________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
समासाश्रयविधि
-
-
स्वाण्णत्वम् । (१०५१) विभाषौषधिवनस्पतिभ्यः ४६॥ एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम्-दूर्वावनम् । शिरीषवणम्-शिरीषवनम् । 'द्वयच्च्य. उभ्यामेवा ( वा ४९८४ ) नेह । देवदारुवनम् । 'इरिकादिभ्यः प्रतिषेधो वक्तव्यः' (वा ४९८५)। इरिकावनम् । मिरिकावनम् । तिमिरावनम् । (१०५२) वाहनमाहितात् ८४८॥ आरोप्य यदुह्यते तद्वाचिस्थानिमित्तात्परस्य वाहननका. रस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेल्युटि वृद्धिरिहैव सूत्रे निपातनात् । (१०५३) पानं देशे माह पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। सुरापाणाः प्राच्याः । पीयत इति पानम् । निर्वणं, अन्तर्वणं, शरवणम् , इक्षुवणम् , प्लक्षवणं, आम्रवर्ण, कार्यवणं, खदिरवणं, पीयूक्षावणम् ।
विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति-दूर्वावणमिति । 'ओषध्यः फलपाका. न्ताः' इत्यमरः । अथ वनस्पतिभ्यः उदाहरति-शिरीषवणमिति । यद्यपि यः पुष्पैविना फलति स एव उदुम्बरादिर्वनस्पतिः. 'वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः' इत्युक्तेः । शिरीषवृक्षश्वायं पुष्पफलवानेव न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्य विवक्षितम् । अत एव 'लुपि युक्तवद्वयक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक । द्वथ च्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य गत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् । वाहने आधीयते वह · नाय यत् , नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह-प्रारोप्येति । निमित्ता. दिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्ये. त्यर्थः । अनेन सूत्रे वाहनमिति षष्ठयथें प्रथमेति सुचितम् । इक्षुवाहणमिति । इक्षवा हि वहनाय परैरारोप्यन्ते, नतु स्वयमेवाराढुं शक्नुवन्ति इति तेषामाहितत्वं बोध्यम् । आरोपितेक्षुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति । ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्नाहितत्वमिति भावः। यदि कदाचित् अन्येन वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहन, तदा प्रत्युः दाहरणमिति मनसि निधायाह-इन्द्रस्वामिकमिति । ननु वहेः करणे ल्युटि कथमुपधा. दीर्घः, णित्प्रत्ययपरकत्वाभावादित्यत आह-वहेर्युटिति ।
पानं देशे। पानमिति षष्ठयथें प्रथमेत्यभिप्रेत्याह-पानस्येति । उशीनरा इति ।
For Private and Personal Use Only