________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता ।
૧૭
नापञ्चमः ।
'जनार्दनस्त्वात्मचतुर्थ एव इति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् । (६६४) वैयाकरणाख्यायां चतुर्थ्याः ६।३।७ ॥ आत्मनः इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थी । चतुर्थी इति योग. विभागात्समासः । (६५) परस्य च ६ ३८ ॥ परस्मैपदम् । परस्मैभाषा । (६६) हलदन्तात्सप्तम्याः संज्ञायाम् ६।३।९ || हलन्ताददन्ताच्च सप्तम्या अलुक्संज्ञायाम् | त्वचिसारः । ( 8६७) गवियुधिभ्यां स्थिरः ||६५ ॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवोति वचनादेवालुक् । ति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः - जनार्दनस्त्वात्मचतुर्थ एवेति । तत्र तृतीयाया अलुकि आत्मनाचतुर्थं इति भवितव्यमित्यत आह- जनार्दन - स्त्विति । बहुव्रीहिरिति । आत्मा चतुर्थो यस्येति विग्रहे बहुब्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेदं परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः । तदिदं भाष्ये स्पष्टम् ।
वैयाकरणाख्यायाम् । आत्मन इत्येवेति । अनुवर्तत एवेत्यर्थः । न च 'आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यम् । 'सोऽपदादौ' इति सूत्रे पठितस्य 'काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्ष:' इति सूत्रेऽनुवृत्तिवदुपपतेः । व्याकरणे भवा वैयाकरणी सा चासावाख्या च वैयाकरणाख्यातस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनैभाषेति । पूर्वाचार्यकृतमात्मनेपदस्य सज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थे चतुर्थीति । तथा चात्मने इत्यस्यात्मार्थमित्यर्थः । आत्मगामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादयें चतुर्थ्याः, समास इत्यत आह-चतुर्थीति योगविभागादिति । पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम् । परस्य च । वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या अलुगित्यर्थः । इलदन्तात् । स्वचिसार इति । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । 'वंशे त्वक्सारकर्मारत्वचिसार तृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति - युधिष्ठिर इति । अत्र 'अजिरशिशिर स्थिर' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः । तत्र 'आदेशप्रत्यययोः' इति पत्वस्य 'सात्पदाद्यो:' इति निषेधे प्राप्ते इदमारभ्यते -गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठ्यर्थं । 'सदेः साडः सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह — श्राभ्यामिति । ननु 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया अवादेशात् पूर्वमेव बेलुकि प्रवृत्ते हलन्तत्वाभावात् कथमि
For Private and Personal Use Only