________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
कर्मणि ल्युट् । ( १०५४) वा भावकरणयोः ८|४|१०|| पानस्य इत्येव । क्षीरपानम् - क्षीरपाणम् । 'गिरिनद्यादीनां वा' ( वा ४९८९ ) गिरिनदी - गिरिणदी । चक्रनितम्बा- चक्रणितम्बा । (२०५५) प्रातिपदिकान्तनुम्विभक्तिषु च ८|४|११|| पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते - माषवापिणौ । नुमि- त्रीहिवापाणि विभक्तौ माषवापेण । पक्षे माषवापिनावित्यादि । 'उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्' ( वा ४९९० ) नेह |
६६५
देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावल्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह- पीयते इति । वा भावकरणयोः । इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानम् - क्षीरपाणामिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनित्रेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः । प्रातिपदिकान्त । पूर्वपदस्थादिति । 'पूर्वपदात्सज्ञायाम्' इत्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । 'वा भावकरणयोः' इत्यतस्तदनुवृतेरिति भावः । प्रातिपदिकान्ते इति । उदाहरणं वक्ष्यत इति शेषः । माषवापि - खाविति । माषान् वपते इति विग्रहः, 'बहुलमाभीक्ष्ण्ये' इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिनुशब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमीति । उदाहियत इति शेषः । व्रीहिवापाणीति । कृषीवल कुलानीति शेषः । व्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् 'जशसोशिश: ' 'नपुंसकस्य झलचः' इति नुमि 'सर्वनामस्थाने च' इति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्ताविति । उदाहियते इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति । णत्वाभावपक्षे माषवापिनौ, माषवापानि, मावापेन इत्युदाहार्यमिति भावः ।
ननु गर्गाणां भगिनी गगंभगिनीत्यत्र ङीष्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वात् नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह- उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम् । तच्च प्रातिपदिकस्यैव, विशेचणम् नतु तदन्तस्य नापि नुम्विभक्त्योः, असम्भवादिति भावः । हेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रह
For Private and Personal Use Only