________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
}
जेतुं शक्यं जय्यम् । 'शक्यार्थे' किम् । क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः । (६६) क्रय्यस्तदर्थे ६ ||८२॥ तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रोणीयुरिति बुद्ध्या आपणे प्रसारितं कध्यम् । क्रेयमन्यत् । क्रयणाई मित्यर्थः । (६७) लोपः शाकल्यस्य = | ३|१६|| अवर्णपूर्वयोः पदन्तयोर्यवयोर्वा लोपोऽशि परे क्षिक्षये जिजये इति धातोरेचः अय् इति यान्तादेशः स्यादिति विधानमत्र फलति । शक्यार्थे भिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः । क्षय्यमिति । कृत्या इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः । स च 'शकि लिङ् च' इति शक्यार्थः । शक्यार्थे लिङ् स्यात् चात् कृत्या इति तदर्थः । सार्वधातुकार्धधातुकयोरिति इकारस्य गुणः एकारः । तस्याच्परकत्वाभावादप्राप्तः अयादेशः अत्र निपात्यते । जम्बमित्यपि पूर्ववत् । शक्यार्थे किमिति । शक्यार्थे इत्यस्य किं प्रयोजनमिति प्रश्नः । क्षेतुमित्यादि । क्षेतुं योग्यं श्रेयं पापम् । जेतुं योग्यं जेयं मन इत्यन्वयः । अहे कृत्यतृचश्चेति यत् । स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः । क्रय्य - स्तदर्थे | इदमपि यान्तादेशनिपातनार्थम् । तदथंशब्दं व्याचष्टे- - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुः यत्प्रत्ययप्रकृतिभूतः तस्य योऽर्थः अभिधेयः द्रव्यविनिमयरूपः क्रयः सः प्रकृत्यर्थः तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं क्रयार्थं वस्तु | तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति । यान्तः क्रीमस्तदर्थ इति विधौ गौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि कथ्यमित्यन्तम् | योग्यतामात्रग्रहणे तु तदर्थे इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि 'अचो यत्' इति यत् । सार्वधातुकेति गुणः एकारः । अत्र एकारस्य अच्परकत्वाभावादनेन अयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं सङ्गृहीतं धान्यादीत्यर्थः । 'अहें कृत्यतृचश्च' इति यत्, अत्र अयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राभावादित्यर्थः ।
हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्कः इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्नैकल्पिकं लोपं विधत्ते - लोपः शाकल्यस्य । 'भो भगो' इत्यतः अपूर्वस्येति अशीति चानुवर्तते । व्योर्लघुप्रयत्नेत्यतः व्योरित्यनुवर्तते । वकारयकारयोरित्यर्थः । अपूर्वस्येति च व्योरित्यस्य विशेषणम् । अवर्ण: पूर्वः यस्मात् सः अपूर्वः । अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम् । पदस्येत्यधिकृतम् अवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते । विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते । ततश्च अवर्णपूर्वो यः वकारो यकारश्च तदन्तपदस्य लोपः स्यात् अशि परत इत्यर्थः । अलोऽन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते । शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते । ततश्च फलितमाह - श्रवर्णपूर्वयोरित्यादिना ।
For Private and Personal Use Only
५३