________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
' सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
राष्ट्रियः । अवारपारीणः इत्यादि । (१३६४) प्रावृषष्ठप ४।३।२६॥ एण्य. स्यापवादः । प्राषि जातः प्रावृषिकः । (१३९५) सज्ञायां शरदो वुञ् ४। ३॥२७॥ ऋत्वणोऽपवादः । शारदकाः दर्भविशेषाः मुद्गविशेषाश्च । (१३६६) उत्तरपदस्य ७।३।१०॥ अधिकारोऽयम् । हनस्तः- (सू २५७४ ) इत्यस्मात्प्राक् । (१३६७) अवयवाहतोः ७।३।११॥ अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे। पूर्ववार्षिकः । अपरहैमनः । अवयवात् किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोर्वृद्धिमद्वि. धाववयवानाम्। (वा ५६०) इति तदन्तविधिः पूर्वत्र । इह तुन, अवयवत्वाभावात् । स्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणादय इति। अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति । 'राष्ट्रावारपार' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् । ठपः पित्त्वम् । 'अनुदात्तो सुप्पितौ' इति स्वरार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवं च 'प्रावृष एण्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति । सब्ज्ञायां शरदो वुञ्। सज्ञायामित्येतत् 'कृतलब्धक्रीत' इत्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः । उत्तरपदस्य । अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि । अवयवादृतोः। पूर्वपदादिति । परस्येति शेषः । ऋतुवाचिन इति । ' उत्तरपदस्येति शेषः । पूर्ववार्षिक इति । ऋतुविशेषे वर्षाशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्व पूर्ववर्षाः, तत्र जात इत्यर्थः। 'पूर्वापराघरोत्तरम्' इत्येकदेशिस. मासः । अपरहैमन इति । हेमन्तस्यापरम् अपरहेमन्तः। तत्र जातादिरित्यर्थः । एकदेशिसमासः । 'सर्वत्राण्च तलोपश्च' इत्यम् , तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति । 'तद्धितार्थे' इति समासः। आदिवृद्धिरेव न तूत्तरपदादिवृद्धिः, पूर्वपदस्य अवयववृत्तित्वाभावात्। - ननु कथमिह 'वर्षाभ्यष्ठक्' इति ठक् , प्रत्ययविधौ तदन्तविधिप्रतिषेधात् , तत्राह-ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थितात् ऋतुवाचकात् वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन 'येन विधिः' इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः। तथाच पूर्ववार्षिक इत्यत्र पूर्वहैमन इत्यत्र चोदाहरणे 'वर्षाभ्यष्ठक्' इति ठक् , 'सर्वत्राण च तलो. पश्च' इत्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति समानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववर्षिक इत्यत्र 'काला ' इति ठनत्र, नतु ठक् , स्वरे वि. शेषः । पौवं हेमन्तिक इत्यत्रापि ठजेवेति भावः ।
For Private and Personal Use Only