________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकरणम् १६] बालमनोरमासहिता।
४२७
aaaaaaaaar लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥४॥६॥ 'एश्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसज्ञाः स्युः । लक्षणे, वृक्षं प्रति-परि-अनु वा विद्योतते विद्युत् । इत्थम्भूताख्याने, भक्तो विष्णुं प्रति-परि-अनु वा। भागे, लक्ष्मीहरि प्रतिपरि-अनु वा। हरेर्भाग इत्यर्थः । वोप्सायाम् , वृक्षं वृक्षं प्रति-परि-अनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् । परिषिञ्चति । (५५३) अभि.
लक्षणेत्थंभूत । लक्षणं ज्ञापकम् , अयं प्रकार इत्थं, तं प्राप्तः इत्थंभूतः, तस्याख्यानमुपपादकमित्थंभूताख्यानम् , भागः स्वीकायोऽशः तत्स्वामी विवक्षितः । व्याप्तु कात्स्न्येन सम्बदन्धुमिच्छा बीप्सा । लक्षणं च इत्थम्भूताख्यानं च भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एग्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रि. तम् । व्याप्तुमिच्छायास्तरोत्यार्थत्वाभावादिति भावः । लक्षणे इति । उदाहरण वक्ष्यते इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसम्बन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युत् विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत् , तदु. त्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाभावादनुमेया सा। ततश्च प्रकाशितेन वृक्षेण विशुद्ज्ञानात् वृक्षो लक्षणम् । इत्यम्भूताख्यान इति । उदाहरणं वक्ष्यत इति शेषः। भक्तो विष्णु प्रतीति । भज सेवा. याम्। भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शआधच् , विषयतासम्बन्धः प्रत्यादिद्योत्यो द्वितीयार्थः, तस्य भक्तावेकदेशेऽन्वयः विष्णुविषयकभक्तिमानित्यर्थः । अत्र मतः भक्तिरूपं प्रकारविशेष प्राप्तत्वात् इत्थंभूतः तस्य विष्णुविषयकतया उपपाथत्वाद्विषयतासम्बन्धस्तदुपपादकः प्रतियोत्य इति ज्ञेयम् । भागे इति । उदाहरणं वक्ष्यत इति शेषः। लक्ष्मीहरि प्रतीति । स्वामित्वं द्वितीयार्थः। प्रत्यादिद्योत्यः । तदाह-हरे ग इत्यर्थ इति । हरेः स्वभूतेति यावत् । ___ वीप्सायामिति । उदाहरणं वक्ष्यत इति शेषः। वृक्षं वृक्षं प्रतीति । 'नित्यवीप्सयोः' इति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कात्स्न्येन सम्बन्धात्मिका । तथाच प्रकृत्यर्थगतकात्स्नमेव व्याप्तिः, सा यद्यपि द्विर्वचनधोत्या, तथापि प्रतिपर्यनुयोगे तद्दयोत्यत्वमपि। तथाच कृत्स्नं वृक्षं सिञ्च. तीत्यर्थः । व्यक्तिकात्स्यमिह विवक्षितम् , नत्ववयवकात्स्यमिति 'नित्यवीप्सयो? इत्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धः किमिह कर्मप्र. वचनीयसंज्ञयेत्यत आह-अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तम् । अतोऽत्र प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् 'उपसर्गात् सुनोति' इति षत्वं न भवति । कर्मप्रवचनीयत्वाभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य पत्वं स्यादित्यर्थः । भाष्ये तु 'किमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,
For Private and Personal Use Only