________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अलुक्ससमास
-
सहोऽम्भस्तमसस्तृतीयायाः ६।३।३ ॥ ओजसाकृतमित्यादि । 'अञ्जस उपसङ्ख्यानम्' ( वा ३८८०) । अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । पुंसा. नुजो जनुषान्ध इति च' (वा ३८८१)। यस्याप्रजः पुमान्स पुंसानुजः। जनु. षान्धो जात्यन्धः । (४६१) मनसः संशायाम् ६३।४॥ मनसागुप्ता । (६६२) माझानि च ६।३।५ ॥ मनसः इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी । (६६३) आत्मनश्च ६॥३॥६॥ आत्मनस्तृतीयाया अलुक्स्यात् । 'पूरण इति वक्तव्यम्' (वा ३८८२)। पुरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्म.
अम्भस् , तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादोति । सहसाकृतम् , अम्भसाकृतम् । तमसावृत्तम् । तमोवृत. मिति तु असाध्वेव । शेषषष्ठया वा समासः । अअस उपसङ्खथानमिति । अञ्जशब्दात् तृतीयाया अलुक उपसन्यानमित्यर्थः । अन्जसाकृतमिति । अञ्जशब्दः आर्जवे वर्तते. यथा क्षेत्रज्ञोऽजसा नयतीत्यादौ तथा दर्शनात् । तदाह-आर्जवेनैति । पुंसानुजः । तृतीयाया अलुकि साधुरिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति । 'जनुर्जननजन्मानि' इत्यमरः । जनुषा जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह-जात्यन्ध इति । ब्राह्मण्यादिजातितुल्यान्ध्यवानि. त्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।
मनसः सन्शायाम् । मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्याश्चित् सम्झयम् । असञ्ज्ञायां तु मनोगुप्ता । आशायिनि च । मनस इत्येवेति । अनु. वर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यात् आज्ञायिनि परे इत्यर्थः । असज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाज्ञायीति । 'सुप्यजातौ इति णिनिः । 'आतो युक्चिण्कृतोः' इति युक । अत्र सूत्रभाष्ये 'आत्मनश्च पूरणे उपसङ्ख्यानम्। इति वार्तिकं पटितम् । तत्रात्मनश्चेत्यंशं व्याख्यातं पृथगुपादत्ते-आत्मनश्चेति । चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह-प्रात्मनस्तृतीयाया अलुगिति । उत्तरपदे परे हति शेषः । पूरण इति वक्तव्यमिति । नात्र पूरणशब्दो गृह्यते । किन्तु स्व. रितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् 'प्रत्ययग्रहणे' इति तदन्तविधिरित्य. भिप्रेत्याह-पूरणप्रत्ययान्ते इति । आत्मनापञ्चम इति । आत्मा पञ्चम इत्यर्थः । प्रकृत्या दित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया। किरोतिक्रियान्तर्भावेण तस्याः तृतीया तत्कृता' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु सङ्कर्षणप्रक्षुम्नानिरुद्धास्त्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्ते
For Private and Personal Use Only