________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् 6]
बालमनोरमासहिता ।
१३६
'उभयत्र' इत्यादाविवायप्रसङ्गात् । तदुक्तम् । 'उभयोऽन्यत्र' (वा २३२)। मन्यत्र द्विवचनपरत्वाभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः। अस्तोति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया 'प्रथमचरम' त्ययो नेत्यत्र किं प्रमाणमित्यत आह-तदुक्तमिति । वार्तिककृतेति शेषः। द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत् 'उभयोऽन्यत्र' इति वदता वार्तिककृता उक्तमित्यर्थः । अन्यत्रेत्येतद्वयाचष्ठे-अन्यत्र द्विवचनपरत्वाभावे इति। उदाहृतवार्तिके अ. न्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः, 'अन्याभावो द्विवचनटाब्धि. षयत्वात्' इति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः । टाब्ग्रहणं तु तत्रा. विवक्षितमिति कैयटादिषु स्पष्टम् । ततश्च सर्वनामतानिमित्तकाकजथं उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम् 'उभानुदात्तो नित्यम्। इत्यत्र वक्ष्यते । ___अथोभयशब्दे विशेषमाह-उभयशब्दस्येति । उभौ अवयवौ यस्यावयविनः स उभयः मणिः । 'उभाइदात्तः' इत्ययच् । अवयववृत्तः सख्यावाचिन: उभशब्दादवय. विन्यर्थे अयच्प्रत्ययः स्यादिति तदर्थः । द्वयवयवारब्धो मणिरित्यर्थः। मणेरवयविन एकत्वादुभयः इत्येकवचनम् । उभयश्च उभयश्च उभयश्चेत्येवं व्यवयवारब्धयादिमणि. विवक्षायां तु बहुवचनं उभये मणय इति। उभयश्च उभयश्चेति व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति, उभयोऽन्यत्रेत्युदाहृतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवयमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं स्वार्थिकायजन्तोभयशब्दोपक्रमेणैव तद्वार्तिकप्रवृ. तेरिति वाच्यम् , एतद्वातिकव्याख्यावसरे उभयो मणिः, उभये देवमनुष्याः, इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्य 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनासर्वविभक्तित्वेऽपि न भवति, तसिलादयः प्राक्पाशपः, शस्प्रभृतयः प्राक् समासान्तेभ्यः, अम् , आम् , कृत्वोऽर्थाः, तसिवती, नानाजो, इति परिगणितत्वादिति कैयटेनोक्तम् । तदाह-कैयट इति । एवं च उभयः उभये, । उभयम् , उभयान्। उभयेन, उभयः । उभयस्मै, उभयेभ्यः। उभयस्मात्, उभयेभ्यः । उभयस्य, उभयेषाम् । उभयस्मिन् , उभयेषु । इत्येव रूपाणि । नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति। हरदत्त इत्यस्वरसोदावनम् । तद्वीजं तु उभयोऽ न्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः । उभयशब्दात् जसि सर्वादीनीति नित्यां सर्वनामसंज्ञा बाधित्वा परत्वात् 'प्रथमचरमतयाल्पार्धकतिपयनेमाश्' इति सर्वनामसंज्ञाविकल्पप्रासिमशाक्य परिहरति-तस्मादित्यादिना ।
For Private and Personal Use Only