________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सिद्धान्तकौमुदी
[सज्ञा
संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि(११) अ अ | ६८ (इति) विवृतमनूद्य संवृतोऽनेन विधीयते । अस्थ चाष्टाध्यायी सम्पूर्णा प्रत्यसिद्धत्वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथा च सूत्रम् । (१२) पूर्वत्रासिद्धम् । १२।१५ अधिकारोऽयम् । तेन
संवृतत्वमित्यर्थः। प्रक्रियेति । शास्त्रीयकार्यप्रवृत्तिसमये तु हस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थः । शिक्षावचनसिद्धं स्वाभाविकं ह्रस्वावर्णस्य संवृतत्वं प्रच्याव्य शास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्नशास्त्रीयप्रक्रियासमये हस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाढकमित्यादौ सवर्णदीर्घादिकार्य निर्बाधमिति अइउणिति सूत्रभाष्ये स्पष्टम् । एवञ्च हस्वस्यावर्णस्य संवृतमिति शिक्षावचनं परिशे. षात् परिनिष्ठितदशायामेव पर्यवस्यतीति न तदानर्थक्यमिति भावः । अयं च शिक्षावचनसङ्कोचः सूत्रकारस्यापि सम्मत इत्याह-एतच्चेति । तदेवोपपादयितुं प्रतिजानीते-तथा हीति । यथा एतत् ज्ञापितं भवति तथा स्पष्टमुपपाद्यत इत्यर्थः । अ अ। व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम्। तत्र अ इति प्रथमं पदं विवृत. परं लुप्तषष्ठीकम् । द्वितीयं तु संवृतपरं लुप्तप्रथमाकम् । ततश्च शिक्षावचनसिद्धं स्वाभाविकं संवृतत्वं प्रच्याव्यं वर्णसमाम्नाये विवृतत्वेनोपदिष्टस्य अवर्णस्य संवृतः अवर्णो भवतीत्यर्थः। तदाह-विवृतमनूचेति । विधीयत इति । प्रतिप्रसूयत इत्यर्थः । ननु प्रक्रियादशायामप्येतत्सूत्रं कुतो न प्रवर्तत इत्यत आह-अस्य चेति । अस्य अ अ इति सूत्रस्य, स्वप्राक्तनी कृत्स्ना अष्टाध्यायी प्रति असिद्धत्वात् अविधमानत्वात् प्रक्रियादशायां विवृतत्वमस्त्येवेत्यन्वयः। ननु प्रक्रियादशायां हस्वाव. र्णस्य कथं स्वाभाविकात्संवृतत्वात् प्रच्यवः, कथं वा विवृतत्वम् , तस्य आकारादिधर्मत्वादित्यत आह-शास्त्रदृष्टथेति । असिद्धत्वमिह न वास्तवात्यन्तासत्त्वं विवक्षितम् । कि तहि अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविक्रस्य संवृतत्वस्यावर्णात् प्रच्यवः, नापि विवृतत्वं तस्य वास्तवम्, प्रक्रियार्थ विवृतत्वस्यारोपादिति भावः । ननु 'अ आ इति सूत्रस्य कृत्स्नामष्टाध्यायी प्रत्यसिद्धत्वे किं प्रमाण. मित्यत आह-तथा च सूत्रमिति। चो ह्यर्थे । तथा तेन प्रकारेण बोधर्क सूत्रमस्ति हीत्यर्थः । तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी। तत्र अष्टमाध्याये द्वितीयपादस्येदमादिम सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालं सपादसता. ध्यायीति व्यवहियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवहियत इति स्थितिः । तत्र यदीदं सूत्र स्वतन्त्रविधिः स्यात् , तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्त. माने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसताध्यायी प्रति
For Private and Personal Use Only