________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम्
बालमनोरमासहिता |
'तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
उत्सगः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥' ( वा २५८१ - २५८४) वृद्धया उपधावृद्धया च पौष्करसादेः सिद्धत्वात् अनुशतिकादी पुष्करसच्छन्दपाठोऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात् सत्यपि सम्भवे बाधनं भवति इति विज्ञायत इति भाष्ये स्पष्टम् ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
1
६-१
I
तस्येदमित्यपत्येऽपीत्यादि । इलोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थ:तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यविधानं व्यर्थमित्याक्षेपः । नच 'अत इम्' इत्याद्युत्तरसूत्रार्थ: 'तस्यापत्यम्' इत्यावश्यकमिति वाच्यम् । एवं हि सति 'तस्यापत्यमत इन्' इत्येकमेव सूत्रमस्तु । तथा च 'तस्यापत्यम्' इति पृथक्सूत्रप्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते - बाधनार्थं कृतं भवेदिति । 'तस्येदम्' इत्यणं बाधित्वा 'वृद्धा. च्छः इति छः अपत्ये प्राप्तः, तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रं कृतमित्यर्थः । ननु 'वृद्धाच्छः' इति सूत्रं शेषाधिकारस्थम्, अपत्यादिचतुर्थ्यन्तेभ्योऽन्यः शेषः । तथाच अपत्यार्थस्य शेषाधिकारस्यत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसकेस्तद्वाधनार्थत्वं 'तस्यापत्यम्' इत्यस्य कथमित्यत आह- उत्सर्गः शेष एवासाविति । उत्सु• ज्यते अदन्त बाह्वादिप्रकृतिभ्यो वियुज्यत इत्युत्सर्गः । कर्मणि घञ् । अदन्त बाह्वा दिभिन्नप्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेपतुर्हि 'तस्यापत्यमत इज्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त बाह्वादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात् तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छ स्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्' इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वात् छल्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह-वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद् वृद्धानि, तेभ्यः छप्रत्ययबाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रमित्यर्थः । ननु 'तस्येदम्' इत्यणि इदन्त्वेन बोधः । ' तस्याप. त्यम्' इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्, 'तस्येदमित्यपत्येऽपि' इत्याक्षेप एवायमनुपपन्न इति चेत् न - एतद्वार्तिकभाष्यप्रामाण्येन 'तस्येदम्' इति इदंशब्देन अपत्यस्य हृदन्त्वेन ग्रहणाभावविज्ञानात । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् ।
For Private and Personal Use Only