________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
आद्यतु । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र 'स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । विवृतमूष्मणां स्वराणां च' । ह्रस्वस्यावर्णस्य प्रयोगे
१३
ननु किमिह तुल्यास्यसूत्रे यत्किञ्चित्स्थानसाम्यं विवक्षितम्, उत यावत्स्थानसाम्यम् । न तावदाद्यः, तथा सति इकारस्य एकारस्य च चालुस्थानकतया सावर्ण्याप तौ भवत्येवेत्यत्र इकारादेकारे परे सवर्णदीर्घापत्तेः । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावर्ण्यमिति वाच्यम्, एकारपाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्त्यर्थत्वसम्भवात् । किञ्च वकारलकारयोर्दन्तस्थानसाम्येन सावर्ण्यपत्तौ 'तोर्लि' इत्यत्र लकारेण वकारस्यापि ग्रहणात् तद्वानित्यत्र दकारस्य परसवर्णापत्तिः । "यवलपरे यवला वा" इत्यत्र लकारग्रहणं तु यथासङ्ख्यार्थं भविष्यति । न द्वितीयः, तथा सति कल्योः कण्ठस्थानसाम्येऽपि ङकारस्य नासिकास्थानाधिक्येन सावर्ण्यभावापत्तौ "चोः कुः" "क्किन्प्रत्ययस्य" इत्यत्र ङकारस्य ग्रहणानापत्त्या प्राङ् इत्यादौ नुमो नकारस्य " क्विन्प्रत्ययस्य" इति कुत्वेन ङकारानापत्तेः । तस्मात्स्थानसाम्यं दुर्निरूपमिति चेत्, अत्र ब्रूमः - यावत्स्थानसाम्यमेव सावर्ण्यप्रयोजकम् । एवं च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावर्ण्यम् । वलयोश्च न सावर्ण्यम् । वकारस्य ओष्टस्थानाधिक्यात् । एवं च ' तद्वानासाम्' 'यजुष्येकेषाम्' इत्यादिनिर्देशा उपपन्नाः । ङकारस्य नासिकास्थानाधिक्येऽपि ककारेण सावर्ण्यमस्त्येव, आस्यभवस्थानसाम्यस्यैव सावर्ण्यप्रयोजकत्वात् नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तं च भाष्ये- 'किं पुनरास्यं लौकिकं ओष्ठात्प्रभृति प्राक्काकलकात् ' इति । 'कालको नाम चुबुकस्याधस्तात् ग्रीवायामुन्नतप्रदेशः' इति कैयटः । तस्मादास्यभवयावत्स्थानसाम्यं सावर्ण्यप्रयोजकमिति शब्देन्दुशेखरे विस्तरः ।
ननु तुल्यास्यसूत्रे प्रयत्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्व विशेषणं किमर्थम्, व्यावर्त्याभावादित्यत आह-यत्नो द्विति । यत्नानामाभ्यन्तरत्वं बाह्यत्वं च वणोत्पत्तेः प्रागूर्ध्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम् । श्राद्य इति । आभ्यन्तरयत्न इत्यर्थः । कथं चातुर्विध्यमित्यत आह-स्पृष्टेति । कस्य कः प्रयत्न इत्याकाङ्क्षायां तद्वयवस्थापक शिक्षावचनानि पठति तत्रेति । तेषु मध्य इत्यर्थः । प्रयतनमिति । प्रयत्न इत्यर्थः । स्पर्शादिशदान व्याख्यास्यति । ह्रस्वस्यावर्णस्य संवृतमित्यन्वयः । एतावदेव शिक्षावचनम् । नन्वेवं दण्ड आढकमित्यत्र अकारस्य आकारस्य च विवृतसंवृतप्रयत्नभेदेन सावर्ण्यभावात् सवर्णदीर्घो न स्यादित्यत आह- प्रयोग इति । शास्त्रीय प्रक्रियाभिः परिनिष्ठितानां रामः कृष्णः इत्यादिशब्दानां प्रयोगे क्रियमाण एव स्वस्यावर्णस्य
1
For Private and Personal Use Only