SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७० सिद्धान्तकौमुदी [ तद्धिते शैषिक श्मिकम् । आन्तर्गणिकम् । 'अध्यात्मादेष्टञिष्यते' ( वा २८६९ ) अध्यात्मं भवम् आध्यात्मिकम् । (१४३८) अनुशतिकादीनां च ७।३।२०। एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् | आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः । (१४३६) देविकाशिंशपादित्यवाड़दीर्घसत्रश्रेयसामात् ७ | ३ | १ | एषां पञ्चानां वृद्धिप्राप्तावादेरचः आत् मिति णिति किति च । दाविकम् । देविकाकूले भवाः दाविकाकूलाः शालयः । शिंशपाया -विकारः शांशपश्चमसः। ' पलाशादिभ्यो वा' ( सू १५२१ ) इत्यन् । दित्यौहः इदं दात्यौहम् । दीर्घसत्त्रे भवं दार्घसत्त्रम् । श्रेयसि भवं श्रायसम् । (१४४० ) ग्रामात्पर्यनुपूर्वात् ४/३/६१ | ठञ् स्यात् । अव्ययीभावात् इत्येव । पारिप्रामिकः । अनुप्रामिकः 1. (१४४२) जिह्वामूलाङ्गुलेश्छः ४१३१६२ | जिह्वामूलीयम् । (१४४२) वर्गान्ताच्च ४ | ३ | ६३ | कवर्गीयम् । (१४४३) अशब्दे अन्तःपूर्वपदाट्ठञ् । वेश्मनि अन्तर्वेश्ममिति । विभक्त्यर्थे अव्ययीभावः । 'अन' इति टच् । श्रन्तर्वेश्मिकमिति । ठज्, इकः, सुब्लुक्, टिलोपः आदिवृद्धिः । आन्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । श्रध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः । श्रनुशतिकादीनां च । आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह - एषामिति । श्रधिदैविकमिति । देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपदवृद्धिः आधिभौतिकमिति । भूतेष्वधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः । 1 , देविका । आदिवृद्धिप्रकरणे इदं सूत्रम् । रषामिति । देविका, शिशपा, दित्यवाह, दीर्घसूत्र, श्रेयस् इत्येषामित्यर्थः । वृद्धिमाप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरचः आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अजि वृद्धि:, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दास्यौहमिति । दित्यवाशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊठ्' इति सम्प्रसारणं, पूर्वरूपम् । 'एत्येधत्यूट्सु इति वृद्धिः । इकारस्य आदिवृद्ध्यपवादः आकारः । दार्घसत्रमिति । 'तस्येदम्' इत्यण् आदेरीकारस्य आकारः । श्रायसमिति । तत्र भवः इत्यणि एकारस्य आकारः । ग्रामास्पर्यनुपूर्वात् । ठञ् स्यादिति । 'अन्तः पूर्वपदात्' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलाङ्गुलेश्छः | 'शरीरावयवाच्च' इति यतोऽपवादः । वर्गान्ताच्च । कवर्गीयमिति । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy