________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
'सिद्धान्तकौमुदी
[ अजन्तपुंडिश
बहुगणवतुडति सङ्ख्या १।१।२३ ॥ एते संख्यासंज्ञाः स्युः । ( २५६ ) डति च १।१।२५ ॥ डत्यन्ता सख्या षट्संज्ञा स्यात् । ( २६० ) प्रत्ययस्य . लुक्श्लुलुपः १।२।६१ ॥ लक्श्लुलुप्राब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यापतये नमः' इत्यादि त्वार्षम् । अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दो नित्यं बहुवचनान्त इति । 'किमः सङ्ख्यापरिमाणे' इत्यनेन किंशब्दात् बहुत्वसङ्ख्यावच्छिन्नसयेयविषयप्रश्न एव डतिः, इति भाष्ये स्पष्टत्वादिति भावः । अथ षट्संज्ञा कार्य वक्ष्यन् षट्संज्ञोपयोगिनी सङ्ख्या संज्ञामाह - बहुगण । बहुश्च, गणश्च वसुश्च, डतिश्च इति समाहारद्वन्द्वः । एतत् सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह – एते इति । बह्नादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसङ्ख्याव्यापकधर्मविशेषवा चिनौ गृह्येते न तु वैपुल्यसट्धवाचिनौ सङ्ख्यायतेऽनयेति अन्वर्थसंज्ञाविज्ञानात् । वतु
I
ती प्रत्ययौ | संज्ञाविधावपि इह तदन्तग्रहणम्, केवलयोः प्रयोगानर्हत्वात् । वतुरिह 'यत्तदेतेभ्यः परिमाणे वतुप्' इति तद्धितप्रत्ययो गृह्यते । न तु 'तेन तुल्यं क्रिया चेतिः' इति वतिरपि, उकारानुबन्धात् । डतिरपि 'किमः सङ्ख्यापरिमाणे 'डति च' इति विहितः तद्धित एव गृह्यते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननु 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णा ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, 'कृत्रिमा कृत्रिमयोः कृत्रिमे कार्य सम्प्रत्ययः' इति न्यायात् । ततश्च पञ्चकृत्व इत्यादि न स्यादिति चेन्न - सङ्ख्याया अतिशदन्ताया: कनू' इत्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमा कृत्रिमन्याया प्रवृत्तिज्ञापनात् । नहि विंशतित्रिंशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयर्थ्य शङ्कयम्, तयोर्नियतविषयपरिच्छेदकत्वाभावेन लोकसिद्धसङ्ख्यात्वाभावात् । अत एव भाष्ये 'एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां सङ्घयेत्याह' इत्युक्तं सङ्गच्छत इत्यास्तां तावत् । इति च । उतीत्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तप्रहणम् । पूर्वसूत्रात् सङ्घयेत्यनुवर्तते । 'ष्णान्ता षट्' इत्यतः षडिति च । तदाह-इत्यन्तेति । सङ्ख्येति किम् ? पतिः ।
1
अथ षट्संज्ञाकार्य लुकं वक्ष्यन्नाह - प्रत्ययस्य लुक् । 'अदर्शनं लोपः' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । एवं सति एकस्यैव प्रत्ययादर्शनस्य तिस्रोऽपि संज्ञाः स्युः । ततश्च हन्तीत्यत्र शब्लुकि 'इलो' इति द्वित्वं स्यात्, जुहोतीत्यत्र श्लौ सति 'उतो वृद्धिर्बुकि हलि' इति वृद्धिः स्यात् । अतो नैवमर्थः । कि तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् कलु लुप् इत्युच्चार्य विहितं प्रत्ययस्यादर्शनं यथासङ्ख्यपरिभाषया क्रमात् लुगादिसंज्ञं स्यादिति लभ्यते । अतो नोक्तसंकर इत्यभिप्रेत्य आह - लुक्लुलुप्राब्दैरित्यादिना । फले लुक्, जुहोत्या
For Private and Personal Use Only