SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी स्वम्सुप्सु नव षड् भादौ षट् के स्थुस्त्रीणि अशाः । चत्वारिशेषे दशके रूपाणीति विभावय ॥ [ हलन्तनपुंसकलिङ्ग आदिना किन् । तथाहि । गामवतीति विग्रहे 'ऋत्विग्' ( सू ३७३) गतौ नलोपः । ' अव स्फोटायनस्य' ( सू ८८ ) इत्यवस् । गवाक् - गवाग् । 'सर्वत्र विभाषा -' ( सू ८७ ) इति प्रकृतिभावे, गोअक् - गोअग् । पूर्वरूपे, गोSक-गोऽग् । पूजायां, नस्य कुत्वेन ङः । गवाङ् गोअङ्- गोऽङ् । अभ्यप्येता भ्यामिति यावत् । असन्धीति प्रकृतिभावो विवक्षितः । असभ्यवङ्पूर्वरूपैरित्यनन्तरं शब्दोऽध्याहर्तव्यः । शतमित्यनन्तरमितिशब्दश्च । तथा च गत्यर्थपूजार्थभेदनिबन्धननलोपतदभावाभ्याम् असन्ध्यवङ्पूर्वरूपैश्च गवाक्छन्दस्य रूपाणि नवाधिकशतमिति मतं सम्मतमित्यर्थः । एतेन 'विंशत्याद्याः सदैकत्वे संख्यास्संख्येयसंख्ययोः' इति कोशात् शतशब्दस्य संख्यापरत्वे गवाक्छब्दस्य रूपाणामिति भाव्यम्, संख्येयपरत्वे तु मतमित्येकवचनानुपपत्तिरिति निरस्तम् । संख्येयपरत्वमाश्रित्य इतिशब्दमध्याहृत्य नवाधिकशतं रूपाणीति मतमित्यर्थाश्रयणात् । यद्वा शतशब्दस्य संख्येयपरत्वेऽपि शतमित्येकत्वाभिप्रायं मतमित्येकवचनमित्यदोषः । नवाधिकशतमित्येतत् प्रपञ्चयति - स्वम्सुप्सु नवेति । प्रत्येकमिति शेषः । रूपाणीति सर्वत्रान्येति । षड् भादौ षट्के स्युरिति । भिसि भ्यांत्रये, भ्यसूये च प्रत्येकं षडित्यर्थः । श्रीणि जरशसोरिति । प्रत्येकमिति शेषः । चत्वारि शेषे दशक इति । प्रत्येकमिति शेषः । स्वम्सुप्सु नवेत्येतदुपपादयति - त - तथा हीति | गामवतीति । गां गच्छति पूजयति वेत्यर्थः । क्विनि उपपदसमासे सुब्लुकि गो अञ्च् इति स्थिते प्रक्रियां दर्शयति - गतौ नलोप इति । गत्यर्थकत्वे 'मनिदिताम्' इति नस्य लोप इत्यर्थः ॥ गवाक्- गवागिति । गो अच् स् गो अच् अम् इति स्थिते, स्वमोर्लुकि, अक्लीबस्येति पर्युदासात् सर्वनामस्थानत्वाभावेन 'उगिदचाम्' इति नुमभावे, ओकारस्य अवङादेशे सवर्णदीर्घः, जस्त्वचत्वं इति भावः । सर्वत्रेति । अवडादेशस्य वैकल्पिकत्वात्तदभावपक्षे 'सर्वत्र विभाषा' इति प्रकृतिभावात् 'एड: पदान्तादति' इति पूर्वरूपस्याप्यभावे सतीत्यर्थः । पूर्वरूपे इति । ras: प्रकृतिभावस्य चाभावेन 'एड: पदान्ता' इति पूर्वरूपे सतीत्यर्थः । तदेवं गत्यर्थकत्वे षड् रूपाणि । 1 1 . पूजायामिति । 'नाचे: पूजायाम्' इति नलोपाभावात् गो अञ्च इत्यस्मात् स्वमोलुंकि, वकारस्य संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य कु:' इति कुत्वेन डकारः । ततः अवधि प्रकृतिभावे, पूर्वरूपे च त्रीणि रूपाणीति भावः । पूर्वोदाहृतषड रूपसंक For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy