________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ स्वादिसन्धि
-
तपरकरणस्य तु न सामर्थ्यम् । दीर्घनिवृत्त्या चरितार्थत्वात् । 'अप्लुते' इति किम्। तिष्ठतु पय अग्निदत्त । 'गुरोरनृत-' (सू ९७) इति प्लुतः । (१६६) हशि च ६१।११४॥ अप्लुतादतः परस्य रोः उः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । 'देवास्' इह इति स्थिते । रुत्वम् । (१६७ ) भोभगोअघोअपूर्वस्य योऽशि ८३.१७॥ एतत्पूर्वकस्य रोर्यादेशः विशेषणं व्यर्थमेव स्यात्, दत्तेऽपि विशेषणे प्लुतस्यासिद्धतया अप्लुतात् परत्व. स्यापि सत्वेन उत्वप्राप्तिदोषतादवस्थ्यात् । अतः अप्लुतादिति विशेषणसामर्थ्यात् प्लुतस्य नासिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थम् । प्लुतात् परस्य रोः अत इति तपरकरणादेव उत्वनिवृत्तिसिद्धः। मच उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परत्वस्यापि सस्वादुत्वं स्यादिति वाच्यम्, तपरकरणसामथ्यो। देव प्लुतस्यासिद्धत्वाभावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तः सम्भवादित्यत आह-तपरकरणस्य तु न सामर्थ्यमिति । प्लुतस्यासिद्धत्वाभावसाधने इति शेषः । कुत इत्यत आह-दीर्घनिवृत्येति । देवा अत्रेत्यादौ दीर्घव्यावृत्या लब्धप्रयोजनकत्वादि. त्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुजानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि अत इति तपरकरणं देवा अत्रेत्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं कथं प्लुतस्यासिद्धत्वाभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय अवनिदत्तेति । अत्र पयस इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धृते. चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह-गुरोरिति।
हशि च । अतो रोरप्लुतादिति पदत्रयमनुवर्तते । रत उदित्यतः उदिति च तदाहअप्लुतादित्यादिना । शिवो वन्द्य इति । शिवस् वन्य इति स्थिते, सस्य रुः। तस्य अत्परकत्वाभावात् पूर्वसूत्रेण उत्वं न प्रासमिति वचन मिदम् । ननु प्रातरत्र भ्रातर्गच्छेत्यत्र रेफस्य अतो सेरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह-रोरित्युकारेति । उकारः अनुबन्धः इत् यस्य सः उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र भ्रातर्गच्छेत्यत्र रेफस्य उत्वं न भवति । प्रातर् इति हि रेफान्तमव्ययम् । न तत्र रेफः उकारानुबन्धवान् । भ्रातृशब्दात् सम्बुद्धिः, सुः, 'ऋतो कि सर्वनामस्थानयोः' इति ऋकारस्य गुणः अकारो रपरः, हल्ड्यादिना सुलोपः । अत्रापि न रेफ: उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह-देवास् इह इति स्थिते रुत्वमिति । भोभगो। रोस्सुपीत्यतो रोरित्यनु. वर्तते । भो भगो अघो अ इत्येषां द्वन्द्वः । एते पूर्वे यस्मादिति बहुव्रीहिः । पूर्वश
For Private and Personal Use Only