________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता ।
मित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये 'मोस्पचन्या उखायाः' इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । 'पद्दन्-' ( सू २२८) इत्यत्र हि 'छन्दसि' इत्यनुवर्तितं वृत्तौ । तथापि 'अपो भि (सू ४४२) इत्यत्र 'मासश्छन्दसि' (वा ४६३४ ) इति वार्तिके छन्दोप्रहणसामर्थ्या. लोकेऽपि क्वचित् इति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्य इति बो
२१६
अथ सुय्यपि हृदायादेशं साधयितुमाह-वस्तुतस्त्विति । इत्युक्तमिति । 'ककुदोचणी' इति भाष्यप्रयोगात् प्रभृतिग्रहणस्य प्रकारार्थत्वम् अजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः । ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने हृत् इति प्रयोगोऽनुपपन्नः, सोलुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात् वदनित्यत्त्वाश्रयणे च मानाभावादित्यत आह- श्रत एवेति । मांस्पचन्या इति । पच्यते अस्यासुखायामिति पचनी । अधिकरणे ल्युद्, अनादेशः । दित्त्वात् ङीप् मांसस्य पचनीति षष्ठीसमासः । अन्न सो लुका लुप्तत्वात् प्रत्ययलक्षणाभावे प्रत्ययपरत्वाभावात् मांस् आदेशो न स्यात् । अतो हृदाद्यादेशविधौ 'न लुमता' इति निषेधस्यानित्यत्वमाश्रीयत इत्यर्थः । ननु मांसूपचन्या इत्यत्र अन्तर्वर्तिनं डसं लुप्तमाश्रित्य मांस् इत्यस्यास्ति पदत्वम्, 'सुप्तिङन्तम्' इति पदसज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाभावेन अत्र 'न लुमता' इति निषेधस्याप्रवृत्तेः । अन्यथा राजपुरुष इत्यत्र कथं नलोपः । ततश्चात्र संकारस्य संयोगान्तलोपो दुर्वार इत्यत्र आहभत्वात् संयोगान्तलोपो नैति । ननु यजादिस्वादिप्रत्यये परे विधीयमानायाः भसज्ञायाः केवलाङ्गधर्मत्वात् तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात् कथमिह भसंज्ञेत्यत आहअयस्मयादित्वेनेति । मांस आदेशस्य अयस्मयादिगणपठितत्वात् 'अयस्मयादीनि छन्दसि' इति भत्वमित्यर्थः । शङ्कते - पद्मनित्यत्रेति । पदन् इति सूत्रे 'शीर्षन् छन्दसि' इत्यतः छन्दसीत्यनुवृत्तिः वृत्तिग्रन्थे प्रदर्शितेत्यर्थः । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः । परिहरति- तथापीति । 'पदन्नो' इति सूत्रे छन्दोप्रह'णानुवृत्तावपि लोकेsपि क्वचिदित्यन्वयः । कुतो लोकेऽपि प्रयोग इत्यत आह-अपोभीत्यादीति । 'अपो भि' इति सूत्रम् । अपस्तकारः स्यात् भादौ प्रत्यये परे इत्यर्थः । तत्रास्ति वार्तिकम् — 'मासकछन्दसि' इति । मास् इत्यस्य तकारः स्यात् भादिप्रत्यये परे छन्दसि इति तदर्थः । ऋग्वेदे 'माद्भिः शरद्भिः' इत्यादिमन्त्रमुदाहरणम् । यदि 'पद्दन्' इति छन्दोमात्रविषयं स्यात् तदा मास् इत्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वात् मासश्छन्दसीति सस्य तकारविधौ छन्दोग्रहणं व्यर्थं स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या 'पद्दन्' इत्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः । इत्यदन्ताः ॥
I
For Private and Personal Use Only