________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
त्वाज्जरस् । ततः सन्निपातपरिभाषया न लुक् । अजरसम् - अजरम् | अजरसीअजरे । अजरासि - अजराणि । शेषं पुंवत् | 'पद्दन् -' ( सू २२८) इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा उदभ्यामित्यादि । आसानि । आस्ना आसभ्यामित्यादि । मसि । मांसा | मान्भ्या
अजन्तनपुंसकलिङ्ग
उपधाया इति पूर्वत्वमात्रोपलक्षणम्, पारिभाषिकोपधात्वस्यासम्भवात् । अथ द्वितीयैकवचने रूपं दर्शयितुमाह - श्रमि लुक इति । अजर अम् इति स्थिते 'स्वमोर्नपुंसका' इति लुक् प्राप्तः तं बाधित्वा तदपवादः 'अतोऽम्' इत्यम्भावः प्राप्तः, तं बाधित्वा 'विप्रतिषेधे परम्' इति परत्वाज्जरस् । श्रजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याम्भावस्य जरसादेशेन बाधितत्वात् ' अपवादे निषिद्धे पुनरुत्सर्गस्य स्थितिः' इति न्यायेन अमो लुक् कुतो न स्यादित्यत आह- तत इति । ततो न लुगित्यन्वयः । जरसादेशानन्तरं अमो लुङ् न भवतीत्यर्थः । कुत इत्यत आहसन्निपातेति । अम्सन्निपातमाश्रित्य प्रवृत्तस्य जरसः तल्लुकि निमित्तत्वाभावादिति भावः । शेषं पुंवत् । अजरसा - अजरेण । अजरसे - अजराय । अजरसः - अजरात्। भजरमः - अजरस्य । अजरसोः - अजरयोः । अजरसि - अजरे
1
हृदयोदकास्यशब्दाः सुटि ज्ञानवत् । शसादौ विशेषमाह - पददन्निति । हृन्दीति । हृदयशब्दात् शसः शिभावे हृदादेशे 'नपुंसकस्य झलचः' इति ऋकारात् परतो नुमि 'नश्चापदान्तस्य' इत्यनुस्वारे तस्य परसवर्णे नकारे रूपम् । इत्यादीति । हृदे । हृदः । हृदः । हृदोः । हृदाम् । हृदि । हृदोः । हृत्सु । हृदभावपक्षे ज्ञानवत् । उदकशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह - उदानीति । शसः शिभावे उदन्नादेशे 'सर्वनामस्थाने च' इति दीर्घः । 'अल्लोपोऽनः' इति तु न । शेः सर्वनामस्थानत्वात् । उद्नेति । उदक आ इति स्थिते उदन्नादेशे अल्लोपः । उदभ्यामिति । उदन्नादेशे 'न लोपः प्रातिपदिकान्तस्य' इति नलोपः, 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् । इत्यादीति । उदूने । उद्नः । उदूनः । उदूनोः । उदनि उनि । उदूनोः । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दः सुटि ज्ञानवत् । शसादौ विशेषमाह - श्रासानीत्यादि । उदन्नादेशवदूपाणि । इत्यादीति | आस्ने । आस्नः । आस्नः । आस्नोः । आस्नि- आसनि । आस्नोः । आससु आसन्नभावपक्षे ज्ञानवत् । मांसशब्दोऽपि सुटि ज्ञानवत् । 'मांसपृतनासानूनाम्' इति शसादौ मांस् आदेशः । अत्र नकारस्य 'श्चापदान्तस्य' इति कृतानुस्वारस्य निर्देशः । अत एवाह - मान्भ्यामिति । मांस् आदेशे सकारस्य संयोगान्तलोपे सति निमित्तापायात् अनुस्वारनिवृत्तौ रूपम् । संयोगान्तलोपस्यासिद्धत्वान्नलोपा न ।
For Private and Personal Use Only