________________
Shri Mahavir Jain Aradhana Kendra
४१४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाष्छतं दण्डयति । व्रजमव
1
षष्ठीनिरासे द्वितीया भवति । तदिदमुक्तं प्रौढमनोरमायाम् - गोसम्बन्धि पयःकर्मकं दोहनमथं इति । तथाच न माषाणामश्नीयादित्यत्रेव शेषत्वविवक्षायां प्राप्तां पष्ठीं बाधितुमिदं सूत्रम् । गोरपादानत्वविवक्षायां तु पञ्चम्येव - गोः पयो दोग्धीति । गोसकाशात् पयः क्षारयतीत्यर्थः । यदि तु गौः पयोविशेषणं तदा षष्ठयेव । गोस म्बन्धि यत्पयः तत् क्षारयतीत्यर्थः । एवमग्रेऽप्यूह्यमिति प्राचीनमतानुसारी पन्थाः । वस्तुतस्तु अपादानत्वादिविशेषरूपेणाविवक्षितं किन्तु कर्मत्वेनैव विवक्षितम् अकथितम् । तादृशमपादानादि कर्मसंज्ञकं स्यादित्यर्थः, कारकत्वव्याप्यसंज्ञानां स्वबोध्ये कर्मत्वादिशक्तिमत्त्वबोधकत्वात् बोधोऽपि तथैव । एवं च गां दोग्धि पयः इत्यत्र गोकर्मकं पयःकर्मकं च दोहनमित्येव बोधः । अवधेः सकाशाद्रवद्रव्यविभागो हि क्षरणम् । तच्च गोपनिष्टव्यापार प्रयोज्यम् । एवञ्च कर्तृव्यापारप्रयोज्यक्षरणात्मकविभागविशेषाश्रयत्वात् गोः पयसश्च पूर्वसूत्राभ्यां कर्मत्वमस्त्येव । अतः उभयकर्मकबोध एव युक्तः, नतु संबन्धित्वेन गोर्बोधः । अत एव प्रकृतसूत्रभाष्ये 'अकथितम्' इत्यनेनैव सिद्धत्वात् पूर्वसूत्रद्वयस्य वैयर्थ्यमाशङ्कय ईप्सितमात्रस्याप्यनेन कर्मसंज्ञायां 'वारणार्थानाम्' इत्यस्यानवकाशतया अग्नेर्माणवकं वारयतीत्यत्र माणवकस्याप्यपादानसंज्ञायां प्राप्तायां 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । ततश्च द्वेष्योपेक्ष्य सङ्ग्रहाय ' तथायुक्तं चानीप्सितम्' इत्यारब्धव्यमिति समाहितम् - 'एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन । तत्रेप्सितस्य किं स्यात् प्रयोजनं कर्मसंज्ञायाः ॥
यन्त कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम् । ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन' ॥
इति श्लोकद्वयेनेति शब्देन्दुशेखरे स्थितम् । 'एतेन कर्मेत्यादिभाष्यार्थस्तु कैय भाष्यप्रदीपोयोते च स्पष्ट इत्यास्तां तावत् ।
1
वलं याचते वसुधामिति । हरिरिति शेषः । बलिर्नामासुरविशेषः । मह्यं देहीति प्रार्थना याचेरर्थः । दानानुकूलो मह्यं देहीति शब्दप्रयोगरूपव्यापार इति यावत् । बलिकर्तृकं वसुधाकर्मकं दानं प्रार्थयत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नव्याः । प्रार्थना रूपव्यापारजन्यदाने जनकतया आश्रयत्वात् । बलिसम्बन्धि यद्वसुधाकर्मकं दानं तत् प्रार्थयत इत्यर्थ इति तु प्राचीनाः । अविनीतं विनयं याचत इति । अभ्युपगमप्रार्थना याचेरर्थः । यदा कश्चिद्बलवान् अविनीतः दुर्बलं कञ्चिद्रबाधते तदा दुर्बलमधिकृत्येदं वाक्यं प्रवृत्तम् | अविनीतकर्तृकं विनयकर्म कमभ्युपगमं प्रार्थमत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नवीनाः । अविनीतसम्बन्धिनमभ्यु
For Private and Personal Use Only