________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
कलहः' इति । शेषषष्ठया स्रमास इति कैयटः । ( ७१०) कर्तरि च २|२|१६|| कर्तरि षष्ठया अकेन न समासः । भवतः शयिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया अभावात् । ( ७११) नित्यं क्रीडाजीविकयोः २|२|१७॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । ' संज्ञायाम् ' ( सू ३२८६ ) इति भावे ण्वुल् । जीविकायाँ दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकाय 'तृजकाभ्यां कर्तरि ' ( सू ७०९ ) इति निषेधे प्राप्ते वचनम् । ( ७१२) पूर्वापराधरोत्तर मेकदेशिनैकाधिकरणे
५१३
शेषषष्ट्येति । प्रत्यासत्त्या कारकषष्ठया एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः । कर्तरि च । कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति । तदाह - कर्तरि षष्ठ्या इति । अकेनेति । 'तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति । 'स्त्रियां क्तिन्' इत्यधिकारे धात्वर्थनिर्देशे ण्वुलू, अकादेशः, टाप् । 'कर्तृकर्मणोः' इति कर्तरि षष्टी । अत्र अकस्य कर्त्रर्थकत्वाभावात् 'तृजकाभ्याम्' इत्यस्य न ' प्राप्तिः । ननु पूर्व सूत्रे 'तृकाभ्याम्' इति समस्तपदोपादानात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत आह— नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ट्या एवाप्रसक्क्या तत्समासनिषेधस्य शशशृङ्गेण कण्डूयनं न कर्तव्यमितिवदसम्भवपराहतत्वादित्यर्थः ।
1
नित्यं कीerजीविकयोः । उद्दालकपुष्पभञ्जिकेति । उद्दालकः श्लेष्मातकः तस्य पुष्पातेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियांति' इत्यधिकारे 'संज्ञायाम्' इति भावे वुलित्यर्थः । अत्र कर्मणि षष्ठ्याः समासः । वस्तुतस्तु 'स्त्रियां तिनू' इत्यधिकारे 'धात्वर्थनिर्देशे ण्वुल्' इति भावे ण्वलित्येव युक्तम् । 'संज्ञायाम्' इति तु अधिकरणार्थमिति दन्ते वक्ष्यते । तथा सति उद्दालकपुष्पाणि भज्यन्ते aari क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति । दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः । लिखेः कर्तरि ण्वुल् । अकादेशः । जीविका समागम्या | ननु ' षष्ठी' इति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह-तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधके उद्दालकपुष्पभञ्जि. here विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते, जीविका बोध के तु दन्तलेखक इत्यत्र 'तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः ।
पूर्वापर | 'पूर्वापराधरोत्तरम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दः अवयवे रूढः । एकदेशः अस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम् । एकमधिकरणम् एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेन अव
बा० ३३
For Private and Personal Use Only