________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
सिद्धान्तकौमुदी
[कारक
-
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारक कर्मसंज्ञं स्यात् । प्रामं गच्छंस्तृणं स्पृशति । विर्ष भुक्ते। प्लक्षः इत्यादिः प्रथमाया अवकाश इति वाच्यम् , तत्र गम्यामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः। तथाप्युभयोः सावकाशत्वे परत्वात् प्रथमैव स्यात् । एवं चानभिहिताधिकारो व्यर्थ इति चेत् , मैवम्'कर्मणि द्वितीया' इत्यादीनां 'द्वयेकयोद्विवचनैकवचने' 'बहुषु बहुवचनम् इत्यनयोश्च एकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तन्त्र 'अनभिहिते' इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् । 'अनभिहिते' इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । नच प्रथमाया निरवकाशत्वं शङ्यम् , नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः साव. काशत्वात् । नापि तत्र परत्वात् प्रथमैव भविष्यतीति वाच्यम् , कर्तव्यः कट इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थं इति पक्षे. 'अनभिहिते' इत्यारब्धव्यम् । यदि तु पञ्चकं प्रातिपदिकार्थः इत्यनाश्रित्य कारक विभक्त्यर्थ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोत्तत्वान्न द्वितीयादिविभक्ति. प्रसक्तिः। एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः 'अनभिहिते' इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिवि. स्तरस्तु मञ्जूषायामनुसन्धेयः।
तथायुक्तं चानीप्सितम् । तथाशब्दस्य सादृश्यवाचकस्य प्रतियोगिसापेक्षत्वादाहईप्सिततमवदिति । पूर्वसूत्रे सन्निहितत्वादीप्सिततममेव सादृश्यप्रतियोगीति भावः । क्रिययेति । क्रियाजन्यफलयुक्तमित्यर्थः । पूर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम् । द्वेष्योपेक्ष्यसङ्ग्रहार्थमिदं वचनम् । तत्र उपेक्ष्यमुदाहरति-ग्रामं गच्छंस्तृणं स्पृशतीति । संयोगानुकूलव्यापारः स्पृशेरथः । अत्र स्पृश्यमानस्य तृणस्य ईप्सिततमत्वाभावेऽपि गङ्गां स्पृशतीत्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेखि क्रियाजन्यसंयोगात्मकफला. श्रयत्वात्कर्मत्वमिति भावः । द्वेष्यमुदाहरति-विषं भुङक्त इति । यदा कश्चिदलवता वैरिणा निगृह्यमाणो विषं भुङ्क्ते तदेदमुदाहरणम् । भुजेहि मुखे प्रक्षितस्य गलवि. वरप्रवेशानुकूलः हनुचलनादिव्यापारोऽर्थः। विषस्य देष्यतया ईप्सिततमत्वाभावे. अपि ओदनं भुक्त इत्यादौ भुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगल. विवरप्रवेशात्मकफलाश्रयत्वात् कर्मत्वमिति भावः । नच 'धातूपस्थाप्यफलशालि कर्म' इत्येवास्तु, किमीप्सितानीप्सितयोः पृथक् ग्रहणेनेति वाच्यम् , अग्नेर्माणवक
For Private and Personal Use Only