________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सर्वसमासान्त
पूजनात् किम् । गामतिकान्तोऽतिगवः । 'बहुव्रीही सक्थ्यक्ष्णो:--' (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः। (५५) किमः क्षेपे । ५४७०॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः । (५६) नअस्तत्पुरुषात् ५।४।७१॥ समासान्तो न। अराजा। असखा । तत्पुरुषात् किम् । अधुरं शकटम् । (५७) पथो विभाषा ५ । ४ । ७२ ॥ नम्पूर्वात्पथो वा समासान्तः । अपथम्-अपन्थाः । तत्पुरुषात् इत्येव । अपथो देशः । अपथं वर्तते।
इति सर्वसमासान्तप्रकरणम् ।
-
राजन शब्दः तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः । नेहेति । निषेध इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः' इति . समासः । अतेः पूजनार्थकत्वाभावात् न टचो निषेधः । एवं परमराज इत्यत्रापि । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम्' इति वार्तिकार्थसङ्ग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु शोभने सक्थिनी यस्य, सु शोभने अक्षिणी यस्येति च विग्रहः । 'बहु. वीही सक्थ्यक्ष्णोः' इति षच् । किमः क्षेपे । किंराजा । किंसखेति । इह 'राजाहस्सखि. भ्यः' इति टच न भवति । 'कि क्षेपे' इति समासः । किंराजः किंसखः इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः । निन्दानवगमात् न टचो निषेधः ।
नमस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्टे-समासान्तो नेति । नम्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नम्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् 'ऋक्पू:' इति समासान्तस्य न निषेधः। पथो विभाषा। पथ इति । पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नन्तत्पुरुषः । 'ऋक्प:' इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः। 'पथः सङ्ख्याव्ययादेः इति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवे. त्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात् 'ऋकपूर इत्यप्रत्ययस्य पाक्षिकोऽपि न निषेधः । अपथं वर्तते इति । अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वात् 'ऋक्पू:' इत्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः।। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् ।
For Private and Personal Use Only