________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
श्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसङ्गं स्यात् । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा । लतलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य। इति स्थानानि । यत्नो द्विधा । आभ्यन्तरो बाह्यश्च ।
अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ आल्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसञ्जकं स्यादिति भावः । तदाह-ताल्वादिस्थानमित्यादिना। मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाक्षायां तद्वयवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णा. ति-अकुहेत्यादिना । अ इत्यष्टादशभेदा गृह्यन्ते । कु इति कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र अ इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तः । एवमग्रेऽपि कथञ्चित्समाधान बोध्यम् । अश्व कुश्च हश्च विसर्जनीयश्चेतिविग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः। इचुयशेति । इ इत्यष्टादश भेदाः। चु इति चवर्गः । इश्व चुश्च यश्च शश्चेति विग्रहः । तालु काकुदम् । ऋटुरषेति । ऋ इत्यष्टादशभेदाः । टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः । ऋशब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लतुलसेति । ल इत्यस्य द्वादश भेदाः। तु इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः । लशब्दस्यापि आ इत्येव प्रथमेकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणानुपपत्तेः । उपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः। उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । अमङणनैति । अश्च मश्च डच णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदेतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसन्देहार्थम् । नतु "तपरस्तत्कालस्य" इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्याङ्गत्वात. समाहारद्वन्द्वः एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसन्देहार्थमेव । कण्ठश्च ओष्ठौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः एकववद्भावो नपुंसकत्वं च। वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एक. वत्त्वं नपुंसकत्वं च । जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमने व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति एवं प्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः।
NORTHHTHHATHI
For Private and Personal Use Only