________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
तद्धित, शतेन क्रीतः शत्यः। समास, प्राप्तः आनन्दो यं स प्राप्तानन्दः । कचि. निपातेनाभिधानम् , यथा-'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।' साम्प्रत. मित्यस्य हि युज्यत इत्यर्थः । (५३८) तथायुक्तं चानीप्सितम् १०॥ धः । 'सत्त्वप्रधानानि नामानि' इति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यकबोधस्यैव सर्वसम्मतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहित. त्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शतेन क्रीतः शत्य इति । पटादिरिति शेषः 'शताच्च ठन्यतावशते' इति यत्प्रत्ययस्तद्धितः। अन कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया। समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः । 'गत्यर्थाकर्मक' इत्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थकर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्रासिकर्मीभूत इति बोधः ।
प्रायेणेत्यस्य फलं दर्शयति-कचिदिति । विषवृक्षोऽपीति असाम्प्रतमित्यत्रा. न्वेति । संवध्येत्यत्र छेसुमित्यत्र चान्वये द्वितीयापत्तेः । तत्र त्वद्विषवृक्षमिति गम्यते । न साम्प्रतमिति विग्रहे नन्तत्पुरुषः। युज्यत इत्थर्थ इति । यजियोगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् । 'युक्ते वे सा. म्प्रतं स्थाने' इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेतिभावः । वस्तुतस्तु।छेत्तुमिति तुमुन्नत्र दुर्लभः । कृष्णं द्रष्टुं यातीत्यत्रेव क्रियार्थक्रियोपपदत्वाभावेन 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इत्यस्याप्रवृत्तेः । 'शकएष' इत्यादिनापि तुमुन्न, शकादियोगाभावात् । किन्तु 'इच्छार्थेषु' इत्यनुवृत्तौ 'समानकर्तृकेषु तुमुन्। इति तुमुन्, अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तः। यथा इच्छति भोक्तुमित्यादि। एवं च तुमुनस्साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संवध्य छेत्तमिष्यत इति यत् तदसाम्प्रतम्-अयुक्तमित्यर्थः । एवं चात्रापि तिडाभिहितत्वादेव द्वितोया. निवारणात् तिङ्कृत्तद्धितसमासैरभिधानम् इति परिगणनवार्तिके प्रायेणेत्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पवमोदनं भुङ्क्त इत्यत्र तु पचिभुजि. क्रियानिरूपिते द्वे कर्मत्वशक्ती। तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्यया. भिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् ।
ननु यथा बहुपटुरित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात् कल्पवादयो न भवन्ति, तया क्रियते कटः इत्यादावपि तिडादिभिरुक्तत्वात् द्वितीयादयो न भवि. प्यन्ति, 'उक्तार्थानामप्रयोगः' इति न्यायात् । किंच कटं करोतीत्यादौ सावकाशा द्वितीया कृतः फटः इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः
For Private and Personal Use Only