________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता।
-
अथालुक्समासप्रकरणम् ।। २४॥ (५८) अलुगुत्तरपदे ६।३।१ ॥ अलुगधिकारः प्रागानः, उत्तरपदा. धिकारस्त्वापादसमाप्तेः । (848) पञ्चम्याः स्तोकादिभ्यः ६॥३॥२॥ एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तरपदे किम् । निष्क्रान्तः स्तोकानिस्स्तोकः । 'ब्राह्मणाच्छंसिन उपसङ्ख्यानम्' (वा ३८७८) । ब्राह्मणे विहितानि शस्त्राण्युपचाराद्ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चमी उपसङ्ख्यानादेव । (६०) भोज:.. अथालुक्समासो निरूप्यते -अलुगुत्तरपदे । नायं विधिः, राजपुरुष इत्यादावति. प्रसङ्गात् , 'पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किन्तु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्यत आह-अलुगधिकारः प्रागानङ इति । 'आनङतः इत्यतः प्रागित्यर्थः । उत्तरपदेति षष्ठस्य तृतीये पादे आद्यमिदं सूत्रम्। इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकाररा इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरपदशब्दः समासचरमावयवे रूढः, पदे इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः । 'स्तोकान्तिकदरार्थकृच्छाणि क्तेन इति समासः । अत्र पञ्चम्या अलुक । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः विप्रकृष्टादागतः, कृच्छ्रादागतः। निस्स्तोक इति। 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुक् न । स्तोकान्मुक्तः इत्यादौ समासप्रयोजन तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगाभावश्च । किञ्च, स्तोकान्मुक्तस्यापत्यं स्तोकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्ती, स्तोकान्मुक्ताः इति द्विबहुववनान्तैन समासः, अनभिधानादिति भाष्ये स्पष्टम् ।
ब्राह्मणाच्छंसिन उपसङ्ख्यानमिति । पञ्चम्या अलुक् इति शेषः । नानु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राह्मणशब्देनोच्यन्ते, कर्मचोदना ब्राह्मणानि इति कल्पसूत्रात् , शेषे ब्राह्मणशब्दः' इति मन्त्रभिन्नवेदभागे ब्राह्मणशछदस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राह्मणभागस्य न कापि शंसनं विहितम्ऋचा शंसति निविदः शंसति' इति श्रुतिष्वित्यत आह-ब्राह्मणे इति । शस्त्राणीति । ऋचा निविदां च सधः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चन्या अलुगुपसल्यानबलादेव द्वितीयाथे पञ्चमीत्यर्थः । प्रोजस् । ओजल, सहस,
For Private and Personal Use Only