________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
( ५३६ ) अकथितं च १।४।५१ ॥ अपादानादिविशेषैरविवक्षितं कारकं
कर्मसंज्ञं स्यात् ।
४१३
दुह्याचपचदण्ड्रुधिप्रच्छिचिब्रूशासुजिमधमुषाम् । कर्मयुक् स्यादकथितं तथा स्यानीहृकृष्वद्दाम् ॥
'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्म' इति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् ।
चारयतीत्यत्र हि 'वारणार्थानामीप्सितः' इति माणवकस्यापादानत्वं प्राप्तं तन्निवृस्वर्थं 'कर्तुरीप्सिततमम्' इति वक्तव्यमेव । एवंच द्वेष्योदासीनसङ्ग्रहार्थं ' तथायुक्तं च' इति सूत्रमावश्यकमित्यस्तां तावत् ।
"
अकथितं च । अकथितशब्दं व्याचष्टे - अपादानादिविशेषैरिति । अपादानं सम्प्रदानम् अधिकरणं कर्म करणं कर्ता हेतुः इति कारकसप्तकम् । तदेतद्यदा अपादानत्वादिविशेषात्मना न विवक्षितं, किन्तु सम्बन्धसामान्यात्मनैव तदा तत्कर्मसंज्ञकमित्यर्थः । ननु नटस्य शृणोति इत्यत्र नटसम्बन्धि श्रवणमित्यर्थके नटस्यापि कर्मत्वं स्यात् । तस्य क्रियान्वयित्वेन कारकत्वात् वस्तुतः अपादानस्य सम्बन्धित्वेन विवक्षितत्वाच्चेत्याशङ्कय परिगणयति – दुह्याजिति । वार्तिकार्थं सङ्ग्रहश्लोकोऽयम् । अतो व्याचष्टे - दुहादीनामिति । दुह प्रपूरणे, टु याच याच्ञायाम्, डुपचष् पाके । दण्ड दण्डनिपातने चुरादिः । निग्रह इत्यर्थः, इह ग्रहणार्थकः । रुधिर आवरणे, प्रच्छ ज्ञीप्सायाम् । श्लोके प्रच्छीत्यत्रेकार उच्चारणार्थः । इका | निर्देशे तु 'ग्रहिज्या' इति -सम्प्रसारणप्रसङ्गात् । चिञ् चयने, ब्रून् व्यक्तायां वाचि, शासु अनुशिष्टौ, जि अभिभवे, मन्थ विलोडने, मुष स्तेये इति द्वादशानामित्यर्थः । चतुर्णामिति । णीञ् पापणे, हृञ् हरणे, कृष विलेखने, वह प्रापणे । इति चतुर्णामित्यर्थः । कर्मणा यद्युज्यते इति । कर्मयुमित्यस्य व्याख्यानमिदम् । करणे उपपदे कर्मणि वाच्ये 'सत्सूद्विष' इत्यादिना विविति भावः । यद्यपि
I
'दुहिया चिरुचिप्रच्छिभिक्षिचिणामुपयोग निमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ।
इति प्रकृतसूत्रस्थ लोकवार्तिके पचिमथिमुष्यादयो न पठिताः । तथापि चकारेण dsपि सङ्ग्राह्या इति कैयटः ।
गां दोग्धि पय इति । क्षरणानुकूलव्यापारः क्षारणपर्यायो दुहेरर्थः । क्षारणात्मकव्यापार प्रयोज्यक्षरणात्मकफलाश्रयत्वात्पयः कर्म । गौस्तु क्षरणे अपादानम् । तदपादानत्वमुपेक्ष्य सम्बन्धित्वात्मना गोर्विवक्षायां कर्मत्वमनेन भवति । ततश्च शेष
For Private and Personal Use Only