________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
फलं तु 'आदित्यो देवता अस्यैत्यादित्यं हविः' इत्यादी । 'यमां यमि' इति यथासख्यविज्ञानान्नेह । माहात्म्यम् । (६१) एचोऽयवायावः ६ |१|७८ ॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि । (६२) तस्य लोपः १|३|६|| तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः पावकः । [' यस्मिन् विधिस्तदादावत्प्रहणे' | सप्तम्यन्ते अल्प्रहृणे विशेषणीभूते यो विधिरारभ्यते स तदादौ ज्ञेयः । येन विधिरित्यस्यापवादः । (६३) वान्ता यि प्रत्यये ६ १२७६॥ यकारादौ प्रत्यये परे
४६
I
अतः सूत्रारम्भो न विफल इति भावः । अत्र 'आपत्यस्य च तद्धितेऽनाति' इति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाभावात् । अत्र त्वेतत् सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थे 'गुणवचनब्राह्मणादिभ्यः' इति प्याज टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात् यकाररूपम्परकत्वाच्चेत्यत आह - यमामिति । यथा सङख्य विज्ञानादिति । विज्ञायते अनेनेति विज्ञानं सूत्रम् । 'विज्ञानं शिल्पशास्त्रयोः' इत्यमरः । यथासङ्ख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभात् यकारे परे न लोप इत्यर्थः । एचोऽयवायावः । अयूच अबूच आय्च आवचेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासङ्ख्यपरिभाषया एकारस्य अय्, ओकारस्य अबू, ऐकारस्य आयू, औकारस्य आव्, इति लभ्यते । तदाह-एचः क्रमादिति । यथासङ्ख्यसूत्रभाष्यरीत्या तु अन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह इचोऽचि यणयवायाव इत्येव सूत्रयितुमुचितम् । एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमिति इत्संज्ञायां लोपमाशङ्कितुमाह-तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितम् इतं परामृशति । तदाह-तस्येत इति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह-- उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्, तर्हि तयोः सूत्रे अनुच्चारणमेव स्यात्, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह- एवन्चेति । उक्तप्रकारेण लोपाभावे सति इत्संज्ञापि इह यकारे वकारे च न भवति, फलाभावादित्यर्थः । क्रमेणोदाहरति - हरय इत्यादिना । हरे ए, विष्णो ए, नै अकः, पौ अक इति स्थितेषु एंकारादीनां क्रमादयादयः ।
वान्तो यि प्रत्यये । यि इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते, 'यस्मिन्विधिस्तदादावग्रहण' इति वार्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः सः तद्वर्णादौ ज्ञेय इति तदर्थः ।
४ बा०
For Private and Personal Use Only