________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
सिद्धान्तकौमुदी
[अनन्तपुंल्लिङ्ग
(सु २२६) इति विकल्पे प्राप्ते विभक्तिनिरपेक्षवेनान्तरणत्वान्नित्यैव संज्ञा भवति । उभये । इतरडतमौ प्रत्ययौ । 'प्रत्ययग्रहणे तदन्ता प्राह्याः' (प २४ ) यद्यपि 'संज्ञाविधौ प्रत्ययमहणे तदन्तग्रहणं नास्ति' ( प २८ ) 'सुप्तिङन्तम्' ( सू २९) इति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाभावात् । तस्मात् उभयशब्दात् जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः। सर्वादीनीत्यनेनेति शेषः। ननु प्रथमचरमादिष्वनन्तर्भावात् कथमुभयशब्दस्य प्रथमचरमेति विकल्पप्राप्तिरित्यत आह-तयप्प्रत्ययान्ततयेति । ननु सयपः अश्रवणात् कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह-अयजादेशस्य स्थानिवद्भावेनैति। उभादुदात्त इति सूत्रे 'सङ्ख्याया अवयवे तयप्' इति उमशब्दाद्विहितस्य तयपोऽयजादेशः, तयग्रहणमननुव] अयच् स्वतन्त्रः प्रत्ययो वा, इति पक्षद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसज्ञाविकल्पशा बोध्या । ननु प्रथमचरमेति विकल्पस्य परत्वात् कथमिह सर्वादीनीति नित्यैव सम्झे. त्यत आह-अन्तरङ्गस्वादिति । तदेवोपपादयति-विभक्तिनिरपेक्षत्वेनेति। प्रथमवरमेति जसि विकल्पविधिः जसपेक्षत्वेन विभक्त्यपेक्षत्वात् बहिरङ्गः। सर्वादीनीति नित्यसज्ञाविधिस्तु तदनपेक्षत्वात् अन्तरङ्गः, अल्पापेक्षमन्तरङ्गमिति न्यायात् । अतोऽत्र परमपि प्रथमचरमेति विकल्पं बाधित्वा सर्वादीनीति नित्यैव सम्ज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः । तथा च शीभावो नित्य इत्याह-उभये इति । __ ननु डतरडतमशब्दयोः कापि प्रयोगादर्शनात् किमर्थस्तयोः पाठ इत्यत आहडतरडतमौ प्रत्ययाविति । 'किंयत्तदोनिर्धारणे द्वयोरकस्य डतरच्' 'वा बहूनां जातिपरिप्रश्ने डतमच् । 'एकाच प्राचाम्' इति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, 'प्रत्ययः' इत्यधिकृत्य तद्विधेः। अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादि. शब्दानाम् डतमग्रहणेन कतमादिशब्दानां च ग्रहणमिति भावः । शङ्कते-यद्यपीति । सुप्तिङन्तमिति । यदि सज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवतेत, तर्हि सुप्ति पदमित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात् । अतः सज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवञ्च प्रकृते सर्वनामसज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात् कथं तदन्तग्रहणमित्याक्षेपः । परिहरति-तथापीति । अन्यत्र सज्ञाविधौ प्रत्ययग्रहणेन तदन्तग्रहणाभावेऽपि इह सर्वनामसज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणमस्त्येवेत्यर्थः । कुत इत्यत आहकेवलयोरिति । 'न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः' इति म्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानहत्वेन तयोः सर्वनामसञ्ज्ञायां फलाभावादित्यर्थः । तस्मात् उतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम् ।
For Private and Personal Use Only