________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४१५
-
रुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोतु फलानि । माणवर्क
पगममिति तु प्राचीनाः । तण्डुलानोदनं पचतीति। विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनजनितप्रशिथिलावयवकत्वात्मकं मृविशदत्वं विक्लित्तिः । तया मोदनाख्यद्रव्यान्तरं प्रकृतिभूतेषु तण्डुलेषु समवेतं निष्पद्यत इति स्थितिः । तत्र शिथिलावयवसंयोगविशेषात्मिका विक्लित्तिः समवायसम्बन्धेन तण्डुलेषु वर्तते । ओदने तु जन्यजनकभावेन वर्तते । तण्डुलैः प्रकृतिभूतैः ओदनं करोतीत्यर्थः । तण्डुल. समवायिकारणिकां तत्समवेतामोदनजनिकां विक्लित्तिं निर्वतयतीत्यर्थः । तत्र व्यापारफलं विक्लिति प्रति जन्यतया आश्रयत्वात् ओदनः प्रधानं कर्म । ताहशौदनजनिकां विक्लित्तिं प्रति समवायित्वेनाधारत्वात्। तण्डुलानां गुणकर्मत्वमिति तद्विवक्षायां द्वितीया। तण्डुसम्बन्धिनीमोदनजनिकां विक्लित्ति निर्वतयवी त तु प्राचीनाः।
गर्गान् शतं दण्डयतीति । दण्डधातुः ग्रहणानुकूलव्यापारार्थकः । ताडनादिना गर्ग। भ्यः सुवर्णशतं गृह्णातीत्यर्थः। ताडनादिव्यापारप्रयोज्यग्रहणविषयत्वात् शतं प्रधान कर्म । गर्गाणां तु तद्ग्रहणावधित्वात् गुणकर्मत्वम् । ग्रहणं हि परकीयद्रव्यस्य परस्वत्वानिवृत्तिपूर्वक स्वीकरणम् । तत्र स्वत्वविश्लेषे गर्गाणामवधित्वादपादानत्वम् , ग्रहणघटकतादृशविश्लेषप्रतियोगिभूतस्वत्वाश्रयत्वात् कर्मत्वं च । तत्रापादानत्वमा नादृत्य कर्मत्वविवक्षार्या द्वितीया। गर्गसम्बन्धिकमिति तु प्रायः। व्रजमवरुणद्धि गामिति । निर्गमप्रतिबन्धपूर्वकयस्किञ्चिदधिकरणकचिरस्थित्यनुकूलबन्धनद्वारकपिधानादिव्यापारो रुधेरर्थः। गां निर्गमप्रतिबन्धपूर्वक बजे चिरस्थितिका करोतीत्यर्थः । अन चिरस्थिति प्रति घजस्याधिकरणत्वमुपेक्ष्य गोद्वारा तस्थित्याश्रयतया कर्मत्व. विवक्षायां द्वितीया । व्रजसम्बन्धिनं गोकर्मक चिरस्थित्यनुकूलव्यापारं करोतीत्यर्थ इति प्राचीनाः । माणवकं पन्थानं पृच्छतीति । जिज्ञासितव्यार्थज्ञानानुकूलः केन पथा गन्तव्यमित्यभिलाषादिरूपव्यापारः पृच्छरर्थः। तत्र विषयतया ज्ञानरूपफलाश्रयत्वात् पन्थाः प्रधानकर्म । तज्ज्ञानं प्रति जनकतया आश्रयत्वात् माणवको गुणकर्म । माणव. केन पन्थानं ज्ञातुमिच्छतीत्यर्थः । अत्र माणवके करणत्व मुपेक्ष्य कर्मत्वविवक्षायां द्वितीया। पथिविषयक माणवकसम्बन्धि ज्ञानमिच्छतीत्यर्थ इति प्राञ्चः। वृक्षमवचिनोति फलानीति । वृक्षात् प्रच्याव्य फलान्यादत्त इत्यर्थः। प्रच्याव्यादानानुकूलव्यापारो लो. टप्रहारादिरूपः अवपूर्वकचिम्धातोरर्थः। तत्र प्रच्याव्यादानविषयत्वात् फलानि प्रधा. नकर्म प्रच्यवावधित्वावृक्षोऽपादानम् । तस्यापादानत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया, वृक्षस्य फलप्रच्यवाश्रयत्वेन कर्मत्वात् प्रच्यवस्य विभागस्य द्विनिष्ठत्वात् । वृक्षसम्बन्धि यत् प्रच्युतफलादानं तत् करोतीत्यर्थ इति प्राचीनाः। माणवकं धर्म
For Private and Personal Use Only