________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
संज्ञाप्रकरणम्
१ अइउण् । २ ऋलृक् । ३ एओ । ४ ऐच् । ५. हयवरट् । ६ लणू । ७ ञमङणनम् । ८ भञ् । ६ घढधषू । १० जबगडदशू । ११ खफळठथचटतव् । १२ कपयू । १३ शषसर् । १४ हलू ॥
इति ( १ ) माहेश्वराणि सूत्राण्यणादिसञ्ज्ञार्थानि । एषामन्त्या इतः ।
|
उक्तीस्तिरकृत्येत्यर्थम् इति व्याख्यानं क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं प्राचीनप्रक्रिया कौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम् । तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसज्ञया वैयाकरणसिद्धान्ताः प्रतिपाद्यत्वेन विषयाः । अनायासेन तदवगमः प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावः सम्बन्धः । वैयाकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तान्निरूपयिष्यन् व्याकरणशास्त्रस्य मूलभूतानि चतुर्दशसूत्राणि पठति - उणित्यादिना । नन्विमानि सूत्राणि मुनित्रयग्रन्थबहिभूतत्वादप्रमाणमित्यत आह-इति माहेश्वराणि सूत्राणीति । महेश्वरादागतानि माहेवराणि । "तत आगतः" इत्यण् । महेश्वरादधिगतानीति यावत् । तदुक्तं पाणिनिशिष्यप्रणीत शिक्षायाम्
,
'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । एतच्चतुर्दशसूत्रव्याख्यायां नन्दिकेश्वरकृतायां काशिकायामप्युक्तम्'वृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमशें शिवसूत्रजालम् ॥' इति
अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः । ढक्कां नादयामासेत्यर्थः । नवपञ्चवारं चतुर्दशकृत्वः । एतच्छिवढक्कोत्थितं वर्णजालं शिवसूत्रजालतया विमर्शे जानामीत्यर्थः । आर्षस्तङ् । एवं च महेश्वरेण प्रोक्तानि माहेश्वराणीति निरस्तम् । एतेन माहेश्वरत्वादेतेषां सूत्राणां नाप्रामाण्यमित्युक्तं भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाभावादिह तदुप -- न्यासो व्यर्थ इत्यत आह- प्रणादिसन्ज्ञार्थानीति । अण् आदिः यासां ताः अणादयः,
1
( १ ) माहेश्वराणीति । महेश्वरेण उपज्ञाता माहेश्वरा अनुबन्धाः, ते सन्ति येषु तानि माहेवराणि । महेश्वरोपज्ञातानुबन्धयुतानि सूत्राणीति सूत्रेष्वनुबन्धयोगो महेश्वरकृतः । सूत्राणि तु. वेदवदनादिसिद्धानीति तात्पर्यार्थः ।
For Private and Personal Use Only