________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिश
निवद्भावेन यादेशस्य सुप्त्वात् 'सुपि च (सू २०२) इति दीघः । 'सन्निपातल. क्षणो विधिरनिमित्तं तद्विघातस्य' (प ८६) इति परिभाषा तु नेह प्रवर्तते । 'कष्टा. यक्रमणे ( सु २६७० ) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् । (२०५) बहुवचने झल्येत् ७।३।१०३॥ झलादौ बहुवचने सुपि परे अतोऽग. स्यैकारः स्यात् । रामेभ्यः । 'बहुवचने किम् । रामः । रामस्य । 'झलि' किम् ।
नन्वत्र दी? यज्ञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते। सच यजेशे अलाश्रयः तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः ? अनल्विधाविति तन्निषेधादिति चेत्, सत्यम्-इह दीर्घस्य यज्ञादिसुबाश्रयतया आदेशगतयकाररूपाला. श्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्रावे सुप्त्वं भवत्येव, दीर्घस्य आदेश. गतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । 'अकृत्सार्वधातुकयोदीर्घ इति तु परमप्यत्र नोपन्यस्तम्, अकृत्सार्वधातुकयोरिति पर्युदासबलेन तस्य असुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्यस्ति परिभाषा । सन्निपातः संश्लेषः लक्षणं निमित्तं यस्य सः सन्निपातलक्षणः । विधिः कार्यम् । तद्विघातस्य तं सन्निपातं विहन्तीति तद्विघातः। 'कर्मण्यण' इति कर्मण्युपपदे कर्तर्यण । 'हनस्तोऽचिण्णलो-रिति तकारः । 'हो हन्ते रिति कुत्वम् । सन्निपा. तविघातकस्य न निमित्तमित्यर्थः। उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते च अदन्तसम्बन्धमाश्रित्य प्रवृत्तो यादेशः अदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्कय परिहरति-सन्निपातलक्षण इत्यादिना। तृतीया. द्विवचनात् दीर्घ सिद्धवत्कृत्याह-रामाभ्यामिति । भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दोघे प्राप्ते । बहुवचने झल्येत् । अतो दो? यजीत्यतः सुपि चेत्य. तश्च अत इति सुपीति चानुवर्तते । अलीत्यनेन सुपोति विशेष्यते । यस्मिन् विधिरिति तदादिविधिः तदाह-झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः। एत्वे सति रुत्वविस! सिद्धवत्कृत्याह-रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्छ चोपसङ्ख्यातत्वेन विसर्गस्य झल्त्वात् स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तम् , रुत्वविसर्गयोरसिद्धत्वेऽपि राम म इति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ट्येकवचनस्य डसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात् स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुनचनग्रहणमित्यर्थः । सन्निपातपरिभाषा तु सर्वेषामिति निर्दे. शादेत्वविधौ न प्रवर्तत इत्याहुः। झलि किमिति । 'उतो वृद्धिलुकि हलि' इत्यतो हलीत्यनुवयं हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातुं शक्यते । तावतैव रामा
For Private and Personal Use Only