SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४० सिद्धान्तकौमुदी [अलुक्समास युधिष्ठिरः । अरण्येतलिकाः । अत्र 'संज्ञायाम्। (सू ५२१) इति सप्तमीसमासः । 'हृद्युभ्यां च ( वा ३८८५)। हृदिस्पृक् दिविस्मृक् । (8६) कारनाम्नि च प्राचां हलादौ ६।३।१०॥ प्राची देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेदेति । कारनाम्नि किम् । अभ्याहित. पशुः । कारादन्यस्यैतदेयस्य नाम । प्राचाम् किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात् किम् । नयाँ दोहो नदोदोहः । (88) मध्याद्गुरो ६।३।११ ॥ मध्ये गुरुः । 'अन्ताच' ( वा ३८९०)। अन्तेगुरुः । (७०) अमूर्धमस्तकात्स्वाङ्गादकामे ॥३॥१२॥ कण्ठेकालः । उरसिलोमा। अमू. धमस्तकात् किम् । मूशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः । (१७१) बन्धे च विभाषा ६।३।१३॥ हलदन्तात्सप्तम्या अलुक् । हालुगित्यत आह-अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे विपि युधशब्दात् सप्तम्येकवचनम् । हलन्तत्वादलुक् , षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति-अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात् कथं तेन सप्तमीसमास इत्यत आहअत्र सञ्ज्ञायामिति । युद्भ्यां चेति । हृच्छब्दात् दिवशब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असज्ञार्थमिदम् । हृदिस्पृगिति । 'पहन्' इति ङौ हृदयस्य हृदादेशः, हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्धि. धानबलादेव कर्मणि सप्तमीति भाष्यम् । 'अमूर्धमस्तकात्' इत्यनेन त्वलुक् न सिध्यति, तत्र सज्ञायामित्यनुवृत्तेः। ___ कारनाम्नि । यत् कारनामेति । राजपाद्यो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः। नियमार्थमिति । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव, कारनाम्नि हला. दौ चेत् पाचामेव, प्राचां कारनाम्नि चेत् हलादावेवेति नियमत्रयार्थमित्यर्थः। अविकटोरण इति । अविशब्दात् सङ्घाते कटच् , उरणो मेषः । नथामिति । नद्युत्तारणे तात्कालिको दोहः करः । मध्याद्गुरौ। गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक् स्यात् गुरौ परे इत्यर्थः। अमूर्धमस्त. कात् । मूर्धमस्तकशब्दवजितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र सज्ञायामित्यनुवर्तते । अत एव 'हृद्युभ्यां च' इत्यत्र हृदूग्रहणमर्थवत् । कण्ठे काल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एवं ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः। बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy