________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
पातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् । पुरुषो व्याघ्र इव शूरः । ( ७३६) विशेषणं विशेष्येण बहुलम् २|१| ५७ ॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् ।
तस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूत व्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह - विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिद. मित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृइयोपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः । पुरुषो व्याघ्र इव शुर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । 'भाष्याब्धिः क्वातिगम्भीरः" इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । नच पुरुषशब्दस्य शूरश• ब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः । अतः 'सामान्याप्रयोगे' इति व्यर्थमिति वाच्यम्, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामर्थ्य विघातकं, न तु प्रधानस्य । तथाचात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्य - मिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्वमिति ज्ञापयति । तेन राजपुरुषः सुन्दर इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।
विशेषणं विशेष्येण बहुलम् । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्वयावर्तकम् । व्यावर्त्य तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाहभेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति । नील• पदं तावदुत्पलमनीलादुत्पलाद्वयावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्यसमर्पण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः । नच उत्पलपदम् अनुत्पलानीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम्, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः, स्वभावात् । यथा - नीलोत्पलं, पाचकब्राह्मण इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा खञ्जकुब्जः कुब्जखअ इति । क्रियाशब्दयोरप्यनियमः । यथा- पाचकपाठकः पाठकपाचक इति । तथा गुणक्रियाश ब्दयोरप्यनियमः । यथा-खजपाचकः पाचकखज्ज इति भाष्ये स्पष्टम् । तथा कैलासाद्विः, मन्दराद्रिः, अयोध्यानगरी इत्यादौ सञ्ज्ञाशब्दा अपि विशेषणसमर्पका एव स्वभावात् । सामान्यजातिविशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । शिशपावृक्ष इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किम
For Private and Personal Use Only