________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३%
सिद्धान्तकौमुदी
[चातुरर्थिक
छन्दोब्राह्मणानि च तद्विषयाणि ४।२।६६॥ छन्दांसि ब्राह्मणानि च प्रोक्त. प्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः। तस्य 'कठचरकात्(स १४८७ ) इति लुक् । ततोऽण् । तस्य 'प्रोकालुक्' ( सू १२७४ )।
-
__ अथ चातुरर्थिकाः। (१२७४) तदस्मिन्नस्तीति देशे तन्नाम्नि ४।२।६७ ॥ उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः। (१२८०) तेन निवृत्तम् ४।२।६८ ॥ कुशा. म्बेन निर्वृत्ता कौशाम्बी नगरी। (१२८१) तस्य निवासः ४ । २।६६ ॥
छन्दोब्राह्मणानि । छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषां द्वन्द्वः । वेद इति यावत्, मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात्। 'प्रोक्ताल्लुक्' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह-छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतवेदितृप्रत्यया विव. क्षिताः । तैविषयः भविनाभावः येषां तानि तद्विषयाणि । 'षिञ् बन्धने विशिष्य स यो बन्धः विषयः, अविनाभाव इति यावत् । अध्येतवेदितृप्रत्ययसंयुक्तान्येव स्यु. रित्यर्थः । फलितमाह-अध्येतवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवत् अध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्तमधीयते इत्यर्थे कठा इत्युदाहरणमिति भावः । तदुपपादयति-वैशम्पायनेति । कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यणपवादः वैशम्पायनान्तेवासिभ्यश्च' इति णिनिरित्यर्थः । तस्येति । णिनेः 'कठचरकाल्लुक इत्यनेन लुगित्यर्थः । एवञ्च कठेन प्रोक्तो वेदभागः कठ इति स्थि. तम् । ततोऽणिति । तस्मात् लुप्तप्रोक्तप्रत्ययकात् कठशब्दात् तदधीते इति अणित्यर्थः। तस्य प्रोक्ताल्लुगिति। तस्याध्येत्रणः 'प्रोक्ताल्लुक' इति लुगित्यर्थः । तथाच कठेन प्राक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तपत्ययान्तस्येति भावः। ___ अथ चातुर्राथकान् प्रत्ययान वस्तुमुपक्रमते । तदस्मिन्नस्तीति । तदस्मिन्नस्तीत्यर्थ प्रथमोच्चारितात्प्रन्थमान्तादणादयः स्युः । प्रत्ययान्तेन प्रकृतिनामके देशे गम्ये इत्यर्थः । प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोऽपवादः । तेन निवृत्तम् । देशे तन्नाम्नीत्यनुव. तते । तेन निवृत्तमित्यर्थ तृतीयान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः। तस्य निवासः । तन्नाम्नि देशे इत्येव । तस्य निवासः इत्यर्थे षष्ट्यन्तादणादयः स्युः तन्ना
For Private and Personal Use Only