________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
सिद्धान्तकौमुदी
[मच्सन्धि
-
परे । 'पूर्वत्रासिद्धम्', (सू० १२) इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि-हरयेहि। विष्ण इह-विष्णविह। श्रिया उद्यतः-श्रियायुयतः। गुरा उत्क:-गुरावुत्कः । 'कानि सन्ति' 'को स्तः' इत्यत्रास्तेरल्लोपस्य स्थानिवद्भावेन यणावादेशी प्राप्तौ 'न पदान्त' (सू ५१) इति सूत्रेण पदान्तविधौ तनिषेधान्नस्तः । (६८)
व्योरित्यनुवृत्तावपि वर्णसमाम्नाये यकारस्य प्राथम्यात् यवयोरित्युक्तम् । नच शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम् , 'नवेति विभाषा' इति सूत्रभाष्ये आचायदेशशीलने च तद्विषयतेति प्रस्तुत्य 'इको हस्वो ख्यो गालवस्या 'प्राचामवृद्धा! इत्यादौ गालवाद्याचार्यग्रहणं प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वेश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात् । ननु हरे एहीत्यन्न अयादेशे यकारस्य लोपे सति 'ओमाडोश्च' इति पररूपं स्यात् । विष्णो इह, श्रिय उद्यतः, गुरौ उत्कः इत्यत्र अवायावादेशेषु वकारयकारलोपे आद्गुण इति गुणः स्यादित्यत आह-पूर्ववेति । वकारयकारयोर्लोपस्यासिद्धत्वेन ताभ्यां व्यवहिततया अच्परकत्वाभावादाशतिः अच्सन्धिर्न भवतीत्यर्थः ।।
तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः। तदुभयत्रातिप्रसङ्गमाशय समाधत्तेकानीत्यादिना । यद्यपि तथापीत्यध्याहार्यम् । कानि सन्ति, कौस्त इत्यत्र यद्यपियणावादेशी प्राप्तौ । तथापि न भवत इत्यन्वयः। नन्वन इकारौकारयोः सकारपरकत्वादच्परकत्वाभावात् कथं यणावोः प्राप्तिरित्यत आह-अस्तेरल्लोपस्य स्थानिवद्भावेनेति । असूधातोरादादिकाल्लटि प्रथमपुरुषबहुवचने सन्तीति रूपम् । प्रथमपुरुषद्विवचने तु स्तः इति रूपम् । उभयत्रापि इनसोरल्लोपः इति धात्वादेरकारस्य लोप इति स्थितिः। तत्र अल्लोपस्य स्थानिवत्त्वेनात्वादिकारौकारयोरच्परकत्वायणावादेशौ प्राप्नुत इत्यर्थः। न च स्थानिवदादेशोऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति। अल्लोपस्य स्थानिभूतो यः अकारः तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम् , 'अचः परस्मिन् पूर्वविधौ इति स्थानिवदावोपपत्त: अल्लोपस्य विकति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात् पूर्वत्वेन दृष्टयोरिकारौकारयोर्यणावादेशविधौ अचः परस्मिन्निति प्रवृत्तरिति भावः। तर्हि कुतोऽत्र यणावादेशौ न भवत इत्यत आहन पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतो. येणावादेशयोः पदचरमावयवतया तयोः कर्तव्ययोः परनिमित्तकस्याजादेशस्यालोपस्य स्थानिवत्त्वनिषेधादित्यर्थः।
For Private and Personal Use Only