________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१६
सिद्धान्तकौमुदी
[ कारक
धर्म ब्रूते - शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधि मथ्नाति । देवदत्तं शतं मुष्णाति । प्राममजां नयति - हरति- कर्षति - वहति वा । अर्थनिबन्धनेयं ते शास्ति नेति । बोधनानुकूलव्यापारः 'चोदनालक्षणोऽर्थो धर्म' इत्यादिशब्दप्रयोगामको ब्रूनोsर्थः । माणवकाय धर्म बोधयतीत्यर्थः । व्यापारप्रयोज्यबोधविषयत्वार्मः प्रधानकर्म । बोधविषयेण कर्मणाऽभिप्रेयमाणत्वान्माणवकः सम्प्रदानम् । तस्य सम्प्रदानत्वमुपेक्ष्य धर्मद्वारा बोधाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । धर्मविषयक 'माणसम्बन्धिनं बोधं जनयतीत्यर्थं इति तु प्राञ्चः । शासेस्तु धर्म कुर्वित्यादिविधिघटितशब्दप्रयोगरूपो, बोधनानुकूलव्यापारोऽर्थः । इतरत् प्राग्वत् ।
`शत जयति देवदत्तमिति । जि अभिभवे । ग्रहणानुकूलताडनादिव्यापारो जयतेरथः । गर्गान् शतं दण्डयतीतिवद्व्याख्येयम् । सुधां क्षीरनिधि मध्नातीति । मन्य विलोडने । द्रवद्रव्यगतसारोद्भवनानुकूलः मन्थानदण्डभ्रमजनितसङ्क्षोभात्मक आल्फालनपर्यायो व्यापारो मन्थेरर्थः । क्षीरोदधेः सकाशात् सुधां मन्थानदण्डभ्रमणेनोद्वावयतीत्यर्थः । व्यापारप्रयोज्योद्भवाश्रयत्वात् सुधा प्रधानकर्म । क्षीरोदधिस्तु उद्भवं प्रत्यपादानम् । तस्यापादत्वमुपेक्ष्य सुधाद्वारा उद्भवाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । सुधाश्रयं क्षीरोदधिसम्बन्धिनम् उद्भवं करोतीत्यर्थ इति तु प्राचीनाः । देवदत्तं शतं मुष्णातीति । अपश्यति देवदत्ते तदीयं सुवर्णशतं तस्मादपनीयादत्त इत्यर्थः । परस्वामिकद्रव्यस्य स्वामिनः सकाशादपनीयादानानुकूलः स्वाम्यज्ञातो निशासञ्चारभित्तिच्छिद्रकरणादिरूपव्यापारो मुषेरर्थः । व्यापारप्रयोज्यापनयनपूर्व कादानाश्रय. त्वाच्छतं प्रधानकर्म । अपनयनावधित्वाद्देवदत्तोऽपादानम् । अपादानत्वमनाहत्यापनीयादेयद्रव्यस्वामितया देवदत्तस्यापनीयादानाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । शतकर्मकं देवदत्तसम्बन्ध्यपनीयादानं करोतीत्यर्थ इति तु प्राञ्चः । ग्राममजां नयतीति । ग्रामे अजां प्रापयतीत्यर्थः । णीञ् प्रापणे । देशान्तरसंयोगानुकूलश्चलनगमपर्यायो व्यापारः प्राप्तिः । नतु देशान्तरसंयोगमात्रम् । ग्रामं प्रति चलनदशायामेव . प्राप्नोति गच्छतीति प्रयोगदर्शनात् । चलनेन संयोगे जाते अजा ग्रामं गता प्राप्ते. त्येव दर्शनात् । तादृशप्राप्त्यनुकूलो दण्डोद्यमनमार्गान्तरगतिप्रतिबन्धपूर्वकयोग्यमासंयोजनादिरूपव्यापारो नीधातोरर्थः । एतादृशव्यापार प्रयोज्यग्रामसंयोगतदनुकूलगमनोभयाश्रयत्वादजा प्रधानकर्म । तादृशाजाधारत्वात् ग्रामोऽधिकरणम् । अधिकरणत्वमनादृत्य ग्रामस्यापि तथाविधसंयोगाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । अजाकर्मकं ग्रामसम्बन्धि नयनमित्यर्थं इति तु प्राचीनाः । एवमेव ग्रामम् अजां हरति कर्षति वहतीत्यपि व्याख्येयम् । तत्र देशान्तरसंयोगानुकूलम् अजाचलनं वाहकद्वारकं, तादृशचलनानुकूलव्यापारः स्कन्धग्रहणादिरूपो हरतेरर्थः । रज्जुबन्धनादिना
।
For Private and Personal Use Only
"