SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १९] बालमनोरमासहिता। 988 - - समासान्ताच्छेषाधिकारस्थावहुव्रीहे: कन्वा स्यात् । महायशस्क:-महायशाः। अनुक्तइत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः। तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । (EB२) मापोऽन्यतरस्याम् ७४३१५॥ कप्यावन्तस्य हस्वो वा स्यात् । बहुमालाकः, बहु. मालकः । कबभावे बहुमालः । (६६३) न सज्शायाम् ५४१५५॥ 'शेषात्' (सू ८९१) इति प्राप्तः कन्न स्मात्सम्ज्ञायाम् । विश्वे देवा अस्य विश्वदेवः । (28) ईयसश्च ५।४।१५६॥ ईयसन्तोसरपदाथ कप् । बहवः श्रेयांसोऽस्य अनुक्तसमासान्तादिति । शेषाधिकारस्थादिति । शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति । महत् यशः यस्येति च विग्रहः । 'आन्महत:' इत्यारवे, कपि, 'सोऽपदादौ इति सत्वम् । महायशा इति । कबभावे 'अत्वसन्तस्य' इति दीर्घः । व्याघ्रपादिति । 'पादस्य लोपोऽहस्त्यादिभ्यः' इत्युक्तसमासान्तोऽयम्। स्थानिद्वारा लोपल्यापि समासान्तत्वात् । सुगन्धिरिति । 'गन्धस्येदुत्पूति' इति कृतसमासान्तोऽयम् । प्रियपथ इति । 'ऋक्पू' इति कृतसमासान्तोऽयम् । उपबहव इति । 'सङ्ख्ययाव्यय' इति बहुव्रीहिरयं , शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपि 'दिङ्नामान्यन्तराले' इति बहुवीहिः, न शेषाधिकारस्थः । सपुत्र इति । 'तेन सह' इत्ययमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह-तन्त्रादिनेति । आदिना आवृत्तिसङ्ग्रहः। एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चारितात् शब्दात् आवृत्त्या बोध इति बोध्यम् । 'श्वेतो धावति' इत्यादौ सकृदुच्चारणेऽपि ( भाष्ये ) 'श्वा इतो धावति, श्वेतगुणको धावति इत्येवमनेकार्थबोधदर्शनादिति भावः। आपोऽन्यतस्याम् । कपीति । 'न कपि' इत्यतस्तदनुवृत्तेरिति भावः । श्रावन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । हस्वो बेति । 'शदप्रां हस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । न कपिः इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति । बढयो माला यस्येति विग्रहः । हस्वपक्षे बहुमालक इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र 'स्त्रियाः पुंवत्' इति पुंवत्वम् ।। न संशायाम् । शेषादिति प्राप्त इति । 'अनन्तरस्या इति न्यायात् 'शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, नतु व्यवहितस्य 'नवृतश्च' इत्यादिकप इति भावः । विश्वे देवा अस्येति । अत्र सज्ञायां समासस्य नित्यत्वात् लोकिकविग्रहप्रदर्शनं चिन्त्यमेव । ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईय. सन्तत्वादाह-ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत इति भावः । न कविति । 'न सब्ज्ञेयसोः' इति वक्तव्ये पृथग्योगकरणात् नित्यस्य वैकल्पिकस्य च For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy