________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
मित्स्यात् ।
२। आदिरन्त्येन सहेता। १।१।७१ अन्त्येनेता सहित आदिमध्यगानां स्वग्रहः। शौण्डादेराकृतिगणत्वात् “सप्तमी शौण्डैः" इति सप्तमीसमासः। सुप्सुपेति समासो वा । हल्पदमिह सूत्रपरम् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रात् इदित्यनुवर्तते । तदाह-हलिति सूत्र इत्यादिना । इत्स्यादिति । इत्संज्ञकः स्यादित्यर्थः, सज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्सज्ञामनुपजीव्यव इत्सज्ञा सिद्धति नान्योन्याश्रय इति भावः ।।
नन्वस्तु हल्सूत्रे लकारस्य इत्सज्ञा । ततः किमित्यत आह-आदिरन्त्येन सहेता। अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण अच् इत्यादिरूपः सज्ञेत्यर्थः, सज्ञाप्रस्तावात्। तत्र 'यस्मात्पूर्व नास्ति परमस्ति स आदिः । यस्मात्पर नास्ति पूर्वमस्ति सोऽन्तः । इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यांमध्यगा आक्षिप्यन्ते । अतस्तेषां सम्शेति लभ्यते । “स्वंरूपम्" इति पूर्वसूत्रात्स्व. मित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह-अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन सज्ञाकोटिप्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया “सहयुक्त प्रधाने” इति विहितया तस्य अप्राधान्यावगमात् , सर्वनाम्नां चोत्सर्गतः प्रधानपरामशित्वात् । न च इक् उक् इच् यय् मय इत्यादिप्रत्याहाराः कथं स्युः इकारादीनामादित्वाभावादिति वाच्यम्, न हि सर्वापेक्षमिहा. दित्वम् । किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च अइउणिति इकारमारभ्यः ऋलक् इति ककारपर्यन्तं वर्णसमुदायं बुद्धया परिकल्प्य तदादित्वम् इकारस्य सम्भा. वनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्वमपि बुद्धिकल्पितसमुदायापेक्षमेव । न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लसूत्रे अकारस्यान्त्यत्वाभावात् स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराभावे मध्यगानामिति न लभ्येत । आदि. रित्यभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णः अन्त्यात्प्राग्भाविनां वर्णानां सम्ञत्येक लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात् , अन्त्यलकारात्पूर्वभा. वित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहोच्चार्यमाण आदेः ऊर्ध्वभाविनां वर्णानां सज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेर. कारादूर्ध्वभावित्वाविशेषात् । उभयोपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परिस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः । पूर्वस्मिन् सति यस्मात्परों नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दो सम्भवतः, उक्तनिर्वचनाविरोधात् । यापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण
For Private and Personal Use Only