SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पू७६ सिद्धान्तकौमुदी [बहुव्रीहिसमास स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा। शत्रुपर्यायात्सपत्नशब्दाच्छाङ्गरवा. दिस्वान्कोन्येका । समानः पतिर्यस्या इति विप्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिजो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आययोः शिवायण। सपत्न्या अपत्यं सापत्नः। तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तर पदलक्षणो ण्य एव, न त्वम्। शिवादी रूढयोरेव ग्रहणात् । सापत्यः । अग्निसम्बन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । . ___ सपस्नीशब्दस्त्रिधेति । व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति । 'रिपौ वैरिसप. बारिद्विषद्वेषणदुहृदः" इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशेषनिमित्तकमित्यर्थः । 'पतित्वं सप्तमे पदे' इत्यादि. स्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः । 'नित्यं सपत्न्यादिषु' इति निपातनात् सभावः, ङीप, नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिवि. धानादिति भावः । 'पति म धवः इति कोशादिति भावः । आद्ययोरिति । शत्रुपर्याय सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत्न इति । सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण्' इत्यणि आद्यस्य सपत्नीशब्दस्य भाषितपुंस्कतया पुंवत्त्वे डीनो निवृत्तौ सापत्न इति रूपम् । नतु नकारस्यापि निवृत्तिः शत्रुपर्यायसपत्न. शब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वाभावात् , द्वितीयस्य तु सपत्नीशब्दस्य डीब्नत्वाभ्याम् उत्पन्नस्य शिवायणि कृतेभाषितपुंस्कत्वाभावात्, न पुंवत्वम् किन्तुडीपो 'यस्येति च' इति लोपे सापत्न इति रूपम्। सतितु पुंवत्त्वे डीब्नकारयोः निवृत्तौ सापत इति स्यात् । तृतीयास्विति। स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपत्नीशब्दात् पत्युत्तरपदलक्षणो ण्य एवेत्यन्वयः। सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इति ण्य एवेत्य. न्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत आह-लिङ्गविषिष्टपरिभाषयेति । एक्श. ब्दस्य व्यावर्त्यमाह-न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवायण अपवाद इत्यत आह-शिवादौ रूढयोरेवेति । सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विवाहकर्तरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयौगिकः शिवादौ रूढयोरेव ग्रहणम् , नतु केवलयौगिकस्य, योगाढेर्बलत्वादिति भावः। ततः किमित्यत आह-सापत्य इति । स्वामिपर्यायपतिशब्दघटितसपत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्वे सति For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy