________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सञ्ज्ञा
दिनकर किरण संपर्कजनितं संतापमपगमयति । एवमियमपि ग्रन्थरूपवाक्यावलिः अज्ञानात्मकं तमो निरस्यति । मुनित्रयग्रन्थभावाननायासं प्रकाशयति । अतिविस्तृतदुखभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसन्तापं च शमयतीति अत्यन्तसादृश्यायुज्यते चन्द्रिकातादात्म्याध्यवसायः । विरच्यते – क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेशः । किं कृत्वेत्यत आह-मुनित्रयं नमस्कृत्येति । त्रयः अवयवा अस्यासमुदायस्य त्रयं त्र्यवयवकसमुदायः । “सङ्ख्याया अवयवे तयप्” इति तयप् तद्धितः । “द्वित्रिभ्यां तयस्यायज्वा " इति तयस्यायजादेशः । मुनीनां त्रयमिति षष्ठीसमासः । त्रयाणां मुनीनां समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वात् असामर्थ्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयम् इति प्रथमं व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति तस्य प्रत्ययार्थतया प्रधानत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूत त्रिशब्देनाभेदान्वयः, 'पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन ' इति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्समयायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां सन्निहितपदान्तरोपस्थितत्वान्मुनय एव परिच्छेद्यतया सम्बध्यन्ते --त्रयाणां मुनीनां समुदाय इति । सोऽयं पाष्टिकान्वयः अरुणाधिकरण (पू.मी. ३-१-४) न्यायविदां सुगम इत्यलं विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । " नमःस्वस्ति" इति चतुर्थी तु न, कारकविभतेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य - अञ्जलिशिरः संयोगादिव्यापारेण तोषयित्वेत्यर्थः । नमस्करोतेरञ्जलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वे अकर्मकत्वापत्त्या द्वितीयानुपपत्तेः । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां संग्रहात्तैरेव ग्रन्थैः चरितार्थत्वात् किमनेन ग्रन्थेनेत्यत आह-तदुक्तीः परिभाग्य चेति । तस्य मुनित्रयस्य उक्तयः तदुक्तयः सूत्रवार्तिकभाष्यात्मक ग्रन्थरूपवाक्यावलयः ताः परिभाव्य च सम्यगालोच्य चेत्यर्थः । भूधातोः स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि 'भुवोऽवकल्कने' इत्यत्र ण्यन्तभूधातोश्चिन्तनार्थकत्वमपि वक्ष्यते मूलकृतव । न च 'अनादरः परिभवः परीभावस्तिरक्रिया' इति कोशविरोधः शङ्खयः, कोशस्य अण्यन्तभूधातुविषयत्वात् 'परौ भुवोऽवज्ञाने' इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वक भूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात् । एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां ( १ ) प्रक्रिया कौमुदी प्रसादादिकृतां
( १ ) प्रक्रियाकौमुदीनाम ग्रन्थो रामचन्द्रसूरिकृतः । विट्ठलसूरिणा तदुपरि प्रसादनाम्नी टीका कृता ।
For Private and Personal Use Only