________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१२
सिद्धान्तकौमुदी
२|२| १३॥ केन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा । ( ७०८ ) कर्मणि च २|२| १४ || ' उभयप्राप्तौ कर्मणि' ( सू ६२४ ) इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन । ( ७० ) तुजकाभ्यां कर्तरि २२|१५|| कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कतरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थ भर्तृशब्दस्य तु याजकादित्वात्समासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवन विधातुश्व
[ तत्पुरुषसमास
क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति । 'क्तोऽधिकरणे च धौव्यगतिप्रत्यवसा नार्थेभ्यः' इत्यधिकरणे क्तः । 'अधिकरणवाचिनश्च' इति षष्ठी । कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां स्रष्टेत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि' इति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह – उभयेत्यादिना आश्चर्यं इति । यद्यप्यत्र 'कर्तृकर्मणोः कृति' इत्येव कर्मणि षष्ठी, न तु 'उभयप्राप्तौ कर्मणि' इति सूत्रेण, तस्य सूत्रस्य कमण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः । शब्दानुशासनमित्यत्र तु वस्तुतः आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेर्नायं निषेधः, 'कृत्वोऽर्थप्रयोगे' इत्यतः प्रयोगे इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षे 'कर्तृकर्मणोः कृति' इत्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् ।
1
तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । नतु षष्ठ्याः । तदाहकर्त्रर्थतृजकाभ्यामिति । अपां स्रष्टा, वज्रस्य भर्तेति । 'ण्वुल्तृचौ' इति कर्तरि तृच् । 'कर्तृकर्मणोः, इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः I इक्षुभक्षिकेति । ‘स्त्रियां क्तिन्' इत्यधिकारे धात्वर्थेनिर्देशे ण्वुल् । कर्मणि षष्ठ्याः समासः । 'कर्मणि च' इति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्यत्रापि निषेधः स्यात् । नच भर्तृशब्दस्य याजकादौ पाठात् भवत्येव षष्ठीसमासः । 'याजकादिभिश्व' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं तर्हि वज्रस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह- पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्च वज्रस्य भर्तेत्यत्र 'याजकादिभिश्व' इति समासो नेति भावः । कथं तहीति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं, 'तद्धितार्थं' इति द्विगुः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, पात्राद्यन्तस्य नेत्युक्तेः । त्रिभुचनस्य विधातेति तृचा योगे कथं कर्मणि षष्ठ्याः समास इत्याक्षेपः । परिहरति
For Private and Personal Use Only