SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પૃષ્ઠ सिद्धान्तकौमुदी [ तत्पुरुषसमास २|२|१|| अवयविना सह पूर्वादयः समस्यन्ते, एकत्व सङ्ख्याविशिष्टश्चे दवयवी । षष्ठीसमास्रापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽहा समस्यते । ‘संख्याविद्याय ' - ( सू २३८ ) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । 1 विवाच सुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते स तत्पुरुष इत्यर्थः । फलितमाह – श्रवयविना सहेत्यादिना । ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव पूर्वकाय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य । कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह- षष्ठीसमासापवाद इति । पूर्व कायस्येति विग्रहे 'षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्वं कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायं नपुंसकत्वम् । 'तस्य परमात्रिडितम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समास - विधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । परवल्लिङ्गम्' इति पुंस्त्वमिति भावः । 'यत्र' उत्सर्गापवादो महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ' इति 'पारे मध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासोभावे षष्ठीसमासो न भवति । अपरवाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्वं नाभे: कायस्येति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमधं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वाशेऽऽन्वयः । अत्र पूर्वस्यांशस्य नाभिखधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्व शब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूतावयवकतया बहुत्वादेकत्वसङ्ख्या वैशिष्टयाभावान्न समास इति भावः । 1 • ननु अहो मध्यं मध्याह्नमित्यत्र कथमेकदेशिसमासः । मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह- सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । 'तत्पुरुषस्य' इति 'अहस्सर्वकदेशसङ्ख्या तपुण्याच्च' इति च प्रकृते, 'महोऽह एते. भ्यः' इत्येकदेशवाचकात् परस्य अहन् शब्दस्य अह्नादेशो विधीयते । ततश्चान्हः साथ इति विग्रहे अवयविवृत्तिना, अहन्शब्देन षष्ठ्यन्तेन अवयववृत्तिसायशब्दस्य तत्पु. रुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायश ब्दात् परस्य अहन्शब्दस्य अह्नादेशे 'रात्राद्वाहाः पुंसि' इति पुंस्त्वे सायाह्न इति For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy