SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ सज्ञा me लणसूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थः ।। १ । हलन्त्यम् । १।३।३। 'हल्' (म. सू. १४) इति सूत्रेऽन्त्य अणादयश्च ताः सज्ञाश्च अणादिसज्ञाः, ताः अर्थः प्रयोजनं येषां तानि अणादिसज्ञा नि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणांव्याकरणशास्त्रगतव्यवहारोपयोग्यणादिसज्ञासु उपयोगान्नानर्थक्यमिति भावः। कथमेषां सूत्राणामणादिसज्ञार्थत्वमित्यत आह-एषामन्त्या इत इति । एषामुदाहृतसूत्राणां अन्त्याः अन्ते भवाः णकारादिवर्णाः इत्सज्ञकाः प्रत्येतव्या इत्यर्थः ॥ लणसूत्रे अकारश्चेति । इत इत्यनुषज्यते। तच्च एकवचनान्ततया विपरिणम्यते । लणसूत्रेलकारात्परः अकारश्च इत्सज्ञक: प्रत्ये. तव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा। ननु लणसूत्र एव अकारस्य इत्सज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह-हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थे पुनः पुनरकारपाठ इत्यर्थः। अन्यथा ह्यवर इत्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाभावात् पुनः पुनरकारपाठो हकाराद्युचारणार्थ इत्येव व्याख्येयम् । अत एव "उच्चैरुदात्तः" इति सूत्रे भाष्यम्-'नान्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च "वर्णात्कारः" इति कारप्रत्यये सति ककार इत्यादि (सिध्यति) । वाक् इत्याचवसानेषु वृक्ष इत्यादौ संयुक्तवर्णेषु च, पदान्ते "चोः कुः" इत्यादिविधिबलात् "हलोऽनन्तराःसंयोगः" इत्यादिशास्त्रबलाच्च, नायं नियम ( इत्यपि बोध्यम् ) इत्यलम् । ___ ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानाम् इत्सज्ञा प्रतिज्ञाता-एषामन्त्या इत इति । तदनुपपन्नम् । तेषां हि "हलन्त्यम्" इति सूत्रेण इत्सञ्ज्ञा वक्तव्या। तच्च सूत्रं हलपदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्सज्ञा च हलिति सूत्रे लकारस्य इत्सम्झायां सत्याम् "आदिरन्त्येन सहेता" इति सूत्रेण वाच्या। हलिति सूत्रे लकारस्य इत्सज्ञा च"हलन्त्यम्" इति सूत्रेण वाच्या । एवं च हलिति सूत्रे लकारस्य इत्सज्ञायां सत्याम् 'आदिरन्त्येन' इति हल्सज्ञासिद्धौ ‘हलन्त्यम्' इति सूत्रप्रवृत्तिः, 'हलन्त्यम्' इति सूत्रेण हलसूत्रे लकारस्य इत्सज्ञायाम् 'आदिरन्त्येन सहेता' इति हल्सज्ञासिद्धिः इत्येवं 'हलन्त्यम् , 'आदिरन्त्येन' इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित् सूत्रेण इत्सज्ञामबोधयित्वा 'हलन्त्यम्' इति हलामित्सञ्जाबोधनं पाणिनेरयुक्तमित्याशङ्कय हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्सज्ज्ञां विधातुं 'हलन्त्यम्' इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति-हलन्त्यम् । एकपदं सूत्रम् । हलि अन्त्य हलन्त्यमिति वि For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy