तनिर्देशः । प्राचुर्येणेति । बहुलतया उपस्थित प्रकृतशब्देन विवक्षितमित्यर्थः, उपसर्गबलादिति भावः । प्रतिपादनमिति । बोधनमित्यर्थः । भावे इति । तथाच प्रकृतस्य बोधने सतीत्यर्थः । प्राचुर्यविशेषणकचस्तुवृत्तेः प्र थमान्तात्स्वार्थे मयडिति फलति अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः । प्रत्ययस्तु
योतकः । श्रधिकरणे वेति । तथाच प्राचुर्यविशेषणकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दात् मयडिति फलितम् । अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः । तदधिकरणं प्रत्ययार्थः । तन्त्रेणार्थद्वये सूत्रतात्पर्यम्, व्याख्यानात् । यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपाठः समञ्जसः, नतु द्वितीयपक्षे । तथापि 'अथ स्वार्थिकाः' इति मूलं प्रायिकाभिप्रायमिति न दोषः । श्रये इति । भावल्युटपक्षे इत्यर्थः । प्रकृतमन्नमन्नमयमिति । प्रचुरमन्नमित्यर्थः । स्वार्थिकत्वात्प्रकृतिलिङ्गता ।
For Private and Personal Use Only
―――
Page #926
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
४१७
पर्व । (२०६०) समूहवञ्च बहुषु ५॥४॥२२॥ सामूहिकाः प्रत्ययाः अतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृताः, मौदकिकम्-मोदकमयम् । शाष्कुलिकम्शष्कुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः-मोदकमयः। (२०६१) अनन्तावसथेतिहभेषजाया ५।४।२३॥ अनन्त एव भानन्त्यम् । आवसथ एक भावसथ्यम् । इतिह इति निपातसमुदायः। ऐतिह्यम् । भेषजमेव भैषज्यम् । (२०६२) देवतान्तात्तादयें यत् ५।४॥२४॥ तदर्थ एव तादयम् । स्वार्थे अपूपमय इति । प्रचुरोऽपूप इत्यर्थः । यवागूमयीति । प्रचुरा यवागूरित्यर्थः । टित्त्वात् कोविति भावः । द्वितीये इति । अधिकरणल्युटपक्षे इत्यर्थः । अन्नमयो यज्ञ इति । 'इष्टिषु दशौदनाः पशौ तं सोमसहस्रम्' इत्यादिवाक्यैरुच्यमानानि प्राचुर्यविशिष्टान्नानी. त्यर्थः। अस्वार्थिकत्वेन प्रकृतिलिङ्गत्वाभावाद्विशेष्यनिघ्नता । अपूपमयं पर्वेति । पर्वणि प्रचुराः अपूपाः कार्या इत्याधुच्यमानापूपाधिकरणं पर्वेत्यर्थः। अस्वार्थिकत्वाद्विशेष्यनिघ्नता। केचित्तु द्वितीयपक्षे वचनशब्दोऽधिकरणल्युडन्तः, प्रकृत्यों न विवक्षित इत्याहुः । तथा सति प्राचुर्यविशिष्टान्नायधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः।
समूहवच्च बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधि. कारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात् स्वार्थे समू. हवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिवधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्य उदाहरति-मोदकाः प्रकृताः मौदकिकमिति । 'अचित्तहस्तिधेनोः' इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाकुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववठ्ठा , प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यश इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः। अनन्तावसथेतिह । अनन्त, आवसथ इतिह, भेषज एभ्यः स्वार्थे भ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तो नाशः । तस्याभावः अनन्तः । अर्थाभावे नञ्तत्पुरुषः, अर्थाभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गाव्यतिक्रमः। आवसथो गृहम् । निपातसमुदाय इति । स च उपदेशपारम्पर्ये वर्तते । तस्मात्स्वाथै ज्यः । 'पार. म्पर्योपदेशे स्यादै तिमितिहाव्ययम् । इत्यमरः । भैषज्यमिति । भेषजम् औषधम् , तदेव भैषज्यम् । 'भेषजौषधभैषज्यानि इत्यमरः ।।
देवतान्तात्तादर्थं यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थं उच्यते, तस्मै अर्य तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् व्यजित्यर्थः । देवतान्तात्प्रातिपदिकात् यत्स्यात्प्रकृत्यर्थाथै वस्तुनि वाच्य इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्र
For Private and Personal Use Only
Page #927
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
-
सिद्धान्तकौमुदी [तद्धिते स्वार्थिक
- ध्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् । (२०६३) पादाभ्यां च ५।४।२५॥ पादार्थमुदक पाद्यम् । अयम् । 'नवस्य नू आदेशो नप्तनप्खाश्च प्रत्यया वक्तव्याः' ( वा ३३२७)। नूत्नम्-नूतनम्-नवीनम् । 'नश्च पुराणे प्रात्' ( वा ३३२८ ) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः चात्पूर्वोक्ताः । प्रणम्प्रत्नम्-प्रतनम्-प्रीणम् । 'भागरूपनामभ्यो धेयः' ( वा ३३३०)। भागधेयम् । रूपधेयम् । नामधेयम् । 'आग्नीध्रसाधारणाद' (वा ३३३४ )। आग्नीध्रम् । साधारणम् । स्त्रियां ली । भाग्नीधी। साधारणी। (२०६४) अतिथेगः । ४॥२६॥ तादर्थ्य इत्येव । अतिथये इदमातिथ्यम् । (२०६५) देवात्तल ५।४। २७॥ देव ऐव देवता । ( २०६६) अवेः कः ५।४।२८॥ अविरेवाविकः । (२०४७) यावादिभ्यः कन् ५।४।२६॥ याव एव यावकः । मणिकः । (२०४८) स्तुत्या चेत्युक्तं 'सास्य देवता' इत्यत्र । अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्यातिः । तदाह-पितृदेवत्यमिति । देवताशब्दस्य देवाः मनुष्याः पितरः असुराः रक्षांसि पिशाचाः इत्यादि श्रुतिपुराणादिप्रसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न सिध्यतीत्याक्षिप्य दिवेश्वर्यकर्मणो देवः तस्मा. स्वाथें तलिति समाहितम् । हविः प्रति पित्रादीनामीश्वरत्वं स्वामित्वम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याशुद्देशेन त्यक्तं चेत्तदाग्नयादिस्वामिक भवितुमर्हति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविशेषात्मकमेव भाष्यरीत्यापि पर्यवस्यतीत्यलम् । पादार्घाभ्यां च । तादर्थं यदिति शेषः । अयमिति । अर्धार्थमुदकमिति विग्रहः । अर्घः पूजा । 'मूल्ये पूजाविधावः' इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात् खप्रत्यये, तस्य ईना. देशे, प्रकृतेन भावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वातिकमिदम् । चात्पूर्वोक्ता इति। त्नप, तनप , ख इत्यर्थः । प्रोणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीधेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् आग्नीध्रम् । ततः स्वार्थ अनि आग्नीध्रमेव । अनेकं प्रत्ययविशिष्टसम्बन्धं साधारणमुच्यते। ततः स्वार्थे अनि साधारणमित्येव । अविधेः प्रयोजनमाह-स्त्रियां ङीबिति । अतिथेयः । तादर्थे इत्येबेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुर्थ्यन्तात् ण्यः स्यादित्यर्थः। देवात्तल् । तादरें इति निवृत्तम् । अत्यन्तस्वार्थिकोऽयं तल् । देवतेति । स्वार्थिकत्वेन प्रकृति. लिङ्गातिक्रमात स्त्रीत्वम् । अवेः कः । अयमपि केवलस्वार्थिकः । 'अवयः शैलमेषाः इत्यमरः ।
यावादिभ्यः कन् । यावक इति । यवानामयं यावः ओदनादिः स एव यावकः । अल.
For Private and Personal Use Only
Page #928
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१ ]
बालमनोरमासहिता ।
लोहितान्मणौ ५|४|३०|| लोहित एव लोहितको मणिः । (२०६६) वर्णे चानित्ये ५|४|३१|| लोहितकः कोपेन । 'लोहिताल्लिङ्गबाधनं वा' (वा ३३२२) । कोहितिका-लोहिनिका कोपेन । (२१००) रक्ते ५|४|३२|| लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' ( ३३२२ ) इत्येव । लोहितिकालोहिनिका शाटी । (२१०१) कालाच्च ५|४|३३|| 'वर्णे चानित्ये' (सू २०९९) ‘रक्ते' ( सू २१०० ) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः
१६
1
वृक्ष वायाः, स एव यावकः 'यावोऽलक्तो द्रुमामयः' इत्यमरः । लोहितान्मयो । मणौ वर्तमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । माणिक्यमयो मणिरेवेह मणिविंवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान् स्फटिकमणिस्तस्य तु 'रक्ते' इत्युतरसूत्रेण सिद्धम् । वर्णे चानित्ये । अनित्ये वर्णे विद्यमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति । देवदत्तादिरिति शेषः । कोपनि - मित्तकं देवदत्तादेर्लोहित्यमनित्यमेव, कोपाभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात् । तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, सवर्णः नित्य इत्यभिमतमिति न दोषः । स्यादेतत् । लोहिनिका लोहितिका वा कोपेनेति स्त्रियां रूपद्वयमिष्यते । तत्र लोहितशब्दात् 'वर्णादनुदात्' इति नत्वसन्नियोगशिष्टं ङीपं परत्वात् स्वार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टडीपो न प्रसक्तिः, कोपधस्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापि 'प्रत्ययस्थात्' इति इवे लोहितिकेत्येव स्यात्, न तु तत्र लोहिनिकेति । अत आह— लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाघो वा स्यादित्यर्थः । असति तु कना डीपो बाधे लोहिनीशब्दात् कनि 'asm" इति स्वे कन्नन्ताट्टापि लोहिनिकेति सिध्यति । सति तु कना ङोपो बाधे लोहिताशब्दात् कनि 'केऽणः' इति हस्वे टापि लाहितिकेति भवति । ननु 'ड्याप् प्रातिपदिकात' इत्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे व्यान्ग्रहणं ब्याबन्तादेव तद्धिताः भवन्ति, नतु ड्याभ्यां प्रागित्येवमर्थमित्युक्तम् । एवञ्च ङीपः प्राक् कनः प्रसक्ते रेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु याग्रहणं न सम्बध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकता यान्तादेव सुपि ततः कनि रूपसिद्धवचनमिदं व्यर्थमिति वाच्यम् । अत एव स्वार्थिकतद्वितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः ।
रक्ते । लाक्षादिना रक्त पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वे -
For Private and Personal Use Only
Page #929
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
पटः । कालिका शाटी । (२१०२) विनयादिभ्यष्टक् ५।४।३४॥ विनय एक वैनयिकः । सामयिकः । उपायाधस्वत्वं च' (ग सू १४४) भोपयिकः । (२१०३) वाचा व्याहृतार्थायाम्।४।३५॥ सन्दिष्टार्थायां वाचि विद्यमानाद्वाक्छब्दात्स्वार्थे ठक् स्यात् । 'सन्देशवाग्वाचिकं स्यात्' इत्यमरः । (२१०४) तयुक्ताकर्मणोऽण ५॥४॥३६॥ कर्मैव कामणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः । (२१०५) श्रोषधेरजातौ ५।४।३७॥ स्वार्थेऽण् । औषधं पिबति । अजातो किम् ओषधयः क्षेत्रे रूढाः । (२१०६) प्रशादिभ्यश्च ५।४।३८॥ प्रज्ञ एव प्राज्ञः । प्राज्ञा स्त्री। देवतः । बान्धवः । ( २१०७) मृदस्तिकन् ५।४।३६॥ मृदेव मृत्तिका । (२१०८) सस्नो प्रशंसायाम् ५।४।४०॥ रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना । उत्तरसूत्रे अन्यतरस्यांग्रहणान्नित्योऽयम् । (२१०६) बह्वल्पार्थाच्छ. स्कारकादन्यतरस्याम् ५।४।४२॥ बहूनि ददाति बहुशः । अल्पानि अल्पशः जाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तत इति । अनित्ये वणे रक्ते च वर्तमानात्स्वार्थे। कन्निति फलितम् । अनित्ये वणे उदाहरति-कालकं मुखं वैलक्ष्येणेति । लज्जासूयादि. नेत्यर्थः । रक्ते उदाहरति-कालकः पट इति । नील्यादिनेति शेषः । विनयादिभ्यः। उपायाद्भस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थ ठक् । प्रकृतेदीर्घस्य हस्वत्वं चेत्यर्थः । हस्वस्य हस्वविधौ वैयर्थ्यादीर्घस्येति गम्यते । वाचो व्याहृतार्थायाम् । इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः । व्याहृतः अर्थों यस्या इति विग्रहः ।तदाह-सन्दिष्टार्थायामिति । तद्युक्तात् । सन्दिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तद. भिधायिनः कर्मन् शब्दात्स्वार्थ अणित्यर्थः । कमैव कामणमिति । अनिति प्रकृतिभा वान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाहवाचिकं श्रत्वेति । ओषधेरजाती। औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमवादिद्वव्यसंसृष्टं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति। उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् । प्रशादिभ्यश्च । स्वार्थे अणिति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः, 'इगुपधज्ञा' इति कः। प्रज्ञशब्दात्स्वार्थे अण् । प्राशीति । अण्णन्तत्वात् डीप । प्रज्ञा अस्यास्तीति विग्रहे तु 'प्रज्ञाश्रद्धाभ्यः' इति णान्तात् टापि प्राज्ञेति रूपम् । __मृदस्तिकन् । मृदूशब्दात्स्वार्थे तिकनित्यर्थः । सलौ । प्रशस्तायां मृदि वर्तमानात् मृच्छब्दात्स्वार्थ स स्न एतौ प्रत्ययो स्त इत्यर्थः । रूपप इति । 'प्रशंसायां रूपा इति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः। वस्तुतस्तु 'ज्यादयः प्राग्वुनः' इत्यादिपरिगणितेषु अनयोः प्रत्यययोरन्तर्भावादनित्यत्वमेवानयोरुचितमित्याहुः ।
For Private and Personal Use Only
Page #930
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
६२१
'बह्वल्पार्थान्मालामालवचनम्' (वा ३३३८)। नेह बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु । (२११०) संख्यैकवचनाच्च वीप्सायाम् ।। ४३॥ द्वौ द्वौ ददाति द्विशः। माष माष माषशः । प्रस्थशः। परिमाणशब्दाः वृत्तावेकार्थी एव । संख्यकवचनात् किम् । घटं घटं ददाति । चीप्सायाम् किम् । बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । बह्वल्पार्थाच्च कारकाभिधायिनः शब्दात्स्वाथें शस्प्रत्ययो वा स्यादित्यर्थः । बह्वल्पार्थादिति । वार्तिकमिदम् । मङ्गलामङ्गले गम्ये एवायं शसित्यर्थः । बहूनि ददास्यनिष्टेष्विति । भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयकेष्विति । अभ्युदयः श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदान अनिष्टेषु अल्पदानं च मङ्गलम् । तद्विपरीतदानं तु अमङ्गालमिति भावः । अर्थग्रहणा. दूभूरिशो ददाति, स्तोकशो ददाति इत्याचप्युदाहार्यम् । सङ्खयैकवचनाच्च । सङ्ख्या च एकवचनं चेति समाहारद्वन्द्वात्पञ्चमी । एकत्वविशिष्टोऽर्थः उच्यतेऽनेनेत्येकवचनः । एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः । सहयावाचकात्तदन्यस्माच्चैकत्वविशिष्टबाचकात्कारकाभिधायिनः प्रातिपदिकात् वीप्सायां शस् वेत्यर्थः। सड्डयावाचिन उदाहरति-द्वौ द्वौ ददातीति । 'नित्यवीप्सयोः' इति द्विवचनम् । द्विशः इत्यत्र तु न । शसव वीप्साया उक्तत्वात् । 'तद्धितश्वासर्वविभक्तिः' इत्यत्र 'शत्प्रभृतयः प्राक् समा. सान्तेभ्यः' इति परिगणनात शसादीनां डाचपर्यन्तानामव्ययत्वम् । एकत्वविशिष्ट. वाचिन उदाहरति-माषं माषं माषश इति । माषं माषमित्यनन्तरं ददातीति शेषः । माषशब्दः परिमाणविशेषवाची। प्रस्थश इति । प्रस्थं प्रस्थं ददातीति विग्रहः।
ननु घट घटं ददातीत्यत्रापि घटशः इति स्यात् , घटशब्दस्याप्येकत्वविशिष्टार्थ. वाचकत्वात् । न च एकत्वविशिष्टस्यैवार्थस्य वाचकः एकवचनशब्देन विवक्षितः । घट शब्दस्तु नैवम् । घटौ घटाः इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम् , एवं सति माषशः प्रस्थशः इत्यत्रापि शसभावप्रसङ्गादित्यत आह-परिमाणशब्दा वृत्तावे. कार्था एवेति । अयमाशयः-समालादिवृत्तौ एकत्वविशिष्टस्यैवार्थस्य वाचका एकवच. नशब्देन विवक्षिताः । तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि । माषदातेत्युक्ते हि माषपरिमितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति । अतो माषशब्दोऽयं भवति वृत्तावेकत्वविशिष्टार्थनियतः। एवं प्रस्थादिशब्दोऽपि । घटशब्दस्तु नैवम् । घटदातेत्युक्ते घटानां दातेत्यपि प्रतीतेः । एतदेवाभिप्रेत्य प्रत्युदाहरति-घटं घटमिति । एतत्सर्वं जयादित्यमतम् । वामनस्तु उक्तनियमे प्रमाणाभा. वात जातिशब्देभ्योऽपि शस् भवत्येव, एकवचनग्रहणं तु घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह । एकैकशः पितृसंयुक्तानित्यत्र तु शसैव वीप्साया उक्तत्वात् द्विर्वचन. मार्षमिति हरदत्तः । प्रत्याहाराक्षिकभाष्ये 'एकैकशः सहस्रकृत्वः' इति भाष्यप्रयो
For Private and Personal Use Only
Page #931
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
द्वौ ददाति । कारकात् इत्येव । द्वयोईयोः स्वामी। (२१११) प्रतियोगे पञ्च. म्यास्तसिः ५४॥४४॥ प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्ता. तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । 'आद्यादिभ्य उपसङ्ख्यानम् (वा ३३३९) । भादौ आदितः । मध्यतः। अन्ततः। पृष्ठतः । पार्वतः। आकृतिगणोऽयम् । खरेण स्वरतः । वर्णतः । (२११२) अपादाने चाहीयरुहोः ५४॥४५॥ अपा. दाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः। अहीयरहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति । (२१५३) मतिग्रहाव्यथनक्षेपेवकतरि तृतीयायाः ५४४६॥ अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य प्रहोऽतिप्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृतेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे-वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तन निन्दित इत्यर्थः । अकर्तरि इति किम् । देवदत्तेन क्षिप्तः । (२११४) होयमानपापयोगाच्च ५४७॥ हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन होयते। वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि इति किम् । देवदत्तेन हीयते । (२११५) षष्ठ्या व्याश्रये ५४।४॥ षष्ठयन्ताद्वा तसिः स्यान्नानापक्षसमाश्रयणे । देवाः अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । गात् स्वार्थिकशसा समाधेयमित्यन्ये । __ प्रतियोगे । विहितेति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतेः कर्मप्रवचनीचत्वे तद्योगे 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी विहितेत्यर्थः । प्रद्युन्नः कृष्णतः प्रतीति । कृष्णस्य प्रतिनिधिरित्यर्थः । श्राद्यादिभ्य इति । अयं सार्वविभक्तिकस्तसिः। अपादाने चाहीयरुहोः । अहोयरहोरिति छेदः । हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीयेत्यनुकरणम् । हीयरुहोः सम्बन्धि यन्न भवति तस्मिन्नपादाने इत्यर्थः । प्रतिग्रहाव्यथन । अतिक्रम्य ग्रह इति । लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्र. तीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम् , तेन हेतुना इतरविलक्षण. त्वेन दृश्यते इत्यर्थः । फलितमाह-अन्यानतिक्रम्य वर्तत इति । 'व्यथ भयसञ्चलनयो। इति चलनार्थात् ल्युटि व्यथनशब्दः । तदाह-अव्यथनमनचलनमिति । क्षेपे इति । उदा. हियत इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच्च । हीयमानेति । हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह-क्षेपस्याविवक्षायामिति । तत्त्वकथने इत्यर्थः । षष्ठया व्याश्रये । नानापक्षसमाश्रयणे इति । सर्व. साधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुन
For Private and Personal Use Only
Page #932
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
१२३
अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा । (२११६) रोगाच्चापनयने ५।४।४६॥ रोगवाचिनः षठयन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति । (२११७) कृभ्वस्तियोगे सम्पद्यकर्तरि त्रिः ५।४।५०॥ 'अभूतद्भाव इति वक्तव्यम्' ( वा ३३४० ) विकारात्मतां प्राप्नुवत्या प्रकृतौ वर्तमानाद्विकारशब्दात्स्वाथै चिर्वा स्यात्करोत्यादिभिर्योगे। (२११८) मस्य च्चौ ७। ४॥३२॥ अवर्णस्य ईत्स्यात् चौ। वेर्लोपः । च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः सम्पद्यते, तं करोति-कृष्णोकरोति । ब्रह्मोभवति । गङ्गीस्यात् । 'अव्ययस्य च्वावीत्वं नेति वाच्यम्। ( वा ५०५२ ) । दोषाभूतम् अहः । दिवाभूता रात्रिः । तोऽभवन्निति । अर्जुनस्य पक्षे देवा आसन्नित्यर्थः। श्रादित्याः कर्णतोऽभवन्निति । सूर्याः कर्णस्य पक्षे आसन्नित्यर्थः । रोगाच्च । रोगस्य प्रतीकारः चिकित्सा। प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः ।
कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्पप्राप्तावित्यर्थः । एवञ्च यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमान विकाराभेदेन विवक्ष्यते, तत्रैवार्य प्रत्यय इति लभ्यते । सम्पद्यकर्तरीत्येकं पदम् । सम्पदनं सम्पद्यः । सम्पूर्वकाल्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वात् श्यन् । सम्पद्यस्य कति षष्ठीसमासः । सम्पद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य सम्पत्तिरित्याकाङ्क्षायाम् , 'अभूततद्भावे' इति वातिकात् प्रकृतेर्विकाररूपेण सम्पत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, नतु प्रकृतिवाचकात्, व्याख्यानात् । तथा च फलितमाहविकारात्मतामित्यादिना । वर्तमानादिति । विकारवाचकशब्दस्य प्रकृती गोण्या वृत्त्या विद्यमानत्वं बोध्यम् । करोत्यादिभिरिति । 'डु कृज करणे, भूसत्तायाम् , अस भुवि इति धातुभिर्योगे सतीत्यर्थः । विप्रत्यये चकार इत्, इकार उच्चरणार्थः। अस्य च्वौ। ईत्स्यादिति । 'ई घ्राध्मो इत्यतः तदनुवृत्तरिति भावः । वेर्लोप इति । 'वेरपृक्तस्य' इत्यनेनेति शेषः । व्यन्तत्वादव्ययत्वमिति । 'ऊर्यादिच्चिडाचश्च' इति निपातत्वात् स्वरादिनिपातमित्यव्ययत्वमित्यर्थः। तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्प्रभृतयः प्राक् समासान्तेभ्यः इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृयोगे उदाहरति-कृष्ण इति । वस्तुतः अकृष्णः सन् वेषादिना कृष्णभावं प्राप्नोतीत्यर्थः । तं करोतीति । अकृष्णं कृष्णरूपेण सम्पद्यमानं करोतीत्यर्थः । कृप्णीकरोतीति । अत्र वस्तुतः अकृष्णो नटः प्रकृतिभूतः। स तावत्कृष्णभावं विकारं प्राप्नुवन् सम्पद्यमानत्वात् सम्पद्यकर्ता भवतीति तत्राभेदारोपमवलम्ब्य वर्तमानः विकारभूतकृष्णवाचकः शब्दः ।
For Private and Personal Use Only
Page #933
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
एतच्च 'अव्ययीभावश्च' (सू ४५१) इति सूत्रे भाष्ये उक्तम् । (२११६) क्य
च्याश्वा४१५२॥ हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्चो च परतः । गार्गीभवति । (२१२०) च्वौ च ७।४।२६॥ च्चौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् , तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया च्वेरभावात्सिद्धम् । 'स्वस्तीस्यात्' इत्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तीन भिधानात् विरेव नोत्पद्यत इत्य स्तु। तस्मात् विप्रत्ययः, चकार इत् इकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्वम् । 'वेरपृक्तस्य' इति वकारलोपः। कृष्णीति ईकारान्तमव्ययम् । ब्रह्मोभवतीति । अब्रह्म ब्रह्म सम्पद्यमानं भवतीत्यर्थः। ब्रह्मन्शब्दात् विः। अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वानलोपः। ईत्वमिति भावः । अत्यन्तस्वाथिकानामेव प्रातिपदिकादुत्पत्तिः नतु सुबन्तादिति नियमः । अतो न च्वेः प्रातिपदिकादुत्पत्तिः। किन्तु सुबन्तादेवेति बोध्यम् । अत एव अगौौः समपद्यत गोऽभवदित्यत्र व्यन्तस्य गोशब्दस्य 'एडः पदान्तात्' इति पररूपमुदाहृतं भाष्ये सङ्गच्छत इत्यलम् । _ गङ्गीस्यादिति । अगङ्गा गङ्गात्वेन सम्पद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतम् अहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रा. त्रिरित्यर्थे वर्तते । अदोषाभूतमहः बहुलमेघावरणान्धकारात् दोषाभूतमित्यर्थः । दि. वाभूता रात्रिरिति । दिवेत्याकारान्तमव्ययम् अहनीत्यर्थे । इह तु महरित्यर्थे वर्तते । चन्द्रिकातिशयवशात अहभूतेत्यर्थः । ननु 'अव्ययस्य च्वावीत्त्वं न' इति वार्तिकम् 'अस्य च्वौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह -एतच्चेति । गार्गीभवतीति वक्ष्यनाह-क्यच्च्योश्च । 'अल्लोपोऽनः" इत्यस्मात् लोप इति, 'हलस्तद्धितस्यः इत्यस्मात् हल इति, 'सूर्यतिष्या इत्यतः य इति, 'आपत्यस्य च' इत्यस्मात् आपत्यस्येति चानुवर्तते । तदोह-हलः परस्येति । गागी भवतीति । अगाग्र्यो गायः सम्पद्यमानो भव. तीत्यर्थः । यजन्तात् च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तु 'आपत्यस्य च इति लोपो न सम्भवति, ईकारेण व्यवधानात् । 'हलस्तद्धितस्य' इत्यपि न सम्भ. वति । तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः। अथ शुचीभवतीति वक्ष्यन्नाह-चौ च । दीर्घः स्यादिति । 'अकृत्सार्वधातुकयो' इत्यतः तदनुवृत्तेरिति भावः। अव्ययस्येति । अव्ययस्य 'चौ च' इति दी? नत्यर्थः । तेन स्वस्ति स्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निर्मूलमिति । भाष्यादावदृष्टत्वादिति भावः। तहि स्वस्ति स्यादिति न स्यात् दीर्घप्रसङ्गादित्यत माह-स्वस्तिस्यादिति स्विति । ननु महाविभाषया दीर्घाभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्ती स्या. दिति दी| दुर्वार इति शङ्कते-स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह
For Private and Personal Use Only
Page #934
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
४२५
'रीकृतः' (सू १२३ ४ )। मात्रीकरोति । (२१२१) मरुमनश्चक्षुश्चेतोरहोरजमालोपश्च ५४५१॥ एषा लोपः स्यात् विश्व । अरूकरोति । उन्मनी. स्यात् । उच्चस्करति । उच्चेतीकरोति । विरहीकरोति। विरजीकरोति । (२१२२) विभाग साति कात्म्य'।४ ५२॥ विविषये सातिर्वा स्यात्साकल्ये। (२१५३) सात्पदायोः ८३११॥ सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रममिः सम्पद्यतेऽग्निसाद्भवति । अनीभवति । महाविभाषया वाश्यमपि । कात्स्न्य किम् । एकदेशेन शुक्लीभवति पटः ।(-१२४) भाभिविधौ सम्पदा च ।।४। ५३॥ सम्पदा कृस्वस्तिभिश्च योगे सातिर्वा स्याद्वयाप्ती । पक्षे कृभ्वस्तियोगे चिः। अस्विति । दीर्घतदभावाभ्यां रूपद्वमिति शेषः। प्रामाणिकत्वादुभयमप्यादर्तव्य. मिति भावः। ननु शिष्टानगीकारात् कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि। मातृशब्दात विप्रत्यये विशेषमाह-रोड़त इति । __अर्मनश्चक्षः । एषामिति । अरुस् , मनस् , चक्षुस् , चेतस्, रहस् , रजस इत्ये. तेषामित्यर्थः । पूर्वेणैव प्रत्ययसिद्धेस्तत्सन्नियोगेन अन्त्यलोप इह विधीयते। अरूकरोतीति । अनरुः अरुः सम्पद्यते तत् करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्य 'चौचा इति दीर्घः । उन्मनीकरोतीति । अनुन्मना, उन्मनाः सम्पद्यते तं करोतीत्यर्थः । च्वौ अ. न्त्यलोपः, ईत्वं च । उच्चस्करोतीति । अनुच्चक्षुः उच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः दीर्घश्च । उच्चेतीकरोतीति। अनुच्चेताः उच्चेताः सम्पद्यते, तं करोतीत्यर्थः । च्चो अन्त्यलोपः, ईत्त्वं च। विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्ट रहो विरहः । अविरहो विरहः सम्पद्यते तत् करोतीत्यर्थः । च्वौ अन्त्य. लोपः ईत्त्वं च । विरजीकरोतीति । अविरजाः विरजाः सम्पद्यते तं करोतीत्यर्थः । अन्त्य. लोपे अस्य च्वौ ईत्त्वं च । विभाषा साति । सातीति लुप्तप्रथमाकम् । विविषये इति । अभूततद्भावे सम्पद्यकर्तरि कृभ्वस्तियोगे इत्यर्थः। सात्पदायोः। शेषपूरणेन सू व्याचष्टेसम्य षत्वं न स्यादिति । सातेरवयवस्य पदादेश सस्य षत्वं न स्यादित्यर्थः । 'न स्परसुपि' इत्यतो नेति 'अपदान्तस्य' इत्यतो मूर्धन्य इति चानुवर्तत इति भावः । पदा. देरुवाहरति-दधि सिञ्चतीति । पिचिधातोः 'धात्वादेः षासः इति षस्य सः। तस्य 'आदेशप्रत्यययोः' इति षत्वे प्राप्ते अनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसादित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्ते अनेन निषेधः। अग्नी. भवतीति । विप्रत्यये 'ध्वौ च' इति दीर्घः । महाविभाषयेति । 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्तेरित्यर्थः । महाविभाषया सिद्धे इह विभाषाग्रहण तु अपवादेन मुक्त औत्सर्गिकच्चेः समावेशार्थम् । अभिविधौ सम्पदा च । चकार: कृभ्वस्तिसमुच्चयार्थः । तदाह-सम्पदा कृभ्वरित.
For Private and Personal Use Only
Page #935
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६
Acharya Shri Kailassagarsuri Gyanmandir
[ तद्धिते स्वार्थिक
>
सम्पदा तु वाक्यमेव | अग्निसात्सम्पद्यते, अग्निसाद्भवति शस्त्रम्, अग्नीभवति । जलसात्सम्पद्यते, जलीभवति लवणम् । एकस्या व्यक्तः सर्वावयवावच्छेदेनान्यथाभावः कार्यम् । बहूनां व्यक्तीनां किञ्चिदवयवावच्छेदेनान्यथात्वं स्वभिविधिः । (२१२५) तदधीनवचने ५|४|५४ ॥ सातिः स्यात्कृभ्वस्तिभिः सम्पदा च योगे । राजसात्करोति, राजसात्सम्पद्यते । राजाधीनमित्यर्थः । ( २१२६) देये त्रा च ५|४|५५ ॥ तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति । विप्रत्राकरोति । विप्रत्रासम्पद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् । (२१२७) देवमनुष्य पुरुष पुरुमत्येभ्यो द्वितीयासप्तम्योर्बहुलम् ५|४|५६ || एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुकोतेरन्यत्रापि । बहुत्रा जीवतो मनः । (२१२८) अव्यक्तानुक रणादूयजवरार्धादनिती डाच् ५४५७॥ द्वयच् अवरं न्यूनम् तु ततो न्यूनम् ' अनेकाच्' इति यावत् । तादृशमर्ध यस्य तस्माड्डाच्स्याभिश्चेति । अभिविधावित्यस्य विवरणम् - व्याप्ताविति । पक्ष इति । सातिप्रत्ययाभावक्षे कृभ्वस्तियोगे पूर्वेण चिचः, सम्पदा योगे तु सातेरभावे वाक्यमेव, नतु च्चिः, कृस्वस्तियोग एव तद्विधानादित्यर्थः । सम्पदा योगे उदाहरति-अग्निसात्सम्पद्यत इति । कृभ्वस्तियोगे उदाहरति- अग्निसाद्भवति शस्त्रमिति | अग्निसात्करोति अग्निसात्ल्यादित्यप्युदाहार्यम् । कात्स्न्यभिविध्योर्विशेषमाह - एकस्या व्यक्तेरित्यादिना । तदधी - नवचने । शेषपूरणेन सूत्रं व्याचष्टे - सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृतमिति भावः । देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः : सम्पदा च योगे इत्यर्थः । देवमनुष्यपुरुष पुरुमत्येभ्यो द्वितीयासप्तम्योर्बहुलम् । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् ॥ 'साती'ति 'कृभ्वस्तितयोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे बेति । देवान् वन्दे, देवेषु रमेवेत्यर्थः । मनुष्यत्रा पुरुषत्रा । पुरुशब्दो बहुलपर्याय: । पुरुत्रा, मर्त्यत्रा । श्र न्यत्रापीति । देवादिभ्योऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्नोतीत्यर्थः ।
1
1
व्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णविशेषाः न व्यज्यन्ते सः अव्यक्तो ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । द्वयजवराधंशब्दं व्याचष्टे - द्यजिति । द्वाaat यस्येति विग्रहः । अवरशब्दं व्याचष्टे - न्यूनमिति । द्वयजेव अवरं न्यून सङ्ख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाचकमित्यर्थः । फलितमाह - अनेकाजिति यावदिति । तादृशमर्धमिति । अनेकाच्कम् अर्धं भागः यस्य तत्
सिद्धान्तकौमुदी
For Private and Personal Use Only
>
न
Page #936
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
६२७
स्कृभ्वस्तिभिोंगे। 'डाचि विवक्षिते द्वे बहुलम्' (वा ४६९७ )। 'नित्यमामेडिते डाचीति वक्तव्यम्' (वा ३६३८)। डापरं यदाप्रैडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः। पटपटाकरोति । अव्यक्तानुकरणात् किम् । ईषत्करोति । यजवरार्धात् किम् । श्रत्करोति । अवर-इति किम् । घरटघरटा करोति । त्रपटत्रपटाकरोति । 'अनेकाचः' इत्येव सूत्रयितुमुचि. तम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितो किम् । पटिति करोति । (२१२९) को द्वितीयतृतीयशम्बबीजात्कृषौ ५४५८॥ द्वितीयादिभ्यो डाच्स्यात्कृष एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य
-
द्वयजवरार्धम् । तस्मादित्यर्थः। कृभ्वस्तिभिः योगे इति। मण्डकप्लुत्या तदनुवृत्तरिति भावः । तथा च अनेकाच्यभागयुक्तादव्यक्तानुकरणात् शब्दात् कृभ्वस्तियोगे डान् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणात् डाचमुदाहरिष्यन् पटच्छब्दस्य द्विर्वचनमाह-डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे इति प्रकरणे 'डाचि द्वे भवत इति वक्तव्यम्' इत्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नार्थी, तथा सति डाचि सति पटच्छदस्य द्विवचन, सति च द्विवंचने अर्धल्यानेकान्त्वात् डाजित्यन्योन्याश्रयापत्तेः। अतः डाचि विवक्षिते इत्याश्रितम् । एवञ्च डाचि विवक्षिते पटच्छब्दस्य द्विवंचने सति पटत पटत् इत्यस्यानेकाकाधंभागयुक्तत्वात् डाच सूपपादः । पटत् पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति-नित्यमानेडिते डाचीति । 'एकः पूर्वपरयोः' इत्यधिकारे पररूपप्रकरणे 'नादंडितस्यान्त्यस्य तु वा' इति सूत्र. भाष्ये इदं वातिकं पठितम् । डाचपरमिति । डान् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपटत् आ करोति इति स्थिते डिवाष्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति । द्वयजर्धादित्येवास्त्वित्यर्थः। घरटघरटाकरोतीति । घरटत् इत्यव्यक्ता. नुकरणात् डाचि द्विवचने पररूपे टिलोपे रूपम् । द्वयजर्धादित्युक्त तु अर्धभागस्य घरटत् इत्यस्य बह्वच्कत्वाड्डाच न स्यादित्यर्थः । अनेकाच इत्येवेति । द्वयजवरार्धादित्यपनीय 'अव्यक्तानुकरणादनेकाचोऽनितो डान्। इत्येव सूत्रयितुमुचितमित्यर्थः । एवं होति । 'अनेकाचोऽनितो' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वात् डाच् सम्भवतीति 'डाचि परतो द्वित्वम्' इति वक्तुं शक्यमिति भावः। पटितीति । 'अव्यक्तानुकरणस्य' इति पररूपम् ।
कृशो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृम एव योगे इति । कृष्ग्रहणात् कृन्वस्ति नुवर्तत इति भावः । 'मद्रात्परिवापणे इति यावत्कृन इत्यनुवर्तते। बहुलोक्तेरिति । 'डाचि बहुलं वे भवतः' इति बहुलग्रह
For Private and Personal Use Only
Page #937
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति । द्वितीयाकरोति । तृतीयाकरोति । शंबशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति, शंबाकरोति । बीजेन सह कर्षति, बीजाकरोति । (२१:०) सङ्ख्यायाश्च गुणान्तायाः ५।४। ५६कृओ योगे कृषौ डाच्स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मक द्विगुणं करणं करोतीत्यर्थः । (२१३१) समयाच्च यापनायाम् ५।४।६०॥ कृषी इति निवृत्तम् । जो योगे डाच्स्यात् । समयाकरोति । कालं यापयतीत्यर्थः । (२१३२) सपत्त्रनिष्पत्रादतिव्यथने ५४॥६॥ सपत्रात्करोति मृगम् । सपुङ्खशरप्रवेशेन सपत्नं करोतीत्यर्थः । निष्पत्त्राकरोति । सपुङ्खस्य शरस्यापरपार्वे निर्गमनान्निष्पत्त्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् । (२१३३) निष्कुलान्निकोषणे ५४६२॥ निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् । (२१३४) सुखप्रि. यादानुलोम्ये ५शि६३॥ सुखाकरोति प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः । (२१३५) दुःखात्प्रातिलोम्ये पा४।६४॥ दुःखाकरोति स्वा. णात् अव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः। शम्बशब्दः प्रतिलोमे इति । वर्तत इति शेषः। बीजेन सह कर्षतीति। आदौ कृष्टक्षेत्रे कुलस्थादिबीजानां वापे कृते पुनः बीजः सह कर्षणं प्रसिद्धम् 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात् कृषधातुः शब्धिकरणोऽस्ति । तेन शविकरणत्वात् कृषतीत्येव युक्तमिति न शक्यम् । सङ्ख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे-कृनो योगे इति। समयाच्च । कृषाविति निवृत्तम् । समयशब्दात् यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह याप. नायामित्याह-यापयतीति । अतिक्रान्तं करोतीत्यर्थः । अचेदं कर्तव्यमित्युक्त विघ्न कञ्चिदापाद्य कालक्षेपं करोतीति यावत् | सपत्त्र । सपत्नशब्दात् निष्पत्त्रशब्दाच्च अ. तिव्यथने डाजित्यर्थः । 'व्यध ताडने' चतुर्थान्तः। अतिक्रम्य वेधः अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रं, शराणां पुगतो बहः । भूतलमिति । पुडपर्यन्तं पुड. वर्ज वा शरप्रवेशनेन सपत्नं निष्पत्त्रं वा भूतलं करोतीत्यर्थः ।।
निष्कुलानिष्कोषणे । डाजिति शेषः । निष्कोषणं अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरव. यवसमूहे वर्तते । तदाह-निर्गतमित्यादि। सुखप्रियादानुलोम्ये। सुखशब्दात्प्रियशब्दाच आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तनमानुलोम्यम् । सुखा. करोति पियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरुं सुखसम्पन्नं प्रियसम्पन्नं च करोती. त्यर्थः । तदाह-अनुकूलेति । दुःखात् । डाजिति शेषः । आराध्यप्रतिकूलाचरणं प्राति.
For Private and Personal Use Only
Page #938
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२]
बालमनोरमासहिता।
६२९
मिनम् । पीडयतीत्यर्थः । (२१३६) शूलात्पाके ५॥४॥६५॥ शलाकरोति मासम् । शूलेन पचतीत्यर्थः । (२१३७) सत्यादशपथे ५४॥६६॥ सत्याकरोति भाण्ड वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपये तु सत्यं करोति विप्रः । (२१३८) मद्रात्परिवापणे ५।४।६७॥ मद्रशब्दो मालार्थः । परिवापणं मुण्डनम् । मद्राकरोति । मानल्यमुण्डनेन संस्करोतीत्यर्थः । 'भद्राच्चेति वक्तव्यम्। (वा ३३४४)। भद्राकरोति । अर्थः । प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ।
इति स्वार्थिकप्रकरणम् । इति तद्धिताः ॥ __ अथ द्विरुक्तमकरणम् ॥४२॥ (२१३९) सर्वस्य हे १९॥ इत्यधिकृत्य । (२१४०): नित्यवीप्सयोः ॥४॥ भाभीक्ष्ण्ये वीप्सायां च द्योत्यै पदस्य द्विवचनं स्यात् । भाभीलोम्यम् । अन्यत्पूर्ववत् । शूलारपाके । डाजिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह-शूलेन पचतीत्यर्थ इति । सत्यादशपथे। डाजिति शेषः । सस्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते । 'सत्य तथ्य. मृतं सम्यक् इत्यमरः । क्रेतव्यमितीति । एतावतैव मूल्येन इदं क्रयणाहं नातोऽधिक. मूल्येनेत्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यङ्करोति विप्र इति । शपथं करोतीत्यर्थः । म. द्रात्परिवापणे । डाजिति शेषः । मद्रशब्दो मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणं मुण्डनमिति । केशान्वपते इत्यादौ तथा दर्शनादिति भावः । मानल्यमुण्डनेनेति । चौले. नेत्यर्थः । मद्रं करोति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणस्याप्रतीतेः न डाजिति भावः। इति बालमनोरमायां तद्वितप्रकरणं समाप्तम्। ___ अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति । द्विर्वचनविधयोऽनुकंस्यन्त इति शेषः । नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तच्च आभीक्ष्ण्यमिति भा. प्यम् । व्याप्तुमिच्छा वीप्सा, व्याप्तिप्रतिपादनेच्छा, साच प्रयोक्तृधर्मः। व्यासि. रेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा च नित्यव्याप्स्योरित्येव सुवचम् । ध्याप्तिश्च कात्स्न्येन सम्बन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते । सर्वस्येति स्थानषष्ठी।। इति त्वादेशसमर्पकम् । तस्य च शब्दरूपे इति विशेष्यमा ऑल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतः अर्थतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कात्स्न्ये न गम्ये कृत्स्ना. वयवविशिष्टस्य पदस्यार्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तद. भिप्रेत्याह-भाभीक्ष्ण्ये वीप्सायां च धोत्ये इति । द्योत्यं च धोत्या च धोत्यम् । तस्मि. नित्यर्थः । 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः । एकत्वं च
बा०५४
For Private and Personal Use Only
Page #939
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
सिद्धान्तकौमुदी
[द्विरुक्त
क्षण्यं तिबन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा। वीप्सा. याम् । वृक्षं वृक्षं सिञ्चति । प्रामो प्रामो रमणीयः । (२१४१) परेर्वजने १५॥ परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहत्येत्यर्थः । 'परेवर्जने वावचनम् । (वा ४६८३ ) परि वङ्गेभ्यः । (२१४२) उपर्यध्यधसः सामीप्ये १७॥ नित्यवीप्से च प्रकृतिगम्ये। द्विवचनं तु थोतकम् । सत्यपि प्रकृतेद्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । _ द्विवचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सि. खम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात् सुबन्तत्वम् । तेन अपचन्नपव. नित्यत्र मुट् वृक्षान्वृक्षानित्यत्र पदान्तस्या इति णत्वनिषेधः । अग्रेऽग्रे इत्यत्र 'एङः पदान्तात्' इति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनः पुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वात् भावे व्यभि, भवे उनि च पौनःपुन्यम् , पौनः पुनिक इति च सिध्यति । द्वे उच्चारणे स्त इत्याश्रयणे तु सर्व पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकल्यैव द्विरुच्चार्यमाणस्य पुनः पुनरित्यादेशत्वाभा. वेन स्थानिवत्त्वाप्रसक्त्या सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत । भाभीक्ष्ण्यं तिङन्तेष्विति । आभीक्ष्ण्यं पौनःपुन्यम् । त. उचेह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपए इति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्वातुमुन्नादिषु क्रियाप्राधान्यम् , अव्य. यकृतो भावे' इत्युक्तेः । तथा च तिअन्तेषु अव्ययसंज्ञककृदन्तेषु च पौना पुन्यनिमितद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति-पचति पचति भुक्त्वा भुक्त्वेति । वीप्साया. मिति । उदाहियत इति शेषः। वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः। अत्र प्रकृततद्वा. टिकागतवृक्षकात्स्न्यं गम्यते । जगतीतलस्थितकृत्स्नवृक्षसेचनस्य अशक्यत्वात् । स.
शब्दस्य कात्स्यवाचित्वेऽपि न द्वित्वमित्यनुपरमेव यथास्वे इत्यत्र वक्ष्यते । वृक्ष वृक्षमित्यत्र कात्स्यावगमेऽपि प्रत्येकनिष्ठमेकत्वमेव भासते, नतु बहुत्वम् । अतो न बहवचनम्, 'एकैकस्य प्राचामिति लिङ्गाच्च । सर्वस्येत्यभावे वृक्षाभ्यामित्यदौ'स्वा. दिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विवचनं स्यात् । कृते तु सर्वग्रहणे - दावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान दोषः । पद. स्येति किम् , वाक्यस्यामा भूत् ।
परेवर्जने । वर्जने वर्तमानस्य परीत्यस्य वे स्त इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति । पर्जन्य इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः । 'पञ्चम्यपाल्परिमिः' इति पञ्चमी । परि हरेः संसारा इत्यत्र तु, परेरसमासे इति वक्तव्यमिति वार्तिकात् न द्विवचनम् । उपर्यध्यधसः । उपरि, अधि, अधः एतेषां वे स्तः सामीप्ये गम्ये इत्य.
For Private and Personal Use Only
Page #940
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता ।
उपर्युपरि प्रामम् । ग्रामस्योपरिरसमीपे देशे इत्यर्थः । अध्यधिसुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् | लोकस्याधस्तात्समीपे देशे इत्यर्थः । (२१४३) वाक्यादेरामन्त्रितस्यासूयासम्मतिका पकुत्स नभर्त्सनेषु ८|१| || असूयायाम्, सुन्दर सुन्दर था ते सोन्दर्यम् । सम्मती — देव देव वन्योऽसि । कोपे—दुर्विनीत दुर्विनीत इदानीं ज्ञास्यखि ।
1
कुत्सने - धानुष्क धानुष्क वृथा ते धनुः । भर्त्सने चोर चोर घातयिष्यामि त्वाम् । (२१४४) पर्क बहुव्रीहिवत् | १६॥ द्विरतः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावो । एकैकमक्षरम् । इद्द द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्धावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावाद र्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तु कालत इति ज्ञेयम् । वाक्यादेः । द्वे स्त इति शेषः । यद्यपि कोपाद्भर्सनम्, असूयया कुत्सनं, तथापि विनापि कोपासूये भर्त्सन कुत्सनयोः शिष्यादौ सम्भवात्पृथक् ग्रहणम् इति भाष्ये स्पष्टम् । सुन्दरेति । सौन्दर्यमसहमानस्येदं वाक्यम् । देवेति । तव वन्दनं संमतमित्यर्थः । दुर्विनीतेति । क्रोधाविष्टस्य वाक्यम् । ज्ञास्यसीति । दुर्विनयस्य फलमिति शेषः । धानुष्केति । युद्धासमर्थ प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् ।
1
1
,
एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते, 'वीप्सामात्रविषयमिदम्' इति भाष्याच्च । तेनेति । बहुव्रीहिवत्वेन सुब्लोपपुंवद्भावो सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति - एकैकमिति । इहेति । एककमित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात् सुबित्यन्वयः । ननु 'यत्र सङ्घाते पूर्वो भागः पदं तस्य चेन्नवति तहिं समासस्यैव' इति नियमेन समुदायस्य प्रातिपदिकत्वाभावात् कथमिह सुपो लुक् कथं वा समुदायात् सुबित्यत आहबहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्च सुपोर्लुकीत्यत्र समुदायात्सुबित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवस्वेऽप्युदाहरति एकैकया आत्येति । एकयेत्यस्य द्विर्वचने सति एकया एकयेति स्थिते, बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंस्ये कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाभावे तु इह समुदायस्य प्रातिपदिकत्वाभावात् सुपोर्लुक् पूर्वखण्डस्य पुंवत्वं च न स्यात्, उत्तरपदपरकत्वाभावात् समासचरमावयवस्यैव उत्तरपदत्वादिति भावः । एकैकामित्यत्र उत्तरखण्डस्य 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वं बहुव्रीहिवस्त्रे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वा' इति लिङ्गादित्युक्तत्वादिति
-
For Private and Personal Use Only
६३१
Page #941
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९३२
सिद्धान्तकौमुदी
. [द्विरुज
anand
वग्रहे विशेषः । 'न बहुव्रोही' (सू २२२) इत्यत्र पुनर्बहुव्रीहिग्रहण मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुब्रोही सर्वनामतास्येवेति प्राश्वः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विप्रहे निषेधक, न तु बहुव्रीहावितीहातिदेशश जैव नास्ति । एकैकस्मै देहि । (२१४५) आवाधे च ।१।१०॥ पीडायो थोत्यायो द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः । (२१४६) कर्मधारयव.
बोध्यम् । ननु सुपोलुंकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह-इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डः अवग्रहः । 'तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम् । एकैकयेत्येक एकया इती. ज्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभावे तु एकैकयेत्येका एकयेति स्यादिति भावः। तैत्तिरीयास्तु एकैकयेत्येका एकया इत्येवावगृह्णन्ति । एक समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीही प्रकृत्या पूर्वपदमिति स्वरार्थम् । ___ ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत आह-न बहुव्रीहावित्यत्रेति । 'विभाषा दिक्समासे बहुव्रीहौ। इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्ध 'न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतः बहुव्रीहिवदित्यदितिष्टबहुवीही सर्वनामत्वनिषेधो नेत्यर्थः । तदाह-तेनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह-वस्तुतस्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः। एवं च बहुव्रीहावपि सर्वनामत्वस्य मा. प्यसम्मततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्व निर्वाधमिति भावः । सूत्रमते. ऽपीति । उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधे सिद्धे 'न बहुव्रीहौ इति बहुवी. अर्थके अलौकिकविग्रहवाक्ये एव समासात् प्राक् सर्वनामत्वं निषिध्यत इति प्रागेवो.क्तम् । तस्मादिह बहुवीह्यतिदेशप्रयुक्तसर्वनामकार्याभावशकैच नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपो कि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात् स्मैभाव इति भावः। आबाधे च । आबाधः पीडा। तदाह-पोडायामिति । गतगतः इति । प्रियां विना काल इति शेषः । आबाधं दर्शयितुमाह-विरहादिति । स्त्रीवियोगादि. त्यर्थः । बहुव्रीहिवद्भावादिति । गत इत्यस्य द्विवचने सति बहुव्रीहिवत्त्वात् समुदायस्य प्रातिपदिकत्वेन सुपोर्चुकि समुदायात् सुबुत्पत्तिरित्यर्थः । गतगतेति । प्रियेति शेषः । इयमपि स्त्रीविरहात् पीड्यमानस्योक्तिः। एकस्या एव गमनकाः द्विः कथनात् समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति स्त्रियाः पुंवत्' इति पुंवत्त्वम् , बहुव्रीहिवत्वा. दुत्तरपदत्वस्यापि सत्त्वात् । तदाह-इह पुंवद्भाव इति ।
For Private and Personal Use Only
Page #942
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२]
बालमनोरमासहिता।
६३३
Nown
-
दुत्तरेषु १११॥ इह उत्तरेषु द्विवचनेषु कर्मधारयवत्कायम् । प्रयोजन सुब्लोपपुंवद्भावान्तोदात्तस्वानि (बा ४६८९)। (२१४७) प्रकारे गुणवचनस्य | १२॥ सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । 'कर्मधारयवदुत्तरेषु-' (सू २१४६) इत्यधिकारात् । तेन पूर्वभागस्य पुंबद्भावः, 'समासस्य (सू ३७३४) इत्यन्तोदात्तत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः। ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्ल. शुक्लः पटः । 'मानुपूर्ये द्वे वाच्ये' (वा ४६९२)। मूले मूले स्थूलः । 'सम्भ्रमेण प्रवृत्ती यथेटमनेकधा प्रयोगो न्यायसिद्धः (वा ५०५६) । सर्पः सर्पः, बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः, बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा ___ कर्मधारयवदुत्तरेषु । कार्यं स्यादिति शेषः । कर्मधारयवत्त्वस्य फलमाह-प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तस्वानीति । अनुदात्तं चेत्यधिकृतमपि भाष्यप्रामाण्यानात्र सम्बध्यत इति भावः । प्रकारे गुणवचनस्य । प्रका. रशब्दः सादृश्ये वर्तते व्याख्यानादित्यभिप्रेत्याह-सादृश्ये द्योत्य इति । गुणवचनशब्देन 'मा कडारात् इति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्यन्त इति 'वोतो गुणवचनात्। इत्यादौ प्रपञ्चितमिदम् । तेनैति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति । 'पुंवत्कर्मधा. रया इत्यनेनेति शेषः । पटुपटवीति । पट्वीशब्दस्य द्विवंचने कर्मधारयवत्वात् 'व. कर्मधारय' इति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि 'स्त्रियाः पुंवत्' इति पुंवत्वादिदं सिद्धम् , तथापि कारिकेत्यादिकोपधाविष्वपि पुंवत्त्वार्थे कर्मधारयवदिति वचनमिति भावः । पटुपटुरिति । 'वोतो गुणवधनात्' इति डीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । इत्यर्थ इति शेषः । फलितमाह-ईषत्पटुरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रध्यवाचित्वमेवेति । भ्रमं निरस्यति-गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसहमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूय इति । अत्र वार्तिके कर्मधारयवदिति न सम्बध्यते, तदु. दाहरणे भाष्ये सुब्लोपादर्शनादित्यभिप्रेत्योहरति-मूलेमूले इति । पूर्वपूर्वो मूलभागः उत्तरोत्तरमूलभागापेक्षया स्थूल इति यावत् ।
सम्भ्रमेणेति । वार्तिकमिदम् । सम्भ्रमः भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमाः नायां यथेष्टम् इच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेक. घेत्युक्तेढ़े इति निवर्तते। यथेष्टमित्युक्तेरसकृत्वेऽप्येकस्य प्रयोगः स्यादिति शङ्का निरस्यति-न्यायसिद्ध इति । यावद्वारं प्रयोगे सति बोद्धा अर्थ प्रत्येति, तावद्वारमेव प्रयोगः। बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः। एतच्च भाष्ये स्पष्टम् ।
For Private and Personal Use Only
Page #943
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३४
सिद्धान्तकौमुदी
[द्विरुक्त
-
४६९५)। लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४०) इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकता लब्धं वा । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्' (वा ४७००)। बहुलप्र. हणादन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । 'असमासवद्भावे पूर्वपद. स्थस्य सुपः सुर्वक्तव्यः' (वा ४७००)। अन्योन्यं विप्रा नमन्ति । अन्योन्यौ। अनापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक् , भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति । वार्तिकमिदम् । वे स्त इति शेषः । पौनः पुन्य भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् । 'क्रियासमभिव्याहारे लोट् लोटो हिस्वौ वा च तवमोः इति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति -लुनीहि लुनीहीत्येवायं लुनातीति । लुन्, छेदने अस्मात् 'क्रिया. समभिहारे लोट् लोटो हिस्वौ' इति लोट् । तस्य हि इत्यादेशः श्नाविकरणः । लुनीहोत्यस्य अनेन द्विर्वचनम् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इत्यनुप्रयोगः । तस्मा. ल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्याः एककर्तृकं लवनमनुप्र. योगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रि. यायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः। नि. स्येति । 'नित्यवीप्सयोः' इति पौनःपुन्ये द्विर्वचने सिद्धेऽपि भृशाथें द्विर्वचनार्थ इदं वा. तिकमित्यर्थः । नन्वस्य भृशार्थ एवं द्विवचनफलकत्वे 'भृशे च' इत्येव सिद्धे 'क्रिया. समभिहारे' इति व्यर्थमित्यत आह-पौनःपुन्येऽपीति । लुनीहि लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्यायोतितत्त्वात्तत्र नित्यवीप्सयोर्विचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च धातोरेका इति पौनःपुन्ये यडन्ते पापच्यते इत्यादौ न द्विवचनमित्यन्यत्र विस्तरः।
कर्मव्यतिहारे इति । क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्त पदे बहुलं समासवदित्यर्थः, अत्र 'बहुलम्' इति समासवदित्यत्रै. वान्वेति । द्विवचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समा. सवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहि. तमेव इतरशब्दस्य तत्सहितमेवोदाहरेणं भाष्ये दृश्यते । तथा च परस्परोपपदाच्चा इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यत इति भावः । एवञ्च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्य द्विवचनम् । द्विरुक्तयोस्तु समास. वत्त्वं बहलम् । इतरशब्दस्य तु तदर्भयमपि नित्यम् । एतत्त्रयव्यतिरिक्तसर्वनामश. सदस्य तु नेदं द्वित्वम् , बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरश. उदयोरव । इतरशब्दस्य समासवत्वस्यैवोक्तत्वात् । सुपः सुरिति । सुबिति प्रत्याहारस।
For Private and Personal Use Only
Page #944
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता।
१३५
अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । 'अन्योन्येषां पुष्करै। रामृशन्तः' इति माघः। एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरे. तरम् । इतरेतरेणेत्यादि । 'नीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्त. सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशोवाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम् , भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तोमदाहरति-अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यम् अन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः। प्रथमैकव. चनस्यैवेदं द्वित्वादीत्येतत् न कविसम्मतमित्याह-अन्योन्येषामित्यादि माघ इयन्तम् । परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशक्य आह-कस्कादिस्वादित्यादि। इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात् सुपोलकि समुदायात् पुनः सुबुत्पत्तिरिति भावः।
स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोविद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेः आम् इत्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि। अन्योन्यां अन्योन्यं वा इमे ब्राह्मण्यो कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यो कुले वा भोजयतः, इतरेतरां इतरतरं वा इमे ब्राह्मण्यो कुले वा भोजयत इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दलद्वये टावभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासवत्त्वाभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे 'अतो रोरप्लुतात्' इत्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेम आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्त्वाहापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंल्लिाव. देव अन्योन्यमिति रूपम् । इयं ब्राह्मणी अग्यां ब्राह्मणी भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राह्मण्यो भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अ. न्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः। अत्रान्यच्छन्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेः आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु 'क्लीबे चाइड्विरहः स्वमोः' इति वक्ष्य. माणतया पुंवत्त्वात् अद्डादेशाभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलहूयेऽपि पुंवत्त्वात् टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आम्भावविरहे तु द्वित्वे पुंवत्त्वाहापो निवृत्ती पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वंत परमित्यस्य द्वित्वे पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्परा. मिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परम् इति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्
For Private and Personal Use Only
Page #945
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिवान्तकौमुदी . [द्विरुक्त
3comwood व्यः' (वा ४४०१)। अन्योन्याम्-अन्योन्यम् , परस्पराम्-परस्परम् , इतरेत. राम्-इतरेतरं वा इमे ब्राह्मण्यो कुले वा भोजयतः । अत्र केचित्-आमादेशो द्वि. तीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंव. देव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामामादेशमाहुः ।
दलद्वये टावभावः क्लोबे चाद् विरहः स्वमोः ।
समासे सोरलुश्चेति सिद्धं बाहुलकारत्रयम् ॥ तथाहि-अन्योन्यं परस्परमित्यत्र दद्वयेऽपि टाप्राप्तः । न च 'सर्वनाम्नो वृत्तिमात्रे- (वा) इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विवचन. पूर्वपदस्थविभक्ते कि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूप. म् । नपुंसकस्य तु इतरच्छब्दस्य द्वित्वे पुंवत्त्वाददुडादेशविरहे पूर्वपदस्थविभक्तेः लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् ।
अन्न भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न म वतीति प्राचीनमतमाह-अत्र केचिदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविर. हेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुलग्रहणात् पुंवत्त्वे टाबमा प्रथमत तीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात् प्रथमैकवचनस्य इदं युवदेव रूपमित्यर्थः । सिद्धान्तमाह-अन्ये स्विति । दिङ्मा. त्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । अथात्र बहुल. ग्रहणानुवृत्तः प्रयोजनकथनपरप्राचीनश्लोकमाह-दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतर. शब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोः पुवत्त्वाहाग्निवृत्तिरित्यर्थः । यद्यपि इतरेतरमित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुवत्त्वादेव पूर्वखण्डे टावभावः सिद्धः, तथाप्युत्तरखण्डे टावभावार्थ बाहुलकाश्रयणमिति भावः । क्लीबे इति । अन्योभ्यमित्यादौ अडादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदर्श्यत इत्यर्थः। ननु पूर्वदले 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वेनैव टाग्निवृत्तः सिद्धत्वात् तद्विषये बहुलग्रहणं नादर्तव्यमित्याशय निराकरोति-न चेति। 'सर्वनाम्नो वृत्तिमात्रे इति पंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह-न्यपरयोरिति । समासवच्च बह. लम्' इति समासवत्त्वम् इतरशब्दमात्रविषयं, न त्वन्यपरशब्दविषयमिति प्रागुतमित्यर्थः । ननु मास्तु समासवत्वं, तथापि 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वं दुर्वा. रम् । द्विवचनस्य वृत्तित्वादित्याशङ्कय निराकरोति-नच द्विवचनमेव वृत्तिरिति । 'कृचलितसमा कशेषसनाचन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः । वि.
For Private and Personal Use Only
Page #946
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२ ]
बालमनोरमासहिता ।
६३७
मेव वृत्तिः । ' यांयां प्रियः प्रेक्षत कातराक्षी सासा' इत्यादावतिप्रसङ्गात् । अन्योन्य · मितरेतरम्' इत्यत्र च 'अड्डतरादिभ्यः -' ( सू ३१५ ) इत्यद्ड् प्राप्तः । ' अन्यो• न्यसंसक्तमहस्त्रियामम्' अन्योन्याश्रय' 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इत्यादी बोर्लुक्च प्राप्तः । सर्व बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाप्योदाहरणम्, 'स्त्रियाम' (सू ४५३ ) इति सूत्रे 'अन्योन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति । (२१४८) अकृच्छ्रे प्रिय सुखयोरन्यतरस्याम् ८|१|१३|| प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावा'स्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः । (२१४६ ) यथास्वे यथायथम् ८|१|१४ ॥ यथास्वम् इति वीप्सायामव्ययीभावः । योऽय - वचनस्य वृत्त्यन्तरभावे बाधकमाह यांयामिति । द्विर्वचनस्य वृत्त्यन्तर्भावे 'यांयां प्रियः प्रक्षत कातराक्षी सासा हिया नम्रमुखी बभूव' इत्यत्र श्लोके यांयामित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे इति पूर्वखण्डस्य पुंवत्वं स्यादित्यर्थः ।
rora चाविरहः इत्यस्योदाहरति - अन्योन्यमिति । ननु समासे सोरलुक् चेति कथम् | अन्यपरशब्दयोः समासवत्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति-— भन्योन्यसंसक्तमिति । अ न्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्व रात्रिश्च अन्योन्येन संयुक्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिaresयमिति विग्रह: । भपरस्परैरिति । न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वं खण्डस्थस्य सुबादेशस्य सोलुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत् समाधेय. मित्यत्र किं प्रमाणमित्यत आह-प्रकृतवार्तिकेति । स्त्रीनपुंसकयोरिति प्रकृतवार्तिके अन्योन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणात् 'दलद्वये टाबभावः क्लीषे चादविरहः स्वमो:' इति विज्ञायते । 'स्त्रियाम्' इति सूत्रे अन्योन्यसंश्रयं स्वेतदिति भाष्यप्रयोगात् समासे सोरलुगिति विज्ञायत इत्यर्थः । अकृच्छ्रं । कृच्छ्र कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय-सुख इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति । 'कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । 'समासवच्च बहुलम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शक्या । तस्य वार्तिकस्थत्वात्, एवं च प्रिये - णेत्यस्य सुखेनेत्यस्य च द्वित्वे सति कर्मधारयवत्वात् सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात् तृतीयैकवचनमिति फलितम् ।
For Private and Personal Use Only
.
Page #947
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्विरुक्त
मारमा यच्चात्मीयं तयथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीवत्वं च निपात्यते । यथायथं ज्ञाता। यथास्वभावमित्यर्थः । यथात्मीयमिति वा । (२१५०) द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयशपात्रप्रयोगाभिव्यक्तिषु ॥१॥१५॥ द्वि. शब्दस्य द्विवचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्य द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्र. यते । रहस्यमित्यर्थः। मर्यादा स्थित्यनतिकमः। आचतुरं होमे पशवो द्वन्द्र मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रण प्रपौत्रेणापि मर्यादीकृत्य व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्कान्ताः द्विवगसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपत्राणि प्रयुनक्ति । द्वन्द्व सङ्कर्षणवासुदेवौ । अभिव्यक्ती साहचर्येणेत्यर्थः । योग
यथास्वे यथायथम् । वीप्सायामिति । कात्स्न्येन सम्बन्धो वीप्सेत्युक्तम् । स्वशब्दा. र्थगतकात्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्चासौ स्वश्वे. त्यस्वपदविग्रहः । नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु मात्मात्मीयवाच्येव गृह्यते । नतु ज्ञातिधनवाची । व्याख्यानादित्यभिप्रेत्य विप्रह वाक्यस्य फलितमर्थमाह-द्वे इति । स्त इति शेषः। निपातनादिति भावः । न च 'नित्यविप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् द्वित्वविषयस्य शब्दस्य लक्षणया कात्स्न्यविशिष्टे वृत्तावेव वीप्सायाः द्विर्वचनविधानात् । अन्यथा सो घटः इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्वीबस्वमिति । यथायथा इति समुदा. यस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृतद्वित्वस्य नपुंसकहस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्र ज्ञातेति तृन्नन्तम् । तद्योगे 'न लो. क' इति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तु यथायथस्य ज्ञातेत्येव ।
द्वन्द्वं रहस्य। पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयवत्त्वात् सुब्लुकि समुदायात् पुनः सुपि पूर्वपदावयवस्य इकारस्य अम् इति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च त्यदायत्वमुत्तरपदान्तस्य सिद्धमिति वा. च्यम् । सज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारः अनुक्तसमुच्चये । कृत. द्वित्वस्य नपुंसकत्वं द्विवचनाभावश्चेत्यर्थः । आचतुरं हीति। आङभिविधौ । 'आय. र्यादा' इत्यव्ययीभावः । शरत्प्रभृतित्वात् टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्व मिथुनीयन्ति इत्यन्वयः । मिथुनशब्देन मैथुन विवक्षि. तम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यये 'सुप आत्मनः' इति क्यच् । फलित. मर्थमाह-मिथुनं गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यपाठस्तु प्रामादिकः । मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरित .
For Private and Personal Use Only
Page #948
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४२]
बालमनोरमासहिता।
६३६
-
विभागादन्यत्रापि द्वन्द्वम् इष्यते ।
इति द्विरुक्तप्रकरणम् । इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां
पूर्वाध समाप्तम् । स्वेन लोकविज्ञानमभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह-साहचर्येणेत्यर्थ हति । अत्र द्वन्द्व न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वाथें इति बोध्यम् । अन्यत्रापीति । द्व. न्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णं च एक द्वन्द्वम् । सुखं दुःखं चापरम्। क्षुत. ष्णा चान्यत् । इह स्वार्थे द्वन्द्वः। अम्भावादि पूर्ववत् । 'चाथै द्वन्द्व इति निपात. नादन्यत्रापीति सिद्धम्।
इति द्विरुक्तप्रकरणम् । इति श्रीमत्सन्ततसन्तन्यमानश्येनकर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी तुक्कोजी भोसलचोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानितितापरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठामोर्यामप्रमुखमखसन्तपितशतमखप्रमुखबहिर्मुखेन पदवाक्यप्रमाणपारावारपारीणा. प्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशयेन अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्ये. ण बौधायनापस्तम्बसत्याषाढभारद्वाजकात्यायनाचलायनद्रामायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां पूर्वार्धं सम्पूर्णम् ।
For Private and Personal Use Only
Page #949
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
भारतवर्ष के सभी प्रान्तों की संस्कृत-परीक्षा पाठय निर्धारित
पुस्तकों का एकमात्र प्राचीन प्राप्तिस्थानजयकृष्णदास-हरिदास गुप्त,
चौखम्बा संस्कृत पुस्तकालय, - विद्याविलास प्रेस, गोपाल मन्दिर लेन
बनारस सिटी।
For Private and Personal Use Only
Page #950
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
dek
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम् । अथ रूपलेखनप्रकारः ।
अथ परीक्षार्थि छात्राणां लेखसौष्ठव सम्पादनाय तत्तत्प्रकरणस्थानां कतिपयरूपाणां लेखन • प्रकारः प्रदश्यते । अनेनैव प्रकारेणान्येषामपि रूपायां तत्तद्विशेषकार्य प्रदर्शनपुरःसरं लेखनस्याभ्यासेन तत्र विद्यार्थिनः पटुतां समादयितुं प्रभविष्यन्ति । तत्रादौ सूत्राणित दुर्भेदास्तल्ल• क्षणानि चोच्यन्ते
सूत्राणि वविधानि सम्झा - परिभाषा - विधि-नियम-अतिदेश- अधिकारमेदात् । तथाचोक्तमभियुकैः
H
सन्या च परिभाषा च विधिनियम एव च । प्रतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ तत्र सज्ञासूत्राणि - " वृद्धिरादैच्" "प्रदेङ् गुण" इत्यादीनि । परिभाषासूत्राणि - "इको गुणवृद्धी" "तस्मिन्निति निर्दिष्टे पूर्वस्य" इत्यादीनि विविसूत्राणि - "इको यणति" "एचोऽवचायावः" इत्यादीनि । नियमसूत्राणि - "कृत्तद्धितसमासाश्च" " नलोपः सुप्खरसज्ञातुग्विभिषु कृति" इत्यादीनि । प्रतिदेशसूत्राणि - "स्थानिवदादेशोऽनल्विधौ” "अन्तादिवच्च" हत्यादीनि । अधिकारसूत्राणि - " प्राग्रोश्वरान्निपाताः " " पूर्वत्रासिद्धम्" इत्यादीनि । तत्र विधिसूत्राणि तावन्मुख्यानि तदुपकारकाणि चेतराणीति । तत्र सन्ज्ञाशास्त्राणां विधिसूत्रघटकपदशक्तियह उपयोगः । यथा - " वृद्धिरेचि" इति विधिसूत्र घटकवृद्विपदस्य श्राकार - ऐकार - प्रौकारेषु शक्तिरिति "बुद्धिरादैच्" इति सज्ञासूत्रेणाऽवगम्यते । एवञ्च सम्झासूत्रसाहाय्येन विधिसूत्रेण विधानं भवति ।
परिभाषासूत्राणां चानियमेन तत्र तत्र प्रसक्तस्य विधिशास्त्रस्य प्रवृत्तिनियम करणे उपयोगः । यथा - "इको यणचि" इत्यस्य सुची उपास्यः इति लक्ष्ये सकारोत्तरे उकारे प्रसक्तिः धकारोत्तर ईकारे परे, एवं धकारोत्तर ईकारे प्रसक्तिः उकारे परे, एवम् उपास्यघटक उकारे प्रसक्तिः पकारोत्तर प्राकारे परे इति एकस्मिन् लक्ष्ये त्रयाणां स्थानेऽनियमेन प्रसक्तस्य यणोऽजव्यवहिते ईकारे एव " तस्मिन्निति निर्दिष्टे पूर्वस्य " इति परिभाषया निर्दिष्टे पूर्वस्य इति पदसमर्पयेन प्रवृत्तिनियम्यते । एवञ्च परिभाषासूत्राणां विधिसूत्रे रेकवाक्यता भवति ।
1
विधिसूत्रं तु भपूर्वार्थबोधकम् । यथा 'उप- इन्द्र' इत्यत्र अपूर्वी योऽर्थः एकारस्तस्य अका रेकारयोः निवृत्तिपूर्वकं विधानम् " श्राद् गुणः" इति सूत्रेण क्रियते । तथाच "उपेन्द्रः' इति सिध्यति । नियमसूत्रे च इतर निवृत्तिफलकार्थबोधकम् । यथा "समासाश्च' इति सूत्रं " गामानय' इति वाक्यस्य " राजपुरुषः" इत्यादिसमासस्य चाऽर्थबोधकरवेनोभयत्र पूर्वसूत्रप्राप्तायाः प्रातिपदिकसन्ज्ञायाः 'गामानय' इत्यत्र निवृत्ति करोति ।
For Private and Personal Use Only
Page #951
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४२
परिशिष्टे
अतिदेशसूत्रं च अन्यत्र अन्यधर्मारोपबोधकम् । यथा " सुध्युपास्यः' इत्यत्र यकारादेशे स्थानीकारवृत्तिश्रवधर्मारोपः "स्थानिवदादेशोऽनल्विधौ” इति सूत्रेण क्रियते ।
अधिकारसूत्रं तु स्वदेशे वाक्यार्थाबोधकमुत्तरोत्तरसूत्रेषु स्वघटकपदसमर्पकम् । यथा "चादयोऽसश्वे" "प्रादयः” इष्यादिसूत्रेषु " प्रायीश्वरान्निपाताः" इति सूत्रेण 'प्राक्' 'निगताः' इति पदद्वयसमर्पणं क्रियते ।
निषेधसूत्राणामभावरूपापूर्वबोधकत्वेन विधिसूत्रेष्वन्तर्भावः । यथा "नादिन्याक्रोशे पुत्रस्य" इति । तस्य "पुत्रादिनी त्वमसि पापे' इत्यत्र पुत्रशब्दे तकारस्य स्थाने प्राप्तस्य " अनचि च " इति द्वित्वस्याभावबोधकत्वम् ।
रूपसिद्धौ प्रथमं सर्वाणि कार्याणि प्रदर्श्य तदनन्तरं क्रमेण मध्यवर्त्तिन्यः शङ्काः प्रदर्शनपूर्वकं निरसनीयाः ।
१ - सुद्धयुपास्य: । 'सुधी- उपास्यः' इति स्थिते "इको यणचि" इति सूत्रेण "तस्मिन्निति निर्दिष्टे पूर्वस्य" इति परिभाषैकवाक्यतया उकाररूपाजव्यवहितपूर्वस्य ईकारस्य स्थाने "स्थानेऽन्तरतमः" इति परिभाषकवाक्यतया तालुस्थानजन्यस्वधर्मेणान्तरतमे यकाररूपयणादेशे "अनचि च" इति सूत्रेण सुसम्बन्ध्युकाराम्यवहितोत्तरस्य अभिनयकारपरकस्य चकारस्य द्वि "झलां जश् झशि" इति सूत्रेण पूर्वधकारस्य जइत्वेन दकारे “यणो मयो द्वे वाच्ये" इति वार्तिकेन मय इति पञ्चमी यय इति षष्ठी इति पक्षे धकाररूपमयः परस्य यणो यकारस्य द्वित्वे 'सुद्ध्य्युपास्यः' इत्येकं रूपं सिद्धयति । यण इति पञ्चमी मय इति षष्ठी इति पक्षे "ययो मयो द्वे वाच्ये" इति वार्तिकस्याप्राप्त्या यकार द्वित्वाभावे द्विषमेकथं 'सुच्युपास्यः' इति । "नचि च" इत्यस्यापि विकल्पतया तदभावपचे "यणो मयो द्वे वाध्ये" इत्यस्य च प्रवृत्तिपक्षे एकधं द्वियं "सुध्य्युपास्यः इति । " अनचि च" "यणो मयो द्वे वाच्ये" इत्युभयोरपि वैकल्पिकत्वादप्रवृत्तौ एकधमेकयं "सुध्युपास्यः' इति । एवात्र रूपचतुष्टयं भवति ।
नन्वत्र - ' स्थानिवदादेशः " इति सूत्रेण यकारस्य स्थानिवश्वेन ईकारवृत्ति-अच्स्वधर्ममारोप्य "अनचि" इति प्रतिषेध प्रवृत्तौ धकारस्य कथं द्वित्वमिति चेत् ! न, “अनल्विधौ” इति श्रच्खस्य स्थानिवृत्तित्वादमात्रवृत्तित्वाच्च तादृशधर्मनिमित्तके द्वित्वप्रतिषेधे कर्तव्ये स्थानिवद्भाव निषे. धात् । नच "अचः परस्मिन् पूर्वविधौ” इति पर 'उकार' निमित्तस्य ईकाररूपाच स्थानिकादे• शस्य यकारस्य स्थानिभूतेकारात्पूर्वत्वेन दृष्टस्य वकारस्य " अनचि" इति द्विश्वनिषेधे कर्तव्ये पुनरपि स्थानिवद्भाव इति कथं द्वित्वमिति वाच्यम्, "न पदान्यद्विर्वचन" इत्यादिना सूत्रेण द्वित्वे कर्तव्ये स्थानिवद्भाव निषेधात् । नाप्यत्र "संयोगान्तस्य लोपः" इति सूत्रेण सुद्ध्यउपास्यः इति स्थिती पूर्वपदान्तस्वाद् यकारस्य लोप· शङ्कयः, "यणः प्रतिषेधो वाध्यः" इति वार्तिकेन तनिषेधात् । २ - हरये । 'हरे- ए' इति स्थितौ "एचोऽयवायावः" इति एकाराजव्यवहितपूर्व1 स्यैकारस्य स्थाने अयादेशे अज्झीनं परेण संयोज्यम् इति न्यायेन मेलने 'हरये' इति सिद्धयति । नन्वत्रायादेशस्योपदेशतया " हलन्त्यम्” इसि इत्सन्ज्ञा " तस्य लोपः” इति लोपश्च कुतो नैति चेत् ! न, उच्चारणसामर्थ्यात् । नहि वकारस्याश्रोच्चारणं विनाऽन्यत् किमपि फलं विद्यते
For Private and Personal Use Only
Page #952
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपलेखनप्रकारः।
६४३ इति।३-एहि कृष्ण ३ मन्त्र गौश्वरति। अत्र वाक्यद्वयम्-एहि कृष्ण ३ इत्येकम् , भत्र गोश्वरति इत्यपरम् । तत्र पूर्वापान्तस्य 'कृष्ण' गकारोत्तराकारस्य "दूराद्धृते च" इति सूत्रेण प्लुतविधानात्तस्म भत्रेत्यवयवाकारेऽचि परे "ग्लुतप्रगृया अचि नित्यम्" इति सूत्रेण प्रकृतिभावेन सवर्णदोषविकारस्य निरया रूपसिद्धिः। ४-हरी एतौ। अत्र वाक्ये हरी इति हरिशब्दप्रथमादिवचनरूपम् । तथाच दी कारान्तदिवचनतया तस्य "ईदूदेद् द्विव. चनं प्रगृह्यम्" इति प्रगृह्यसम्शाया "लुतप्रगृया अचि नित्यम्" इति सूत्रेण प्रकृतिभावे "को यणचि" इति प्राप्तयणो निवृत्तथा रूपसिद्धिः। ६-हरिशशेते। हरिस-शेते इत्यवस्थायां "स्तो चुना श्चुः" इति शेते-शकारयोगे पूर्वसकारस्य स्थाने "यथासंख्यमनुदेशः समानाम्" इति सत्रसाहाय्येन शकारादेशे रूपसिदिः। -सम्छम्भः। 'सन्-शम्भुः' इस्यवस्था "शि तुक" पति सोण "पापन्तो टकिती" इत्येकवाक्यतया नकारान्तावयवे तुगागमे ककारस्य "हलन्त्यम्" इति उकारस्य "उपदेशेऽजनुनासिक २" इति इस्सन्शायां "तस्य लोपः" इति लोप "शश्छोऽ"ि इति पदान्ततकारात्परस्य शकारस्य छकारे "स्तोः श्चुना चुः" इति श्चुत्वेन तकारस्य चकारे पुनः श्चुत्वेन नकारस्य भकारादेशे "झरो झरि सवणे इति चकार. कोपे सम् छम्भुः, चकारकोपामावपक्षे सञ्च्छम्भुः, चलोपछवाभाव सञ्चशम्मुः, छत्खतुकोर. भावपक्षे समशम्भुः इति रूपचतुष्टयं सिद्धयति। -विष्णुलाता। विष्णु:-त्राता' इत्यव. स्थायां "विसर्जनीयस्य सः" इति सूत्रेण विसर्गस्थाने सकारादेशे रूपसिद्धिः। -द्विष्का रोति । 'दि:-करोति' इत्यवस्थायां "दिनिश्चतुरिति कृत्वोऽर्थे" इति सुजन्तादिस-शब्दविस. गंस्य षकारादेशे रूपसिद्धिः, अमापने "कुम्योःक-पौच" इति विसर्गस्य स्थाने सत्त्वाप. वादे विसर्गे 'द्विः करोति' इति रूपदयम् । ९-शिवोऽयः। 'शिवस्-प्रयः इति स्थिते प्रथमैकवचनसुप्रत्ययान्तशिवस् इत्यस्य "सुप्तिङन्तं पदम्" इति पदसम्बायां "ससजुषो" इति सकारस्य रुवे उकारस्येसम्शायां लोपे "भतो रोरप्लुतादप्लुते" इति उस्खे "माद् गुणः" इति गुणे "एक पदान्तादति" इति पूर्वरूप रूपसिदि। नन्वत्र प्रथमैकवचनसुप्रत्ययस्थानि. करुस्थानिकोकारस्य प्रथमासम्बन्ध्यस्थात् तस्य तस्मिन् परे पूर्वाकारस्पाकश्चेत्युभयोः स्थाने "प्रथमयोः पूर्वसवणः" इति पूर्वसवर्णदीर्घ भाकारादेशः कुतो नेतिचेत् । उच्यते "नादिचि" इति तन्निषेधात् । १०-हरी रम्यः । 'हरिर-रम्यः' इति स्थिते "रो रि" इति पूर्वरेफस्य लोपे "ढलोपे पूर्वस्य दीपोंडणः" इति दी रूपसिद्धिः । ११-रामः। रामशब्दस्य अर्थवद. चातुरप्रत्ययः प्रातिपदिकम्" इति प्रातिपदिकसन्शायां ततः प्रथमैकवचन विवक्षायां "सौजस. मोटा इति सूत्रेण कयोद्विवचनेकवचने" इति नियमेन सुप्रत्यये उकारस्यरसन्शायां लोप च रुत्वे "खरवसानयोविसर्जनीयः" इति विसर्गादेशे रूपसिमिः । १२-प्रध्यम् । प्रधीशब्द. स्य कृदन्ततया "कृत्तद्धिवसमासाच" इति सूत्रेण प्रातिपदिकसम्ज्ञायां द्वितीयैकवचनविवक्षा. याममि प्रत्यये "एरनेकाचोऽसंयोगपूर्वस्य" इति यणादेशेन यकारे 'प्रध्यम्' इति रूप सिद्धम् । १३-रमा । रमाशब्दस्य भावन्तरवेऽपि एकादेशस्य पूर्वान्तवद्रावन प्रातिपदिकग्रहणेन प्रह. गात् "या प्रातिपदिकात्" इत्यत्र भापमहणादा ततः प्रथमैकवचनविवक्षायां सुप्रत्यये उकार.
For Private and Personal Use Only
Page #953
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेस्येसशालोपानन्तरम् "मात एकाल प्रत्ययः" इति सकारप्रत्ययस्य अपृक्तसम्शायां "हलमाभ्यो दीर्घात सुतिस्यपृक्त हल" इति सूत्रेण सकारलोपे रूपसिद्धिः। १४-श्रियै । भीशब्दस्य "अर्थवत्" इति प्रातिपदिकसंज्ञायां चतुर्येकवचन विवक्षायां के प्रत्यये लशकत्त. द्विते" इति कारस्येत्संज्ञायां लोपे च "डिति हस्वश्च" इति वैकल्पिकनदीसंज्ञायां तत्पते "मा. नया:" इति सूत्रेण आडागमे टिस्वाद्विमक्तेराघवयवे "पाटश्च" इति वृद्धौ "मचि श्नुधातुश्रवां खोरियस्व" इति सूत्रेण "डिच्च" इत्येकवाक्यतयाऽनयेकारस्येयादेशे प्रकारहकारयोरि. सम्झायो लोपे च "श्रिये' इति । नदीसम्शाया प्रमावे इयडादेशे श्रिये' इति रूपदयम् । १५-ज्ञानम् । ज्ञानशब्दस्य "अर्थवत्" इति प्रातिपदिकसन्ज्ञायां प्रयमैकवचनस्प्रत्यये "मतोऽम्" इति सूत्रेण प्रमादेशे "अमि पूर्वः" इति पूर्वरूपे रूपसिद्धिः । १६-सल्वा, सुलु ना। सुष्टु लुनाति तत् सुलु तेनेति विग्रहः । सुलूशब्दस्य "कृत्तद्धित" इति प्रातिपदिकस. ज्ञायां "हस्खो नपुंसके" इति हरवे ततस्तृतीयैकवचनविवक्षायां टाविभक्तौ टकारस्परसम्वाको. पयोः "तृतीयादिषु भाषितपुंस्कम्" इति पुंवावेन दोर्षान्तादेशे 'सुलू-मा' इति स्तिो "मोः सुपि" इति यणादेश सुल्वा, पुंषद्भावाभावपक्षे "हकोऽचिविभक्तो” इति नुमि सुलुना इति । १४-लिट्-लिड । लिङ्शब्दस्य क्विन्तरवेन "कृत्तद्धित" इति प्रातिपदिकसंज्ञायां प्रथमैकवचनविवक्षायां सुप्रत्यये "हलव्याम्भ्यो दीर्घात" इति मुलोपे "प्रत्ययलोपे प्रत्ययलक्ष. गम्" इति प्रत्ययलक्षणेन सुबन्तत या "सुप्तिङन्तं पदम्" इति पदस ज्ञायां "हो ः" इति पदा. न्तहकारस्य स्थाने ढकारादेशे जश्त्वेचखे विकल्प चोक्तरूपसिद्धिः । १८-वृत्रहा। वृत्रं हत. बान् वृत्रहा इति विग्रहः । वृतहनशब्दस्य किन्तत्वेन प्रातिपदिकसम्शायां प्रथमैकवचनसुप्रत्यये "सर्वनामस्थाने चासम्बुद्धो" इति उपधादीर्घस्य "इनहनपूषार्यम्णां शौ” इति नियमेन निवृत्ती प्राप्तायां "सौ च" इति प्रतिप्रसवेन दी हलब्यादिलोपे नलोपे च तरिसद्धिः। १९-युष्मत् । युष्मदशम्दस्याव्युत्पन्नतया "अर्थवद्" इति प्रातिपदिकरवे पश्चमीबहुवचनविवक्षायां भ्यवि. भक्तो 'पञ्चम्या अत्" इति सूत्रेण 'प्रत्' मादेशस्य भनेकालत्वात् "भनेकालशिरसर्वस्य" इति सहायेन सर्वादेशे "शेषे लोपः" इति टिलोपे, अन्त्यलोपपते तु “प्रतो गुणे" इति पररूपे तसि. द्विः। २०-तिर्यङ् । तिरसशब्दे उपपदे प्रश्नधातो: "ऋखिग्दधृक्नग" इत्यादिना किन्प्रत्यये ककारेकारनकाराणामिरसम्शालोपयो: “कृदति" इति कृत्सम्यायामपृक्तसम्शायां च 'बेरपृक्त. स्य" इति वलोपे प्रत्ययलक्षणेन "भनिदिताम्" इति नकारलोपे कृत्तद्धितसूत्रेण प्रातिपदिकरवे "उपपदमति" इति समासे ततः प्रातिपदिकरवे समुदायारसुप्रत्यये "उगिद वाम्" इति नुमि हल्ल्यादिलोपे "तिरसस्तिरिः" इति “अनेकाल" इति परिमाकवाक्यतया सर्वस्य स्थाने तिरि प्रादेशे यणि संयोगान्तलोपे "किन्प्रत्ययस्य कुः" इति कुखेन डकारे तियङ । ११-अमी. भ्यः । अदस्शम्दस्य "अर्थवद्" इति प्रातिपदिकरवे पनमीबहुवचनभ्यविभक्ती. "त्यदादीनाम:' इति ककारान्तादेशे पररूपे 'बहुवचने झल्येत्" इत्येवे "एत ईदूहुवचने" इति दस्य मरवे एकारस्य ईकारे चादेशे रुखविसर्गयोः प्रमोभ्यः । २१-छपानत् । उपपूर्वकनद्धातोः किपि कृदन्तस्वात्प्रातिपदिकसम्शायां "नहिंतिवृषिष्यधिरुचिसहितनिषु
For Private and Personal Use Only
Page #954
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपलेखनप्रकारः। को" इति पूर्वपदस्य दोघे प्रथमैकवचनसुप्रत्यये हल्ब्यादिलोप प्रत्यय लक्षणेन सुबन्तत्वात्पद. सम्झया पदान्तस्वात् "नहो धः" इति धकारेऽनादेशे जश्व वस्त्रयोः 'उपानत्' इति सिध्यति । २३-सजःषु । सजुषशब्दस्य प्रातिपदिकत्षे सप्तमीबहुवचनसुप्पत्यये "स्वादिष्वसर्वनामस्थाने" इति पदसम्ज्ञायां “ससजुषो रुः" इति “अलोऽन्त्यस्य" इत्येकवाक्यतया षकारस्य रुवे "वोरुप. थाया दीर्घ इकः" इति दोघे "खरवसानयोः" इति "रोः अपि" इति वा विसर्ग "वा शरि" इति विसर्गे "नुम्बिसर्जनीयशय॑वायेऽपि इति षस्खे तंत्सिद्धिः। विसर्गाभावपक्षे "विसर्जनीयस्य सः" इति सत्ते पूर्वसत्रण षत्त्वे ष्टुत्वे 'सजूषु' इति रूपदयम् । २४-स्वनहुत्। स्वनडुश. ग्दस्य समासत्वेन प्रातिपदिकस्वासुप्रत्यये "स्वमोनपुंसकात्" इति तस्य लुके प्रत्ययलक्षणेन सुबन्ततया पदसशाया पदान्तत्वेन "वसुस्रसुवस्वनडुहा दः" इति दकारान्तादेशे चर्वविकल्प वनडु-स्वनडु इति रूपद्धयम । २६-इमे। इदम् शम्दात्प्रातिपदिकत्वेन प्रथमाद्विवचने औ. विभक्ती स्यदायस्वे पररूपे न "नपंसकाच" इति शी श्रादेशे शस्य "लशक्कतद्धिते" इतीस. ज्ञायां लोपे च "दश्च" इति दकारस्य मकारे भसंज्ञायां "यस्येति च" इति सूत्रेणाकारलोपे प्राप्ते तस्य "ौकश्या प्रतिषेधो वाच्यः" इति निषेधे गुणे 'हमे' इति सिध्यति। २६-गोअचा। गोशब्दे उपपदे पूजार्थक-अचधातोः किनि नकारलोपे प्राप्ते “नावे पूजायाम्" इति तनिषेधे उपपदसमासे विशिष्टादी विभक्तौ शोभादेशे अवङप्रकृतिमावयोवैकल्पिकतया तदभावपक्षे "एङः पदान्तादति" इतिपूर्वरूपे गोऽश्ची । अवपक्षे गवानी। प्रकृतिभावपने च गोअश्ची । एवं रूपत्रयम् । २.-अहंयुः। पत्र 'महम्' इति प्रथमैकवचनान्तास्मदशग्दरूप. सादृश्येन विभक्तिप्रतिरूपकतयाऽव्ययसन्ज्ञा निपातसम्शा च। ततोऽप्रे"महशुभमोर्युस्" इति युस्प्रत्यये सुप्रत्यये तत्सिद्धिः। अहंपदस्यास्मशब्दरूपाभ्युपगमे तु "प्रत्ययोत्तरपदयाश्च" इति मादेशापत्तिरिति । २८-तत्र तत्र इति त्रलन्तस्य तद्धितश्वासर्व विभक्तिः" इति सूत्रेणाव्यय. सम्झायो तत: परस्याः सप्तम्या "अम्पयादाप्सुपः" इति सुब्लुकि रूपसिद्धिः। २९-अजा। अजशब्दस्य प्रातिपदिकसल्शकत्वात्ततः स्त्रीस्वविवक्षायाम् "प्रजाधतष्टाप्" इति शप्प्रत्यये टकार. पकारयोरित्सन्ज्ञायां लोपे च सवणदीर्घ ततः सुप्रत्यये हलत्यादिलीप तस्सिद्धिः। नन्वत्र अ. कारान्तत्वादेव टासिद्धिरिति किमर्थमजादिपदोपादानम् ? अत्रोच्यते, बाधकबाधनार्थमिति । तेन 'जातेरस्त्रीविषयादयोपधात्" इति सूत्रेात्र जातित्वेऽपि न डीषिति बोध्यम् । ३०-पुत्रका । पुत्रशब्दात् "शारिवादिभ्यो ङोन्" इति कीनि कारनकारयोरिरसज्ञायां भसज्ञायां "यस्येति च" इति अकारलोपे ततः स्वार्थे कनि "केऽणः" इति हरवे ततष्टापि पुत्रिका, तत्र "सुतकापुत्रिकान्दारकाणांवति वक्तव्यम्" इति वार्तिकेन कारपूर्वस्येकारस्य भकारदेशे पुत्रका, तदभावे पुत्रिका इति रूपद्वयम् । ३१-यथः । श्वशुरशब्दात्तदर्थगतस्त्रीत्वविवक्षायां ''श्वशुर. स्योकाराकारलोपश्च" इति वार्तिकेन ऊडप्रत्यये अकारोकारयोर्लोपे च श्वश्रू इति जाते "प्राति. पदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" इति परिभाकवाक्यतया "स्वौजस्" इति सुप्रत्यये रुवे विसगं च तसिद्धिः, ३२-कृष्ण:-कृष्णशब्दस्य प्रातिपदिकसज्ञायां ततः कृष्णखकृष्णपुरस्वार्थत्रयाणा नियमेनोपस्थित्या प्रातिपदिकार्थ सूत्रे लिङ्गमहणेन नियतोपस्थितिकरूप.
६० बा०
For Private and Personal Use Only
Page #955
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४६
परिशिष्टे
प्रातिपदिकार्थग्रहणेऽपि तवाक्षतेस्तेषामेव प्रतिपाद्यत्वेन विवक्षायां "प्रातिपदिकार्थं लिङ्ग परिमाणवचनमात्रे प्रथमा" इति सूत्रेण " द्वयेकयोद्विवचनैकवचने" इत्येकवाक्यतया प्रथमैकवचनसुप्रत्य ये "उपदेशेऽजनुनासिक इत्" इत्युकारस्येत्सन्ज्ञायां "तस्य लोपः" इति लोपे रुत्वे विसर्गे च 'कृष्णः' इति सिद्धम् । ३३ - हरि भजति - पत्र हरिशब्दस्य "कर्तुरीप्सिततमं कर्म" इति सूत्रेण भजकर्तृवृत्तिक्रियाजन्यप्रीतिरूप फलाश्रयत्वेनैच्छोद्देश्यतया कर्म सम्ज्ञायां "कर्मणिद्वितीया ' इत्यनेन "द्वये कयोः" इत्येकवाक्यतया द्वितीयेकवचनेऽमिप्रत्यये पूर्वरूपे 'हरिम्' इति सिद्धम् । ३४ - हरिः सेव्यते - अत्र हरिशब्दस्य सेवकवृत्ति सेवारूपक्रियाजन्य प्रीतिरूपफलाश्रयत्वेने च्छोद्देश्यतया "कर्तुरीप्सित" इति कर्मखेऽपि तस्य 'सेव्यते' इति कर्मतिङाऽभिहितखेन "श्रनमिहिते" इत्यधिकारेण द्वितीयाया श्रप्रवृत्ती हरिश्व- हरिपुंस्त्वरूपाणां त्रयाणामेवार्थानां प्रतिपादने "प्रा. तिपदिकार्थ” इति सूत्रेण प्रथमेवेति 'हरि सेव्यते' इति सिद्धम् । ३५ - बलिं याचते वसुधाम् श्रत्र दुहादिद्वादशानां न्यादिचतुश्च धातूनां कर्मणायुक्तमपादानादिविशेष रविवक्षितं क्रियान्वयिमात्रं कारकसंज्ञं सत् कर्मसन्तकं भवतीत्यर्थकेन "अकथितं च' इति सूत्रेण याचषातो:कर्मणा वसुधया स्वस्वामिभावसम्बन्धेन युक्तस्य बलेरपादानादिकारकविशेषैरविवक्षणेन क्रिया.. न्वयमात्र विवक्षायां कर्मसन्ज्ञायां वसुधायाश्च याचकवामनवृत्तियाचनक्रियाजन्य परस्वस्वनि - वृत्ति-स्वस्वश्वोत्पत्ति - इच्छारूपफलाश्रयत्वेनैच्छोद्देश्यतया "कर्तुरीति" इति कर्मसन्ज्ञायां • कर्मणि द्वितीया" इति द्वितीयाविभक्तौ तत्साधु । ३६ -- श्रादयति खादयति वाऽन्नं बटुनाबटुः श्रन्नमत्ति खादति वा, तं बटुम् अनमत्तुं खादितुं वा पित्रादिः प्रेरयतीत्यर्थः । अत्र बटो: प्रयोज्यकर्तुः मक्षणार्थ कादखादधारवोण्यन्तावस्थायां 'गतिबुद्धि" इति प्राप्तकर्म सन्ज्ञाया "श्रादिखायोर्न" इत्यनेन वार्तिकेन निषेधे तिङा प्रयोजककर्तुरभिधानेऽपि प्रयोज्य कर्तुरनभिनिवे "कर्तृकरणयोस्तृतीया" इति तृतीया । ३७ - अनु हरिं सुराः-पत्र निकृष्टार्थद्योतकानो: "हीने"" इति सूत्रेण कर्मप्रवचनीय सन्ज्ञायां “कर्मप्रवचनीययुक्ते द्वितीया" इत्यनेन तद्योगे हरिशब्दा द्वितीयेति तत्सिद्धिः । ३८ - रामेण बाणेन हतो वाली- -भत्र बालिवधानुकूला धनुराकर्षणाःदिरूपा क्रिया हन्यात्वर्थस्तत्र स्वातन्त्रयेण विवक्षितत्वाद्रामस्य "स्वतन्त्रः कर्ना" इति कर्तृसा वाणनिष्ठाक्रिया लक्ष्यवेधनं, तदव्यवधानेन बालिवधसिद्धेविवक्षिततया बाणस्य " साधकतमं कर णम्" इत्यनेन करणसन्ज्ञा, ततश्च "कर्तृकरणयोस्तृतीया" इत्यनेनोभयत्र तृतीयायां तत्सिद्धिः । ३९ - अध्ययनेन वसति- - अत्राध्ययनस्य वासफलत्वेऽपि ज्ञानद्वारा क्रियाजनकत्वेन हेतु खाद् "हेतो" इत्यनेन तृतीयायां तत्सिद्धिः । अध्ययनहेतुको देवदत्तादिकर्तृको वास इत्यर्थः । ४० - भक्ताय धारयति मोक्षं हरि::- श्रत्र भक्तस्य तुलसीदलादिद्रव्यदातृत्वेनोत्तमखाद् “बारेरुत्तमर्णः” इति सूत्रेण सम्प्रदानसन्ज्ञायां "चतुर्थी सम्प्रदाने " इति चतुर्थी । ४१ - चोरात त्रायते - श्रत्र त्राणार्थ कत्राधातुप्रयोगे चोरस्य भयजनकत्वेन "भोत्रार्थानां भयहेतु" इत्यनैनापादानसंज्ञायाम् "अपादाने पचमी" इति पञ्चमी । ४२ - जाढ्यात् जाडयेन वा बद्धःभत्र बन्धने जाडयस्य हेतुत्वाद् गुणस्त्राच्च "विभाषागुणेऽस्त्रियाम्" इत्यनेन जाड शब्दारप चमी, तदभावे "हेतौ” इति तृतीया । ४३ - सर्पिषो जानीते-भत्र शाधास्वयंप्रवृत्तौ सर्पिषो
Ga
For Private and Personal Use Only
Page #956
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिलेखनप्रकार।
६४७ वस्तुतः करणत्वेऽपि तदविवक्षायां सम्बन्धमारे "षष्ठी शेषे” इति षष्ठी। ४४-सतः पालको ऽवतरति-पत्र पालधातोः "भविष्यति गम्पादयः" इत्यधिकारे "तुमुन्ण्वुलौ' इति सूत्रेण भविष्यत्यर्थे ण्वुलो विधानात्तद्योगे "कर्तृकर्मणोः कृति" इति प्राप्तकर्मषष्ठया: "अकेनोभविष्यदाधम. ययोः' इति निषेधे कर्मणि द्वितीया बहुवचनम् । ४५-अधीती व्याकरणे-पूर्व कर्मावि. वक्षया भावे क्तप्रत्यये अधीत शब्दात् कर्तरि "इष्टादिभ्यश्च" इतीनिप्रत्यये ततः कर्मविशेषजिज्ञा. सायां कर्मत्वेन सम्बद्धाद् व्याकरणात् "क्तस्येविषयस्य कर्मण्युपसङख्यानम्" इति वार्तिकेन ससमी । ४६-प्रसित उत्सुको वा हरिणा हरौ वा-पत्र प्रसित-उत्सुक शब्दयोगे हरिशब्दात् “प्रसितोत्सुकाभ्यां तृतीया च" इति सूत्रेण तृतीया सप्तमी च । एवमेवान्यान्यपि रूपा. णि प्रत्यहं लेखनेनाभ्यसनोयानि।
इति रूपलेखनप्रकारः।
अथ पतिलेखनप्रकारः। १-'हलन्त्यम्" इति सूत्रस्य वारद्वयं लेखनमन्योन्याश्रयपरिहाराय। तथाहि, 'वाक्यार्थशाने पदार्थशानं कारणम्' इति नियमसत्वेन उपदेशे अन्त्यम् इत् इति त्रयाणां पदानामनुवृत्त. सूत्रभुतानामर्थशानेऽपि हरपदार्थज्ञानस्याभावेन "हलन्त्यम्" सूत्रस्य व वयार्थबोधः, एवम् प्रा. दिः अन्त्येन सह इति त्रयाणां पदानामर्थशानेऽपि इत्पदार्थज्ञानस्याभावेन "प्रादिस्नत्येन सहेता" इत्यस्य वाक्याबोधः प्रसक्तः, हलन्त्यसूत्रार्थज्ञानाधीनं च इत्पदार्थज्ञानम् , इत्पदार्थज्ञानाधीनं च आदिरनयेनसूत्रार्थशानं, तज्ज्ञानाधीनं च हलपदार्थशानं हल्पदार्थज्ञानाधीनं च हलन्त्यसूत्रार्थज्ञानमिति हलन्त्यमादिरन्स्येनसूत्रयोरन्योन्याश्रयप्रसङ्गः, तद्वारणाय इलन्यसुत्रावृत्तिः क्रियते । श्रावृत्तसूत्रस्य हलसूत्रेऽन्त्यमित्सम्यकं भवति इत्यर्थकरणेन लकार इत् इतीपदार्थज्ञानेन आदिरन्स्येनसूत्रार्थ बोधे जाते तेन अन्त्येन इता लकारेण सहित
आदिहकारो मध्यगानां स्वस्य च बोधक इति इल्पदं इयवरसूत्रस्थहकारपर्यन्त. वर्णानां बोधकमिति हरूपदार्थज्ञाने जाते हलन्स्यसत्रार्थशानं जायते इति नोक्तदोष इति दिक् । अन्योन्याश्रयत्वं च स्वज्ञानाधीन ज्ञानत्वम् । २-लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सज्ञा । प्रत्याहारेष्वितां न ग्रहणम् , अनुनासिक इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्य दृश्यते इति । अयं भावः-लसूत्रे लकारोत्तरवत्तिहस्वाकारस्यानुनासिकस्वप्रतिज्ञया "उपदेशेऽजनुनासिक इत्" इति सूत्रेणेरसम्शायां कृतायाम् "आदिरन्त्येन सहेता" इत्यनेन प्रकारेण सहोच्चार्यमाणरेफस्य "उरण रपरः" इत्येतत्सूत्रघटकस्य हयवरसूत्र. स्थोऽयम् इतितत्त्वप्रत्यभिज्ञया मध्यपठितल कारस्व पदग्राह्यरेफयोर्योधक इति रप्रत्याहारसिद्धिः। तेन तत्र सूत्रे रपरत्वविधानवत् लपरत्व विधानं, तेन च 'वल्कारः' इति रूपसिद्धिर्भवति। ननु रलयोरिति न्युनं, टकारस्यापि मध्यगतत्वेन रप्रत्याहारे तद्ग्रहणस्यापि युक्तावादिति चेत् ? न, 'अनुनासिकः' इति ककारपरक-इकारपटितनिर्देशेन प्रत्याहारेषु इसम्ज्ञकवर्णग्रहणशापनात् । अन्यथा प्रत्याहारेविरसशकवर्णानामपि ग्रहणे अप्रत्याहारे ऋलकसत्रस्थककारस्यापि ग्रहणा. पत्या तत्परकेकारस्य "इको यणचि" इत्यनेन यणा 'मनुनासिक' इति निर्देशानुपपत्तेः।
For Private and Personal Use Only
Page #957
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८
परिशिष्टे
H
"
३ - एदैतोरोदौतोश्च न मिथः सावर्ण्यम्, ऐऔच् इति सूत्रारम्भसामर्थ्यात् । तेनैचचतुर्विशतेः सज्ञाः स्युरिति नापादनीयम् । श्रयमाशयः - ययो वर्णयोः स्थानप्रयत्नसाम्यं तयोः परस्परं सवर्णसज्ञा " तुल्यास्यप्रयत्नं सवर्णम्" इत्यनेन विधीयते । तथाच एकारस्थ ऐका - रस्य चोभयोः कण्ठतालुस्थानं विवृतप्रयत्नश्चेति तयो:, श्रोकारस्य श्रौकारस्य च कण्ठोष्ठस्थानं विवृत प्रयत्नश्चेति तयोश्च परस्परं सवर्णसम्झा प्राप्नोति । बथाच ऋकारेण स्वसवर्णानां त्रिंशदृकारलृकाराणां यथा ग्रहणं तथा पज्भिः स्वसवर्णचतुत्रिंशतेग्रहणमिति नावादनीयम्, तथा सति एकारेण ऐकारस्य प्रकारेण च श्रकारस्य ग्रहणमिद्धः श्रच् इति सूत्रं व्यर्थमिति तयोः पर स्परमसावर्ण्यज्ञापनात् । ४ - नाज्झलाविति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याकाशे न सवर्णः तत्राकारस्यापि प्रश्लिष्टत्वात् । तेन 'विश्वपाभिः' इत्यत्र "होढः" इति ढत्वं न भवति । श्रयं भावः - वाक्यार्थज्ञाने पदपदार्थज्ञानस्य कारणखात् "अणुदित्सवर्णस्य चापत्य : " इतिसूत्रार्थज्ञानं सव पदयोरर्थज्ञानाचीनम् श्रय् पदार्थज्ञानं च "श्रादिरन्त्येन सहेता" इति प्रत्याहारज्ञानाधीनं प्रत्याहारज्ञानं च " हलन्त्यम्” इतीरसज्ञाज्ञानाधीनं तज्ज्ञानं च वर्णोपदेशज्ञानाधीनमिति वर्णोपदेशहलन्त्य सूत्र श्रादिरन्त्येन. सूत्रार्थज्ञानोत्तरमण्पदार्थज्ञानम्, एवं सवर्णपदार्थज्ञानं च " तुल्यास्यप्रयत्नं सवर्णम्" इति सूत्राथंज्ञानाधीनं, तुल्यास्य सूत्रार्थज्ञानं च "नाज्झलौ” इत्यर्थज्ञानाधीनं, ततः पूर्वं बाधक सम्भावनया तुल्यास्य सूत्रस्य निष्कम्पप्रवृश्यभावात् तज्ज्ञाने तु बाघकज्ञानसत्वेन तद्विषयं परिहृत्य निष्क पप्रवृत्तेः एवञ्च सवर्णपदार्थज्ञानं तुल्यास्यनाज्झलौ सूत्रार्थज्ञानाधीनमिति "नाज्झलौ” इत्यर्थज्ञानकाले श्रणुदित्सूत्रस्याऽथावबोधाभावेन तस्याप्रवृत्या श्रच्पदेन सवर्णग्रहणाभावादक्षरसमा नापठितवर्णानामेव सवर्णसज्ञानिषेध इति इकारदीर्घा कारयोः - कण्ठस्थानविवृन प्रयत्न साम्येन सवर्णसज्ञायां 'विश्वपा मिस्' इत्यत्र "हो ढः" इति इकारेण दीर्घाकारस्य श्रणुदित्सूत्र साहा - येन ग्रहणे दीर्घाकारस्य त्वापत्तिरिति न शक्यम्, "नाज्झलौ" इत्यत्र सवर्णदीर्घेण दीर्घा - कारस्य प्रश्लेषेण तस्यापि इकारेण साकं सवर्णज्ञषेधादिति बोध्यम् । ५- अष्टाभ्य औश् इत्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते । श्रष्टन् शब्दाज्जति विभक्तौ " श्रष्टाभ्य श्रश्" इत्यनेन जायमान और आदेश “आदेः परस्य" इत्यनेन प्रकारस्य स्थान प्राप्तोऽपि “अनैक'ल शित्सर्वस्य" इत्यनेन परत्वादादेः परस्य इति बाधित्वा सम्पूर्णस्येव स्थान नियम्यते इति श्रष्टौ इति सिध्यति । ६ - इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु आदित्यो देवताऽस्येति भादित्यं हविरित्यादौ । 'हरि - अनुभवः' इति स्थिते "इको यणचि' इति इरिशब्दावयवकारस्य अनुभव शब्दावयवाकारेऽचि परे "स्थानेऽन्तरतमः" इति परिभाषैकवाक्यतया यणि यकारादेशे " अचो रहाभ्यां द्वे" इति रेफारपरस्य यरो कारस्य द्वित्वे "इलो यमां यमि लोपः" इति यनो यकारस्य द्वितीये यकारे परे लोपे हर्यनुभवः, लोषाभावपक्ष इय्यनुभवः, इति । अत्र शङ्कते - लोपसाध्यमे कय कारवटितं रूपं द्वित्वाभावपचे ऽपि सिद्धयति, द्वित्वपक्षे च यकारद्वयघटितमिति रूपद्वयस्य लोपमन्ताऽपि सिद्धेः किमर्थ लोप• विधायकं सूत्रमिति ? तत्र समाधानम् । श्रत्र फलाभावेऽपि श्रादित्यशब्दादस्य देवता इत्यर्थ
-
For Private and Personal Use Only
Page #958
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकार। "साऽस्य देवता" इति सूत्रेण "दिस्यदित्यादित्यपत्युत्तरपदाण्यः इत्याधिकारात् ण्यप्रत्यये "यस्येति च" इत्यल्लोपे प्रादित्य इत्यत्रानेन सूत्रेण यकारलोपे सुबुत्पत्तौ प्रादित्य इत्येकयकारघटितं रूपं सिद्धथति नान्यथेति। -वान्त इत्यत्र वकार गोयूँतावित्यत्र छकाराद्वा पूर्वभागे लोपो।व्योरिति लोपेन कारः प्रश्लिष्यते। तेन भूयमाणवकारान्त आदेशः स्यात् वकारो न लुप्यते इति यावत् । अस्यायमभिप्रायः-गव-यूतिः' इत्यवस्थायां प्रत्य. यलक्षणेन सुबन्तत्वाद् गव इत्यस्य पदव "लोपः शाकल्यस्य" इति वकारस्य लोपः कथं नेति ? अत्रोच्यते, 'वान्तो यि प्रत्यये' इति सूत्रस्थवकारात्पूर्वमेकोऽन्यो वकारः, यस्य "लोपो व्योवलि" इति वलोपः, स च वकारः वान्त इत्यस्य विशेषणं, तेन तदन्तविधिः । तथाच वकारानो वकारान्त आदेशो भवति इत्यर्थः सिद्धयति । द्विबंद सुबई भवतीति न्यायेन द्विवकारान्तादेश. विधानेन प्रादेशस्य वकारान्तत्वमेव श्रूयते भतु वकारस्य लोप इति ज्ञायते । तेन प्रकृते न वलोप इति बोध्यम् । ननु "वान्तो यि प्रत्यये" इति सूत्रे वकारप्रश्लेषस्य न फलम् तदुदाहरणेषु गव्यं नाव्यम् इत्यादिषु यकारादिप्रत्ययपरकरवेन वान्ते भसन्शया बलोपाप्राप्तः, किञ्च तत्र वकार. प्रश्लेषोऽपि न सम्भवति "लोषो व्योवलि" इत्यस्य वकाररूपे वलि परे वकारलोपार्थमप्रवृत्तेः। तत्र सूत्रे वस्ववस्त्वयोधर्मयोः व्याप्यव्यापकभावसवेन वकारातिरिक्त वलि वकरस्य लोपो भवतीत्यर्थात् । अतः "गोयतो छन्दस्युपसंख्यानम्' इति वार्तिके छकारात्पूर्व वकारप्रश्लेषः कर्तव्यः । तत्र “वान्तो वि" इस्यतोऽनुवृत्तं वान्तपदं विशेष्यमादाय तदन्तविधिना पूर्ववदर्थः । तेन 'गम्युतिः' इत्यत्र न वलोप इति दिक् । ८-कानि सन्ति को स्त इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्रासौ नपदान्त इति सूत्रेण पदान्तविधौ तनिषेधान्न स्तः । अयमभिप्राय:-वाक्यसंस्कारपक्षे वाक्यपर्यन्तं प्रकृतिप्रत्ययान् संस्थाप्य ततः अतवर्णक्रमेण संस्कार इति सिद्धान्तात् कि जस् अस् मन्ति, किम् भी प्रस् तस्, इति प्रकृति प्रत्ययसंस्थापनानन्तरं जसः शि आदेशे किमः कादेशे नुमि दीर्घ कानि अस् अन्ति इति स्थितो एवमुत्तरत्र कादेशे पद्धौ को प्रस् तस् इति स्थिती च "इनसोरल्लोपः" इत्यकारला "अचः परस्मिन् पूर्ववियो" इति सूत्रेण डिप्रत्ययनिमित्तकस्य अल्लोपस्य स्थानिभूताकारापूर्व त्वेन दृष्टस्य इकारस्य यणि, श्रीकारस्प आवादेशे वा कर्तव्ये स्थानिवद्भावेनाच्वबुद्धया यणा. वादेशी प्राप्तौ पदान्तविधौ न स्थानिकदित्यर्थ कनपदान्तसूत्रेग स्थानिवद्भावनिषेधान्न भवत इति । -पुरस्तादपवादन्यायेनेयं वृद्धिरेडिपररूपमित्यस्यैव बाधिका न त्वोमाङा
चेत्यस्य । तेन अवैहि इति वृद्धिरसाधुरेव । अयमर्थ:--"पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्" इति न्यायस्वरूपम् । पूर्व पठिता अपवादा भव्यवहितोत्तरविधीना बाधका भवन्ति नतु व्यवहितोत्तरविधीनामिति तदर्थः । तथाच "एत्येधत्यूठसु" इति सूत्रस्थ यत्र यत्र अवर्णादेजादि-इणएधन्यतर-धात्ववयवाचपरत्वसत्त्वेन प्राप्तिविषयता तत्र तत्र उप-एति प्र-पधते इत्यादौ 'ए'ङ पररूपम्" इत्यस्य प्राप्तिर्वर्तते कचिच्च 'अव-पहि' इत्यादी "एङि पररूपम्" "प्रोमाङोश्व" इत्युभयोः प्राप्तिवर्तते । अतः एत्येधत्यूठसु" इत्यस्य निरक. काशस्वेनापवादस्वादुभयवादकत्वं प्रसक्तं, तथापि सकललक्ष्यप्राप्तिविषयतया नाप्राप्तएपिर
For Private and Personal Use Only
Page #959
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०
परिशिष्टे -
रूपनामेन उप-पति-प्र-रते इत्यादौ वृश्चारिवाध्येंन "प्रोमाङोश्च" इत्यस्य बाधे निरवकाशश्वरूपबाधवीजस्याभावेन उमयोस्तुल्यबलरखे "विप्रतिषेधे परं कार्यम्” इति पररूपस्य परस्वाद प्रबलतया भव-एहि इत्यत्र प्रवृत्तिरिति भवेद्दि इति पररूपघटितं साधु, वृद्धिघटितं चा- साधु । यत्र निरवकाशं शास्त्रं पूर्वं ततः सकललक्ष्यप्राप्ति - विषयशास्त्रं ततः कचिल्लक्ष्यप्राप्ति. विषयशास्त्रं तत्र पुरस्तादपवादन्यायप्रसरः । निरवकाशशास्त्रं मध्ये सकललक्ष्यप्राप्तिविषयशास्त्रं पूर्वं कचिल्लक्ष्यप्राप्तिविषयशास्त्रं चोत्तरत्र तत्र " मध्ये पठिता अपवादाः पूर्वान् विधीन बाधन्ते नोत्तरान्” इति न्याय इति विवेकः । मध्ये पठितापवादन्यायश्च स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । १० - अर्थवद्प्रहणे नानर्थकस्य ग्रहणम् ; व्रश्चेति सूत्रे राजेः पृथग्
1
•
जिग्रहणाज्ज्ञापकात् । तेनोदग्रहणे कान्तमेव गृह्यते न तु तवत्वन्तस्यै कदेशः । प्रोढवान् । श्रयं भावः - व्याकरणशास्त्रे "स्वं रूपम्” इति शास्त्रेण शब्दस्वरूपस्यैव शब्देन ग्रहणाद् राजशब्देन केवलराजशब्दस्य आजूघटकराजशब्दस्य चावि. शेषाद् ग्रहणे उभयोरपि " वश्चभ्रस्जसृजमृजय जराजन्नाजच्छशां षः" इत्यत्र केवलराजग्रहयेनैव षत्वसिद्धौ भ्राजग्रहणं व्यर्थे सज्ज्ञापयति' अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्' इति । तथाचात्र शास्त्रे शब्दस्वरूपस्य ग्रहणेऽपि विशेषणतयोपस्थितस्यार्थस्य यत्र ग्रह- सम्भवस्तत्र सार्थकस्यैव शब्दस्वरूपस्य ग्रहणं नतु निरर्थकस्येति । तेन " प्रादूहोढोढणंवैष्येषु" इति वार्तिकस्थ 'ऊढ' पदेन सार्थकस्य तस्य ग्रहणात् 'प्रौढ : ' इत्यत्र वृद्धिर्भवति 'प्रोढवान्' इत्यत्र क्तवतुप्रत्ययान्त 'उढवत्' शब्दघटक 'उद' इत्यस्य अनर्थकत्वेन तस्याग्रहणादस्य वार्तिकस्याप्रवृत्तौ "श्राद् गुणः" इति गुण एवेति । ११ - अन्तवद्भावेन पदान्तरेफस्य न विसर्गः ; उभयथक्षु कर्तरि चर्षिदेवतयोरित्यादिनिर्देशात् । प्र - ऋच्छति इति स्थिते "उपसर्गाद् ऋति घातौ' इति सूत्रेण " स्थानेऽन्तरतमः" इति परिभाषै -कवाक्यतयाऽनान्तर्यमेवैतयोरान्तर्यम् इत्यान्तरतम्यादुपसर्गावयवाकाराद् ऋकारादिऋच्छधारक`वयवेऽचि परे पूर्वपरयोः' स्थाने श्राकारकादेशे "उरण् रपरः" इति सूत्रेण रपरे कृते प्राच्छेति इति सिद्धयति । नन्वत्र " अन्तादिवच्च" इत्यनेन पूर्वस्थानिघटितसमुदाय ' प्रवृत्तिपदश्वधर्मस्य एकादेशान्ते प्रार इत्यत्रारोपेण रेफस्य पदान्तत्वात " खरवसानयोर्विर्जनीयः" इति विसर्गः कुतो नैति चेत् ? अत्रोच्यते, उभयथतु' कर्तरि चर्षि' इत्यादिषु रेफस्य विसर्गाकरणपूर्वक रेफविशिष्ट निर्देशन अन्तवद्भावेन पदान्तत्वमादाय रेकस्य विसर्गाभावज्ञापनात । १२ – उपसर्गेजैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन "ऋत्यकः" इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति । उप-ऋच्छति इति स्थिते " उपसर्गाद् ऋति बातौ” इति सूत्रेण " स्थानेऽन्तरतमः ' इति परिभाषैकवाक्यतया नान्तर्य मे वै तयोरान्तर्यम् इत्यान्तरतम्यमादाय उपोपसगवयवाकाराद् ऋकारादिच्छधात्ववय बेऽचि परे पूर्वाकारपरक कारयोः स्थाने श्राकारवृद्ध्यैकादेशे " उरण् रपरः' इति रपरे को उपाच्छति इति सिद्धम् । नन्वत्र " उपसर्गाद् ऋति धातो" इति वृद्धिः कथम् ? "ऋत्यकः" इति हस्वसमुच्चित प्रकृतिभावप्रवृत्तेः ; इति चेत् १ न, "उरसर्गाद् ऋति घानी" इत्यत्र घाजी इति योगविभागं कृत्वा
For Private and Personal Use Only
Page #960
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पनिलेखनप्रकारः।
५१ तत्र वाक्यभेदेन च उपसर्गाद् ऋति इत्यनुवयं पूर्वसूत्रविध्यनुवादभूतपुन द्विविधानसामर्थेन प्रकृतिभावस्यापि वापात् । नच पूर्वसूत्रे धाताविस्यस्याभावे तस्याधातावपि प्रवृत्यापत्तिरिति वाच्यम् धातुयोग विनोपसर्गत्वस्यानुपपत्तेरुपसर्गपदेन धातुपदस्याक्षेपात तथा च पूर्वसूत्रस्य धातावित्यस्याभावेऽपि भवर्णान्तादुपसर्गाकारादौ धातो पूर्वपरयोधुद्धिर्भवतीत्यर्थस्य सिद्धतया धाताविति योगविभागेन पुनवृद्धिविधानम् । तेन न प्रकृतिभाव इति दिक् । १३-नामलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः, ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अयमर्थ:--"प्रकः मवणे दीर्घः' इति सूत्रे 'अचि' इत्यनुवृत्तिः किमर्था ? तदननुवृत्तावपि का सावय॑मभिरेवेति सवर्णपदेने वाजितरहला व्यावृत्तिसिद्धरिति प्रश्नाशयः। कुमारी शेते इत्यत्र तत्सूत्रे 'भचि' पदानुवृश्यभावे दीर्धकारशकारयोः विवृतप्रयत्नतालुस्थानसाम्येन तुल्यास्पप्रयत्न सवर्णम्" इति सवर्णसज्ञायां दीधे काराव शकारे सवणे परे पूर्वपरयो। स्थाने दीर्धापत्तिः । नच "नाज्झली" इति सूत्रेण तयोः सावर्ण्यनिषेध इति । वाच्यम् , तत्र सूत्रेऽचपदेन दीर्वादोनो ग्रहणाभावेन दीर्वादीनां लांच परस्परं निषेधस्य वक्तुमशक्यत्वात् । अच्पदेन दीर्घादीनां ग्रहणम् अणुदित्सूत्रेण कर्तव्यम् , तच्च न सम्भवति वाक्यार्थशाने पदपदार्थज्ञानस्य कारणतया "नाज्जलो' इत्येतदधीनतया सवर्णपदार्थनिश्चयस्य "नाज्झलो" इति सूत्रार्थावबोध काले अणुदित्सूत्रार्थावबोधाभावात् । इत्युत्तराशयः। १४-नित्यमिति किम् ? हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यादिकोऽसवर्ण इति हस्वसमु. च्चितो माभूत् । ननु "प्लुतप्रगृया अचि नित्यम्" इति सूत्रे निस्यग्रहणं किमर्थम् ? नित्यग्रहणाभावेऽपि विकल्पार्थकविभाषादिपदाभावेनान्यविधीनामिवास्यापि नित्यत्वावगमादिति चेत ? सत्यम् , नित्यग्रहणमन्त राऽपि नित्यत्वसिद्धेः पुननित्यग्रहणस्य प्लुतस्य प्रगृह्यसन्ज्ञकस्य चाचि परेऽयमेव प्रकृतिभावो नान्य इति बोधनार्थस्वात। तेन 'हरी-एतौ' इत्यत्र द्विवचनान्तस्य ईकारान्तस्य 'ईदेद् द्विवचनं प्रगृह्यम्" इति प्रगृह्यसम्झायामयमेव प्रकृतिभावो भवति नतु "इकोऽसवणे शाकल्यस्य हस्त्रश्च' इति हस्वसमुच्चित । अन्यथा परत्वात्स एव स्यादिति । १५-अत्र हस्वविधिसामदेिव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितम् । चक्री- इति स्थिते, "इकोऽसवणे शकल्यस्य हस्त्रश्च" इति सूत्रेण पदान्तेको दीकारस्य स्थाने सवर्णभिन्नेऽचि प्रकारे परे हुस्वादेशे प्रकृतिभावे च चक्रि भत्र इति । हत्वादेशप्रकृतिभावयोर्विकल्पतया तदभावपक्षे "इको यणचि" इति यणादेशे चक्रयत्र इति । नन्वत्र सूत्रे चकारेण प्रकृतिभावस्य अनुकर्षः करणीयः। सच नावश्यकः हस्वादेशवि. थानसामर्थ्यादेव प्रकृतिभावभिद्धेः । हरवे कृतेऽपि यदि यण स्यात् तद्विधानमेव व्यर्थ स्यादिति । एवञ्च प्रकृतिभावस्यान्यथासिद्धत्वात्तदनुकर्षणाचकारो न कर्तव्य इति भाष्ये स्थितम् । १६-वत्किम् अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथाच प्रगृशाश्रये प्रकृतिभावे सिद्धे प्लुतस्य श्रवणं न स्यात् । अग्नी ३ इति । भग्नी-इति इत्य. वस्थायां "दूराद्धृतेच" इत्यनेन सम्बोधनद्विवचनान्त 'भग्नी' इत्यस्य : प्लुतादेशः । तस्यासिदवाद् "ईदूदेद् द्विवचनं प्रगृहयम्" इत्यनेन प्रगृह्यसल्झायो "प्लुतप्रगृया अचि नित्यम्"
For Private and Personal Use Only
Page #961
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
परिशिष्टेइत्यनेन प्रकृतिभावे 'अग्नी ३ इति' सिद्धयति । "अप्लुतवदुपस्थिते" इति सूत्रे प्लुतस्य अप्लु-- तादेशे अलुतबद्भावे वा सन्धिकार्यप्रवृत्तावविशेषाद् वरकरणं वृथेति 'वरिकम्' इति प्रश्नाशयः। वग्रहणाभावे उक्तोदाहरणे प्रगृहशानिमित्तकप्रकृतिभावेन सन्धिकार्याप्रवृत्तेरप्लुतादेशे तच्छवणापत्तिरप्लुतवद्भावे च प्लुतस्याश्रवणमितिविशेषसद्भावारसूत्रे वत्करणमानश्यकमित्युत्तरम् । १४-मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः। ननु "ईद देद् द्विवचनं प्रगृह्यम्" इति सूत्रेण ईकारान्तद्विवचनस्य प्रगृह्यसन्ज्ञा, ततोऽचि परे प्रकृतिभावश्च यथा हरीएतो इत्यत्र भवति तथैव 'मणी-इव' इत्यत्रापि इति कथं 'मगीतोष्टस्य' ते सवर्णतीय इति चेत् ? न, नात्र स्वशब्दः किन्तु इशर्थो वशब्दो वाशब्दो वा । तेनाऽत्र नैव सवर्णदीर्घ इति।१८-मात्किम् ? ममुकेऽन्न । असति मादूग्रहणे एकारोऽप्यनुवतेत । ननु "अदसो मात्" इति सत्रे माद्ग्रहणं किमथम् , माद्ग्रहणाभावे 'अदसः” इति सूत्रमत्वे अदसशब्दावयवदीर्धकारोकारौ प्रगृह्यसन्सकावित्यर्थेन अमू-भासाते श्रमी-ईशाः इत्यादिसिद्धः; इति चेत् १ न, मादग्रहणाभावे "सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति न्यायेन 'इदेद् इति सकलस्यानुवृत्तौ पदसशब्दावयवकारस्यापि प्रगृह्यसन्ज्ञापत्तो 'अमुकेऽत्र' इत्यत्रापि तदापत्तेः।। सति तु माद्ग्रहणे अदसशब्दावयवैकारस्य मकाराव्यवहितोत्तरस्यासम्भवान्न तदनुवृत्तिरिति । १९- अर्थग्रहणं किम् ? वृत्तावान्तरोपसक्रान्ते माभूत् वाप्यामश्वो वाप्यावः ।
ननु "इदूतौ च सप्तम्यर्थे" इति सूत्रेऽर्थग्रहणं किमर्थम् ? सप्तम्यर्थबोक्कमीकाराममूका. रान्तं वा प्रगृह्यसम्झकमित्यर्थन सिद्धि गच्छता सोमो गौरी अधिश्रितः मामका तनू-इति इत्या. दीनामुदाहरणानां तत्र सूत्रेऽर्थग्रहणाभावेऽपि सप्तम्यन्तमीकारान्तमूकारान्तं वा प्रगृधसम्मक भवतीत्यर्थेन प्रत्ययलक्षणेन सप्तम्यन्तया प्रगृह्यसंज्ञाप्रवृपा सिद्धत्वात् । न च "साविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति" इति तदन्तविधिनिषेधेनोक्तार्थासम्भवः किन्तु ईकाररूपा ऊका. ररूपा या सप्तमी प्रगृह्यसशिकेत्यर्थ इति प्रकृतोदाहरणे ईकारोकाररूपसप्तम्यभावात्तदसिद्धि. रिति वाच्यम् , ययो पपी इत्यादावीकाररूपसप्तम्याः सम्भवेऽपि ऊकाररूपसप्तम्याः कुत्राप्यस. म्भवेनात्र सामर्थ्यात सम्शाविधाविति निषेधाप्रवृत्तिकल्पनेन पूर्वोक्तार्थेन तरिसद्धः इति चेत् ?' मत्रोच्यते, अर्थग्रहणेन सप्तम्यर्थविशेष्यताकोपस्थितिजनकस्यैव ईकारान्तस्य ऊकारान्तस्य वा तत्सन्शाबोधनात् । तथाच समासादिवृत्तौ विशिष्टशक्तिवादिनी विशिष्टार्थस्य वोपस्थितेः पूर्वप दार्थस्य तत्र विशेषणतयोपस्थिती 'वाप्यश्वः' इति समासघटकस्य वापीपदस्थ प्रत्ययलक्षणेन सप्तम्यन्तस्वेऽपि सप्तम्यविशेष्यताको स्थितिजनकत्वाभावेन न प्रगद्यसम्ज्ञा, लेन यप्रवृस्या वाप्यश्वः इति सिद्धयति । अन्यथा प्रगृह्यसन्ज्ञायां यण न स्यादिति । २०-स्थानप्रयत्नाभ्यामन्तरतमे स्पर्श चरितार्थो विधिरय रेफे न प्रवर्तते । चतुर्मुखः । ननु चतुर्-मुख शति स्थिते “यरोऽनुनासिकेऽनुनासिको वा" इति सूत्रेण पदान्तस्य यरो रेफस्य अनुनासिके मुखशब्दावयवमकारे परे अनुनासिको मूर्धस्थानजन्यस्वेन पकारः कुतो नेति चेत् १ अत्रोच्यते, "स्थानेऽन्तरतमः" इति प्रथमान्तपाठे स्थानिन: स्थानेऽन्तरतम एव प्रादेशो भवति नवन्यः इति यथा नियमः तथा भाष्य कृता "स्थानेऽन्तरतमे" इति सप्तम्यन्तपाठं स्वीकृत्य आदेशोऽन्तर
For Private and Personal Use Only
Page #962
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्किलेखनप्रकारः।
४५३ तमे स्थानिन भवतीत्यर्थ व्याख्याय पादेशोऽपि अन्तरतमस्यव स्थानिनः स्थाने भवतीति नियमः स्वीकृतः । तथाच णकारोऽनुनासिकादेशः स्थानिनो यरा मध्ये स्पृष्टप्रयत्नवत्वेन टठडढणानां स्थाने एक भवति नत्वन्यस्य स्थाने इति नियमेन चतुर्मुख इत्यत्र रेफस्य णकारो न भवतीति । यदि तु प्रथमान्त पाठपक्षे किमिति णकारो नेत्युच्यते तहिं "अनुस्वारस्य ययि पर. सवर्णः" इति सूत्रादत्र सूत्रे सवर्णपदमपकृष्य सवर्णोऽनुनासिकादेशो भवतीत्यर्थादत्र रेफस्य सवर्णानुनासिका मावेन न णकारादेश इति बोध्यम् ।१-कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवणे च कृते तस्यासिद्धत्वान्न णत्वम् । ननु कुर्वन्ति इत्यत्र ". कुम्वाडनुम्व्यवायेऽपि इत्यनेन रेफादडव्यवहितनकारस्य णत्वं कुतो नेति चेत् ? 'उच्यते' तत्र णस्वे प्राप्ते तस्यासिद्धत्वात् "नश्चापदान्तस्य झलि" इति नकारस्यानुस्वारादेशे 'अनुस्वारस्य ययि परसवर्णः" इति सूत्रेण तस्य परसवर्णन नकारादेशे परसवर्णस्य गस्वदृष्टयाऽमिद्धत्वान्न रणस्वप्रवृत्तिरिति । २२ येननाप्राप्त इति न्यायेन विसर्जनीयस्य स इत्यस्यापवादोऽयं नतु शपरे विसर्जनीय इत्यस्य । तेन वासाक्षाममित्यादौ । विसर्ग एव । 'येन नाप्राप्ने यो विधिरारभ्यते स तस्य बाधको भवति' इति न्यायस्वरूपम् । यस्कर्तृकावश्यप्राप्तौ यो विधिरारभ्यते स तस्य बाधको भवतीत्यर्थः । यथा यत्र यत्र “कस्कादिषु च" इत्यस्य प्रवृत्तिस्तत्र तत्र तत्र "कुम्वोः कपो च" इत्यस्य प्राप्तिरिति "कुप्वोः कपो च" इति शास्त्रका तृकावश्यप्राप्ती "कस्कादिषु च" इत्यस्यारम्भ इति । "कस्कादिषु च' इतिक पयोधिक भवति । सकललक्ष्यप्राप्तसूत्रस्येवापवादो भवतीत्यर्थः। एवन "विसर्जनीयस्य सः" इत्यस्य सकल लक्ष्येषु प्राप्तिसत्वं कुप्वोरित्यस्य प्रारम्भो नतु शपरे इत्यस्य सर्वत्रप्राप्तिरिति कुप्वोरिति सूत्रं सकललक्ष्यप्राप्तविसर्जनीयस्येति । सूत्रस्यैव बाधकं नतु क्वचित् प्राप्ति विषयशपरे विसर्ज. नीय इस स्य । किन्तु वास:-क्षौमम् इत्यादो शपरे श्येव परत्वाबाधकमिति। २३-एकादेश. शशास्त्र नमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न-मातुः कृपा। अयं भाव:-'भ्रातुः-पुत्रः' इत्यत्र "दुइपधस्य चाप्रत्ययस्य" इत्य. नेन विसर्गस्योकारोपधतया षस्वसिद्धस्तदर्थ क्रियमाणः कस्कादिगणे भ्रातुपुत्रशब्द. पाठो ध्यर्थः सन् एकादेशशास्त्रनिमित्तकस्य "इदुदुपधस्य चाप्रत्ययस्य" इत्यनेन षत्वं न भवतीति ज्ञापयति । ततश्च कस्कादिगणे तत्पाठाभावे 'भ्रातुः' इति विसर्गस्थ "ऋत् उत्" इत्येकादेशशास्त्रनिमित्तकस्वेन तस्य परवं न प्राप्नोतीति गणे तपाठस्य चारि. तार्थ्यम् । फलं तु मातुः कृपा इत्यत्र विसर्गस्य न षस्वमिति २४-कस्कादिषु सपिष्कुण्डिकाशब्दपाठोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः, व्यपेक्षायां नित्या. ईश्च । ननु सपिं:-कुण्डिका इति स्थिते "नित्यं समासेऽनुत्तरपदस्थस्य" इति "इसु सोः सामर्थ्य" इति वा विसर्गस्य षत्वसिद्धेः कस्कादिगणे सर्विष्कुण्डिकाशब्दपाठः किमर्थ इति चेत् ? अत्रोच्यते, "नित्यं समासे" इत्यनेन हि समासे एव षत्वं विधीयते सपिंषः कुण्डिका सर्पिष्कुण्डिकेति, सुसोः सामर्थे " इत्यनेनापि व्यपेक्षारूपसामध्ये एक पत्वं विधीयते सर्पि. कुण्डिकायां वर्तते इत्यादौ, यदा तु तिष्ठतु सपिः कुण्डिकामानय इति प्रयुज्यते तत्रापि सपि.
For Private and Personal Use Only
Page #963
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
परिशिष्टेकुण्डिकाम्' इति परवपरितं यथा स्यादिति कस्कादिगणे पाठः। किञ्च व्यपेक्षायाम् "सुसोः सामध्ये" इति विकल्पेन षत्वं भवति कस्कादिगणे पाठेन ध्यपेक्षायामपि सपिंकुण्डिकायाम् इत्येकमेव भवतीति कस्कादिगणे सर्पिष्कुण्डिकाशब्दस्य पाठ इति बोध्यम् । २५-उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति, रुत्वमनूध उत्वविधेः सामर्थ्यात् । अयं भाव:-"तो रोरप्लुतादप्लुते" इत्यस्य सपादसप्ताध्यायस्थित्वेन तदृष्टया "ससजुषो रुः" इत्यादिरुत्ववि. धायकाना पादिकतया "पूर्वत्रासिद्धम्" इति प्रसिद्धस्खे "अतो रोरप्युतादप्लुते" इत्यस्य वैयर्थ्यमेव स्यादतो रुवमुद्दिश्योत्वविधानसामर्थ्यादुत्वदृष्टया रुत्वस्यासिद्धत्वं नेति कल्प्यते। तेन रोः स्थाने स्वं सिद्धयति । २६-अप्लुतात् किम् ? एहि सुस्रोत ३-अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषेणे तु तत्सामर्थ्याचासिद्ध त्वम् । तपरकरणस्य तु न सामर्थ्य, दीर्घनिवृत्त्या चरितार्थत्वात्। “मतो रोरप्लुतादप्लु. ते" इति सूत्रे अप्लुतात् इति किमर्थम् ? तदभावे 'एहि सुनोत ३-पत्र स्नाहि' इति वाक्ये पूर्ववाक्यस्य टेः 'दूराद्धृते च" इत्यनेन प्लुतविधानात् पदान्ते रोः प्लुतात्परत्वेन तत्रावं मा भूत् इति सूत्रे अप्लुतात् इति पदम् । नन्वत्र लुप्तात्परत्वेन रोः हस्वाकारात्परस्वाभावेनैवोत्वं न प्राप्नोति तरिकमप्लुतात्करणेन ? अत्रोच्यते, एतत्सत्रदृश्या प्लुतस्थासिद्धत्वेनातः परत्वमेवेति । नचैवमप्लुताग्रहणसत्वेऽपि प्लुतस्यासिद्धरवेनाप्लुतादपि परत्वं सुवचमिति वाच्यम् , भालु. तादग्रहणसामध्येन प्लुतस्यासिद्धत्वाभावज्ञापनात् । अन्यथा तद् व्यर्थमेवेति । नचातः इति तपर. करणेनैव तदसिद्धस्वाभावशापन सम्मवतीति वाच्यम् , तपकरणस्य 'देवा मत्र' इति दीर्घव्या. वृत्या चरितार्थत्वात् ॥ २७-अशि किम् ? देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वा. द्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद् यत्वं स्यात् । न यमविधिः, रोरिति समुदायरूपाश्रयणात् । “भोभगोप्रयोभपूर्वस्य योऽशि" इति सूत्रे प्रशि. ग्रहणं किमर्थम् ? तदभावेऽपि देवास सन्ति इति स्थिते "ससजुषो रुः" इति रुत्वे • भोभगो" इति यत्वे प्राप्त तस्य पूर्वत्रासिद्धीयत्वेनासिद्धत्वात् "खरवसानयोविसर्जनीयः" इति विसर्गे 'देवाः सन्ति' इति सिद्धेरिति प्रश्नः। तत्रोत्तरम्-विसर्गे जातेऽपि विसर्गस्य "स्थानिवदादे. शोऽनल्विधौ” इति स्थानिवद्भावेन रुवातिदेशे पुनरपि यस्वापत्तिः। कृते स्वशिग्रहणे सकार. स्याऽस्वाभावान्न यत्वमिति । नच "अनल्विषौ” इति स्थानिवद्भावनिषेध इति वाच्यम् , हव. स्य रेफोकारद्वयवृत्तित्वेनाइलमात्रवृत्तित्वाभावात् । २८-पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । मजर्धाः । ननु "ढलोपे पूर्वस्य दीर्थोऽण:" इति सूत्रे पूर्वस्य इति किमर्थम् ? दलोपे इति सप्तमीश्रुत्या "तस्मिन्निति निर्दिष्टे पूर्वस्य" इति परिभाषाबलेन पूर्वस्य इति पदोपस्थापनात् इति चेत् ? न, तथा सति प्रस्य सत्रस्य भलुगुत्तरपदे" इत्यधिकारस्थतया पत्र सूत्रे 'उत्तरपदे' इत्यस्यानुवृत्तो तेन पूर्वपदस्याक्षेपापूर्वस्याणः पूर्वपदस्थस्यैव दीर्घः स्यात् तथा चैकपदे रेफलोपनिमित्तके रेफे परे ढलोपनिमित्तकढकारे वा परे पूर्वस्याणो दीयों न स्यात् । पूर्वस्व ग्रहणे कृते तरसामर्थ्यादत्रोत्तरपदे इति न सम्बध्यते । तेनैकपदेऽपि दीर्घः सिध्यति। यथा 'अर्घ-' इत्यत्र रेफे परे पूर्वस्याणो दी विसर्गे च 'मजाः' इति । २९-पूर्वसूत्रेण
For Private and Personal Use Only
Page #964
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकारः। सिद्ध समासग्रहणं नियमार्थम्-यत्र सवाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न। अयं भावः-रामशब्दस्य दशरथापत्यरूपार्थबोधकरवेन यथा "अर्थवः" इति सूत्रेण प्रातिपदिकसब्शा तथा 'राजपुरुष' इत्यादिसमासानामपि राजस. मम्धिपुरुषरूपार्थबोधकतया "अर्थवत्" इति पूर्वसूत्रेण प्रातिपदिकसम्मासिद्धौ "कृतद्धितसमा. साश्च" इति सूत्रे समासग्राणं किमर्थम् ? नच कृत्तद्धितग्रहणमपि किमर्थं पाचक औपगव इत्या. दीनामप्यर्थबोधकतया पूर्वसूत्रेणैव प्रातिपदिकसम्मासिद्धेरिति वाच्यम् , तत्र प्रत्ययान्तत्वेन अप्रत्ययः इति पर्युदासात्पूर्वसूत्राप्रवृत्तः। समासे तु प्रत्ययलक्षणेन सुपः सत्वेऽपि तदन्ततदा. दिवाभावस्य सत्वेन अप्रत्यय इत्यस्याप्रवृत्तिः। “प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इति परिभाषया अप्रत्ययपदस्य प्रत्ययान्ततदादिभिन्नमित्यर्थात् । अत्रोच्यते, 'सिद्धे सति भारभ्यमाणो विधिनियमाय भवति' इति सिद्धान्तानुसारेण समासग्राणं नियमार्थम्। नियमस्यान्यनिवृत्तिफलकतया समासे तरस्य सर्वस्य निवृत्ती नियम्यसूत्रवैयापरपा निया. मकव्यापकं यद् नियम्यव्याप्यं तस्य निवृत्तिः यथा भवेत्तथा नियमः करणीय इति सिद्धा. न्तादयं नियमाकार उपलभ्यते-यस्मिन् समुदाये पूर्वो भागः पदं तस्य चेद्भवति तहिं समासस्यैवेति । पदसशकपूर्वभागकसमुदायस्य समासेतरस्य प्रातिपदिकसम्मा नेति फलितोऽथः । तेन गाम् भानय' इति वाक्यस्य समासेतरतया पदसम्मकपूर्वभागकसमुदायतया च न प्राति. पदिकसब्शा "अर्थवत्" इति सूत्रेणाऽर्थबोधकत्वेऽपि भवतीति । ३०-प्रातिपदिकाहगे लि.
विशिष्टस्यापि ग्रहणमित्येव सिद्धे ख्याग्रहणं ज्यावन्तात्तद्धितोत्तत्तिर्यथा स्याद् ब्याभ्यां प्राङ्माभूदित्येवमर्थम् । भयमर्थः, यथा कुरुशम्दारपजुशब्दाच्च प्रत्यये अन्तस्य प्रातिपदिकत्वाभावेऽपि “प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि प्राणम्" इति परिभाषया लिङ्गबोधकप्रत्ययान्ते प्रातिपदिकत्वस्य तद्व्याप्यधर्मस्य वाऽतिदेशो भवतीत्यर्थिकया तत्र प्राति. पदिकरवमारोप्य ततः सुबुत्पत्तिर्भवति तथैव 'रमा' 'गौरी' इत्यादावपि रमगौरवृत्तिप्रातिपदिक. स्वमुक्तपरिभाषया 'रमा' 'गौरी' इत्यादावाबन्ते ज्यन्ते चारोप्य सुबुत्पत्तेस्ततः सिद्धौ तत्र सुबु. स्पत्यर्थ व्याग्रहणस्यानावश्यकस्वेन "डया प्रातिपदिकात्" इति सूत्रे ब्याग्रहणं व्य सज्ञापयति-स्त्रीखविशिष्टार्थबोधकप्रातिपदिकात् स्थाथिकतद्धितप्रत्ययमन्तरङ्गमपि प्रबाध्य पूर्व ड्याप्प्रवृत्तिरिति। तेन 'पार्यका' 'मार्यिका' कोहितिका' छोहिनिका' इति प्रत्येक रूपदय. सिद्धिः । तथाहि. भार्यशब्दात स्त्रीत्वविशिष्टार्थबोधकाद "प्रजापतष्टाप्" इति टापं स्वार्थद्रव्य. लिङ्गसङ्ख्याकारकाणां क्रमिकतया लिङ्गप्रयुक्तकार्यापेक्षया स्वार्थिककार्याणामन्तरजवादत्यन्त. स्वाधिककपत्ययस्याऽन्तरजस्वात्पूर्व प्रवृत्ती प्राप्तायामुक्तशापनेन कपः पूर्व टापि पश्चास्कप्रत्यये 'केऽणः" इति हस्वे कारपूर्वस्याकारस्य प्रातः स्थानिकतया "उदीचामातः स्थाने यकपूर्वाया" इत्यनेन वैकल्पिकत्वेन 'मार्यिका' 'पार्यका' इति रूपदयं सिद्धयति । टापः प्राक कप्रत्यये तत. 'शापि कारपूर्वस्याकारस्याऽऽत: स्थानिकस्वाभावेन "उदीचामतः स्थाने' इत्यस्याप्रवृत्तौ "प्रत्य. यस्वास्कारपूर्वस्य" इति नित्यमेनेवप्रवृत्त: 'मार्यिका' इत्येकमेव स्यात् । एवं रक्तवर्णखीवाचकलोहितशबाद "वर्णादनुदात्तातोपधात्तो नः" इति डीप: कन्प्रत्ययस्यान्तरस्य च प्राप्ता
For Private and Personal Use Only
Page #965
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
परिशिष्टेवुक्तरीत्या प्रथम कीपि तस्सन्नियोगेन नवे च ततः कनि हस्ते लोहिनिका" डीम्नावाभाव. पक्षे लोहितिका" इति । डीपः प्राक कन्प्रत्यये तु लोहिनिका' इति न स्यादिति । ३,-परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे इति हि "पुरस्तादपवादा अनन्तरान् विधीन् बान्ते नोत्तरान्' इति न्यायेन "अकः सवर्णे" इत्यस्यपवादो नतु "प्रथमया:" इत्यस्यापि । अयं भाव:- राम प्रसू इति स्थिते "प्रकः सवर्णे दीर्घः" इत्यनेन सवर्णदीर्घः प्रतः 'प्रथमयोः पूर्वसवर्णः श्यनेन पूर्वसवर्णदीर्घःप्राप्तः "अतो गुणे" इति पररूपं च प्राप्तमिति यत्र यत्राऽ. पदान्ताकारादग्रे इस्वाकारस्तत्र तत्र सर्वत्र सवर्णदीर्घस्य कचिच्च प्रथमाद्वितीयास्थले पूर्वस. वर्णदीर्घस्य प्राप्तिरिति पररूपस्य निरवकाशस्य सकललक्ष्यप्राप्तसवर्णदीर्घषाधकत्वम् । स र्णदीपं. बाधेन चारितार्थं पूर्वसवर्णदीर्घस्य बाधे निरवकाशस्वबीजस्याभावेन न पूर्व मवणदीर्घवाधकरवं किन्तु पूर्वसवर्णदीर्घस्यैव परवेन प्राबल्यात्प्रवृत्तिरिति । अत्र "प्रतो गुणे" "अकः सवर्ण दीर्घः" "प्रथमयोः पूर्वसवर्णः" इति सूत्रक्रमो विद्यते इति अपवादशास्त्रस्य प्राथम् बाध्यशास्वस्य चानन्तरोत्तरत्वं ततः पूर्वसवर्णदीर्घशास्त्रमिति पूर्वोक्तरीत्या "पुरस्तादपवाद" न्याय. प्रवृत्तिरिति । ३२-सम्बुद्धया क्षप्तस्याङ्गस्यैडाहस्वाभ्यां विशेषणान्नेह-हे कतरत कुले. ति । अयमर्थ:-.एहस्वारसम्बुद्धेः" इति सूत्रे सम्बुद्विपदस्य येन बिना यदनु पपन्न तत्तेनाक्षिप्यते इति सिद्धान्तात् सम्बुद्धः प्रत्ययत्वेन तस्य च "परच" इति सूत्रेण प्रकृतिपरस्वनियमात् प्रकृत्यं शं विना सम्बुदधेरनुपपन्नवेन प्रकृराक्षेपो भवति प्रकृतिरहं च पर्यायाविति अङ्गस्थाक्षेपो लभ्यते। 'यत् येनाक्षिम्यते तत्तेनैवान्वेति" इति नियमस्यानुसारेण सम्बुद्धयाक्षिप्ता. अपदस्य सम्बुद्धिपदेनैव भन्वयस्योचितस्वेन भङ्गात्परोभूतायाः सम्बुद्धेईलो लोपो भवति स इल एहस्वाभ्यां परीभूतश्चेत् इत्यर्थलामेन हेकतरत् इति न सिद्धयेत् । कतरशब्दात् सम्बुद्धयेक. वचने सुप्रत्यये “अड्डतरादिभ्यः पन्नभ्यः" इति सूत्रेणाद्डादेशे भसन्शायाम् "2" इति टिलोपे कतर अद् इति स्थिते कतर् इत्यस्य अगावात ततः परत्वेन अद् इति सम्बुद्धः हलस्त कारस्य हस्वात्परीभूतत्वेन बलोपापत्तेः । यदि तु हरूपदस्य सूत्रे नानुवृत्तिः तेन हे कतरत् इत्यत्र सम्बुद्धेरदिस्यस्य हस्वात्परीभूतत्वाभावेन तकारस्य ह्रस्वात्परत्वेऽपि सम्बुद्धिस्वाभावेन प्रात्पर. स्वाभावेन च लोपाप्रापया न दोष इत्युच्यते तहिं हे कुल इत्यत्र दोषः। कुलशब्दात सम्बुद्धथे. कवचने सुप्रत्यये "अतोऽम्" इत्यनेन अमादेशे “भमि पूर्वः" इति पूर्वरूपे कुलम् इति दशायाम् अम् इत्यस्य कुल इत्यङ्गात परीभूतत्वेऽपि हस्वात्परीभूतस्वामावेन पूर्वान्तवद्भावेन कुन इत्यस्याङ्गत्वेऽपि ततः परस्य सम्बुद्धिवाभावेन 'उभयत प्राश्रयणे नाम्तादिवत' इति निषेधेनाम. सम्बु. द्धग्रेडीतुमशक्यतया मलोपानापत्तेः। अतो यद् येनाक्षिप्यते तत्तेनैवान्वेति इति न्यायो नानु. सर्तव्यः । तेन एजन्ताद् ह्रस्वान्ताच्चाङ्गात् सम्बुद्धथवयवो हल लुप्यते इत्यर्थोऽजीकरणीय इति । तेन कुत्रापि न दोष इति । ३३-एग्रहणं किम् ? हे हरे, हे विष्णो । अत्र हि परत्वात् नित्यत्वाच्च सम्बुद्धिगुणे कृते हस्वात् परत्वं नास्ति । अयर्थः "ह स्वाद सम्बुद्धः।" इति सूत्रे एहयाणं व्यर्थम् । तदभावेऽपि हरिशब्दात् विष्णुशब्दादा सम्बुद्धिसुमस्यये हस्वान् परवेनैव सुलोपे ततः प्रत्ययलक्षणेन "हस्वस्य गुणः' इति गुणे हेहरे हे विष्णो इस्यादि
For Private and Personal Use Only
Page #966
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्किलेखनप्रकारः।
६५७ तल्लक्ष्यसिद्धरिति प्रश्नाशयः। उत्तराशयस्तु हस्थात् परत्वेन सुलोपस्य प्राप्तावपि परत्वेन नित्यतया च 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः” इति परिभाषानुसारेण "हस्वस्य गुणः" इति शास्त्रस्यैव प्राबल्येन पूर्व प्रवृत्ती पश्चात् हस्वारपरस्वाभावेन सुलोपप्रवृत्यर्थ सूत्रे एग्रहणमावश्यक मिति। :४-इह स्थानिवद्भावेन यादेशस्य सुप्त्वात सुपि चेति दीर्घः । “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति परिभाषा तु नेह प्रवतते "कष्टाय क्रमणे" इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । अयमर्षः, राम. शब्दात् "यः" इति सूत्रणादन्तादङ्गात् राम इत्यस्मात् परत्वेन इत्यस्य यादेशे "स्थानिव. दादेशोऽनस्विधौ” इति स्थानिवद्भावेन यादेशे , वृत्तिसुप्त्वस्य अतिदेशेन "सुपि च" इत्य. नेन दीघे रामाय इति सिद्धथति। नन्वत्रादन्ताङ्ग निमित्त कृत्य जायमानो यादेशोऽदन्ताङ्ग विघातकदीर्घप्रवृत्ति प्रति निमित्तं नेति 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति परिमाषया निमितत्वनिषेधे कथं दीर्घप्रवृत्तिरिति ? अत्रोच्यते, "कष्टाय" इत्यत्र यादेशे परे सूत्रकारकृतदीर्घ निर्देशेन तदन्यथानुपपत्या सन्निपातपरिभाषाया अनित्यत्वज्ञापनेन तस्या यादेशनिमित्तक "सुपि च" इति दीर्घविषये अप्रवृत्तरिति। ३५-बहुवचने किम् ? रामः, समस्य । अयमर्थः। "बहुवचने झल्येत्" इति सूत्रे बहुवचनग्रहणाभावे शलादौ सुपि भद. न्ताङ्गस्य एवं भवतीत्यर्थमात्रे राम स इत्यत्र रामस्य इत्यत्र च एकवचनस्य सुरवात झलादि। श्वात् च राम इत्यदन्ताङ्गस्यैवं स्यात् । अतः सूत्रे बहुवचनग्रहणम्। ननु सर्वत्र एकमेव प्रत्यु. दाहरणं दृश्यते अत्र किमर्थ प्रत्युदाहरणदयम् । इति चेन्न "स्वौजसमौट्" इत्यत्र “वौं जसमौड्" न्यासकरणेन रामशब्दात् रुप्रत्यये तस्य झलादियाभावेन रामः इत्यत्र त्याप्राप्या रामस्येति द्वितीयस्यावश्यकत्व मित्याशयात् । ३६-सुपिचेति दी? यद्यपि परस्तथापीह न प्रवर्तते सांपातपरिभाषाविरोधात् । नामीत्यनेन त्वारम्भसामर्थ्यात् परिभाषा बाध्यते । अयं मावः, रामशम्दात षष्ठीबहुवचने भामि प्रत्यये "हस्वनचापो नु" इति नुडागमे "नामि" इति दीर्घे णत्वे 'रामाणाम्' इति सिध्यति। नन्वत्र राम नाम् इति स्थिते नामीत्यस्य परीणाम् इत्यादौ चरितार्थस्य सुपिचेत्यनेन रामाय इत्यादौ चरितार्थेन तुल्यबलविरोधिना परेण 'विप्र. तिषेधे परं कार्यम्' इति शास्त्रबलात् बाधप्रसङ्गे कथं "नामि" इति दीर्घोल्लेख इति चेत्र "सनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य" इति परिभाषया इस्वान्ता निमित्ताकृत्य जायमानस्य नुटो हस्वान्ताङ्गविघातकदीर्घप्रवृत्ति प्रति अनिमित्तस्वबोधनेन यज्ञादिस्वधर्मपुरस्कारेण प्रवर्तमा. नस्य "सुपि च" इति शास्त्रस्याप्राप्तः। नचैव नामवस्य नुमूलकत्वात् तद्धर्मपुरस्कारेण प्रव. तमानस्य "नामि" इति शास्त्रस्य सन्निपातपरिभाषया नुटोऽनिमित्तत्वबोधनेन कथं प्रवृत्तिरिति वाग्यम् , नामि इति सूत्रविषये सन्निपातपरिभाषाप्रवृत्ती ह्रस्वान्ताजनिमित्तकनुटमूलकनामय. धर्ममादाय प्रवर्तमानस्य नामि इति सूत्रस्य वैयापातेन तस्सामर्थ्यात् सन्निपातपरिभाषया नामीत्यनेन बाधा जायते इति कल्पनात् । ३७-तदन्तस्यापीयं सम्ज्ञा, द्वन्द्वे चेति ज्ञापकात । तेन परमसर्वत्रेति बल परमभवकानित्यत्राकच् च सिध्यति । अयमर्थः 'सर्वादीन मर्वनामानि" इति सूत्रे सर्वादीनि इति पदस्य विशेष्यान्तरासश्वन प्रविशेषण.
For Private and Personal Use Only
Page #967
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
845
परिशिष्टेखेऽपि शब्दस्वरूपं विशेष्यमादाय "द्वन्दे च" इति सूत्रेण विशेषणवबोधनेन "येन विधिस्तदन्तस्य" इति सत्रसाहाय्येन सर्वादीनां सर्वाचन्तशब्दस्वरूपाणाश्च सर्वनामसम्शा भवतीति सूत्रार्थः। तेन सर्वशब्दस्य यथा सर्वनामसन्शा भवति तथा परमसर्व इति सर्वशब्दान्तस्य सर्वनामसंज्ञया ततखलसिद्धिः। एवं परमभवत् इति सर्वादिषटकभवस्शब्दान्तस्य सर्वनामसंशायो ततस्स्वार्थे प्रकचि परमभवकान् इति सिध्यति । तदन्तविध्यभावे वर्णाश्रमेतर इत्यस्य सर्वादिषटकस्वाभावेनैव सर्वनामसम्शाया अप्राप्तौ तनिषेधकद्वन्द्वे चेति सूत्रं व्यर्थ सदुक्तार्थे शापकं बोध्यम् । ३८-नचार्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति वाच्यम् । सर्वादेशत्वात् प्राक इत्सज्ञाया एवाभावात् । अयं भाव:-सर्वशम्दात् जसि "सर्वादीनि सर्वनामानि" इति सर्वनामसंज्ञायां "जसः शी" इत्यनेन जसः स्थाने विधीयमानः शी मादेशः शिस्वात् अनेकालत्वाद्वा सर्वस्य स्थाने भवतु इत्याशङ्कायामुग्यते अनेकालवादेव सर्वादशो नतु शिवात् । नच "प्रर्वणस्त्रसावनमः" इत्यत्र तृप्रादेशस्य तकारऋकारद्वयटितत्वेऽपि ऋकार. स्वरसंशकतयाऽनुबन्धत्वेन "नानुबन्धकृतमनेकाल्वम्" इति परिभाषयाऽनुबन्धकृतानेकालवस्य निषेधेन यथा न सर्वादेशत्वं तथा शीमादेशस्यापि इरसंशकशकारपटितखेनोक्तपरिभाषयाऽनेकाल्वनिषेधेन न सर्वादेशत्वसम्भव इति वाच्यम् , भादेशोत्तरं स्थानिवद्भावेन प्रत्ययादित्वात् शकारस्य इसंशायामपि आदेशप्रवृत्तः पूर्व समकालं वा प्रत्ययस्वाभावेन इरसंशाया प्रवृत्त्याऽनुबन्धस्वाभावेनोक्तपरिभाषाया अप्रवृत्तेः। एतेन शित्तात्सर्वादेश इत्यपास्तम् । ३९-उम. शब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । तस्येह पाठस्तूभकावित्यकजर्थः। नच कप्रत्ययेनेष्टसिद्धिः। द्विवचनपरत्वाभावेनोभयत उभयत्रेत्यादाविवायच्प्रसङ्गात् । तदुक्तम्-उभयोऽन्यत्रेति । अन्यत्रेति द्विवचनपरत्वाभावे । समयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । ।मयमर्थः-उभशब्दस्य द्वित्वसङ्घयाविशिष्टार्थबोधकरवं, ततश्च तस्मात् द्विस्वसङ्घयाया एव प्रतीत्या नित्यं द्विवचनोस्पत्तिः । नन्वेवं सर्वादिगणे उभशब्दपाठः किमर्थः संशाया: कार्यार्थत्वात् सर्वनामसंशाप्रयुक्त शीमावादिकार्याणामेकवचनबहुवचनयोरेव सस्वेन तयोश्चोभशब्दस्य प्रयोगाभावेन सर्वनामसंज्ञानुपयोगात् ; इति चेत् ? अत्रोच्यते, 'उभको' इत्यत्राकम्प्रत्ययो यथा स्यादिति सर्वादिगणे उभशब्दस्य पाठ इति । नच उभशम्दात् कप्रत्ययेऽपि तद्वितान्तत्वेन प्रातिपदिकत्वात् प्रथमा. द्विवचनोरपत्तो 'उभको' इत्यस्य सिद्धेः पुनरपि तत्पाठो विफल इति वाच्यम् , कप्रत्ययस्य दिक. चनभिन्नरवेन तस्मिन् परे "भादुदात्तो नित्यम्" इति सूत्रस्थेन निस्यम्' इति योगविभागेन "उभयोऽन्यत्र" इति वचनकवाक्यतया उभशग्दादरयन्तस्वार्थिकायचः प्रवृत्या उभकाविल्य. सिद्धथापत्तः । उभशब्दात् पञ्चम्यन्तात् तसिल्प्रत्यये सप्तम्यन्तात् अङ्ग प्रत्यये वा तत्र पूर्वोक्त. रीत्याऽयचः प्रवृत्या उभयत: उभयत्र इत्यादिवदुभयकावित्यापत्तश्च । नचैवमकच्प्रत्यये तस्यापि दिवचनभिन्नत्वेन तस्मिन् परेऽयचः प्रवृत्यापत्तिरस्त्येवेति वाच्यम् , भकम्प्रत्ययस्य "मम्बय. सर्वनाम्नामकच प्राक् 2:" इत्यनेन टेः प्राविधानात , उभशब्दमध्यपतितया "तन्मध्ये पतिवास्तग्रहणेन गृधन्ते' इति परिभाषयाऽकविशिष्टस्योभग्रहणेन ग्रहणाव, ततो द्विवचनपर
For Private and Personal Use Only
Page #968
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्किलेखनप्रकारः।
898 स्वस्यैव सत्वेनाऽयप्रवृस्वभावादिति । तदेवमुमशब्दस्य द्विवचने प्रयोगो नास्ति इति फलि. तम् । तदुक्तमुभयशब्दस्य द्विवचनं नास्तीति कैयटः इति । हरदत्तस्तु उमशब्दावस्यन्तस्वार्थि. कायचो द्विवचनपरत्वाभावे एव प्रवृत्तावपि "सखाया अवयवै तयप" इति सूत्रेणोभशब्दात् तयाप्रत्यये तत्स्थाने 'उभादुदात्तो नित्यम्" इति सूत्रविहितायचो द्विवचने परे ततोऽन्यत्र वा प्रवृत्तौ बाधकामावेनायजादेशे स्थानिवद्भावेन तद्धितान्ततया प्रातिपदिकत्वे एकवचनबहुवचन. वत् द्विवचनोस्पत्तः प्रतिबन्धकाभावादुभयशब्दस्य द्विवचनमस्ति इस्याहेति । ४०-दुतरड. तमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्ता माहा।। यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति सुप्लिखन्तमिति ज्ञापकात , तथापि इह तदन्तग्रहणं केवलयोः संज्ञायाः प्रयोजनाभावात् । अयं भावः, सर्वादिगणे उतरतम इति प्रत्ययोग्रहणेन केवलस्य च प्रत्ययस्य प्रयोगाभावे प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्तविषी उतरप्रत्ययान्तडतमप्रत्ययान्तयोः कतरकतमादिशब्दयोरेव सर्वनामसंज्ञा नतु केवलस्तयोः। “संहाविधी प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' पति "मुप्तिचन्तम्" इति सूत्रस्थान्तग्रहणशापितपरिभाषायास्तु नैव प्रवृत्तिः, केवलयोः संशायां फलाभावादिति। ४१-स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः कुशला इत्यर्थः । भस्यायमभिप्रायः-स्वस्य पूर्वादिशब्दस्याभिधेयेन वाच्यार्थेन निपमेनावविरपेक्ष्यते तादशोर्थों व्यवस्था, सदाचिपूर्वादिशब्दानां सर्वनाम. संशाभवतीति सूत्रार्थः। पूर्वादिशब्दे उच्चारिते कस्मात्पूर्वः करमारपरः कस्माद् दक्षिणः कस्मादुस्तर इति नियमेनावधिसापेक्षोऽर्थ इति यावत्। सूत्र व्यवस्थापदामावे कुशलवाचिदक्षिणशब्दस्य सर्वनामसंशा स्यादिति सूत्रेतग्रहणम् । कृते तु तस्मिन् कुशलार्थस्य कस्मात कुशल इति कदाचिदवध्यपेक्षवेऽपि कुशलमात्रप्रतिपादनेच्छोच्चरितदक्षिणशब्दार्थस्यावध्य पेक्षत्वाभा. वेन नियमेनावधिसापेक्षाकस्वाभावात् सर्वनामसंक्षा न भवतीति 'दक्षिणाः' इत्येकमेव रूपमिति बोध्यम् । -इह समासात्प्रागेन प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिके विग्रहवाक्ये इव वत्राप्यकच् प्रवतेत। सच समासेऽपि भूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु स्वत्पितको मकत्पितृक इति रूपे इष्टापत्ति कृत्वैतत्सूत्रं प्रत्याख्यो । यथोत्तरं मुनीनां प्रामाण्यम् । भय. मर्थः-"विभाषा दिकसमासे बहुव्रीहो" इति सूत्राद् 'बहुव्रीहौ' त्यस्यानुवृश्या वहुव्रीहिग्रह णसम्भवेन पुन: सूत्रे बहुव्रीहिग्रहणं बहुव्रीधर्थकल्प्यमानालौकिकप्रक्रियावाक्यपरम् । तथाच बहुबोयर्थकल्प्यमानालौकिकप्रक्रियावाक्यघटकसर्वादः सर्वनामसंशा न भवतीति "न बहुव्रीडो" इति सवस्यार्थः । तेन 'स्वस्कपितृक:' 'मत्कपितृकः' इति बहुव्रीहिसमासस्यालौकिके प्रक्रियावाक्ये 'युष्मत् स् पितृ सू' 'अस्मत् स् पितृ स्' इत्यत्र सर्वनामसंशानिषेधे युष्मदस्मतशम्दयोः कुत्साविशिष्टार्थबोषकत्वविवक्षायां कात्यय एव नवकजिति, ततः "प्रत्ययोत्तरपदयोश्च" इति सूत्रेण स्वमादेशयोः कृतयो: 'स्वस्क सू पितृ स्' 'मत्क स पितृ स्' इति जाते "अनेकमन्यपदार्थ" इति बहुव्रीहिसमासे पश्चात्सुम्लुकि नवृतश्च" इति कपि प्रत्यये 'स्वस्कपितृकः' 'मत्कपितृकः' इति च सिद्धयति। बहुव्रीहिपदस्य मुख्यार्थपरत्वे समासात्प्राक् प्रक्रियावाक्ये 'युष्मत् स् पित
For Private and Personal Use Only
Page #969
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
परिशिष्टेस्' 'अस्मत् स् पिन स्' इत्यत्र निषेधाप्रवृश्या युष्मदस्मदशब्दयोः सर्वनामसंज्ञायां कुत्सार्थ. विवक्षायां कास्ययापवादे "अभ्ययसर्वनाम्नामकच प्राक् है" इत्यनेनाकचि स्वकत स पितृ स! 'मकत् स पितृ स' इति जाते पश्चाद् बहुव्रीहौ समासे सर्वनामसंशानिषेधेऽपि जातकार्यानिवृत्त 'स्वकस्पितृकः' मकपितृकः' इति अकच्प्रत्ययश्रवणं स्याद् यथा कुत्सितं भवन्तं भवकन्तमति. क्रान्त इति लौकिके विग्रहे 'भवत् अम् पति' इत्यलौकिके च भवत् शब्दस्य सर्वनामस्वेन कुस्सार्थविवक्षायामुक्तरीत्याऽकचि 'भवकत् अम् अति' इति जाते "प्रत्यादयः कान्ताद्यर्थ द्विती. यया इति समासे अतिक्रमणकर्तृवविशिष्टार्थ प्रति 'भवकत्' शब्दस्योपसर्जनतया "संशोप. सर्जनानां प्रतिषेधः" इति सर्वनामसंशानियेऽपि जाताकची निवृत्त्यमावेन 'अतिभवकान्' इत्यत्र प्रकच अयते । भाष्यकारास्तु "न बहुवहौ" इति सूत्रसत्त्वे तेन प्रक्रियावाक्ये सर्वना. मसंशानिषेधेऽपि 'स्वार्थे परिपूर्ण पदमर्थान्तरेण युज्यते' इति सिद्धान्तात् पितृशब्दार्थेन अन्य. पदार्थेन च युष्मदस्मदशम्दयोरन्वयविवक्षायाः प्रागेव कुस्सार्थविशिष्टयुष्मदस-दशम्दाभ्यां स्वार्थिवेनाकच प्रत्यय प्रवृत्तौ तदनन्तरमेव बहुव्रीहेश्चिकीर्षिततयाऽकप्रवृत्तिसमये कथमपि निषेधस्य प्रवृत्तिसम्मवाभावेनाकचः सर्वथा प्रतिबन्धाभावेन २० कपितृकः' 'मकस्पितृक इत्येक रूपे भवत इति अकच्प्रत्ययश्रवणमिष्टमेवेति सूत्रं न करणीयमिति प्रत्याख्यातवान् । नम्वेवं सूत्रमते 'स्वस्कपितृक:' 'मस्कपितृकः' इति, भाष्यकारमते 'स्वकारिपतृकः' भस्पितृकः' इति भिन्ने रूपै, ततश्चास्माभिः किमनुसरणीयमिति चेत् ? भत्रोच्यते, पूर्वपूर्वमुन्यपेक्षयोत्तरोत्तरमुनेः प्रामाण्यमधिकमस्माभिरङ्गीकरणीयमिति 'स्वकपितृकः' 'मकपितृकः' इत्येवाऽस्माभिः प्रयोक्तव्यं नतु 'स्वस्कपितृकः' 'मस्कपितृकः' इति । ४३-संज्ञोपसर्जनाभूनास्नु न सर्वादयः महासंज्ञाकरणेन तदनुगुणानामेव गणे सनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकायेञ्च तेषां न भवति । अयमर्थ:-"सर्वादीनि सर्वनामानि" इति सूत्रे सर्वनाम' इति महासशाकरणेन तस्याश्चान्वर्थतया सर्वान् नमयन्ति सर्वेषां नामानि इति वा विग्रहेण प्राधान्येन इसराविशेषण. वेन स्वीयसर्थोपस्थापक इत्यर्थलाभाव तादृशसर्वादिगणपठितशब्दानामेव सर्वनामसंशा। सर्वनामसंशोद्देश्यसर्वादीनां शन्दानां प्राधान्येन स्वीयसर्थोपस्थापकानामेव च गणे सन्नि. वेशेन त्यदादयः शब्दा अपि तादृशा एव पठयन्ते इति "स्यदादीनामः" इत्यस्वं "तदोः सः सावनन्स्ययोः" इति सत्वम् "अड्डतरादिभ्यः पञ्चभ्यः" इत्यदुडादेशश्च तादृशार्थोपस्थाप. कशम्दानामेवेति संज्ञायामुपसर्जनस्वे च सर्वादीनां सर्वनामसंज्ञा प्रत्वं सत्वमडादेशश्च न भवन्तीति क्रमेणोदाहरणानि सर्यो नामेत्यादीनि। ४.-समुदायस्यायं निषेधो नत्ववयवानाम् । नचैवं तदन्तविधिना सुटप्रसङ्गः, सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् । अयं भाव:- वर्णाश्च प्राश्रमाश्च इतरे च वर्णाश्रमेतराः तेषां वर्णाश्रमेतराणाम् इत्यत्र 'वर्णाश्रमेतर' इति समुदायस्य तदन्तविधिना "सर्वादीनि सवेनामानि' इति सूत्रण प्राप्ता सर्वनामसंशा "द्वन्दे च" इति सूत्रेण निषिध्यते, इतरशब्दस्य तेन सूत्रेण प्राप्ता तु न निषिध्यते तत्र संशाया निषेधे फलाभागत् कप्रत्ययेऽकच्प्रत्यये वा रूपे विशेषाभावात् । न चैवं "वर्णाश्रमतर समुदायस्याऽसर्वनामस्वेऽपि इतरस्य सर्वनामस्वे ततः परस्या भाविभक्तो: "प्रामि
For Private and Personal Use Only
Page #970
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिलेखनप्रकारा।
६६१ सर्वनाम्नः मुट्" इत्यनेन तदन्तविधिना सर्वनामसंकेतरशम्दान्तालापरलेन सुडागमापत्ति. रिति वाच्यम् , तत्र सूत्रे 'सर्वनाम्नः' इति पञ्चम्या विहितविशेषणत्वस्वीकारेण प्रवर्णान्तादना. स्परस्य सर्वनामसंशकशब्दादिहितस्वाऽऽमः सुगगमो भवतीत्यर्थलाभेनात्र इतरशब्दादिहित. खामावेन तदप्रवृत्तः। ४६-वृत्तिकृता तु पूर्वविप्रतिषेधेनेनातोः कृतयोः सन्निपातपरि. भाषाया अनिस्यतामाश्रित्य जरसि कृते 'निर्जरसिन' निर्जरसात्' इति रूपे न तु 'निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा मिसि निर्जरसः इति रूपान्तर. मुलं, तदनुसारिभिश्च षष्ठयेकवचने निर्जरस्येत्येव रूपमिति स्वीकृतम् । एतच्च मा. ज्यविरुद्धम् । भयं भावः-जरसादेशाद्विभक्तवादेशाः पूर्वविप्रतिवेषेन भवन्तीति स्वीकृश्य सन्निपातपरिभाषायाश्च "प्रतो मिस ऐश" इति बत्रेऽन्तास्परस्य मिस एसादेशविधानेन वृद्धथे. सिद्धावस्करणसामध्यन जरसादेशविषये भनिस्पस्वमाश्रित्य निर्जरशम्दात् तृतीयैकवचने यप्रत्यये परम्येकवचने सि प्रत्यये वा पूर्वमिनादेशे 'भाव' मादेशे च कृते सन्निपातपरिमार पाया अनित्यत्वेनाप्रपस्या जरसादेशे निर्जरसिन' निर्जरसात' इति केशानिन्मतं वृत्तिकारणो. कम् । तन्मते च तृतीयाबहुवचने जरसादेशात्पूर्व मिसः स्थाने ऐसादेशे समिपातपरिभाषाया अनित्यनेन जरसादेशे निरसै:' इति रूपं भवतीत्युक्तम् । तानुसारिभिश्च पूर्व सः स्यादे. शेऽजादिस्वाभावेन जरसादेशाप्रवृत्त्या निरस्य' इत्येवं रूपं भवतीति स्वीकृतम्। परंतु सर्व. मेतद्भाग्यविरुद्धम् । भाष्यकृता हि इनादेशस्वकार 'भार" प्रादेशेस्य च दीर्घकरणं प्रत्यास्था. सम् "भोसि च" इत्येतत्सत्रात्परत्र "माहि चापः" इत्यत्र "भाषि" इति योग विभज्य माहि परेऽत एवं भवतीत्यर्थन रामराम्याव टाप्रत्ययस्य स्थाने 'न' प्रादेशे एवं कृते "रामेण" इति, रामशब्दात् सिप्रत्ययस्य मत् भावेशेऽकारोच्चारणसामयन "भतो गुणे" इति पारूपबाधे सवर्णदीपेण च रामाव' इति च रूपसिः । तथाच तन्मते 'निर्जरसिन' इत्यादिरूपासियो प्रत्याख्यानासमति: स्यादतो बरसादेशः परत्वाद् विमस्यादेशेभ्यः पूर्व भवतीत्येव सिद्धान्त इति । ४६-पूर्वस्मावपि विधौ स्थानियमावइति पक्षे त्वा व्यवाय इत्येवान णत्वम् । पूर्वत्रासिद्धेन स्थानिवदिति विह नास्ति, तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् । अयं भाव:-"प्रचः परस्मिन् पूर्वविधौः" इति सूत्रे "पूर्ववियो' इति पदस्य पूर्वस्य विधिः पूर्वविषिः, पूर्वस्माद् विषिः पूर्वविधिः इति षष्ठीसमासः पत्रमीसमासो वा। तत्र पष्ठीसमासपक्षे तत्र स्त्र प्रयुक्तोऽयं एव । पामीसमासपक्षे तु परनिमि. जोऽजादेशः स्थानिवत् स्थानिभूतावषः पूर्ववेन दृष्टाद्वर्णात्परस्य विषो कर्तव्ये इत्यर्थः । तथाच 'भूषु न अस्' इति भल्लोपानन्तरभाविन्या स्थिती परः शसप्रत्ययस्तबिमिताल्लोपादेशस्य ततः पूर्ववेन दृष्टाषकारात्परस्य नकारस्य गावे कर्तव्ये स्थानिवद्भावेऽकारण्यवधानबुद्धया "रषाभ्यां नो णः समानपदे" इस्यस्य न प्रवृत्तिः किन्तु "अटकुष्वानुम्यवायेऽपि" स्यस्य भकारग्यमानेन प्रवृत्या णस्वम् । नच त्रैपादिके कर्तव्ये स्थानिवद्भावो न भवतीत्यर्षक "पूर्वत्रासिद्ध न स्थानिवत्" इति स्थानिवद्भावनिषेध इति वाच्यम् , "तस्य दोषः संयोगादिछोपलवणत्वेषु" इत्यनेन णवे तत्प्रतिप्रसवाद। ४-आत इति योगविभागादधातोरप्याकारलोप: कचित् । क्त्वा नः । भयमर्थ:-"मातोधातोः" इति स्ने प्रातः इति धातोः इति च सूत्र
६१ बा०
For Private and Personal Use Only
Page #971
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिश
विभज्यते । तत्र "भव:" इस्वस्थ भाकारान्तभसंज्ञकामान्त्यस्य लोप इत्यर्थः । क्वाइनाप्रत्थबासु करणवस्वारनाशब्दाभ्यां शसि मसंज्ञायां पूर्वसूत्रेणाऽडकारलोपः । ततो “धातोः" इति । भस्य तु मूलोकार्थ: । 'विश्वप:' इत्याद्युदाहरणम् । नचैवं 'हाहान्' इत्यत्रापि पूर्वसूत्रेणाकारलोषापत्तिरिति वाच्यम् एवं सति सर्वत्रैव पूर्वसूत्रेणाकारलोपसिद्धेरुत्तरसूत्रस्य वैयर्थ्येन तत्सामर्थ्यात्पूर्वसूत्रस्य क्काचित्कस्व बोधनेनानिष्टस्थलेऽप्रवृत्तेरिति । ४८- कथं तर्हि दुर्धियो वृश्चिकमियेत्यादि ? उच्यते, दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्द
,
A
बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी भीवृश्चिकभारित्युतपदलोपो वा । ननु गतिकारकेत र पूर्वपदस्य यनिषेधेनात्र "दुर्" इति शब्दस्य "गतिश्च" इति गतिसंज्ञकतया तत्पूर्व करवेन तदितरपूर्व पदकत्व भावारकथं निषेधप्रवृत्तिः, एवं वृश्चिकश देस्य "भीत्रार्थानां भयहेतुः" इति अपादानसंज्ञायाश्च विधानेन कारकपूर्वपदकरवेन तदितर.. पूर्वपदकरवाभावात्कथं यणोऽप्रवृत्तिरिति नत् ? अत्रोच्यते, यदर्थक्रियागत विशेषद्योतकाः प्राद-यस्तेषां तद्धातुयोगे गतिसंज्ञा भवतीति “गतिश्च" इति सूत्रार्थस्वीकारेण दुर्शब्देनात्र स्थिते दुष्ट : त्वबोधनस्य विवक्षियतया घीशब्दार्थध्यान क्रियानिरूपितगतित्वाभावेन गतीतर पूर्वपदकरने न निषेधप्रवृत्तिः । एवं वृश्चिकस्य वस्तुतो भयहेतुत्वेऽपि तदविवक्षया, सम्बन्धिश्वमात्र विवक्षयाः वृश्चिकसम्बन्धिनी भीः वृश्चिकभीः इति मध्यमपदलोपिसमासे वा वृश्चिकशब्दस्य भीशब्दार्थान्वयाभावेन वा भयहेतुत्वाभावादुक्तसूत्रस्याप्रवृश्या कारकेतरपूर्व पदकस्वामावेन निषेधप्रवृत्तिः ॥ ४९ - नत्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्रवति तर्हि नत्रादीनामेव । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव,' समर्थ सूत्रे उद्गातार इति भाष्यप्रयोगात् । श्रयं भावः - " अप्तृन्तु च स्वसृनप्तृ नेटस्वक्षतृ होतृपोतृप्रशास्तृणाम्” इति सूत्रे "उणादयो व्युत्पन्नानि प्रातिपदिकानि ” इति पक्षे नत्र दीनां शब्दानां सुनन्तस्वाजन्यस्वाच्च तृन्तृच् ग्रहणेनैव दीर्घसिया नप्त्रादिग्रहणं सिद्धे सति भारभ्यमाणो विधिनियमाय भवतीति सिद्धान्तात् नियमार्थम् । नियमेन च स्वेतरस्वजातीयव्यावृत्तिः क्रियते इति नप्त्रादीतरोणादिनिष्पन्न तृनन्त सृजन्तशब्दानां न दीर्घ इति फलितम् । तथा च पितृशब्दस्य भ्रात्रादिशब्दस्य वा तृन्तृजन्तखेऽपि न दीर्घः । नचैवमुद्रातृशब्दस्या०म्युणादिनिष्पन्नतया तस्यापि दीर्घो न स्यादिति वाच्यम्, समर्थ सूत्रे 'उगातारः' इति भाग्यप्रयोग. दर्शनेन भाष्यप्रामाण्यात्तस्य नियमेन व्यावृत्त्यभावकल्पनात् । ५० - - यद्यपि जरसादेशस्य स्थानिवद्भावेना बन्ततामाश्रित्य " और आप " "माणि चाप:" "याडापः" "हस्वनथाप:" 'डेराम्' इति पञ्चापि विधयः प्राप्ताः एवं नस्निश्पृत्सुः तथाप्यनस्विधावित्युक्तेर्न भवन्ति, आ आबिति प्रश्लिष्याकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं इल्यादिसूत्रेऽपि आ आप की ई इति प्रश्लेषादतिखट्वः निष्कौशाम्बिरित्यादिसिदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भाना चाश्रित्य या स्यादिति वाच्यम्, आवन्तं यदङ्गं ततः परस्य याविधानात् उपसर्जन स्त्रीप्रत्यये तदादिनियमात् । भयं भावः - 'जरसौ' 'जरसा' 'जरसे' 'जरसो: ' 'जर
For Private and Personal Use Only
Page #972
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पशिलेखनप्रकारः। साम्' 'मरसि' हरवध विभक्रयादेशेभ्यः परस्थाजरसादेशेऽपि तस्य "स्थानिवदादेशोऽन विधौर इति स्थानिवद्भावेन प्रापवस्याऽलमात्रवृत्तिस्वाभावादनल्विधाविति निषेधाप्रवृतेराबन्ततयोक्त. पत्रसूत्रैः शीमापादेशापत्तियवपि प्राप्नोति; एवं नासिकानिशानाशदान "पदन्न' इति "मांसपृतनासानूनाम्" इति च न सापादेशेषु तत्र स्थानिवद्रावेनोक्तादेशापत्तिः ; तथापि पूर्वोक्तसूत्रेषु भापपदे प्राकारात्पूर्व सवर्णदीर्घणाकारं प्रश्लिष्य प्राकाररूपो य प्राप् तदन्तादङ्गादिति सर्वत्रार्थस्वीकारेण आफ्वेऽनस्विधाविश्यस्याप्रवृत्तावपि पारवस्य मात्रवृत्तिधर्मत्वेन 'अनल्वि. को' इति निषेधात् स्थानिवद्भावेनानेतुमशक्यतयोक्तपूत्रपत्रकाप्रवृत्या न शीप्राधादेशापत्तिः। नन्वेवं "हल्ल्याम्भ्यो दीर्घारसुतिस्यपक्कं हल" इति सूत्रेऽपि प्राप्पदै पूर्वत्राकारस्य कोपदे चोत्तरत्र ईकारस्य सवर्णदीर्पण प्रश्लेषादाकाररूपावन्तात् ईकाररूपड्यन्ताच्च परमित्यर्थेन 'मतिवाटव, 'निष्कौशाम्बिः' इत्यादौ 'मनस्विधौ इति निषेधाद् मात्वस्य ईत्वस्य च स्थानिवद्भावे. नाश्रयणासम्मवेन सत्रामाश्यैव दोषवारणसम्भवेन तदर्थ सूत्रे क्रिययाणं दौर्घग्रहणं व्यर्थमिति वेदांपते, तस्येस्य प्रत्याख्यानसम्मवात् । नचैवं सर्वत्राप्पदे आकारप्रश्लेषेणाऽऽवस्यान-- विधावियुक्तः स्थानिक प्रावेनानधनासम्भवेऽपि प्राप्स्वस्य तरसम्भवात् 'अतिखटवाय' इस्व "सुपिच" इति दीर्घोत्तर स्थानिकांबेनावन्तवमानीय स्वतः सिद्धाकारमादाय च भाकाररूपा. बन्तात्परत्वेन प्रत्ययस्य "याडापः" इत्यनेन याडागमापत्तिरिति वाच्यम्, भाप इति पत्रम्बार "प्राधिकारे पन्नम्या यदुम्यते विहितविभक्तेसद् भवति इति सिदान्तादितिविशेषणवमा-- विस्य आपः प्रत्ययग्रहणतया "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इति परिभाषकवाक्यतया भाव यस्मादिहितस्तदादितदन्तं यद तस्मादितिस्प प्रत्ययस्व याडागमो भवतीति "यामपः" इति सूत्रस्यार्थस्वीकारेण प्रतिखटवा इत्परमात स्वस्य विहिवरो ऽपि स्थापन्तदादिवामान खट्वाश्त्यस्यावन्ततदादिवेऽपि ततो प्रत्ययस्य विहितस्थामावेन "वाडापा" श्यस्याप्राप्या तदापत्यभावात् । नचैवं 'परमखस्वाथै' इत्यत्रापि प्रतिखट्वायेतिवत् याद न स्यादिति वाच्यम् । श्रीप्रत्यये चानुपसर्जने न" इति परिभाषयाऽनुपसर्जने तदादिग्र.. हणस्य निषेधेन अनुपसर्जनस्लीप्रत्ययान्ते मतदादौ तदादिस्वमारोप्यते इति तत्परिभाषार्थपछे 'परमखत्वा' इत्यत्र भावन्ततवादिस्वस्यारोपण वा याटप्रातः सुस्थत्वात् । 'अतिखटबाय' इत्यत्र तु टापोऽतिपदार्थ प्रत्युपसर्जनतथा ना निषेषस्य भारोपस्य वाऽभावेन पूर्वोक्तदादिनियमस्य सम्बान याटप्रवृत्तिरिति । ११-नचालोपः स्थानिवत्, पूर्वत्रासिद्ध तनिषेधात् । नापि बहिरडतयाऽसिद्धः, यथोद्देशपमे पाष्ठी परिभाषां प्रति वचत्वस्यासिद्धतयाऽन्तरजा. भावेन परिभाषाया भप्रवृतः। अब भाष:-राजन् स् इति स्थिते "अल्लोपोऽनः" इति सत्रेणाकारलोपे "त: चुना श्चु" इति श्चुमेन नकारे 'राज्ञः इति सिध्यति । तत्र "प्रचः परस्मिन् पूर्वविधौ” इति शस्प्रत्ययं निमित्तीकृश्य भसंशाद्वारा जायमानस्य अल्लोपरूपाजादेशस्य स्थानिमृताकारात्पूर्ववेन दृष्टात् नकारात्परस्य नकारस्य श्चुवे कर्तव्ये स्थानिवद्भावेन श्चुस्वप्रतिबन्धो न वाच्यः "पूर्वत्रासिदे न स्थानिवत्" इत्यनेन तनिषेधात् । नचालोपस्य बहिभूत. शस्प्रत्ययनिमिचकतया पविजनान्तर्मतजकारयोगनिमित्तकतयाऽन्तरश्चुत्वदृष्टया प्रसिद्ध बहिरङ्गमन्तर" शनि परिभाषयाऽसियत्वेन पुनरपि श्चुत्वं न स्यादिति वाच्यम्, तस्याः परिम
For Private and Personal Use Only
Page #973
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६४
परिशिष्टेपाया "वाह ऊ" इति सूत्रस्थोठ्ग्रहणशापिततया सापादिकरवेन यथोदेशपक्षे तदृष्टया त्रैपादिकश्चुत्वस्यासिद्धसया तत्र तस्याः परिभाषाया अप्रवृत्त्याऽल्लोपस्यासियवाभावात् । कार्यकालपक्षे यथपि परिभाषाया विधिदेशस्थतया तदृष्टया श्चुत्वस्यानसिद्धतया तया श्चुवस्यासिद्धता बोधयितुं शक्यते इति पुनर्दोषतादवस्थ्यं तथाप्येकपक्षेणेष्टसिद्धौ पक्षान्तरेण दूषणदानस्यानुचित. स्वाक्ष दोषः । वस्तुतस्तु तत्र पक्षेऽपि प्रसिद्धपरिभाषायात्रिपाषां न प्रवृत्तिरित्यन्यत्र विस्तरः। ५२-न चाल्लोपस्य स्थानिवत्वम् , दोघंविधौ तनिषेधात्। बहिरङ्गपरिभाषा तक्तन्यायेन न प्रवर्तते। प्रतिदोन्नः । अयं भावः, प्रतिदिवन्शदात् द्वितीयाबहुवचने शसि प्रत्यये भसंशायाम् "आल्लोपोऽनः" इत्यनेनाकारस्य लोपे "हलि च" इत्यनेन नकारे हलि परे वकारान्तदिवधातोरुपधाया इकारस्य दीर्घे रुत्वे विसर्गे च 'प्रतिदीनः इत्यस्य सिद्धिः। पत्र शहते-भल्लोपस्य "अचः परस्मिन् पूर्ववियो" इत्यनेन स्थानिभूतादचो लुप्ताकारात्पूर्वस्वेन दृष्टस्य इकारस्य दीर्चे कर्तव्ये स्थानिवद्भावेन वकारान्तधावोईलम्बवहितपूर्वस्वाभावेन कथं दीर्घ इति । तत्रोत्तर-दीचे कर्तव्ये स्थानिवद्भावस्य "न पदान्तद्विवचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजबविधिषु" इति सूत्रेण निषेधात् दीर्घस्य प्रवृत्तिरिति । न च "प्रसिद्ध बहिरङ्गमन्तरले" इति परि. भाषया बाह्यशसप्रत्ययनिमित्तकालोपस्य बहिरणतयाऽन्तर्मतनकारनिमित्तकावेनान्तरणदीर्घवि. धायक "हलि च" इतिशास्त्रदृष्टयाऽसिद्धत्वात्पुनरपि दोर्षप्रवृत्तिः कथमिति वाच्यम् , यथोदेशपक्षे "प्रसिद्धं बहिरङ्गमन्तरङ्गे" इत्वस्याः परिभाषायाः 'वाह ठ" इति सूत्रस्थोठग्रहणशापित. तया सापादिकत्वेन तदृष्टया "हलि च" इति शास्त्रस्य त्रैपादिकत्वेनासिद्धतया तविषये तत्परि. भाषाया अप्रवृत्तः। कार्यकालपक्षेण तु दोषदानमनुचितं पक्षान्तरेणेष्टसिद्धरित्युक्तम् । १३योगविभागसामर्थ्यात् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा "एकाजुत्तरपदे” इति गत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रहनः । अयमर्थः, पत्रहन्शदाद् द्वितीयाबहुवचने शसि भसंशायाम् "म. लोपोऽनः" इत्यकारलोपे "हो इन्तेणिन्नेषु'' इत्यनेन इकारस्य कुवेनान्तरतम्या धकारादेशे रुत्वे विसर्गे च वृत्रघ्नः' इति सिद्धम्। नन्वत्र भएकाजुत्तरपदे णः" इत्यनेन नकारस्य णत्वं कुतो नेति चेत् ? न, "प्रत्पूर्वस्य" इत्यनेन हस्वाकारपूर्वकस्यैव हन्ते कारस्य णस्वनियमनादत्र नका. रस्याकारपूर्वकत्वाभावात् गत्वाप्रवृत्त । नच "अनन्तरस्य विषिर्वा भवति प्रतिषेधो वा" इति न्यायेन "प्रत्पूर्वस्य" इति सूत्रं "इन्तेः" इत्यस्यैव नियामक नतु एकाजुत्तरपदे णः" इत्यस्येति वाच्यम् , तथा सति "हन्तेरत्पूर्वस्य' इत्येकयोगेनैव “न्त:" इत्यस्यात्पूर्वेतरत्र निवृत्तौ सिद्धायां योगविभागस्य वैययन तत्सामादत्रोक्तन्यायाप्रवृत्तेर्योधनेन विप्रकृष्टस्यापि"एकाजुत्तरपदे णः" इत्यादेस्तेन नियमावा नचालोपस्य "प्रच: परस्मिन्" इति स्थानिवद्भावेन कथं कुखमिति वाच्यम्, एवं सति सर्वत्रैव नकारे परे इन्तेईकारस्यालोपेनैव सम्मवाचत्र च स्थानिवद्भावस्य नियमत:प्राप्तथा नकारे परे कुत्व विधानस्य वैयर्थेन तरसामादत्र विषये स्थानिवद्भावाप्रवृत्तेः कल्पनेनादोषाता ५४-इह दोघे कर्तव्ये संयोगान्तलोरस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथाच भवन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैसत्स प्रत्याख्यातमाकरे । हविर्जक्षिति निःशको मखेषु मघवानसौ इति भाष्टिः । अयं
For Private and Personal Use Only
Page #974
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिग्लेखनप्रकारा।
६६५ भावः, मघवम् शब्दात्प्रथमकवचने सुप्रत्यये "मघवा बहुलम्" इति सूत्रेण "भोऽन्त्यस्य" इत्येकवाक्यतया नकारस्य स्थाने 'तृ' प्रादेशे ऋकारस्यरसंशायां लोपे च "उगिदचा सर्वनामस्थाने. ऽधातोः" इत्यनेन नुमागमे हल्ल्यादिलोपे संयोगान्तलोपे च "सर्वनामस्थाने चासम्बुद्धौ" इत्यने. नोपधादीधे संयोगान्तकोपस्यासिद्धवानलोपाभावे 'मघवान्' इति सिद्धम् । नन्वत्र संयोगान्तलो. पस्य नलोपदृष्टयाऽसिद्धाषवदुपधादीर्घदृष्टयाऽप्यसिखरखास्कथं दीर्घ इति चेत् १ अत्रोच्यते. भा. ग्यानुरोधेन बहुलग्रहणेन उपधादीर्घदृष्ट्या संयोगान्तलोपस्यासिबस्वाभावबोधनात् । तथाहि, भाष्यकृता 'श्वन्नक्षन्पूषन्प्लीइन्क्लेदनस्नेहन्मूर्धन्मजन्नर्यमन्विश्वप्सन्परिग्मन्मातरिश्चन्मघवन्निति" युणादिसूत्रेण पूजार्थकमधातोः कनि प्रत्यये इस्य धकारादेशवुगागमयोनिपातनेन मधक. वन्शब्दं तस्य रूपाणि च संसाध्य मघशब्दान्मतुष्प्रत्यये "मादुपधायाश्च" इत्यादिना सूत्रेण मघवदशग्दं तस्य रूपाणि च संसाध्य "मघवा बहुलम्" इति सूत्रं प्रत्याख्यातम् । प्रत्याख्यानपक्षे च "अस्वसन्तस्य चापातो." इत्यनेनोपशादी 'मघवान्' इति सूत्रसस्वं च संयोगान्तलो. पस्यासिद्धारवे 'भषवन्' इति भारम्भप्रत्याख्यानयोः फलमेदप्रसङ्गे प्रत्याख्यानासहतिः स्यादतस्त. प्रत्याख्यानपरभाण्यानुरोधन सूत्रारम्भपक्षेऽपि बहुलग्रहणेन संयोगान्तलोपस्यासिदत्वं न भवतीति कल्यते । तथाच भट्टिकविना प्रयुज्यते 'मघवान्' इति "हविर्जक्षिति" निःशः" इति पथे। ५१-अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जयशसोविषये आवं ज्ञापयति । वैकल्पिक चेदमष्टन आत्वम् “अष्टनो दीर्घात्" इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अयं भावः, "भ. टन मा विभक्ती" इत्यनेन इलादौ विभक्तावष्टन शब्दस्य विकरुपैनाऽऽस्वविधानालाघवानुरोधन "ष्टाभ्य भौश्" इति सूत्रे 'मष्टभ्यः' इत्येवं वक्तव्ये 'प्रष्टाभ्यः' इति कृतावनिदेशरूपप्रयवाधिक क्येन भावस्य विवक्षया कृतावस्यैवाष्टन् शब्दस्य सम्बन्धिनोश्शसोरौशविधानेन जश्शसोबा. जादिविभक्तिरवेन तत्रावस्याप्राप्तेः कृताकाराष्ठन् शब्दप्रकृतिकजश्शसाबुद्दिश्य विहितौविधेवैययन जश्शस्विषये प्रात्वं कल्प्यते। नचेदमटन भावं न बैकल्पिकमिति वाच्यम् "अष्टनो दीर्धात्" इति सूत्र दीर्घग्राणेन तस्य वैकस्पिकरवशापनात् । तथाहि "मष्टनो दीर्वात्" इति सूत्रे दीर्घग्राणं दीर्घान्तभिनाइन्शदात सर्वनामस्थानमिनहलादिविभक्तीनामुदाचस्व मा भूदिति । तत्र हलादौ निस्यमावप्रवृत्तस्तद्रहितरूपामावेन व्यावयालामात्तस्य सदास्वस्य वैकल्पिकत्वं शापयति । फलं च 'मष्टभिः' इत्यादिरूपसिद्धिरिति । १६-इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान ष्टुत्वम् , कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा। प्रियाष्टान् : शब्दाद् द्वितीयाबहुवचने शसि प्रत्यये भसंशायाम् "अल्लोपोऽन:" इत्यनेनाकारको रुवे विसर्ग च 'प्रिथाष्टनः' इति सिरपति । नचात्र "टुना टुः" इति सूत्रेण टकारयोगे नकारस्य 'टुस्पेन गकारादेशापत्तिरिति वाच्यम्, "अचः परस्मिन् पूर्ववियो" इत्यनेनाल्लोपस्य स्थानिभूतलुप्ताकारापेक्षया पूर्वस्वेन दृष्टाट्टकारात्परस्य गत्वे कार्य कर्तव्ये स्थानिवदायेन कारयोगाभावेन ष्टुवाप्रक. तेः। नच "पूर्वत्रासिद्धे न स्थानिवत्" इति निषेष इति वाच्यम् "तस्य दोषः संयोगादिलोपल. वणवेषु" इति णत्वे कर्तव्ये तनिषेधात् । यदि तु लक्षणप्रतिपदोक्तपरिभाषया णत्वपदेन न ष्टुत्वनिष्पक्षणस्वस्य ग्रहणमित्युध्यते तहिं "प्रसिद्ध बहिरङ्गमन्तरो" इति परिभाषया भसंशादारा वापरस्प्रत्ययनिमित्तका छोपस्य बहिरवत्वेनान्तर्भूतटकारयोगनिमितकत्वेनान्तरणष्टुस्वदृष्टया
For Private and Personal Use Only
Page #975
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे ऽसिद्धवावा यशपामा शक इत्यादाविवासिहपरिभाषयासपाक्केि अतिरिति दूषणं तु म युक्तमेकपोणे सिद्धौ पक्षान्तरेण दूषणदानस्वानुचितत्वात् । ५७-ननु त्वं स्त्री अहं स्त्री इत्पन्न स्व-अम् अह मम् इति स्थिते अमि पूर्वरूप परमपि बाधित्वाऽन्तरणस्वाहा पानोति सत्यम् , अलिङ्ग युष्मदस्मदी। तेन स्त्रीत्वाभान टाप। यद्वा, शेषे इति सहमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अदू इत्यस्य लोपः। सच परोऽप्यतरमतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान टाप् । स्त्रीवविशिष्टार्थवाचकाद् युग्मदशब्दाद् भस्मद्शब्दादा प्रथमैकवचनविवक्षायां सुप्रत्यये " प्रथमयोरम् स्य. नेनामादेशे "स्वाही सौ" इत्यनेन मपर्यन्तभागस्य क्रमेण स्वमहादेशयोः कृतयोः व अद् अम्. मा अन् मम्' इति जावे शेषेलोपापेक्षयान्तरणतया पूर्वम् "मतो गुणे” इति पररूपे ततः "शेषे लोषः" इत्यनेनान्त्यदकारलोपे "प्रमि पूर्वः" इति पूर्वरूपे स्वम्' 'महम्' इति सिद्धयतः । नन्वत्र परमपि "प्रमि पूर्वः" इति पूर्वरूपम् "मजाधतष्टाप्" इति टापप्रत्ययोऽन्तरणखापबाध्य हो नेति चेत् ? न, "मलिङ्गे युष्मदस्मदी" इत्यभियुक्तोक्त्या तयोलिङ्गबोधकत्वाभावस्यावगमेन स्त्री. स्वलिङ्गाभावेन टापोऽप्राप्तेन राप। नव युष्मदस्मदोः स्त्रीलिङ्गाभावबोधकं नेदं वचनम् "मलि युष्मदस्मदी" इति, किन्तु युष्मदस्मच्छन्दयोः लिङ्गप्रयुक्तकार्येण रूपेषु वैषम्यामावस्यैव बोधकं, यथाऽव्ययेषु, तेन. तयोः स्त्रीलिङ्गबोधकत्वेन पुनपि टापप्रवृत्त्यापत्तिस्तदवस्थैवेति वा. भ्यम् , एवं सति शेषे लोपः" इति सूत्रे स्थानिनोऽधिकरणस्वविवक्षया शेषे इति सप्तमी वीकृत्य तस्याः षष्यर्थवावगमात् मपर्यन्तात् शेषस्य मागस्य लोपः इत्यर्थस्वीकारेण मपर्यन्ता. च्छेषस्य 'भद्' इत्यस्य कोपेन 'ख मम्' 'मह शम्' इति जाते प्रकृतेरदन्तस्वाभावेन सापो प्राप्तः। ५८-मपर्यन्तस्य किम् ? साककस्य माभूत् । युक्काम भावकाम्। त्वया मयेत्या स्व्या म्येति मा भूत् युबकाभ्याम् भावकाभ्याम् इति वच:सिध्येत् । अयमी, -युष्मदस्मदादेशप्रकरणे मपर्यन्तस्य इति किमर्थम् । तदमावेऽपि सर्वस्य स्थाने स्वापादेशेषु वर 'अहम्' श्यादिरूपसिद्धेरिति। अत्रोग्यते, यथा त्वम्', 'महम्' इत्यादौ सर्वस्य स्थाने प्रादेशास्त. थैव युष्मन्छन्दे भस्मच्छब्दे वा कुत्सादिविवक्षायामकच्प्रत्यये तस्य टेः प्राविधानेन माये पति. खया "तन्मध्ये पतितास्तद्ग्रहणेन गृह्यन्ते" इति परिभाषया युष्मद्ग्रहणेन अस्मद्ग्रहणेन वाऽकविशिष्टस्य ग्रहणाचविशिष्टस्य भादेश माभूवनिति मपर्यन्तस्य ग्रहणम्। यथा युष्मकद् अस् भस्मकद् अम् इति प्रथमाद्विवचनेऽमादेशानन्तरं "युवावौ द्विवचने" इति सूत्रेण मपर्यन्तस्य युवावादेशयोः "प्रथमायाश्च द्विवंचने भाषायाम्" इत्यनेनात्वे 'युवकाम्' 'भावकाम्' इति रूप भवतः, अकविशिष्ठस्यादेशयोस्तु 'युवाम्' 'आवाम्' इति रूपापत्तिरिति । नन्वकचकरणे "प्रोकारसका. रभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच मत्यत्र तु सुबन्तस्य टेः प्रागकच्" इत्युक्तवादत्र सुप मो. काराचादिखाभावेनाsकचः सुबन्तटेः प्राक्प्रपुरमा युष्मदस्मन्छन्दमध्यपतितस्वाभावेन तन्महणे. नाग्रहणास्सर्वस्वापि युवावादेशयोः 'युवाम्' 'भावाम्' इति जातेडक्रप्रवृत्तौ 'युवकाम' 'मा काम्' इति रूपसिद्धः मपर्यन्तस्य इति व्यर्थमिति चेत् ? न, एवं सति युष्मद्-अस्मद् शब्दयो? सम्पूर्णयोस्तृतीयैकवचने परे "स्वमावेकवचने" इति समादेशयोः व भाममा इस्वत्र "योऽचि" जामनेनान्स्यस्य यकारादेशलया मया इस्यस्यासिमापसे या म्या इमापतेश्च । नन्नास
For Private and Personal Use Only
Page #976
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पशि लेखमा योऽचि" इति स्त्रस्याने "म" इति न्यासकरणेम समयोसमी मलेक्सियोरमेयस्य प्रकारादेशविधानात्तस्य वायादेशेन तसिद्धिरिति मपर्यन्तस्क पति पुनरपि व्यामिति । न बुक. काभ्याम् भावकाभ्याम् इत्यस्यासिधापत्त: । अयाहि मामो भकारादित्वेन तत्र सर्वगाम्न एख
प्रागकचा प्रवृत्या मध्यपतितस्वात् "तन्मध्ये पतितास्तव्यामेव गृशन्ग इत्यनेन द्विशिष्टस्य युष्मद्ग्रहणेन अस्मन्प्राणेन वा ग्रहणात्सर्वस्व स्थाने युवायादेशयोः प्रवृत्ती युवाभ्याम् प्रवा. भ्याम्' इत्यापत्तः। तस्माद् 'युवकाभ्याम्' 'मायकाभ्याम्' इति सिद्धयर्थ मर्यातस्थ' पति। ५९-यह शेषे लोपोऽन्त्यलोप इति पक्षे जसायी प्राधा कायें कृते पुनर्नाङ्गका
म्' इति न भवति । प्रथमयोरित्यत्र मकारान्तरं प्रविष्य सम्मान्त एवावशि“ध्यते न तु विक्रियते इति व्याख्यानाद्वा । भवं भावः, युष्मदशमा प्रस्मसका अति विभको "प्रथमयोरम"श्यमादेशे "यूबवयो जसि" इत्यनेन व्यवधादेशयोः , "यहोपा इत्यनेमानस्थलोपे. "ममि पूर्वः" इति पूर्वरूप 'यूयम्' 'वयम्' इति सिमानयत्र "यूय मम्। का अम्' इति स्थिती प्रमादेशस्य "स्थानिवदादेशोऽनधियो स्यनेन स्थानिवशावावा . रोपेर्णाऽदन्तसर्वनाम्नः परतया "असः शी" इत्यनेन शीश्रादेशः कुतो नेति चेतू उभयंते वृचे पुनर्वृत्तावविषिः" प्रकार्य को पुनः द्वितीयमनकार्य न भवतीयर्षिकमा परिभाषया यूप बयादेशबोरजकार्ययोः प्रवृत्स्यनन्तरं शीभादेशप्रवृत्तनिषेधातू । यदिलिय परिणाम 'अस्मभ्यम् इत्यादौ एवाप्रवृत्तिमात्रप्रपोज़निका तत्र 'मयम्' इति प्रादेशस्वीकारेण वादन्यथा'सिध्या प्रस्याख्यायते तर "प्रथमयोरम्" इति सूत्र संयोगान्बलोपेन मकार प्रकिया मकारान्तामादेवस्य विधानेन विकारमाननिवृत्तापातक्या प्रकृत विमानेशान्तिरिति बोध्यम् । ६० म.प्रत्ययग्रहण शापयति अम्मनः धातुग्रहणे तवादिविधिमिति नायस्कार, मन्त्रः एकपीति सा। अयम::-विष्वग्देवयोश्च येरपतापमये कि वेऽप्रत्ययालय किमर्थम १ तक्मा उत्तरपदाधिकारेण प्रन्नुमाती छत्तरपके पड़े विवाग्देवो सर्वनाम्नच टेर. यादेशे भवतीत्यर्थे पत्र सत्याना जोमात सदसुया इत्यादी तय. वृत्तः विश्वप्रनम्! स्यादौ व मननम्र पदस्प प्रमाणावेनेशाप्रवृत्तः कुमार पि दोषाभावात् । भोज्यते व्यर्थ सम्शापयति-बानुग्रहणे प्राविसिपिरितिः। तमान अध्ययम: रणाभावे मनधास्वादावुत्तरपदे त्यावश्यां विष्वंग वम स्यमनमिस्वस्म अधास्वादि स्वादयादेशापत्तिरतस्तत्र अप्रत्यये प्रति क्रियते इति स्वाशे पारिताय । अन्यत्र फकं तु 'भ. यस्कार' इति । तत्र "मतः कृमि" इति स्प्रेण कृधास्वादानुसरपदे इवन कारशब्द परे विसमहा सत्वसिद्धिरिति । ६१-गिदधामिति. सूत्रेऽग्रहण नियमार्थ-धातोश्चेदुमित्कार्य नश्चितेरेवेति । तेन स्त्रवध्यतः इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमवशम्दात्स्यजन्तप्रकृतिककिवतादाचारकिसन्तप्रकृतिककिबन्ताहा सुप्रत्यये "प्रत्वसन्तस्य चापातो." स्यनेन दोर्षे "डगिरा, सर्वनामस्थानेऽधातो:" इत्यनेन नुमि ब्यादिलोपे संयोगान्तला गोमान्' इति । नम्वत्र यन्तस्य प्राचारक्कियन्तस्य वा "सनाबाता धातवः" इति पासशकत्वेन ततः किम्यपि किपा धातुखानपायात् "उगिदचा नामाने" इति को प्रातः इत्युको कथमत्र तुप्रातिरिति चिट १. अत्रोच्यो, तर
For Private and Personal Use Only
Page #977
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
परिशिष्टेसूत्रेऽग्राणेन माचुधातोरेव ग्रहणात्तस्य चोकारेश्सम्बकतया उगित्पदेनैव ग्रहणसिद्धस्त. ययन धातोश्चेदु गित्काय तयातेरेव" इत्यस्य अनचातुमिनावोरुगिरकार्य न भवती त्यर्थकस्य शापिततया तेनैव तरसूत्रस्य पाती निवृत्तिसिद्धया सूत्रे क्रियमाणोधातोरित्यस्य
यापत्या तरसामध्यन भूतपूर्वस्य धातोरपि उगितो नुमिति शापनेन क्यच भाचार. विवपो वा प्रवृत्त: पूर्व गोमतोऽधातुतया भूतपूर्वाधातावेन नुमः प्रवृत्तः सुवचत्वादिति। १२-मन्तरङ्गोऽपीडागमः सम्प्रसारणविषये न प्रवर्तते अकृतव्यूहपरिभाषया। सेदु. पः। अयमर्थ:-पदावाख्यानपक्षे पदपर्यतं प्रकृतिप्रत्ययान् संस्थाप्य ततः संस्कार इति सि. दान्ताद सद् वस अस इति सद्धातु कम्प्रत्ययशमविभक्तोः संस्थाप्य तत: वसोरार्धधातुकरवेऽपि शसप्रत्ययनिमित्तक "वसोः सम्प्रसारणम्" इति शास्त्रप्रपश्या वलादित्वनिमित्तविनाशसम्माव. नायामन्तरणस्यापीडागमस्थात्र "प्रकृतव्यूहाः पाणिनीयाः" इति परिभाषया 'यदि पूर्वमन्ताङ्ग शासं न प्रवत्तेत इति सम्भावनायो बहिरङ्गशास्त्रप्रवृत्ती अन्तरमशास्त्रनिमिचविनाशसम्भावना तत्र पूर्वमन्तरङ्गशास्त्रं न प्रवर्तते' इत्यर्थिकया प्रवृत्तिप्रतिबाधेन तिबन्तप्रकरणे वक्ष्यमाणेषु दि. स्वादिकार्येषु जातेषु सम्प्रसारणे पूर्वरूपे च रणः परत्वाद् "प्रादेशप्रत्यययोः" इति षत्वे रुवे वि. सर्गच सेदुः इति सियतीति । ६३-शावल्लोपस्य स्थानिवस्वादशलन्तत्वान्न नुम् । भजन्तलक्षणस्तु नुम् न, स्वविधौ स्थानिवस्वाभावात् । बेभिदिब्राह्मणकुलानि । अयं भावः बेमिषधातोर्यजन्ताकिपि अतो लोपे यसोपे च कृदन्तरवास्प्रातिपदिकसम्मायां प्रथमाबहु. बचनविवक्षायां जसि "जाशसोः शिः" इति शिभादेश बेभिदि इति सिध्यति । नन्वत्र शिभा. देशस्य "शि सर्वनामरथानम्" इत्यनेन सर्वनामस्थानसम्शायां "नपुंसकस्य झलचः" इत्यनेन मलन्तलक्षणो नुम् करमान्नेति चेव १ न, "अचः परस्मिन् पूर्ववियो" इत्यनेन अल्लोपस्य स्थानिबद्भावेनाकारबुद्धया नुमोऽप्राप्तः । नचास्लोपस्य स्थानिवद्भावनाजन्तलक्षण एवं नुम् स्यादिति वाच्यम्, पूर्वस्यैव विधी स्थानिवद्भावस्यानेन सूत्रेण विधानास्वविषो स्थानिवद्रावाप्रसक्तेरिति ।६४-अमहत्पूर्वा किम् ? महाशदी। भयं भावः, "शुद' चामहत्पूर्वा जातिः" इति वात्तिकेऽमहत्पूर्वाग्रहणाभावे शूदशमात टाप भवति जातिश्चेदाच्येति तदर्थे शशब्दावापि शुदा इति, महरपूर्वकशूदशदस्य तदन्तविधिनैव शूदशब्देन ग्रहणसम्भवात्तस्य चात्र प्रत्ययविधायकतया "समासप्रत्ययविधी प्रतिषेधः" इति निषेधेन महाशद दाहापोऽप्र. सवत्यैव दोषाभावेन नातिलक्षणडोष्प्रत्यये 'महाशदी' इत्यस्य सिद्धो नद्यावृत्यर्थ कियमार्ण सदग्रहणं खीप्रत्ययेधु वदन्तविधि शापयति । तेन नदशब्दाव डोपि नदी इतिवत परमनदशम्दादपि डीपि परमनदी इति सिद्धपति इति दिक् ।।५-उगिदचामिति सूत्रेहणेन धातोश्चेगित्कार्य तयशतेरेवेति नियम्यते। तेनेह न-उखासत् । अयमर्थः, उखापूर्वकसंसुधातोरुगितः किपि भनिदितामिति नलोपे कृदन्तस्वात्प्रातिपदिकसम्शायां सुप्रत्यये हल्ल्यादिलोपे सकारस्य पदान्तवाद् "वसुसंसध्वस्वनडुहां दः" इति दकारे चत्वं च कृते 'उखान' इति । नन्वत्र उगिरवाव स्त्रीस्वविवक्षायाम् "गितश्च" इति डीवापत्तिरिति चेत् । न, "उगि. बचा सर्वनामस्थानेऽधातोः" इति सूत्र अन्चुधातोरुगित्वेनैव नुमसिबेरमाणेन स्पोंभूतेन भ. म्युषायतिरिकपातूनामु गित्कार्याभावशापनेन संसुधातावपि तदप्रारिति । ६६-पन्चेत्यत्र
For Private and Personal Use Only
Page #978
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकार।
९६६ मलोपे कृतेऽपि णान्ता षट् इति षट्सम्म प्रति "नलोपा सुप्स्वर" इति नलोपस्यासिद्धत्वात् "न षट्स्ववादिभ्यः" इति मटा। अयमर्थ:-पान् शम्दान्नित्यबहुव. चनान्तास्त्रीस्वविशिष्टार्थवाचकाप्रथमाबहुवच्ने जसि शसि वा "णान्ता पद" इति षट्सम्शायां "पड़भ्यो लुक" इति लुकि "नलोपः प्रातिपदिकान्तस्य" इति नलोपे 'पञ्च' इति सिद्धयति । नान्यत्र कार्यकालपक्षे प्रति कार्य सम्शाप्रवृत्तेः सिद्धान्तितया जश्शस्लुगथै प्रवृत्तया षट्सम्या अन्य कार्यसाधनासम्भवेन नलोपोत्तरं 'पञ्च' इत्यत्र षट्सम्झाया अप्राप्स्या "न षट्स्वनादिभ्यः" इत्यस्याप्रवृत्तेरवन्तस्वाद् "मजाधतष्टाप्" इति टावापत्तिरिति चेत ! न, नलोपे कोऽपि नलोप. स्थ "नलोप: सुप्स्वरसम्शातुग्विधिषु कृति" इति नियमानुसारेण षट्सम्शादृष्टयाऽसिद्धवेन नान्तबुद्धया तत्सम्हाप्रवृत्ती "न षट्" इति निषेधेन टापोऽभावात् । “न षट्" इत्यनेन च षट्स. शकेभ्यः स्वनादिभ्यश्च स्त्रियां यद् यत् प्राप्नोति तस्य सर्वस्यापि निषेधः क्रियते इति टायपि निषिध्यते । जसः शसो वा प्रवृत्तिकाले "ऋन्नेभ्यो डीप" इति सूत्रेण प्राप्तो जीप न षट" इत्यनेनैव निषिध्यते इति तस्याप्यतिरिति । 10-पूर्वस्य किम् ? परस्य मा भूत, कटुका । भस्यायमर्थ:-"प्रत्ययस्थात् कारपूर्वस्यात इदाप्यमुपः" इति सूत्रे पूर्वस्येति किमर्थम् । बदमावेऽपि 'कार' इति पत्रभ्या दिग्योगलक्षणयात कदाचित्पूर्वस्य कदाचित्परस्यत्यध्याहारेण 'सविका' 'कारिका' इत्यादि लक्ष्येषु परस्येत्यध्याहारेण सूत्रप्रवृत्ती सर्वक-मा इत्यत्र "प्रकः स. गणे दीर्घः" इति शासनापप्रसन लापवादगाधेन प्रवृत्तिप्रयोजकस्य पूर्वस्य इस्वस्यबाध्याहारेण प्रवृत्तिरिति सविका 'कारिका' इत्यादिसिवेरिति प्रश्नाशयः। नचात्र "तस्मादित्युत्तरस्य' इति परिभाषया परस्यैवाध्याहारो न पूर्वस्येति सर्विका इस्पादिसिध्ययं स्ने पूर्वस्य ग्रहणमावश्यक. कमिति वाच्यम् , "सूतकापुत्रिकावृन्दारकाण वेति वक्तव्यम्" इत्यत्र पुत्रिकाशब्दे पूर्वकारस्थाकारविधानार्थम् अति छेदस्य सति वैयर्थेन तसामन्यात "प्रत्ययस्थात्" इति सूत्रे "तस्मादित्युत्तरस्य" इति परिभाषाया अप्रवृत्तिबोधनात् । उत्तराशयस्तु-मस्तु सवर्णदीर्घबाधाभावानुरोधेन सर्विका' इत्यादिलपसंस्कारायोपप्लुतवाक्यै पूर्वस्प इत्यध्याहारः परन्तु यत्र लक्ष्ये पूर्वोऽकारो नास्त्येव तत्राऽगत्या सवर्णदोषाधमनीकस्य परस्येत्येवाध्याहृत्य सूत्रं प्रव. तनीयमिति 'कटुका' इत्यत्र ककारोत्तराकारस्यश्वे यप्रवृल्या 'कटुक्या' इत्यापत्तिरिति । कृते तु पूर्वग्रहणे 'कटुकी' इत्यत्र पूर्वस्याकारस्याभावान्नेवप्रवृत्तिरिति । ६८-वक्ष्यमाणेल्यत्र टि. स्वादुगित्वाच्च जीतातो यासुटो खित्वेन लाश्रयमनुबन्धकार्य मादेशानामिति ज्ञाप. नान्न भवति । नः शानः शिस्वेन कचिदनुबन्धकार्येऽप्यनलिवधाविति निषेधज्ञापनाद्वा । भयमर्थ:-अधातोर्वचधातोर्वा कर्मणि लदि कारटकारयोरित्सन्मायो लोपे च लका. रस्य स्थाने शानचि स्यप्रत्यये धूमधातुपक्षे वचादेशे च मुगागमै "चोकु" इति कुरवे परवे कायोः क्षेणवे वक्ष्यमाण इति जाते कृदन्तस्वास्त्रातिपदिकसम्शायां खीस्वविवक्षायाम् "प्रजाघ. वाप" इत्यनेन टाम्प्रत्यये सवणंदोघे सुप्रत्यये हाब्यादिलोपे "वक्ष्यमाणा" इति सिध्यति । पत्र शहते-"स्थानिवदादेशोऽनरिवषो" इत्यनेन शानजादेशे स्थानिवद्भावेन लवृत्ति. टि वमुगिश्वं वाऽतिदिश्य टिदन्तस्वात् "टिड्ढाण" इति सूत्रेण गिदन्तस्वात् "उगितश्च" इति सूत्रेण वा गेप प्राप्नोति । नच "मनस्वियो" इति निषेधः "नस्यपि इस्यनेन प्र.
For Private and Personal Use Only
Page #979
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेनुपथकार्येऽनल्बिसाविति लिपेपस्याप्रतिज्ञापनात् । अन्यथा 'प्रदाय' प्रस्थाय' इत्पादो स्पायतिकिरणस्य "अनविधी' इति शिवेन स्थानियवाप्रवृल्याऽतिदेशाभावेनैव "धुमा. स्था" इत्यस्य प्रवृत्यमावसिद्ध्या "न त्यपि" तीस्वनिवेधो व्यर्थः स्यादिति । तत्रोत्तरम्"यासुर परस्मैपदेषूदात्तो सिच" इति सूत्रे हिग्रहणेन "लाश्रयमनुबन्धकार्यमादेशानां न" इस्पस्थ लकारवृत्ति-अनुबन्धघटितधर्मनिमित्त कार्य कर्तव्येऽनल्विधाविति निषेधः प्रवर्तते इस:
कस्य शापनादत्र लुट्पत्तिस्विस्य उगिखस्य वाऽतिदेशार्थ स्यानिवद्भावस्य अनल्विधाविति निषेधेन पोऽप्राप्तिरिति । तत्र सूत्रे हि न स्यपी विशाषितयाऽनषिधावितिनिषेधोऽनुबन्धकार्य न प्रवर्तते इति परिभाषया निषेधाप्रवृत्तौ लिवृत्तिङित्वस्य स्यानिषदावेन तिप्यतिदेशे बदामा मपरिभाषया यामुटि ङित्त्वलाभेन यासुटो डिस्चार्थ सूत्रे क्रियमाणं डिग्रहणं व्यर्थ सदुशायर यतीति । यदि तु "सार्वधातुकमपिता इति सूत्रे "डिच पिन्न, पिच्च cिa" इति भाष्योङया तिपः पिवेन तत्र स्थानिवश्वेन जियालाभात् तदागमस्य यासुटो हिसार्थ सूत्रे छिद्महसमावर श्यकम् । तेन 'यूयात्' इत्यत्र वृद्धिनं, 'यात्' इत्यत्र च गुणो नेति न तेन विग्रहफेनोकर बापनसम्भव इति पुनरपि 'वक्ष्यमाणा' इत्यत्र जीवापतिस्तदवस्थेवेत्युच्यते, हिं "इलः इना शानज्झौ" इत्यत्र श्नावृत्तित्वस्योक्तरीत्या शानचि लाभासिद्धः शानचः शिवेन क्वचिदनुबन्ध कार्येऽप्यनस्विधाविति निषेषप्रवृत्तिरिस्यस्य शापनेन टिस्सप्रयुक्त उगिस्वप्रयुक्ते वा कीपि कार्ये तस्य निषेषस्य प्रवृरया वक्ष्यमाणा इत्यत्र शानजादेशे स्थानिवद्रावस्य निषेधेन टिसस्योगिरवस्य वालाभेन लोपोऽप्रवृत्तिरिति दिक । ६९-मातरि षिच्चेति षिवादेव सिद्धे गौरादिषु मातामहीशब्दपाठादमित्यः पिता जी । दंष्टा । प्रथमर्थ:-'दंष्ट' इति प्रातिपदिकस्य . कारसंशकष्टन् प्रत्ययान्तनया "षिद्गौरादिभ्यश्व'' इति सूत्रेण प्राप्तोऽपि कोष न प्रवर्तते, मात. रिविच" इत्यनेन मातामहशम्दे तद्धितप्रत्ययस्य विस्वोक्तः पिसेनैव तत्र को प्रवृतः सियो गौरादिगणे मातामहशब्दपाठेन विश्वप्रपुक्तकीयोऽनिस्यस्वचापनात् । शापिते स्वनिस्यत्वेऽनिस्यरवाद' मातामहशग्दै पिस्वप्रयुक्तो ङीष् कदाचित् न स्यादिति गौरादिगणे मातामहशम्पाठस्य नित्यं. बोप्रवृत्त्यर्थं स्वांशे चारिताध्यम्। फलं तु 'दंष्टा' इति लक्ष्ये डोष्प्रवृत्पमाव इति । ७०साधयोर्बर लक्षणो निषेधो षाध्यते पुरस्तादपवादन्यायात् । ओष्ठादोनां पश्चानांतु असंयोगोपधादिति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् । सहन लक्षणस्तु प्रति. षेधः परत्वादस्यबाधकः । अयमर्थ:-येन नाप्राप्ते यो विविरारभ्यते स तस्य बाधको भवतीति न्यायेन पवादशस्त्रस्य स्वविषयसकललक्ष्यप्राप्तिविषयशास्त्रबाधकरवं न तु कचित्प्राप्तिविषय-: शास्त्रवाधकस्यमिति बोध्यते । यत्र निरवकाशं शास्त्रं ततः सकललक्ष्यप्राप्तिविषयशास्त्रं ततः का चिल्लक्ष्य राप्तिविषयशास्त्र, तत्र पुरस्तादपवादन्यायेन व्यवस्था, यत्र च निरवकाशं शाख मध्ये सकललक्ष्यप्राप्तिविषयशास्त्रं पूर्व क्वचिरलक्ष्यप्राप्तिविषयशास्त्रं चोत्तरत्र तत्र मध्येऽपवादन्या. येन व्यवस्थेति प्रकृते नासिकाउदरशम्दान्तबहुवोहिन्या तुनासिक कृशोदर इत्यामा साना सिक सहोदर इस्याभ्यां वा "नासिकोदर" सूत्रेम पूर्वपठितेन डोष “न क्रोडादिबहवः" इति सूत्रेण तदुत्तरपठितेन निषेषश्च प्राप्नोति "सान विद्यमानपूर्वाञ्च" इति निवेषस्तु ततोऽप्युचामविया बालमुत्तरलषयोरेव प्राप्नोति न पूर्ववेति पुरस्तादपवादमावेन सककलायपाति:
For Private and Personal Use Only
Page #980
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिन्लेखनकारः।
१७१ विषय "नकोडादियाचा" इति नियस्येवानवात् नासिकोदरसूत्र में बायो नतु कचिल्ल. क्ष्यप्राप्तियिषय "सहनविक्मानपूर्वाच्च" इत्यस्येति 'तुम्नासिकी, तुनासिका', 'कशोदरी, कृशोदरा' इत्यत्र वा प्रतिः 'सहनासिका सहोदरा' इत्यत्र तु "नासिकोदरोष्ठति डोष. विकल्प परवाप्रमाध्य "सहनम्" इत्यनेन निषेध एव । एवम् पोष्ठजिहादतकर्षशब्दात. बहुव्रीहिषु "स्वाहाचोपसर्जनाइसंयोगोपचार" इति सूत्रस्थासंयोगोपधादिति पंयुदासः समंत्र प्राप्तः सहनविधमानपूर्वकोष्ठापन्तबहुव्रीहिषु "सहनम्" इति निषेधः प्राप्तः "नासिकौदर" इति च कोश्विकपः प्राप्तस्तव "नासिकौदर" इत्यस्य निरवकाशस्य मध्यपठितस्वेन सकलल.
यत्राप्तिविषयासंयोगोपधादिति पयंदासस्य पूर्वपंठितवेन कचिल्लक्ष्यमाप्तिविषय "सह मनइति निषेषस्य चोत्तरपठिवरवेन मध्येऽरमाइन्यायेन पर्युदासस्यैव होषिकापो बाधको सह. मनिति निषेधस्येति । सहादिपूर्वकोछ पन्तबहुव्रीहिषु परवान्कोषिकालाधन निषेधस्येव प. चिरिकि मध्येडपपाइन्यायस्य च "मध्ये पठिता अपवादा पूर्वान् विधीन् 'बायन्ते नोत्तरान्। इविसरूपम् । १-परिमाणमात्रे द्रोणो ब्रीहिःद्रोणरूपं यत्परिमाणं तत्परिचियो श्रीहिरित्यर्थः । प्रत्ययाय परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् , प्रत्यपार्थस्तु परिबपरिच्छेदकमायेन वीही विशेषणमिति विधेको ।'भयमर्थ:-परिमाणमांक प्रथमो इत्यस्योदाहरणं द्रोणो प्रोहियत्र द्रोणः इति । तत्र द्रोणपदात् द्रोणरवद्रोणपुस्वार्थामा नियम नोपस्थिस्था प्रातिपदिकार्थखेऽपि पमिाणत्वेन परिमाजस्थ नियमेनानुपस्थित प्रातिपदिकार्थः स्वाभावेन परिमाणरूपेऽथे परिमाणप्रहणेन प्रथमा । तयाचे द्रोपपवन द्रोणवाजिद्रोणस्पो. परिपत्या तस्य सप्रत्ययोपस्थितपरिमाणार्थेन 'सामान्पविशेषयोरभेदैनान्वयः इति व्युत्परयाउमेदान्नये सुप्रत्ययार्थपरिमाणस्य बोहिपदेनोपस्थितनोपर्थे ' पुरुष इत्यादाविमोकामाभास्पपरिच्छेपपरिच्छेदकमावसम्मन्नान्वय पति द्रोगरूपं यस्परिमापं तत्परिछिनो मोहिरियो सिम्पति । द्रोणद्राप्रातिपदिकापमाने प्रथमा प्रवृत्तीनामायोरभेदेमान्वयः' इति पुत्पा स्या द्रोणासोहिपदार्थयोरमेवेनैवान्पयः स्पादिति प्रोणाभितो बोलिरिस्पनिटांपत्तिरिति । बोहो द्रोणपरिमाणाभेदस्यानुपपरया द्रोणशब्दस्य द्रोणपरिमिते लक्षण पश्चेिति । -सक्षिपो ऽपि स्यात् । अनुपसर्गस्वासपा) संम्भावनाफा लिए। तस्या एक विषयभूते भक्ने कदौल भ्यप्रयुक्तं दौलभ्यं बोतवन् अपिश स्यादिस्पनेम सम्बध्यते । संपिया इति षोभाषि शम्दवालेन गम्यमानस्य बिन्दोरवयवावयविभावसम्मम् । इयमेव थपिशमस्प ‘पदार योतकतानाम । द्वितीया तु नेह प्रवर्तते "सपियो बिन्दुना योगो नस्वपिना" इत्युक्तस्वात् । घृत. स्य बिन्दुः स्यादित्यर्थः । श्रप्रयुज्यमामविन्दुपक्षाच्यार्थयोतकरयेम अपिशम्दस्व "अपिः पदार्थ सम्भावना" इत्यादिसूत्रेण कर्मप्रवचनीयसंज्ञायां ततः परस्य स्यादिति सकारस्य "उपसर्गप्रादु. याम्" इति षवं न, कर्मप्रवचनीयसंशया उपसर्गसंज्ञायाधेनोपसरपरस्वाभावेन तदप्राप्तः। स्थादिति सम्भावनायां लिए। तया सम्भावनया प्रपिशब्दयोतितस्य प्रसधातुकतुमिन्दोदोलभ्यं गम्यते, बिन्दुदौलन्थे च तदवयविनः सपिषोऽपि दौलभ्यं ज्ञायते । भपिशम्दयोतितबिन्दौ सपिषोऽन्वयोऽतस्तत्रावयवावपविभावसम्बन्धे पडी। अपिशदेनान्वयाभावाच न तचोगे 'कर्मप्रव. चनीययुक्त द्वितीया" इति द्वितीयेति भावः। ३-तमप्ग्रहणं किम् ? गङ्गायां घोषः
For Private and Personal Use Only
Page #981
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
- परिशिष्टअयं माव:-क्रियतेऽनेनेति करणमिति महासंशयैव क्रियासापकरूपार्थलाभसम्भवे सूत्रे पुनः क्रियमाणं साधकग्रहणं साधकतमार्थ भविष्यति एवं च सूत्रे तमग्रहणं व्यर्थमिति प्रश्नाशयः । सत्तराशयस्त्वेवम्-तम ग्रहणं व्यर्थ सज्ज्ञपायति-कारकप्रकरणेऽन्वर्थसंशावललग्योऽर्थों नाश्री. यते इति । तेनास्मिन् सूत्रे करणमिति महासंशावललभ्यार्थस्यानाश्रयणेन साधकपदं केवलसाधकस्यैव ग्राहक नतु प्रसाधकरूपार्थस्येति तदर्थलाभाय सूत्रे तमन्ग्रहणमावश्यकमिति स्वाशे चारितार्यम् । अन्यत्र फलं गायां घोष इति । "प्राधारोऽधिकरणम्" इत्यत्र अधिक्रियतेऽस्मिस्तदधिकरणमिति महासंशयाऽधिकरणरूपालामे सूत्रे पुनः क्रियमाणमाधारग्रहणं सवियर. व्याप्याऽऽधारस्यैव प्राणार्थ स्यादिति 'तिलेषु तेलम्' इत्यत्रवाधिकरणसंशा स्यानतु एकदेशा. बच्छेदेन घोषाधारगङ्गाया इति गङ्गाया घोष इत्यत्र सप्तमी न स्यात् । शापिते तूक्तेऽर्थे भन्वर्थसंशावललब्धार्थानाश्रयणेन सर्वविधाधारस्य तेनाधिकरणसंशाविधानेन गङ्गाया मष्यविकरणसं. शायां "सप्त्यम्यधिकरणे च" इति सप्तमी सिध्यतीति । ७४-कृति कि ? तद्धिते मा भूत् , कृतपूर्वी कटम् । भयम्भावः-"कर्तृकर्मणोः कति" इत्येव सूत्रमस्तु, कर्तुः कर्मणश्च किया. योगे एव कारकत्वात्सम्भवः, क्रिया च पास्वयं एव, पातोश्च द्वये प्रत्यया:-तिक कृतश्च । तत्र ति लादेशतया "नलोकाष्पय" इति निषेधेन कृत पवावशिष्यन्ते । ततश्च कृदन्तपातुयोगे एच कर्तुः कर्मणश्च षष्ठी सिद्धौ सूत्र कृतिग्रहणं किमर्थमिति प्रश्नः। कृतिग्रहणं व्यर्थं सरसामन्यात मुख्यविशेष्यताकोपस्थितिजनककृत्प्रत्ययान्तपरम् । तेन तादृशकृदन्तयोगे एवानेन पछी नतु तद्वि. वार्थविशेषणतयोपस्थितिजनककृदन्तयोगे इत्यर्थः फलति । तथाच 'कवपूर्वोकटम्' इत्यत्र धातोः कर्मणः पूर्वमविवक्षया मावे क्तप्रत्यये ततः पूर्वशब्देन समासे "पूर्वादिनिः, सपूर्वाञ्च" इत्यनेन कर्तरि इनि प्रत्यये तद्धितान्तत्वात्प्रातिपदिकत्वेन स्वाथुत्पत्ती कृतपूर्ण' इति । तत्र पश्चात् कर्मगोऽन्वयविवक्षायां कटशब्दस्य योगे तस्य "कर्तुरीप्सिततम कर्म" इत्यनेन कर्मसंज्ञायां तस्य 'कृ. व' इति कृदन्तयोगेऽपि नानेन षष्ठी, तस्य तदिते निप्रत्ययार्थविशेषणतयेष स्वार्थोपस्थापकतया मुख्यविशेष्यताकोपस्थितिजनकस्वाभावात् । शरीत्या कमाविवक्षया भावे क्तप्रत्ययस्य तडित. वृत्तावेव साधुरवस्थ भाष्यकृदभ्युपेतत्वात् ।
पवयस्मिन्कारकप्रकरणे अनेकाः पतयो लेखनाहा वर्तन्ते परन्वत्र चतसणामेव दिग्दर्श. नार्थमुल्लेखो मया क्रियते । एतल्लेखनप्रकारदर्शनेन जिशासवः सबऽप्येतदपिगमिष्यन्ति यद. स्मदीयसिद्धान्तकौमुदीकारकप्रकरणसरलाव्याख्याने प्रायः सर्वा श्रपि पलयोऽनयेव दिशा व्या. ख्याता यत्रिचतुःपदपरिवर्तनमात्रेणेव परीक्षायामपि सर्वा अपि पडक्तयो लेखना भवन्तीति ।। भतरछात्रविद्भिश्च तत एव कारकप्रकरणीयपतिलेखनप्रकारः साकल्येनावगन्तव्य इति ।
इति नेने-गोपालशास्त्रिकृतरूपलेखन-पक्तिलेखन
प्रकाराख्यपरिशिष्टः समाप्तः ।
For Private and Personal Use Only
Page #982
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्ध-प्रयोगसूची
अथ संशाप्रकरणम् । मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च। वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥१॥ ___ पृष्ठ २-महउण , अलक, एमोक, ऐऔच , हयवरट्, लण् , प्रमाणनम् , झभा , घढधषु , जवगस्दश, खफछठयघटतव, कप, शक्सर , हल्। ६-उपदेश इत । ७-हस्वसंज्ञा, दीर्घसंज्ञा, प्लुतसंज्ञा । ९-उदात्तसंज्ञा, आये, अनुदात्तसंज्ञा, अर्वाड , स्वरितसंज्ञा, अर्धेमुदात्तम् , हस्वग्रहणमतन्त्रम् , अर्धमनुदात्तम् , । १०-कावोवाः स्थान न येराः, शतचक्रं योश्यः, अग्निमीले। १२-कण्ठः, तालुः, मूर्धा, दन्ताः, ओष्ठौ, नासिका च, कण्ठतालुः, कण्ठोष्ठम् , दन्तोष्ठम् , जिह्वामूलम् , नासिका, यत्नो द्विधा । १-आयश्चतुर्धा । १४-संवृतम् , विवृतमेव, अ अ इति । १५-सालमसिद्धम् , एकादशधा, खयां यमा० । १६-पलिक्नीः , चलनतुः, अग. पुनः मन्तीत्यत्र०, खयः, यमाः विवास, श्वासा, अघोषः । १७-संवारा, नादः - ल्पप्राणाः, महाप्राणा, स्पर्धाः, अन्तस्था, ऊष्माणः, स्वराः, जिह्वामूलीया, उपध्मानीया, अनुस्वारः, विसर्गः, सावर्ण्यम् । १८-दवीत्यस्य हरति शीतलमित्यादयः । १९-सवर्णसंज्ञा, उदितः । २१-तेन विश्वपाभिरित्यत्र। २३-समकालसंज्ञा, अत् , इत, उत् , ऋत् । २३-वृद्धिसंज्ञा। २४-गुणसंज्ञा, धातुसंज्ञा, निपातसंज्ञा, चादि निपातसंज्ञा । २६-प्रादिनिपातसंज्ञा, उपसर्गसंज्ञा, गतिसंज्ञा, प्रादयः, विभाषा। २०-अशब्दसंज्ञा, सदन्तस्य संज्ञा। २८-अवसानसंज्ञाः, संहितासंज्ञा, पदसंज्ञा। २९-संयोगसंज्ञा, लघुसंज्ञा, गुरुसंज्ञा, दीर्घगुरुसंज्ञा । इति संज्ञाप्रकरणम् ।
अथ परिभाषाप्रकरणम् ।। पृष्ठ २९-इको गुणवृद्धी । ३०-अचश्व, भावन्तौ टकिसो, मिदचोन्त्यात्परः, षष्ठीस्थाने योगाः ।३२-स्थानेऽन्तरतमः। ३५-तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मा. दित्युत्तरस्य, अलोऽन्त्यस्य, बिच्छ । ३५-भादेःपरस्य, अनेकाशित्सर्वस्य, अष्टाभ्य मौशित्यादौ। ३६-स्वरितेनाधिकार, परनित्यान्तः । ३७-असिद्धं बहिरङ्गमन्तरङ्गे, अकृतव्यूहाः पाणिनीया।। इति परिभाषाप्रकरणम् ।
अथाच्सन्धि-प्रयोगा। पृष्ठ ४६-सुद्धयुपास्यः, मध्वरिः, धात्त्रंशः, लाकृतिः। ४०-पुत्रादिनी त्वमसि पापे, आक्रोशे किम् । पुत्त्रादिनी सपिणी, पुत्रपुत्रादिनी स्वमसि पापे, पुत्त्रहतीत्रिहती, पुत्त्रजग्धी-पुत्रजन्धी, इनन्द्रः-इन्द्र, राषष्टम्-राष्ट्रम् । ४८-मर्कः, ब्रह्मा, दात्रम् , पात्रम् , हर्यानुभवः, नय्यस्ति। ४९-माहात्म्यम् , हरये, हिष्णवे,
For Private and Personal Use Only
Page #983
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
परिशिष्टेमायकः, पावकः । ५०-गव्यम्' नाव्यम् , गव्यूतिः । १२-लव्यम् , अवश्यलाव्यम् , तनिमित्तस्यैवेति किम् । ओयते, औयत, क्षेतुं शक्यं क्षय्यम् । १३-जेतुं शक्यं जय्यम् , शक्याथें किम् । क्षेतुं जेतुं योग्य क्षेयं पापं जेयं मना, ऋय्यम् , ऋयमन्यत् । १४-हर एहि-हरयेहि, विष्ण इह-विष्णविह, श्रिया उद्यता, श्रियायुद्यतः, गुरा उत्क:गुगायुत्कः, कानि सन्ति को स्त । १५-उपेन्द्रः, रमेशः गङ्गोदकम् । ५६-कृष्णधिःकृष्णद्धिः-कृष्णदुर्द्धिः, तवलकारः। ५७-कृष्णकत्वम्, गौधः, देवैश्वयम् , कृष्णौ. त्कण्ठयम् , उपैति, उपैधते, प्रष्टौहा, एजाद्योः किम् । उपेतः, मा भवान्प्रेदिधत् । १९-अवैहि, अक्षौहिणी सेना, स्वैरस, स्वैरी, स्वैरिणी, प्रौहर, प्रौढः । ६०-प्रौढवान् । प्रौढिः, प्रेषः, प्रेष्यः, प्रेषः, प्रेष्यः, सुखातः, तृतीयेति किम् । परमतः । ६१-प्राणम् , वत्सतराणम् , ऋणार्णम् , दशार्णो देशः, नदी च दशार्णा, उपार्च्छति, प्रार्छति । ६३-प्रार्षभीति-प्रर्षभीयति, उपालकारीयति-उपल्कारीयति, ६४-उप ऋकारीयति-' उपकारीयति, प्रेजते, उपोषति, उपेडकीयति-उपैडकीयति, प्रोघीयति-प्रौघीयति, क्वेक भोक्ष्यसे, अनियोगे किम् । तवैव । ६६-शकन्धुः, कर्कन्धुः, कुलटा, सीमन्तः केशवेशे. सीमान्तोऽन्यः, मनीषा, हलीषा, लागलीषा, पलञ्जलिः, सारङ्गः पशुपक्षिणोः, सारा. ङ्गोऽन्यः । ६-मार्तण्डा, स्थूलोतुः-स्थूलौतुः, विम्बोष्ठः-विम्बौष्ठः, समासे किम् । तवौष्टः, शिवायों नमा, शिव एहि-शिवेहि । ६७-पटत् इति पटिति, अदिति, पटस्पटेति, पटपटदिति । ६८-दैत्यारिः, श्रीश, विष्णूदयः, अचि किम् । कुमारी शेते, अंकः किम् । हरये, ६९-होतृकार:-होतृकारः, होत्लकार-होतकार, हरेऽव, विष्णोऽव । ७-गो अग्रम् -गोऽयम् , एडन्तस्य किम् । चित्रग्वाम् , पदान्त किम् । गोः, गवाग्रम् , पदान्ते किम् । गवि, गवाक्षः, गवेन्द्रः । ०१-एहि कृष्ण ३ अत्र गौश्वरति, हरी एतौ, नित्यमिति किम् । ७२-चक्रि मन-चयन, पदान्ता इति किम् । गौयों, वाप्यचा, पार्वम् , ब्रह्म ऋषि-ब्रह्मर्षिः । ५३-आछुत्, संप्स ऋषीणाम् सप्तर्षीणाम् । ०४-अभिवादये देवदत्तोऽहम् भो, मायुप्मान भव देवदत अभिवादये गार्यहम , भो आयुष्मती भव गार्गि, भायुष्मानेधि, आयुष्मानेधि भोः ३, आयुष्मानेधीन्द्रवर्म ३ न् । ७५-आयुष्मानेधीन्द्र-पालित ३..' सक्तून्पिब देवदत्त ३, हे राम, राम है ३ । ७६-देवदत्त, देवदत्त, देवदत्त ३, . गुरोः किम् । अनृतः किम् , कृष्ण ३, सुश्लोक३ इति -सुरलोकेति, वत् किम् , अग्नी ३ इति । ७९-चिनुहि३ इति-चिनुहीति, चिनु हि । इदम्-चिनु होदम् , हरी एतो, विष्णू इमो, गङ्गे अमू, पचेते इमौ । ७८-अमी ईशा, रामकृष्णावमू आसाते, मात् किम् । अमुकेऽत्र । ७९-अस्मे इन्द्राबृहस्पती, इ इन्द्रः, उमेशः, आ एवं नु मन्यसे,
आ एवं किल तत् , ईषदुष्णम् ओष्णम् , अहो ईशाः। ८०-विष्णो इति-विष्ण इतिविष्णविति, अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् , उ इति-विति, ऊँ इति-वि: नि, किमु उक्तम्-किम्युक्तम् । ८१-सोमो गौरी अधिश्रिता, मामकी तनू इति, अर्थ..
For Private and Personal Use Only
Page #984
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
प्रयोगसूची। ग्रहणं किम् । वाप्यामश्वो वाप्यवः । ८२-दषि-दधि, अप्रगृह्यस्य किम् । अग्नी,
इत्यच्सन्धिप्रयोगाः।
अथ हलसन्धि-प्रयोगाः। : पृष्ठ ८२-हारमशेते, रामचिनोति, सच्चित्, शाजिय। ८३-विश्नः, प्रश्न, रामष्षष्ठः, रामष्टीकते, पेष्टा, तट्टीका, चक्रिण्डौकसे, षट्सन्ता, सट्ते, पदानात् किम् । इहे, टो: किम्। सर्षिष्टमम् । ८४-षण्णाम् , षण्णवतिः, षण्णगो, सन्षष्ठः, वागीशः, चिद्रपम् , एतन्मुरारि:-एतमुरारिः, चतुर्मुखः । ८५-तन्मात्रम्, चिन्मयम् , कथं तर्हि मदोदनाः ककुमन्त इति, तल्लया, विद्वांल्लिखति, उत्थानम् , उत्तम्भनम् , ८७-वाग्घरि-वा. गृहरिः, तच्छिवः-तच शिवा, तच्छ्लोकेन-तच्श्लोकेन, अमि किम् । वाक्क्षच्योतति । ८८-हरि वन्दे, पदस्येति किम् । गम्यते, यांसि, आक्रस्यते, अलि किम् । मन्यते, अङ्कितः, मशितः, कुण्ठितः, शान्तः, गुम्फितः, कुर्वन्ति । ८९-त्वराषि-त्वं करोषि, सय्यन्ता-संपन्ता, सव्वस्सर: संवत्सरः, यल्लोकम्-यलोकम् , सम्राट् , किम् झलयति-कि मलयति । ९०-किय ह्यः-कि यः, किवह्वलयति-कि हलयति, किल् हाद. यति-कि हादयति, किरहुते-किंहुते, प्राइषष्ठः-प्राङ्क्षष्ठः-प्राषष्ठः, ९१-सुगण्ट षष्ठा-सुगक्षष्ठः-सुगणषष्ठः,षट्त्सन्तः-षट्सन्तः, सन्त्सा-सन्सः, ९२-सञ्छम्भुःसञ्च्छम्भुः-सञ्चशम्भुः-सञ्शम्भुः, प्रत्यङछात्मा, सुगण्णीशः, सन्नच्युतः, ९३-सस्कर्ता-संस्स्कर्ता । ९५-पुस्कोकिल:-पुंस्कोकिला, पुंस्पुत्र:-पुंस्पुत्रा, अम्परे किम् । पुढीरम् , खयि किम् । पुंदासः, ९६-पुख्यानम् , शाङ्गिपिछन्धि-शानिपिछन्धि, च. स्त्रिायस्व-क्रिस्वायस्व, पदस्य किम् । हन्ति । अम्परें किम् । सन्सा:-खङ्गमुष्टिा, अप्रभान् किम् । प्रशान्तन्नेति । १५-वासः क्षौमम् , नपाहि-न पाहि-न: पाहि-न: पाहि-नृम्पाहि, ९८-कांस्कानू-कांस्कान्, कस्क:-कौतस्कुता, सर्पिष्कुजिका धनुष्कपालम् , स्वच्छाया, शिवच्छाया। ९९-आच्छादयति, माच्छिदत, चेच्छिपते, लक्ष्मीच्छाया-क्ष्मीछाया। इति हल्सन्धिप्रयोगाः ।
... मथ विसर्गसन्धि-प्रयोगाः।। पृष्ठ ९९-विष्णुनाता १००-क: त्सहा, धनाधनः क्षोभणः, हरियशेते-हरि शेते, रामस्थाता-रामः स्थाता,हरिस्फुरति-हरिस्फुरति, क-करोति-कः करोति, कख. नति-का खनति, कपचति-कः पचति, कफलति-कः फलति, पयस्पाशम् , यश. स्कल्पम् , यशस्कम्, यशस्काम्यति । १०१-प्रातः कल्पम्, गीः काम्यति, सर्विपाषाम् , सर्पिष्कल्पम् , सर्पिष्कम् , सर्पिष्काम्यति, नमस्करोति-नमः करोति, पुरसरोति-१०२-निष्प्रत्यूहम् , भाविष्कृतम् , दुष्कृतम् , अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति । १०३-मातुः कृपा, मुहुः कामा, तिरस्कर्ता-तिरः कर्ता, द्वि. करोसि-द्विः करोति, कृत्वोथें किम् । चतुष्कपालः । १०४-सर्पिष्करोति-सर्पिः क. रोति, धनुष्करोति-धनुः करोति, सामथें किम् । तिष्टतु सपिः, पिब त्वमुदकम् । स..
For Private and Personal Use Only
Page #985
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
परिशिष्ठेपिंकुणिका, अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । १०५-अयस्कारा, अ. यस्कामः, अयस्कंसा, अयस्कुम्भः, अयस्पात्रम् , यस्कुशा, अयस्कर्णी, अतः किम् । गीः कास, अनव्ययस्य किम् । स्वः कामः, समासे किम् । यशः करोति, अनुत्तर. पदस्थस्य किम् । परमयशः कारः, अधस्पदम्-शिरस्पदम् , अधः पदम्-शिरः पदम् , परमशिर पदम् , भास्करः । इति विसर्गसन्धिप्रयोगाः ।
अथ स्वादिसन्धि-प्रयोगाः । पृष्ठ १०७-शिवोऽयं, अत इति तपरः किम् । देवा अत्र, अतीति तपरः किम् । व आगन्ता, अप्लुतात्किम् एहि सुश्रोत :अत्र स्नाहि । १०८-अप्लुत इति किम् । तिष्ठतु पय अग्निदत्त, शिवो वन्धः, प्रातरत्र, भ्रातगच्छ । १०९-देवा इह-देवायिह, अशि किम् । देवास्सन्ति । ११०-मो अच्युतः भा यच्युता, पदान्तस्य किम् । तोयम् , स उ एकामिः, पदे किम् । तन्त्रयुतम् । १११-भो देवाः, भा लक्ष्मि, भो विद्वद्वन्द, भगो नमस्ते, अघो याहि, देवा नम्याः, देवा यान्ति, हलि किम् । देवा यिह, महरहा। ११२-अहर्गणः असुपि किम् । महोभ्याम्, अहोरूपम्, अहो रात्रिः। अहोरथन्तरम् , महपतिः, गीपतिः धूतिः । ११३-पुना रमते, हरी रम्यः, शम्भू राजते, अणः किम् । तृढः-वृढा, अजवाः, लीढः । ११५-मनोरथा, एष विष्णुः, स शम्भुः. अकोः किम् । एषको रुद्रा. अनमसमासे किम् । असशिवः, हलि किम् । एषोऽत्रा ११६-सेमामविढि प्रभृति य ईशिष, सैषदाशरथी रामा, लोपेचेदिति किम् । स इत्क्षेति, स एवमुक्त्वा , सोऽहमाजन्मशुद्धानाम् । इति स्वादिसन्धिप्रयोगाः।
मथाजन्नपुंल्लिङ्ग-प्रयोगा। पृष्ठ १२१-रामः । १२३-रामौ। १२४-रामाः, हे कतरत्कुति हे राम, हे रामौ, हे रामाः, एक ग्रहणं किम् । हे हरे, हे विष्णो । १९५-रामम् , रामौ। १२७-रामान्। १९८-तदादिग्रहणं किमर्थम्?, विधिरिति किम् । स्त्री इयती, प्रत्यये किम् । १२९-रा. मेण, रामाभ्याम् , राम, रामाय । १३०-रामाभ्याम् , रामेभ्यः, बहुवचने किम् । रामः-रामस्य, शलि किम् । रामाणाम् । १३१-सुपि किम् । पचध्वम् , रामात्-रा. मादू, रामाभ्याम् , रामेभ्यः रामस्य । १३२-रामयोः, रामाणाम् । १३३-रामे, रामयोः। १३४-रामेषु, इण्कोः किम् । रामस्य, आदेशप्रत्ययोः किम् । सुपो:-सुपिसौ-सुपिसः, अपदान्तस्य किम् । हरिस्तत्र, एवं कृष्णमुकुन्दादयः । १३५-तेन परम. सवत्रपरमभवकानिति च । १३६-सव, सर्वस । १३७-सर्वस्मात, सर्वेषाम् , सर्वस्मिनु , शेष रामवत' । एवं विश्वादयोऽन्यदन्ता, सर्वादयः पञ्चत्रिंशत्। १३८-उभ. को। १३९-उभयोऽन्यत्र । १४०-उभये। १४३-अन्तरायां पुरि, पूर्व-पूर्वाः, व्यवस्थायां किम् । दक्षिणा गाथकाः, असंज्ञायां किम् । उत्तराः कुरवः । १४३-स्वे-स्वाः, अन्तरे-अन्तरा वा गृहाः, अन्तर-अन्तरा वा शाटकाः। पूर्वस्मात-पूर्वात् , पूर्वस्मिन्
For Private and Personal Use Only
Page #986
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
७७ पूर्वे, "एवं परादीनामपि "शेषं सर्ववत् ॥१४४-स्वस्कपितामत्कपितृका1१४२-अ. तिभवकान् , १४६-सर्वाय देहि, अतिसय देहि, अतिकतरं कुलम् , अतिव, मास पूर्वाय । १४७-मासेन पूर्वाय, वर्णाश्रमेतराणाम् , १४८-वर्णाश्रमेतरे-वर्णाश्रमेतरा, वर्णाश्रमेतरकाः, प्रथमे-प्रथमा, "शेष रामवत्" । १४९-द्वितये-द्वितयाः, "शेष राम. वत नेमे-नेमाः, शेषं सर्ववत्", द्वितीयस्मै-द्वितीयाय, "एवं तृतीयः" पटुजातीयाय, निर्जरः । १५०-निर्जरसौ, निजेरसः, निर्जरसा, निर्जरसे, निर्जरसः, पक्षे हलादौ च रामवत्। १९१-निर्जरसिन्, निर्जरसात्, निर्जरस्य । निर्जरसैः, निर्जरसानिर्जरसः, १५२-पादा, पादौ, पादाः, पादम् , पादौ, पदा-पादान् , पादा-पादेनेत्यादि । १५३-दतः, दता, दयामित्यादि, मासः, माला, माभ्याम् , माभिरित्यादि ।
१९४-यूष्णः, यूष्णा । १९६-यूषभ्याम् , यूषभिः, यूषभ्य इत्यादि, यूष्णि-यूषणि, पक्षे रामवत् , ककुदोषणी, मासन्यः । १५७-द्वयह्नः, द्वयहि-बहनि, दहे, व्यकः, व्यति-व्यहनि-व्यहे, सायाह्नः, सायाह्नि-सायाहनि-सायाह्ने, १५८-विश्वपाः, विश्वपौ, विश्वपाः, गौर्यो गौय: हत्याधर्थम् । १५९-विश्वपः, विश्वपा, विश्वमाभ्यामित्यादि, एवं शमादयः , धातोः किम् । हाहान् , हाहा, हाहै, हाहाः, हाही, हाहे, शेष विश्वपावत्। क्त्वः, इनः । १६०-हरिः, हरी, हरयः, हे हरे, हरिम् , हरी हरीन् , शेषः किम् । मत्यै, हस्वौ किम् । वातप्रम्ये १६१-यू किम् । मात्रे, हरिणा, अस्त्रियां किम् । मत्या, हरये, घेः किम् । सख्ये, किति किम् । हरिभ्याम् , सुपि किम् । पटवी । १६२-हरेः २, होः, हरीणाम् , हरौ होः, हरिषु, एवं श्री, पति, अग्नि, रवि, कव्यादयः । १६३-हल्ल्याभ्यः किम् । मामणीः, दीर्घातिकम् । निष्को. शाम्बिः, अतिखटवः। १६४-सुतिसीति किम् । अभैसोत् , भक्तमिति किम् । विभर्ति, हल किम् । विभेद, प्रथमहल किम् । राजा, सखा, हे सखे । १६९-सखायौ, सखायः, सखायम् , सखायौ, सख्या, सख्ये, सख्युः, सख्यौ, शेषं हरिवत् । १६६-सुसखा, सुखायौ, सुसखायः, सुसखिना, सुसख्ये, सुसखे, सुसखौ, इत्यादि, अतिसखा, परम: सखा, परमसखायावित्यादि । १६७-अतिसखिः, हरिवत् , पत्या, पत्ये, पत्युः २, पतीनाम् , पत्यो, शेषं हरिवत् , भूपतये । १६९-कति २, कतिभिः, कतिभ्या, कतीनाम् , कतिषु । युष्मदस्मद् षट्संज्ञकास्त्रिषु सरूपाः १७०-त्रयः, त्रीन् , त्रिभिः, त्रिभ्यः २, त्रयाणाम् , परमत्रयाणाम् , प्रियत्रीणाम् , प्रियन्त्रयाणाम् , त्रिषु, द्वौ २, द्वाभ्याम् ३, द्वयोः २, विपर्यन्तानां किम् । भवान् , भवन्ता, भवन्तः । १७१-द्विः, द्वी. द्वयः, अतितिः, हरिवत्' परमद्वौ, औदुलौमिः, औडलोमी, उडुलोमाः, औडुलोमिम् , औडुलोमी, उडुलोमान्, वातप्रमीः, वातप्रम्यो, पाता प्रम्यः । १७२-हे वातप्रमीः, वातप्रमीम् , वातप्रम्यौ, वातप्रमोन् , वातप्रम्या, वातप्रमीभ्याम् ३ वातप्रम्ये, वातप्रम्यः २, वातप्रम्योः २, वातप्रम्याम् , वातप्रमी, वातप्रमीषु, ययीः, पपी:, वातप्रम्यम् , वातप्रम्यः, वातप्रम्यि, 'प्रधीवत' ।
६२बा०
For Private and Personal Use Only
Page #987
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
·
=
परिशिष्टे
सखायः,
1
,
१०३ - बहुश्रेयसी, १७४ - हे बहुश्रेयसि, बहुश्रेयसीन, बहुश्रयस्यै, बहुश्रेयस्याः, बहुक्षेयसीमाम् । १७६ - बहुश्श्रेयस्याम् शेषं वातप्रमीवत् अतिलक्ष्मीः शेषं बहुश्रेयसीव कुमारी । १५६ - कुमार्यौ । १७७ - कुमार्यः, हे कुमारि, कुमार्यम्, कुमार्थः, कुमायेँ, कुमार्याः, कुमारीणाम्, कुमार्याम्, कुमार्योः, प्रधीः, प्रध्यौ, प्रध्यः, प्रध्यम्, उनी : उन्न्यौ, उन्न्यः, हे उन्नीः, उन्न्यम्, उन्न्याम्, 'एवं ग्रामणीः' अनेकाचः किम् । मोः, नियौ, नियः, नियम, नियः । १७८- नियाम्, असंयोगपूर्वस्य किम् । सुश्रियौ, यवक्रियौ, शुद्धधियो परमधियौ, कथं तर्हि दुधियो वृश्चिकभिय इत्यादि वृश्चिक भीः । ९७९ - सुधियौ, सुधिय इत्यादि, सखीयति । १८० - सखा, सखायौ, हे सखीः सखायम्, सखायौ, खख्यः, सखी, सुखीः, सुतीः, सख्यौ, सुख्यौ, सुत्यौ, सख्युः, सुख्युः, सुत्युः, लुनीः । १८२ - क्षामीः प्रस्तीमी:, न्युः, क्षाम्पु, प्रस्तीयुः, शुष्की, पक्की, शुष्कियौ, शुष्कियः २ इत्यादि 'शम्भुहरित एवं विष्णुवायुभान्वादयः । १०३ - क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ, क्रोष्ट्न्, क्रोष्ट्रा, क्रोष्ट्रे । १८४ - क्रोष्टुः, क्रोष्टनाम्, क्रोष्टर, क्रोष्ट्रोः, पहलादौ च शम्भुक्त, हू, हूडा, हूड, हूहूम, दूहौ, हूहूनित्यादि, हे अतिचमु, अतिचम्वै, अतिचम्बाः रे, अविचमूनाम् अतिचम्वाम् खलपूः, खलप्यौ, १०१ - खलप्व इत्यादि, एवं सुब्वादयः, अनेकाचः किम् । लूः, लुवा, लुवः, धारववयवेति किम् । उल्लू, उल्ल्वौ, उल्ल्वः, असंयोगपूर्वस्य किम् । कटप्रू, कटप्रवौ, कटप्रवः, गतीत्यादि किम् । परमलुवौ, सुपि किम् । लुलुवतुः स्वभूः, स्वभुवौ, स्वभुवः, एवं स्वयम्भूः, वर्षाभ्वौ, वर्षाभ्वः, हम्भूः, हम्म्यौ हम्म्वः, हम्भूम्, म्भ्वौ, हम्भून्, 'शेषं 'हूहूवत्' । १८६-हन्भूः, हन्भ्वम्, हन्भव इत्यादि, 'खलपूवत् करभूः. करभ्वम्, करभ्वः कारभ्वम्, कारभ्वः, पुनर्भूः, पुनववित्यादि, 'हग्भूकार शब्दों स्वयम्भूवत', धाता, हे धातः, धातारौ धातारः । १७७ - घातणामित्यादि, एवं नत्रादयः, उद्गातारौ, पिता, पितरौ पितरः पितरम्, पितरौ शेषं धातृवत् पूर्व जामातृभ्रात्रादयः, ना, नरौ, नरः, हे नः, नृणाम्- नृणाम् । १८८ - को:, किरौ, किरः, ती:, तिरा तिर इत्यादि 'गीत', कः, क्रो क्रा, क्म्, कौ, कुन् का के इत्यादि, क्रौ गमा, शका । १८९ - गमलौ, गमलः, गमलम्, गमलौ, गमन, गम्ला, गम्ले, गमल, शकुल इत्यादि, से:, सयौ, सयः । १९० -स्मृतेः स्मृतयौ, स्मृतयः, गाः, गावौ गावः, अचिनवम्, असुनवम्, गाम्, गावौ गाः, गवा, गवे, गोः इत्यादि । १९१सुधौः, सुधा, सुधायः, सुधा मित्यादि, हे भानो, हे मानवः स्मृतौ स्मृतावा, स्मृ ताव:, स्मृताम्, स्मृतावौ, स्मृताः इत्यादि, रा, रायौ, रायः, रायम्, रायौ, रायः १९२ - राया, राभ्यामित्यादि, ग्लौः, ग्लावौ, ग्लावः, ग्लायम्, ग्लावौ, ग्लावः - इत्यादि ।
"
,
इत्यजन्त पुंल्लिङ्ग प्रयोगाः ।
•
For Private and Personal Use Only
Page #988
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची । अथ अजन्तस्त्रीलिङ्ग-प्रयोगाः ।
पृष्ठ १९२ - २मा । १९१ - रमे, रमाः, हे रमे, हे रमे, हे रमाः, रमाम्, रमे, रमाः, रमया, रमाभ्याम्, रमाभिः, रमायै, रमायाः २, रमयोः, रमाणाम्, रमायाम्, रमयो:, रमासु, 'एवं दुर्गादय:' । १९४ - सर्वस्यै, सर्वस्याः २, सर्वासाम्, सर्वस्याम्, सर्वयोः, सर्वासु; ' एवं विश्वादयः', उत्तरपूर्वस्यै- उत्तरपूर्वायें । १९१ - उत्तरपूर्वायै अनन्तरस्यै । शालायै, अन्तरायै नगय, द्वितीयस्यै द्वितीयाये, द्वितीयस्याः द्वितीयायाः, द्वितीयस्याम्द्वितीयायाम्, 'शेषं रमावत्' एवं तृतीया, हे अम्ब, हे अक्क, हे अल्ल । १९६ - हे अम्बाडे, हे अम्बाले, हे अम्बिके, जरा, जरसौ, जरसामित्यादि । १९७ - जरसी । १९८अतिखट्वः, निष्कौशाम्बिः, अतिखट्वाय । १९९-नसः, नसा, नोभ्यामित्यादि, निशः, निशा । २०० - निड्भ्याम्, निभिः, निट्त्सु निट्सु, निज्भ्याम्, निज्भिः, निच्शु निच्छु । २०१ - पृतः, पृता, वृद्धयाम् गोपा विश्वपावत् मतिः प्रायेण हरिवत्, मतीः, मत्या | २०२ - मत्यै-मतये, मतयाः - मतेः २, मत्याम्-मतौ, एवं श्रुतिस्मृत्या• दयः, तिस्रः २, तिसृभिः, तिसृभ्यः । २०३ - तिसृणाम्, तिसृषु, प्रियत्रिमेतिवत्, प्रियत्रयाणाम्, प्रियतिसा, प्रियतित्रौ, प्रियतिस्रः प्रियतिस्त्रमित्यादि, प्रियत्रि, प्रियतिसृ, प्रियतिसृणी, प्रियतिस्मणि । २०४ - प्रियतिसृणा, प्रियतिता इत्यादि, द्वे २, द्वाभ्याम् ३ । २०५ - द्वयोः २, गौरी, गौर्यो, गौर्यः, हे गौरि, गौयें- इत्यादि, एवं वा
1
3
६६
,
,
1
नद्यादयः', सखी, सख्यौ, सख्यः, लक्ष्मी', 'शेषं गौरीवत्, एवन्तरीतन्त्र्यादयः, स्त्री, देखि, त्रियौ, स्त्रियः । २०६ - स्त्रियम् - स्त्रीम् स्त्रियौ खियः - स्त्रीः स्त्रिया, खिये, स्त्रियाः २, स्त्रियोः स्त्रीणाम्, स्त्रियाम् स्त्रियोः स्त्रीषु, अतिस्तिः, अतिथियौ, अतिस्त्रियः, हे अतिछे, हे अतिथियौ, हे अतिस्त्रियः, अतिस्त्रियम् - अतिस्त्रीम्, अतिस्त्रियौ, अतिस्त्रियः - अतिस्त्रीनू, अतित्रिणा । २०७ - अतिस्त्रये, अतिखेः, २, अतिस्त्रियोः २, अतिस्त्रीणाम, अतिaौ । अतिखि, अतित्रिणी, अतिस्त्रीणि, अतिखिणा, 'अतित्रिणे, अतिस्त्रिये - अतिस्त्रिणे, अतिस्खे:- अतिस्त्रिणः २, अतिस्रयोः - अतिस्त्रिणोः इत्यादि । २०८-अतिस्त्रीः, अतिखिया, अतिखियें - अतित्रिये, अतिस्त्रिया:- अतिस्खे:२, अतिस्त्रीणाम्, अतिस्त्रियाम् प्रतिखौ श्रीः, श्रिया, श्रियः । २०९ हे श्री श्रियम्, थियौ, श्रियः, श्रियै- श्रिये, श्रियाः श्रियः, श्रीणाम् श्रियाम् श्रियाम् श्रियि । २१० - प्रध्यम्, प्रध्यः सुधीः श्रीवत्, सुष्ठुधीरिति श्रीवदेव, ग्रामणीः पुंवत् । २११एवं खलपवनादेरपि धेनुर्मतिवत्, क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रयः, वधूगौरीवत्, भूः श्रीवत्, हे सुभ्रूः, खलपूः पुंवत्, पुनर्भूः । २१२ - हे पुनर्भु, पुनर्श्वम्, पुनर्ध्वो, पुनः, पुनर्भूणाम्, वर्षाभू हे वर्षाभू हे वर्षा । २१३ वर्षाभ्वौ, वर्षाभ्वः, स्वयम्भूः पुंवत, स्वसा, स्वसारौ, स्वसारः, माता पितृवत्, मातृः चौगवत, राः पुंवत्, २१४- नौवित् ।
इस्यजन्त स्त्रीलिङ्गप्रयोगाः ।
For Private and Personal Use Only
Page #989
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे
अथाजन्तनपुंसकलिङ्ग-प्रयोगाः ।
पृष्ठ २१४- ज्ञानम्, हे ज्ञान । २१० - ज्ञाने, २१६ - ज्ञानानि शेषं रामवत् एवं धनवनफलादयः कतरत्- कतरद्, कतरे, कतराणि, भस्येति किम् । पञ्चमः, हे कतरत, शेषं पुंवत् कतकत इतरत, अन्यत, अन्यतरत्, अन्यतमम् । २१७- एकतरम्, अजरम्, अजरसी, अजरे, अजरांसि अजराणि । ११८ - अजरसम्- अजरम्, अजरसी- अजरे, अजरांसि - अजराणि, शेषं पुंवत, हन्दि, हृदा, हृदयामित्यादि, उदानि, उन्दा, उद्भ्यामित्यादि, आसान, आस्ना, आसभ्यामित्यादि, मांस, मांसा, मान्भ्यामित्यादि । २२०- श्रीपं ज्ञानवत्, श्रीपाय । २२१- वारि, वारिणी, वारीणि, हे वारे - हे वारि, वारिणोः, २२२ - वारिणे, वारिण, वारिणोः, वारीणाम्, वारिणि, चारिणाः, हलादौ हरिवत्, अनादये, अनादिने इत्यादि, शेषं वारिवत्। २२३- पीलुने, दना, दने, दधनः, दनोः २, दधिन-दधनि शेषं वारिवत, एवमस्थिसक्स्थ्यक्षीणि, अतिमा, सुधि, सुधिनी, सुधीनि, हे सुधे हे सुधि, सुधिया सुधिना, सुधियाम्-सुधीनाम्, प्रध्या-प्रधिना, मधु, मधुनों, मधूनि हे मधो-हे मधु एवम्वादयः । २२४ - स्नूनि - सानूनि प्रियक्रोष्टु, भियक्रोष्टुनी, प्रियक्रोष्टूनि प्रियक्रोष्ट्रा- प्रियक्रोष्टुना, प्रियक्रोष्टे - प्रियक्रोटवे, प्रियक्रोटना, प्रियकोष्टुने, प्रियक्रोष्टूनाम्, सुलु, सुलुनी, सुलूनि, सुल्वा सुलुना, २२५ - धातृ, धातृणी, धातृणि, हे धातः हे धातृ, धात्रा, धातृणा, एवं ज्ञातृकर्त्रादयः, प्रद्यु, प्रधुनी, प्रधूनि, प्रद्युनेत्यादि । २२६ - प्ररि, प्ररिणी, प्ररीणि, प्ररिणा, प्रराभ्याम्, प्रराभिः प्ररीणाम्, प्ररीणाम्, सुनु, सुनुनी, सुनून, सुनुना, सुने - इत्यादि । इत्यजन्तनपुंसकलिङ्गप्रयोगाः ।
अय हलन्तपुल्लिङ्गप्रयोगाः ।
•
पृष्ठ २२७ - लिट् - लिहू, लिहौ, लिहा, लिहम्, लिहा, लिड्भ्याम्, लिट्त्सुलिट्सु, उपदेशे किम् । अधोग्, १२२ - दामलिट्, गर्धपू, २२९ - दुग्धम्, दोग्धा, धुक-धुग, दुहौ, दुहः, धुक्षु, ध्रुक् - ध्रुग्-घट्-ध्रुड्, दुहौ, द्रुहः, २३०- ध्रुग्भ्याम् - धुड्भ्याम्, ध्रुक्षु ध्रुटत् सु- ध्रुट्स, एवं मुहष्णुहष्णिहाम्, २३१ - विश्वौहः, विश्वाहत्यादि । २३३- अनड्वान्, हे अनड्वन्, अनड्वाहौ, अगड्वाहः, अनडुहः । अनडुहा, अनडुयामित्यादि, सान्तेति किम् । विद्वान पदान्ते इति किम् । स्रस्तम्- ध्वस्तम्, २३४- तुराषाट् सुराषाढ, तुरासाही, तुरासाहः तुराषाड्भ्यामित्यादि । २३५ - सुधौः, सुदिवौ सुदिवः, सुदिवम्, सुदिवौ, सुद्युभ्याम्, सुधुभिः, चत्वारः, चतुरः, चतुभिः, चतुर्भ्यः २, चतुर्णाम् । २३६ - चतुर्षु, प्रियचत्वाः, हे प्रियचत्वः, प्रियचत्वारौ, प्रियचत्वारा, प्रियचतुराम्, परमचतुर्णाम्, कमल, कमलौ, कमल:, कमलषु, २३७ - प्रशान् प्रशामौ, प्रशामः, प्रशान्भ्यामित्यादि । २३८ - कः, कौ, के, कम्, कौ, कानू शेषं सर्ववत्, अयम्, इमा, इमे, २२९-अनेन । २४० - आभ्याम् एभि:, अस्म, आभ्याम्,
For Private and Personal Use Only
Page #990
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। एभ्यः, अस्मात् , आभ्याम् , एम्या, अस्य, अनयोः, एषाम् , अस्मिन् , अनयोः, एषुअयकम् , हमको, इमके, इमकम् , इमको, इमकान् , इमकेन, इमकाभ्याम् , इत्यादि।२४१-एनम् , एनौ, एनान् , एनेन, एनयोः, सुगण , सुगणौ, सुगणः, सुगणसुसुषणसु-सुगणसु। २४२-सुगाण , सुगाणी, सुगाणः, सुगाणट्सु-सुगाणठसु. सुगाणसु, राजा, हे राजन् , परमेव्योमन् , २४३-चमतिला, ब्रह्मनिष्टः, राजानी, राजानः, राजानम् , राजाना, २४४-राज्ञः, राज्ञा, राजभ्याम्, २४५-राजभिा, राज्ञे, राजभ्याम् , राजभ्यः, राज्ञः, राज्ञोः राज्ञाम् , राज्ञि-राजनि। २४६-प्रतिदिवा, प्रतिदिवानी, प्रतिदिवानः, प्रतिदीनः, प्रतिदीम्नेत्यादि, यज्वा, यज्वानी, यज्वानः, यज्वनः, यज्वना, यज्वभ्यामित्यादि, ब्रह्मणः, ब्रह्मणा, ब्रह्मभ्यामित्यादि, २४७-वृत्रहा, हे वृत्रहन् , वृत्रहणी, वृत्रहणः, वृत्रहणम् , वृत्रहणौ, प्रहण्यात् , २४८-प्रघ्नन्ति, वृत्रहना, वृत्रना-इत्यादि, एवं शान्यिशस्विार्थमन्पूषन् , अर्यम्णि, अर्यमणि, पूष्णि-पुष. णि । २५०-मघवान् , मघवन्तौ, मघवन्तः, २५१-हे मघवन् , मघवन्तम् , मघावन्तौ मघवन्तः, मघवता, मघवद्यामित्यादि, मघवा, मघवामी, मघवानः, सुटि राजवत। २१५-मघोना, अनन्तानां किम् , मघवतः, मववता, मघवती, अतद्धिते किम् । मा. घवनम् , मघोना, मघवम्यामित्यादि, शुनः, शुना, श्वभ्यामित्यादि । २५३-यूनः, यूना, युवभ्यामित्यादि, अर्वा, हे अर्वन् , अर्वन्तौ, अर्धन्तः, अर्वन्तम् , अर्वन्तौ, अवतः, अवंता, अर्वजयामित्यादि, अननः किम् । मनर्वा यज्ववत् । २०४-पन्था, पन्थानौ, पन्थानः, पन्थानम् , पन्थानौ । २१५-पथः, पथा, पथिभ्यामित्यादि, एवं मन्थाः, मुक्षाः, 'सुपथी, सुमथी, अनुभुक्षी सेना । २९६-सुपथि हे सुपथिन्हे सुपथि, सुपथी, सुपन्थानि, सुपथि, सुपथी, सुपन्थानि, सुपथा, सुपये, सुपथिभ्या. मित्यादि, पञ्च २, सल्या किम् । विशुषः, पामाना, शतानि सहस्राणि, २६५-पञ्चमिः, पश्चभ्यः २ , पनानाम् ; पञ्चसु, परमपञ्च, परमपश्चानाम् , प्रियपञ्चा, प्रियपञ्चानौ, प्रियपञ्चानः, प्रियपश्चाम् , एवं सप्तन् नवन् दशन्। २५८-अष्टो २ परमाष्टौ, अष्टा. मिः, अष्टाभ्यः २ , अष्टानाम् , मष्टासु, मष्ट, अष्ट, शेषं पञ्चवत् , गौणत्वे राजवत् , २९९-प्रियाष्ट्नः, प्रियाष्टना-इत्यादि। २६०-प्रियाष्टाः प्रियाष्टाभ्याम् , प्रियाष्टाभिः, प्रियाष्टाभ्यः २ , प्रियाष्टासु, भूत-भु , बुधौ, बुधः, बुधा, भुदयाम् , भुत्सु । २६२-युङ, युऔ, युजः, युजम् , युऔ, युजः, युजा, युग्भ्यामित्यादि । २६३-अस. मासे किम् । सुयुक्-सुयुम्, सुयुजौ, सुयुजा, खन् , खो, खलः, राट्-राड, राजौ, राजा, रासु-राट्सु, एवं विभ्राट् । २६४-देवेट , देषेजी, देवेजः, विश्वसनविश्वसृड् , विश्वसजी, विश्वसृजः, परिमृट् , विभ्राक्-विभ्राग , विभ्राग्भ्यामित्या. दि, परिपाट् , परिवाजा, परिबाज, विश्वराट-विश्वाराड । २६६. विश्वराजौ, वि. श्वराजः विश्वराड्म्यामित्यादि, भृट्-भृत् , भृज्जा, भृज्जा, २३६-ऋत्विक-. त्विम् , ऋत्विजा, ऋत्विजः, ऊर्क-ऊर्ग, ऊर्जी, ऊर्जः, स्या, स्यौ, त्ये, त्यम् , त्यो,
For Private and Personal Use Only
Page #991
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम२
परिशिष्टेत्यान् , सा, तो, ते, परमसा, परमतौ परमते, स्वम् , अतित्वमिति । २६७-त्यद, त्यदा, त्यदा. अतित्यद् , अतित्यदा, अतित्यदः, यः, यौ, ये, एषः, एतौ, एते, एनम्, एनौ, एनान् , एनेन, एनयोः ।। २६८-त्वम् , अहम् । ३६९-परमत्वम् , परमाहम् , अतित्वम् , अत्यहम् , २७०-युवाम् , आवाम् , भाषायां किम् । 'युवं वस्त्राणि, सपर्यन्तस्य किम् । युवकाम् , आवकाम् । २७१-यूयम् , वयम् , परमयूयम् , परम. चयम् , अतियूयम् , अतिवयम् । २९२-त्वाम्, माम् , युवाम् , आवाम् , युष्मान् , अस्मान । २०३-त्वया, मया, युवाभ्याम् , आवाभ्याम् , युप्माभिः, अस्माभिः, तुभ्यम् , मह्यम् , परमतुभ्यम् , परममह्यम् , अतितुभ्यम् अतिमह्यम् , युवाभ्याम् , आवाभ्याम् । ३७४-युष्मभ्यम् , अस्मभ्यम् , त्वत् , मत् , युवाभ्याम् , आवाभ्याम् , युष्मत् , अस्मत् तव, मम, युवयोः, आवयोः । २८५-युष्माकम् , अस्माकम् , त्वयि, मयि, युवयोः, आवयोः, युष्मासु, अस्मासु । २७७-अतित्वम् , अत्यहम् , अतित्वाम् , अतिमाम् , अतियूयम् , अतिवयम् , अतित्वाम् ३, अतिमाम् २, अतित्वान् , अतिमान्, अतित्वया, अतिमया, अतित्वाभ्याम् , अतिमाभ्याम् २, अतित्वाभिः, अतिमाभिः, अतितुभ्यम् , अतिमह्यम्, अतिस्वभ्यम, अतिमभ्यम् , अतित्वत् २, अतिमत् , अतितव, अतिमम, २७४अतित्वयोः २, अतिमयोः २, अतित्वाकम् , अतिमाकम् , अतित्वयि, अतिमयि, अतित्वासु, अतिमासु । अतियुवाम् ३, अत्यावाम् ३, अतियुवान् , अत्याचान् , अतियुवया, अत्यावया, अतियुवाभ्याम् ३, अत्यावाभ्याम् ३, अतियुवा. भिः अत्यावाभिः, अतियुवभ्यम् , अत्यावभ्यम् , अतियुवत् २ अत्यावत् २ अ. तियुवयोः २, अत्यावयोः २, अतियुवाकम् , अत्यावाकम् , अतियुवयि, अत्या. चयि, अतियुवासु, अत्यावासु । अतियुष्माम् ३, अत्यस्माम् ३, अतियुष्मान् , अत्यस्मान, अतियुष्मया, अत्यस्मया, २७९-अतियुष्माभ्याम् ३, अत्यस्मा. भ्याम् ३, अतियुष्माभिः, अत्यस्माभि, अतियुष्मभ्यम् , अत्यस्मभ्यम् , अति. युष्मत, अत्यस्मत् , अतियुष्मयोः २, अत्यस्मयोः२ अतियुष्माकम् , अत्यस्मा. कम् , अतियुष्मयि, अत्यस्मयि, अतियुष्मासु, अत्यस्मासु, २८०-पदात्परयोः किम्, त्वां मातु, मां पातु, अपादादौ किम् वेदैरशेषै०, २८१-इतियुष्मत्पुत्रो ब्रीति. इत्यस्मत्पुत्रो अवीति, ओदनं पच तव भविष्यति, शालीन ते ओदनं दास्यामीति, धाताते भक्तोऽस्ति-धाता तव भक्तोऽस्तीति वा, तस्मै ते नम इत्येव, २८२-हरिस्त्वां मा च रक्षतु, कथं त्वां मां वा न रक्षेदित्यादि, हरो हरिश्च मे स्वामी, चेतसा त्वां समी. क्षते, भक्तस्तव रूपं ध्यायति, भक्तस्त्वा पश्यति चक्षुषा, २८३-भक्तस्त्वमप्यहं तेन हरिस्त्वां, त्रायते स माम, त्वा मेति वा, अग्ने तव, देवास्मान्पाहि, अग्ने नय, अन इन्द्र वरुणः, २८४-सर्वदा रक्ष देव न, २८५-यू प्रभवः, देवाः शरण्याः , युष्मान्भजे, वो भजे इति वा । सुपात्-सुपादू , सुपादौ, सुपादः, सुगदम् , सुपादौ, सुपा, सुपदा,
For Private and Personal Use Only
Page #992
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
8८३ सुपाड्यामित्यादि, अग्निमत्-अग्निमद् , अग्निमयौ, अग्निमथा, भग्निमद्भयामि त्यादि, २८६-प्राइ, प्राञ्चौ, प्राचः प्राश्वम्, प्राचौ, प्राचः, प्राचा, प्राग्भ्यामित्यादि, प्रत्यङ, प्रत्यचौ, प्रत्यक्षा, प्रत्यञ्चम् , प्रत्यचौ, २८७-प्रतीचः प्रतीचा, २८८-अमु. मुया, अमुमुयशो, अमुमुयञ्चः, अमुमुयन्वम् , अमुमुयम्ची, अमुमुईचः, म मुमुईचा, अमुमुयग्भ्यामित्यादि. २८९-अदमुया, अदद्या, विष्वरदेवयोः किम् । अश्वाची, अञ्चतो किम् । विष्यग्युक, वप्रत्यये किम् । विष्वगम्चनम् , अयस्कारः, उदछ, उदञ्चौ, २९०-उदश्चः, उदीचः, उदीचा, उदग्भ्यामित्यादि, सम्यङ, सम्यन्चौ, सम्यञ्चा, समीचः, समीचा, सध्यछ, तिर्य, तियेचौ, वियंञ्चः, तिर्यञ्चम् , तियञ्चौ, तिरश्चः, तिरश्चा, तिर्थग्भ्यामित्यादि, प्राङ्, प्राञ्चौ, प्राचः, २९१-प्राञ्चा, प्रान्चा, प्राइभ्याम् , प्राइक्षु-प्रारूषु, एवं पूजार्थे प्रत्यङ्ङादयः, क्रुङ, ऋञ्चो, कुचः, कुरुभ्यामित्यादि, पयोमुक्-पयोमुग् , पयोमुचौ, पयोमुचः, २९१-सुवृटसुवृह, सुवृक्षौ, सुवृश्चः, सुवृट्सु-सुवृत्सु, महान् , महान्तौ, महान्तः, हे महन् , महता, महता, महजयामित्यादि, धीमान् , धीमन्तो, धीमन्तः, हे धीमन् , २९३गोमान्, गोमन्तौ, २९४-गोमन्त इत्यादि, भवान् , भान्तो, भवन्तः, भवन् , ददत्-दददू , २९५-वदतो, ददतः, जक्षत्-जादू, जक्षतो, जक्षतः, एवं जाग्रत्-दरिदत्-शाशत्-चकारशव, दीध्यत्, व्यत् , गुप-गुब् , गुपौ, गुमः, गुरुभ्यामित्यादि, २९६-तारक-ताहग, ताहशी, ताहः, २९.-विट-विड्, विशौ. विशः, विशम् , नक-नग, नट-नन् , नशो, नशः, नरभ्याम्-नड्भ्यामित्यादि, घृतपक-घृतस्पर , घृतस्पृशो, घृतस्पृशः, स्पृक , २९८-दएक-दग् , दषौ, दषः, दरम्यामित्यादि, रस्नमुट-रस्नमुन, रत्नमुषौ, रत्नमुषः षट्-षड्, षड्मिः , षड्भ्यः ३, षण्णाम् , षट्त्सु, षट्सु परमषट्, परमषण्णाम् , प्रियषषः, प्रियषषाम् , २९९-पिपठीः, पिपठिषौ, पिपठिषः, पिपठीभ्याम् , पिपठीपु-पीपठीःषु, निस्व, ३००-निस्से, सुहि. न्सु, पुंस, चिकीः, चिकीर्षों, चिकीर्षः, चिकीर्षु, दोः, दोषौ, दोषः, दोषन् , ३०१दोष्णा, पोष्णा, दोषा, दोषा, विवि-विविद विविक्षो. विविक्षः, तट-तड् , तक्षौ, तक्षः. गोर -गोरद, गोरक्षौ, गारक्षः, ३०२-तक्-ता. गोर-गोरग, पिपक्पिपग , ए६ विवक , विधक , सुपीः, सुपिसो, सुपिसः, सुपिसा, सुपीाम, सुपीःसुपीष्प, एवं सुतः, विद्वान्, विद्वांसो, विद्वांसः हे विद्वन, विद्वांसम् , विद्वांसो, विदुषः, विदुषा, ३०३-विनयामित्यादि, सेदिवान् , सेदिवासी, सेदिवांसः, सेदिवां. सम् , सेदुषा, सेदुषा, सेदिवद्यामित्यादि, ३०४-सुहिन् , सुहिंसौ सुहिंसः, साह. भ्याम् , सुहिन्त्सु-सुहिन्सु, ध्वत-ध्वद् , ध्वसौ, ध्वसः, ध्वद्भयाम् , एवं सत्, बहुपुंसी-इत्यत्र, ३०५-पुमान्, हे पुमन् , पुमांसौ, पुमांसः पुंसः, पुंसा, धूभ्याम् ,
भिा, पुसि, पुंसु. उशना, उशनसौ, उशनसः हे उशनन्-हे उशन-हे उशनः, उशनो. भ्यामित्यादि. ३०६-अनेहा, अनेहसौ, मनेहसः, हे अनेहः, अनेहोभ्यामित्यादि,
For Private and Personal Use Only
Page #993
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
परिशिष्टेवेधाः, वेधसा, बेधसः, हे वेधः, बेधोभ्यामित्यादि, सुवः सुवसौ, सुवसः, पिण्डयः पिण्डग्लः, असौ, ३०४-असको, असुकः, अमू, अमी. अमुम् , अमू, अमून, ३०८-अमुना, अमूभ्याम् ३, अमीभिः, अमुष्मै, अमोभ्या, अमुष्मात , अमुष्य, अमुयोः, अमीषाम् , अमुष्मिन्, अमुयोः, अमीषु । इति हलन्तपुंल्लिङ्गप्रयोगाः ।
अथ हलन्तस्त्रीलिङ्गप्रयोगाः। पृष्ठ ३०९-उपानत्-उपानद् . उपानही, उपानहः, उपानद्याम् , उपानत्सु, उष्णिक-उष्णिम् , ३१९-उष्णिहौ, उष्णिहः, उष्णिग्भ्याम् , उष्णिक्षु, चौः, दिवा, दिवः, गी, गिरौ, गिरः, एवं पू:, चतस्नः २ . चतसृणाम् , का, के, काः, शेषं सर्वावत् , ३१२-इयम् , इमे, इमाः, इमाम् , इमे, इमाः, अनया, आभ्याम् ३, आभिः, अस्यै, अस्याः, अनयोः २, आसाम् , अस्याम् , आसु, एनाम् , एने, एनाः, एनया, एनयोः २, ३१२-त्रक-स्रग , स्त्रजौ, सजा, स्नग्भ्याम् , सक्षु, स्या, स्ये, त्याः, एवं तद् , यद् , एतद् , वाक्-वाग , वाचौ, वाचः, वाग्भ्याम् , वाक्षु आ. पः, अपः. अभिः अन्यः २ , अपाम् , अप्सु, दिक-दिग, दिशौ, दिशः, दिग्भ्याम् , दिक्षु, दृक- हग , ३१३-दृशौ, दृशः, स्विट-त्विड् , त्विषौ, त्विषः, विड्म्याम् , त्विसु-त्विटसु, सर्जू, सजुषौ, सजुषः, सजूाम् , सजूष्षु-सज़ापु, आशीः, आ. शिषा, आशिषः, आशीभ्याम् , अलौ, अम , अमूः, अमूम् , अमू , अमूः, अमु. या, अमूभ्याम् , अमूभिः, अमुष्ण, अमुभ्याम् २ , अमूभ्यः, अमूष्या:२, अमु. योः २, अमूषाम् , अमूष्याम , ३१४-अमुयोः,अमूषु , इति हलन्तस्त्रीलिङ्गप्रयोगाः ।
अथ हलन्तनपुंसकलिङ्गप्रयोगा। - पृष्ठ ३१५-स्वनडुत्-स्वनहद् , स्वनदुही, स्वनवाहि, शेष पुंवत , विमलघुः, ३१५-विमलदिवी, विमलदिवि, अपदादिविधौ किम । दधिसेचौ, ३१६-वाः, वारी, वारि, चत्वारि, किम् . के, कानि, इदम् , इमे, इमानि, एनत् , एने, एनानि, एनेन एनयोः २ , ब्रह्म, ब्रह्मणी, ब्रह्माणि, ३१७-हे ब्रह्मन्-हे ब्रह्म, अहभाति, अह्नी-अहनीअहानि, अहोभ्याम् , महोभिः, दीर्घाहा निदाघः, ३१८-हे दीर्घाहो दीर्घाहानौ, दीर्घाहानः, दीर्घाता, दीर्घाहोभ्याम् , दण्डि, दण्डिनी, दण्डीनि, त्रग्वि, स्रग्विणो, संग्वीणि, वाग्मि, वाग्मिनी, वाग्मीनि, बहुवृत्रह, बहुवृत्रघ्नी-बहुवृत्रहणी । बहु. वृत्रहाणि, बहुपूष, बहुपूषणी, बहुपूषाणि, बह्वर्य, बह्वयंम्णी, बह्वर्यमाण,३१९-अमुक
सृग . ३००-असूजी, असृषि, असन् , असानि, असृजा, अस्ना, असग्भ्याम , असभ्यामित्यादि, ऊक-ऊर्ग, ऊर्जी, अजि, बहूजि-वहूनि वा कुलानि, त्यत-त्यद् , त्ये, स्यानि, तत्-तलू , ते, तानि, यत्-ग्द , ये, यानि, एतत्-एदद् , एते, एतानि, एनत् , वेभित्-वेभिद , वेभिदो, ३२१ मिदि ब्राह्मणकुलानि, चेच्छि. दि। ३२२-गवाक्-यवाग, गोअक्-गोअग, गोऽक्-गोऽग , गवाङ्, गोअङ्, गोड, ३२१-गोची-गवाडी-गोमची-गोऽची, गवाशि-गोमञ्चि-गोलि, गोचा
For Private and Personal Use Only
Page #994
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूत्री |
५
,
गवाक्षा- गोअञ्चा गोडवा, गवाग्भ्याम् गोभ्याम् गोस्वाम्, गवाम्याम्मोअभ्याम् गोभ्याम् इत्यादि, गवाक्षु-गो मधु-गोडब्लु, गावड्पु गोअडषु - गोऽषु, गवाक्षु - गोअक्षु-गोऽक्षु, ३२६ - तिर्यक् तिरश्ची, तिर्यञ्च तिर्यङ, तिर्यञ्ची, तिर्यञ्च, ३२७- यकृत, यकृती, यकृन्ति, यकन, यकानि, यक्नो, यकृता, शकृत्, शकृती, शकुन्ति, शकानि शक्ना- शत्रुता ददत, ददती, ददन्ति-दइति, तुदत्, ३२८ - तुदन्ती-तुदती, तुदन्ति, भात, भान्ती-माती-भान्ति, पचत, पचन्ती पचन्ति दीव्यत्, दीव्यन्ती, दीव्यन्ति, स्वप्-स्वब्, स्वपी, १ ३२९ - चापि स्वम्पि, स्वपा, स्वद्भयाम्, स्वद्भिः धनुः, धनुषी, धनुषि, धनुषा धनुर्भ्याम् एवं चक्षुर्हविरादयः, पिपठीः, विपठिषी, पिपठिषि, पिपठीयमित्यादि, पयः पयसी, पर्यास ३३० - पयला पयोभ्यामित्यादि, सुपुम्, सुपुंसी, सुपुमांस, अदः, अमु, अमूनि शेषं, पुंवत, इति हलन्तनपुंसकलिङ्गप्रयोगाः ।
9
अथाव्य-यप्रयोगाः ।
1
पृष्ठ ३३०-स्वर्, अन्तर, प्रातर् पुनर, सनुतर् ३३१ - उच्चैस्, नीचैस्, शनैस्, ऋधक, ऋते, युगपत्, आशत् पृथक, ह्यस्, श्वत्, दिवा, रात्रौ सायम्, चिरम्, मना, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामिवत्, बाह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वग्टू, श्रौषट्, वौषट् अन्यत, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, सुधा, पुरा, मिथो, मिथस् । ३३२ - प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अम्, आम्, प्रताम्, प्रशाम्, प्रतानू, मा, माहू, च, वा, ह, अह. ३३३-एव, एवम् नूनम्, शश्वत्, युगपत् भूयस्, कूपत् सूपत, कुवित्, नेत चेत्, च, कश्चित् किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, नाकिम्, माहू, नघ् यावत् तावत्, स्वै, है, न्वै रै, श्रौषट् वौषट् स्वाहा, स्वधा, वषट्, ओम्, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह, अवदत्तम् । ३१४- अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, है, भोः, अये, द्य, विषु, एकपदे, युत्, अतः ! ३३५ पचति कल्पम्, पचति रूपम्, हमारं स्मारम्, जीवसे, पिबध्यै । ३३६ - कृत्वा, उदेतो, विसुपः, अधिहरि तत्रशालायाम्, अत्युच्चैसौ । ३३२ - वगाहः, अवगाहः पिधानम्, अपिधानम्, इत्यव्ययप्रयोगाः ।
•
"
"
अथ स्त्रीप्रत्यय-प्रयोगाः ।
9
For Private and Personal Use Only
1
पृष्ठ ३४०-अजा, खटचा, पञ्चाजी, ३४१- अजा, एडका, अश्वा, चटका, मूषिका, बाला, वत्सा, होढा, मन्दा, विलाता, सम्फला, भत्रफला, सत्पुष्पा, प्राक्पुष्पा, प्रत्य
Page #995
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेक्पुष्पा, शुद्रा। ३४२-शूद्री, अमहत्पूर्वाकिम् । महारादी, क्रुचा, उष्णिहा, देववि ज्येष्ठा, कनिष्टा, मध्यमा, कोकिला, अमूला । ३४३-की, दण्डिनी, भवती, पचन्ती, दीव्यन्ती, उखानत्, ३४४-पर्णधवत् प्राची, प्रतीची, अतिसुत्वरी अतिधीवरी, पार्वरी। ३४५-अवावा ब्राह्मणी, राजयुध्वा, बहुधीवरी, बहुधावा । ३४६-द्विपदी, द्विपात्, द्विपदा ऋक्, एकपदा, पक्ष, चतस्रः । ३४७-सीमा, सीमानौ, वहुयज्वा, बहुयज्वानो, सीमा, सीमे, सीमानौ, दामा, दामे, दामानौ। ३४८-बहुयज्वा बहु. यज्वे, बहुयज्वानो, बहुराज्ञी, बहुराश्यौ, बहुराजे, बहुराजानौ, सर्विका, कारिका, ३४९-अतः किम् । नौका, प्रत्ययस्थात्किम् । शका, असुपः किम् । बहुपरिव्राजका. नगरी, कात्किम्) नन्दना, पूर्वस्य किम् । कटुका, तपरः किम् । राका, आपि किम् । कारकः । ३५०-मामिका, नरिका, दाक्षिणात्यिका, इहत्यिका, यका, सका, यकाम् , तकाम् । ३११-अधित्यका, उपत्यका, जीवका, भवका, देवदत्तिका, देवका, क्षिपका, ध्रुवका, कन्यका, चटका, तारका, तारिका वर्णका । ३५२-वर्णिका, वर्तका, वर्तिका, अष्टका, अष्टिका, पुत्रिका, पुत्रका । ३५३-सूतिका, सूतका, वृन्दारिका, वृन्दारका, आर्यका, आयिका, चटकका, चटकिका, अतः किम् । शाङ्गायिका, ३६४-यकेति कि. म् । अश्विका, स्त्री प्रत्यये किम् । शुभंयिका, सुनयिका, सुपाकिका । ३९६-अनेषका, परमेषका, अद्वके, परमद्वके, ३६८-स्विका, परमस्विका, निमस्त्रका । एषका एषिका, एतिके, एतका, अजका, अजिका, सका, ज्ञिका, द्विके, दूके,निः स्वका, निः स्विका । ३५९-गङ्गका गङ्गिका, अखट्विका,गङ्गाका, शुभ्रिका । ३६०-कुरुची, नहट-नदी,बहु. कुरुचरा वक्ष्यमाणा । ३६२-सौपर्णेयी, ऐन्द्रो, औत्सो, उरुद्वयसी, उरुदनी, उरुमात्री। ३६३-पञ्चतयो, आक्षिकी, लावणिकी, यादृशी, इत्वरी, चौरी, बैणी, पौत्री पाक्तीकी, आढयङ्करणो, तरुणी-तलुनी । ३६४-गार्गी लैप्या। ३६५-दैव्या । १६६ गाायणी, लौहित्यायनी,कात्यायनी, कौरव्यायणी, माण्डूकायनी, आसुरायणी। ३६७-कुमारी, वधूटी, चिरण्टी, अतः किम् । शिशुः, त्रिलोकी, त्रिफला अनीका सेना, ६६८-पञ्चाया, द्विबिस्ता, व्याचिता, द्विकम्बल्या। ३६९-व्याढकी, तद्धितलुकि किम् । पञ्चाश्वी, द्विकाण्डा क्षेत्रभक्तिः क्षेत्रे किम् । द्विकाण्डी रज्जुः । ३७०-द्विपुरुषी, द्विपुरुषा । ३७१-कुण्डोध्नी, स्त्रियां किम् । कुण्डाधो धेनुकम् , न्यूनी, अत्यूध्नी, अत्यूधाः। ३७२-द्विदाम्नी उहामा वडवा, द्विहायनी बाला, निहायनी चतुर्हायनी त्रिहायना, चतुहायना शाला, सुराज्ञी नाम नगरी, शतमूर्नी 'मथोत इन्द्रः केवलीविंशः' मामकी, भागधेयी, पापी, अपरी, समानी । ३७३-आर्यकृती, सुमङ्गली, भेषजी,केव. ला, मामिका, अन्तर्वनी पतिवत्नी अन्तरस्त्यस्यां शालायां घटः, पतिमती पृथिवी, ३७४-वसिष्ठस्य पत्नी, गृहस्य पतिः, गृहपतिः, हहपत्नी, दृढपत्नी, दृढपतिः, वृषलपत्नी, वृषलपतिः। ३७५-पत्नियो, पनियः, सपूर्वस्य किम् । गवां पतिः स्त्री, सपत्नी, एकपत्नी, वीरपती । ३७६-पूतक्रतायी, पूतक्रतुरेव सा, वृषापायी, वृषाकपी,
For Private and Personal Use Only
Page #996
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
8 अनायी, कुसितायो, कुसिदायी । ६७७-मनायी, मनावी, मनुः, एनी, एता, रोहिणी, रोहिता । ३०४-येण्या, अनुदात्तास्किम् । श्वेता, शितिः स्त्री, पिशङ्गी, पिशङ्गा, असिता, पलिता, मसिनी, पलिकनी । ३.९-अवदाता, कल्माषी सारङ्गी, अनुदात्तान्तारिकम् । कृष्णा, कपिला, नर्तकी, गौरी अनुकुही, अनड्वाही, पिप्पली। ३८०-मस्सी, दंष्ट्रा, ३०१-जानपदी, कुण्डी, कुण्डा, गोणी, गोणा, स्थली, स्थला, भाजी, भाजा, नागी, नागा । ३८३-काली, काला, नीली, नीला, नील्या, नीली, नीली गौः, नीली नीला वा, कुशी, कुगा, कामुकी, कामुका, कवरी, कवरा, शोणी शोणा। मृद्वी, मृदुः, उत्तः किम् । शुचिः, गुणेति किम् । आखुः । ३८४ खरु पतिवरा कन्या, पाण्डा, बही, बहुः, गत्रिः, रात्री शकटिः, शकटी, अति. चारिकम् । अजननिः । ३८५-पद्धतिः, पद्धती, गोपी। ३८६-गोपालिका, अश्व. पालिका, सूर्या, देवताया किम् । सूरी, कुन्ती, मानुषीयम् । ३८७-इन्द्राणी, हिमानी, अरण्यानी यवानी, यवनानी, मातुलानी, मातुली, उपाध्यायानी, उपाध्यायी, उपाध्यायी-उपाध्याया, आचार्यानी। ३८८-आचार्या, अर्याणी-अर्या, क्षस्त्रियाणी, क्षस्त्रिया, अर्थी, क्षत्रियी, कथं ब्रह्माणीति । ३८९-वस्त्र कीती, धनकीता, अनलिसी धौः। ३९०-उरुभिन्नी, बहुकृता, दन्तजाता, पागीगृहीती, पाणीगृहीता, सुरापीती, सुरापीता, अन्तोदात्तारिकम् । वस्त्रच्छन्ना। ३९१-अतिकेशी, भतिकेशा चन्द्रमुखी, चन्द्रमुखा, सुगुल्फा, उपसर्जनात्किम् । शिखा, स्वाङ्गं विधा। ३९२-सुस्वेदा,सुज्ञाना, सुमुखा सुशोफा, सुकेशी, सुकेशा सुस्तनी, सुस्तना ३९३-तुङ्गनासिकी, तुचनासिका, सहनासिका, अनासिका, स्वङ्गी, स्वधा । ३९४-सुपुच्छी, सगुच्छा, कबरपुच्छी, मयूरी, उलूकपक्षी शाला, उलूकपुच्छा सेना, कल्याण क्रोडा, सुजघना, सकेशा, अकेशा, विधमाननासिका । ३९५-शूर्पणखा, गौरमुखा, संज्ञायां किम् । तानमुखी कन्या, प्रामुखी, दित्यवाट् च मे दित्यौही, च मे। ३९६-सखी, अशिक्षी, आधेनवो धुनयन्तामशियोः। ३९५-तटी, वृषली, सत्यन्तं किम् । शुक्ला, सकृदित्यादि किम् । देवदत्ता । ३९८-औपगवी, कठी, बची, ब्राह्मणी, जातेः किम् । मुण्डा, अस्वी विषयात्किम् । बलाका । ३९९-अयोपधात्किम् । क्षत्रिया, हयी, गवयी, मुकयी, मनुषी, मत्ली, ओदनपाकी, शङ्ककर्गी, शाली , शहपुष्पो, दासी. फली, दर्भमूली, गोवाली, दाक्षी, औदमेयी । ४००-मनुष्येति किम् । तित्तिरिः, कुरू: अयोपधादिकम् । अध्वर्युः, अलाब्वा, कर्कन्ध्वा । ४०१ कृकवाकु, रज्जुः, हनुः, भद्रबाहूः, संज्ञायां किम् , वृत्तवाहुः, पङ्गः, चश्रूः । ४०२-करभोरूः, संहितोसा, सफोरू, लक्षणोरूः वामोर, ४०३-पहितोरूः, सहोरू कदूः, कमण्डलूः संज्ञायां किम् । कदुः, मण्डलु:, शारिवी, वैदी, नारी। ४०४-आम्बट्या, कारीषगन्ध्या, पौतिमाख्या, आवळ्या । ४०५-युवतिः , बहुयुग, युवतीति तु यौतेः । इति स्त्रीप्रत्ययप्रयोगाः ।
For Private and Personal Use Only
Page #997
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे
अथ कारकप्रयोगा। पृष्ठ ४०६-उच्चैः, नीचैः, कृष्णः, श्री, ज्ञानम् । ४००-तटा, तटी, तटम् , द्रोणो श्रीहिः। ४०८-एका, द्वौ बहवः, हे राम । ४०९-कर्तुः किं, माषेष्वश्वं बध्नाति, तमअहणं किम् , पयसा ओदनं भुङ्क्ते । ४१०-हरिं भजति, हरिः सेव्यते, लक्षम्या सेवि. तः । ४११-प्राप्तानन्दः, विषवृक्षोऽपि संवा स्वयं च्छेत्तुमसाम्प्रतम् । ४१२- ग्राम गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते । ४१३-गां दोग्धि पयः, बलिं याचते वसुधाम् । ४१४-अविनीतं विनयं याचते, तण्डलानोदनं पचति, गर्गाञ्छतं डण्डयति, प्रज. मवरुणद्धि गाम् । ४१५-माणवर्क पन्थानं पृच्छति, वृक्षमवचिनोति फलानि, माणवकं धर्म ब्रूते शास्ति वा । ४१६-शतं जयति देवदत्तं, सुधां क्षीरनिधि मथ्नाति, देवदत्तं शतं मुष्णाति, ग्राममजां नयति हरति कर्षति वहति वा। ४१७-बलि भि. क्षते वसुधाम् , माणवकं धर्म भाषते, अभिधत्ते-वक्तीत्यादि, कारकं कि, माणवकस्य पितरं पन्थानं पृच्छति, कुरुन्स्वपिति, मासमास्ते, गोदोहमास्ते, क्रोशमास्ते। ४१९-श नगमयत्स्वर्गमित्यादि, गतीत्यादि कि, पाचयत्योदनं देवदत्तेन, अण्य. न्तानां किं, गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते । ४२०-नाययति-वाहयति वा भारं भृत्येन, वाहयति रथं वाहान्सूतः, आदयति-खादयति-वा अन्नं बटुना, भक्ष. यत्यन्नं बटुना, आहिसार्थस्य किं, भक्षयति बलीवन्सिस्य, जल्पयति, भाषयति, वा धर्म पुत्रं देवदत्तः । ४२१-दर्शयति, हरि भक्तान् , स्मरति, जिवति, स्मारयति घ्रापयति देवदत्तेन, शब्दाययति देवदत्तेन । ४२०-मासमासयति देवदत्तं, देवदत्तेन पाचयति-इत्यत्र न, हारयति कारयति, वा भृत्यं भृत्येन वा कटम् , अभिवादयतेदर्शयते देवं भक्त-भक्तेन वा, अधिशेते-अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः, अभिनिविशते सन्मार्गम् । ५२३-पापेऽभिनिवेशः, उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः, वने उपवसति, उभयतः कृष्णं गोपाः, सर्वतः कृष्णं, धिक् कृष्णामक्तम् , उपर्युपरि लोकं हरिः। ४२४-अध्यधि लोकम् , अधोऽधो लोकम् . अभितः कृष्णं, परितः कृष्णं, ग्रामं समया, निकषा लां, हा कृष्णाभक्तं, बुभुक्षितं न प्रतिभाति किञ्चित् , अन्तरा त्वां मां हरिः, अन्तरेण हरिं न सुखम् । ४२५-जपमनुप्राव. र्षत् । ४२६-नदीमन्ववसिता सेना, अनु हरिं सुराः, उप हरिं सुराः । ४२७-वृक्षं प्रति. पर्यनु वा विद्योतते विद्युत्, भक्तो विष्णु प्रति पर्यनुवा, लक्ष्मीहरि प्रति पर्यनु वा । वृक्षं वृक्षं प्रति पर्यनु वा सिञ्चति, एषु किं, परिषिञ्चति । ४२८-हरिमभि वर्तते, भक्तो हरि. मभि, देवं देवमभिसिञ्चति, अभागे किं, यदनममाभिष्यात्तद्दीयता, कुतोऽध्यागच्छति, कुतः पर्यागच्छति । ४२९-सु सिक्तं, सुस्तुतं, पूजायां कि, सुषिक्तं किं तवात्र, अतिदेवान्कृष्णः, सपिषोऽपि स्यात् । ४३०-अपि स्तुयाद्विष्णुम् . अपिस्तुहि, धिग्दे. वदत्तमपिस्तूयाद् वृषलम् । ४३१-अपि सिञ्च, अपिस्तुहि, मासं कल्याणी, मासमा धीते, मासं गुडधानाः, क्रोश कुटिला नदी, क्रोशमधीते, क्रोशं गिरिस, अत्यन्तसंयोगे
For Private and Personal Use Only
Page #998
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
858 कि, मासस्य द्विरधीते, क्रोशस्यैकदेशे पर्वतः । ४३२-तमब्ग्रहण कि, गङ्गायां घोषा, रामेण वाणेन हतो वाली, प्रकृत्याचास, प्रायेण याज्ञिक, गोत्रेण गायः, समेनैति, विषमेनैति, द्विद्रोणेन धान्यं क्रोणाति । ४३-सुखेन-दुःखेन वा याति-इत्यादि, अक्षरक्षान्वा दीव्यति, अहा क्रोशेन वानु वा कोऽधीतः, अपवर्ग किं, मासमधीतो ना. यातः, पुत्रेण सहागतः पिता, एवं-सार्क-सार्धसमंयोगेऽपि । ४३४-अक्ष्णा काणा, अङ्गविकारः किम् , अधिकाणमस्य, जटाभिस्तापसः, पित्रा, पितरं वा सानीते। ४३५-दण्डेन घटः,पुण्येन दृष्टो हरिः, अध्ययनेन वसति, अलं श्रमेण, शतेन शतेन वत्सान्पाययति पयः। ४३६-दास्या संयच्छते कामुका, भार्याय संयच्छति, विप्राय गां ददाति, दानीयो विप्रः, पत्ये शेते । ४३७-पशुना रुद्र यजते, हरये रोचते भक्तिः , प्रीयमाणः कि, देवदत्ताय रोचते मोदकः पथि। ४३८-गोपी स्मरात्कृष्णाय लाघतेहुते-तिष्ठते-शपते वा, जीप्स्यमानः कि, देवदत्ताय श्लाघते पथि, भक्ताय धारयति मोक्ष हरिः, उत्तमणः कि, देवदत्ताय शतं धारयति प्रामे, पुष्पेभ्यः स्पृहयति, ईप्सितः कि, पुष्पेभ्यो वने स्पृहयति। ४३९-पुष्पाणि स्पृहयति, हरये क्रुध्यति, यति, ईय॑ति, असूयति, यं प्रतिकोपः किं, भार्यामीर्ण्यति, मैनामन्योऽद्राक्षीत् क्रूरममिक्रुध्यति-अभिद्रुह्यति, कृष्णाय राध्यति-ईक्षते वा । ४४०-विप्राय गां प्रतिशृणोति-आशृणोति वा, होत्रेऽनुगृणाति-प्रतिगृणाति । ४४१-शतेन शताय वा परिक्रीतः, मुक्तये हरि भज. ति, भक्ति नाय कल्पते, सम्पद्यते-जायते-इत्यादि, वाताय कपिला विद्युत , ब्राह्म. णाय हितम्। ४४२-फलेभ्यो याति, नमस्कुर्मो नृसिंहाय, एवं स्वयम्भुवे नमस्कृत्य, यागाय याति । ४४३-हरये नमः, प्रजाभ्यः स्वस्ति, अग्नये स्वाहा, पितृभ्यः स्वधा, तेन दैत्येभ्यो हरिरलं प्रभुः-समर्थः, शक्तः-इत्यादि, प्रभ्वादियोगे षष्ठयपि साधुः । ४४४-वडिन्द्राय, स्वस्तिगोभ्यो भूयात्, न त्वां तृणं मन्ये तृणाय वा । ४४९-न त्वां शुने मन्ये, प्राम-ग्रामाय-या गच्छति, चेष्टायां कि, मनसा हरि व्रजति, अनध्वनीीत किं, पन्थानं गच्छति, उत्पथेन पथे गच्छति, ग्रामादायाति, धावतो. ऽश्वात्पतति, कारक कि, वृक्षस्य पणे पतति । ४४६-पापाम्जुगुप्सते विरमति, धर्मास्प्रमाद्यति, चोराद्विभेति, चोरात्रायते, भयहेतुः किम् , अरण्ये विभेति-त्रायते वा, अध्ययनात्पराजयते, असोढः किं, शत्रन्पराजयते, यवेभ्यो गां वारयति, ईप्सितः किं, यवेभ्यो गां वारयति क्षेत्रे । ४४८-मातुनिलीयते कृष्णः, अन्तौ कि, चौराबदिदृक्षते, इच्छति ग्रहणं किं, देवदत्तायज्ञदत्तो निलीयते, उपाध्यायादधीते, नटस्य गाथां शृणो. ति। ४४९-ब्रह्मणः प्रजाः प्रजायन्ते, हिमवतो गङ्गा प्रभवति, प्रसादात्प्रेक्षते-आस. नात्प्रेक्षते, श्वशुराजिहृति, कस्मात्वं नद्याः । ४५०-वनादू ग्रामो योजन-योजने वा, कार्तिक्या आग्रहायणी मासे, अन्यो भिन्न-इतरो वा कृष्णात् , आराहनात् , ऋते कृष्णात् , पूर्वो.ग्रामात् । ४५१-चैत्रात्पूर्वः फाल्गुनः, पूर्व कायस्थ, प्राक् प्रत्यग् वा ग्रामात, दक्षिणा प्रामात् , दक्षिणाहि ग्रामात् , भवात्प्रभृति-आरभ्य वा सेव्यो हरि।
For Private and Personal Use Only
Page #999
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६०
परिशिष्टे
9
•
४५२ - ग्रामादहिः, अपहरेः - परिहरेः संसारः । ४५३ - हरिं परि, आ मुक्तः संसारः, आ सकलादू ब्रह्म, प्रद्युम्नः कृष्णात्प्रति, तिलेभ्यः प्रतियच्छति माषान् शताद् बद्धः, अकर्तरि - इति किम् । शतेन बन्धितः, जाड्यात् - जाडयेन वा बद्धः, गुणे किं, धनेन कुलम्, स्त्रियां किं । बुद्धया मुक्तः । ४५४ - धूमादग्निमान् नास्ति घटोऽनुपलब्धेः, पृथकू रामेण - रामात् - रामं वा एवं विना-नाना स्तोकेन - स्तोकाद्वा मुक्तः, ४५५ -स्तोकेन विषेण हतः, ग्रामस्य दूरं दुरात दूरेण वा अन्तिकम् - अन्तिकात्-अन्तिकेन वा, दूर: पन्था, ४६६ - राज्ञः पुरुषः, सतां गतम्, सर्पिषो जानीते, मातुः स्मरति, एधो. 'दकस्योपस्कुरुते, भजे शम्भोश्चरणयो:, फलानां तृप्तः । ४५७ - अन्नस्य हतोर्वसति केन हेतुना वसति, कस्य हेतोर्वसति, किन्निमित्तं वसति, केन निमित्तेन वसति, कस्मै नि. मित्ताय वसति, एवं किं कारणं को हेतुः किं प्रयोजनमित्यादि, ज्ञानेन निमित्तेन हरिः सेव्यः, ग्रामस्य दक्षिणतः पुरः पुरस्तात्, उपरि- उपरिष्टात् । ४५८ - दक्षिणेन ग्राम- ग्रामस्य वा, एवमुत्तरेण, दूरं-निकटं ग्रामस्य-ग्रामाद्वा, सर्पिषो ज्ञानम् मातुः स्मरणम्, सर्पिषोदयनम् ईशनं वा । ४६९- एधो दकस्योपस्करणम्, चौरस्य रोगस्य बजा, रोगस्य, चौरज्वरः - चौरसन्तापो वा । ४६० - सर्पिषो नाथनम्, आशिषीति fi, माणवकनाथनं, चौरस्योज्जासनम्, निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा, चौकिं, - - रस्य निप्रहणनं, प्रणिहननं, निहननं, प्रहणनं वा, चौरस्य क्राथनं, वृषलस्य पेषणं, हिंसायां किं धानापेषणम् । ४६१- शतस्य व्यवहरणं-पणनं वा, समर्थयोः किं, शला. काव्यवहारः, ब्राह्मणपणनं स्तुतिरित्यर्थः, शतस्य दीव्यति, तदर्थस्य किं ब्राह्मणं दीव्यति, शतस्य शतं वा प्रतिदीव्यति, अग्नये छागस्य हविषो वपाया मेधसः प्रेष्य अनुब्रूहि वा । ४६२ - पञ्चकृत्वोऽह्नो भोजनं, द्विरह्नो भोजनं, शेषे किं द्विरहन्यध्ययन, कृष्णस्य कृतिः, जगतः कर्ता कृष्णः । ४६३ - नेताश्वस्य स्रुध्नस्य- स्रुध्नं वा कृति किं कृतपूर्वी कटम् । ४६४ - आश्रय गवां दोहोऽगोपेन । ४६५ - भेदिका विभित्सा वा रुद्रस्य जगतः, विचित्रा जगतः कृतिहरे हरिणा वा, शब्दानामनुशासनमाचार्येणाचार्यस्य वा, राज्ञां मतो बुद्धः पूजितो वा, इदमेषामासितं - शयितं गतं भुक्तं वा । ४६६ -कुर्वन् कुर्वाणो वा सृष्टि हरिः, हरिं दिक्षुः- अलङ्करिष्णुर्वा, दैत्यान्धातुको हरिः, लक्ष्म्याः कामुको हरिः, जगत्सृष्ट्वा, सुखं कर्तु, विष्णुना हता दैत्याः, दैत्यान्हतवान् विष्णुः, ई. पत्करः प्रपञ्चो हरिणा । ४६७ - सोमं पवमानः, आत्मानं मण्डयमानः, वेदमधीयन्, कर्ता लोकान्, मुरख्य-मुरं वा द्विषन्, ब्राह्मणस्य कुर्वन्, नरकस्य जिष्णुः । ४६८सतः पालकोवतरति, ब्रजं गामी, शतं दायी, मया-मम वा सेव्यो हरिः कर्तरीति किं, गेयो माणवकः साम्नां नेतव्या ब्रजं गावः कृष्णेन । ४६९- तुल्यः सदृशः- समो वा, कृष्णस्य कृष्णेन वा अतुलोपमाभ्यां किं, तुला उपमा वा कृष्णस्य नास्ति, आयुष्य चिरजीवितं कृष्णाय कृष्णस्य वा भूयात्, एवं मद्रं भद्रं कुशलं निरामयम् सुखं शं. अर्थ प्रयोजनं हितं पथ्यं वा भूयात्, आशिषि एक, । देवदत्तस्यायुष्यमस्ति मद्रभद्वयोः प
For Private and Personal Use Only
-
Page #1000
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। यित्वम् । ४७०-कटे आस्ते, स्थाल्यां पचति, मोक्षे इच्छास्ति, सर्वस्मिानात्मास्ति, वनस्य दूरेऽन्तिके वा। ४७१-अधीती व्याकरणे, साधुः कृष्णो मातरि, असाधुर्मातुले, चर्मणि द्विपिनं हन्तीत्यादि । ४७२-सीमा आण्डकोशः, पुष्कलको गन्धमृगः, योगविशेषे किं, वेतनेन धान्यं लुनाति, गोषु दुद्यमानासु गतः, सत्सु तरत्सु असन्त आस. ते, असत्सु तिष्ठत्सु सन्तस्तरन्ति, सत्सु तिष्ठत्सु असन्तस्तिष्ठन्ति । ४७३-रुदतिरुदतो वा प्रावाजीत् , गवां-गो वा स्वामी, गवां गोषु वा प्रसूतः, आयुक्तः कुशलो वा हरिपूजने-हरिपूजनस्य वा, आसेवायां किम् , आयुक्तो गौः शकटे । ४७४-नृणांनृषु वा ब्राह्मणः श्रेष्ठः, गवां-गोषु वा कृष्णा बहुक्षीरा, गच्छतां गच्छत्सु वा धाव. भ्छीघ्रः छात्राणां छात्रेषु वा मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्यः आढ्यतराः, मातरि. साधुनिपुणे वा । ४७६-आचार्यायां किम् , निपुणो राज्ञो भृत्यः, साधुनिपुणो वा मातरि प्रतिपर्यनु वा, प्रसित उत्सुको वा हरिणा-हरौ वा, मूलेनावाहये देवी श्रवणेन विसर्जयेत् , मूले-श्रवणे इति वा, लुपिकिम् , पुष्ये शनिः, अधभुक्त्वाऽयं व्यहे द्वयहादा भोक्ता, इहस्थोऽयं क्रोशे कोशाद्वा लक्ष्य-विध्येत् । ४७६-लोके-लोकाद्वाधिको हरिः, उपपरादें हरेर्गुणाः अधिभुवि रामः-अधिरामे भूः, रामाधीना । ७७४-यदत्रमा. मधिकरिष्यति । इति कारकप्रयोगाः।
भयाव्ययी-भावप्रयोगा। पृष्ठ ४८२-पर्यभूषयत् , अनुव्यचलत् , भूतपूर्वः । ४८२-जीमूतस्येव, ४८४--अप. दिशम् , अपदिशेन, अपदिशम् , अपदिशे, ४८५-सुमद्रम् , अधि हरि। ४८६-अधि. गोपम्, उपकृष्णं, समया ग्राम, निकषा लङ्काम, आरादूनात्। ४८५-सम्मद, दुर्यवन, व्यद्धिः निर्मक्षिकम् , अतिहिमम्, अतिनिद्रं, इति हरि, अनुविष्णु, पश्चाच्छन्दस्य तु न, ४८६ -अनुरुपं, प्रत्यर्थ, यथाशक्ति, सहरि, अनुज्येष्ठं, सचक्र, सहपूर्वाक, ससखि । ४८९ -सक्षत्रं, समृद्धिः, सतृणमत्ति, सामि, यथा हरिस्तथा हरः । ४९०-यावच्छ्लोक, शाकप्रति, माताथें कि, वृक्षं वृक्ष प्रति विद्योतते विद्युत् , अक्षपरि, शलाकापरि, एकपरि । ४९२-अपविष्णु संसार:-अपविष्णोः, परिविष्णु, परिविष्णोः , बहिर्वनं बहिर्वनात् , प्राग्वन प्राग्वनात् , |आमुक्तिसंसार: आमुक्तेः, आवालं हरिभक्तिः, भाबालेभ्यः, अभ्यग्निशलभाः पतन्ति, अग्निममि, प्रत्यग्नि, अग्निम्प्रति, अनुवनमः शनिर्गतः। ४९३-अनुगङ्गं वाराणसी, गङ्गाया अनु, तिष्ठद्गुः, आयतीगवम् । ४९४पारे गङ्गादानय,-गङ्गापारात , मध्ये गङ्गात् । गङ्गामध्यात। ४९५-द्विमुनि, त्रिमुनि व्याकरणम् , एकविंशति, भारद्वाज, सप्तगङ्ग, द्वियमुनम् । ४९६-उन्मत्तगङ्गं नाम देशा, लोहितगङ्गम्, उवशरद, प्रतिविपाशं, शरदू, विपाश, अनस्, मनस्, उपानह दिव्, हिमवत् , अनडुह, दिश् , दृश् , विश्, चेतस्, चतुर्, त्यदू, तद्, यदू-कियदित्यादि। ४९५-उपजरसं, प्रत्यक्ष, परोक्षं, परोक्षा क्रिया, समक्षम्, अन्वक्षम्। ४९८-उपराजम्, ध्यात्मम् , उपचर्मम्, उपचम उपनदम, उपनदि, उपपौर्णमासम्, उपपौर्णमासि,
For Private and Personal Use Only
Page #1001
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
परिशिष्टउपाग्रहायणम् , उपाग्रहायणि, उपसमिधम् , उपसामत् । ४९९-उपगिरम् , उपगिरि।
. इत्यव्ययीभावप्रयोगाः।
अथ तत्पुरुषप्रयोगाः। पृष्ठ ४१९-पञ्चराजम् । १००-कृष्णश्रितः, दुःखातीतः, ग्रामगमी, अन्नबुभुक्षुः । १०१-स्वायं कृतिः, खट्वारूढो जाल्मः, सामिकृतम्, मासप्रमितः प्रातिपच्चन्द्रः । ५०२-मुहूर्तसुखम् , शङ्खलाखण्डः, धान्यार्थः, २०३-तत्कृत इति किम् । अक्ष्णा काणः, मासपूर्वः, मातृसदृशः, पितृसमः, माषोन कार्षापणम् , माषविकलम् , वाक्कलह, आचारनिपुणः, गुणमिश्रा, आचारलक्ष्णः, गुडसम्मिश्राधानाः । २०४-मासावरः, ह: रित्रातः, नखभिन्नः, नखनिर्भिन्नः, कर्तृकरणे इति किम्, भिक्षाभिरूषितः, तेन दात्रेण लुनवान-इत्यादौ न, कृताकिम् । काष्ठैः पचतितराम् , बातच्छेद्यं तृणम् , काकपेया. नदी, दध्योदनः । ६०५-गुडधानाः, यूपदारु, रन्धनाय स्थाली। ५०६-द्विजार्थः सूपः, द्विजार्था यवागूः, द्विजार्थे पयः, भूतवलिः, गोहितम्, गोसुखम् , गोरक्षितम् , चोरभ. यम् , वृकभीतः, वृकभीतिः, वृकभीः । २०७-सुखापेतः, कल्पनापोटः, चक्रमुक्तः, स्व. गंपतितः, तरजापत्रस्तः, अल्पशः किम् । प्रासादात्पतितः, स्तोकान्मुक्ता, अल्पान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादा. गतः, राजपुरुषः, ब्राह्मणयाजकः, देवपूजकः । ५०८-सर्वश्वेतः, सर्वमहान् , इध्मप्रव. श्वनः, नृणां द्विजः श्रेष्ठः, सपिषो ज्ञानम् , सतांषष्ठः, काकस्य कार्यम् , ब्राह्मणस्यशुक्लाः । ६०९-अर्थगौरवम् , बुद्धिमान्यम् , फलानां सुहितः । ११०-द्विजस्य, कुर्व. न्कुर्वाणो वा, ब्राह्मणस्य कृत्वा, तदुपरि, ब्राह्मणस्य कर्तव्यम् , स्वकर्तव्यम् , तक्षक. स्य सर्पस्य, गोर्धेनोरित्यादौ । ५११-राज्ञांमतो-बुद्धः-पूजितो वा. राजपूजित इत्यादौ न । ५१२-इदमेषामासितं-गतं भुक्तं वा, आश्चर्यो गवां दोहोऽगोपेन, अपां न. ष्टा, वज्रस्य भर्ता, ओदनस्य पाचकः, कर्तरि किं । इक्षुमक्षिका, भूभर्ता । ११३-भवतः शायिका, उहालकपुष्पमञ्जिका, दन्तलेखकः। ११४-पूर्वकायः, अपरकायः, एकदेशि. ना किं, पूर्व नाभेः कायस्य, एकाधिकरणे किं पूर्वछात्राणां, मध्याहः, स्याह्नः। ९१६-- तेन मध्यरात्रः उपारताः पश्चिमरानगोचरा इत्यादि सिद्धं । ११६-पञ्चखट्वी, अर्धपिप्पली, क्लीवे किं, ग्रामाधः, अर्धपिप्पलीनां, द्वितीयभिक्षा, एकदेशिना किं, द्वितीय भिक्षाया भिक्षुकस्य। ५१५-मिक्षाद्वितीयं, प्रासजीविकः, जीविकाप्रासः, आपन्नजीवि. कः-जीविकापन्नः, आपन्नजीविका, मासजातः । ६१८-द्वथहजातः, सहयजातः, अक्ष. शौण्डः, ईश्वराधीनः । ५१९-साङ्काश्यासद्धः, आतपशुष्का, स्थालीपक्क, चक्रवन्धः, तीर्थध्वास,तीर्थकाकः, मासे देयमृणं, पूर्वाह गेयं साम, अरण्ये तिलकाः, वने कसेरुकाः, पूर्वाहकृतम् ,अपररात्रकृतम् , अवयवग्रहणं किम्, अहिदृष्टं। ५२०-तत्र भुक्तम्, अव. तप्ते नकुलस्थितं त एतत् , पात्रे समिताः, गेहे शूरः, गेहे नर्दी, परमाः पात्रे समिताः। १२१-स्नातानुलिप्तः, एकनाथः, सर्वयाज्ञिकाः, जरन्नैयायिकाः, पुराणमामांसकाः,
For Private and Personal Use Only
Page #1002
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोग सूची ।
६६३
नवपाठकाः । ५२२ - पूर्वेषुकामशमी, सप्तर्षयः, उत्तरा वृक्षाः, पञ्चब्राह्मणाः, पौर्वशाल:, आपरशालः | ५२३ - पूर्वशालाप्रियः, षाण्मातुरः, पञ्चगवधनः । १३४ - पञ्चगवं, वैयाकरणख सूचिः, मीमांसकतुर्दुरूटः । ११५ - प्रापनापितः, अणककुलालः । ६२६- पुरुषव्याघः, नृसोमः, सामान्याप्रयोगे किं, पुरुषो व्याघ्र इव शूरः, नीलोत्पलं । ५२७- कृष्णसर्पः, रामो जामदग्न्यः पूर्ववैयाकरणः, अपराध्यापकः, पश्चार्धः, कथमेकवीर इति, श्रेणीकृताः, : कृतम् । १०८ - शाकपार्थिवः, देवब्राह्मणः, सद्वैद्यः, महावैयाकरणः, पूज्यमानैः किम्, उत्कृष्टोगो, गोवृन्दारकः । ६२९ - कतरकठः, कतमकलापः, किम् राजा । ५३० - महानवमी, कृष्ण चतुर्दशी, महाप्रिया, पाचकस्त्री, दत्तभार्या, पञ्चमभार्या, त्रौ. नभार्या, सुकेशभार्या, ब्राह्मणभार्या, पाचकजातीया, पाचकदेशीया, हभपोटा । १३१इभयुवतिः, अग्निस्तोकः, उदस्वित्कतिपयं, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत् गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः कठाध्यापकः, कठधूर्तः, गोमतल्लिका, गोमafter, गोप्रकार्ड, गवोद्धः, गोतल्लजः । ५३२ -जातिः किं, कुमारी मतल्लिका, युवखलतिः, युवखलती, युवजरती, भोज्योष्णं, तुल्यश्वेतः, सदृशश्वेतः । १३३ - अजात्या किं, भोज्य ओदनः, कृष्णसारङ्गः, कडारजैमिनिः, जैमिनिकडारः, कुमारश्रवणा, गोगर्भिणी । ५३४ - स्वस्तिमती गर्भिणी, मयूरव्यंसकः, उच्चावचं, निश्चप्रचम्, अकिञ्चनः, अकुतोभय, राजान्तरं चिन्मात्रम्, अश्नीतपिबता, पक्तभृज्जता, खादतमोदता, एहीडम्, एहिपचम् उद्धरोत्सृजा, उद्धमविधमा । १३६ - जहिनोडः, जहिस्तम्भः, अकुतोभयं राजान्तरं, चिन्मात्रम्, ईषत्पिङ्गलः, ईषद्रक्तम्, अब्राह्मणः। १३६-अनश्वः, अनुपलब्धिः, अविवादः, अविघ्नम्, अपचसि त्वं जाल्म । ५३७ - नासत्याः, नमुचिः, नकुलं, नखं, नपुंसकं, नक्षत्रं, नक्रः, नाकः, नगाः, अप्राणिष्विति किम्, अगो वृषलः शीतेन, कुपुरुषः, उरीकृत्य, उररीकृत्य, शुक्लीकृत्य, पटपटाकृत्य, कारिकाकृत्य, खाद्कृत्य । १३८ - अनीतिपरं किं खाडिति कृत्वा निरष्ठिवत्, सत्कृत्य, असत्कृत्य, अलं कृत्य, भूषणे किम् अलं कृत्वौदनं - गतः, अन्तर्हस्य, अपरिग्रहे किम्, अन्तर्हत्वा गतः, कणे हत्य पयः पिबति, मनो हत्य। १३९- पुरस्कृत्य अस्तं गत्य, अच्छगस्य, अच्छोद्य, अव्ययं किं, जलमच्छं गच्छति, अद कृत्य, अदतम्, अदः कृत्वा, अदः कुरु, तिरोभूय, तिरस्कृत्य तिर कृत्य, तिरः कृत्वा, उपाजेकृत्य, उपाजे कृत्वा, अन्वाजेकृत्य, अन्वाजे कृत्वा । १४० - साक्षात्कृत्य, साक्षात्कृस्वा, लवर्णकृत्य, लवणं कृत्वा, उरसिकृत्य, उरसि कृत्वा, मनसिकृत्य, मनसि कृत्वा, उरसि कृत्वा पाणि शेते, मध्येकृत्य, मध्ये कृत्वा, पदेकृत्य, पदे कृत्वा, निवचने कृत्य, निवचने कृत्वा, हस्तेकृत्य, पाणौकृत्य । ५४१ - प्राध्यंकृत्य, प्रार्ध्वं कृत्वा, जिविकाकृ. स्य, उपनिषत्कृत्य, औपम्ये किं जीविकां कृत्वा, सुपुरुषः, प्राचार्य:, अतिमाल: 1 ५४२ - अवकोकिलः, पर्यध्ययनः निष्कौशाम्बिः, वृक्षं प्रति । ५४३ - कुम्भकारः, अतिङ् किं मा भवान्भूत् । ५४४ - व्याघ्री, अश्वक्रीती, कच्छपी । ५४५ - स्वादुङ्कारं, ६३ बा०
,
For Private and Personal Use Only
·
Page #1003
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8६४
परिशिष्टेकालः समयो वेला वा भोक्तुम् , अमैवेति किम् , अग्रे भोजम् , अग्रे-भुक्त्वा,मूलके. नोपदंशं भुक्ते, मूलकोपर्दशम् । उच्चैकारम् , ५४६-उच्चै कृत्य, उच्ः कृत्वा, तृतीयाप्रभृतीनि किम् , अलं कृत्वा, खलु कृत्वा, यंगुलं दारु, निरङ्गलम् । ५४५-अहोरात्रः, सर्वरात्रः, पूर्वरात्रः, सहयातरात्रः, पुण्यरात्रः, द्विरात्रम्, अति. रात्रा, परमराजः, अतिराजी, कृष्णसखः, उत्तमाहः, द्वयहीनः क्रतुः। ५४८-मद्रराज्ञी, सर्वाहा, पूर्वाहः, सहयाताः । ५४९-द्वयह्नः, यहा, यहप्रियः, अत्या, दीर्घाही ग्रावृद्, पराह्नः । ५५०-द्वयहः, त्र्यहः, पुण्याह, सुदिनाहम् , एकाहः, सहन्याताहः, अश्वोरसम् । ५९१-उपानसम् , अमृताश्मः, कालायसं, मण्डूकसरसं, महानसं, पिण्डाश्मः, लोहितायसं, जलसरसं, ग्रामतक्षा, कौटतक्षः, अति. श्वो वराहः, अतिश्वी सेवा, आकर्षश्वः, अप्राणिषु कि, वानरवा, उत्तरसक्थं, मृगस. क्थं, पूर्वसक्थं, फलकसक्थम् । १५२-द्विनावरुप्यः, पञ्चनावप्रियः, द्विनावं, निनावं पञ्चनौः, नावोधम् , अर्धनावं, द्विखार, द्विखारि, अर्धखारम्, अर्धखारि, दयालं, द्वयअलि, द्वयञ्जलिः । ६५३-सुराष्ट्रब्रह्मः, कुब्रह्मः-कुब्रह्मा, महाब्रह्मः-महाब्रह्मा, महादेवा, महाजातीयः, समानाधिकरणे किं, महत्सेवा, महाबाहुः । ५९४-एकादश, महाजातीया । ५५५-महाघासः, महाकरः, महाविशिष्टः, अष्टाकपालः, अष्टागवं शकटम् , अ. टगवं, द्वादश, द्वयधिकादश, द्वाविंशतिः, अष्टादश, अष्टाविंशतिः। १६६-भबहुव्रीह्यशीत्योः कि, द्वित्राः, द्वयशीतिः, द्विशतं, द्विसहस्त्रं, त्रयोदश, त्रयोविंशतिः, त्रिदेश, त्रिदशाः, त्र्यशीतिः, त्रिशतं, त्रिसहस्त्रं, द्विचत्वारिंशत् , द्वाचत्वारिंशत् , अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् , त्रिचत्वारिंशत् , त्र्ययश्चत्वारिंशत् , एवं पञ्चाशत्पष्ठिसप्ततिनबतिषु । ६५७-एकानविंशतिः, एकादविंशतिः, षोडन् , षोडश, पोढा, षड्धा। १५८-कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमो, अर्धपिप्पली, पञ्चकपालः, पुरोडाश, प्राप्तजीविकः, आपन्नजीविकः, अलं कुमारी, निष्कौशाम्बिः, अश्ववडवो, अश्ववडवान् , अश्ववडवैः । १५९-अहोरात्रः, पूर्वरात्रः, पूर्वाहः, द्वयहः, द्विरात्रं त्रि. रात्रं, गणरात्रम् , अपयो देशः, अपन्थाः, अर्धः, अर्धर्च, ध्वजः, ६६०-ध्वजम् , एवं तीर्थ, शरीर, मुण्ड, पीयूष. देह, अङ्कुश, कलश इत्यादि । ब्राह्मणाः पूज्याः, ब्राह्मणः, पूज्या, बयं ब्रूमः, बहं ब्रवीमि-आवां ब्रूव इति वा, पटुरहं ब्रवीमि पूर्वे फल्गुन्यो, पू. वाः फल्गुन्यः. पूर्व प्रोष्ठपदे, पूर्वाः प्रोष्पदाः, नक्षत्रे किम् , फल्गुन्यौ माणविके. तिज्यपुनर्वसू, तिष्येति किम् , विशाखानुराधाः, नक्षत्रेति किम् , तिष्यपुनर्वसवो माणवकाः । ६६१-पञ्चगवं. दन्तोष्ठं पञ्चमूली, पञ्चखट्वी, पन्चखटवं, पञ्चतक्षी, पञ्च.. तक्षं, पञ्चपात्रं, त्रिभुवन, चतुर्युगं, पुण्याहं, सुदिनाह, त्रिपथं, विपथं । १६२-सुपन्थाः , अतिपन्याः, प्रातः कमनीयं, सोशमिकन्थं, सम्ज्ञायां किम् वीरणकन्था, उशीनरेषु, किम् दाक्षिकन्था । ५६३-पाणिन्युपर्श ग्रन्थः, नन्दोपक्रम द्रोणः, इक्षुच्छायम् , इन. सभम् , ईश्वरसभं, राजसभा, चन्द्रगुप्तसभा, रक्षः सभं, पिशाचसभ। ५६४-स्त्रीस
For Private and Personal Use Only
Page #1004
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
६६५
भम्, अशाला किम् धर्मसभा, ब्राह्मणसेनं, ब्राह्मणसेना, यवसुरं, यवसुरा, कुड्यच्छायें, कुडयच्छाया, गोशाल, गोशाला, कवनिशं श्वनिशा, दृढसेनो राजा, असेना, परमसेना । इतितत्पुरुषप्रयोगाः ।
अथ बहुब्रीहि प्रयोगाः ।
पृष्ठ १६१ - प्राप्तोदको ग्रामः, उढरथोऽनड्वान्, उपहृत पशू रुद्रः, उष्टतौदनास्थाकी, पीताम्बरो हरिः, वीरपुरुषको ग्रामः, वृष्टे देवे गतः, पञ्चभिर्भुक्तमस्य १६६ - प्रपर्णः अपुत्रः कण्ठे कालः, उष्ट्रमुखः । ५६७ - केश वूडः, सुवर्णालङ्कारः । ५६८ - अस्तिक्षीरागौः, चित्रगुः, रूपवद्भार्यः, चित्राजरतीगुः, -जरतीचित्रा । १६९ - दीर्घातन्वीजहुःतन्वी दीर्घाजङ्घः, चित्रा जरद्गुः इत्यादि । ५७० - जरच्चित्रगुः, चित्रजरवीक', स्त्रियाः किं, ग्रामणिदृष्टिः, भाषितपुंस्कास्किं, गङ्गाभार्यः, अनूड् कि, वामोरूभार्यः, समानाधिकरणे किं, कल्याणीमाता, स्त्रियां कि, कल्याणीप्रधानः । ६७१-कल्याणीपञ्चमा रात्रयः, स्त्रीप्रमाणः, रात्रि पूरणीवाच्या चोक्तोदाहरणम् । १५७२ - कल्याणपञ्चमीकः पक्षः, बहुकर्तृकः, अप्रियादिषु किं, कल्याणीप्रियः । ६७३ - दृढभक्तिः, दृढाभक्तिः, बहीषु, बहुत्र, बहुतः, दर्शनीयतरा, दर्शनीयतमा । ५७४- पवितरा, पवितमा, पटुचरी, पटुजातीया, दर्शनीयकल्पा, दर्शनीयदेशीया, दर्शनीयरूपा, दर्शनीयपाशा, बहुथा, वृकतिः, अजथ्या, बहुशः, अल्पशः । ५७५ - शुक्लत्वं, शुक्लता, कर्त्रीत्वं, हास्तिकम्, अढे कि, रौहिणेयः । ५७६ - आग्नेयः, सापत्नः, सापत्यः । ५७० - भावत्काः, भवदीयाः, सर्वमयः, सर्वकाम्यति, सर्वकभार्यः, सर्वप्रिय इत्यादि । ६७८ - सविका, सर्वाः, कुक्कुटाड, मृगपदं, मृगक्षीरं, काकशावः, एतायते, श्येतायते, दर्शनीयमानिनी, दर्शनीयमानी चैत्रः । ५७९ - पाचिकाभार्यः, रसिकाभायः, मद्विकायते, मद्विकामानिनी, पाकभार्यः, दत्ताभार्यः, दत्तामानिनी | १८० - पञ्चमीभार्यः, पञ्चमीपाशा, खौघ्नीभार्यः, माथुरीयते, माथुरीमानिनी, वृद्धिनिमित्तस्य किं मध्यमभार्यः, तद्धितस्य किं, काण्डलावभार्यः, वृद्धिशब्देन किं तावद्भार्यः, काषायकन्थः । १८१ - हैममुद्रिकः, वैयाकरणभार्यः, सौवश्वभार्यः, सुकेशीभार्यः, स्वाङ्गार्तिक, पटुभार्यः । १८२ - इतः किं अकेशभायः, सुकेशमानिनी, शूद्राभार्यः, ब्राह्मणीभार्यः, हास्तिकं, उपदशाः, । १८३ - आसन्न विशाः, अदूरत्रिंशाः, अधिकचत्वारिशाः, १८४ - द्वित्राः, द्विदशाः, दक्षिणपूर्वाः, ऐन्द्रयाश्च कौबेर्याश्चान्तरालं दिकू । ५८५ - केशाकेशि, दण्डादण्डि, मष्टीमुष्टि । ६८६ - बाहूबाहवि, स्वायम्भुवं, सरूपे-इति किं, हलेन मुसलेन, सपुत्रः, सहपुत्रः, सक. र्मकः, सलोमकः । ५८७ - सहपुत्राय सहामात्याय, सगवे, सवत्साय सहलाय, उपदशाः, अबहुगणात्किम्, उपबहवः, उपगणाः, निस्त्रिशानि, निखिशः । १८८ - दीर्घसक्थः, जलजाक्षी, स्वाङ्गात्कि, स्थूलाक्षा वेणुयष्टिः, पञ्चाङ्गुलं दारु, बहुव्रीहेः कि, द्व्यङ्गुला मष्टि, दारुणि कि, पचागुलिर्हस्तः द्विमूर्धः, त्रिमूर्धः, मृगनेत्रा रात्रयः पुष्यनेत्राः । ६८९ - अन्तर्लोमः, बहिर्लोमः, गुणसः, खरणसः, अगः किम्, ऋगयनम्, अस्थूलात्कि,
For Private and Personal Use Only
-
Page #1005
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६६
परिभिष्टे
1
3
स्थूलनासिकः, खुरणाः, खरणाः, खुरणसः । ५९० - खरणसः, उन्नसः, प्रणसः, विप्रः, विख्यः, कथं विनसा हतबान्धवेति भट्टिः । १९१ - सुप्रातः, सुखः, सुदिवः, शारिकुक्षः, चतुरश्र:, एणीपदः, अजपदः, प्रोष्ठपदः, अहलः, अहलिः, असक्थः, असक्थिः, एवं दुःसुभ्याम्, अशक्तः, अशक्तिः, अप्रजाः, दुष्प्रजाः, सुप्रजाः । ५९२- अमेधाः, दुर्मेधाः, सुमेधाः, कल्याणधर्मा, केवलारिक, परमः स्वोधर्मेत्यत्र बहुवीहौ न । १९३ - सुजम्भाः, हरितजम्भा, तृणजम्भा, सोमजम्भा, स्वादिभ्यः किं पतितजम्भा, दक्षिणेर्मा, केशाशि, मुसलामुसलि, द्विदण्डिप्रहणं द्विमुसलिः, उभाहस्ति, उभयाहस्ति । ५९४प्रज्ञः, सज्जुः, उर्ध्वशः, ऊर्ध्वजानुः, शार्ङ्गधन्वा, शतधन्वा, शतधनुः, युवयानिः । ५.५उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः, सुगन्धिर्वायुः, सुगन्ध आपणः, सूपगन्धिभोजनं घृतगन्धि । ६९६ - व्याघ्रपात्, अहस्त्यादिभ्यः किं, हस्तिपादः, कुसूलपादः, कुम्भपदी, स्त्रियां किं कुम्भपादः, द्विपात् सुपात् द्विदन्, चतुर्दन्, षोडन्, सुदन, सुदती । ५९७ - वयसि किं द्विदन्तः करी, सुदन्तः, अयोदती, फालदती, सज्ञायां किं, समदन्ती, श्यावदन्, श्यावदन्तः, अरोकदन्, अरोकदन्तः, कुड्मलाग्रदन, कु. ड्मलाग्रदन्तः, अजातककुत्, पूर्णककुत्, त्रिककुत्, त्रिककुदोऽन्यः, उत्काकुत्, वि. काकुत्, काकुदन्तालु, पूर्णका कुत् । १९८ - पूर्णकाकुदः, सुहृन्मित्रं, दुहृदमित्रः, सुखदयः, दुहृदयः, व्यूढोरस्कः, प्रियसर्पिष्कः पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः द्विपुमान्, द्विपुंस्कः, अनर्थकं, नञः कि, अपार्थम्, अपार्थकं, बहुदण्डिका नगरी, बहुवामिका, स्त्रियां कि, बहुदण्डी, बहुदण्डिको ग्रामः । ६९९ - महायशस्कः, -महायशाः, अनुक्तेत्यादि किं, व्याघ्रपात्, सुगन्धिः, प्रियपथः, शेषाधिकारस्थात्किम्, उपबहवः, उत्तरपूर्वा सपुत्रः, बहुमालाकः, बहुमालकः, बहुमालः, विश्वदेवः, बहुश्रेयान् । ६०० - बहुश्रेयसी, बहुव्रीहेः किम्, अतिश्रयसिः, प्रशस्तभ्राता, सुखाता, वन्दिते कि, मूर्खभ्रातृकः बहुनाडिः कायः, बहुतन्त्रीग्रीवा, बहुतन्त्रीर्धमनी, स्वाङ्गे किं बहुनाडीकः स्तम्भः, बहुतन्त्रीका वीणा, निष्प्रवाणिः पटः । ६०१ - समाप्तवानः, कण्ठेकालः, चित्रगुः, सर्वश्वेतः, द्विशुक्कः द्वन्यः । ६०२ - द्वित्राः द्वादश गुडप्रियः, प्रियगुडः, गडुकण्ठः, वहेगडुः, कृतकृत्यः, सारङ्गजग्धी, मासजाता, सुखजाता, कृतकटः, पीतोदकः, आहिताग्निः, अग्न्याहितः । ६०३ - अस्युद्यतः, दण्डपाणिः, विवृतासिः, इति बहुब्रीहिप्रयोगाः । अथ द्वन्द्व-प्रयोगाः ।
पृष्ठ ६०४ - धवखदिरौ, प्रज्ञापरिभाष, होतापोतानेष्ठोद्गातारः । ६०५ - राजदन्तः, अर्थधर्मी, धर्माथा, दम्पती, जम्पता, जायापती, हरिहरौ, हरिगुरुहरा, हरिहरगुरवः | ६०६ - ईशकृष्णौ, अश्वरथेन्द्राः इन्द्राश्वरथाः, इन्दाग्नी, शिवकेशवौ, हेमन्तशिशिर - वसन्ताः, कृत्तिकारोहिण्यौ, समाक्षराणां किम्, ग्रीष्मवसन्तौ, कुशकाशं, तापसपर्वतौ, ब्राह्मणक्षत्रिय विट्शूद्राः । ६०७ - युधिष्ठिरार्जुनौ पाणिपाद, मार्दङ्गिकपाणावक, रथिकावारोहम्, उद्गात्कठकालापम्। ६०८- प्रत्यष्ठात्कठकौथुमम्, अर्काश्वमेधम् अध्व-:
For Private and Personal Use Only
J
Page #1006
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। युक्रतुः किम् , इषुवज्रौ सामवेदे, अनपुंसक किं, राजसूयवाजपेये, अर्धर्चादी, पदकक्रमकम् । ६०९-धानाशष्कुलिः, विशूद्राः, रूपरसौ, गमनाकुञ्चने, बदरामलकानि। ६१०-उध्येरावती, गङ्गाशोणं, कुरुकुरुक्षेत्रं, भिन्नलिङ्गानां कि, गङ्गायमुने, मद्रकेकया:, अग्रामाः किं,जाम्बवं नगरं, शालकिनी ग्रामः, जाम्बवशालकिन्यो, यूकालिक्षम्, अहिनकुलं, योव्या, काकोलूकम् । ६११-तक्षायस्कार, चण्डालमृतपाः, गवावं, दासी. दास, प्लक्षन्यग्रोध, प्लक्षन्यग्रोधाः, रुरुपृषत, रुरुपृषताः, कुशकाश, कुशकाशाः । ६१०-व्रीहियवं,-व्रीहियवाः, दधिघृतं, दधिधृते, गोमहिषं, गोमहिषाः, शुकबक, शुकबकाः, अश्ववडवम्, अश्ववडवा पूर्वापर, पूर्वापरे, अधरोत्तरम्, अधरोत्तरे, बदरामलक, बदरामलके, रथिकाश्वारोही, प्लक्षन्यग्रोधौ। ६१३-पूर्वापरम् अधरोत्तरम्,६१४-शी. तोष्णं, शीतोष्णे, शीतोष्णे उदकेस्ता, विप्रतिषिद्धं कि, नन्दकपाञ्चजन्यौ, दधिपयसी, इष्माबहिषी, ऋक्सामे, वाङ्मनसे । ६१५-दश दन्तोष्ठाः, उपदशं दन्तोष्टम् , उपदशाः दन्तोष्ठाः । ६१६-होतापोतासे, होतृपोतनेष्टोद्गातारः, मातापितरौ, पितापुत्रौ, मि. त्रावरुणौ, अग्निवायू , वाग्वग्नी, ब्रह्मप्रजापतिः । ६१७-अग्निष्टुत्, अग्निष्टोमः, अग्नीषोमो, अग्नीवरुणो, आग्निमारुतं कर्म, अग्निवारुणं, वृद्धौ किम् , आग्नेन्द्रः। ६१८-आग्नावैष्णवं, यावाभूमी, चावाक्षमे, दिवस्पृथिव्यो,। ६१९-द्यावापृथिव्यौ, थावाचिदस्मैपृथिवी दिवस्पृथिव्योररति, उपासासूर्य, मातरपितरौ, उदीचां किम् , मातापितरौ, वाक्त्वचं, स्वाज, शमीहषद, वाक्तिवर्ष, छत्रोपानहं, समाहारे किम् । प्रावृटशरदो। इति द्वन्द्वप्रयोगाः।
मथ एकशेष-प्रयोगाः। पृष्ठ ६२०-रामो, रामा, वक्रदण्डो, कुटिलदण्डौ, गाग्या, वृद्धः किं, गगंगाग्यायणौ, यूना कि, गर्गगाग्यौँ। ६२१-तल्लक्षणः किं, भागवित्तिभागवित्तिकौ, कृत्स्नं किं, गार्यवात्स्यायनी, गर्गाः, दाक्षी। ६२३-हसौ, भ्रातरौ, पुत्रौ, शुक्लपटः, शुक्ला शाटी, शुक्लं घस्त्रं, तदिदं शुक्लं, तानीमानि शुक्लानि, पितरौ-मातापितरौ, ६२३-श्वशुरौ, श्वश्रश्वशुरौ, यो, तौ, तानि, ते, कुक्कुटमयूर्याविमे । ६२४-मयूरीकुक्कुराविमौ, तच्च सा च अर्धपिप्पल्यौ ते, गावः इमाः, ग्राम्येति कि, हरव इमे, । ६२५पशुग्रहणं किं, ब्राह्मणाः, इमे, संधेषु कि; एतो गावा, अरुणेषु किं, वत्सा इमे, अश्वा इमे, शिरसी-शिरांसी इत्यादौ न, पन्थानौ-पन्थान:- इत्येकशेषप्रयोगाः ।
अथ सर्वसमासशेष-प्रयोगाः।। पृष्ठ ६२६-षञ्च वृत्तयः, राज्ञः पुरुषः, ३२४-सूपप्रति, उन्मत्तगङ्गम्, अतिमाला. द्विनाः, दन्तोष्ठम् । राजपुरुषः, पर्यभूषयत् , कुम्भकारः । ६२८-कटप्रूः, अजस्त्रं, पिवत. खादता, खादतमोदता, कृन्तविचक्षणा, एहीडादयः । इति सर्वसमासशेषप्रयोगाः ।
___ अथ समासान्तप्रयोगाः। पृष्ठ ६२९-अर्धः, अनुक्साम, बहकसूक्त, विष्णुपुरं, विमलापं सरः, द्वीपम् ,
For Private and Personal Use Only
Page #1007
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SEE
परिशिष्टे
अन्तरीपं, प्रतीप, समीपं समापो देवयजनं, स्वपू, स्वपी, प्रेपं, परेपम् । ६३०- प्रापं, परापम्, अनूपो देशः, राजधुरा, अंक्षधूः, दृढधूरक्षः, सखिपथः रम्यपथो देशः, प्रतिसामम्, अनुसामम्, अवसामं, प्रतिलोमम्, अनुलोमम्, अपलोमं, कृष्णभूमः, उदग्भूमः, पाण्डुभूमः, द्विभूमः प्रासादः । ६३१ - पञ्चनदं सप्तगोदावरं, पद्मनाभः, गवाक्षः, अचतुरः, विचतुरः, सुचतुरः, त्रिचतुराः, उपचतुराः, धेन्वनडुहौ, ऋक्समासे, वाङ्मनसे, अक्षिबं, दारगवम् ! ६३२ - उर्वष्ठीवं, पदष्ठीवं, नक्तदिवं, रात्रिन्दिवम्, अहर्दिवं, सरजर्स, स रजः पङ्कजं, निःश्रेयसं नि श्रेयान्पुरुषः । ६३३ - पुरुषायुषं द्वयायुषं त्र्यायुषम्, ऋग्यजुषं, जातोक्षः, महोक्षः, वृद्धोक्षः, उपशुनं गोष्टश्वः, ब्रह्मवर्चसं, हस्तिवर्चसं, पल्यवर्चसं, रा. जवर्चसम्, अवतमसं, सन्तमसम्, अन्धतमसम् । ६३४ - श्वोवसीयसं, श्वः श्रेयसन्तेभू. बात, अनुरहसम्, अवरहसं, तप्तरहसं, प्रत्युरसम् अनुगर्वयानम् । ६३५ - वेदिरिति किं द्विस्तावती, त्रिस्तावती रज्जुः, प्राध्वो रथः, सुराजा, अजिराजा, परमराजः, प्रजनात्किम्, अतिगवः । ६३६ - सुसक्थः, स्वक्षः, किराजा, किंसखा, किङ्गौः, क्षेपे किं, किंराजः, किंसखः, किङ्गवः, अराजा, असखा, तत्पुरुषात्किम्, अधुरं शकटम्, अपथम्, अपन्थाः, अपथो देशः, अपथं वर्तते । इति समासान्तप्रयोगाः ।
शेपः,
Acharya Shri Kailassagarsuri Gyanmandir
•
अथ लुक्समास-प्रयोगाः ।
1
9
1
पृष्ठ ६३० - स्तोकान्मुक्तः, एवमन्तिकार्थं दूरार्थं कृच्छेभ्यः, उत्तरपदे किम्, निस्तोंक्लः, ब्राह्मणाच्छंसी । ६३८ - ओजसाकृतम्, अञ्जसाकृतं पुंसानुजः, जनुषान्धः, मनसा गुप्ता, मनसाज्ञायी, आत्मनापञ्चमः । ६३९- पूरणे इति किम्, आत्मकृतम्, आत्मनेपदम् आत्मनेभाषा, परस्मैपदं, परस्मैभाषा, त्वचिसारः, गविष्ठिरः । ६४० युधि - ष्ठिरः, अरण्येतिलकः, हृदिस्पृक् दिविस्तृक, मुकुटे कार्षापणं, दृषदिमाषकः, कारनाम्नि किम् अभ्याहतपशुः प्राचां किम्, यूथपशु, हलादौ किम् अविकटोरणः, इलदन्तात्किं नदीदोहा, मध्येगुरुः अन्येगुरुः, कण्ठेकालः, उरसिलोमाः, अमूर्धमस्तकात्किं मूर्धशिखः, मस्तकशिखः, अकामे किम् मुखकामः । ६४१ - हस्ते बन्धः, हस्तबन्धः, हलदन्त इति किम्, गुप्तिबन्धः स्तम्बेरमः, -स्तम्बरमः, कर्णेजपः, - कर्णजपः, कुरुचरः, प्रावृषिजः शरदिजः कालेज, दिविजः वर्षेजः, -वर्षजः, क्षरेजः, -क्षरजः शरेज - शरजः, वरेज:-वरजः, पूर्वाह्नतरे, पूर्वाह्नतरे, पूर्वातमे - पूर्वाह्नतमे. पूर्वाह्न काले, पूर्वाह्नकाले, पूर्वाह्वेतने,- पूर्वाह्वतने, खेशयः - खशयः - ग्रामेवासः - ग्रामवा सः, ग्रामेवासी - ग्रामवासी, भूमिशयः, अप्सुयोनिः । ६४२ - अप्सन्यः, अप्सुमन्तावाज्यभागौ स्थन्डिलशायी, साङ्काश्यसिद्धः, चक्रबद्धः, समस्थः, भाषायां किम् कृ. 'ष्णोऽस्या खरेष्ठः, चौरस्यकुलम् आक्रोशे किम्, ब्राह्मणकुलं, वाचोयुक्तिः दिशोदण्डः, पश्यतोहरः आमुष्यायणः, आमुष्यपुत्रिका, आमुष्यकुलिका, देवानां प्रियः । ६४३देवप्रियः, शुनः शुनः पुच्छ, शुनोलाङ्गूलः, दिवोदासः, दास्याः पुत्रः, दासीपुत्रः, निद्रायां किम् ब्राह्मणीपुत्रः, होतुरन्तेवासीः, होतुः पुत्रः पितुरन्तेवासी,
"
•
1
For Private and Personal Use Only
*
Page #1008
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
888 पितुः पुत्रः, होतृधनम् । ६४४-मातुःवसा, भातु:स्वसा, पितुः ष्वसा, पितुः स्वसा, मातृवसा, पितृष्वसा, मातुः स्वसा, पितुः स्वसा, इत्यलुक्समासप्रयोगाः।।
मथ समासाश्रयविधि-प्रयोगाः। - पृष्ठ ६४५-ब्राह्मणितरा, ब्राह्मणितमा, ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा, ब्राह्मणिगोत्रा, व्यः किम् , दत्तातरा, भाषितपुंस्कात्किम् , आम. लकीतरा, कुवलीतरा, ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा, स्त्रितरा, स्त्रीतरा, लक्ष्मीतरा, विदुषितरा । ६४६-विद्वत्तरा, हल्लेखः, हृणं, हार्द, हल्लासः, हृदयलेखः, हृच्छोकः, हृदयशोकः, सौहार्द, सौहृध, हृदयरोगः, पदाजिः, पदातिः, पदगः, पदोपहतः, ६४७पद्याः अतदर्थे किम् , पाद्यं, पदिकः, पद्धिर्म, पत्काषी, पद्धतिः, गायत्री पच्छः शंसति, ऋचः किम् , पादशः कार्षापणं ददाति, प्रद्घोषः, पादघोषः, पन्मिश्रा, पादमिश्रः प. च्छन्दः, पादशब्दा, पनिष्कः, पानिष्कः, उदमेधः, क्षीरोदः । ६४८-उदपेषं पिनष्टि, उदवासा, उदवाहनः, उदधिः , उदकुम्भः, उदककुम्भा, एकेति किम् , उदकस्याली, पूरयितव्येति किम् , उदकपर्वतः, उदमन्थः, उदकमन्थः, उदौदना, उदकोदनः, ग्रामणिपुत्रः, ग्रामणीपुत्रः, इक किम्, रमापतिः अब्य इति किम् , गौरीपतिः, श्रीमदः, भ्रूभझा, शुक्लोभावः, भ्रुकुंसः, ६४९-भृकुटिः, भृकुटिः, एकरूप्यम् , एकक्षीरं, रेवतीपुत्रः, अजक्षीरम् , भजत्वम् , अजास्वम् , रोहिगित्वं, रोहिणोत्वम् । ६६०-कौमुदगन्ध्याः पुत्रः कौमुदगन्धीपुत्रा, कौमुदगन्धीपतिः, परमकाररीषगन्धीपुत्रः अतिकारीषगन्ध्यपुत्रः,६५१-कारीषगन्धीबन्धुः, बहुव्रीहाविति किम् , कारीषगन्ध्याबन्धुः, कारोषगन्धीमातः, कारीषगन्ध्यामातः, कारीषगन्धीमातृका, कारीषगन्ध्यामातृकः, कारीषग. न्धीमाता, कारीषगन्ध्यामाता, नेह-कारीषगन्ध्यामाता, इष्टकचितं, पक्वेष्टकचितम् , इषीकतूलं, मुम्जेषीकतूलं, मालभारी, उत्पलमालभारी, सत्यकारः, अगदङ्कारः, म, स्तुकारः । ६५२-धेनुम्भव्या, लोकपृणः अनभ्यासमित्यः, भ्राष्ट्रमिन्धः, अग्निमि. न्धः, तिमिङ्गिालः, अगिलस्य किम् , गिलगिलः, तिमिशिलगिलः, उष्णकरणं, ६१३भद्रकरणं, रात्रिञ्चरः, रात्रिचरः रात्रिमटः, राज्यटः, रात्रिम्मन्यः, सपलाश, संज्ञायां किम् , सहयुध्वा, समुहूर्तज्योतिषमधीते, सद्रोणाखारी, सराक्षसिकानिशा, ६५.सगर्व्यः, सयूथ्यः सनुत्यः, अमूर्धादिषु किम् , समानमूर्धा, समानप्रभृतयः. समानोदकाः, सपक्षः, साधर्म्य, सजातीय, ससखीति यथा । ६५.-सज्योतिः,सजनपद इत्यादि, सब्रह्मचारी, सतीर्थ्यः, ६५६-सोदर्यः, समानोदर्यः, सहक् , सहशः, सहक्षा, ईड ईड. शा, कीहक्, कीदृक्षः, ईदृक्षः, कीदृक्षः, तादृक् , तादृशः, तावान् , तादृक्षः, अमूदृशः, अमूहक् , अमूदृक्षः, भङ्गुलीषणः, समासे किम् , अङ्गुलेः सङ्गः, भीरुष्ठानं, भीरोःस्थानं, ज्योतिष्टोमः । ६६७..आयुष्टोमः, समासे किम् , ज्योतिषः स्तोमः, सुषामा, सुषन्धिः, हरिषेणः, एति किम् , हरिसक्थ, संज्ञायां किम् , पृथुसेनः, अगकारात्किं, विष्वक्सेनः, सर्वसेनः, रोहिणीषणः, रोहिणीसेनः, अगकाराकि, शतभिषक्सेना, अन्यदाशीः,
For Private and Personal Use Only
Page #1009
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेअन्यदाशाः, अन्यदास्था, अन्यदास्थितः, अन्यदुत्सुका, अन्यदूतिः, अन्यद्रागः, अन्य. दीयः, अषष्ठीत्यादि किम् , अन्याशीः, अन्यत्कारकः, अन्यदीयः, अन्यदर्थः, अन्यार्थः, कदश्वः, कदन्न, तत्पुरुषे किम् , कुष्ट्रो राजा । ६५८कत्रयः, कद्रथा, कद्वदः, कत्तुणं कापर्थ, काक्षाः, काजलं, काम्ला, कापुरुषः, कुपुरुषः, ईषत्पुरुषः, कापुरुषः, कवोष्णं,, कोष्णम् , कदुष्णं, ६५९.पृषोदरं बलाहकः, भवेद्वर्णागमाध्वंस:-सिहोवर्णविपर्ययात्, गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरं । दक्षिणतारं, दक्षिणतीरम् ,उत्तरतारम् ,उत्तरतीरं दूडाशः, दूणाशः, दूडभः । ६६०-दूढयः, बृसी, द्विगुणाकर्णः, लक्षणस्य किम् , शोभनकर्णः, अविष्टादीनां किम् , विष्टकर्णः, अष्टकर्णः, पञ्चकर्णः, मणिकर्णः, भिन्नकर्णः, छि. न्नकर्णः, छिद्रकणैः, सुवकर्णः, स्वस्तिककर्णः, उपानत् , नीवृत्, प्रावृट् , मर्मावित् , नीरुक् । अभीरुक्, ऋतीषा, परीतत्, काविति किम् , परिणहनं, न-पटुरुक,तिग्मरुक ,पुरगावणं,मिश्रकावर्ण, सिधकावणं,सारिकावणं, कोटरावणम् ,एभ्य एवेति किम् । ६६२-असिपत्रवनम् , अग्रेवणं, किंशुलुकागिरिः, कृषीवलः,अमरावती, अनजिरादीना. मिति किम् ,अजिरवती, बह्वचः किम् , ब्रीहिमती, वलयवती, शरावती, ऋषीवहं, कपीवह, इकः किम् । पिण्डवहम् , अपीलोः किम् । पीलुवह, दारुवह,परीपाकः परिपा. कः । ६६३-अमनुष्ये किम् । निषादः,वीकाशः,नीकाशः,इकः किम् । प्रकाशः अष्टापदं, सज्ञायां किम् । अष्टपुत्रः,एकचितीका,द्विचितीकः, विश्वानरः, विश्वामित्रः, ऋषौ कि, विश्वमित्रोमाणवकः, श्वादन्तः, प्रवणं, कायवणम् । ६६४-दूर्वावर्ण, दूर्वावन, शिरीषवणं.शिरीषवनं, देवदारुवनम् , इरिकावनं, मिरिकावन, तिमिरावन, इक्षुवाहणम् आ. हितात् किम् । इन्द्रवाहनम् , क्षीरपाणा उशीनराः,सुरापाणाः, प्राच्याः । ६६५-क्षीर. पानं,क्षीरपाणं, गिरिनदी, गिरिणदी, चक्रनितम्बा, चक्रणितम्बा, माषवापिणो, वीहि. वापाणि, माषवापेन, माषवापिनावित्यादि । ६६६-गर्गभगिनी, प्रहिण्वन्, प्रेन्वनं, र. म्ययूना, परिपक्कानि । ६६७-वत्रहणौ, हरिमाणी, क्षीरपाणि, क्षीरपेण, रम्यविणा, ह. रिकामिणौ, हरिकामाणि, हरिकामेण, माषकुम्भवापेन, चतुरङ्गयोगेन । ६६८-आई. गोमयेण, शुष्कगोमयेण, कुस्तुम्बुरुर्धान्याकं, जातिः किम् , कुतुम्बुरूणि, अपस्पराः सार्था गच्छन्ति, क्रियेति किम् । अपरपरागच्छन्ति, ६६९-गोष्पदः, अगोष्पदान्यरण्यानि, गोष्पदमात्रं क्षेत्रं, सेवितेत्यादि किम् , गोपदम् , अस्पदं, प्रतिष्ठायां किम् । आपदादम् , आश्चर्य यदि स भुञ्जीत, अनित्येति किम् , आवर्य कर्मशोभनम् , अव. स्करः वर्चस्के किम् । अवकरः, अपस्करः, अपकरः, विकिरः । ६७७-प्रतिष्कशः, कशेः किम् , प्रतिकशोऽधः, ऋषीति किम् , प्रकण्वोदेशः, हरिश्चन्द्रो माणवकः, वेण्विति किम् , मकरो ग्राहः, मकरी समुद्रः, कास्तीरं नाम नगरम् , अजस्तुन्दं नाम नगरं, नगरे किम् , कातीरम्, अजतुन्द, कारस्करो वृक्ष, कारकरः, पारस्करः, किष्किन्धा । ६७१-तस्करः, बृहस्पतिः, प्रायश्चित्तिः, प्रायश्चित्त, वनस्पतिरित्यादि ।
इति समासाश्रयविधिप्रयोगाः। .
For Private and Personal Use Only
Page #1010
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
२००१
अथ नखिताधिकार प्रयोगाः ।
पृष्ठ ६७३ - आश्वपर्त, गाणपतं दैत्यः, आदिस्यः, प्राजापत्यः, याम्यः, पार्थिवा, पार्थिवी, दैव्यं दैवं, ६०४ - बाह्यः । बाहीकः, अश्वत्थामः, अश्वत्थामा, उदुलोमाः. उडुलोमान्, बहुषु किम, औहु लोमिः, गव्यम् अजादिप्रसङ्ग किम् गोरूप्यम् । ६७६ - औत्स:, आग्नेयं, कालेयम् । इति विकारान्तार्थसाधारणप्रत्ययप्रयोगाः । अथ तद्धितापत्याधिकार- प्रयोगाः ।
1
"
+
.
1
"
पृष्ठ ६७५- स्त्रैणः, पौनः, स्त्रीवत् पुंवत् । ६७६ - पञ्चकपालः, द्विगोर्निमित्तस्येति किम् . पाचकपालम्, अजादिः किम्, पञ्चगर्गरूप्यम्, अनपत्ये किम् द्वैमित्रिः, ६७७गार्गीयाः, प्राग्दिव्यतीये किम्, गर्गीयम् अचिकिम्, गर्गरूप्यं, ग्लुचुकायनिः, ६७८ - ग्लौचुकायनः तच्छात्रोऽपि रहौचुकायनः पैलः पिता-पुत्रश्च । पिता-पुत्रश्च । ६७९ - पन्नागारिः पिता-पुत्रश्च प्राचां किम् दाक्षिः पिता, दाक्षायणः पुत्रः, तुल्वलः, तौम्चलिः पिता, तौक्वलायनः पुत्रः, कातीयाः, का: त्यायनीयाः । ६८० यास्कायनिः, यास्कीयाः, यास्कायनीयाः, औपगवः, 'तस्येदमित्यपत्येपि बाधनार्थं कृतं भवेत् । " उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ ६८२-भानवः, कृतसन्धेः किमू, सौत्थितिः, वस्त्रमुपगोरपत्यं चैत्रस्य प्रथमाकिम् अपत्यवाचकास्षष्ठयें मा भूत् । ६८३ - उपग्वपत्यम् औपगवी, आश्वपतः, दैत्यः, औत्स, स्त्रैणः, पौनः । ६८४ - गाग्ययणः, गार्ग्यः, स्थविरेति किं स्थानवयोन्यने गार्ग्य एव । ६८५ - जीवतीति किम्, मृते मृतो वा गार्ग्य एव तत्र भवान् गार्ग्ययणः, पूजेति किम, गार्ग्यः, गार्ग्यों जाल्मः, कुत्सेति किम् गार्ग्ययणः, औपगवः, गार्ग्यः, नाडायनः । ६८९ - गार्ग्यायणः, दाक्षिा, बाहविः, औडलोमिः, सौ. धातकिः । ६९० - वैयासकिः, वाडकिः, कौआयन्यः, प्राध्नायन्यः कौआयनी, कौभिः ६९१- नाडायनः, चारायणः, अनन्तरो नाडिः, हारितायनः, गार्ग्यायणः, दाक्षायणः, शारद्वत्यानो भार्गवश्चेव, शारद्वतोऽन्यः, शौनकायनो वात्स्यश्चेत्, शौनकोन्यः, दा. भयण आग्रायणश्चेत्, दार्भिरन्यः द्रौणायनः, द्रौणि, पार्वतापनः पार्वतिः, जैवन्तायनः, जैवन्तिः । ६९२- बैदः, बैदिः, पौत्रः, दौहित्रः, गार्ग्यः, वात्स्यः, गर्गाः, वत्साः, विदाः, उर्वाः, तत्कृते इति किम्, प्रियगार्ग्यः, गार्ग्यस्त्रियः । ६९३ - गोत्रे किम्, द्वैप्याः, औपौत्राः दौहित्राः, माधव्यो ब्राह्मणः, माधवोऽन्यः, बाभ्रव्यः कौशिकर्षिः, वोsन्यः, बाभ्रव्यायणी, काव्य, पौष्यः, अङ्गिरसे किम्, कापेय, बौधिः, वातण्ड्यः, वातण्ड्यः, वातण्डः । ६९४ - वतण्डी, वातण्ड्यायनी, वातण्डी, आश्वायनः, जातायनः, पुंसीति किम्, जातेयः, भार्गायणस्त्रगर्तः, भागिरन्य:, शैवः, गाङ्गः, गाङ्गायनिः, गाङ्गेयः यामुन, नार्मदः, चैन्तितः, अवृद्धाभ्यः किम्, वासवदतेयः । ६९५ - नदीत्या. दि किम्, वैनतेयः, तन्नामिकाभ्यः किम्, शौभनेयः, वासिष्ठः, वैश्वामित्र, श्वाफल्कः, वासुदेवः, अनिरुद्धः, । नाकुलः, साहदेवः, आत्रेयः, द्वैमातुरः, षाण्मातुरः, सांमातुरः,
त्सा,
बान
For Private and Personal Use Only
.
Page #1011
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००२
परिशिष्टे -
1
9
भाद्रमातुरः तेन धान्यमानं । ६९६ - संख्या इति किम्, सौमात्रः, वैमात्रेयः, कानीनो व्यासः कर्णश्व, वैकर्णो वात्स्य, वैकर्णिरन्यः शौङ्गो भारद्वाजः, शौङ्गिरन्यः छागल आत्रेयः, छागलिरन्यः, शुङ्गा, शौयः । ६९७ - पैल:- पैलेयः, माण्डूकेयः, माण्डूकः, माण्डुकिः वैनतेयः, सौमित्रिः, सापत्नः, दात्तयः, पार्थः, दौलेयः, नैधेयः, आत्रेयः, शौभ्रेयः, वैकर्णेयः, कौषीतकेयः, वैकणिः, कौषीतकिः, श्रवेयः । ६९८ - प्रावाहणेयः - प्रवाह णेयः, प्रावाहणेयः प्रवाहणेयिः, काल्याणिनेयः, बान्धकिनेयः, कौलटिनेयः, कौलटेयः । ६९९ - कौलटेरः, सौदः, सौभागिनेयः, साक्तुसैन्धवः, चाटकैरः, चटका, गौधेरः, गौधेयः, गौधारः, जाडारः, पाण्डारः । ७०० - काणेरः, काणेयः दासेरः, दासेयः, पैतृष्वस्त्रीयः वैतृष्वसेयः, मातृष्वस्त्रीयः, मातृष्वसेयः, कामण्डलेयः, गायः । ७०१ - मैत्रेयः, मैत्रेयौ, मित्रयवः | ७०२ - अत्रयः, भृगवः, कुत्साः, वसिष्ठाः, गोतमाः, अङ्गिरसः, पन्नागाराः, युधिष्ठिराः, गौपवनाः, शैवाः, तिककितथाः, उपकलमका:-अ - औपकायनलामका यनाः, भ्रष्टकका पिष्ठकाः भ्राष्ट्रकिकापिष्ठलयः, उपकाः - औपकायनाः, लमकाः- लामकायनाः अगस्तयः, कुण्डिनाः, राजन्यः श्वशुर्यः, राजनः, अभावकर्मणोः, किम्, राज्यं, चाक्रिणः, आसाम, मपूर्वः किम्, सौत्वनः, अपत्ये किम्, वार्मणोरथः, अवर्मणः किम् चा. क्रवर्मणः । ७०४ - हैतनामः -हैतनामनः, ब्राह्मं हविः, ब्राह्मणः, अपत्ये किम्, ब्राह्मी औ षधिः, औक्षम्पदं, अनपत्ये किम् उक्ष्णः अपत्यमौक्ष्णः, औक्षणः, ताक्ष्णः, श्रौणघ्नः, धार्तराज्ञः, षपूर्वेति किम्, साम्नोऽपत्यं सामनः, अणि किम् ताक्षण्यः, क्षत्रियः, क्षान्त्रिरन्यः । ७०५ - कुलीनः, आढयकुलीनः, कुल्यः, कौलेयकः, कुलीनः, पदग्रहणं किम्, बहुकुल्यः, बाहुकुलेयकः, बाहुकुलीनः, माहाकुलः, माहाकुलीनः, महाकुलीनः, दौष्कुलेयः, दुष्कुलीनः, स्वस्त्रीयः, भ्रातृव्यः भ्रात्रीयः, शत्रुः । ७०६ - रवतिकः, गार्गः, गार्गिको वा जाल्मः, सौवीराः । ७०७ - भागवित्तिकः, भागवित्तायनः, यामुन्दायनीयः, यामुन्दायनिका, कुत्सने किम्, यामुन्दायनिः, सौवीरेति किम्, तैकायनिः, फाण्टाहृतः, फाण्टाहृतायनिः, मैमतः, मैमतायनिः, ख्याः ब्राह्मणाः, वावदूक्याः, साम्राज्यः, साम्राजोऽन्यः, हारिषेण्यः, लाक्षण्यः, ता. न्तुवाय्यः । ७०८८- कौम्भकायः, नापित्यः, हारिषेणिः, लाक्षणिः, तान्तुवायः, कौम्भकारि, नापितायनिः, ताक्ष्णः ताक्षण्यः, तैकायनिः, कौसल्यायनिः, कार्मार्यार्याणिः, छाग्यायनिः, वार्ष्यायणिः, कार्याणिः, अण-इति किम्, दाक्षायणः, द्वयचः किम, आपगविः । ७०९ - व्यादायनिः, त्यादः, आस्नागुप्तायनिः, आम्रगुप्तिः, वृद्धात्किम्, दाक्षिः अगोत्रात्किम् औपगविः, वाकिनकायनिः, वाकिनिः, गार्गीपुत्रकायणिः, गार्गीपुत्रायणि, गार्गीपुत्रिः, ग्लुचुकायनिः, मानुषः, मानुष्यः, ऐक्ष्वाकः, ऐक्ष्वाकौ ७१० - पाञ्चालः, पौरवः, पाण्ड्यः, साल्वेयः, गान्धारः, आङ्गः, वाङ्गः, सौह्नः, मागधः, कालिङ्गः, :, सौरमसः । ७११ - आम्ब्रष्ठ्यः, सौवीर्यः, भवन्त्यः कौन्त्यः । कौसल्यः, आजाद्यः, कौरव्यः, नैषध्यः, औदुम्बरिः, प्रात्यग्रथिः, कालकूटिः, आश्मकिः, इक्ष्वाकव
"
भ्रातृव्यः
"
1
For Private and Personal Use Only
Page #1012
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
१००३ पक्षालाः, कथं तर्हि कौरव्याः पशव-तस्यामेवरघोः पाड्या इति च । ०१२रघूणामन्वयं वक्ष्ये, निरुध्यमाना यदुभिः कथञ्चित् , कम्बोजः कम्बोजौ, चोलः, शकः, केरलः, यवनः, कम्बोजाः समरे-इति पाठ सुगमः, अवन्ती, कुन्ती, कुरूः, शूरसेनी, मद्री । ७१३-कथं माद्रीसुतौ-इति, पाञ्चाली, वैदर्भी, आजी, वाङ्गी, मागधी, भार्गी, काशी, कैकेयी, केकयी, युधा, शुक्रा, यौधेयी, शौक्रेयी। ७१४-कौमुद्गन्ध्या, वा. राह्या, अनार्षयोः किम् , वासिष्ठी, वैश्वामित्री, गुरूपोत्तमयोः किम्, औपगवी, गोत्रे किम् , आहिच्छत्री। ७१५-पौणिक्या, भौणिक्या, क्रौड्या, व्याड्या, सूत्या, भोज्या, देवयज्ञा, देवयज्ञो । इत्यपत्याधिकारप्रयोगाः।
अथ चातुरर्थिकप्रकरण-प्रयोगाः। पृष्ठ ०१६-रागः, कषायेण रक्त ववं काषाय, माञ्जिष्ठ, रागात्किम् , देवदत्तेन रक्त वस्त्रं, लाक्षिकः, रोचनिकः, शाकलिकः, कार्दमिकः, शाकलः, कादमः, नील्यारक्त नीलं, पीतक, हारिद्रं, महारजर्म, पौषमहः, पौषीरात्रिः, अद्यपुष्यः । ७१७-कथं तर्हि पुष्ययुक्तापौर्णमासी पौषीति, श्रावणी, श्रवणा रात्रिः, अश्वत्थो मुहूर्तः, संज्ञायां किम् , श्रावणी, माश्वत्थी, तिष्यपुनर्वसवीयमहः, राधानुराधीया रात्रिः। ०१८-वासिष्ठं साम, मोशनसम् , कालेयं साम, वामदेव्यम् , 'सिद्धेयस्येति लोपेनेत्यादि वस्त्र परिवृतो वास्रो रथः, स्थः किम्, वस्त्रेण परिवृतः कायः, छात्रैः परिवृतो रथः, पाण्डुकम्बली । ७१९-द्विपिनो विकारो-द्वैपं, तेन परिवृतो द्वेपोरथा, एवं वैयाघ्रः, कौमार:पतिः कौमारी भार्या, शाराव ओदनः, स्थाण्डिलो भिक्षुः । ७२०-भ्रष्टा यवाः, अष्टाकपालः पुरोडाशः, शूल्यं मांसम् , उख्य, दाधिकम्, औदश्वित्का, मौदश्वितः, आशिपिकः, औषिकः, दौष्कः, रयी। ११-पोषो मासः, आग्रहायणिको मासः, अश्वत्थः, आपत्थिकः, फाल्गुनिकः, फाल्गुनो मासः, श्रावणिकः, श्रावणः, कार्तिकिका, कार्तिकः, चैत्रिका, चैत्रः, ऐन्द्र हविः पाशुपतं, बार्हस्पतम् । ७२०-ऐन्द्रो मन्त्रः, आग्नेयो वै ब्राह्मणो देवतया, कायं हविः, श्रायं, शुक्रियम् । ७२३-अपोनस्त्रियम्-अपानस्त्रियम् , अपोनपात , अपानपाच देवता, अपोनपाते, अपान्नपातेऽनुब्रीति प्रैषः, अपोनप्त्री. यम् , अपान्नप्त्रीय , शतरुद्रिय, शतरुदीयं हविः, माहेन्द्रं, माहेन्द्रियं, सौम्य, सौमी ऋक् , बायव्यम् , ऋतव्यम् । ७२४-पित्र्यम् , उषस्य, धावापृथिवीय, द्यावापृथिव्यं, शुनासीरियं, शुनाशीर्यम् , आग्नेयं, मासिकं, प्रावृषेण्यं, महाराजिकं, प्रौष्टपदिकम् । ०२५-आरितमारुतं, सौमेन्द्रः, परस्य किम् , ऐन्द्राग्नः, ऐन्द्रावरुणं, दीर्घात्किम् , अग्निवारुणीमनड्वाहीमालभेत, नावयज्ञिकः कालः, पाकयज्ञिकः, पौर्णमासी तिथिः । ४२६-पितृव्यः, मातुला, मातामहः, पितामहः, मातामही, अविलोढम् , अविदूसम् । अविमरीसं, तिलपिक्षः, तिलपेजः, तिल्पिाः , कार्क, वाकं, भैक्षं, गाभिणम् । ७२७यौवन, यौवतं, ग्लौचुकायनम्, भौक्षकम् । ७२८-राजन्यक, मानुष्यक, वार्धक, केदार्य, कदारकं, गणिस्य, कावचिक, कैहारिक, ब्राह्मण्यं, माणव्यं, वाडव्यं, पृष्ठयं, ग्रामता,
For Private and Personal Use Only
Page #1013
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००४
परिशिष्टेजनता, बन्धुता, गजता, सहायता, अहीनः ।।७२९-ऋतौ किम्, आरः, पाश्चं, का. पोतं, मायूर, खाण्डिक, काठक, छान्दोग्यम् । ७३०-साक्तुक, हास्तिकं, धेनुकं, कैश्य, कैशिकम् , अश्वीयम , आश्वं, पाश्या, तृण्या, धूम्या, वन्या, वास्या, खल्या, गव्या, रथ्या, खलिनी, गोत्रा, स्थकट्या, डाकिनी, कुटुम्बिनी, शैवः । ५३१-देशे कि, देवदत्तस्य विषयोऽनुवाकः, राजन्यकः, भौरिकिविधं, भौलिकिविधम् , ऐषुकारिभक्तं, सारसायनभक्त, पाडूः प्रगाथः, त्रैष्टुभम् । ७३२-सौभद्रा, भारतः, दाण्डा, मौष्टा, श्यैनम्पाता मृगया, तैलम्पाता स्वधा, श्येनतिलस्य किम् , दाण्डपाता तिथिः, वैयायाकरणः । ०३३-आग्निष्टोमिकः, वाजपेयिका, औक्थिकः, नैयायिकः, वार्तिकः, लो. कायतं, लौकायतिक इत्यादि, सांग्रहसूत्रिका, अकल्पादेः किम् , काल्पसूत्रः, वायसविधिकः, गौलक्षणिकः, आश्वलक्षिकः, पाराशरकल्पिकः, आङ्गविद्यः, क्षात्रविद्या, धार्मविधः । ७३४-विद्यः, यावक्रीतिकः, वासवदत्तिकः, ऐतिहासिक पौराणिकः सर्ववेदा, सर्वतन्त्रः, सर्ववार्तिकः, द्वितन्त्रः, पूर्वपदिकः, उत्तरपदिकः, शतपथिकः, शतपथिकः शतपथिकी, षष्टिपथिकः, षष्टिपथिकी । ७३६-क्रमकः, पदकः, शिक्षकः, मी. मांसक इत्यादि, अनुब्राह्मणी, वासन्तिकः, आथर्वणिकः, पाणिनिः । ०३६-कौरव्यः पिता, कौरव्यः पुत्रः, वाफलका पिता, श्वाफल्कः पुत्रः, वासिष्ठः पिता, वासिष्ठः पुत्रः सैकायनिः पिता, तैकायनिः पुत्रः, एभ्यः किम् , कौहडः पिता, कौहडिः पुत्रः, यूनि किम् , वामरथ्यस्य छात्रा वामरथ्याः। ७३७-पाणिनिना प्रोक्तं पाणिनीय, पाणिनीयः, पाणिनीयाः, अष्टकाः, माहावार्तिकः, कालापः, ७३८-कठाः ।
अथ चातुरर्थिक-प्रयोगाः। पृष्ठ ७३८-औदुम्बरः, कौशाम्बी, १९-ॐबः, वैदिश, कक्षतु, काक्षतवम् ,इक्षुमती, सैध्रकावतं, बह्वजिति किम्, माहिमतं, दैर्धवरत्रः कूपा, दात्तः कूपः, उदक किम्, दक्षि. जतः-कृपेषु, साङ्कलं, पौष्कलं, दात्तामित्रो नगरी। ७४०-वैधूमाग्नी, प्राचि, माकन्दी, सौवास्तव, वार्णवं, सौवास्तवी, रौण, आजकरौणः, कार्णछिद्रकः कूपः, कार्कवाकवं,
शवम् । ६४१-आरीहणक, काश्विीयम् , ऋष्यक, कुमुदिकं, काशिलः, तृणसं, प्रे. क्षी, अश्मर, साखेयं, साङ्काश्य, बल्यं, पाक्षायणः, पान्थायनः, कार्णायनिः, सौत. ङ्गमिः, प्रागद्यः, वाराहकः, कौमुदिकः, पञ्चालाः, कुरवः, अङ्गाः, वङ्गाः, कलिङ्गाः, ७४२-पञ्चाला, रमणीयाः, गौदौर मणीयौ, अजातेः किम् । ०४३-पवाला जनपदाः, गोदौ ग्रामः, हरीतक्यः, खलतिकं वनानि, चम्चा-अभिरूपः, वरणाः । ७४४-शर्करा,शार्कर, शार्करिक, शार्करीयं, कर्करिक, शार्करिकम् , इक्षुमती, मधुमान् , कुशद्वान् , नड्वान् , वेतस्वान् , महिष्मान्नामदेशः, नड्वलः । ७४५-शाहलः, शिखावलम् , उत्करीयः नडकीय, क्रुश्चकीयः, तक्षकीयः विल्वकीदयाः, बैल्वकाः, वेत्रकीयाः, चैत्रकाः, छस्य किम् , छमात्रस्य लुक यथास्यात्।
इति चातुरर्थिकप्रयोगा।
For Private and Personal Use Only
Page #1014
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००५
प्रयोगसूची।
अथ शैषिक-प्रयोगाः। पृष्ठ ७४६-चाक्षुष रूप, श्रावणः शब्दा, ओपनिषदः पुरुषः, दार्षदाः सक्तवः, आलुखलो यावका, माचो स्था, चातुरं शकट, चातुर्दशं रक्षा राष्ट्रिया, अवारपारीणः । ४४५-अवारीणा, पारीणः, पारावारीणः, ग्राम्या, ग्रामीणः, कास्त्रेयका, नागरेयकः, पामेयकः, कौलेयकः था, कोलोऽन्यः, कौशेयकोऽसिः, कौक्षोऽन्यः, अवेयकोऽलङ्कारः, वोऽन्यः, नादेयं, माहेयं, वाराणसेयं । ७१८-दाक्षिणात्यः, पाश्चात्या, पौरस्त्या, कापिशायनं मधु, कापिशायनी द्राक्षा, राक्षवो गौः, राङ्कवायणः, अमनुष्य इति किं ? रावको मनुष्यः, दिव्यं,प्राच्यम् ,अपाच्यम् ,उदीच्य,प्रतीच्यं, कान्थिकः, यथा हि जातं हिमवत्सु कान्थकम् , अमात्यः, इहत्यः, कस्यः, ततस्त्यः, तत्रत्यः, परिगणनं किम् , औ. परिष्टः । ७४९-आरातीयः, शाश्वतीयः, नित्या, निष्ठ्यः, आरण्याः सुमनसः, दूरेत्यः, मौत्तराहा, ऐषमस्त्यम् , ऐषमस्तन, अस्त्यं, शस्तन, वस्त्यं श्वस्तनं, शौवस्तिकम् । ७६०-काकतीर, पाल्वलतीरं, शैवरूप्यं, बाहुरूपं, पौर्वशाला, असंज्ञायां किम् । पूर्व. 'पुकामशमः, पौर्वमद्रा, आपरमद्रः, शैवपुरं, माहिकिप्रस्थः, पालदः, नैलीनकः । ०६१काव्यस्य छात्राः काण्वारा, दाक्षाः, गोत्रे किम् । सौतङ्गमीयं, पाणिनीय, प्राष्टीया, काशीयाः, शालीयः, मालीयः, तदीयः। ७६२-एणीपचनीयः, गोनर्दीया, भोजकटीयः, ऐणीपचनः, गौनर्दः, भौजकटः, एङ् किम् । आहिच्छत्रः, कान्यकुब्जः, देवदत्तः, देव. दत्तीयः, भावस्कः, भवदीयः, भावतः, काशिकी, काशिका, बैदिकी, बैदिका, भापत्का. लिकी, आपत्कालिका, कास्तोरिकी, कास्तीरिका, सौदर्शिनिकी, सौदनिका,सौदर्श नीया। ७५३-निषादक: नैपादकर्षक:, देशे किम् । पटोछात्राः पाटवाः, दाक्षिकएकः, आटकजम्बुका-शाकजम्बुका, मालवास्तवः, ऐरावतकः, सावाश्यका, काम्पिल्यका, मालाप्रस्थकः, नान्दीपुरकः,पैलुवहकः, पाटलिपुत्रकः, इतः, काकन्दकः, आदर्शकः नग. तक ०५४-आरकः, आजमीठकः दार्धकः, कोलारका विषयग्रहणं किम् । वार्तनः, दारकच्छका, काण्डाप्रकः, सैन्धुवक्त्रकः, बाहुवर्तकः, धौमकः, तैर्थकः, नागरकश्वास, शिल्पी वा. कुत्सनेति किम् । नागराः ब्राह्मणाः, आरण्यकः पन्थाः, आरण्यकार गोमयाः, मारण्याः गोमया। १९-कौरवकः, कौरवः, यौगन्धरका, यौगन्धरः, मद्रका, वृजिकः, माहिषिकः, काच्छा, सैन्धवः, काच्छको मनुष्यः, काच्छकं इसितं, मनुष्येति किम् । काच्छो गौः, साल्वको ब्राह्मणः, अपदातौ किम् । साल्वः पदातिजति, सास्वको गौः, साल्विका यवागू, साल्वमन्यत, वृकगीय, गहीयः, मुखतोय,पार्वतीयं. जनकीयं, परकीयं, देवकीयं, स्वकीयं, ४५६-वैणुकीय, वैत्रकीयम् , औत्तस्पदकीय, कटनगरीयं, कटघोषीय, कटपलवलीय, राजकीय, ब्राह्मणकीयः, शाल्मलिकीया, आयोमुखीयः, दाक्षिकन्थीय, दाक्षिपलदीयं, दाक्षिनगरीयं, दाक्षिणामीयं, दाक्षिहदीयं, पर्वतीयः, पवतीयानि फलानि, पार्वतानि फलानि, अमनुष्ये किम् । पावतीयो मनुष्या, कृकगीयं, पर्णीय, भारद्वाजे किम् । कार्कणे, पार्ण, युष्मदीया, अस्मदीयः ।
For Private and Personal Use Only
Page #1015
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००६
परिशिष्टे.v-यौष्माकीणा, अस्माकीनः, यौष्माकः, अस्माका, तावकीना, तावकः, मामकीनः, मामकः, स्वदीयः, मदीयः, अयः, पराध्यम्, अवराध्यम्, अधमार्यम्, उत्तमाय॑म् । ०५८-पौर्वाधिक पूर्वाध्य, पौर्वार्धाः, पौवाधिकाः, मध्यमा, मध्यो वैयाकरणः,मध्य दारु द्वैप्य, द्वैप्या, मासिकं, सांवत्सरिक, साम्प्रातिका, पौनः पुनिका, कथं तर्हि शार्वरस्य तमसो निषिद्धये इति कालिदासः । 'अनुदितोषसरागेति भारविः समानकालीनंप्राकालीनमित्यादि च । ७५९-शारदिकं श्राद्धं, शारदिकः रोगः, शारदो रोगः, शारद आतपः, शारदिक भातपः, एतयोः किम् । शारदं दधि, नैशिक, नैशं, प्रादोषिक, प्रा. दोष, शौवस्तिकं, सान्धिवेलं, }ष्म, तैष, सांवत्सर, फलं पर्व वा, सांवत्सरिकमन्यत् । ७६०-प्रावृषेण्यः, वाषिकं वासः, हैमनं, हैमन्तम् । ०६१-सायन्तनं, चिरन्तन, प्राहेतनं, प्रगेतन, दोषातनं, दिवातनं, चिरत्न, परुत्नं, परारित्नम् ,अग्रिमम् ,आदिम, पश्चिमम् , अन्तिम, पूर्वातनम् , अपरावेतनं, पूर्वाहतनम्, अपराहतनं, पौर्वाह्निकम् , आपराहिकं, स्त्रौना, औत्सः । ७६२-राष्ट्रियः, अवारपारीणः इत्यादि, प्रावृषिकः शारदकाः, पूर्ववार्षिकः, अपरहैमनः, अवयवात् किम् । पौर्ववार्षिकः। ७६३-सुपाञ्चालक सर्वपाञ्चालकः, अर्धपाञ्चालकः, पूर्वपाञ्चालकः, दिशः किम् । पौर्वपञ्चालः, अमद्राणां किम् । पौर्वमद्रा, पूर्वेषुकामशमः, पूर्वपाटलिपुत्रका, पूर्वाह्नकः, अपराहकः, भाईकः, मूलका, प्रदोषकः । ७६४-अवस्करका, पन्थकः, अमावास्यकः, आमावास्य; अमावास्या, सिन्धुकः, अपकारकः, सैन्धवः, आपकरः, विष्ठः, फल्गुनः । ७६५-चित्रा, रेवती, रोहिणी, फल्गुनी, अषाढा, श्राविष्टीयः, आषाढीयः, प्रोष्टपादो माणवकः, जे. इति किम् । प्रौष्ठपदः, भाद्रपादा, गोस्थानः, गोशालः, खरशालः । ७६६-वत्सशाल:, वात्सशालः, शातभिषजः, शातभिषः, शतभिषक्, रोहिणः, रौहिणः, मुध्नेकृतो लब्धः क्रीत:-कुशलो वा नौना,सुध्ने प्रायेण बाहुल्येन भवति सोऽनः, औपजानुका,भोपक.. णिका, औपनीविकः । ७६७-सुध्ने सम्भवति सौना, कौशेयं वस्त्रं, हैमनः प्रावास, वासन्त्यः कुन्दलताः, शारदाः शालयः, हैमन्ता यथा, आश्वयुजकाः माषा:, गैष्मक, प्रैष्म. वासन्तक, वासन्त, मासे देयमृणं मासिकं, कलापकम् , अश्वत्थः । ७६८-अश्वस्थक, यवबुसकं, प्रैष्मकम् , आवरसमक, सांवत्सरिक, सांवत्सरकम् , आग्रहायणि. कम् , आग्रहायणक, नैशो मृगः, नैशिकः, नैशिक:-नैशः, नाघ्नः, राष्ट्रियः, दि. वायें, दन्त्यं, कुण्ठ्य, सौह्मनागरः, ७६९-पौण्ड्रनागरः। प्रांचां किम् । मादनगरः, कौरुजङ्गलं, कौरुजाङ्गलं, वैश्वधेनवं, वश्वधैनवं, सौवर्णवलज, सावर्णवालजं, दातेयं, कौक्षेयं, कालशेयं, वास्तेयम् , आस्तेयम् , आहेयम् , अवेयं, मेवं, गम्भीरे भवंगाम्भीर्य, पाञ्चजन्यम्, पारिमुख्यम्, औपकूलः, अन्तमम् , मान्तरिमकम् । ७७०-आन्तर्गणिकम् , आध्यात्मिकम्, आधिदैविकम् , आधिभौतिकम्, ऐहलौकिकं, पारलौकिकं, दाविकं, दाविकाकूला:शालयः, शांशपश्चमसः, दात्यौह, दासत्रं, श्रायसं, पारिग्रामिकः, आनुमामिकः, जिह्वामूलीयम् , अङ्गुलीर्य कवर्गीयम् ।
For Private and Personal Use Only
Page #1016
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
१००७ ww१-मद्वग्य:-मदुर्गाणा-मवर्गीयः, अशदे किम् । कवर्गीयो वर्णः, कणिका,ललाटिका सौपो ग्रन्थः, तेड, कातः, सोपं,षात्वमस्विकः, भामिष्टोमिकः, वाजपेयिका, पाकय. ज्ञिक, नावयज्ञिकः । ७०३-वासिष्ठिकोऽध्यायः, अध्यायेषु किम् । वासिली ऋक,पौरो. नाशिकः, पुरोडाशिका, छन्दस्यः, छान्दसा, ऐष्टिका, शैषिकः, पाशुकः, चातुर्योतृकः, प्रा. मणिकः, आर्थिक, मार्गयनः, औपनिषदा, वैयाकरणः । ७७३-सौमः, शोल्कशालिका, शौण्डिका, कार्कणः, तैर्थः, औदपानः औपाध्यायकः, पैतामहका, होतक, भ्रातृकं, पित्र्य, पैतृकं, बैद, गार्ग, दाक्षम् , औपगवकम् । ००४-आशौचम् , अशौ. चम् , मानैश्चर्यम् , अनैश्चर्यम , आक्षेत्रज्ञम् , अक्षेत्रज्ञम् , आकौशलम्, अकौशलम्, आनैपुणम् , अनैपुणम्, समरूप्य, विषमरूप्य, समीयं, विषमीयं, देवदतरूप्यं, देवदत्त, देवदत्तीयं सममयं, विषममय, देवदत्तमय, हैमवती-गङ्गा, वैदूर्यो मणिः सौरा, पन्था, सौमो दूतः, सोनं कान्यकुब्जद्वार, ग्रन्थ शारीरकीयः, शारीरक भाष्यम् । ७५५-शिशुक्रन्दीयः, यमसमम् , यमसमीयः, किरातार्जुनीयम् , इन्द्रजननीयम्, विरुद्धभोजनीयम् । सौनः, निवासः, अभिजना, हृद्रोलीयाः, आयुधेति किम् । माझेदाः द्विजा:, शाण्डिक्यः, सैन्धवः, ताक्षशिलः, तौदेयः, शालातुरीयः, पामतेयः, कोचवार्यः, मौas w७४-आपूपिकः, पायसिकः अचित्तात्किं । देवदत्तः, अदेशाकि। नौना, अकालाकि , ग्रैष्मा, माहाराजिकः, वासुदेवकः, अ. जुनकः, ग्लौचुकायनका, नाकुलकः, पाणिनीया, आङ्गकः । ४७४-आङ्गका, जनपदिनां किं । पाञ्चाल, जनपदेनेति किं । पौरवीयः, पाणिनीय, वैत्तिरीया, काश्यपिनः, ७७४-हारिद्रविणः, मालम्बिनः, मल्लु. भालविनः, शाव्यायन, वाव्यायमिनः, पैङ्गीकल्पः, पुराणेति कि, याज्ञवल्कानि ब्राह्मणानि, ७७१-आश्मरथः कल्पः, शौनकिनः, कठाः, चरकाः, कालापाः, छागलेयिनः । .८०-पाराशरिणो मिक्षा, शैलालिनो नटाः, कर्मन्दिनो मिक्षवः, कृयाश्विनो नटा, सौदामनी, पीलुमूलतः, ठरस्यः, उरस्तः, पाणिनीय वाररुचो प्रथः, माक्षिक मधु, कोलालकम् , वाटकम् , क्षुद्राभिः कृतं क्षो. दम् । ७८१-भ्रामर, वाटर, पादपम्, उपगोरिदमौपगवं, सांवहिनम्, माग्नीध्रम् , आनीध्रः, सामिधेन्यो मन्त्रः, सामिधेनी ऋक्, रथ्यं चक्रं, पन वाहनम्, आश्चरथम्, आश्वम् । ७८२-आध्वर्यवं, पारिषदं, हालिक, मैरिक, काकोलूकिका, कुत्सकुशिकिका, दैवासुरम्, भोपगवक, काठक, बदः सहम, बैदोऽङ्कः, बैदो घोष, बदं लक्षणं, गार्गः, गार्गे, दाक्षः, दाक्षम् । ७८४-छान्दोग्य, माक्थिय, याज्ञिक्य, वाहच्य, नाट्य, दाक्षाः दण्डमाणवा:, दाक्षाः शिष्याः, रैवतिकीयम् , बैजवापीयम् :, कापिञ्जलः । .८४-हास्तिपदः, आथर्वणो धर्मः, भाथर्वण आम्नायः । इति शैषिकप्रयोगाः।
अथ प्राग्दीव्यतीय-प्रयोगा। पृष्ठ/०८४-आश्मा,मास्मनः, मार्तिकः,७८५-मायूरः,माव काण्ड,मौवंभस्म पैप्पलं, बैल्वं, तावं, तैत्तिडीक, त्रापुर्ष, जातुषं, देवदारवं, भाद्रदारवं, दाधित्थं, कापित्थं,
For Private and Personal Use Only
Page #1017
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०००
परिशिष्टपालाशं, खादिरं, कारोरं, शामीळ भस्म, पामोली बुर, अममयम् , आषमनम् ,अ. भक्ष्येत्यादि कि। मौदास्पः, कार्पासमाच्छादनम् आम्रमयं, शरमयम् , त्वष्मयं, वाड्. मर्य, कथं तहि आप्यम मम्मयं, गोमयं, पिष्टमयं-भस्म, कथं पैष्टी सरेति । ०८०-पिष्ट. का नोहिमयः पुरोडाशः,हमन्यत् , तिलमयं, यवमयं,तैल, यावकः तालं धनुः, अन्यततालमयम् , ऐन्द्रायुधं, हाटकः, तापनीयो सौवर्णो वा निष्का, परिमाणे किं । हाटकमयी यष्टिः, शौक, बार्क,राजतं, शामीलं, दाधित्थं, कापित्थं, जितः किम् । ०४८-बैरवमयं नैष्किक्र, नैष्किकः शत्यः, शतिका औष्ट्रकः, औमम् , औमकम् , और्णम् , और्णकम् , ऐणेयम् , ऐणं, गव्यं, पयस्यं, द्रव्यं, द्रुवयं, 'यौतवं द्रुवयं प्रामिति मानार्थकं त्रयम् , आमलकं, ४८९-८लाक्षं नैयग्रोध, जाम्बवं, जम्बु, जम्बूः, व्रीहयः, मुद्राः, मल्लिका, जाती, विदारी । ७९०-पाटलानि पुष्पाणि, साल्वानि मूलानि, अशोक, करवीरं, हरीतक्या, कंसीय, कास्य, परशव्यं, पारशवः । इति प्राग्दीव्यतोयप्रयोगाः।
अथ प्राग्वहतोय-प्रयोगाः। पृष्ठ ७९१-माशब्दिकः, स्वार्गातका, स्वाध्वरिकः, स्वाङ्गिा व्याङ्गिः, व्याडिः, व्यावहारिका, स्वापतेयं, प्राभूतिकः, पार्याधिकः, सौस्नातिकः, सौखशायनिका, पार• दारिका, गौरुतल्पिकः, । ७९२-आक्षिकः, भाभ्रिकः, आक्षिका, आक्षिक, दाधिकं, मारीचिकं, कौलत्थं तैन्तिणीकम् औदुपिका,गौपुच्छिकः नाविकः,घटिकः, बाहुका स्रो, हास्तिका, शाकटिका, दाधिकः, आकषिका, आषिकी, पपिका, पपिकी, अश्विकः, रथिकः । ७९३-धाभस्त्रिः, श्वादष्टिः, वागणिका, स्वागणिकी.श्वणिका, श्वग. णिकी, श्वापदं, शौवापदं, वैतनिकः, धानुष्कः, वास्निकः, क्रयविक्रयिकः, ऋयिक: विक्रयिकः । ७१४-आयुधीयः,-आयुधिकः, औत्सालिका, भस्त्रिका, भस्त्रिकी विवधिकः, वैवधिकः वीवधिकः, वीवधिकी, कौटिलिको व्याधः कर्मारश्व, माक्षधूतिकं वैर, कृत्रिम,पक्त्रिम, पाकिम, त्यागिमम् , आपमित्यकम् । ७९५-याचितक, दाधिक,चणि. नोऽपूपाः, लवणः सूपः, लवणं शाकं, मौद् ओदनः,दधना उपसिक्तं-दाधिकम, औजसिका शुरु साहसिकश्चौरा, आम्भसिको मत्स्यः, प्रातीपिकः, आन्वीपिका प्रातिलोमिकः । ७९६-आनुलोमिकः, प्रातिकूलिका, आनुकूलिका, पारिमुखिकः पारिपाश्विकः, द्वैगु. णिकः, त्रैगुणिकः, वाधुषिकः, कुसोदिकः, कुसीदिकी, दशैकादशैकः दशैकादशिकी। ७९४-बादरिकः, सामाजिका, शाब्दिकः, दार्दुरिका, पाक्षिकः, शाकुनिकः मायूरिका, मात्स्यिकः, मैनिकः, शाकुलिका, मार्गिका, हारिणिकः, सारङ्गिका, पारिपन्धिकश्चौर, पारिपन्थिका, ७९८-दण्डमाथः, दाण्डमाथिका, पादविका, आनुपदिकः, माक्रन्दिकः, पौर्वपदिकः औत्तरपदिकः,प्रातिकण्ठिकः, आथिकः, लालामिका,धार्मिक, माधमिका, प्रतिथिकः, प्रातिपथिकः, सामवायिका, सामूहिक, पारिषद्या, ७९९-सैन्याः, सैनिकाः, लालाटिकः सेवकः, कौकुटिको भिक्षुः, आपणिक, माहिर्ष, याजमान, यात्रं, नारी, वेशस्त्रं वैमाजित्रम् , आपणिका, आपूपिका, लावणिकः, किसरिकः, किसरिकी, किसर,
For Private and Personal Use Only
Page #1018
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
२००६
उशीर, नलद इत्यादि, ८०० - लालुकः, -शालकी, शाखालुकः, शाखालूकी, मादंकिः, मादुकिका, सार्झरः, शारिकः, आसिक, धानुष्का, पारवधिक, शाक्तीकः, याष्टकः, आस्तिकः नास्तिकः, दैष्टिक, आपूपिकः-८०१ - छास्त्रः कार्म तेन चौरीतापसी इत्यादिसिद्धं ताच्छील्ये किम् । कार्मणः, ऐकान्यिकः । ८०२- द्वादशान्यिकः, आपूपिक:, आग्रभोजनिकः, श्राणिकः, श्राणिकी, मांसौदनिका, मांसिकः, ओदनिकः, भाक्ता, भाक्तिकः, आकरिकः, देवागारिकः, इमाशानिकः चातुर्दशिका | ८०३ - वंशकठिनिकः, प्रास्तारिक, सांस्थानिकः, नैकटिको भिक्षुः, आवसथिकः, आवसथिकी, इति प्राग्वहतीयप्रयोगाः ।
श्रथ प्राग्वितीय - प्रयोगाः ।
पृष्ठ : ०४ - रथ्यः, पुण्या, प्रासङ्गयः, धुर्यः, धौरेयः, सर्वधुरीणः, एकधुरीणः एकधुरः, areer गौः, हालिका, सैरिका, जन्याः । ८०५ - पथाः शर्कराः, धन्यः, गण्यः, आन्नः, वक्रमः परेच्छानुचारी, पद्यः, कर्दमः, मूल्याः, मुद्राः, धेनुष्या बन्धके स्थिता | ८०६मापस्योऽभिः, नाव्यं वयस्यः, धम्य, विषयः, मूल्यं, मूल्य, सीत्यं क्षेत्रं, तुल्यम्, धम्म् पथ्यम्, अथ्यम् न्याय्यम्, उन्दस्यम् । ८०७ - औरसः, उरस्यः, हय, हृद्य, मयं, जम्यः, इक्यः, अग्रयः, सामन्यः, कर्मण्यः शरण्यः, प्रातिजनीनः, सांयुगीन, सार्वजनीनः, वैश्वजनीनः, भाक्ताः शालयः पारिषयः, पारिषदः, कार्थिकः, गौढिक इक्षुः, साकुका पवाः । ८०८- पाथेयम्, आतिथेयं, वासतेयी रात्रिः, स्वापतेयं धर्म, सभ्यः, सतीथ्यः, समानोदर्यो भ्राता, लोदयः, इति प्राग्वितीयप्रयोगाः ।
•
मथ यद्विधि-प्रयोगाः ।
६८. ८०९ - नभ्योऽक्षः, नभ्यमअम, शून्य, शुभ्यम्, ऊधन्यः, कम्बल्यमूर्णापलशतं, सायां किम् । कम्बलीया ऊर्जा, आमिक्ष्यं दधि, आमिक्षीयं, पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः, अपूव्यम्, अपूपीयं, वत्सीयो गोधुक, शह्नव्यं दारु, गभ्यं, हविष्यं, दन्त्यं, कण्व्यम् । ८१० - नस्यं नाभ्यं, घोषण्या, तद्धिते किम् । शिरस्यति, शीर्षण्याः शिरस्या वा केशाः, स्थ शीर्ष, खल्यं, यध्यं, माध्यं, तिल्यं, वृष्यं ब्रह्मण्यं चाद्रध्या, अजथ्या यूमिः, अविध्या, आत्मनीनम् । ८११ विश्वजनीनं विश्वजनीयं पञ्चजनीनं, सार्वजनीकः, सर्वजनीनः माहाजनीकः, मातृभोगीणः, पितृभोगीणः, राजभोगीनः, आचार्य भोगीनः सार्व सर्वयं, पौरुषेयः, पौरुषेयः । ८१२- माणवीनम् चारकीणम् । अङ्गारयाणि काष्ठानि, प्राकारीया इष्टकाः शङ्कव्यं दारू, छादिषेयाणि तृणानि, बालेयास्तण्डुलाः, औषधेयम्, आषेभ्यो वत्सा, औपानद्यो मुञ्जः। ८१३ - औपानां चर्म, वार्धं धर्म, वारत्रं चर्म, प्राकारीयाः इष्टकाः, प्रासादीयं दारु, प्राकारीयो देशः, पारिखेयी भूमिः, इति यद्विधिप्रयोगाः ॥
"
मथाहिय-प्रयोगाः ।
पृष्ठ ८१४ - नैष्किकं, परमनैष्किकः । ८११ - असंज्ञा इति किं । पाचकलापिक, सुग६४ बा०
For Private and Personal Use Only
Page #1019
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१०
परिशिष्टव्य, यवापूप्यं, पारायणिकः, द्वैपारायणिकः अलुकिति किं । विशूर्प, द्विशोपिकम् अर्द्धद्रौणिकम् , आर्द्धद्रौणिकम् । ८१६-अधप्रस्थिकम्-आर्धप्रस्थिकम् , अत: किम् । आर्धकौडविक तपरः किं । अर्धवारी, शतिक, शत्यम् , अाते किं । शतकः सख्या, द्विशतक, पशकः, बहुकः, साप्ततिकः, चात्वारिंशत्कः । ८१५-तावतिकः, तावत्का, विशकः, त्रिशकः, विशतिकः, त्रिंशत्का, कसिका, केसिकी, अधिक:-अधिकी, कार्षापणिका-कार्षा. पणिकी, प्रतिक:-प्रतिकी, गौ-शौपिकं, शतमानं, बैंशतिक, साहस्र, वासनम् । ८१८-अध्यर्धकसं, द्विकसं, पाञ्चकलापिकं, अध्यर्धकार्षापर्ण-अध्यधंका पणिकं, द्वि. कार्षापणं-द्विकार्षापणिकम् , अध्यर्धप्रतिकम् , द्विप्रतिकम् , अध्यर्धेसहस्त्रम्-अध्यसाहनं, द्विसहस्त्र-द्विसाहतं, द्विनिष्क-द्विनैष्किक, त्रिनिष्क-त्रिनैष्किकं, बहुनिष्कबहुनैष्किकं, द्विबिस्तं-द्विबैस्तिकम् । ११९-मध्यर्धविंशतिकोन, द्विविंशतिकोनम् , अध्यधंखारीक, द्विखारीक, खारीकम् , अध्यर्धपण्य, द्विपण्यं, अय॑र्धपाय, द्विपाथम्, अध्यर्धशाण्यम् , अध्यर्धशाणं, त्रैरूप्यं, वैशाणं द्विशाण्य-द्विशाणम् । ८३०-गौपुच्छि. कं, साहतिक, प्रास्थिक, नैष्किकं, पञ्चगोणिः, शतिकः शत्यो वा धनपतिसंयोगः, शत्यं शतिकं दक्षिणक्षिस्पन्दनं, वातिकं, पैत्तिक, श्लैष्मिक, सानिपातिकम् । ८२१-गव्यः, द्वयचा, धन्यः, यशस्यः, स्वयः, गोद्वयचः किम् ।वैजयिका, असंख्येत्यादि किम् । पञ्चकं, सप्तक, प्रास्थिकं, खारीक, आश्विक-आश्मिक, ब्रह्मवर्चस्य, पुत्रीयः-पुत्र्यः, सार्वभौमः, पाथिवः, सार्वभौमः पार्थिवः। ४२२-लौकिकः, सार्वलाकिकः, प्रास्थिक, द्रौ. णिक, खारीक, पात्रस्य वापः क्षेत्रं पात्रिक-पात्रिकी क्षेत्रभक्तिः, पञ्चका, शतिकः, शत्या, साहस्त्रः। ८२३-पञ्चको देवदत्तः, द्वितीयिका, तृतीयिकः, अधिकः, भाग्य-मागिक श; भाग्या-भागिका वितिः, वांशमारिकः, ऐनुमारिका, वाशकिः, ऐशुकः । ८२४-वस्नि. कः, द्रव्यकः, प्रास्थिकः कटाहः, प्रास्थिकी ब्राह्मणी, द्रौणी-द्रौणिकी, आठकीना-आढ. किकी, आचितीना-आचितिकी, पात्रीणा-पात्रिकी, व्याकिकी-व्याढकीना । ८२५द्वथाढकी. याचितिकी-द्वयाचितीना, चिता, द्विपात्रिको-द्विपात्रीणा, द्विपात्री, द्विलिजी, कुलिजीना-द्विलिजिकी, द्वैकुलिजिकी, पञ्चकः प्रास्थिको राशिः। ८२६पञ्चकाः शकुनयः, पञ्चकः, अष्टकं पाणिनीय, पञ्चकमध्ययनं, पञ्चदशः, सप्तदशः, एकविशः। ८२७-पञ्चद्वर्गः,दशत, पञ्चका, दशकः । ८२८-शानि, चात्वारिंशानि, वैतच्छत्रिकः, छैदिको वेतसः, वैरागिकः, वैरणिका, शीर्षच्छेदः, शैर्षच्छेदिका, दण्डया, अर्ध्यः, वध्यः, पात्रियः, पात्र्यः, कडङ्करीयो गौः, कडयः, दाक्षिणीयः, दक्षिण्यः । ८३-स्थालीबिलीयास्तण्डुलाः, स्थालीबिल्याः यज्ञियः, आस्विजीनो यजमानः, यज्ञियोदेशः, आत्विजीनः ऋत्विक । इत्याहीयप्रयोगाः।।
__ अथ ठअधिकार-प्रयोगाः। पृष्ठ ८३९-पारायणिकछात्र, तोरायणिको यजमानः, चान्द्रायणिकः, सांशयिका । ८३०-यौजनिकः, क्रौशातिकः, यौजनशतिका, प्रौशशतिको भिक्षुः, यौजनशतिकः
For Private and Personal Use Only
Page #1020
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। आचार्यः, पथिका, पथिको, पान्थाः, पान्था, मौत्तरपथिकम् , औत्तरपथिकः, वारिपथिक, आह्निकम् । ८३१-मासिकोऽध्यापक, मासिक कर्मकरः, मासिको व्याधिः, मासिक उत्सवः, मास्यः, मासीनः, द्विमास्यः, षण्मास्य-पाण्मास्यः, पाण्मासिका, षण्मासिको व्याधिः, पाण्मास्या, समोनः, द्विसमीनः, वैसमिकः, द्विरात्रीण-द्वैरात्रिका, द्वहीनः-यक्षिकः । ८३२-द्विसंवत्सरीण:-द्विसांवत्सरिकः, द्विषाष्टिका, द्वैसमिकः द्विवर्षीणो व्याधिः, द्विवर्षः, द्विवाषिका, द्वैवषिकः । ८३३-द्विवाषिको मनुष्यः, द्विकौडविका, द्विसौवणिक, द्विनैष्किकम् , असंजेति किम् । पाचकलापिक, वैशाणं, द्वेकुलिजिका, द्विवर्षा दारकः, षष्टिको धान्यविशेषः, मासिको व्याधिः, मासिकं, मासिको ब्रह्मचारी, आर्धमासिकः । ८३४-मासिकं ब्रह्मचर्य, माहानाम्निकः, माहानामिका, चातुर्मास्यानि यज्ञकर्माणि, चातुर्मासो आषाढी पौर्णमासी, द्वादशाहिको, आमिष्टोमिकी, वाजपेयिकी। ०३६-प्रावृषेण्य, शारदम् । इति अधिकारीयकालाधिकारप्रयोगाः।
अथ ठविधिकार-प्रयोगाः। पृष्ठ: ८३५-वैयुध, व्युष्ट, तीर्थ, संग्राम, प्रवास, इत्यादि,आमिपदं, पैलुमूलं, याथाकथा, हस्स्य, कार्णवेष्टकिकं मुखं, कर्मण्यं शौर्य । ८३६-वेष्योनटः, सान्तापिका, सांपामिका, योग्यः, योगिकः, कामुक, सामयिकम् , आर्तवम् , औपवस्त्र, प्राशिनं, काल्यं शीतं, कालिकं वैरम् , ऐन्द्रमहिकम् । ०५७-वैसाखो मन्थः, आषाढो दण्डः, चौडं, भावम् , अनुप्रवचनीयं, व्याकरणसमापनीयः, ऐकागारिकचौरः, आकालिकः, आकालिका विद्युत् । इति उनःपूर्णोऽवधिप्रयोगाः।
अथ भावकार्य-प्रयोगाः। . पृष्ठ ८३८-बामणवदधीते, क्रिया चेदिति किम् । गुणतुल्ये माभूत् , पुत्रेण तुल्यः स्थूलः, मथुरावत् सध्ने प्राकारः, चैत्रवन्मत्रस्य गावा, विधिवत्पूज्यते, तेनेह न-राजानमर्हति छत्रम् । ८३९-गोर्भावो गोत्व, गोता, स्वैणं, स्त्रीत्वं, बीता, पोस्न, पुंस्त्वं, पुंस्ता । ८४०-अतित्वम् , अपटुत्वं, नम्पूर्वात्किम् । बार्हस्पत्य, तत्पुरुषास्किम् । आपटवम् , अचतुरेत्यादि किम् । भाचतुरेयम्, आसङ्गत्यम्, आलवण्यम्, मावव्यम् , आयुध्यम्, आकस्यम् , आरस्यम् , मालस्य, प्रथिमा, पार्थिवं, म्रदिमा, मा. देवम् । ८४१-शौक्ल्य-शुक्लिमा, दाळ, ढिमा, मौचिती, यायाकामी, जाडयं, मौल्य, ब्राह्मणम् , आईन्त्यम, आईन्ती । ८४२-आयथातथ्यम्-अयाथातथ्यम् , आयथापुर्यम् , अयायापुर्य, चातुर्वण्य, चातुराश्रम्य, त्रैस्वर्य, पाडण्यं, सैन्यं, सानि. ध्यं, सामीप्यम् , औपम्य, त्रैलोक्यमित्यादि, सर्ववेदः, सार्ववैद्यः, चातुर्जेयः, चातुजयः, स्तेयं, स्तन्यम् । ८४३-सख्य, दूत्यं, वणिज्य, कापेयं, ज्ञातेयं, सैनापत्य, पौरोहित्य, राज्यम् , आधिराज्यम् , आघम् , औष्ट्र, कौमारं, कैशोरम् , औदा. ब्रम् , औत्रेयं, सौष्ठवं, दौष्ठवं, हायन, त्रैहायन, यौवनं, स्थाविरं, श्रौत्रं, कौशल्यं, कौशलं शौच, मौनं, कथं काव्यं, रामणीयकम् , माभिधानीयक, साहाय्यं, साहा.
For Private and Personal Use Only
Page #1021
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१२
परिशिष्टेयकम् , शोध्योपाध्यापिका । ८४४-मामोजक, गार्मिकया श्लाघते, गार्गिकयाऽत्यारुते, गार्गिकामवेता, अच्छावाकीयं, मैत्रावरुणीय, ब्रह्मत्वं, ब्रह्मत्वं, ब्रह्मता।
इतिाभावकर्माधिकारप्रयोगाः ।
मथ पाञ्चमिक-प्रयोगाः। __ पृष्ठ ८४६-मौद्रीनं, हेयं शालेयं, यव्यं, यवक्य, षष्टिक्य, तिल्यं, तैलीनं, माष्य, माषीणम् , उम्यम् , ओमीनं, भय, भाङ्गीनम् , अणव्यम् , आणवीनं, सर्वचर्माणः सार्वचर्मीणः । ८४७-यथामुखं प्रतिबिम्ब, सम्मुखं, यथामुखीन:, सम्मुखीन: सर्वपथीनः, सर्वाङ्गीणः, सर्वकमीणः, सर्वपत्रीणः, सर्वपात्रीणः आप्रपदं, आप्रपदीनः पटः, अनुपदीना उपनत् , सर्वानीनो भिक्षुः, आयानयीन: शारः। ८४८-परोवरीणा, परम्परीणा, पुत्रपौत्रोणा, पारम्पर्य कथं पारोवयंवत्-इति, अवारपारीणः, अवारीणः, पारीणः, पाराधारीणः, अत्यन्तोनः। ८४९-अनुकामीनः, समांसमीना गाः, समां समा विजायते, समायां समायां वा, अश्वीना वडवा, अधश्चीनं मरणम् । ८५०-आगवीनः, अनुगवीमो, गोपालः, अध्वन्या, अध्वनीनः, अभ्यमित्रीयः, अभ्यमियः, अभ्यमित्रीणः, गोष्ठीनो देशः, एकाहगमः, आश्वीनोऽध्वा । ८५१-कालीनोऽपृष्टः, कौपीनं पापं, मातीनः, सासपदीन, दोहः क्षीरं, हैयङ्गवीनं नवनीतं, पीलुकणः, कर्णजाहम् । ८९१-पक्षतिः, विद्याचुचुः, विद्याचणः, विना, नाना, विस्तृतं विशालम् , विशङ्कटं, सङ्कटं प्रकटम्, उत्कटम् , विकटम् , अलाबूकटम् , गोगोष्ठम् । ८५३-अविकटः, अविपटः वृषगोयुगम्, अश्वषङ्गवम् , तिल तैलं, सर्षपतैलम्, इक्षुशाकटम, इनुशाकिनम् , अवकुटारः अवकटः, अवटीटम् , अवनाटम् , अवभ्रटम् , अवटीटा, अवटीटा, निविलं, निबिरीसं, चिकिन, चिपिटम् । ८५४-चिकम् , चिल्लः, पिल्लः, चुल्ला, उपत्यका अधित्यका, कर्मठ: पु. रुषः, तारकितं नमा, उरुद्वयसम् । ८५६-ऊरुदन्नम् , ऊरुमात्रम् , शमः, दिष्टिः, वित. स्तिः, द्विशमम् , शममात्र, प्रस्थमात्र, पञ्चमात्रं, तावद्वयसं, तावन्मात्र, पौरुषं, पुरुष. द्वयसं, हास्तिनं हस्तिद्वयसं, यावान् , तावान् एतावान् । ८५६-कियान् , इयान्, कति, कियन्ता, पञ्चयतं दारु द्वयं, द्वितयं, त्रयं त्रितयम् । ८५७-उभयम् ।
- इति तद्धितपाञ्चमिकप्रयोगाः।
मथ मत्वर्थीय-प्रयोगाः। पृष्ठ ८६७-एकादश, त्रिशं, शतं, विश, द्विमयमुदश्विद्यवानाम् । ८५८-एकादशः, पञ्चमः, षष्ठः, कतिथः, कतिपयथः, चतुर्थः, तुरीयः, तुर्य:, बहुतिथ इत्यादि, यावतिथः । .८५९-द्वितीयः, तृतीयः, विंशतितमः विशः, एकविंशतितमः, एकविंशः, शततमः, एक. शततमः, मासतमः, अर्घमासतमः, संवत्सरतमः, पष्टितमः, एकपष्टः, एकषष्टितमः । ८६०-आच्छावाकीयं सूक्तम् , पारवन्तीयं साम गर्दभाण्डः, गर्दभाण्डीयः, वैमुक्तः, दैवासुरः, गोषदकः, इषेस्वका, पथकः, आकर्षकः, आकषो निकषः । ८६१-धनको देवद. तस्य, हिरण्यका, केशकः, औदरिकः, आयूने किम् । उदरकः, सस्यका, साधुः, अंशको
For Private and Personal Use Only
Page #1022
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। कायाः, तन्त्रका पटः । ८६३-माह्मणका, उष्णिकायवागः, शीतकोऽलसा, उष्णकः शीघकारी, मनुका, अभिकः, ममीका, पापर्वका, मायःशुलिकः, साहसिका, दाण्डाजिनिका, द्वितीयकं विकं वा ग्रहणं देवदत्तस्य । ८६३-षट्को देवदत्तः, पञ्चकः, देवदत्तकाः, त्वत्काः, मत्का, लकः करमा, सत्कः उत्कण्ठितः, द्वितीयको ज्वरः, विषपुष्पकः, उष्णकः, रोगे किम् । द्वितीयो दिवसोऽस्य । ८६४-गुदापूपिका पौर्णमासी वकिनी, कौल्माषी, श्रोत्रिया, श्राद्धी, श्रालिका, पूर्वी, कृतपर्वी, इष्टी, अधीती । ८६५-साक्षी, क्षेत्रियो व्याधिः, चिकित्स्या, इन्द्रियम् , गोमान् । ८६६-सवान् , रूपवान् , स्ववान् , विदुष्मान् , शुक्लः पटः, कृष्णः, किंवान्, ज्ञानवान्, विद्यावान, लक्ष्मीवान् , यशस्वान् , मास्वान् । ८६७-यवमान् , भूमिमान् , विद्युत्मन् , अहीवती, मुनीवती, आसन्दीधान मामः, अन्यत्रासनवान् , अष्ठीवान् , अस्थिमान, चक्रीवान्ताम राजा, चक्रवान् , कक्षीवान्नाम ऋषिः कक्ष्यावानन्यत्र, रुमण्वान्नाम पर्वता, लवणवानन्यत्र, धर्मण्यतीनाम नदी, चर्मण्वत्यन्यत्र उदन्वान् समुद्रः ऋषिश्च राजन्नती भूः, राजवानन्यन्न,चूदाला, चूतावान् , प्रणिस्थातिक, शिखावान्दीपः, आत: किम् , हस्तवान् । ८३८-मेधावान् . सिमलः, सिध्मवान्, वातूलः, वत्सलः, अंसला, फेनिला, फेनलः, फेनवान् । ८६९-लोमशः,-लोमवान् , रोमशः, रोमवान् , पामना, अङ्गना, लक्ष्मणः, विषुणः, पिच्छिलः, पिच्छवान , उरसिला, उरस्वान् प्राज्ञा, श्राद्धः, आर्ची, वातः । ८७०-तपस्वी, सहनी, तापसः, साहन, ज्योत्स्ना, तामिनः, सैकतो. घटः, कारः, सिकताः, सिकतिलः, सैकतः, सिकतावान् , एवं शरेत्यादि। ८०१दन्तरः, ऊपरः, सुषिरः, मुष्कोडा, मुष्करः, माधुर्यम् , मधुरः, खस, मुखाः, कुञ्जरा, नगर, पांसुर, पाण्डुस, कच्छुरः, धुमः, दुमा, केशवः, केशी, केशिकः । ८७२-केशवान्, मणिवो मागविशेषः, हिरण्ययो निधिविशेषः, अर्णवः, गाण्डिवम, अजग पिनाकः,का. ण्डीरा, माण्डीरः, रजस्वला बी. कृषीवला मासुतीवला, कौण्डिकः,परिषद्वलः, पर्षद्वलं, भ्रातृवला, पुत्रवला, शवलः, दन्तावलो हस्ती शिखावलः केकी , ८७३-ज्योत्स्ना. तमित्रा, तमित्रम् शृङ्गिणः, उर्जस्वी, उर्जस्वलः, गोमो, मलिन, मलीमसः, दण्डी, दण्डिकः, बीही, प्रीहिकः । ८७४-तुन्दिल:-तुन्दी-तुन्दिकः,-तुन्दवान् , उदर, पिच.
, यव, श्रीहि, कणिला, की, कणिका, कर्णवान् , ऐकशतिका, ऐकसहस्त्रिका गौश. तिका, गौसहस्निकः, नैष्कशतिका, नैष्कसहस्निका, रूप्या, कार्षापणः, रूप्यो गौः, आ. हतेति किम् । रूपवान , हिम्याः, पर्वताः, गुण्या ब्राह्मणाः, यशस्वी, यशस्वान् मायावी । ८७५-मायी, मायिकः, सग्वी, मामयावी, शृङ्गारका, वृन्दारकः, फलिना, बहिणा हृदयालुः, हृदयो, हृदयिकः हृदयवान्, शीतालुः, उष्णालुः, तृप्रालुः, हिमेलु, बला, वातूलः, पर्वतः, मरुत्तः, ऊर्णायुः । ८७६-वाग्मी, वाचाला, वाचारः, स्वामी. मर्शसः, कटकवलयिनी, शहनपुरिणी, कुष्ठी, किलासी, ककुदावर्ती, काकतालुकीनी, प्राणिस्थापकिम् । पुष्पफलवान्धटः, पाणिपादवती, चित्रकललाटिकावती। ८७७-वात
For Private and Personal Use Only
Page #1023
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेकी. अतिसारकी,नेह-वातवती गुहा, पिशाचकी, पक्षमी उष्ट्र, वयसि किम्, पञ्चमवान् ग्रामः, सुखी, दुःखी, माली, ब्राह्मणधर्मी, ब्राह्मणशीलो, ब्राह्मणवर्णी, हस्ती, जातो किं, हस्तवान् पुरुषः, वर्णी, पुष्करिणी, पमिनी, देशे किम् । पुष्करवान्करी, बाहुवली, उरुबली, सर्वधनी, सर्वबीजी। ८७८-अर्थी, अर्थवान , धान्यार्थी, हिरण्यार्थी, बलवान, बली, उत्साहवान, उत्साही, प्रथिमिनो, दामिनी, होमिनी, सोमिनी, सम्झाया किं, सोमवान् , कँबः, कम्मः, कय्युः कन्तिः, कन्तुः, कन्तः, कय्या, शम्बः शम्मा, शैय्युः, शन्तिः, शन्तु, शन्तः, शैय्यः, तुन्दिभः, वलिभः, वटिभः । ८७९-महंयुः, म. हङ्कारवान्, शुभंयुः, शुभान्वितः। इति मत्वर्थीयप्रयोगः॥
अथ प्राग्दिशीय-प्रयोगाः। पृष्ठ ८८०-कुतः, कस्मात् , यतः, ततः, इतः, अतः, अमुतः, बहुतः। ८८१-द्वाभ्यां, परितः, अभितः, कुत्र, यत्र, तत्र, बहुत्र, इह, क, कुत्र, कुहस्था, कुह जग्मथुः । ८८२-एतस्मिन् ग्रामे सुखं वसामः, अतोऽधात्रीमहे, अत्तो न गन्तास्मः, स भवान् , ततो भवान् , तत्र भवान , तम्भवन्तं, ततो भवन्त, तत्र भवन्तं, एवं दीर्घायुः, देवानां प्रियः, आयुष्मान, सदा, सर्वदा, एकदा, अन्यदा, कदा, यदा, तदा, अधुना, इदानी, तदा, तदानीम् । ८८३-कहि, कदा, यहि, यदा, तहि, तदा, एतहि, सद्यः पहन, परारि, ऐषमः, परेचवि, अद्य, पूर्वेयुः,अन्येद्युः, उभयेयुः, उभयधुः । ८८४-तेन प्रकारेण तथा, येन प्रकारेण यथा, इत्थं कथम् । इति प्राग्दिशीयप्रयोगाः।
__ अथ प्रागिवीय-प्रयोगा। पृष्ठ ८८५-पुर, पुरस्तात्, अधः, अधस्तात् , अवः, अवस्तात , अवरस्तात्, एवं देशे काले च, दिशिरूढेभ्यः किम् । ऐन्द्रयां वसति, सप्तम्याधन्तेभ्यः किम् । पूर्व ग्रामं गतः, दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति, दक्षिणतः, उत्तरतः, पर. तः, अवरतः, परस्तात् , अवरस्तात्, प्राक्, उदक, एवं देशे काले च, उपरि उपरि. टाद्वा वसति, मागतो रमणीयं वा । ८८६-उत्तरात्, अधरात्, दक्षिणात, उत्तरेण, अ. धरेण, दक्षिणेन, पूर्वेण ग्रामम्, अपरेण ग्राम, दक्षिणा वसति, दक्षिणादागतः, दाक्षिजाहि, दक्षिणा, उत्तराहि, उत्तरा, चतुर्धा, पञ्चधा, एक राशि पञ्चधा कुरु । ८८७-ऐकध्यम्, एकधा, द्वैध, द्विधा, त्रैधं, विधा, पथि द्वैधानि,द्वेधा, त्रेधा, भिषक् पाशः, द्वि. तीयः, तृतीयः, द्वैतीयोकः, द्वितीयः, तातीयीका, तृतीया, द्वितीया तृतीया । ८८८-चतुर्थः, पञ्चमः, पाष्ठः, षष्ठः, आष्टमः, अष्टमः, षष्ठको भागो मार्न चेत, अष्टमो भागः पश्वङ्गं चेत्, षष्ठः, षाष्टः, अष्टमः-माष्टमः, एकः-एकाकी, एकका, आन्य चरः, कृष्णरूप्या, कृष्णचरस, शुभ्रारूप्यः । ८८९-आव्यतमः, लघुतमः, लघिष्ठः । ८९०-किन्त. मां, प्राढेतमां, पचतितमाम् , उच्चस्तमाम् , उच्चैस्तमस्ता, लघुतरा, लघीयान् । ८९१-पटुतरः, पटीयांसः, नेह-पाचकतरः, पाचकतमः, करिष्ठः, देहीयसी धेनुः । ८९२श्रेष्ठः, श्रेयान, ज्येष्ठः, ज्यायान, ज्येष्ठः-ज्यायान, नेदिष्ठः-नेदीवान् , साधिष्ठ:
For Private and Personal Use Only
Page #1024
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१५
प्रयोगसूची। साधोयान् , स्थविष्ठः । ८९३-दविष्ठा, यविष्ठः, इसिष्ठः, क्षेपिष्ठः, क्षोदिष्ठः, हसि. मा, क्षेपिमा, क्षोदिमा, प्रेष्ठः, स्येष्ठः, स्फेष्ठः, वरिष्ठः, बहिष्ठः, गरिष्ठः, वर्षिष्ठः, ऋषिष्ठः, दाधिष्ठा, वृन्दिष्टः, प्रेम । ८९४-भूमा इत्यादि-भूयान् , भूयिष्ठा, कनिष्ठ: कनोयान् , यविष्ठः, भल्पिष्ठः, नजिष्ठा, सजीयान् , त्वचिष्ठः, त्वचीयान् , पटुरूपः, पधतिरूपम् । ८९५-विद्वत्कल्पः, यास्कल्प, यजुःकरूपं, विद्ववेश्या, विद्वद्देशीयः, पचतिकल्प, बहुपटा, पटुकल्पा, सुपः कि, यजतिकरूपम् । ८९६-पटुप्रकारः, पटु जातीयः, उच्चकैः, नीचकैः, सर्वके, विश्वके । ८९७-युवकयो, भावकयोः, युष्मकासु, अस्मकासु युष्मकाभिः, भस्मकाभिः, ओकार-इत्यादि कि, त्वयका, मयका, तूष्णीकामास्ते तूष्णीशीलस्तूष्णीकः, पचनकि, जल्पतकि, धकित्, हिरकुत्, कुत्सितोऽश्वोश्वकः । ८९८-शूद्रका, राधकः, पुत्रका, हन्त ते धानकाः, गुडकाः, एहकि, अद्धकि । ८९९-मनुकम्पितो देवदत्तो देविक:-देविया-देविल:-देवदत्तका, अनुकम्पितो वायुदतो वायुकः, वायुका, पितृका, अनुकम्पितो-बृहस्पतिदत्ता-वृहस्पतिकः, देवदत्तक:देवका, दत्तिका-दत्तिया, दतिला दत्तकः । ९००-देवदत्त:-दत्त:-देवः, सत्यभामाभामा-सत्या, भानुदत्ता, भानुला सावित्रियः, सवितला, अनुकम्पितः, उपेन्द्रदत्तः उपरा-उपका-उपियः-उपिल.-उपिक:-उपेन्द्रदत्तक, सिंहकः, शरमका, रास नकः । ९०१-कहो, कहिका, वागाशीर्दत्तः धाविकः, कथं षडङ्गलिदत्तः षडिक इति । ९०१-अनुकम्पितः शेवलदत्तः शेवलिका-शेवलियः-शेवलिला, सुपरिकः, विगालिकः, वरुणिक, आर्यमिक, व्याघ्रका, सिंहका अल्पं तैलं तैलक, हस्बो वृक्षो वृक्षक, वंश. का, पेणुका, स्वाकुटीकुटीरः, शमीरः शुण्डारः, हस्वा कुना कुतुपः, कासूतरी, गोणी. तरी । ९०३-वत्सतर, उक्षत, अश्वतःमतर, अनमोः कतरो वैष्णः , यतरः, ततर, का, यः, सः। ९०४-फतमो भवतां कठः, यतमः, ततमः, एका, सका, कः, या, सः, कतर, अनयोरेकतरो मैत्रा, एषामेकतमः । इति प्रागिवीयप्रयोगाः ।
मथ स्वार्थिक-प्रयोगा। पृष्टः ९०४-अश्याइव प्रतिकृतिः अश्वकः, प्रतिकृतौकि । गौरिव गवयः। ९०६भश्वका, उष्ट्रका, चचा, वधिका, वासुदेवः, शिवः, स्कन्दः, अपण्ये किं । हस्तिकान्वि. क्रोणाते, देवपया, हंसपथः । ९०६-बास्तेयम् , वास्तेयी, शिलेयं, औलेय, शाख्या, मुख्यः, जघन्यः, अग्रयः, पारण्यः, द्रव्यम्-अयं ब्राणः, कुशाग्रीया बुद्धिः। ९०७-काकतालीयो देवदत्तस्य वधः, मजाकपाणीयः । ९०८-शार्करम् , आङ्गुलिका, भारुजिका, एकशालिका,ऐकशालिकः, कार्कीका, लोहितध्वज्या, लौहितीकः, वातः कापोतपाक्यः, काआयन्यः, ब्राधनायन्यः, क्षौद्रक्यः, मालव्यः, क्षौद्रकी। ९०९ आयुधेति किं । मल्लाः, सङ्केति किं । सम्राट, वाहीकेषु किं । शबराः, अब्राह्मणेति किं । गोपालकाः, शालकायनाः, पाण्या, आयुधेति किं । जातिशब्दान्माभूः, त्रिगर्तषष्टाः, आहुत्रिगर्त दामनीयः, दामनीयौ, दामन्यः, औलपीयः, कौण्डोपरथीयः, दाण्डकीया, पार्शवः ।
For Private and Personal Use Only
Page #1025
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१६
परिशिष्टे९१०-पार्यावा, पर्यावा, यौधेया, यौधेयौ, यौधेयाः, अमिजित्या, वैदभृत्यः शालावत्या,
खावत्या, शामीवत्या, और्णावत्यः, श्रीमत्या, लौहितध्वजाः, कपोतपाकाः, कौमा. यनाः, प्राध्नायनाः । ९११-द्विपदिका, द्वितिका, स्थूलकः, अणुकः, चञ्चत्का, बृहत्कः । ९१२-सुरका छिन्नक, भिन्नकम् , अभिन्नकं, सामिकृतम्, अर्धकृतं, पहुतरकं, बृहतिका, आच्छादनेकि । बृहती छन्दा, अषडक्षीणो मन्त्रः। ९१३-आशीतङ्गवीनमरण्यम्, अलर्माणः, अलम्पुरुषीणः, ईश्वराधीनः । ९१४-प्राचीनं, प्रतीचीनम् , अवा. चीनम् , अर्वाचीनम् , अदिक् स्त्रियां किं । प्राचीदिक्, उदीचीदिक् , दिग्ग्रहणं किं । प्राचीना ब्राह्मणी, स्त्रीग्रहणं किं । प्राचीन ग्रामादाम्राः, ब्राह्मणजातियः, बन्धुनि कि ब्राह्मणजातिः शोभना, पितृस्थानीयः, पितृस्थाना, सस्थानेन किं। गोस्थानम्। ९१६मानुगादिकः,वैसारिणः, मत्स्ये इति किं । विसारी देवदत्ता, पनकृत्वो भुक्के, संख्या. याः किं । भूरिवारान्भुङ्क्त, द्विभुंक्ते, त्रिः, चतुः। ९१६-सकभुक्त, बहुधा बहुकृत्यौ वा दिवसस्य भुक्त,आसनकाले कि, बहुकृत्वो मासस्य भुक्त, अन्नमयम् , अपूपमयं, यवागुमयी, अन्नमयो यज्ञः, अपूपमयम्पर्व । ९१७-मौदकिकं. मोदकमयं, शाष्कुलिक, शष्कुलीमय, मौदकिको यज्ञः, मोदकमयः, आनन्त्यम् , आवसथ्यम्, ऐतिय, भैषज्यं, तादर्थ्यम् । ९१८-अग्निदेवत्यं, पितृदेवयं, पायम् , अर्घ्य, नून, नूतनं, नवीनं, प्रण। प्रत्न-प्रतनं-प्रीणं, भागधेयं, रुपधेयं, नामधेयम्, आनोभ्रं, साधारणम् , आग्नीधी, साधारणी, आनिथ्य, देवता, आविकः, यावका, मणिकः । ९१९-लोहितको मणिः, लोहितका कोपेन, लोहितिका, लोहिनिको-कोपेन, लोहितिका, लोहिनिका-शाटी, कालकं मुखं वैलक्ष्येण, कालकः पटः । ९२०-कालिका पाटी, वैनयिक, सामयिकः,
औपयिकः, सन्देशवाग्वाचिकं स्यात् , कार्मणम् औषधं पिबति, अजातौ किम् , ओ. षधयः क्षेत्रे रूदाः, प्राज्ञः पुरुषः, प्राज्ञी स्त्री, दैवतः, बान्धवः, मृत्तिका, मृत्सा, मृत्स्ना, बहुशः, अल्पशः । ९२१-नेह-बहूनि ददात्यनिष्टेषु, अल्पं ददाल्याभ्युदयिकेषु, द्विशः, माषशः, प्रस्थशः, संख्यैकवचनातिक, घटं घटं ददाति, वीप्सायां किं, द्वौ ददाति, ०२२द्वयोर्द्वयोः स्वामी, प्रद्युम्नः कृष्णतः प्रति, आदितः, मध्यतः, पृष्ठतः, पार्वतः, स्वरतः वर्णतः, प्रामादागच्छति, ग्रामतः, अहीयरुहोः किं, स्वर्गाद्धीयते, पर्वतादवरोहति, अविग्रहः, चारित्रेणातिगृह्यते, चरित्रतोऽतिगृह्यते। वृत्तेन न व्यथते, वृत्ततो नव्यथते, वृतेन क्षिप्तः, वृत्ततः क्षिप्तः, अकर्तरीति किं, देवदत्तेन क्षिप्तः, वृत्तेन हीयते, वृत्तेन पापः वृत्ततः, अकर्तरि किम् , देवदत्तेन हीयते, देवाः अर्जुनतोऽभवन् , आदित्याः कर्णतोऽभवन् । ९२३-व्याश्रये किम्, वृक्षस्य शाखा, प्रवाहिकातः कुरु, अपनयने किम् , प्रवाहिकायाः प्रकोपनं करोति, कृष्णीकरोति, ब्रह्मोभवति, गङ्गील्यात, दोषाभूतमहः, दिवाभूता शत्रिः। ९२४-गार्गीभवति, शुचीभवति, पस्यात् । ९२६मात्रीकरोति, उत्करोति, उन्मनीस्यात्, उच्चस्करोति, विचेतीकरोति. विरहीक. रोति, विरजीकरोति, दधिसिञ्चति, अग्निसावति, अग्नीमवति, कास्ये किम् ,
For Private and Personal Use Only
Page #1026
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। एकदेशेन शुक्ली भवति पटः । ९१-अमिसारसम्पयते अग्निसावति शस्त्रम् , अग्नी. भवति, जलसात सम्पयते जलीसपति लवणं राजसात्करोति, राजसात्सम्पद्यते, विप्रत्राकरोति, विप्रवासम्पद्यते,विप्रसास्करोति, देये किम् , राजसागवति राष्ट्र देवत्रा. वन्दे रमे वा, बहुत्रा जीवतो ममः। ९२७-पटपटाकरोति, अव्यक्तानुकरणत्किम् , हषस्क. रोति. द्वथजवरार्धात्किम् अत्करोति, अवरेति किम्, घरटघरटा करोति, पटनपटाकरोति, अनिौ किम् पटिति करोति । ९२८-द्वितं याकरोति, तृतीयाकरोति, शम्बाकरोति, बीजाकरोति, द्विगुणाकरोति, सपनाकरोति मृगं, निष्पना करोति, भतिव्यथने किम् । सपनं निष्पत्रं करोति वा भूतलं, निष्कुलाकरोति दाडिमं, सुखा करोति गुरु, प्रिया करोति गुरुं. दुाखाकरोति स्वामिमम् । ९२९-शुलाकरोति मांस, सत्याकरोति भा. ण्ड पणिक , शपथे तु सत्यं करोति विप्रः, मद्राकरोति, भद्राकरोति, परिवापणे किम् , मद्रं करोति, भद्रं करोति, इति तद्धितल्याथिकप्रयोगा। .
मथ द्विरुक्त-प्रयोगाः। पृष्ठ १३०-पचति पति, भुक्त्वा भुत्त्वा, घृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रम. णीयः, परि परि वनेभ्यो धृष्टो देवः, परि वनेभ्यः । १३१-उपर्युपरि प्रामम् , मध्यधि सुखम् , अधोधो लोकम् , सुन्दर सुन्दर वृथाते सौन्दर्य, देव देव वन्योऽलि, दुविनीत दुर्विनीत इदानीं ज्ञास्यसि, धानुष्क धानुष्क वृथा ते धनुः, चोर चोर घातयिष्यामि त्वाम् एकैकमक्षरम् , एकैकया माहुत्या १३५-एकैकस्मै देहि, गतगतः, गतगता, ९३२. पटुपट्वी, पटुपटुः, पटुसहका-पस्पटुरिति यावत्, शुक्लशुक्लं रूप, शुक्लशुक्लः पटः, मूले मूळे स्थूल, सः २, बुध्यस्व २, सर्पः । ९३४-बुध्यस्व ३, लुनीहि लुनोहीत्येवायं लु. नाति। अन्योन्य विप्रा नमन्ति, मन्योऽन्यो। ९३५-अन्योन्यान्, अन्योऽन्येन कृतम् , अन्योन्यस्मै दत्तमित्यादि, अन्पोन्येषां पुष्करैरामृशन्तः, एवं परस्परम् , इतरेतरम् , इतरेतरणेत्यादि । ३६-मम्योऽन्याम् , अन्योऽन्यं, परस्परां, परस्परम् । इतरेतराम् , इतरेतरं वा इमे ब्राह्मण्यो कुले वा अन्योऽन्य, परस्परम् ।९३०-यां यां प्रिया प्रेक्षत कातराक्षी सासेत्यादयः, अन्योन्यामितरेतरम्, अन्योऽन्यसंसकमहस्त्रियामम् , अ. न्योऽन्याश्रयः, परस्पराक्षिसाहश्यम् अपरस्परित्यादौ, सूत्रे अन्योन्यसंशयत्वेतदि. स्यादयः, प्रियप्रियेण ददाति, प्रियेण वा ददाति, सुखसुखेन ददाति, सुखेन वा । ९३८यथायथं ज्ञाता, यथात्मीयमिति वा, द्वन्द्वं मन्त्रयते, आचतुरं हीमे पशवो द्वन्द्व मि. थुनीयन्ति, माता पुत्रण मिथुनं गच्छति, पौत्रेण प्रपौत्रेणापोति मर्यादार्थः, द्वन्द्वं व्युत्क्रान्ता:-द्विवर्गसम्बन्धेन पृथगवस्थिता, ! द्वन्द्वंयज्ञपात्राणि प्रयुनकि, द्वन्द्वं सहर्षणवासुदेवो । इति द्विरुक्तप्रयोगाः ।।
इति पूर्वार्द्ध-प्रयोगसूची समाता।
For Private and Personal Use Only
Page #1027
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #1028
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्धगत-सूत्रसूची।
पृष्ठम् सूत्रम्
अ
१४ अ अ ८६१ अंशं हारी ६. अकः सवणे ४१३ अकथितंच ४१३ अकर्तणे पञ्चमी ९३७ अनुच्छ्रे प्रियसु ४६७ अकेनोर्मविष्य ४९० अक्षशलाकार्स ६३१ अक्षणोऽदर्शनात ८०२ अगारान्तान् ११. अग्नेः स्तुत्स्नोम ०२४ अग्नेर्दक ५५० अग्राख्यायामु ५९७ अग्रान्तशुद्धशु १२९ अङ्गस्य १८८ मलेदारुणि ९०८ माल्यादिभ्यटक ७६४ मच २८६ अचा
४१ अचः परस्मिन्पू ६३१ अचतुरविचतु
३० अपश्च ७२९ अचित्तहस्तिधे ४७५ अचित्ताददेशका २०२ अचि र प्रतः १५ अचि श्नुधातुभ्र १६५ अचो णिति ६५ अचोऽन्त्यादिटि ४८ अचो रहाभ्यां
| पृष्ठम् सूत्रम् १६२ अच्च घेः ५३९ अच्छ गत्यर्थवदेषु ६.० अप्रत्यन्ववपूर्वा ८९१ अजादी गुणवच ३३९ अजायतष्टा ६०. अजाचदन्तम् ८१० मजाविभ्यां थ्यन् ९०२ मजिनान्तस्योत्त ८९६ भज्ञाते ८९३ अञ्चेलुक ५८९ मम्नासिकायाः ११० अकुप्वानुम्व्य ७६४ अगलौच ४०८ मणो द्वयवः
८१ अणोऽप्रगृह्यस्या ०९४ अण्कुटिलिकायाः ८७० अण्च .१३ मणिमोरनायो १९ अणुदित्सवर्गस्य
१ अगयनादिभ्या | ०९९ अण्महिष्यादिभ्यः ६८९ अत इन ८७३ मत इनिठनो १०५ अतः कृकमिकस .१२ अतश्च | ९२२ अतिग्रहाव्यथन ९१८ अतियेयः ४२९ अतिरतिक्रमणे च | ८८९ अतिशायने तम
पृष्ठम् सूत्रम् ५५१ मतेः'शुनः १२३ अतो गुणे १२९ मतो भिस ऐस २१४ अतोऽम् १०६ अतो रोरप्लुता ५०२ अत्यन्तसंयोगेच | ९२ अत्रानुनासिकः पू
७०९ अत्रिभृगुकुत्सव २९२ अत्वसन्तस्य चा
४९ अदर्शन लोपः | ३०६ अदस ओ सु
४७ अदसो मात २८७ अदसोऽसेदादु ७३९ अदूरभवश्व २३ अदेशणः ६.९ भदोऽनुपदेशे २१६ भद्तरादिभ्यः ८४८ अयश्वीनावष्टब्धे १०५ अधःशिरसी पदे ८६२ अधिकम् ४६५ अधिकरणवाधि १११ अधिकरणवाचिना ८८६ मधिकरणविचाले ६१५ अधिकरणैतावत्त्वे ७७४ मधिकृत्य कृते ४१८ अधिपरी अनर्थको ४७६ अधिरीश्वरे
४२२ अधिशीस्थासां । ४६८ मधीगर्थदयेशां
For Private and Personal Use Only
Page #1029
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२०
पूर्वागत-सूत्रसूची। ८८२ अधुना [४४० अनुप्रतिगृणश्च
। ४९१ अपपरी ६०८ अध्ययनतो 1८३७ अनुप्रवचमादि | ९४ अपमित्ययाकि ८१७ अध्यर्धपूर्वाद्विगो ७३६ अनुब्राह्मणादिनिः ६६८ अपरस्पराः ८६० अध्यायानुवाकयोः
४९२ अनुर्यत्समया ३६७ अपरिमाणवि ८०२ अध्यायन्यदेशका ४२५ अनुलक्षणे
*३३ अपवर्ग ७१ अध्यायेध्येवर्षे: ६०७ अनुवादे चरणानाम्
६६९ अपम्करो ८५० अध्यनो यत्खौ ४७० अनुतिकादी
९२२ अपादान चाही ६०८ अध्वर्युक्रतुरनपुं ८८ अनुस्वारस्य ययि ४४५ अपादाने पञ्चमी ७०३ अन् ६९२ अनृष्यानन्तये
४२९ अपिः पदार्थसं ३४८ मन उपधालो | ५६५ अनेकमन्यपदार्थे
७०१ अपूर्वपदादन्यतः १६२ अन सौ ३५ अनेकालिशत्सर्वस्य
१६३ अपृक्त एकाल्प. ३९ अननि च
३४७ अनो बहुवीहे। ५०६ अपेतापोढमुक्त ९१२ अनत्यन्तगतो ५६० अनोधमायस्सरसा ७२२ अपोनप्पान्नप्त १४० अनत्याधान .६९ अन्तःपूर्वपदाट्टम्
३१२ अपो मि ८८३ अनद्यतने हिल (१४३ अन्तरं बहिर्योगोप
१८२ अप्तन्तृच्स्वर ९१७ अनन्तावसथेतिह | ५३८ अन्तरपरिग्रहे
५५१ अपूरणीप्रमा ४१० अनभिहिते ४२४ अन्तरान्तरेण युक्ते
७६ अप्लुतवदुप ४९७ अनश्च ४४८ अन्तर्धा येनादर्श
३६८ अभाषितर्पस्काच्छ २३८ अनाप्यका ५८८ अन्तर्बहियोच
७७५ अभिजनश्च २८५ अनिदितां हल ३७३ अन्तर्वत्पतिवतो
| ९१० अभिजिद्विदभृ ८९८ अनुकम्पायाम् ६१ अन्तादिवच्च
४२२ अभिनिविशश्व १३७ अनुकरण ८९२ अन्तिकबाढयो
| ७७४ अभिनिष्कामति ८६२ अनुकामिका ८०५ अन्नपणः
४३७ अभिरमागे ६३४ अनुगवमायामे १०४ अन्नेन व्यञ्जनम्
९२५ अभिविधौ ९१४ अनुगादिनष्ठक ३७९ अन्यतो डीए ।
८६० अभ्यमित्राच्छ ८५० अनुग्वलङ्गामी ४९५ अन्यपदार्थे च
७६४ अमावास्याया २७९ अनुदात्तं सर्व | ४५० अन्यारादितरतें
१२९ अमि पूर्वः ७२९ अनुदात्तादेर ६३४ अन्ववतप्नाद्रह |६४० अमूर्धमस्तकात ७८६ अनुदात्तादेव 1 ६८३ अपत्यं पौत्र ६४५ अमैवाव्ययेन ९३ अनुनासिकात्परोऽनु ५१९ अपथं नपुंसकम् १७४ अम्बार्थनयोह ८४७ अनुपदसर्वाना | ७५५ अपदातो २३३ अम् सम्बुदौ ८६४ अनुपधन्वेष्टा १३३ अपदान्तस्य ८६२ अयः शुलदण्डा ३५९ अनुपसर्जनात् | ४८७ अपपरिबहिरभवः । ०६४ भरण्यान्मनुष्ये
For Private and Personal Use Only
Page #1030
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९२६ अरुनश्चक्षुश्चेतो ११६ अर्थवदधातुरप्र
६५७ अथें विभाषा
५१५ अर्ध नपुंसकम् १६९ अर्धर्चाः पुंसि ६५२ अर्धाच
-८१५ परमाण
७५७ अर्थात्
२५३ अर्वणसाव २७६ अशं आदिम्यो
६३७ मलुगुत्तरपदे ३४ अहोऽन्यस्य
-१६२ अलोऽन्त्यात्पूर्व
५९५ अल्पाख्यायाम् ६०६ अल्पान्तरम् ९०२ अल्पे
१५४ अल्लोपोन
७९९ अवक्रयः ९०४ अवक्षेपणे
७० व स्फोटायन
७६२ अवयवातोः
- ७८५ अवयवे च ८३१ अवयसि श्व ६३३ अवसमन्धेम्य
८५२ अवात्कुटारच ८४८ अवारपारात्यन्ता ७१३ अवृद्धादपि ६९४ अवृद्धाभ्यो ९१८ अत्रेः कः
६६ अव्यक्तानुकरणस्या ९२६व्यक्तानुकरणा ४८२ अव्ययं विभक्ति ८९६ अध्याय सर्वनाम्ना
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्धगत-सूत्रसूची ।
७४८ अव्ययास्यप
३३६ अव्ययादासुपः ४८२ अव्ययीभावः
३३६ अव्ययीभावश्व
४८६ अव्ययीभावश्व
७६९ अव्ययीभावाच
४८ अव्ययीभावे वा
४९६ अव्ययीभाषे श
७७० अशब्दे यत्स्वा
१६३ अशाला च
६७२ अपत्यादि ८५० अम्बल्यैकागमः ६९४ अश्वादिभ्यः ९१२ अषडक्षा शितल ६५७ अष्टयतृतीयास्थ
२५७ अष्टम आ
६६३ अडनः सज्ञायां
२५७ अष्टाम्य मश
७८. सञ्ज्ञायां तिल
८१४ असमासे
७५८ अ साम्प्रतिके
५३९ अस्तं च
८८४ अस्ताति च ८०० अस्तिनास्तिदिष्टं २२३ अस्थिदधिक्थ्य
१३० अस्मदो
८७४ अस्मायामे ९२३ अस्य चौ ३९० अस्वाङ्गपूर्व १४६ अहः सर्गेकदेशसं
८७९ अशुभमोर्युस्
३१७ अहन् १४७ garta
For Private and Personal Use Only
१०२१
१४८ अदन्तात्
५४८ अहोऽह एतेभ्यः
भा
१५३ आ कडारादेका
७९२ आकर्षात्वल्
८६० आकर्षादिभ्यः ८३७ मकालिक
७९८ आक्रन्दाट्ठक्ष ४४८ आख्यातोपयोगे
८५० आगवीनः
७०२ आगस्त्यकौण्डि
७२१ आग्रहायण्यच १९३ आणि चापः १६१ आडो नास्त्रि ४९२ आमर्यादाभि
४५२ आङ्मर्यादाव ९८ आङ्माङगेश्व
८३९ आ च त्वात् ३२७ आच्छीनो ६३८ आज्ञायिनि च
१७४ आरक्ष
८२४ आढकाचित
१७४ आन्नद्याः
१५८ आतो धातोः
६३८ आत्मनश्च
१० आत्मfasa
८१० आत्माध्वानो ७८४ आथवणिक
५३८ आदरानादर ३५६ आदाचार्याण
५ आदिरन्त्येन
३५ आदेः परस्य १३३ आदेशप्रत्ययोः
Page #1031
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२२
पूर्वाद्धंगत-सूत्रसूची। ६९ आद्गुणः । ३८ हको यणचि १८६५ इन्द्रियमिन्द्रलिङ्ग २३९ आयवन्तवदेक | ६६२ इको वहेऽपोलोः
७० इन्द्रे च ३० आरन्तौ किती ! ७१ इकोऽसवणे शाक | २४६ इन्हन्पुषायम्गां ४६९ आधारोऽधि
६४८ इको हस्वोऽड्यो | ९०४ इवे प्रतिकृती ६१५ आमतो ८४४ इगन्ताच लघुपू ६५१ इष्टकेषीकामालाना ५५३ आन्महतः २३० इग्यणः संप्रसार
८६४ इष्टादिभ्यश्च ६७६ माफ्त्यस्य
५९३ इच्कर्मव्यतिहारे ८९४ इष्ठस्य थिटच ६०० आपोऽन्यतर ६७. हजः प्राचाम् ७.० इसुसुक्तान्तात्कः ८४७ आप्रपदं प्राप्नोति ৩৭০ কাস্থ
१०३ इसुसोः सामध्ये ९३२ आबाधेच १०१ इणः षः २८३ आन्त्रित १३३ इण्को:
६१७ ईदग्नेः सोमवरुण १३७ मामि स्वनाम्नः ८८२ इतराभ्योऽपि ह ८० ईदतौ च सप्तम्यर्थे ३६६ आयनेयोनीयियः ६९० इतश्चानिजः ७७ ईदूदेदाद्विवचनं प्रगृहां ४७३ आयुक्तकुशला २१४ इतोऽत्सर्वनाम ५९९ ईयसश्च ७७६ आयुधजीविम्य ३९९ इतो मनुष्यजातेः
१६३६ ईषदकृता ९०८ आयुधजीविसं ४३४ इत्थंभूतलक्षणे ६६८ ईषदथें ७९३ आयुधाच्छ च ६५६ इदडिमोरीकी | ८९९ ईषदसमातौ कल्प ६९९ आस्गुदीचाम् ८७९ इदम इश् ७६ ईचाक्रवर्मणस्य ८१४ अदिगोपुच्छ ८८४ इदमस्थमुः ८७६ आलजाटचौ २४० इदमोऽन्वादेशे | ८०८ उगवादिभ्यो यत् ४०४ आवट्याच्च २३८ इदमो मः ३४. उगितश्च ८०२ आवसथात्ठल ८८२ इदमो हिल
६४९ अगितश्च ४३० आशिषि नाथ: .. ८८१ इदमो हः
२४९ उगिदवां सर्वनाम ६६९ आश्वयमनित्ये १०१ इदुदुपधस्य चाप ९ उच्चैरुदात्तः ७६७ आश्वयुज्या २०२ इदुभ्याम्
८. उजः ८६७ आसन्दीवदली २३ इदोऽय पुखि ११० उनि च पदे २९६ आ सर्वनाम्नः ८२० इद्रोण्याः
७९६ उच्छति ६६९ मास्पदं प्रतिष्ठा ६१७ इदुवृद्धो
८६: उत्क उन्मनाः ८८६ आहि च दूरे ५९८ इनः स्त्रियाम् ७४५. उत्करादिभ्यः
८१३ इनचिपच्चिकचिच | १५० उत्तमैकाभ्यां ६६३ इक: काशे ७२७ इनण्यनपत्ये ८३० उत्तरपथेनाहृत
२९ इको गुणवृद्धी ७३० इनित्रकटयचश्व ७६२ उत्तरपदस्य २३१ इकोऽचि विभक्तौ । ३८६ इन्द्रवरुणभवशर्व । ५५१ उत्तरमृगपूर्वाच
For Private and Personal Use Only
Page #1032
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
पूर्वागत-सूत्रसूची।
१०२३ ८८६ उत्तराञ्च 1 ४८३ उपसर्जन
| ७९९ अतोऽन ८८६ उत्तराधरदक्षिणा | १३९ उपाजेऽन्वाजे
८३६ ऋतोरण ६७४ उत्सादिभ्योऽ ८५४ उपादिभ्यां ६४३ ऋतो विधायोनि २९० उद ईत्
४२३ उपान्वव्यावसः ७. ऋत्यकः ८५ उदः स्थास्तम्भ्वो ४२६ उपोऽधिके च २६१ ऋत्विग्दरक्त ६४७ उदकस्योदः ७६. उसे च
१८२ ऋदुशनस्पुरु ७३९ उदक्च विपाशा ४६४ उभयप्रामी २११ ऋन्नेभ्यो डीप ८६७ उदन्वानुदधौ च ८१६ उभादुदात्तो ८१२ ऋषभोपानहो ८६१ उदराठगाधूने २९४ उभे अभ्यस्तम् ६९५ ऋष्यन्धक ७२० उचितोऽन्य ७८८ उमोर्णयोर्या ७०९ उदीचां वृद्धा ५९८ उराप्रभृतिभ्यः १६ एकः पूर्वपरयोः ३१३ उदीचामातः १६ उरण्रपरः ८७४ एकगोपूर्वा ७०८ उदोचामिन ८० उरसोच ६४९ एक तद्धिते ७५० उदीच्यप्रामाच्च ७८० उरसो यच्च ८०४ एकधुराल्लुक्व १९७ उद्विभ्यां काकु ६१९ उषासोषसः ९३१ एक बहुव्रीहिवत् ७१० उपकादिभ्योऽन्य ७८८ उष्ट्रावुन
१२४ एकवचनम् ०३६ उपजानूपकों
२७४ एकवचनस्य च ७८० उपज्ञाते
४८३ एकविभक्ति १६२ उपज्ञोपक्रम तदा ८ उकालोऽन्झस्व
९०८ एकशालाया ६ उददेशेऽजनुनासिक ४०० उडन्तः
९१६ एकस्य सकृय ६४२ उपपदमतिक ६३० ऊदनोदेशे ६४८ एकहलादौ ९९९ उपमानाच ३७० ऊधसोऽनङ् २२८ एकाचो वो ५९१ उपमानादप्राणिषु ४०१ अरूत्तरपदादी ९०४ एकाच प्राचाम ५२५ उपमानानि सा ८७६ ऊर्णाया युस् २१२ एकाजुत्तरपदे ५२६ उपमितं व्या ६९४ ऊर्वाद्विभाषा ८८८ एकादाकिनिश्वास ९३० उपर्यध्यधसः ६३० ऊर्यादिविडा ११६ एकादिश्चैकस्य ८८५ उपर्युपरिष्टात् ८७० अषसुषिमुष्क ८८७ एकादो ध्यम ६६२ उपसर्गस्य च
६८५ एको गोत्रे ३५ उपसर्गाः क्रि
६९८ कपूरब्धूः ६९ एडः पदान्ता ५९० उपसर्गाच ६४७ ऋचा शे
६४ एडि पररूपम् ६३९ उपसर्गादध्वना १८३ ऋत उतू
७५१ एप्राचां ६१ उपसर्गाहति ७७३ ऋतष्ठम्
१२४ एहस्वात्सम्बुद्धः ६९० उपसगांदनोत्पर । १८१ ऋतो बिसर्व । २२५ एच इग्नस्वा
For Private and Personal Use Only
Page #1033
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२४
पूर्वाञ्चंगत-सूत्रसूची। ४९ एचोऽयवायावः | १९० औतोयसोः | ८३६ कर्मण उकम् ७८८ एण्यात
४३९ कर्मणा यममिति ३०. एत बहुवचने ८७८ कशंभ्याम्
८५४ कर्मणि घटोऽठ ८१७ कंसाठिन् ११५ एतत्तदोः
११२ कमणि च ८८१ एतदस्वतसोब ७९० कंसीयपरश
४१० कर्मणि द्वितीया ८७९ एतदोऽन् ६९७ ककुदस्याव
१३३ कर्मधारयवदुचरेषु ६५७ एति संहायाम
७५४ कच्छाग्निवक्त्र .८० कर्मन्दकृशाश्वा ८७९ एततौ रथोः ७९५ कच्छादिभ्यश्च
४२५ कर्मप्रवचनीययुक्ते ६७ एत्येधत्यूट्सु
७७९ कठचरका ४२६ कर्मप्रवचनीयाः ८८७ एधाच ८०२ कठिनान्तप्रस्ता
८३९ कर्मवेषायत् ४५८ एनपा द्वितीया ८२८ कडंकरदक्षि
८०१ कर्माध्ययने वृत्तम् ८८९ एनबन्यतरस्याम् | १३३ कडारा:
७७९ कलापिनोऽण १७६ एरनेकाचोऽसंयोग १३८ कणेमनसी ४७७ कलापिवैशम्पाय ७५० कण्वादिभ्यो
७६७ कलाप्यश्वत्थयव . ८३७ ऐकागारिकद १२९ कतरकतमो
७१८ कलेढक ७४९ ऐषमोघः ७४७ कठ्यादिभ्यो
६९८ कल्याण्यादीना आ ८०७ कथादिभ्यः
६५८ कवं चाष्णे १८४ ओ: सुपि ७५६ कन्थापलदन
९७ कस्कादिषु च ७९५ ओजासहोऽम्भसा ७४८ कन्थायाष्टक
८९६ कस्य चदा ६३७ ओजासहोम्मः ६९६ कन्यायाः
१२२ कस्येत् ७९ मोत् ८४३ कपिज्ञात्योर्डक
८७२ काण्डाण्डादीर ११० ओतो गाग्र्यस्य ६९३ कपिबोधादागिरसे
३६९ काण्डोन्तात्क्षेत्रे ६६ ओमाणेश्व ८०९ कम्बलाच्च
९७ कानानेडिते ७३९ ओरम्
७१२ कम्बोजाल्लुक ६६८ का पथ्यक्षयोः ७८५ ओर
४५४ करणेच ७४८ कापिश्याः फक् ५८५ मोगुणः ९०८ कर्कलोहितादी
४०८ कारके ७५२ आदेशे ठन् ७७१ कर्णललाटास्क ६४० कारनाम्नि व प्राचा ९२० ओषधेरजातो ६६० कणं लक्षणस्या ६७० कारस्करो वृक्षः १३२ ओसिच ११३ कर्तरि च
६९१ कारे सत्यागदस्य ४०८ कर्तुरीप्सिततमम् | ८०१ कार्मस्ताच्छील्ये ७०४ औक्षमनपत्ये ४३२ कर्तृकरणयोस्तृती
। ०६३ कालप्रयोजनाद्रोगे १९२ औङ आपः २०४ कर्तृकरणे कृता ६०१ कालाः १६५ आत
। ४६२ कर्तृकर्मणोः कृति ५१७ कालाः परिमाणिना
For Private and Personal Use Only
Page #1034
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-सूत्रसूची।
१०२५ ९१९ कालाच्च
६३३ कुमारा श्रमणादिमिः | ८७१ केशाद्वोऽन्यतर ७५८ काला
| ७४४ कुमुदनस्वेतसे | ७३० केशाश्वाभ्यां या ८३० कालात्
५९६ कुम्मपदीषु च ६९७ कोः कत्तत्पुरुषे ७६७ कालात्साधुपुष्प्यत् २०११ कुरुनादिभ्यो ण्य: ७४० कोपधाच ८३६ कालापत् ७०६ कुर्वादिम्यो ण्या ७४५ कोपधाव ४३१ कालाध्वनोरत्यन्त | ७४७ कुल कुक्षिग्रीवाभ्यः
७६९ कोपधादण ०२४ कालेभ्यो भववत्
६९८ कुलटाया वा ७६७ कोशाड्डम् ७४२ कालोपसर्जने च | ७७९ कुछारखा
७८३ कौपिाल ७७० काश्यपकोशिका ७६० कुलालादिभ्यो ७१९ कौमारापूर्ववचने ७१३ काश्यादिभ्यः ८२९ कुलिजाल्लुक्खौच ३६६ कौरव्यमाण्डूका ९०२ कासूगोणीभ्यां ष्टरच् | ७९३ कुछत्थकोपधादण ७०८ कौसल्यकामा ६७० कास्तीराजस्तु
८६४ कुलमाषादन ४६६ कल्य च वर्तमाने ९१० कियत्तदो निर्धारणे ९०६ कुशापाच्छः
३८९ कादाल्पाख्यायाम् ८७९ किसर्वनामबहभ्यो ७९६ कुसीदवौकादशा १११ क्तेन च पूजायाम् १२९ किक्षेपे ६६८ कुस्तुम्बुरूणि
१२७ क्तेनं नविशिष्टे ६२ किति च ७५६ कणपर्णद्वार
५१९ क्तेनाहोरात्रावयवा २३७ किमः कः ४५९ कृमः प्रतियत्ने
६४५ क्त्वा च । ६३६ किमः क्षेपे ९२० कृलो द्वितीयतृतीय
३३९ क्त्वातोसुन्कसुनः ८५६ किमः सब्यापरि | ७६६ कृतलब्धक्रीत
५७८ क्यामानिनोच ८८१ किमच . ७८० कृते ग्रन्थे
९२४ क्यच्छयोश्च ८५५ किमिदम्भ्यां वो कः | ११७ कृत्तद्धितसमासाश्च
७७१ ऋतुयज्ञेभ्यश्च ८८९ किमेसिव्यया | १३२ कृत्यतुल्याख्या
७३३ ऋतक्थादिसूत्रान्ता ८८१ किमोऽत् ४६८ कृत्यानां कर्तरि वा
७३९ क्रमादिभ्यो वुन् ७९९ किसादिभ्याइन् | १०४ कृत्यैरधिकार्थवचने
१३ कय्यस्तदर्थे ५३. कुगतिप्रायः ११९ कूल्यैणे
४४१ क्रियार्थोपपदस्य ९०२ कुटीशमीशुण्डा ४६२ कृत्वोर्थप्रयोगे का ७८८ क्रीतवत्परिमाणा ८८० कु तिहो २६१ कृदति
३८८ क्रीतात्करणपूर्वात् ९०२ कुत्वा हुपथ् ३३६ कृन्मेजन्ता
४३९ ऋधनुहेासूयार्थी ११४ कुत्सितानि कुल्सनः ९२३ कृम्वस्तियोगे
४३९ क्रुधद्रुहोपसृष्टयोः ८९७ कुत्सिते ७०० केकयमित्रयुप्रलया
०१६ कोड्यादिभ्यश्च ९६ कुन्वोकपोच ९.२ केऽणः
८८१ काति ६६७ कुमति च २८ केदारायच | २६२ क्विन्प्रत्ययस्य कुः १९३ कुमहद्यामन्य ३७२ केवलमामाभागधेय ७०४ क्षत्राव:
६५ बा०
For Private and Personal Use Only
Page #1035
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२६
पूर्वागत-सूत्रसूची। १९ क्षय्यजय्यौ शक्या । ८०७ गुडादिभ्यष्ठम् । ६२४ ग्राम्यपशुसब्धे .२० क्षरान ८४१ गुणवचन
७६९ ग्रीवाभ्योऽच ६१० क्षुद्रजन्तवः ५ गुरोरनृतो ७६. ग्रीष्मवसन्तादन्य ६९९ शुद्राम्यो ७०० गृष्टयादिभ्यश्व
७६८ ग्रीष्मावरसमादम् ७८० क्षुद्राभ्रमरवटर ८०५ गृहपतिना ५४९ क्षुम्नादिषु च १९० गोतो णित् ६४१ वकालतनेषु ८६५ क्षेत्रियपर ७७६ गोत्रक्षत्रियाख्ये ७३२ घमः सास्यां किया १२० क्षेपे ८४५ गोत्रचरणाच्छ्ला
८९८ घनिलचौ च .८२ गोत्रचरणादवुम्
६४४ घरूपकल्प ८०४ खः सर्वधुरात् ७०६ गोत्रस्त्रियाः १६१ घेरिति ५०६ खट्वा क्षेपे ७०३ गोत्रादकवत् २९ खण्डिकादि ६८८ गोत्राधान्यस्त्रि
९२ डमो हस्वादचि ६२ खरवसानयो ७१४ गोत्रावयवात्
१६२ सिखसोच ८७ खरिच ६९० गोत्रे कुआदि
१३६ सिक्योः स्मात ४३० खलगोरथात् ६७६ गोत्रेऽलुगधि ३४ डिच्च ८१० खलयवमाष ७२. गोत्रोक्षोष्ट्रोर
२०१ लिति हस्वच ८१९ खार्या ईकन् ८३१ गोयचोऽसल्या | २६७ प्रथमयोरम् ५५० खार्याः प्राचाम् .९९ गोधाया ठक
१७४ डेराम्नधाम्नीभ्यः १६५ ख्यत्यात्परस्य .८८ गोपयसोयेत् ७९२ गोपुच्छा
९० णोः कुक्टुकारि ४१८ गतिबुद्धिप्रत्यव ७५९ गोयवाग्वोच ६४९-ड्यापोः सम्ज्ञाछन्द २६ गतिश्च
१२३ गोरतद्धितलुकि ११९ ज्याप्प्रातिपदिकात ४४६ गत्यर्थकर्मणि
७८६ गोश्च पुरीषे ५९४ गन्धस्येदुत्पूति ८६० गोषदादिभ्यो ६९९ चटकाया ऐरक् ७६९ गम्भीराम्भ्यः ८५० गोष्ठात्खन्भूत २३१ चतुरनडुहोरामु ६९२ गर्गादिभ्यो ६६९ गोष्पदं सेविता
४६९ चतुर्थी चाशिष्या ४५५ गतॊत्तरपदा ४८३ गोस्त्रियोरुप
५०६ चतुर्थी तदा ६११ गवाचप्रभू ६५३ ग्रन्थान्ताधिके ४३६ चतुर्थी सम्प्रदाने ६३९ गवियुधिभ्यां ५४९ ग्रामकोटाभ्यां १३३ चतुष्पादो गर्मि ७५९ गहादिभ्यश्च ७५० ग्रामजनपदेक ७०० चतुष्पादूभ्यो ८७२ गाण्ड्यगजासं | ७२८ ग्रामजनबन्धु ६६९ चरणे ब्रह्मचा ५३९ गाथिविदथिके ७७० ग्रामात्पर्यनु
२१ चरणेभ्यो धर्म ४९८ गिरेश्च सेन | ७४७ मामाचखलो ७९२ परति
१२९
यः
For Private and Personal Use Only
Page #1036
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ट
. ८१३ चर्मणोऽन्
२४ चादयोऽसत्त्वे ६०३ बाथै द्वन्धः ६६३ चितेः कपि ८३२ चित्तवति १२३ चुट्ट ०९५ चूर्णादिनिः २६२ चोकु: २८६ चौ ९२४ च्वौच
७७९ छगलिनो
पूर्वागत-सूत्रसूची।
१०२७ ७८९ जम्न्या वा ५९३ जम्मा सुहरित ७८७ भितश्च तत्प १४९ जराया जरसन्य ९१० ज्यादयस्त १३६ जसःशी १६० जसिच
१२९ टाङसिङसामि ७८७ जातरूपेभ्यः ३४६ टाबृचि ९०० जातिनाम्नः कन् | ३६० टिब्ढाणन्द्व ६०९ जातिरप्राणिनाम् ३९६ जातेरस्त्रीविष १८२ जातेश्व ९१४ जास्यन्ताच्छ ७४३ ठक्छौ च १६० जात्याख्यायामे ७७३ ठगायस्थानेभ्यः ३८० जानपदकुण्ड ०२८ ठन्कवविनश्च १९४ जायाया निक ७०६ ठस्येक ४३० जासिनिप्रहण | ८९९ आजादावूर्व ७७० जिह्वामूलाग्लेक्छः ६८३ जीवति तु बंश्ये
११ सि घुट् | ९०९ जीविकाथै चापण्ये | १६८ तिच
५४१ जीविकोपनिषदा । ३४७ बाबुभाभ्यामन्य .०६५ जे प्रोडपदानाम् | ४१८ कोऽविदर्थस्य
७०० ढकि लोपः
६१७ ढक्च मण्डूकात् ८९२ ज्यादादीयसः
७०० हे लोपोऽकवा ६१६ ज्योतिरायुषः ११२ ठूलोपे पूर्वस्य ६१५ ज्योतिर्जनपद ८७२ ज्योत्स्नातमि ७३६ ण्यक्षत्रियानितो
८०० छत्रादिभ्योणा ८१२ दिनपधिवले? ८६४ छन्दसि परिप ८०६ छन्दसो निर्मिते .७२ छन्दसो यो .८५ छन्दोगौक्थिक ७३८ अन्दोब्राक्ष १६३ छाया बाहुल्ये
८२८ छेदादिभ्यो
त
७७३ तत आगतः
४९९ तत्पुरुषः
२१९ जश्शसोः शिः २९९ जक्षित्यादयः षद् ७६९ जलधेनुवलजा १३ जनपदतदव .०९ जनपदशब्दा 0 जनपदिनां ०४१ जनपदे लुप ४४८ जनिक प्रकृतिः
। ४९८ शय: ८६७ शयः ८६ सयो होऽन्यतरे १६ मरो शरि
४५ मला जवमसि । ६. मलां जशोन्ते
१२९ तत्पुरुषः समाना ५४६ तत्पुरुषस्या ६४१ तत्पुरुषे कृति | १६२ तत्पुरुषोऽनष्कर्म
For Private and Personal Use Only
Page #1037
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०२८
९१६ वत्प्रकृतवचने ७९६ तस्प्रत्यनुपूर्व
६९८ तत्प्रत्ययस्य ६१९ तत्र
८६० तत्र कुशल: ८३५ तत्र च दीयते ६१ तत्र जातः ८३८ तंत्र तस्येव ५८४ तत्र तेनेदमिति ८०२ तत्र नियुक्तः
७६८ तत्र भवः ८२१ तत्र विदितः
८०७ तत्र साधुः ७१९ तत्रोद्धृतममत्रेभ्यः ५४२ तत्रोपपदं
८४७ तत्सर्वादेः पथ्यङ्ग ४११ तथायुक्तं ७३२ तदधीते ९२३ तदधीनवचने - ८१२ तदर्थं विकृतेः ८२८ तदर्हति
८३८ तदम्
*४१ तदशिष्यं संज्ञाप्र ८५७ तदस्मिन्नधिकमि
८६३ तदस्मिन्नन्नम् ७३८ तदस्मिन्नस्तीति -८२२ तदस्मिन्वृद्धया ८०१ तदस्मै दीयते नि ८१३ तदस्य तदस्मिन्
-७९९ तदस्य पण्यम् ८२५ तदस्य परिणाम् ८३३ तदस्य ब्रह्मचर्यम् ८५४ तदस्य सञ्जातं
www.kobatirth.org
पूर्वार्द्धगत - सूत्रसूची ।
७६८ तदस्य सोढम्
७३२ तस्यां प्रहर
८६५ तस्यास्य २६६ तदोः सः सावन ८८२ तदो दा च
७७४ तद्गच्छति पथि
८२३ तद्रति वहत्या
३३४ तद्धितश्चासर्व ४०४ तद्धिताः
१२२ तद्धितार्थोत्तर
६७२ तद्धितेष्वचा
९२० तद्युकारकर्म
७११ तद्राजस्य ८०३ तद्वहति रथयुग ८६१ तन्त्रादचिराप
८६९ तपः सहस्राभ्यां
२२ तपरस्तत्कालस्य
८३० तमधीष्टो भृतो
७९२ तरति
८८९ तरलमप
७५७ तवकममका २७३ तवममौ ङसि
१७२ तसिलादिष्वा
७८० तसि
८८० तसेश्व ८६६ तसौ मत्वर्थे
Acharya Shri Kailassagarsuri Gyanmandir
१२६ तस्माच्छो
३४ तस्मादित्युत्तरस्य ५३६ तस्मान्नुडचि ७५७ तस्मिन्नणिच ३३ तस्मिन्निति ८३६ तस्मै प्रभवति ८०९ तस्मै हितम्
For Private and Personal Use Only
८३४ तस्य च दक्षिणा ७९९ तस्य धर्म्यम्
८२० तस्य निमित्तं ७३८ तस्य निवासः
६७ तस्य परमात्रे
८५१ तस्य पाकमूळे ८५८ तस्य पूरणे
८३८ तस्य भावस्त्व ४९ तस्य लोपः
८८२ तस्य चापः
७८४ तस्य विकारः
७७१ तस्य व्याख्यान
७२६ तस्य समूहः ९ तस्यादित उदात्तम्
६८० तस्यापत्यम्
७८१ तस्येदम्
८२१ तस्येश्वरः
७८७ तालादिभ्यो ८६२ तावतिथं ग्रहणमि
७०२ तिककितवादिभ्यो ७०८ तिकादिभ्यः फिष् ८८९ तिङश्व
७७७ तित्तिरिवरतन्तु
२९० तिरसस्तिर्यलोपे
१०३ तिरसोऽन्यतरस्याम्
५३९ तिरोऽन्तर्धो
५८३ तिविंशति ४९३ तिष्ठद्गुप्रभृतीनि च १६० तिष्यपुनर्वस्वोर्न
७४९ तीररूयोत्तरपदा
६५५ तीर्थे ये
८७३ तुन्दादिभ्य इलच ८७८ तुन्दवलिवटेर्भः
Page #1038
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्धगत-सूत्रसूची।
१०२ २०३ तुभ्यमयौ कषि १० पदादीनामः | ३७१ दामहायनान्ताच ४४२ तुमर्थाच भाव | ०५१ त्यवादीनि च ८८४ दिक्छब्देभ्यः सह ८९१ तुरिष्ठेमेयःसु | ६२५ स्यदादीनि सनि ७६७ दिक्पूर्वपदाट ४६७ तुल्यायरतुलोप
७८५ अपुजतुनो ७१० दिक्पूर्यदादर्स ११ तुल्यास्यप्रयत्नंस ८३७ निशश्चत्वारिंशतो . ३९५ दिक्पूर्वपदान्डी ८९१ तुषछन्दास
५९. त्रिककुत्पर्वते . १२१ दिक्संख्येसंज्ञायां ७७५ तुदीसलातुरवर्मती २०२ त्रिचतुरोः खियां ७६८ दिदादिभ्यो यत् ५१२ तुजकाभ्यां कतरि ४. त्रिप्रभृतिषु शाकटा १८१ दिनामान्यन्तरा १८१ तृज्वरकोष्टः ८५९ ः सम्प्रसारणच ६.३ दित्यदित्यादित्य ६५८ हणे च जातो ७९४ मंम्नित्यम् २३४ दिव उत् ५०२ तृतीया तस्कृतार्थन १५६ खयः
२३४ दिव मौत २३३ तृतीयाविषु भाषित १० खयः
४३३ दिवः कर्मच १४५ तृतीयाप्रभूतीन्यन्य | १७२ स्वमावेकवचने ६१८ दिवसश्च पृथिव्याम ४२६ तृतीयाथें २७९ स्वामी द्वितीयायाः ४६१ दिवस्तदर्थस्य ४८४ तृतीयाससम्योबहु | २६. स्वाहौ सौ ६१८ दिवो धावा १४६ तृतीयासमासे
७६३ दिशोऽमद्राणाम् ०११ ते तद्राजाः
२९ दीर्घ च ८२० तेन क्रीतम् २१४ थो न्य:
२५ दीर्वाचवरुणस्य ८३८ तेन तुल्य क्रिया .
१५८ दीर्घाजसिच ४९१ तेन दीव्यति सनति ८८४ दक्षिणादा
९९ दीर्वात ३० तेन निर्वृत्तम् ७४. दक्षिणापथात्पुरस ४८ दीर्घादाचार्याणाम् ८३० तेन निवृत्तम् | १९३ दक्षिणेर्मा लुब्ध | ९२८ दुःखात्प्रातिलोम्ये ८३३ तेन परिजम्यक्षम्य | ८८५ दक्षिणोत्तराभ्या ७०५ दुष्कुलातक ७७ तेन प्रोक्तम् ९११ दण्डव्यवसर्गयोश्च ५५ दूरादूधूते च १३९ तेन यथाकथाच ८५८ दण्डादिम्यो ४५ दूरान्तिकार्थभ्यो ०१६ तेन रक्तं रामाद २०६मक
४५८ दूरान्तिकार्थः ८५२ तेन वित्तषुम्बु ८०१ दन्त उन्नत उर ६५६ उग्रशवतुषु १८ तेन सहेति ल्ययों | ८५ दन्तशिखासंज्ञा ७६९ दृतिकुक्षिकलशिव .४० तेनेकविक २३८ दा
७१७ दृष्टं साम गमवावेकवचनस्य ००१ दाखिनायमहा ७६. देयमृणे ८४तोषि | २३० वादेातोपः | ९२६ देये त्राच ८५ तोलं. ८८२ वानी च. । ६१६ देवताद्वन्द्वेच २९५ स्यदाविषु शोना | ९०९ वामन्यादित्रि । २५ देवताद्वन्द्वे च
For Private and Personal Use Only
Page #1039
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३०
पूर्वागत-सूत्रसूची। ९१७ देवतान्तात्तादयें १४९९ द्वितीया श्रिता | ४३८ धारेहत्तमः ९०५ देवपथादिभ्यश्च ६१३ द्वितीये चानुपा ८०४ धुरो यतको ९२६ देवमनुष्यपुरुष | ९१९ द्वित्रिचतुभ्यः ७५४ धूमादिभ्यक्ष ९१८ देवात्तल ८१९ द्वित्रिपूर्वादण्च ४४५ ध्रुवमपायेऽपादा ७०० देविकाशिंशपा ८१८ द्वित्रिपूर्वानिष्कात्
| ११९ ध्वाक्षेण क्षेपे ८७० देशे लुबिलचौ च ५८८ द्वित्रिभ्यां षमु. ०१५ दैवयशिशौचि ८१६ द्वित्रिभ्यां तय
६७२ न कपि ४२४ थावापृथिवी ५१२ द्वित्रिभ्यामञ्जले ६७९ न कोपधायाः ८७१ धुदुभ्यां मः ८८७ द्वियोश्च धमुन्
३९४ न क्रोडादिब ७४८ धुप्रागपागुदक १९३ द्विदण्ड्यादि ६५७ नक्षत्रावा ९०३ द्रव्यं च भव्ये ८९० द्विवचनविभ ४५५ नक्षत्रे च लुपि ६९१ द्रोणपर्वतजीव ६३६ द्विस्ताचा विस्ता ७१६ नक्षत्रेण युक्तः ५८८ दोश्च
१०३ द्विस्त्रिश्चतुरिति ७६६ नक्षत्रेभ्यो बहु ९३८ द्वन्द्वं रहस्यमर्या ७५८ द्वीपादनुसमुद्र ३९५ नखमुखात्सं ८४४ द्वन्द्वमनोज्ञादि ८५८ वस्तीयः
७९४ नगरात्कुत्स ६०७ द्वन्द्वश्व प्राणि ७१९ द्वैपवैयाघ्राद ७०२ न गोपवनादि ६१९ द्वन्द्वाच्चुदष ६९७ द्वयचः
६३७ न गोऽप्राणिष्व ७१७ द्वन्द्वाच्छः ७७२ बजब्राह्मणप्र २४२ न सिम्बुद्धयोः ७८२ द्वन्द्वान्वैस्मैथु ७१० द्वयमगधक २८१ न धवाहाहै ६०५ द्वन्द्वे घि ६२९ घन्तरुपसर्गेभ्यो १३६ नज १४७ द्वन्द्वेच
१९९ ब्यष्टनः सल्या ७७३ नना शुचीश्वर ८७६ द्वन्द्वोपतापग १२१ ये कयोद्विवचनैक ६३६ नमस्तत्पुरु ७६९ द्वारादीनांच
१९१ नन्दुःसुभ्यो ५२४ द्विगुरेकवचनम् ८०५ धनगणं लब्धा ७४४ नडशादा ४९० द्विगुश्च
८६० धनहिरण्याकामे । ६९१ नडादिभ्यः ३६७ द्विगोः ५९४ धनुषश्च
७४५ नडादीनां कुक्व ८२४ द्विगोष्ठश्व ७५३ धन्वयोपधावुन् २०२ न तिसूचतर ८३१ द्विगोर्यप ४९८ धर्म चरति ८५३ नते नासिकायाः ६७६ द्विगोलगनपत्ये ८०६ धर्मपथ्यर्थन्याया ६७९ न तौल्बलिभ्यः ८३१ द्विगोवा ८७७ धर्मशीलवर्गा ७८३ न दण्डमाणवा ५१६ द्वितीयतृतीयच ५९२ धर्मादनिकेव | ६१४ न दधिपया
२४१ द्वितीयाटौरस्बेनः । ५१ धातोस्तन्निमित्त । ४९८ नदीपौर्णमा - २२ द्वितीयायां च ८४६ धान्यानां भवने । ४९५ नदीमिश्व
For Private and Personal Use Only
Page #1040
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-सूत्रसूची।
१०३१ ६४९ नयाः शेषल्यान्य० । २५ नवि विमाषा ।१०४ नित्यं समासेऽनु ७४७ नद्यादिभ्यो तक १९७ नोवा
६४० नित्यं हस्ते ७४४ ना मतुप
६१३ नित्यं क्रीडाजीवि ६५२ नतच
.८० नश्वापदान्तस्य ५९१ नित्यमसिप्रजा ७५१ न दूव्यच: प्राच्य ९९ नन्छव्यप्रशान् ९२९ नित्यवीप्सयोः ८३९ न नम्पूर्वात २१३ नषट्स्वना ७९ निपात एकाज १०८ न निर्धारणे २४६ न संयोगाद्वम ७९४ निर्वृत्तेऽक्षता ४२ न पदान्तद्विचन ६४९ नसल्यादेः समा ७५९ निशाप्रदोषाभ्यां ८३ न पदान्ताहोरनाम् १९९ न संज्ञायाम् ९२८ निष्कुलानिष्को ९० नपरेम:
२९१ न सम्प्रसारणे ६०२ निष्ठा ६२३ नपुंसकमनपुंसकेनै ९१२ न सामिवचने ६०० निष्प्रवाणिश्च २१९ नपुंसकस्य प्रलचः | ४९० नस्तद्धिते
९ नीचैरनुदात्ता २१६ नपुंसकाच ६६० नहिवृतिवृषि ८९८ नीतौ च तद्य ४९८ नपुंसकादन्य ३०९ नहोधः २९९ नुम्बिसर्जनीयश ६३५ न पूजनात् १८ नामलो
१८७ नृच ७१३ न प्राच्यम
२९० नाचेः पूजायाम् ९६ नन्पे १४४ न बहुव्रीहो ६०० नाडी तन्त्र्योः २४० नेदमदसोरकोः ८०४ न भकुर्छ
८१५ नातः परस्य ४२९ नेन्द्रस्य परस्य १९ म भूसुधियोः १०७ नादिवि
६४२ नेन्सिद्धबध्नातिषु १३. नम्रानपान्न ४६ नादिन्याक्रोशे २०८ नेबडुवस्थाना ४४३ नमास्वविस्वाहा ८५८ नान्तादसया ८५३ नेविडज्विरी ४०३ नमपूर्वोऽप २९४ नाभ्यस्ताच्छतुः २६० नोपधायाः १०१ नमस्पुरसो
२८४ नामन्त्रिते समा ७९२ नौद्वयचष्ठन् ३०८ नमुने १३२ नामि
८०६ नौवयोधर्मविष ३९० न यासयोः | ६७ नास्तिस्या ७८९ न्यग्रोधस्य च ६८९ न स्वाभ्यां पदा १९३ नावो द्विगोः ६६३ नरे संज्ञायाम् ४८४ नाव्ययोभावा ८५१ पक्षात्तिः १६९ न लुमताङ्गल्य ३९२ नासिकोदरोष्ठज ५९७ पक्षिमत्स्यमृगा ४१लोकाव्यय ८. निकटे वसति ८२७ पतिविंशतिनि १५ नलोपः प्राति ७८६ नित्यं वृद्धशरा ४०१ पोश्च २४४ नलोपः सुप्स्वर ८५९ नित्यं शतादि ८२७ पञ्चदशती वर्ग १३९ नलोपो नमः ३२ नित्यं संज्ञाछ ६०६ पञ्चमो भयेन १२३ न विभक्तो । ३५ नित्यं सपस्न्या | ४७४ पञ्चमी विभक्ते
For Private and Personal Use Only
Page #1041
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-सूत्रसूची। ४५१ पञ्चम्यपाएपरि 1४४१ परिक्रयणे सम्प्रदा ४९३ पारे मध्ये षष्ठया २७४ पञ्चम्या मत् | ८१३ परिखाया ढन् ८६२ पाश्वेनान्विच्छति ६३७ पञ्चम्या: स्तोका ७९७ परिपथं च ७३० पाशादिभ्यो यः ८८० पञ्चम्यास्तसिल ८१४ परिमाणान्तस्या ६२३ पिता मात्रा ८१९ पणपादमाषश | ७९६ परिमुखं च ७७३ पितुर्यच्च १६७ पतिः समास एवं | १८ परिवृतो रथः ७२६ पितृव्यमातुल ८४३ पत्यन्तपुरोहि ७९८ परिषदो ण्यः
पितृष्वसुश्छण. ३७३ पत्युनों यज्ञसं
८७७ परिषदो ण्यः ७८६ पिष्टाच्च ७८१ पत्रपूर्वाद १३० परेवर्जने ६९० पीलायावा ७८१ पत्राध्वर्युपरि ८४८ परोवरपरम्पर ३८५ पुयोगादाख्या ७६४ पथः पन्थ च ७९२ पर्पादिभ्यः ष्टन् ५२९ पुंवत्कर्मधारय ८३० पथः कन
८८९ पर्यभिभ्यां च ३०४ पुंसोऽसुद्ध २६३ पथिमथ्यभुक्षा ७५६ पर्वताच्च
८२१ पुत्राच्छ च ६३६ पथो विभाषा ९०९ पर्वादियोधे ७०९ पुत्रान्तादन्य ८०७ पतिथिव ७८५ पलाशादिभ्यो ६४१ पुत्रेऽन्यतर ८०५ पदमस्मिन्ष्य म् ८८५ पश्चात्
९९ पुमः खय्यम्परे ६६७ पदव्यवायेऽपि २८२ पश्यार्थश्चानालो ६२२ पुमान्स्त्रिया २७९ पदस्य
३९९ पाककर्णपर्णपुष्प ७७८ पुराणप्रोक्तेषु २७९ पदात
७१८ पाण्डुकम्बला ८५९ पुरुषहस्तिभ्या १२७ पदान्तस्य
८२२ पात्रात्ष्टन् ३६६ पुरुषात्प्रमाणे ७९३ पदान्तस्यान्य । ८२८ पात्राद्धश्व ६३९ पुरोऽव्ययम् ९९ पदोन्ताद्वा
११० पात्रेसमितादयश्च ८७७ पुष्करादिभ्यो ७६८ पदोत्तरपदं
२८५ पादः पत् ९०८ पूगाळ्योऽया १५१ पन्नोमारहन्नि
९१० पादशतस्य ३७६ पूतक्रतोर च ६४६ पद्यत्यतदथें
६४६ पादस्य पदा | १०८ पूरणगुणसुहिता ८३० पन्थो णनित्यम् १९६ पादस्य लोपो ८८७ पूरणामागे तीया २८ परः सन्निकर्षः
९१८ पानार्धाभ्यां च ८२३ पूरणार्धाट्ठन् ६६७ परवल्लिङ्गद्वन्द्वत
३४५ पादोऽन्यतरस्याम् | १९७ पूर्णाद्विभाषा ११९ परश्च
६६४ पानं देशे ६२० पूर्वकालैकसर्व ८०० परश्वधाच ५२४ पापाणके
१४ पूर्वत्रासिद्धम् ६३९ परस्य च
६७० पारस्करप्रभु ५८९ पूर्वपदात्सम्झाया ४४६ पराजेरसोढः ८२९ पारायणतुरा १४२ पूर्वपरावरदक्षिणो ७५७ परावराधमोत्तम । ७७९ पाराशशि
| १९. पूर्ववश्ववडवो
For Private and Personal Use Only
Page #1042
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०३ पूर्वसदृशसमोना ८६४ पूर्वादिनिः १४३ पूर्वादिभ्यो नव ८८४ पूर्वाधरावराणा ५२७ पूर्वापरप्रथम ६१३ पूर्वापराधरोत्तर ७६३ पूर्वाहापराहा ४६४ पृथग्विनानामि ८४० पृथ्वादिभ्य ६५८ पृषोदरादीनि ६४७ पेवासवाह ६७८ पैलादिभ्यश्च १२९ पोटायुवतिस्तोक ७७२ पौरोडागपुरो ८९५ प्रकारवचने जा ८८३ प्रकारवचने थाल् ९३३ प्रकारे गुणवच १८६ प्रत्याशिषि ८९२ प्रकृत्यकार ८३६ प्रकृष्टे उन् ९२० प्रज्ञादिभ्पश्च ८६९ प्रज्ञाश्रद्धार्या ४१३ प्रतिः प्रतिनिधि ०१८ प्रतिकण्ठार्थक ८०० प्रतिजनादिभ्यः १५३ प्रतिनिधिप्रति .१८ प्रतिपथमेति ९२३ प्रतियोगे पत्र ६.० प्रतिशत ६३५ प्रतेरस: सलमी 03 प्रत्यभिवादेशूद्र ११८ प्रत्यया १६९ प्रल्पपलोपे
पूर्वागत-सूत्रसूची।
१०३३ ३४८ प्रत्ययस्थात्कार , । ७९० प्राग्वहतेष्टक १६८ प्रत्ययस्य लुक्लु | ३६५ प्राधाष्फ तद्धिता ७६७ प्रत्ययोत्तरपद ७५६ प्राचां कटादेः ४७९ प्रत्याभ्यां श्रुवः
७६३ प्राचां ग्रामनगरा १४८ प्रथमचरमतया ७६. प्राचां नगरान्ते १०: प्रथमयोः पूर्वस ७०९प्राचामवृद्धा ४८१ प्रथमानिदिष्टंस
९०० प्राचामुपादे २६९ प्रथमायाश्च द्विव ८४३ प्राणभृज्जाति ७४२ प्रधानप्रत्ययार्थ ७८७ प्राणिरजतादि ६.३ प्रनिरन्तः शरेक्षु ८६७ प्राणिस्था ७७४ प्रभवति
६६६ प्रातिपदिकान्त ८५४ प्रमाणे द्वयस
४०९ प्रातिपदिकार्थ ७९६ प्रयच्छति गर्यम्
२५ प्रादयः ०३६ प्रयोजनम्
१४० प्राध्वं बन्धने ६९७ प्रवाहणस्य हे
५१७ प्राधापन्ने च ८९४ प्रशंसायां रूप
७६६ प्रायभवः ६३१ प्रशंसावधश्च
६४१ प्रावृतारत्काल ८९१ प्रशस्यस्य ः
६० प्रावृष एण्यः १९३ प्रसंन्या जानु
७६१ प्रावृषष्ठ ४५ प्रतितोस्सुका
८९३ प्रियस्थिरस्फिर ६७० प्रकण्वहरिश्च
४६१ प्रेष्यब्रुवोहविषो .५३ प्रल्यपुरवहा
७३६ प्रोक्ताल्लुक .५० प्रस्योरपद
७८९ प्लक्षादिभ्योऽण ८०० प्रहरणम्
७१ प्लुतप्रगृह्मा ,४८० प्राकडारात्स ८०८ प्राक्क्रीताच्छः ६७९ फक्फ़िनोरन्य ८९६ प्रागिषात्कः
७८८ फले लुक् ८८७ प्रागेकावान्यो
१६० फल्गुनीप्रोष्ठपदा । ८०३ प्राषितायत् ७०७ फाण्टाहृतिमि ८०९ प्राग्दिशो विभक्तिः | ८६८ फेनादिलच्च ६७२ प्राग्दीव्यतोऽण | ७०७ फेछ ।
२४ प्राणीवरात्रिपाताः । १४ प्राग्वतेष्ठ
८०. बन्धने वर्षों
For Private and Personal Use Only
Page #1043
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ
१०३४ ६९१ बन्धुनि बहु ६४. बन्धे च विभाषा ८७८ बलादिम्यो मतु १६८ बहुगणवतुडति ८५८ बहुपगगणस २९ बहुवचनस्य १३० बहुवचने झल्येत् ३७१ बहुप्रीहेरूधसो ३८९ वहुवीहेश्चान्तो ५८७ बहुवीही सक्थ्य ५८७ बहुवीही संख्येये १३१ बहुषु बहुवचनम् ८९३ बहोर्लोपो भू ७०९ बह्वच इनः प्राच्य १९ बह्वचः कूपेषु ७७१ पहचोऽन्तोदासा ८९८ बरयो मनुष्य ८०१ बलपूर्वपदा ९२० बह्वल्पाच्छ ३०४ बहादिभ्यश्च ४०१ बाह्वन्तात्संज्ञा ६८९ वाहादिभ्यश्च ७५२ बाहीकपामेभ्य ७४६ बिल्वकादि ७८५ बिल्वादिभ्यो ८१८ विस्ताच १२८ वृन्दारकनाग ९१२ बृहत्या आच्छादने ८४६ ब्रह्मणस्त्वः ५५३ ब्रह्मणो जानपदा ६३३ ब्रह्महस्तिभ्यां ८६१ ब्राह्मणकोष्णिके २८ ब्राह्मणमाणव
पूर्वागत-सूत्रसूची। , ७०४ ब्राझो जाती ६६२ मतौ बचोऽन
७५९ मनवृज्योः कन् ८०७ भक्ताण्णः
९२९ मद्रात्परिवापणे ८०२ भक्कादणन्य ७५० मद्रेभ्योऽन ७७५ भक्तिः
६९३ मधुबध्वोहिण ५०५ भक्ष्येण मिश्रीकर ६४० मध्याद्गुरो ६९४ भगाङगते
७६८ मध्यान्म: ७६१ भवतष्ठक्छसौ
१४० मध्येपदेनिवचने ०९४ भरादिभ्यः ७४४ मध्वादिभ्यश्च ३५४ भखैषाजाज्ञाद्वा ३४७ मनः १५३ भस्य
६३८ मनसा संज्ञायाम् २९४ भस्य टेलोपः ७९९ मनुष्यतत्स्थयोः ८२३ भागाचच्च ३७६ मनोरौ वा ७२६ भिक्षादिभ्योऽण ७०९ मनोर्जातावभ्यतो ४४६ भीत्रार्थानां भय ६४८ मन्यौदनसक्तुषि ६६६ भोरोः स्थानम् | ४४४ मन्यकर्मण्यानादरे ४४९ भुवा प्रभवः २६७ मपर्यन्तस्य ८८८ भूतपूर्वे चरट् ८० मय उमो वो वा
२४ भूवादयो धातवः ७७४ मयट च १३८ भूषणेऽलम् .८६ मयड्वैतयोर्भाषा १०८ भाभगोअघोमपूर्व ६३४ मयूरव्यसकादयश्च .३१ भौरिक्यायेषुका ६७० मस्करमस्करिणौ २७३ भ्यसो भ्यम् ७०५ महाकुलादाखौ ६८३ भ्रातरि च ज्याय ७२४ महाराजप्रोष्ठपदा | ७०६ भ्रातुर्व्यच्च ७७६ महाराजा ६२२ भ्रातुपुत्रौ स्वसदु
१३ महेन्द्राद्वाणीच ६९७ भ्रुवो चुक्च ८११ माणवचरकाभ्यां
६१९ मातरपितरावुदीचा २४९ मघवा बहुलम् ६४३ मातुःपितुभ्यामन्य ८०० मडकझझरादण ६९९ मातुरुत्संख्या ८०७ मतजनहलात्करण ६४३ मातृपितृभ्यां स्वसा | ७३९ मतोश्च बह्वजनात् । ७०० मातृष्वसुश्च | ८५९ मतो छः सूक्तसाम्नो । ७९८ माथोत्तरपदपदव्य
For Private and Personal Use Only
Page #1044
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्धगत-सूत्रसूची।
१०३५ ८६६ मादुपधायाश्च मतो | ४५२ यस्य च भावेन मा , ९१९ रके ८८८ मानपश्वयोःक ४९३ यस्य चायामः ७९७ रक्षति ७८८ माने वयः २१९ यस्येति च ७४८ रडारमनुष्येच ८३१ मासाद्वयसि यस्ख ६०७ याजकादिभिश्व
८७२ रजाकृष्यासुतिप ६६३ मिन्ने चर्षों, १९३ याडापः
६५८ स्थवदयोश्च ३० मिदचोऽन्त्यात्परः ८८७ याप्ये पाश
७८१ स्थावत् ११ मुखनासिकाववनो ४९० यावदवधारणे १५४ रषाभ्यां नो णः स ०९५ मुद्रावण
९१८ यावादिभ्यः कन् ८६६ रसादिभ्यश्च । ८०५ मूलमस्याबहि २६२ युजेस्समासे ६०५ राजदन्तादिषु परम् ९२० मृदस्तिकन् ५३२ युवा खलतिपलित 1.३१ राजन्यादिभ्यो वुन्
८८ मोऽनुस्वारः ८९४ युवाल्पयोः कनन्य | ८६७. राजन्वान्सौराज्ये २३७ मो नो धातोः २६९ युवावौ द्विवचने ७०३ राजश्वशुराधत् ८९ मो राजि समः को ७२० युवोरनाको ५४७ राजाहासखिभ्यष्ट च
२७९ युष्मदस्मदोः षष्ठी | ७५९ राज्ञा कच ३१० यः सौ
२०३ युष्मदस्मदोरनादेशे | ५१८ राबाहामः पुसि ४०३ याचाप
७९६ युष्मदस्मदोरन्यतर 1६९३ रात्रेः कृति विभाषा १५२ यचि भम्
२७४ युष्मदस्मयां सो ३१ रात्र्यहःसंवत्सराच ८२९ यज्ञविग्भ्यां घख ४०४ यूनस्तिः
१८३ रात्सल्य ६९२ यवनोपच ६०० यूनि लुक्
१३९ राधीक्ष्योर्यस्य वि ३६३ बमश्च
२७१ यूयवयो जसि १९१ रायग हलि ६९१.यमिजोश्च
१५३ यू स्व्याख्यौ नदी ४४६ राष्ट्रावारपाराखौ ४०४ यतश्च निर्धारणम् ०१० ये च तविते
७२३ रीषतः ८५६ यत्तदेतेभ्यः परिमा
७०३ ये चाभावकर्मणोः (४३७ रुच्यानां प्रीयमा ८४१ यथातथायथापुर
२० येन विधिस्तदन्तस्य | ४९९ रुजार्थानां भावः ८४६ यथामुखसम्मुखल्य
४३ येनाङ्गविकारः | ८७४ रूपादाहतप्रवास ८९ यथासङ्ख्य मनुदे ६१० येषां च विरोधः शा
७०६ रेवत्यादिभ्यष्ठक ४८९ यथाऽसाहश्ये ७४२ योगप्रमाणे च तद
७८३ रैवतिकादिभ्य ९३. यथास्ये यथायथम्
| ८३६ योगायच्च २३९ रोः सुपि ८४ यरोऽनुनासिकेऽनु
९२३ रोगाच्चपनयने ८४६ यवयवकषष्टिकापत् ८३९ योजनं गच्छति
७४० रोणी ००१ यस्कादिभ्यो गोत्रे ८४४ योपधाद्गुरुपोत्त
| ०३३ रोपधेतोः प्राचा १२. यस्मात्प्रत्ययविधि
११२ गेरि ४०३ यस्मादधिकं यस्य '८४० रनतो हलादेल । १११ रोऽसुपि
२५३ योऽचि
For Private and Personal Use Only
Page #1045
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०० वा शरि
१०३६
पूर्वार्द्धगत-सूत्रसूची। २९९ वोरुपधाया दीर्घ ।३६६ वयसि प्रथमे । ८९ वा पदान्तस्य
७४३ वरणादिभ्यश्च ९०३ वा बहूनां जाति ४२७ लक्षणेत्यम्भूताख्या | ७७० वर्गान्ताच्च | ६६९ वा भावकरणयो ४९२ लक्षणेनाभिप्रती ६६९ वर्चस्केऽवस्करः ७१८ वामदेवाड्यड्डयो ७९९ लवणान् ८४० वर्ण ढादिभ्यः | २०९ वामि ७९९ लवणाल्लुक ३७७ वर्णादनुदात्तात्तोप २०५ वाम्शसोः १२९ लावतद्धिते ८७७ वर्णाद्ब्रह्मचारिणि ४२३ वायवृतुपित्रुषसो १ लाक्षारोचना ९१९ वर्ग चानित्ये ४४६ वारणार्थानामी ७६४ लुक्तद्धितलुकि ६३३ वर्णो वर्णेन १३१ वाऽवसाने ६९३ लुस्त्रियाम् | ७४८ वर्णो वुक ७६१ लुपि युक्तवव्यक्ति ८३२ वर्षष्याभविष्यति ६४६ वा शोकष्यरोगेषु ७८९ लुप्च ७६० वर्षाभ्यष्टक
९९४ वा सज्ञायाम् ७१६ लुबविशेषे
१८५ वर्षाभ्वश्व ७७६ वासुदेवार्जुनाभ्यां ७४१ लुब्योगाप्रख्याना ८३२ वर्षाल्लुक च ६३ वा सुप्यापिशले ९०५ लुम्मनुष्ये. ६६१ वले
२३० वाह ऊठ् ८२२ लोकसर्वलोकान् ८०६ वशं गतः
३९५ बाहः ५३ लोपः शाकल्यस्य ७३९ वसन्तादिभ्यष्ठक ८८१ वा ह च छन्दसि ५९५ लोपो व्योर्वलि २३३ वसुखसुध्वस्वनदु ६६४ वाहनमाहितात् ८६९ लोमादिपामादि ३०२ वसो सम्प्रसारणं ६०२ वाहिताग्न्यादिषु ९१९ लोहितान्मणौ ९०६ वस्तेढा
७५२ वाहीकग्रामेभ्यश्च व
७९३ वस्नक्रयविक्रयान ८१८ विंशतिकात्खः ६९३ वतण्डाच्च
८२३ वस्नद्रव्याच्या ८१० विंशतित्रिंशनयां ४१७ वतोरिड्वा .०९ वाकिनादीनां कु ८५९ विंशत्यादिभ्यस्त ८१८ वतोरिथुक्
७३ वाक्यस्य रेः प्लुत | ६९७ विकर्णकुषीतका ७६६ वत्सशालाभिजि
९३१ वाक्यादेरामन्त्रित ६९६ विकर्णशुङ्गच्छग ८६८ वत्सांसाभ्यां काम ६४७ वा घोषमिश्रशब्दे ७७४ विदूराम्ध्यः ९०२ वत्सोक्षाश्वर्षभेभ्य ८७६ वाचो ग्मिनिः ७७३ विद्यायोनिसम्बन्धे ६६१ वनगिर्योः सज्ञा ९२० वाचो व्याहृतार्था ८०६ विध्यत्यधनुषा ६६१ वनं पुरगामिश्रका
८७७ वातातीसाराभ्यां ८५२ विनम्भ्यां नानामा ३४४ वनो र च
२२९ वा दुहमुष्णुहष्णि ९२० विनयादिभ्यष्ठक ६०१ वन्दिते भ्रातुः ३२७ वा नपुंसकस्य ८९४ विन्मतोलुक ५९७ वयसि दन्तस्य ४९ वान्तो यि प्रत्यये ६१४ विप्रतिषिद्धं चान ८७७ वयसि पूरणात ६८४ वान्यस्मिन्सपि '११४ विप्रतिषेधे पर
For Private and Personal Use Only
Page #1046
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
me
पूर्वागत-सूत्रसूची।
१०३७ १२० विमतिश्च ८०९ विभाषा हविरपूपा । २६१ वेरपृतस्य ४९० विभाषा ६१६ विभाषोदरे ६३९ वैयाकरणाख्यायां ८१८ विभाषा कार्षापण ४६१ विभाषोपसमें | ३८३ चोतो गुणवच ४९४ विमाषा कुरुयुगे ७११ विभाषोशीनरेषु १८६ वोपसर्जनस्य ६३९ विभाषा कृषि
६६४ विभाषौषधिव | ७९९ व्यानरूप ४७७ विभाषा कृमि ८६० विमुक्तादिभ्यो ७०५ व्यन्सपरने ४५३ विभाषा गुणेऽस्त्रि २८ विरामोऽवसा ४६० व्यवहपणोः सम ११६ विभाषा वियोः ८३६ विशाखापाढाद
७६८ व्याहरति मृगः ५१६ विभाषा चत्वारिंश ६.९ विशिष्टलिङ्गो ८३५ व्युष्टादिभ्योऽण १४८ विभाषा जसि १२६ विशेषणं विशे
| १०९ व्योर्लघुप्रयत्नतः ९१३ विभाषा रविक्ति ७४२ विशेषणाम १९९ वश्वभ्रस्जसूज ८४६ विभाषा तिलमाषो २६४ विचल्य वसु
६९० वातफलोर १८३ विभाषा तृतीया | ७३० विषयो देशे ८५१ बातेन जीवति .१९४ विभाषा दिक्समा | ६७४ विष्किरः ८४६ प्रीहिशाल्योर्दक १९५ विभाषा द्वितीया | २८७ विष्वग्देवयोश्च
७८७ बीहः पुरोमशे ८८५ विभाषा परावरा | ९३ विसर्जनीयस्य
८७३ नीहादिभ्यश्व ६९८ विभाषा पुरुषे | ९१९ विसारिणो ३१ विमाषा पूर्वाहाप ७४० बुझ्छएकठनि
८०४ शकटादण' २१ विभाषा फाल्गुनी (९०९ वृकाटेण्यण
८०० शक्तियष्टयोरी ८९२ वृद्धस्य
७७५ शाण्डिकादिभ्यो ९१६ विमाषा बहोर्धावि ७६६ विमाषा मनुष्ये ७५१ वृद्धच्छः
८१७ शतमानविंशतिक ०५९ विभाषा रोगातप
७०६ वृद्धाक्सौवी ८७४ शतसहस्रा ८८५ विभाषाऽवरस्य ७५३ वृद्धात्प्राचाम् ८१६ शताच उन्यताव ६४१ विभाषा वर्षक्षर ७५५ वृद्धादकेकान्त ८५७ शदन्तविंशतेश्च ७९४ विमाषा विवधात् ५८० वृद्धिनिमित्तस्य च | ३२८ शयनोनित्यम् ६११ विभाषा वृक्षमृगत
२३ वृद्धिरादेच
.९७ शाब्द१ करोति ५९७ विभाषा श्यावारो
१. धृतिरेधि ७८६ शम्याः ब्लग ३७४ विभाषा सपूर्वस्य ७५१ वृद्धियस्याचा ६४१ शयवासवासि ६१९ विभाषा समीपे | ७१० वृद्धत्कासला ६९१ शरद्वच्छुनक ९२६ विभाषा साति का ६२० वृद्धो यूना तल्ल ६६२ शरादीनां च ८९६ विभाषा सुपो बहु ३०६ वृषाकप्यग्निकुसि | ७६८ शरीरावयवाच ६६४ विभाषा सेनासुरा ८५२ वेः शालच्छक | ८०९ शरीरावयवायत् ६४३ विभाषा स्वस्प । ७९३ वेतनादिभ्यो । २३६ सरोऽचि
For Private and Personal Use Only
Page #1047
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०३८
९०७ शर्करादिभ्योऽण् कराया वा
७४३
९९ परे विसर्जनीयः
८०० लालुनोऽन्य
छIsfa
८७ २७२ शसो न
७८३ शाकलाद्वा ९०६ शाखादिभ्यो ८१९ शाणाद्वा ८३ शात् ४०३ शार्ङ्गरवाद्यत्रो ४२० शालीन कौपीने ७४५ शिखाया वलच् ९१ शिक्
९०६ शिलाया ढः ८०० शिल्पम्
६९४ शिवादिभ्योऽण् ७७५ शिशुक्रन्दयम २११ शि सर्वनामस्था
८६२ शीतोष्णाभ्यां ८२८ शीर्षच्छेदायच
८०० शीलम्
६१० शुद्राणामनिर ८१७ शूर्पादनन्यतर ९२९ शुकाल्पाके
७२० शूलोखाचत
८६३ लमस्य ७८ शे
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
९०१ शेषलसुपरिवि १९८ शेषाद्विभाषा
पूर्वार्द्धगत- सूत्रसूची ।
७४६ शेषे
२६७ शेषे लोपः १६० शेषो व्यसखि
१६४ शेषो बहुव्रीहिः ३८२ शोणात्प्रावाम्
७७८ शौनकादिभ्य
ष
३६५ षः प्रत्ययस्य ८५८ षट्कतिकतिपय
७२२ शुक्रादन
७७३ शुण्डिकादिभ्योऽणू २३१ षट्चतुव
६९७ शुभादिभ्यश्च
१६९ षड्भ्यो लुक्
२०० षढोः कः सि
७३२ श्येनतिलस्य
७६४ श्रविष्ठाफल्गु
८०२ श्राणाम
८६४ श्रामनेन
७५९ श्राद्धेः शरदः ५२७ श्रेण्यादयः ८६४ श्रोत्रियं छन्दो
४३७ बलाघहनुस्था ७९२ श्वगणाञ्च
२५१ श्वयुवमघो
६२३ श्वशुरः श्वश्र्वा
७५९ श्वसस्तुट् च ६३४ श्वोवसीयः ७९३ श्वादेरिजि
८३१ षण्मासाण्ण्यच्च ७०४ पूर्वहन्त ८३३ षष्टिकाः षष्टिरा
८५९ षष्टयादेश्चासं
८८८ षष्ठाष्टमाभ्यां
५०७ षष्ठी
४७३षष्ठी चानादरे
For Private and Personal Use Only
४५५ षष्ठी शेषे ३१ षष्ठी स्थानेयोगा ४५६ षष्ठी हेतुप्रयोगे ४५ षष्यतसर्थप्रत्य ६४२ षष्टया आक्रोशे
.८८८ षष्ठ्या रूप्य
९२२ षष्ट्या व्याश्रये ३७९ षिद्वौरादिभ्यश्च
८३ ष्टुना ष्टुः
२५६ ष्णान्ता षट्
६४९ व्यकः सम्प्रसार स
८६३ स एषां ग्रामणीः ७०३ संयोगादिश्च
४५ संयोगान्तस्य
२९ संयोगे गुरु ७६८ संवत्सराग्रहायणी ८२९ संशयमापन्नः
७९५ संसृष्टे
७९२ संस्कृतम् • ७१९ संस्कृतं भक्षाः
४०२ संहितशफलक्ष ९८ संहितायाम्
६६० संहितायाम् ३९५ सख्यश्विति भा १६४ सख्युरसम्बुद्धौ
८४३ सख्युर्यः
७३९ सलादिभ्यश्च
१८२ सहयथाव्यया ५२३ सङ्ख्यापूर्वो
१६ सङ्ख्याया अतिश
८५५ सङ्क्रयाया अव ९११ सङ्घयायाः क्रिया
Page #1048
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-सूत्रसूची।
१०३६ ८३५ सयायाः संवत्सर | ११८ सम्साल्पामो । १९७ सम्बुद्धौ च ८२५ सयायाः संज्ञास ९२८ सपत्रनिष्पत्रा
७९ सम्बुद्धौ शाकल्य ८५७ सात्याया गुणस्य ८६४ सपूर्वाञ्च
४०८ सम्बोधने, ८८६ सन्यायो विधार्थ २८३ सपूर्वायाः प्रथमा ८२४ सम्भवत्यवहरवि ९२८ सन्यायापच गुणा ४०५ सक्षमीपसम्यो ७६७ सम्भूते ४९४ संख्या वंश्येन ६०१ ससमोविशेषणे १२९ सरूपाणामेकशेष १९७ संख्याविसायपूर्व ५१८ सप्तमी मौसी ८४६ सर्वचर्मणः कृतः ३१व्याख्ययादे ४६९ सम्बधिकरणे
३६६ सर्वत्र लोहितादि ५९६ संख्यासुपूर्वस्य ८८१ सप्तम्याचल्
। ६९ सर्वत्र विभाषा ९२१ संखकवचनाच ८०८ समाया पा
४. सर्वत्र साकल्यस्य ४३१ समामे प्रयोजन १६६ सभा राजाऽमनुष्य
७६० सर्वत्रापच तलोपत्र ६. समाइलक्षणेष्व | २९० समा समि
१६२ सर्वनामस्थाने चा १७९ संज्ञापूरण्योश्च
१२ समः सुटि १३६ सर्वनाम्ना स्मै ५१९ संज्ञायाम्
८३६ समयसदस्य १९४ सर्वनाम्नः स्या ४०३ संज्ञायाम्
९२८ समयाश्यापना ४५७ सर्वनाम्नस्तृतीया .८० संज्ञायाम्
४५९ समर्थ: पदविधिः १० सर्वपुरुषाभ्यां ८६० संज्ञायाम्
६५ समर्थानां प्रथ ८२१ सर्वभूमिपृथिवी “९९ संज्ञायां ललाटक ७९८ समवायासम
९२१ सर्वस्य १२ संज्ञायां करदो
८९ समांसमा विजा ८८० सर्वस्य सोऽन्यतर १.कायां भवणाव ८०८ समानती वासी १३४ सादीनि सर्व ७८६ संज्ञायां कन्
६१४ समानस्य छ ८८५ सर्वेकायकिं यत्तदा ८९८ संज्ञायां कन्
८०८ समानोदयि १०६ ससजुषो रुः ९०१ संज्ञायां कन्
८३० समापनारसपूर्वप ९२० सस्नो प्रशंसायाम् १६२ संज्ञायां कन्योती
०३१ समाया:ख ८६० सस्येन परिजातः ९०४ संज्ञायांच
९०६ समासाच्च तद्वि ३९४ सहनविद्यमान ८०१ संज्ञायां जन्याः
४९६ समासान्ता ४३३ सहयुक्तेऽप्रधाने ८०१ संज्ञायां धेनुष्या ६०६ समासेऽगुरले
१८० सह सुपा ८८ संज्ञाया मम्मा
.. समाहार त्वरितः
| ६१३ सहस्य सः सम्ज्ञा ४३४ संशोऽस्पतरस्या ९१७ समूहबच्च बहुषु
२९० सहस्य सधिः ९२९ स्यादपणे १५ सम्पादिनि
२३३ सहे. साडः सः ८८३ सम्परुत्पराय ६४९ सम्प्रसारणस्य ५४० साक्षात्प्रभृतीनि च १६० समपुंसकम् २३० सम्प्रसारणाच्च ८६६ साक्षाद्रष्टरि ७५९ सन्धिवेलायत '८५२ सम्प्रोदश्च कटस् । ९२९ साल्पदायोः
For Private and Personal Use Only
Page #1049
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०४०
४३१ साधकतमं करणम् ४७४ साधुनिपुणाभ्यां २१७ सान्तमहतः संयो
८५१ साप्तपदीनं सख्यं
२७४ साम आकम्
२८३ सामन्त्रितम् ५०१ सामि
७६० सायंञ्चिरम्प्राहे
७११ साल्वावयव ७१० साल्वेगा
२३१ सावनडुहः ७२० सास्मिन्पौर्णमा ७२१ सास्य देवता ८०० सिकताशर्क
७२९ सिति च
११८ सिद्धशुष्क पक्क ८६८ सिध्मादिभ्यश्च ७७५ सिन्धुतक्षशि ७६४ सन्ध्वपराभ्यां
४२९ सुः पूजायाम् ९२८ सुखप्रियादानुलो ८७७ सुखादिभ्यश्च
१५२ सुडनपुंसकस्य
६८९ सुधातुरकङ् च १२१ सुपः १२९ सुपि च ४८१ सुपो धातुप्राति २८ सुप्तिङन्तं पदम् ४९० सुप्रतिना मात्रा थें ६९० सुप्रातसुवसुदि ७४० सुवास्त्वादिभ्यो ६५७ सुषामादिषु च ७६३ सुर्वाज्जनपद
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्धगत-सूत्र सूखी ।
१९८
दौ मित्रा
७३७ सूत्राच्च कोपधात् ३७९ सूर्यतिष्यागस्त्य ७०७ सेनान्तलक्षण
७९९ सेनाया वा
११६ सोऽचि छोपे
८०८ सोदराः
१०० सोsपदादौ
७२३ सोमायण ७७५ सोऽस्य निवासः
८२५ सोऽस्यांशवस्त्रभृत ७३१ सोऽस्यादिरिति २४७ सौच
२६५ स्कोः संयोग धोर
८४२ स्तेनाद्यन्नलोप
८२ स्तोः चुना वचुः १०७ स्तोकान्तिकदूरार्थं २०५ स्त्रियाः
१६७ स्त्रियाः पुंवद्भाषित ३३८ स्त्रियाम् ५९७ स्त्रियां सज्ञायाम्
२११ स्त्रियाच ७१२ स्त्रियामवन्तिकु ६२१ स्त्री पुंवच्च ६७५ स्त्रीपुंसाभ्यां ६९७ स्त्रीभ्यो ढक् ७३९ स्त्रीषु सावीरसाल्व
७१९ स्थण्डिलाच्छयि ७६५ स्थानान्तगोशाल ९१४ स्थानान्ताद्विभाषा ३९ स्थानिवदादेशोऽन ३२ स्थानेऽन्तरतमः ८२९ स्थालीबिलात्
For Private and Personal Use Only
८९२ स्थूलदूरयु बहस्व ९११ स्थूलादिभ्यः प्रका ६४२ स्थे च भाषायाम्
२९० स्पृशोऽनुदके किन्
४३८ परीप्सितः २७ एवं रूपं शब्दस्या
४३१ स्वतन्त्रः कर्ता १४२ स्वमज्ञातिधनाख्या
२२० स्वमोर्नपुंसकत् ५०० स्वयं क्तेन
३३० स्वरादिनिपातम ३६ स्वरितेनाधिकारः
७०५ स्वसुइछः ७९१ स्वागतादीनाञ्च
१८१ स्वाङ्गाच्चेतः ३९१ स्वाङ्गाच्चोपसर्जना ८६० स्वाङ्गेभ्यः प्रसिते १५२ स्वादिष्वसर्वनाम ८७६ स्वामिन्नैवयें
४७३ स्वामीश्वराधिपति १२० स्वौजसमौट्छष्टाभ्यां
ह
२४७ हन्तेरत्पूर्वस्य ७९४ हरत्युत्सङ्गादिभ्यः ६९१ हरितादिभ्यो
७९० हरीतक्यादिभ्य ६३९ हलदन्तात्सप्तम्याः
५ हलन्त्यम् ७८२ हलसीराट्ठक् ८०४ हलसीशह ३६४ हस्तद्धितस्य २४६ हलि च २३९ हलि लोपः
Page #1050
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१११ हठि सर्वेषाम् २९ हलोऽनन्तराः ४८ हलो मां यमि १६३ हल्ब्याब्भ्यो १०८ हशिव
८७ वाजत
८४४ हायनान्तयुवा ८०१ हितं भक्षाः ६४० हिमकाहिति ४२६ हीने
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्धगत वार्तिकसूची ।
९२२ हीयमानपापयो
४२२ क्रोरन्यतर
८०७ हृदयस्य प्रियः
६४६ हृदयस्य हृल्लेख
सिन्धवन्ते
६१६
७७४ हेतुमनुष्येभ्यो
४३४ हेतौ ८९ हे मपरे वा
८५१ हैवी संज्ञा ७५ प्रयोगे हैहयोः
६१५
९६० | अन्त्यात्पूवा वा नुम् ४४३ १७५८ | अन्येभ्योपिकयते १९१६,
१०४१
१९१९, १९२७ ७८० | अन्वादेशे नपुंसके ४४२
२२७ हो ढः ८४५ होत्रा छः २४७ हो हन्तेष्णिषु २९ स्वं लघु १३२ हस्वनद्यापो नु
पूर्वार्द्धगत - शार्तिकसूची ।
सूत्रम्
अ
सूत्रम् अधर्माच्चेति वक्त १५९१ अप्रकरणे तूष्णो २०२८ अध्यात्मादेष्ठ त्रिष्य १४३७ अकर्मक धातुभिर्योगे ५३९ अध्वपरिमाणे च अकारान्तोत्तरपदो ८२१ अनजादौच विभा अक्षाहिन्यामुपसं ७३ | अनडुहः स्त्रियामाम् ४९८ | अभितः परितः - अग्रोवत्सहलेष्विति ८५० अनपत्याधिकारस्था ४७२
अभिकलिभ्यां ढग्व १०७८ अभिपदादिभ्य उप १७६१ अमीधः शरणे
अनव्ययस्येति वाच्यं १५२ अनाम्नवतिनगरीणा ११४
अभितः परितः अभिवादिडशोरा अभुक्त्यर्थस्य न
५४४
अनेकप्राप्तावेकत्र
१५० अप्रादिपश्वामिच् १३.१ अनेकशफेष्विति
९०५
अङ्गक्षत्रधर्मत्रिपूर्वा १२७०
अनो / नलोपश्च वा
१६६७
९०३ | अभूततद्भाव इति २११७ ९३९ | अभ्य ८२१ अभ्रसादीनामिति ९९९ १३९१ अमानिनीति वक्तव्यं ८४१ ९६९ | अमेहकतसित्रेभ्य १३२४ अरण्याण्णः १३२५, १३५३
अचिशीर्ष इति वा अरिसन्ताप्यो अस उपसंख्या
अन्ताच्च
अन्ताच
अणू संज्ञायाम् अतद्धित इति वा १०५७
अर्णसो । लोपश्च १९१६ अर्थाच्चासन्निहिते १९४१ अर्थेन नित्यसमासो ६९८ अर्षाच्चेति वक्तव्यं १६९०
अस्यादयः क्रान्ता
अनुतायामसंहितम् ७५८ | अपरस्यार्धे पश्चभावो ७३
तत्पुरुषविशे ९३८ | अपीलवादीनामिति १०४३ | अर्थक्षत्रियाभ्यां वा ६०५
६६ बा०
For Private and Personal Use Only
१६० ह्रस्वस्य गुणः ७४९ स्वात्तादौ तद्धि
सूत्रम्
अपुरीति वक्तव्यम् २१७ अपो योनियन्मतुषु ९७६ ६३ | अप्रत्यादिभिरिति ६४० २०३५ | अप्राणिष्वित्यपनीय १८४
५४४
६५९
५४१
९०२ स्वे २२० इस्वो नपुंसके प्रा
"
Page #1051
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-वार्तिकसूची। महतो नुम् च १४८ , आमयस्योपस १९२८ । उष्णभद्रयोः करणे १००७ अर्हाणां कर्तृत्वे ६३४ | आमुष्यायणामुष्य ९४९ अलावृतिलोमाभ १८३० आशिषि पुनवचन ४६४ ऋलवर्णयोमिथः १२ अवरस्योपसंख्यानम् ६९३ आसुरेरुपसंख्यानम् ४७ ऋति सवणे वा ८५ अवर्णान्ताद्वा ९४१ आहृतप्रकरणे वारि १७४१ ऋतुनक्षत्राणां समा ९०९ अवादयः अष्टाधर्थे ४८० | माहौ प्रभूतादिभ्यः १९४९ | ऋते च तृतीया ७३ अवारपाराद्विगृही १३१३
ऋतोद्धिमद्विधा १३९० अवेर्दुग्धे १२४२ हकन्पदोत्तरपदाच्छ १२७० | ऋवर्णादपि २०३६ अव्ययस्य च्चावीत्व२०१८
इकारादाविति वा १९६० | ऋवर्णान्नस्य णत्वं १८२ अव्ययानाम् भमाने १३२४ | इके चतुरावसंख्या ९९१ अशिष्टव्यवहारे ५६८ इत्येऽनभ्यासस्य १००७ लति सवणे ल वा ८६ अश्मनो विकारे १५१४ | इदम इश् सम्सण १९७० अष्टका पितृदेवत्ये ४६४ इदमोऽशभावो १९५० | एकतरात्प्रतिषेधो ३१६ अष्टनः कपाले ८० इयं त्रिसूत्री पुंयोगे ४९३ एकतिष् वाक्यम् ४०० मसंयुक्ता ये डलका २९३ इयवहभाविनाम् ९९९ एकविभक्तावषष्ठयन्त ७१३ असमासवदावे २१४७ इरिकादिभ्यः प्रति १०१ एकाक्षरपूर्व २०३० असितपलितयो ४९६ | इवेन समासो. ६५० एकाचो न अस्ताश्चेति वक्त १०००
एकाचो नित्यम् १९९४ अस्मिन्नर्थेऽण डिद्वा १३०८ ईकक्च
एकादेशशास्त्रनिमित्त १५६ अस्य सम्बुद्धौ वा ४३६ / ईयसो बहुव्रीहेनेति ८९४
एतदो वाच्यः १९० अहरादीनां पत्यादिषु १४२ | ईषद्गुणवचनेनेति
एते वांनावादय अहहणं द्वन्द्वार्थम् ..
एवे चानियोगे. अहः खः ऋतौ १०१
उगिद्वर्णग्रहण २६ आ
उत्तरपदं यत्प्राति १०१५ ओकारसकारम २०२८ आकर्षात्पाद १६३६ उत्तरपदलोपे न ४६४ |
| ओतो णिनिति वा २८९ आकालाळंच १७७७ उत्तरपदस्य चेति ९९५ ओत्वोष्ठयोः समासे ४५ आख्यानाख्यायि १२७० उत्तरपदेनपरिमाणिना ७१६ आनीधसाधारणा २०१३ उत्पातेन ज्ञापिते च १८० औल: श्यां प्रतिषेधो ३११ माचार्यादणत्वं च ९०६ उपधिशब्दात् स्वाथें १६.५ औस्वप्रतिषेधः सा ४३५ आदिखाधोर्न ५४० | उपमानात्पक्षाव पु ६११ आधादिभ्य उपसं २१११ उभयोऽन्यत्र २१७ कच्छ्वा हस्वत्वं च १९१४
| उभसर्वतसोः कार्या ५४४ कप्रत्ययचिकादेशौ १८३४ आग्रहणं व्यर्थमलि ४५२ | उवर्णाल्ल इलस्य च २०३९ । कवरमणिविषशरेभ्यो १११
.
१०७
For Private and Personal Use Only
Page #1052
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वागत-बार्तिकसूची।
१०३ कमेरनिषेधः ६१७ । ख्यालादेशेन १३९ | चयो द्वि० १३०,२९५,४४३ कम्बोजादिभ्य इति १९९४
चरट्जातीयरो ८६ कर्मणः करणसंज्ञा ६७० | गजसहायाभ्यां १२५१ | चरणाद्धर्माम्नाय १५०६ कर्मप्रवचनीयानां ४० गवादेः परा सप्तमी ८९८ चित्रारेवती १४०० कर्मव्यतिहारे २१४७ | गणिकाया यमिति १९४८ | चिरपरुत्परारिभ्यः १३९१ कल्पब्देशीयरौ | गतिकारकेतरपूर्व २७५ चुल् च १८३४ काम्ये रोरवेति १५३ गन्धस्येत्त्वे तदेकान्त ८७४ | व्यर्थ इति वाच्यम् ७०९ कारके छे च नायं १०५ गम्यमानापि कर्षापणाठिन् १६९० गवि च युक्त ८०. छत्वममीति वाच्यम् १२१ कालात्सप्तमी ५९४ गिरिनचादीनां वा १०६४ छन्दसि क्नमेके. ४९६ कुक्कुट्यादीनामण्डा ८३६ गिलगिले च . १००० छागवृषयोरपि ११९ कृयोगा च षष्ठी ७०३ | गिले गिलस्य १००७ कृनया न ९८६ गुणकर्मणि वेष्यते ६२३
जल्पतिप्रभृतोनामु ५४० कृष्णोदक्पाण्डुसंख्या ९४३ | गुणवचयेभ्यो मतुपो १८९६
जातान्तान्न ५०० क्लपि सम्पयमाने च ५८० गुणात्तरेण तरलोप ७०३
जातार्थे प्रतिप्रसूतो १४११ केवलायाश्चेति १६९८ गोरजादिप्रसङ्गे १०७७ जातिकालसुखादि ८९९ कोपधप्रतिषेधे ८३८ | गोयूँतौ छन्दस्युप ६३
जातिपूर्वादिति वक्त ५०० कौपिजल १५१२ गोष्ठजादयः १८३०
जुगुप्साविराम ५८७ तस्येन्विषयस्य ६३३
ज्योत्स्नादिभ्य उ १९१० कियया यममिति ५७० | घोषग्रहणमपि क १०५७ क्रोशितयोजनश १७३८ व्यन्तादजाद्यन्तम् १०४ | ठक्छसोश्च ८३६ लिनस्य चिल्पिल्लव १८३४ को लुखं न स्थानिवत २७३ | डावुत्तरपदे प्रतिषेधो ३६२ | डाचि बहुल द्वे क्षत्तियसमानशब्दा ११८६
| डाचि विवक्षिते २१२० चचहतोरुप २०७५ क्षिपकादीनां च न ४६४
चटकादिति वाच्यम् ११३४ | ततोऽभिगमनम १३८ खप्रत्ययानुत्पत्तौ १८१३ | चतुरन्छयतावाद्य १८५१ | तत्परतीति ११८ खरुसंयोगोपधात्र ५०२ चतुर्थादच २०३६ तत्परेच खर्परे शरि वा १५१ | चतुर्थादनजादौ २०३६ | तदन्ताच १९४१ खलतिकादिषु १३०० चतुर्थ्यर्थ १७१३ तदस्मिन्वर्तते १२४१ खलादिभ्य इनिः १९६० चतुर्मासाण्ण्यो १७२८ तदाहेति . १९४८ खुरखराभ्यां वा गस् ८५७ चतुर्वर्णादीनां १८९ तदो दावचनमनर्थकं १९६८ ख्यश्च ८५९ | चतुष्पाज्जातिरिति-४५३ | तबृहतोः करपत्यो १०.१
८२.
For Private and Personal Use Only
Page #1053
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
२०१४
पूर्वागत-वार्तिकसूची। तक्कादध्वनः ५९४ | शेश्च ५४० | निमित्ताकर्मयोगे ३३३ तप्पर्वमरुदयाम् १९२८ देवाधजनो १०७७/नियन्तृकर्तृकल्य १४० तरसमपौ ८६ / देवानां प्रिय इति ७९७ / निरादयः क्रान्ताय] ७८० तस्य दोषः सं० १३५,४३४ | दोष उपसंख्यानम् १२२१ निष्के चेति वाच्यम् ९९४ तस्येदमित्यपत्येऽपि १०८८ धुश्चोभयाद्वक्तव्यः १९७० निसो गते १३२४ तादथ्ये चतुर्थी ५० | द्वन्द्वतत्पुरुषयोरुत्तरपदे०५८ | नीलादोषधौ १०० तारका ज्योतिषि ४६४ | द्विगुप्राप्तापन्नालम्पू ८१२ नील्या अन्व ५००,१२०३ तावतिथेन गृह्णाति १८७७ द्विगोनित्यम् १८३८ नीवघोर्न ५४० तिलानिष्फलो १३४२ द्वितीयं सन्ध्यक्षरं २०३७ | नुमचिर २८०, २१९, ३२०, तिल्थ्यनौ ८३६ / द्वित्वे गोयुगच् १८३० तिष्यपुष्ययोनक्षत्राणि४९९ | द्विपर्यन्तानामेवेष्टिः २६५ | नेतुनक्षत्रे अब्वक्तव्यः ८५४ तीयादीकक स्वार्थे १९९४ | द्विषः शतुर्वा ६२० त्यकनश्च निषेधः ४६४ | यन्यज्भ्यामेव १०११ पञ्चजनादुपसंख्या १४३६ त्यक्त्यपोश्च ४६३
पञ्चजनादुपसंख्या १६७१ त्यदादितः शेषे पुन ९३८ | धमुजन्तात्स्वाथ १९९१ पत्ताद्वाो १५०३ त्यदादीनां फिन्चा ११८० धर्मादिष्वनियमः ९०२ पथः संख्याव्ययादेः ८२१ त्यदादीनां मिथः ९३८ धात्वन्तयकोस्तु ४६५ पथ्यध्यायन्याय १३१३ त्यग्नेर्भुव इति १३१४, धेनो व्यायाम् १००७ परस्मादेवव्यहनि १९७० प्रतसो
परिमुखादिभ्य १४३६ त्रिचतुभ्यो हायन ४८६ नगपांसुपाण्दुभ्यश्च १९१४ परेजने वावचनम् २१४१ नौ च १०३७ नमोनिलोपस्तिडि ७६८ पर्यायल्यैवेष्यते ८२६ त्र्युपाभ्यां चतुरो ९४९ नमोऽस्त्यर्थानां वा ८३० पर्यादयो ग्लानाद्यर्थे ७८० त्वतलोर्गुणवचनल्य ८३६ नम्नजीकक्ख्युस्त ४०० पर्धा णस् वक्तव्यः १२५१
नराच्चेति १९९९ पल्यराजभ्यां चेति ९४६ नवस्य नू आदेशः २०९३ पाणिगृहीती भार्या ५०८
न विद्यायाः १९९४ पाण्डोडर्यण ११०६ दिक्छब्देभ्यस्तीर १०३४ नश्च पुराणे प्रात् २०१३ पात्राद्यन्तस्य न २१ दिवश्च दासे ९७९ न समासे
पादशतग्रहणम् २०७३ दुरो दाशनाशदभ १०३४ नस्नासिकायाः १९६६ पालकान्तान . ५०४ दूरादेत्यः १३२९ नानर्थ केऽलोऽन्त्य ३४७ पाशकल्पककाम्ये १५२ दृशे चेति व १०१५,१०१८ नान्तस्य टिलोपे १४८८ पिजाछन्दसि डिच १२४२ सुन्करपुनःपूर्वस्य २८३,३०६ नित्यमानेडिते डा २१२८ पितुर्धातरि व्यत् १२४२ हशिग्रहणाद्भवदादि १९६३ निमित्तपर्यायप्रयोगे ६०८ | पिशङ्गादुपसंख्यानम् ४९६
थाल्
For Private and Personal Use Only
Page #1054
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७०
पूर्वाद्धंगत-वार्तिकसूची।
१०४५ पिशाचाच्च १९३९ । प्राविभ्यो धातुजस्य.२० मनुष्यलुपि १३०० पीतात्कन्
१२०३ / प्रादहोढोढयेषेष्येषु ३ | मस्त आत्त्वे पास ८०७ पुच्छाच्च ५११ प्रायस्य चित्तिचि १०७१ | महाजनाठञ् १६५१ पुण्यसुदिनाभ्यामह ८२१ फ
महानाम्न्यादिभ्यः १४५८ पुरुषाद्वधविकार १६०२ फलपाकशुषामुप ११४५ महिषाच्चेति १३०६ पुंवद्रावप्रतिषेधोऽप्र ८३२ फलबर्हाभ्यामिनच् १९२८ मातमातृकमातृषु १००६ पुष्पमूलेषु १५४९ फलसेनावनस्पति ९१६ मातरि षिच्च ४१९,१२४२ पुंसानुजो जनुषान्ध ९६०
फलनुन्यषाढाभ्यां १४०८ मातुर्दुलच् १२४२ पूरण इति वक्तव्यम् ९६३
मातृपितृभ्यां पितरि १२४२ पूरोरण्वक्तव्यः ११८६ बलादूलः १९२८ मामकनरकयोः ४६३ पूर्णमासादण्वक्तव्यः १२४१ बहिषष्टिलोणे यञ्च १०७७ मासश्छन्दसि . ३१७ पूर्वत्रासिद्धे न २३५, ४३४ | बहुपूर्वाच्चेति १६९९ मांसपृतनासानू २९५ पूर्वपूर्वतरयोः १९७० बहुव्रीहौ वा ४१६ मिथोऽनयोः समासे ८९८ पूर्वान्यान्यतर बहजि नुम्प्रतिषेधः ४४३ | मुहुसः प्रतिषेधः १५५ पृच्छतो सुस्नाता १५४९ बह्वल्पार्थान्मङ्गला २१०९ मूलाननः ४१४ पृथिव्या भानो १०७७ बाहूरुपूर्वपदाइलात् १९४१ पृथुमृदुभृशकश १४७ ब्रह्मवर्चसादुप १७०९ पृष्ठादुपसंख्यानम् १२५० ब्राह्मणाच्छसिन ९५९
| यज्ञविग्भ्यां १३६ प्रकृतिप्रत्ययार्थ १८४६
यणो मयो द्वे वाच्ये ५४ प्रकृत्या अके १२४७ । | भरहिसार्थस्य न ५४० यणः प्रतिषेधो ५४ प्रकृत्यादिभ्य उपसं १६१ | भद्राच्चेति वक्तव्यम्२१३८ । यतश्चाध्वकाल १९४ प्रतिपदविधाना ७०४ भयभीतभीतिमी ६९९
यवनाल्लिप्योम् १०९ प्रत्यये भाषायां १६६ भवने क्षेत्रे शाकट १८३०
यवलपरे यवला १२० प्रथमलिङ्गग्रहणं च ३६६ भवार्थे तु लुग्वाच्यः १०७७ प्रमाणपरिमाणा १८३० भस्याढे तद्धिते ८३६, ८४२
१०५९ प्रमाणे ला १८३० भागरूपनामभ्यो २०९३ यूनाच कुत्सायर्या १०९२ प्रयोजन सुब्लोप ११४६ भावप्रत्ययान्ता १५० प्रवत्सतरकम्बल भूमनिन्दाप्रशंसासु १८९४ रज्ज्वादिपर्युदासादु १२१ प्रहरणार्थेभ्यः परे ९०० भोराजन्यविशां ९४ रत्वात्पूर्वविप्रतिषेधेन ३०० प्राक्शताद्वक्तव्यम् ८०० भ्रातुायस ९०६ रप्रकरणे खमुखकु १९१४ प्राणिनि च ५०० प्राष्ट्राग्न्योरिन्थे १००० राज्ञो जातादेवेति ११५३ प्राण्यङ्गादेव १९०९
म
रूपप्पाशपो प्रादयो गतापर्थे ८० | मत्स्यस्य ड्यामू४९९,११८ | रूपरात्रिरथन्तर १२
यवाहोष युवादेनं
For Private and Personal Use Only
Page #1055
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४६
पूर्वागत-घातिकसूची।
| विष्णौ न ९२६ / ष लध्वक्षरं पूर्वम् १०५ | | विश्वगित्युत्तर १९०७ | षटवे षङ्गवच् १९३० लिङ्गबाधनं वा २१०० | विस्तारे पटच् १८३० षष उत्त्वं दतृदशधा ११ लोकस्य पृणे १००० वृक्षादौ विशेषाणामेव ९१६ | षषष्ठाजादिवचना २०३० लोपः पूर्वपदस्य २०६९ वृत्तेश्च १९०८ | पाद्यमश्वाब्वाच्यः ५२८ लोम्नोऽपत्येषु २६५,१०७० वृद्धस्य च पूजायां १०९२ ल्यब्लोपे कर्मण्यधि ५९४ | वृद्धाश्चेति वक्तव्यम् १२४७ सन्यापूर्वपदानां १६८३ | वृद्धवृधुषिभावो १९८०
| सन्याया मल्पीयस्याः ८९८ वटकेभ्य इनिर्वाच्यः १८८२ वृद्धयौत्त्वतृत्वद्भाव ३२०
सङ्ख्याया नदीगोदा ९४३ वत्वन्तात्स्वार्थे १८३८ वेनों वक्तव्यः ८५९ सहयायास्तत्पुरुषस्य ८५१ वनो न हश इति ४५६ वैर देवासुरादिभ्यः १५०५ सङ्घाते कटच् १८३० वयस्यचरम इति ४७८
व्यासवरुडनिषाद १०९० | संज्ञायां वा ५०० वयोवाचकस्यैव हा ४८६
संज्ञायां स्वार्थे १७२४ वर्णका तान्तवे १६४
संज्ञोपसर्जनीभूतास्तु २२२ वर्णानामानुपूष्येण ९०९ शकन्ध्वादिषु पररूपम् ७९ सम्पुकानां सो १३८ १३९ वर्तका शकुनौ प्राचाम्४६४ |
| शकलकर्दमाभ्याम् १२०३ | सम्बुद्धौ नपुंसकानां ३६८ वहेस्तुरणिट् च १५००
शतरुद्राद्ध च १३० सम्भस्त्राजिनशण ४६४ वा गोमयेषु १३९३
शब्दायतेन
५४० सम्भ्रमेण प्रवृत्तौ २१४७ वाग्दिक्पश्यच्यो ९९ शरः खयः ।। १३८ सदच्काण्डप्रान्त ४५४ वातपित्तश्लेष्मभ्यः १७०४ शसि बह्वल्पार्थस्य ८३६ समानवाक्ये निघात ४०७ वातात्समूहे
१९२८ | शाकपार्थिवादीनां ७३९ समानस्य १९७० वा नामधेयस्य १३३८ । शिखामालासं १९२३ समासप्रत्ययविधौ २६ वा प्रियस्य ८९८ शीतोष्गतृप्रेभ्य १९२८ | समाहारे चायमिष्यते ६७४ वायुशब्दप्रयोगे १२३ | शोले को मलोपश्च २०२८ समिधामाधाने १५०० या हतजग्धयोः ५६ | शुनो दन्तर्दशाकर्ण १०४१ सर्वजनाट्ठञ् १६७१ वा हितनाम्र हात ११५७ शदा चामहत्पूर्वा ४९४ | सर्वत्राग्नि १२३६ विद्यायोनिसम्बन्धेभ्य ९८१ | शृङ्गबृन्दाभ्यामारकन् १९२८ सर्वनामसवययोरुप ८९८ विद्यालक्षण १२७० | शेफपुच्छलाङ्गलेषु ९९ सर्वनाम्नो १८, २१४० विनापि प्रत्ययं २०३६ | शेषे विभाषा ६२४ सर्वाणो वेति १६७२ विभक्तौ लिङ्गविशिष्टा३०० | श्रविष्ठाषाढाभ्यां १४०८ | सदिका १९४१ विभाजयितुणि १५९९ / श्रेण्यादिषु च्व्यर्थवचनं०३८ सादा सा० १२४०, १७८९ विभाषाप्रकरणे २२६ / श्रोत्रियस्य यलोपश्च १७९९ / सर्वोभयार्थी १९५६ विशसितुरिड्लोप १९९९ । श्वशुरख्योंकाराकार० १२३ [ सविशेषणस्य प्रतिषेधः८१८
20
For Private and Personal Use Only
Page #1056
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वाद्धंगत-परिभाषासूची।
१०४७ सहायावा १९. स्तोमे रविधिः १२४ | स्वादोरेरिणोः ३ सहितसहाभ्यां चेति १२६ स्त्रियां न ९४ स्वार्थ उपसंख्यानम् १९६४ साध्वसाधुप्रयोगे च ६३३ | स्त्रियाम् ४८४
ह.. सामान्ये नपुंसकम् ८२१ स्त्रियामपत्ये ११३४ | हयगवयमुकयमनुष्य ११८ सिति च
९१ स्त्रीनपुंसकयोरुत्तर २१४७ | हरिद्रामहार १२०३ सीमन्तः केशवेशे ७९ स्त्रीप्रत्यययोरकाका ६२४ रीतक्यादिषु १३०० सुसर्वार्धदिक्छन्देभ्यो१३९८ स्थाम्नोऽकार: १०० हितयोगे १८० सूतकापुत्रिका ४६४ स्थेणोलुंगीति वक्त १०० हिमाञ्चेलुः १९९८ सूत्रान्तात्त्वकल्पा १२.० स्नेहे तैलच् १८३० | हिमारण्ययोमहत्त्वे ५०६ सूर्यागस्त्ययोछे ४९९ | स्वस्तिभ्यामेव ९५४ दयाचालुरन्यत १९२८ सूयहिवतायां चा ५०४ स्वरूपस्य १५८५ हृदूग्भ्यां च ९६.
पूर्वाद्धंगत-परिभाषासूची। परिभाषा परिभाषा
| परिभाषा अकृतव्यूहाः ४०,४१०,४३५ गतिकारकोपपदानां ७८२ | प्रातिपदिकमहणे १८२ अङ्गकायें कृते ३८८ ताच्छीलिके णेऽपि ४० यत्रानेकविधमान्तय ३९ अनन्तरस्य विधिर्वा ३१९ मानर्थकेऽलोन्त्य ३४७ लक्षणप्रतिपदोक्त ८०७ अनिनस्मन्प्रत ३४९.८९० / नानुबन्धकृतमनेका २१४ लाश्रयमनुबन्धकार्य ४५० अन्त्यबाधेऽन्त्यसदे ४१९ निर्दिषयमानस्या २२० संज्ञाविधौ प्रत्ययग्र २१० अर्थवग्रहणे नानर्थ ३ पदाङ्गाधिकारे २३७ संज्ञापूर्वको विधिर ८१७ प्रसिद्धं बहिरङ्गमन्त ४६ परनित्यान्तरका ४६ ! सन्निपातलक्षणो १०१ उत्तरपदाधिकारे त ९८८ पुरस्तादपवादा १९१ | सन्नियोगशिष्टानाम् १३११ उपपदविभक्तेः का। १८३ | प्रकृतिवदनुकरणम् २८३ स्त्रीप्रत्यये चानुपस-१००४ कृदूपहणे गतिकार ६९४ प्रत्ययग्रहणे त २१७,४१६ |
प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस ।
For Private and Personal Use Only
Page #1057
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४४ पारपत्रम्। १ कवचझवाना माधयमानुक्ता प्र क्रिया उद्यतः, सारण, धनुष्कपालम् , एषाम. थप्रदर्शनपूर्वकं सन्धिकार्याणि लेख्यानि ।
२ 'न बहुव्रीहो' इति सूत्रे 'इह समासात्मागेव सर्वनामसंथा निषिध्यते' इति फकिको सम्क्षेपेण व्याख्याप यूष्णि, लून्युः, नः, प्रियतिसा, निटत्सु, पुनर्भणाम् , प्रधुना, एषां मध्ये पनासु प्रयोगेषु ससत्रं प्रधानकाय दर्शयत।
३ स्वरादिगणान्तर्गतानि कान्यपि पश्च पदानि सार्थानि निर्दिश्य घृतस्पृक्, अद्भिः, स्वाम्पि, विसपः, अग्ने तव, एतेषु कार्यविशेष लिखत । ___४'अन्यारादितरतेदिकशब्दाचूत्तरपदाजाहियुक्ते' इति सूत्रगतान् पञ्चमीनिमित्तभूतान् शब्दान् पृषग निर्दिश्य इस्वरी, द्विकाण्डी, अनड्वाही, तुङ्गनासिको, नारी एषामर्थान् प्रदय काय॑विशेष भूत।
५ देवदत्त शतं मुष्णाति, महाऽनुवाकोऽधीतः, शताय परिक्रीतः, धूमादमिमान् , शतस्य पणनम् , एषु द्वितीयादिविधायकवचनानि प्रदय 'यस्य च भावेन भावलक्षणम्', 'सप्तमपञ्चम्यौ कारकमध्ये' मनयोः सूत्रयोरथं लिखित्वा च कस्मिन्नध्याये एते सूत्रे पठिते इति बोधनीयम् ।
६ भो प्रायुष्मानेषि देवदत्त ३, द्वितये, दृन्म्बो, उद्ना, देवद्या, गाायणी, बैदी, अपि स्तुयाद्विष्णुम् , होत्रेऽनुगृणाति, गोषु प्रसूतः, एषु विशेष कार्य सप्रमाणं दर्शनीयम् । सूचनापषु पन्चैव प्रश्नाः समाधेयाः।
१९४० २ वर्षे १ पत्रम् ।। १ जपमनु प्रावर्षत् , क्रूरममि अभ्यति, ग्रामस्य दूरात् . अधोती व्याकरणे, एषूदाहरणेषु विभक्तीस्तदर्थनिर्देशपुरःसरं संसाध्य रुच्यभिलाषयोर्धात्वर्थयोर्मेंदो दीक्षितोक्तरीत्या सम्यगुप. पादनीयः।
२ अधोलिखितोदाहरणानां समासविग्रहविशेषकार्याणि प्रदर्य सिद्धिः प्रदर्शनीया । उन्मत्तगङ्गम् , आचारनिपुणः, उद्धरोत्सजा, रसिकामायः, विश्वदेवः, मित्रावरुणो ।
अथवा - अनुगङ्गम् , दध्योदनः, अपचसि, मध्यममार्यः, दयन्यः, अमीषोमो ।' ३ निम्नलिखितप्रयोगाः साधु साधनीयाः-सराक्षसीजा, हरिकामिणौ, वाकवचम्, अन्धतमसम् ।
अथवा भोरुष्ठानम् , दूर्वावणम् , वरसा इमे, प्राध्वः । ४ एको गोत्रे इति सूत्रस्य प्रयोजनं निरुपणीयम् ।
५ उडुलोमाः, दिः, लमकाः, यवनः, राधानुराधीया, केदारिक, त्रैशङ्कवम् , महिमान् , एषु पञ्च प्रयोगाः सविग्रहं साधनीयाः।
For Private and Personal Use Only
Page #1058
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #1059
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #1060
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir &*Bonus tvo: DYSI For Private and Personal Use Only