________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
यव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं, पणनं वा । समर्थयोः किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः । ( ६१९ ) दिवस्त - दर्थस्य २|३|५८ ॥ यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् । ब्राह्मणं दीव्यति । स्तोतीत्यर्थः । ( ६२० ) विभाषोपसर्गे २|३|५8॥ पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीम्यति । (६२१) प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने २|३|६१ ॥ देवतासम्प्रदानकेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविषो वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छाग
४६१
हार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह-बूते इति । द्यूते अक्षैः क्रीडने क्रमवि क्रयविषयकमूल्यसंवादे चानयोः व्यवहृपणोः एकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वे अकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसम्बन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयक मूल्यसंवादेन ग्रहणं वेत्यर्थः । समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह - गणनेत्यर्थ इति । वस्तुतः कर्मीभूतशलाकासम्बन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राह्मणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवहारार्थ इत्याह- स्तुतिरित्यर्थं इति । वस्तुतः कर्मीभूतब्राह्मणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।
1
"
दिवस्तदर्थस्य । पूर्वसूत्रे निर्दिष्टव्यवहृपणौ तच्छब्देन परामृश्येते । तयोः व्यवहपणोः अर्थ एवार्थो यस्येति विग्रहः । तदाह- द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणं अर्थो यस्य वि इति विग्रहः । क्रयेति । क्रयविक्रयविषयक मूल्य संवादोऽर्थः यस्य दिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम् नतु कृदन्तयोगे समास निवृत्त्यर्थम् । तत् ध्वनयन्नुदाहरति- शतस्य दीव्यतीति । शतमक्षक्रीडनेन क्रयविक्रयविषयक मूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एव 'द्वितीया ब्राह्मणे' इत्युत्तरसूत्रे ' ग्रामस्य तदहः सभायां दीव्येयुः' इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थमित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः । विभाषोपसर्गे इति । उपसर्गे सति व्यवहृपणार्थस्य दिवः कर्मणि षष्ठी वा स्यादित्यर्थः ।
प्रेष्यवः । देवतासम्प्रदानके इति । देवता सम्प्रदानं यस्य तस्मिन्नित्यर्थः । प्रेष्य
।
For Private and Personal Use Only