________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता ।
५७५
शुक्लता । गुणवचनस्य किम् । का भावः। कत्रीत्वम् । 'शरदः कृताता' इत्या. दौ तु सामान्ये नपुंसकम् । 'भस्याढे तद्धिते' (वा ३९२८)। हस्तिनीनो समूहो हास्तिकम् । अढे किम् । रौहिणेयः । 'स्त्रीभ्यो ढक्' (सू ११२३) इति ढोऽत्र गृह्यते। 'अग्ने ढंक' (सू १२३६) इति ढकि तु पुंवदेव । अग्नायी देवता अस्य
त्वतलोरिति । त्वप्रत्यये तलप्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्य. मित्यर्थः । कत्रीत्वमिति । कौशब्दस्य क्रियानिमित्तत्वान्न गुणवचनत्वमिति भावः । 'आकडारात्' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्' इति सूत्रभाष्यस्थं 'सत्त्वे निविशते. ऽपैति' इत्यदि गुणलक्षणं तु नात्र प्रवर्तते। अत एव 'एकतद्धिते च' इति सूत्रभाष्ये एकस्याः भावः एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाभावात् त्वतलोगुणवचनस्य इत्यप्राप्त पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते। सखीत्वमित्यादि तु असाध्येवेति शब्देन्दुशेखर विस्तरः । ननु कृतः अर्थः कृत्यं यया सा कृतार्था, तल्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम्। कृतार्थशब्दस्य समासत्वेन उक्तगुणवचनत्वाभावादिस्यत आह-शरद इति । दृढभक्तिरित्यत्रानुपदोक्तरीत्या कृतः अर्थी येन तत् कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात् तल्प्रत्ययो व्युत्पाद्य इति भावः । भस्याढे ति । ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वं वक्तव्यमि. त्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति । 'तस्य समूहः' इत्यधिकारे 'अचित्तहस्तिधेनोः' इति उक् । ठस्येकः। पुंवत्त्वे सति नान्तलक्षणडीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्वाभावेऽपि 'यस्येति च' इति ईकार: लोपे टिलोपे च हास्तिकमिति सिद्धमिति वाच्यम् । 'यस्य' इति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाभावेन टिलोपानापत्तेः। 'उक्छसोश्च' इति पुंवत्त्वादेव सिद्धिस्त्वनाशङ्कया । छसः साहचर्येण 'भवतष्ठक्छसौ' इति उक एव तत्र ग्रहणात् । रौहिणेय इति । 'वर्णादनुदात्तात्' इति रोहितशब्दात् डीप तकारस्य नका. रश्च । रोहिण्याः अपत्यमित्यर्थे 'स्त्रीम्यो ढक्', एयादेशः 'भस्या इति पुंवत्त्वे डीडनकारयोः निवृत्तिः स्यादिति भावः । गृह्यत इति । व्याख्यानादिति भावः । अग्नायोति । अग्नेः स्त्री अग्नायी। 'वृषाकप्यग्नि' इति डीप। अग्नेरिकारस्य ऐकारादेशः । अग्नायी देवता अस्येत्यर्थे 'अग्नेढंक' इति ढक् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ततो ढस्य ,एयादेशः पुंवत्त्वे सति डीबत्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आग्नेय इति रूपम् । पुंवत्त्वनिषेधे तु आम्नायेय इति स्यादिति भावः । वस्तुतस्तु अग्नित्वं पुंसि प्रवृतिनिमित्त, स्त्रियां तु
For Private and Personal Use Only