________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता |
दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिका' । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति
1
४३५
वृत्ति च यत् तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोः भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति-- दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति- पुण्येन दृष्टो हरिरिति । यागादिना स्वर्गादिफले जनमीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हतुत्वे तु पुण्येन ब्रह्मवर्चसमित्या
दाहार्यम् । ननु अध्ययनेन वसतीत्यत्र कथं तृतीया । अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाभावात् प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह-फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वालं प्रति हेतुरपि भवति । इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुथ्यैव भवति - अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैथटे स्पष्टम् ।
ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात् करणत्वहेतुत्वयारे सम्भवात् कथं तृतीयेत्यत आह— गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किंतु गम्यमानापीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह
अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रति इदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । इत्यमरः साध्यमित्यध्याहारलभ्यम् । तदाह- श्रमेण साध्यं नास्तीत्यर्थं इति । सद्यः खेदाधायकत्वात् साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाभावात् कथं श्रमस्य तत्र करणत्वमित्यत आह- इहेति । साध्यमित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाभेद इति निरस्तम्, श्रमशब्देन व्रीह्याद्युत्पत्स्यनुकूलकर्षणादिव्यापारस्य साधनक्रियां प्रतीत्यनेन बीह्याद्युत्पत्तेश्च विवक्षितत्वात् । 'गम्यमानापि क्रिया विभक्तौ प्रयोजिका' इत्यत्र उदाहरणान्तरमाह - शतेनैति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान् पाययतीति प्रतीयमानार्थः । तन वत्सनिष्टशतसङ्ख्यायाः पायने करणत्वाभावात् परिच्छिद्येति गम्यते । एकैकशतसख्यया वत्सान् परिच्छिद्य तदधिकवत्सेभ्यो व्यावर्त्य पाययतीत्यर्थः । तथाच
For Private and Personal Use Only