SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . सिद्धान्तकौमुदी [कारक - पयः । शतेन परिच्छियेत्यर्थः । 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' (वा ५०४०)। दास्या संयच्छते कामुकः । धर्ये तु भार्याय संयच्छति । ... (५६९) कर्मणा यमभिप्रेति स सम्प्रदानम् १।४।३२॥ दानस्य कमणा यमभिप्रेति स सम्प्रदानसज्ञः स्यात् । (५७०) चतुर्थी सम्प्रदाने २।३।१३॥ विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः । 'क्रियया यमभिति सोऽपि सम्प्रदानम्' (वा १०८५)। पत्ये शेते। यजेः 'कर्मणः करणसम्ज्ञा शतसङ्ख्ययाः परिच्छेदं प्रति करणत्वमिति भावः । अशिष्टेति । इदच दाणश्च सा चेच्चतुर्थ्यथ' इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेताः अशिष्टाः, तेषां व्यवहारः आचारः, तस्मिन् विषये दाग्धातोः प्रयोगे सति चतुर्थ्यथं सम्प्रदाने तृतीया वाच्येत्यर्थः । दास्या संयच्छते कामुक इति । दास्यै कामुकः प्रयच्छतीत्यर्थः । कामुक इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिः धर्मशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः। अशिष्टपदप्रयोजनमाह-धर्मे बिति । धर्मादनपेत इत्यर्थः । न तृतीयेति शेषः । 'धर्मपथ्यर्थन्यायादनपेते' इति यदिति रत्नाकरः । धर्म स्विति पाठस्तु सुगम एव । इति तृतीया विभक्तिः । अथ चतुर्थी विभक्तिः । कर्मणा यमभि । कर्मसंज्ञकेन गवादिद्रव्येण यमभिप्रैति शेषि. त्वेनाध्यवस्यति स सम्प्रदानमित्यर्थः । शेषित्वं भोक्तृत्वम् । सम्प्रदीयते यस्मै तत् सम्प्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेस्थाकाङ्क्षायां दानस्येति गम्यते । तदाह-दानस्येत्यादिना। देयद्रव्योद्देश्यं सम्प्रदानमिति फलितम्। दानस्येति किम् । पयो नयति देवदत्तस्य । अत्र देवदत्तस्य । पयोनयनोद्देश्यत्वेऽपि न सम्प्रदा. नत्वम् , पयसो दानकर्मत्वाभावात् । चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां द. दातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोहेश्य इत्यर्थः । 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणात् सम्प्रदाने अनीयर् । तेन कृता सम्प्रदानस्य विप्रस्याभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव सम्प्रदानत्वे पत्ये शेते इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं सम्प्रदानत्वमित्याशङ्कायां 'क्रियाग्रहणमपि कर्तव्यम्' इति वार्तिकं प्रवृत्तम् । तदेतदर्थतः सङ्ग्रहातिक्रियया यमिति । क्रियोदेश्यमपि सम्प्रदानमिति यावत् । पत्ये शेते इति । पतिमुरिश्य शेते इत्यर्थः । नन्वेवमपि ओदनं पचतीत्यादावपि सम्प्रदानत्वप्रसङ्गः । न च कर्मसं. ज्ञाविधिवैयर्थ्य शङ्कयम् , अत एव तत्र कर्मत्वसम्प्रदानत्वयोविकल्पोपपत्तेरिति चेत्, न-पत्ये शेते इत्यकर्मकस्थले सावकाशायाः सम्प्रदानसंज्ञायाः सकर्मकस्थले कर्मसं. ज्ञया बाधात् । तथाच अकर्मकक्रियोद्देश्यमपि सम्प्रदानमिति फलतीति भावः। कर्मणः For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy