________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
अन्यतरान्यतमशब्दावल्युत्पन्नौ स्वभावाद्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान संज्ञा । 'स्व' 'स्व' इति द्वावप्यदन्तावन्यपर्यायौ, एक उदात्तोऽपरोऽनुदात्त इत्येके । “एकस्तान्तः' इत्यपरे। नेमः इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते, 'यथासङ्ख्यमनुदेशः समानाम् (सू० १२०) इति ज्ञापकात् । 'अन्तरं बहिर्योगोप' ( ग सू ३) इति गणसूत्रे 'अपुरीति वक्त.
ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे अन्यतरशब्दपाठो व्यर्थः । अन्यतम. शब्दस्यापि डतमप्रत्ययान्तत्वात् सर्वनामत्वापत्तिश्चेत्यत आह-अन्यतरान्यतम. शब्दावव्युत्पन्नाविति। डित्थादिशब्दवत् प्रकृतिप्रत्ययविभागविहीनावित्यर्थः। किंयत्तदेकेभ्य एव उतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह-स्वभावादिति । एवञ्चान्यतमशब्दस्य न सर्वनामत्वमित्याह-तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरप्रत्य. यान्तत्वाभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अथ त्व त्वेत्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्वयाचष्टे-त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमानार्थकावित्यर्थः । द्वयोरप्यदन्तत्वे अन्यतरपाठवैयर्थ्य परिहरति-एक इति । इत्येके इति । इति कतिपये वृत्तिकृदादयः मन्यन्त इत्यर्थः । 'एतं त्वं मन्ये' इत्युदात्तत्वस्य 'उत त्वः पश्यन्' इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः । एकस्तान्त इति । संहितापाठे त्वत् इति छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयः अदन्त इत्यपरे मन्यन्त इत्यर्थः । अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्तं वा सकृदेव पठेत् , तावतव द्वयोरपि लाभात् 'त्वत्त्वसमसिमेत्यनुच्चानि' इति फिटसूत्राच्च । स्तरीरुत्वद्भवति, सूत उ त्वत् इति व्याख्यावसरे वेदभाष्ये 'त्वदिति सर्वादिपठितः अनुदात्तोऽयं अन्यपर्यायः' इत्युक्तत्वाच्च । 'त्वदधरमधुरमधूनि पिबन्तम्' इति जयदेवप्रयोगाच्च । तत्र हि त्वच्छब्दोऽन्यपर्यायः । त्वतः अधर इति विग्रहः । अन्यस्या अधर इत्यर्थः। नतु तवाधर इति विवक्षितम्, 'पश्यति दिशि दिशि रहसि भवन्तम्' इति पूर्ववाक्येनान्धयानुपपत्तेः। नेम इत्यर्धे इति । वर्तते इति शेषः । 'प्र नेमस्मिन् ददृशे सोमो अन्तः' इत्युचि तथा दर्शनादिति भावः । सम इति । सर्वशब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः । । ननु अष्टाध्यायीपठिते 'अन्तरं बहिर्योगोपसंव्यानयोः' इति जसि सर्वनामसन्ज्ञाविकल्पविधायके सूत्रे 'अपुरीति वक्तव्यम्' इति वार्तिकपाठो भाष्ये दृश्यते । एवञ्चान्तराः पुर्यः इत्यत्र जसि सर्वनामसज्ञानिषेधेऽपि, अन्तरायां पुरीत्यत्र तन्निषेधा. भावात् अन्तरस्यामिति स्यादित्यत आह-गणसूत्र इति । यद्यपीदं वार्तिकं जसि
For Private and Personal Use Only