________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
सिद्धान्तकौमुदी
[अपत्याधिकार
योगविभागस्तु । भानोरपत्यं मानवः । कृतसन्धेः किम् । सौस्थितिः। अकृतव्यूहपरिभाषया साबुस्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात् किम् । अपत्यवाचकास्पष्टयर्थे मा भूत् । वाग्रहणाद्वाक्यमपि। 'दैवयज्ञि-'
कृप्तमन्धेः किमिति । 'समर्थानां प्रथमाद्वा' इत्यधिकारसूत्रस्थसमर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थ मिति प्रश्नः । सौस्थितिरिति । सु शोभनः उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः सूत्थितस्यापत्यं सौस्थितिः, अत इन्, सुब्लुक् , आदिवृद्धिः, 'यस्येति च इत्यकारलोपः। कृतसन्धेरित्यभावे तु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीधे कृते तदुत्तरमेव इन्प्रत्यय उचितः, परादन्तरङ्गस्य बलवस्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आहअकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्ध्यपेक्षया अन्तरङ्गोऽपि सवर्णदीर्घः अकृतव्यूहपरिभाषया आदिवृद्धः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घात्प्रागेवादिवृद्धौ मावादेशे सावुत्थिति. रिति स्यादित्यर्थः । न च इनि सति कृते सवर्णदीधे ऊकारस्य जायमानया वृद्धया सवर्णदीर्घनिमित्तस्य कस्यचिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् , यदि सवर्णदीर्थो न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृद्धया औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृ. तव्यूहपरिभाषायाः प्रवृत्तरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव, भाष्ये क्वाप्यव्यवहृतत्वात् , प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परं कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्ग बलीयः इत्युक्त्वा सौत्थितिरित्यत्र परामष्यादिवृद्धि बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने सु उत्थित इति स्थिते परत्वावृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसङ्गतिः स्पष्टैव। सेदुष इत्यादौ अकृतव्यूहपरिभाषाफल. स्यान्यथासिद्धिस्तु तत्र तत्र प्रपश्चितैवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः। ___ वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययविधानात् इह च अपत्यस्य तच्छब्दवाच्यो. पगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्या. दिवारणाय सामर्थ्यमेकार्थीभावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः । प्रथमादित्युक्ती तुतस्यापत्यम्' इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तात् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वामहणाभावे हि तद्धितस्य नित्यत्वादुपगोरप.
For Private and Personal Use Only