________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
एक: पूर्वपरयोः ६ १८४॥ इत्यधिकृत्य । (६६) श्राद्गुणः ६ |२| 9 || वर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् । (७०) उरणूरपरः १|१|५१ ॥ ऋ इति त्रिंशतः संज्ञा' इत्युक्तम्, तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् 'कृष्णर्द्धिः' इत्यत्र
૫૫
अथ एकादेशसन्धि निरूपयितुमाह - एकः पूर्वपरयोः । इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रम् उत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपय सन्धयः विधास्यन्त इत्यर्थः । आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाहअवर्णादचीत्यादिना । उपेन्द्र इति । उप इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोः तथाविध एको गुणः एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाहरमेश इति । रमा ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुणः एका-रः । गङ्गोदकमिति । गङ्गा उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्ठस्थानकयोस्तथाविधएको गुणः ओकारः । कृष्णद्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकारः ऋकारश्चेति द्वौ स्थानिनौ । तयोः अकार एकार ओकाsafaast गुणाः प्रसक्ताः, अकारेण स्थानिना त्रयाणामपि कण्ठस्थानसाम्याविशेषात् । ऋकारेण स्थानिना तु न कस्यापि स्थानसाम्यम्, तस्य मूर्धस्थानकत्वात् एतेषां च तदभावात् । एवं तव लृकार इति स्थिते श्रयो गुणाः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याविशेषात् । लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यम्, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते - उरणपरः । इत्युक्तमिति । अणुदित्सूत्रम् इति शेषः । उः इति ऋ इत्यस्य षष्ठयेकवचनम् । ' षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तते । तदाह - तत्स्थाने योऽणिति । स्थानेऽन्तरतम इत्यतोऽपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह- रपरः सन्नेव प्रवर्तत इति । अत्र र इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकार शिरस्कश्च प्रवर्तत इति लभ्यते । तयोर्व्यवस्थां दर्शयति - तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णद्धिरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह- श्रान्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्य अणो रेफलकारशिरस्कतया तस्य अर् अल् इत्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारण, रेफांशे ऋकारेण, लकारांशे लृकारेण च स्थानसाम्यादकारक कारयोः स्थाने अरेव भवति । अकारऌकारयोः स्थाने अलेव भवति । एकारौकारौ तु गुणौ न भवत एव, तयोः ऋकारेण लकारेण च स्थानसाम्याभावादित्यर्थः । नच एकार ओकारश्च कथं
1
I
For Private and Personal Use Only
·